२६ अतीन्द्रियदर्शिपुरुष-परीक्षा

अनल्पकल्पासङ्ख्येयसात्मीभूतमहादयः। यः प्रतीत्यसमुत्पादं जगाद वदतां वरः। तं सर्वज्ञं प्रणम्यायं क्रियते तत्त्वसङ्ग्रहः॥ इत्यनेन यत्सर्वज्ञोपदिष्टत्वं प्रतीत्यसमुत्पादस्य विशेषणमुक्तं तत्समर्थनार्थं प्रस्तावमात्रं रचयन्नाह—“एव”मित्यादि।

एवं सर्वप्रमाणानां प्रमाणत्वे स्वतोऽस्थिते।
अतीन्द्रियार्थवित्सत्त्वसिद्धये न प्रयत्यते॥ ३१२४॥

एवमनन्तरोक्तेन न्यायेन यदा सर्वेषामेव प्रमाणानां न स्वत एव प्रामाण्यमिति स्थितम्। अतोऽयत्नेनैवातीन्द्रियार्थदर्शी पुरुषः सिद्ध इति न तत्सिद्धये पृथक्प्रयत्नान्तरमास्थीयते॥ ३१२४॥

स्यादेतत्—कथं यत्नमन्तरेण सिद्ध्यतीत्याह—“वेदस्यापी”त्यादि।

वेदस्यापि प्रमाणत्वं यस्मात्पुरुषतः स्थितम्।
तस्य चातीन्द्रियज्ञत्वे ततस्तस्मिन्प्रमाणता॥ ३१२५॥

अन्यथाज्ञानसन्देहविपर्यासानुषङ्गिणि।
पुंसि कर्त्तरि नैवास्य प्रामाण्यं स्यात्तदन्यवत्॥ ३१२६॥

स्वर्गयागादिसम्बन्धो ज्ञात्वा तद्येन भाषितः।
विस्पष्टातीन्द्रियज्ञानः सोऽभ्युपेयः परैरपि॥ ३१२७॥

“तस्य” चेति। पुरुषस्य। “तत” इति। पुरुषात्कर्तुः। “तस्मि”न्निति। वेदे। प्रमाणतेत्येतदपेक्षाऽधिकरणसप्तमी। “प्रमाणते”ति। अविपरीतातीन्द्रियार्थप्रतिपादकत्वम्। एतच्च परमतापेक्षयाऽभिहितम्। एतदुक्तं भवति—यदि भवद्भिरवश्यं वेदस्य प्रामाण्यमभ्युपेयते तदाऽस्य पुरुषादिव कर्तुः प्रामाण्यं युक्तम्, न स्वत इति, एतच्च पूर्वं प्रतिपादितम्। स च वेदस्य कर्त्ता यद्यतीन्द्रियदृग्भवति तदाऽस्य ततः कर्तुरपिप्रमाणता युक्ता, अन्यथा हि विपरीतसंशयज्ञानादियुक्ते कर्त्तरि सत्युन्मत्तादिवाक्यवद्वेदोऽप्रमाणतामेवाश्नुवीत। तस्माद्योऽसौ वेदकर्त्ता पूर्वं श्रुतिपरीक्षायां प्रसाधितः, परैरपि मीमांसकैरतीन्द्रियार्थदर्शी सामर्थ्यादङ्गीकर्त्तव्य इति तत्प्रतिक्षेपो न कार्यः। तथाहि सर्वेषामेव पुंसां रागादिदोषतिमिरोपहतबुद्धिलोचनतया नातीन्द्रियार्थदर्शित्वमस्तीत्यवगम्य तत्प्रतीतेष्वागमेष्वप्रतिष्ठितप्रामाण्यप्रत्याशो धर्माधर्मावगमार्थी नरस्तीरादर्शीव शकुनिर्वेदमेव किल प्रमाणयिष्यतीति मन्यमानैर्यद्वा गुणद्रविणदारिदद्र्योपहता (त?)विमोक्षतया जैमिनीयैरतीन्द्रियार्थदृक्प्रतिक्षिप्यते—सर्व एव हि पुरुषा रागादिभिरविद्यया च तदुपशमोपायवैकल्याद्विप्लुतास्तस्मान्नास्त्यतीन्द्रियार्थदर्शी कश्चिदिति चोदनालक्षण एवार्थो धर्मो नेन्द्रियादिलक्षणः, चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवञ्जातीयकमर्थं शक्नोत्यवगमयितुं नान्यत्किञ्चनेन्द्रियमति। प्रमाणयन्ति चात्र। यः प्रमाणपञ्चकविरहस्वभावाभावप्रमाणविषयीकृतविग्रहः स विदुषामभावव्यवहारगोचरतामेवावतरति, यथा गगननलिनम्, अभावप्रमाणविषयीकृतविग्रहश्च सर्वदर्शी पुरुष इति स्वभावहेतुः। व्यवहारयोग्यतायाः साध्यत्वात्। अभावस्त्वभावप्रमाणत एव सिद्धः ॥ ३१२५॥ ३१२६॥ ३१२७॥

ननु चैतावदेव सर्वं प्रमेयं वस्तु, यदुत पञ्चविषया रूपादयः, तांश्च जानन्तो नरा लोकेऽतिप्रतीता एवेति। ततश्च प्रतीतिबाधा प्रतिज्ञाया इत्येतदाशङ्क्याह—“धर्मज्ञत्वनिषेध” इत्यादि।

धर्मज्ञत्वनिषेधश्चेत्केवलोऽत्रोपयुज्यते।
सर्वमन्यद्विजानानः पुरुषः केन वार्यते॥ ३१२८॥

अत्र हि वेदप्रामाण्यसिद्धौ धर्मात्मविश्वपरिज्ञातृत्वनिषेधमात्रं विवक्षितम्, नतुसर्वशब्दाभिधेयमात्रपरिज्ञातृत्वनिषेधः, तेन धर्माधर्मव्यतिरिक्ताशेषपदार्थपरिज्ञानापेक्षया यः कस्मिंश्चित्पुंसि सर्वज्ञव्यवहारो लोकस्य सम्भवति न तस्य प्रतिषेधोऽस्माभिः क्रियते, अतो न प्रतीतिबाधा सम्भवतीति भावः॥ ३१२८॥

किञ्च—यदि भवद्भिरपि बौद्धैर्धर्माधर्मज्ञव्यतिरेकेणान्यस्मिन्पुंसि सर्वज्ञत्वं प्रसज्यते तदा सिद्धसाध्यतेति दर्शयन्नाह—“सर्वशब्दश्चे”त्यादि।

सर्वशब्दश्च सर्वत्र प्रकृतापेक्ष इष्यते।
ततः प्रकृतसर्वज्ञे सति किं नोऽवहीयते॥ ३१२९॥

किञ्च तत्प्रकृतं(?) सर्वमित्युच्यत इति दर्शयति—“अर्थे चे”त्यादि।

अर्थे चासम्भवात्कार्यं किञ्चिच्छब्देऽपि कल्प्यते।
तत्र यः सर्वशब्दज्ञः स सर्वज्ञोऽस्तु नामतः॥ ३१३०॥

यथाहि—व्याकरणेऽग्निर्दृगित्यादिना लक्षणेन प्रत्ययागमादि कार्यं विधीयमानमर्थे न सम्भवतीति सामर्थ्यादर्थवाचिनि शब्देऽवगम्यत इति वैयाकरणैर्वर्ण्यते तद्वद्यदि भवद्भिरपि सर्वस्य केनचित्परिज्ञातुमशक्यत्वादिति कृत्वा स (स्व ?)सिद्धान्तपरिपठितस्य सर्वज्ञशब्दस्य यत्सर्वपदं तस्य स्वरूपप्रधानतामाश्रित्य सर्वशब्दं यो वेत्ति स सर्वज्ञ इत्येवं वर्ण्यते, तदास्तु—भवतु, नामतः—सञ्ज्ञामात्रात्, नहि यथेष्टं नाम कुर्वाणस्य कस्यचित्क्वचित्प्रतिरोद्धा स्वतन्त्रेच्छामात्रप्रभवत्वान्नान्न इति भावः॥ ३१३०॥

अथापि प्रकृतं किञ्चित्तैलोदकघृतादिव (य ?)त्।
तेन सर्वेण सर्वज्ञस्तथाऽप्यस्तु न वार्यते॥ ३१३१॥

अथापि धर्माधर्माभ्यां यदन्यत्तैलोदकघृतादि सर्वत्वेन विवक्षितम्, तेन सर्वेण विषयीकृतेन सता सर्वज्ञ इतीष्यते तथापि सिद्धसाध्यता॥ ३१३१॥

किञ्च—सामान्याकारतः विश्वस्य जगतः सङ्क्षेपपरिज्ञानाद्वा सर्वज्ञ इष्टः, आहोस्विद्विशेषाकारेण विस्तरपरिज्ञानात्, तत्राद्ये पक्षे सिद्धसाध्यतेति दर्शयति—“भावाभावे”त्यादि।

भावाभावस्वरूपं वा जगत्सर्वं यदोच्यते।
तत्सङ्क्षेपेण सर्वज्ञः पुरुषः केन नेष्यते॥ ३१३२॥

एवं ज्ञेयप्रमेयत्वसङ्क्षेपेणापि सर्वताम्।
आश्रित्य यदि सर्वज्ञः कस्तं वारयितुं क्षमः॥ ३१३३॥

सर्वमेव हि जगदितरेतराभावादिस्वभावत्वादभावस्वभावं, विधिरूपतया व्यवस्थितत्वात् भावस्वभावमिति यदेतदस्माभिर्भावाभावस्वभावत्वं सर्वजगद्व्यपी सामान्यधर्मो वर्णितः, तेन रूपेण सर्वजगत्परिज्ञानाद्यदि सर्वज्ञः प्रसाध्यते, तथापीष्टमेव, न ह्येतावता धर्मज्ञत्वं प्रसिद्ध्यति कस्यचित्। “तत्सङ्क्षेपेणे”ति। तदेव भावाभावरूपत्वं जगतः सङ्क्षेपः, सङ्क्षिप्यतेऽनेनेति कृत्वा। एवं प्रमेयत्वादिभिः सामान्यधर्मैः परिज्ञानेऽपि सिद्धसाध्यता॥ ३१३२॥ ३१३३॥

पदार्था यैश्च यावन्तः सर्वत्वेनावधारिताः।
तज्ज्ञत्वेनापि सर्वज्ञाः सर्वे तद्ग्रन्थवेदिनः॥ ३१३४॥

अथापि स्याद्यैः स्वस्मिन्स्वस्मिन् शास्त्रे यावन्तः पदार्थाः सर्वत्वेनावधार्य निर्दिष्टाः—यथा बौद्धैः पञ्च स्कन्धाः वैशेषिकैः षट् पदार्थाः, नैयायिकैः प्रमाणप्रमेयादयः षोडश, साङ्ख्यैः प्रकृतिमहदादयः पञ्चविंशतिरित्येवमादि, तत्परिज्ञानात्सर्ववित्प्रसाध्यत इति। एवं सत्यतिप्रसङ्गः, तद्ग्रन्थार्थवेदिनोऽन्ये येऽध्येतारः ते सर्वज्ञाः प्राप्नुवन्ति॥ ३१३४॥

तथा षड्भिः प्रमाणैर्यः षट्प्रमेयविवेकवान्।
सोऽपि सङ्क्षिप्तसर्वज्ञः कस्य नाम न सम्मतः॥ ३१३५॥

अथापि स्याद्यो हि प्रत्यक्षानुमानशब्दोपमानार्थापत्त्यभावाख्यैः षड्भिः प्रमाणैर्यथास्वमेषां विषयषटङ्क विवेकेन परिजानाति स सर्वज्ञ इति, अत्रापि सिद्धसाध्यता।तथाहि—प्रत्यक्षं रूपादिविषयपञ्चकनियतत्वान्न धर्माधर्मविषयम्। अनुमानमपि प्रत्य क्षगृहीतलिङ्गसम्बन्धलिङ्गिविषयत्वान्न तद्विषयम्, धर्मादेरतीन्द्रियत्वेन केनचित्सम्बन्धस्य गृहीतुमशक्यत्वात्। शाब्दं यद्यपि सर्वं परोक्षाविषयं, तथापि न तेनज्ञानेनातीन्द्रियार्थदर्शी भवितुमर्हति, तस्य ज्ञानस्य परोक्षार्थविषयत्वेनाप्रत्यक्षत्वात्।नचाप्रत्यक्षज्ञानात्सङ्गी पुरुषः साक्षाद्दर्शी युज्यते। उपमानमपि सादृश्यतदुपाधिविषयत्वान्न धर्माधर्मादिविषयम्, यथोक्तम्— तस्माद्यत्स्मर्यते तत्स्यात्सादृश्येन विशेषितम्। प्रमेयमुपमानस्य सादृश्यं वा तदाश्रितम्॥ इति। अर्थापत्तिरपि दृष्टश्रुतार्थान्यथानुपपत्तिपरिकल्प्यार्थान्तरविषया, नासौ धर्मादिगोचरा, नहि कश्चिद्दृष्टः श्रुतो वार्थोऽस्ति यो धर्मादिना विना नोपपन्नः। भवतु वा धर्मादिविषयत्वमर्थापत्तेः, तथाऽपि तस्या अप्रत्यक्षस्वभावत्वान्न तत्सङ्गी धर्मादिसाक्षाद्दर्शी सिद्ध्यति। अभावस्य तु प्रमेयाभावविषयत्वादेवायुक्तं धर्मादिविषयत्वम्॥ ३१३५॥

एवं तावत्सङ्क्षिप्तसर्वज्ञप्रसाधने सिद्धसाध्यतेति प्रतिपादितम्, इदानीं विस्तरेणाशेषजगत्परिज्ञानात्सर्वज्ञत्वसाधने दोषमाह—“विशेषेणे”त्यादि।

विशेषेण तु सर्वार्थसाक्षात्प्रत्यक्षदर्शिनम्।
यः कल्पयति तस्यासौ मुधा मिथ्या च कल्पना॥ ३१३६॥

“मुधे”ति। निष्फला। पुरुषार्थसिद्धावनुपयोगात्। “मिथ्ये”ति। असम्भावनीयार्थविषयत्वाद्वितथा॥ ३१३६॥

तदेवासम्भावनीयविषयत्वमस्या दर्शयति—“एकस्यैवे”त्यादि।

एकस्यैव शरीरस्य यावन्तः परमाणवः।
केशरोमाणि यावन्ति कस्तानि ज्ञातुमर्हति॥ ३१३७॥

एकशरीरान्तर्गताशेषपरमाणुप्रविभागपरिज्ञानमेव तावत्खलु पुंसामसम्भाव्यम्, किमुताशेषजगद्गतसूक्ष्मादिविशेषपरिज्ञानं भविष्यति॥ ३१३७॥

मुधात्वं कल्पनाया दर्शयन्नाह—“समस्तावयवे”त्यादि।

समस्तावयवव्यक्तिविस्तरज्ञानसाधनम्।
काकदन्तपरीक्षावत्क्रियमाणमनर्थकम्॥ ३१३८॥

अवयवाश्च पाण्यादयः व्यक्तयश्च धवखदिरपलाशादय इत्यवयवव्यक्तयः, समस्ताश्च ता अवयवव्यक्तयश्चेति विग्रहः, तासामणुकेशपत्रादिलक्षणं विस्तरं जानातीति तथोक्तम्। कृत्यल्युदो बहुलमिति कर्त्तरि ल्युट्। तस्य साधनं प्रतिपादितम्। तदनर्थकम्—असम्भवित्वेन धर्माधर्माविषयत्वेन तु पुरुषार्थं प्रत्यनुपयोगित्वादिति भावः॥ ३१३८॥

एतदेव दृष्टान्तेनोपपादयन्नाह—“यथे”त्यादि।

यथा च चक्षुषा सर्वान्भावान्वेत्तीति निष्फलम्।
सर्वप्रत्यक्षदर्शित्वप्रतिज्ञाऽप्यफला तथा॥ ३१३९॥

एतेन सिद्धसाध्यत्वं प्रतीतिबाधितत्वं च प्रतिज्ञाया यथायोगमुक्तं भवति ३१३९

यत्र तु विवादो यत्साधने च पुरुषार्थोपयोगित्वं तद्दर्शयति—“स्वधर्मे”त्यादि।

स्वधर्माधर्ममात्रज्ञसाधनप्रतिषेधयोः।
तत्प्रणीतागमग्राह्यहेयत्वे हि प्रसिद्ध्यतः॥ ३१४०॥

तत्र सर्वजगत्सूक्ष्मभेदज्ञत्वप्रसाधने।
अस्थाने क्लिश्यते लोकः संरम्भाद्ग्रन्थवादयोः॥ ३१४१॥

स्वकीयश्चासौ धर्माधर्ममात्रज्ञश्चेति तथोक्तः तस्य साधनप्रतिषेधाविति विग्रहः। सप्तमीयम्। तत्प्रणीतस्यागमस्य ग्राह्यत्वहेयत्वे हि प्रसिद्ध्यत इति यथाक्रमं सम्बन्धः। एतदुक्तं भवति—यदि साधनवादी स्वकीयशास्तारं धर्माधर्मज्ञं साधयति तदा तस्य साधने कृते सति तत्प्रणीतागमस्य ग्राह्यता सिद्ध्यति। दूषणवादी च यदि पराभ्युपगतं स्वधर्माधर्ममात्रज्ञं प्रतिषेधति तदा तस्य निषेधे कृते सति दूषितधर्माधर्मज्ञप्रणीतस्यागमस्य हेयत्वं प्रसिद्ध्यति। यत्पुनर्धर्माधर्मविषया चित्रा(न्ता?)मपहाय स्वपरप्रसिद्धस्य सर्वज्ञस्य सकलजगद्गतः सूक्ष्मादिभेदज्ञत्वाज्ञत्वसाधनायसाङ्ख्यबौद्धादिभिर्ग्रन्थरचनायां वादे वा संरम्भः क्रियते स केवलमेषां सङ्क्लेशफल एव। सर्वजगत्सूक्ष्मभेदज्ञत्वप्रसाधन इति निमित्तसप्तमी। ग्रन्थवादयोरित्यत्र तु संरम्भापेक्षाऽऽधारसप्तमी॥ ३१४०॥ ३१४१॥

स्यादेतद्यदि न कश्चिद्धर्मादिपरिज्ञाताऽस्ति नरस्तदा लोके कथं पुण्यापुण्यावगतिर्भव(ती)त्याशङ्कायामाह—“सर्वप्रमातृसम्बद्धे”त्यादि।

सर्वप्रमातृसम्बद्धप्रत्यक्षादिनिवारणात्।
केवलागमगम्यत्वं लप्स्यते पुण्यपापयोः॥ ३१४२॥

एतावतैव मीमांसापक्षे सिद्धेऽपि यःपुनः।
सर्वज्ञवारणे यत्नस्तत्कृतं मृतमारणम्॥ ३१४३॥

येऽपि विच्छिन्नमूलत्वाद्धर्मज्ञत्वे हते सति।
सर्वज्ञान्पुरुषानाहुस्तैः कृतं तुषकण्डनम्॥ ३१४४॥

“केवलागमगम्यत्व”मिति। आगममात्रगम्यत्वमित्यर्थः। यद्यप्यागमशब्दः सामान्यवचनस्तथाप्यर्थादपौरुषेयागमनिष्ठ एव द्रष्टव्यः। “एतावतैवे”ति। धर्मज्ञत्वनिषेधमात्रेण चोदनालक्षणोऽर्थो धर्म इत्यस्मिन्मीमांसापक्षे सिद्धेऽपि योऽस्माभिर्वक्ष्यमाणो भूयः सर्वज्ञपुरुषनिषेधाय यत्नः क्रियते सोऽभिमतफलसिद्धेर्जातत्वात्प्राप्तफलस्य मृतमारणवन्निष्फलः, यश्च बौद्धादीनां धर्मज्ञेऽभावप्रमाणेन हते सति सर्वज्ञसाधनाय यत्नः सोऽपि समीहितफलाभावात्तुषकण्डनं तन्दुलार्थिनः केवलमायासमात्रफल एव। यथा तुषान्तर्गततन्दुलपरित्यागेन तन्दुलार्थिनः केवलं तुषकण्डनमेवं बौद्धादौ स्वतःप्रधानभूतधर्मज्ञपरित्यागेनानुपयुज्यमानाशेषजगद्गतसूक्ष्मादिभेदज्ञसाधनमित्येतत्तुषकण्डनसाधर्म्यम्। “विच्छिन्नमूलत्वा”दिति। विच्छिन्नं मूलं प्रधानं धर्मात्मकवस्तुपरिज्ञानं येषां ते तथोक्ताः। तद्भावस्तत्त्वम्॥ ३१४२॥ ३१४३॥ ॥ ३१४४॥

न केवलमेषां बौद्धादीनां सर्वज्ञं साधयतामभीष्टफलासिद्धिरपित्वनिष्टापत्तिरपीति दर्शयति—“साक्षा”दित्यादि।

साक्षात्प्रत्यक्षदर्शित्वाद्यस्याशुचिरसादयः।
स्वसंवेद्याः प्रसज्यन्ते को नु तं कल्पयिष्यति॥ ३१४५॥

स्यादेतत्सुगतादीनां सकलपदार्थराशितत्त्वोपदेशादनुमितः सर्वज्ञभाव इत्यनुमानबाधितत्वं प्रतिज्ञाया हेतोश्चासिद्धत्वमित्याशङ्क्याह—“नचे”त्यादि।

नच वेदोपवेदाङ्गप्रत्यङ्गाद्यर्थबोधनम्।
बुद्धादेर्दृश्यते वाक्यं स सर्वज्ञः कथं मुधा॥ ३१४६॥

वेदाः—ऋग्यजुःसामसञ्ज्ञकाः, उपवेदाः—आयुर्वेदधनुर्वेदादयः, अङ्गानिवेदानां षट्, शिक्षा कल्पो व्याकरणं छन्दो निरुक्तं ज्योतिषमिति, प्रत्यङ्गानि—तदवयवा धात्वादयः, आदिशब्देन तत्परिकरस्य भाष्यादेः परिग्रहः। एषामर्थोऽभिधेयस्तस्य बोधनम्—प्रतिपादकं वचनं तत्तथाभूतं वाक्यं बुद्धादेर्न दृश्यते, यद्वेदाद्युपदिष्टमर्थं प्रतिपादयतीत्यर्थः। नहि कस्यचिदखिलपदार्थराशिप्रतिपादकशास्त्रप्रणयनन्दृश्यते, सर्वशास्त्राणां भिन्नाभिधेयत्वदर्शनात्॥ ३१४६॥

अथापि स्यात्कियन्मात्रपदार्थोपदेशदर्शनात् बुद्धादेरन्योऽपि स्वग्रन्थानुपदिष्टोऽर्थोविज्ञातत्वेनानुमीयते परिज्ञानशक्तिदर्शनात्, ततश्च तदवस्थ एव दोष इत्याह—“स्वग्रन्थे”ष्वित्यादि।

स्वग्रन्थेष्वनिबद्धोऽपि स्वज्ञातोऽर्थो यदीष्यते।
सर्वज्ञाः कवयः सर्वे स्युः स्वकाव्यनिबन्धनात्॥ ३१४७॥

यदि ग्रन्थेषु अनिबद्धोऽपि—अनुपदिष्टोऽपि योऽर्थः स तैर्विज्ञात इष्यतेऽनुमानबलात्तदा स्वोत्प्रेक्षितकथाप्रबन्धकारिणोऽपि कवयः परिज्ञानशक्तिदर्शनात्सर्वज्ञाः कल्प्याः स्युः, अविशेषादित्यनैकान्तिकता हेतोः॥ ३१४७॥

स्यादेतद्बुद्धादीनामतीन्द्रियपदार्थोपदेशो दृश्यते न तु कवीनाम्, तेन तेषामेवाशेषातीन्द्रियार्थपरिज्ञानमनुमीयते नान्येषाम्, अन्यथा हि यस्याशेषातीन्द्रियार्थपदार्थपरिज्ञानसामर्थ्यं नास्ति, तस्य कियन्मात्रातीन्द्रियार्थपरिज्ञानमपि न स्यादविशेषात्। तेनातीन्द्रियार्थपरिज्ञातृत्वे सतीति सविशेषणत्वाद्धेतोर्न कविभिर्व्यभिचार इत्याशङ्क्याह—“सर्वज्ञेष्वि”त्यादि।

सर्वज्ञेषु च भूयस्सु विरुद्धार्थोपदेशिषु।
तुल्यहेतुषु सर्वेषु को नामैकोऽवधार्यताम्॥ ३१४८॥

बहुतरेषु सुगतकपिलकणभक्षाक्षपादादिषु तद्भक्तैः सर्वज्ञत्वेनोपकल्पितेषु साध्येषु कतम एकोऽत्र सर्वज्ञत्वेनावधार्यतां निश्चीयताम्, सर्वेषामतीन्द्रियार्थोपदेष्टृत्वस्य सर्वज्ञनिश्चयहेतोस्तुल्यत्वात्। नच सर्व एव सर्वज्ञा इत्यवधारयितुं युक्तम्,सर्वेषां परस्परविरुद्धार्थोपदेष्टृत्वात्। नहि परस्परहितोपदेष्टारः सर्व एव तत्त्वदर्शिनो युक्ता वस्तूनामेकरूपत्वेन परस्परविरुद्धानेकस्वभावसंसर्गाभावात्॥ ३१४८॥

सुगत एकोऽवधार्यत इति चेदाह—“सुगतो यदी”त्यादि।

सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा।
अथोभावपि सर्वज्ञौ मतभेदस्तयोः कथम्॥ ३१४९॥

द्वावपि तर्हि सर्वज्ञौ भवेतामिति चेदाह—“अथोभवापी”त्यादि॥ ३१४९॥

अथापि स्यात्—यस्य वचनं सत्यार्धमुपलब्धमेकदा तस्यैवाविपरीताशेषपदार्थतत्त्वपरिज्ञानमनुमीयत इत्याह—“गणिते”त्यादि।

गणिताद्येकदेशे तु सर्वेषां सत्यवादिता।
जिनबुद्धादिसत्त्वानां विशेषो नावधार्यते॥ ३१५०॥

सर्वेषां हि जिनबुद्धादीनां देहिनां गणिताद्येकदेशेषु क्वचिदविसंवादि वचो दृश्यत एव। नह्यनल्पं प्रलपताम् ( प्रजल्पतां ? ) न किञ्चित्सत्यार्थं भवेत्, यथोक्तम्—नह्येकं नास्ति सत्यार्थं पुरुषे बहुभाषिणि इति। ततश्च तुल्यहेतुतः सर्वेषामेवविशेषाऽनवधारणात्सर्वज्ञता प्राप्नोति, नचैतद्युक्तम्, परस्परविरुद्धार्थोपदेशादितिपूर्वमुक्तत्वात्॥ ३१५०॥

अथापि स्याद्यस्य वचनं सर्वत्र प्रमाणैर्निवार्यमाणं व्याहर्तुं न पार्यते स एव सर्वज्ञो भविष्यतीत्याह—“येनैवे”त्यादि।

येनैव हेतुनैकस्य सर्वज्ञत्वं प्रसाध्यते।
स्वपक्षप्रीतिमात्रेण सोऽन्यस्याप्युपतिष्ठते॥ ३१५१॥

दूषणानि ससंरम्भाः सर्वज्ञजिनसाधने।
शाक्या यान्येव जल्पन्ति जैनास्तान्येव युञ्जते॥ ३१५२॥

तत्रानवस्थितैस्तेषां भिन्नैः साधनदूषणैः।
प्रतिबिम्बोदयग्रस्तैर्निर्णयः क्रियते कथम्॥ ३१५३॥

यो हि हेतुः सुगतसर्वज्ञ(ता)साधनायोपादीयते सुगतसुतैः। यथा साक्षाद्विदितसकलार्थतत्त्वः सुगतः, अश्रुताननुमिताविपरीतार्थोपदेष्टृत्वात्, यथा प्रत्यक्षावगतसलिलादिस्तदुपदेष्टेति। अयमेव दिगम्बराणां जिनसर्वज्ञ(ता)साधनाय हेतुरुपतिष्ठते। ततश्च तदवस्थ एव सन्देहः। तथा जिनसर्वज्ञ(ता)साधनाय दिगम्बरैः साधने कृते यानि दूषणानि शाक्यैरुपादीयन्ते—तदुपदिष्टानां स्याद्वादादीनामयोगान्नासौ सर्वज्ञ इति, तानि शाक्यैः सुगतसर्वज्ञसाधने कृते जैना अप्युपाददते—नासौ सर्वज्ञस्तदुपदिष्टानां क्षणभङ्गादीनामयोगादिति। ततश्च यथा बिम्बसन्निधानानन्तरं प्रतिबिम्बोदय एवमेषां साधनदूषणानन्तरं परस्परप्रत्यनीकभूतानि साधनदूषणान्युपतिष्ठन्त इति तत्कथमेभिः साधनदूषणैरनवस्थितैः प्रतिबिम्बोदयेनैव ग्रस्तैर्निर्णयः क्रियते कस्यचित्सर्वज्ञत्वेन॥ ३१५१॥ ३१५२॥ ३१५३॥

स्यादेतत्—यस्य न केनचित्परमार्थतो दूषणं शक्यते कर्तुम्, स एव सर्वज्ञत्वेन विज्ञास्यत इत्याह—“एव”मित्यादि।

एवं सर्वज्ञकल्पेषु निहतेषु परस्परम्।
अल्पशेषीकृतान्सर्वान्वेदवादी हनिष्यति॥ ३१५४॥

आत्मानमुत्कर्षयन्नाह—“यथा नकुले”त्यादि।

यथा नकुलदन्ताग्रस्पृष्टा या काचिदौषधिः।
सर्वं सर्पविषं हन्ति क्रीडद्भिरपि योजिता॥ ३१५५॥

वेदवादिमुखस्थैवं युक्तिर्लौकिकवैदिकी।
या काचिदपि शाक्यादिसर्पज्ञानविषापहा॥ ३१५६॥

का पुनरसौ या काचिद्युक्तिरित्याह—“यस्ये”त्यादि।

यस्य ज्ञेयप्रमेयत्ववस्तुसत्त्वादिलक्षणाः।
निहन्तुं हेतवः शक्ताः को नु तं कल्पयिष्यति॥ ३१५७॥

एकेनैव प्रमाणेन सर्वज्ञो येन कल्प्यते।
नूनं स चक्षुषा सर्वान् रसादीन्प्रतिपद्यते॥ ३१५८॥

यस्य हि ज्ञेयत्वादयः सपक्षविपक्षसाधारणत्वेनाप्रतीताः सन्तो बाधका भवन्ति, सोऽत्यन्तासम्भवीति न प्रेक्षावताऽभ्युपेयः। तथाहि—शक्यमिदं वक्तुं सुगतोऽसर्वज्ञो ज्ञेयत्वप्रमेयत्ववस्तुत्वसत्ववक्तृत्वपुरुषत्वादिभ्यो रथ्यापुरुषवदिति। नचाप्येतेऽनैकान्तिका भवन्ति। तथाहि—सर्वपदार्थज्ञानात्सर्वज्ञ इष्यते, तच्च सकलवस्तुपरिज्ञानं कदाचिदिन्द्रियज्ञानेन वा भवेत्, मनोज्ञानेन वा। न तावदिन्द्रियज्ञानेन, तस्य प्रतिनियतार्थविषयत्वादयुक्तमशेषार्थविषयत्वम्, तथाहि—चक्षुरादिज्ञानानि प्रतिनियतविषयग्रहणस्वभावान्येव स्वकारणैरिन्द्रियैर्नियामकैर्जनितानि, ततश्चानतिक्रान्तस्वविषयमर्यादानि लोकेऽतिप्रतीतानीति न युक्तमेतैरशेषार्थग्रहणम्। अन्यथा ह्यनेकेन्द्रियवैयर्थ्यप्रसङ्गः स्यात्। ततश्चैकेनैव ज्ञानेन सर्वधर्मान् भिन्नोन्द्रियग्राह्यानपि रसरूपादीन् जानातीत्येवं येन बौद्धेन कल्प्यते, “एकेन सर्वं जानाति सर्वमेकेन पश्यती”ति वचनान्नूनं स वादी बौद्धश्चक्षुषा करणभूतेन तद्द्वारप्रवृत्तेन ज्ञानेन सर्वधर्मान् रसादीनवगच्छतीति प्राप्तम्। न चैतच्छक्यते वक्तुम्। माभूदेकेन ज्ञानेन युगपदशेषार्थस्य ग्रहणम्, अनेकेन भविष्यतीति। यतो युगपदनेकविज्ञानासम्भवात्। सम्भवेऽपि न सर्वपदार्थग्रहणमस्ति, परचित्तस्येन्द्रियज्ञानाविषयत्वात्, अगोचरप्राप्तस्य च दूरसूक्ष्मव्यवहितादेरर्थस्य तेन ग्रहीतुमशक्यत्वात्॥ ३१५७॥ ॥ ३१५८॥

स्यादेतत्—यदि नाम चक्षुरादिज्ञानानां विजातीयार्थग्रहणमिदानीं न दृश्यते। तथाऽपि कालान्तरे कदाचिद्विजातीयार्थग्रहणमभूत्कस्यचिदिति सम्भाव्यत इत्याह—“यज्जातीयै”रित्यादि।

यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनम्।
दृष्टं सम्प्रति लोकस्य तथा कालान्तरेऽप्यभूत्॥ ३१५९॥

हेतुप्रतिबद्धो हि भावानां स्वभावप्रतिनियमो नाकस्मिकः, अन्यथा सर्वस्य सर्वस्वभावत्वप्रसङ्गः, ततश्च तथाविधहेतुप्रतिबद्धात्मलाभस्य कथमन्यथात्वं कदाचिदपि सम्भाव्यम्, नहि धूमकेतुप्रतिबद्धात्मसंस्थितेरन्यतो धूमस्योद्भवः सम्भाव्यत इति भावः। नापि मनोज्ञानेनेति पक्षः। तथाहि—यद्यपि तत्सर्वार्थविषयम्, तथापि न तस्य स्वातन्त्र्येणार्थग्रहणव्यापारोऽस्ति, अन्धबधिराद्यभावप्रसङ्गात्। पारतन्त्र्ये चेन्द्रियज्ञानपरिगृहीतार्थविषयत्वाद्दूरसूक्ष्मव्यवहितपरचित्तादेरर्थस्येन्द्रियज्ञानं (ना?)विषयीकृतस्य तेन परिच्छेदो न प्राप्नोति॥ ३१५९॥

स्यादेतत्—प्रज्ञादीनामभ्यासात्प्रतिपुरुषं तारतम्यभेददर्शनादत्यन्तप्रकर्षोऽपि सम्भाव्यत इत्यत्राह—“येऽपी”त्यादि।

येऽपि सातिशया दृष्टाः प्रज्ञामेधाबलैर्नराः।
स्तोकस्तोकान्तरत्वेन नत्वतीन्द्रियदर्शनात्॥ ३१६०॥

प्राज्ञोऽपि हि नरः सूक्ष्मानर्थान्द्रष्टुं क्षमोऽपि सन्।
स्वजातीरनतिक्रामन्नतिशेते परान्नरान्॥ ३१६१॥

नहि कस्यचिदभ्यासेऽप्यतीन्द्रियार्थदर्शित्वमुपलब्धम्। तथाहि—नरोऽतिप्राज्ञोऽपि निपुणबुद्धिगम्यतया सूक्ष्मानर्थानुपलब्धुं समर्थोऽपि स्वजातीः—मनुष्यजातिभाविनीः प्रकृतीरदिव्यचक्षुष्ट्वादिलक्षणा अनतिवर्तमान एताभ्यां नरानतिशयानो दृश्यते नतु दिव्यचक्षुष्ट्वादिना युक्तः कश्चिद्दृश्यते इति यावत्। ततश्च—“स पश्यति दिव्येन चक्षुषा सुविशुद्धेनातिक्रान्तमानुष्यकेन सत्वान्सुगतिमपि गच्छतो दुर्गतिमपि गच्छत” इत्यादि यद्बौद्धैरुपघोष्यते तत्किल नोपपद्यत इति भावः॥ ३१६०॥ ॥ ३१६१॥

भवतु नामाभ्यासादिभिरतिशयः सर्वासां बुद्धीनाम्, तथाऽप्येता अविलङ्घितस्वविषयसीमान एव सत्योऽतिशेरत इति विस्तरेण प्रतिपादयन्नाह—“श्रोत्रगम्येष्वि”त्यादि।

श्रोत्रगम्येषु शब्देषु दूरसूक्ष्मोपलब्धिभिः।
पुरुषातिशयो दृष्टो न रूपाद्युपलम्भनात्॥ ३१६२॥

चक्षुषाऽपि च दूरस्थसूक्ष्मरूपप्रकाशनम्।
क्रियतेऽतिशयप्राप्त्या नतु शब्दादिदर्शनम्॥ ३१६३॥

दूरसूक्ष्मेषूपलब्धयो—ज्ञानानि, ताभिरितीत्थम्भूतलक्षणे तृतीया, क्वचिद्दूरसूक्ष्मोपलब्धित इति यावत्, ततो हेतौ पञ्चमीं विधायाद्यादित्वात्तसिर्विधेयः। नतु शब्दादिदर्शनम्—चक्षुषा क्रियत इति सम्बन्धः॥ ३१६२॥ ३१६३॥

एतावतेन्द्रियधियां स्वविषयमर्यादानतिक्रमो दर्शितः, साम्प्रतं मनोविज्ञानस्याभ्यस्यमानविषयानतिक्रमेणैवातिशयो दृश्यते इति प्रतिपादयति—“एव”मित्यादि।

एवं शास्त्रविचारेषु दृश्यतेऽतिशयो महान्।
नतु शास्त्रान्तरज्ञानं त(स्मा)न्मात्रेणैव लभ्यते॥ ३१६४॥

एतदेव स्पष्टयन्नाह—“ज्ञात्वे”त्यादि।

ज्ञात्वा व्याकरणं दूरं बुद्धिः शब्दापशब्दयोः।
प्रकृष्यते न नक्षत्रतिथिग्रहणनिर्णये॥ ३१६५॥

ज्योतिर्विच्च प्रकृष्टोऽपि चन्द्रार्कग्रहणादिकम् (वित् ?)
न भवत्यादिशब्दानां साधुत्वं ज्ञातुमर्हति॥ ३१६६॥

तथा वेदेतिहासादिज्ञानातिशयवानपि।
न सर्गदेवताऽपूर्वप्रत्यक्षीकरणक्षमः॥ ३१६७॥

ज्योतिर्वेत्तिति ज्योतिर्वित्। वेदेतिहासादिषु ज्ञानानि तेषामतिशयः स विद्यते यस्येति विग्रहः। अपूर्वशब्देन धर्माधर्मावुच्येते॥ ३१६५॥ ३१६६॥ ३१६७॥

किञ्च—स्वविषयमर्यादातिक्रमेणाप्यतिशयो भवन्नात्यन्तप्रकर्षनिष्ठां गच्छति, अपि तु कियन्मात्रविशेषावधिरेव दृश्यत इत्येतद्दर्शयन्नाह—“दशहस्तान्तर”मित्यादि।

दशहस्तान्तरं व्योम्नो यो नामोत्प्लुत्य गच्छति।
न योजनमसौ गन्तुं शक्तोऽभ्यासशतैरपि॥ ३१६८॥

तथाहि यदि नाम केचिदुपचितश्लेष्मवपुषो हस्तमात्रव्योमोत्प्लवनासमर्थाः पश्चादभ्यासक्रमेण समासादितगात्रलाघवा दशहस्तान्तरगगनविलङ्घिनो जाताः, तथापि न ते योजनमेकमपि खङ्गपथमुत्पतितुं समर्थाः प्रयत्नशतेनापि भवन्ति॥ ३१६८॥

“तस्मा”दित्यादिनोपसंहरति—

तस्मादतिशयज्ञानैरतिदूरगतैरपि।
किञ्चिदेवाधिकं ज्ञातुं शक्यते न त्वतीन्द्रियम्॥ ३१६९॥

अतिशयेन प्रकर्षेण ज्ञानानि अतिशयज्ञानानि। तृतीयेपि(ति?) योगविभागात्समासः। तैरिति करणतृतीया॥ ३१६९॥

एतदेव स्पष्टीकुर्वन्नाह—“एके”त्यादि।

एकापवरकस्थस्य प्रत्यक्षं यत्प्रवर्त्तते।
शक्तिस्तत्रैव तस्य स्यान्नैवापवरकान्तरे॥ ३१७०॥

ये चार्था दूरविच्छिन्ना देशपर्वतसागरैः।
वर्षद्वीपान्तरैर्ये वा कस्तान्पश्येदिहैव सन्॥ ३१७१॥

वर्षम्—लोकविशेषः। यथा भारतलोको भारतवर्षमित्युच्यते॥ ३१७०॥ ३१७१॥ अन्यैरप्यत्रास्माकं स्वहस्तो दत्त इति दर्शयन्नाह—“नले”त्यादि।

नलर्तुपर्णयोश्चासावश्वाक्षहृदयज्ञयोः।
संवाहे गच्छतोर्वाक्यमृतुपर्णेन भाषितम्॥ ३१७२॥

सर्वः सर्वं न जानाति सर्वज्ञो नोपपद्यते।
नैकत्र परिनिष्ठाऽस्ति ज्ञानस्य पुरुषे क्वचित्॥ ३१७३॥

“संवाह” इति। रथे। तथाहि किल श्रूयते—नलो नाम राजा बभूव। स किलाक्षहृदयानभिज्ञयता सकलमेव राज्यं द्यूतेन हारयाभास। तस्य च राज्ञी दमयन्ती नाम बभूव। सोऽपहृतसकलराज्यस्तया देव्या केवलया सार्द्धमरण्यमुपजगाम। तत्रागतस्यापि तत्र दैववशात्तया राज्ञा सह वियोगोऽभूत्। सोऽतीव समुपजातप्रियाविरहशोकाश्रुदुर्दिनवदनश्चिन्ताजलधिमवगाहमानोऽतिशयसञ्जातशरीरक्रशिमा परिभ्रमन्नितस्ततः कथमपि सङ्क्षेपाद्दृतुपर्णस्य राज्ञोऽनुजीविवृत्तिमास्थायाविदितस्थितोऽभूत्। साच तस्य राज्ञी कथं कथमपि पितृगृहमनुप्राप्ता बभूव। तस्याश्च पिता तत्स्वामिनस्तत्रागमनाय सर्वदेशेषु दमयन्त्याः स्वयंवरमुद्धोषयामास। श्रुतमृतुपर्णेन राज्ञा—यथा किल दमयन्तीस्वयंवरेति, स श्रुत्वा नलेन सारथिना तत्र गन्तुमभिप्रतस्थे। ऋतुपर्णश्चाक्षहृदयज्ञो नाश्वहृदयवेदी। नलस्त्वश्वहृदयज्ञो नाक्षहृदयाभिज्ञः। परिज्ञातमृतुपर्णेन यथाऽयमश्वहृदयज्ञ इति। स ज्ञात्वा तेनाभ्यधायि, भोः कथय मेऽश्वहृदयमिति। नलोऽप्यभिहितवान्—कथयामि यदि मम त्वमप्यक्षहृदयं कथय सीति। तत इदमृतुपर्णेन कीर्त्तितम्—सर्वः सर्वं न जानातीत्यादि। ततो नलेनराज्ञाऽक्षहृदयमृतुपर्णतो विदित्वा पुनरपि तद्राज्यं जित्वा प्रत्यानीतमिति वार्त्ता ॥ ३१७२॥ ३१७३॥

किञ्च—सर्वज्ञेन सताऽवश्यमतीतानागतं वस्तु ज्ञातव्यम्, अन्यथा हि प्रत्युत्पन्नमात्रपरिज्ञाने प्रदेशज्ञः स्यान्न सर्वज्ञः, न चानागतादिपरिज्ञानं सम्भवतीति दर्शयन्नाह—“अनागत” इत्यादि।

अनागतेन दृष्टं च प्रत्यक्षस्य मनागपि।
सामर्थ्यं नानुमानादिजन्म लिङ्गादिभिर्विना॥ ३१७४॥

प्रत्यक्षस्य वस्तुसामर्थ्यबलेनोत्पत्तेरनागतस्य चावस्तुत्वान्न तत्र प्रत्यक्षव्यापारः। नाप्यनुमानस्य, लिङ्गाभावात्। नह्यनागतवस्तुसम्बद्धं क्वचिद्विदितं लिङ्गमस्ति, अनागतस्याभावात्। आदिशब्देन दृष्टान्तपरिग्रहः। अनागतग्रहणमुपलक्षणम्, अतीतस्यापि ग्रहणं द्रष्टव्यम्। यतस्तत्राप्यवस्तुतया न प्रत्यक्षव्यापारोऽस्ति। तस्मात्सिद्धा प्रमेयत्वादेर्हेतुगणस्य व्याप्तिः। अत एव पूर्वोक्तस्याभावप्रमाणविषयीकृतविग्रहत्वादित्येतस्य हेतोर्व्याप्तिरुक्ता भवति॥ ३१७४॥

तदेवं हेतूनां व्याप्तिं प्रशाव्यो(साध्यो?)पसंहरन्नाह—“तस्मा”दित्यादि।

तस्मादतीन्द्रियार्थानां साक्षाद्द्रष्टा न विद्यते।
वचनेन तु नित्येन यः पश्यति स पश्यति॥ ३१७५॥

स्यादेतत्—न नित्येनैव वचनेन सर्वः पश्यति। तथाहि—कनककाश्यपमुनिप्रभृतिप्रणीताद्वाक्याच्छाक्यमुनिः पश्यति, ततोऽप्यन्य, इति। अत्राह—“एत”दित्यादि।

एतदक्षममाणो यः पौरुषेयागमान्तरात्।
अतीन्द्रियार्थविज्ञानं बुद्धादेरपि मन्यते॥ ३१७६॥

तस्य तेनैव तुल्यत्वात्त्वद्वाक्यस्याप्रमाणता।
पुरुषस्य च वक्तव्या पूर्वोक्तैरेव हेतुभिः॥ ३१७७॥

एतत्—अनन्तरोक्तम्—“वचनेन तु नित्येन यः पश्यति स पश्यती”ति, असहमानो य एवं मन्यते बौद्धादिर्न नित्येन वचनेन सर्वं पश्यति, किन्तु पुरुषान्तरकृतेन, तद्यथा कनककाश्यपादिप्रणीतेनागमेन शाक्यमुनिरिति, तस्यैवंवादिनस्त द्वाक्यस्याप्रमाणता वक्तव्या—तस्य पुरुषान्तरस्य वाक्यं तद्वाक्यम्, तेनैव दृष्टाभिमतपुरुषवाक्येन तुल्यत्वात्कारणात्। पुरुषस्य चागमकर्तुरप्रमाणता वक्तव्येति सम्बन्धः। कथं ?, पूर्वोक्तैर्ज्ञेयप्रमेयत्वादिभिर्हेतुभिः॥ ३१७६॥ ३१७७॥

ननु चानादिर्बुद्धपरम्परा तत्प्रणीतोऽपि सिद्धान्तोऽनादिरेव। ततश्च वेदाभियुक्तपरम्परावद्वेदवच्चानयोरप्यनादित्वाददोषत्वमेवेत्यत्राह—“कर्तृकृत्रिमवाक्याना”मित्यादि।

कर्तृकृत्रिमवाक्यानामुच्यते या त्वनादिता।
अप्रमाणद्वयाधारा न सा प्रामाण्यसाधनी॥ ३१७८॥

एतदेव दर्शयन्नाह—“न शौद्धोदनिवाक्याना”मित्यादि।

न शौद्धोदनिवाक्यानां पारतन्त्र्यात्प्रमाणता।
अपश्यतः स्वयं धर्मं तथा शौद्धोदनेरपि॥ ३१७९॥

यथा शौद्धोदनेस्तद्वाक्यस्य चाप्रामाण्यं तथान्येषां कनककाश्यपादीनां तद्वचसां चेति॥ ३१७९॥

ईदृशां पुद्गलानां च कल्प्यमानाऽप्यनादिता।
अप्रामाण्यपदस्थत्वान्न तस्मादतिरिच्यते॥ ३१८०॥

ततश्चेदृशां पुद्गलानां तद्वाक्यानां चानादिता कल्पिताऽपि सती (न) तस्मादप्रामाण्यादतिरिच्यते दूरीभवति। अप्रामाण्यपद एव स्थितत्वात्॥ ३१८०॥

अतोऽनादित्वसामान्यं बुद्धानामभिधीयते।
मीमांसकायमानैस्तैर्यद्वेदाध्यायिनामिव॥ ३१८१॥

तदज्ञानविशेषत्वान्न तेषां याति तुल्यताम्।
प्रमाणत्वाप्रमाणत्वे स्यातामेवं ह्यनादिनी॥ ३१८२॥

तत्र यदि नामानादित्वमात्रेण बुद्धादेर्वेदाध्यायिभिः सह साम्यमुपवर्णितम्, तथाऽपि नानादित्वात्प्रामाण्यं सिद्ध्यति। प्रामाण्याप्रामाण्ययोरनादित्वाविरोधात्। केवलं वेदाध्यायिनां बुद्धादीनां च प्रमाणत्वाप्रमाणत्वे यथाक्रममनादिनी स्याताम्। नतु द्वयोरनादित्वात्प्रमाणत्वमेव वाऽप्रमाणत्वमेव वा सिद्ध्यतीति समुदायार्थः ॥ ३१८१॥ ३१८२॥

एतदेव दृष्टान्तेन स्पष्टीकुर्वन्नाह—“य” इत्यादि।

ये प्रमाणतदाभासगुणदोषा ह्यनादयः।
न तेऽनादित्वमात्रेण सर्वे गच्छन्ति तुल्यताम्॥ ३१८३॥

सुवर्णं व्यवहाराङ्गमनाद्यन्तं यथास्थितम्।
मायासुवर्णमप्येवमिति किं तेन तत्समम्॥ ३१८४॥

प्रमाणतदाभासयोर्गुणदोषा इति विग्रहः॥ ३१८३॥ ३१८४॥

इदानीमभावप्रमाणविषयीकृतविग्रह(त्व)स्यासिद्धतापरिहारेण सर्वज्ञस्याभाव(वं?)प्रसाधयन्वेदस्य ततो विशेषमाह—“सर्वज्ञत्व”मित्यादि।

सर्वज्ञत्वं च बुद्धादेर्या च वेदस्य नित्यता।
तुल्ये जल्पन्ति ये तेभ्यो विशेषः कथ्यतेऽधुना॥ ३१८५॥

“तुल्ये जल्पन्ती”ति। सम्यक्प्रत्तिपत्तिहेतुत्वेन द्वयोरपि साम्यान्नित्यवेदद्वारेणचातीन्द्रयार्थप्रतीतिः सर्वज्ञवचनद्वारेण चेति न कश्चिद्विशेष इति य एवं जल्पन्ति तेभ्य एवंवादिभ्यो वेदस्य विशेषः कथ्यते॥ ३१८५॥

तथाहि—सर्वदर्शी प्रत्यक्षानुमानशाब्दोपमानार्थापत्तीनां मध्ये नैकेनापि प्रमाणेन सिद्धः। तत्कथमभावप्रमाणग्रासीकृतमूर्त्तेरसतस्तस्य प्रमाणभूतेनागोपालाङ्गनादिप्रतीतेन वेदेन साम्यं भविष्यतीति मन्यमानः “सर्वज्ञ” इत्यादिना प्रत्यक्षादिप्रमाणपञ्चकप्रसिद्धतामस्य निराकरोति।

सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः।
दृष्टो न चैकदेशोऽस्ति लिङ्गं वा योऽनुमापयेत्॥ ३१८६॥

न तावत्प्रत्यक्षेणास्मदादिभिरर्वाग्दर्शनैः सर्वज्ञो दृश्यते, तथाह्यर्वाग्दर्शिनः प्रत्यक्षं त्रिविधम्, इन्द्रियज्ञानं मानसं सर्वचित्तचैत्तानामात्मसंवेदनं चेति तदेतत्रिविधमपि न सर्वज्ञमवगमयितुमलम्, अतद्विषयत्वात्, इन्द्रियज्ञानं हि रूपादिविषयपञ्चकनियतमतो न तेन परसन्तानसमवायिनो बुद्धिधर्मा विषयीक्रियन्ते। नापि मानसेन, तस्य इन्द्रियज्ञानपरिगृहीतविषयानन्तरविषयग्राहित्वेनेन्द्रियज्ञानवत्प्रतिनियतरूपादिविषयत्वात्। नापि स्वसंवेदनेन, तस्य स्वसन्तानवर्त्तिवर्त्तमानचित्तचैत्तविषयत्वादतो न तेन परसन्तानवर्त्तिनः स्वसन्तानिकाश्चानागताश्चेतोधर्माः शक्यन्ते वेदयितुम्। योगिज्ञानस्यैव च साध्यत्वान्न तेन ग्रहणाग्रहणचिन्ताऽवतरति। नाप्यनुमानेन, तद्धि त्रिविधलिङ्गसमाश्रयमिष्यते सौगतैः। तत्र विधिसाधनस्यात्राधि कारान्नानुपलब्धिस्तावदिहाधिक्रियते। नापि कार्यम्, प्रत्यक्षानुपलम्भ(प्रत्यक्षोपलम्भ ?)साधनत्वात्कार्यकारणभावस्य विप्रकर्षिणा सर्वज्ञेन सह कस्यचित्कार्यकारणभावासिद्धेः। स्वभावोऽपि हेतुर्न सर्वदर्शिनः सत्तां साधयति, तदप्रत्यक्षत्वे स्वभावस्य तदव्यतिरेकिणो ग्रहीतुमशक्यत्वात्तस्माद्दृष्टः प्रसिद्धो लिङ्गभूत एकदेशः पक्षधर्मः स न सम्भवति, निरूप्यमाणो यः सर्वज्ञमनुमापयेत्। किञ्च—सर्वज्ञसत्तासाधने सर्वो हेतुस्त्रयीं दोषजातिं नातिवर्त्तते, असिद्धिं विरुद्धत्वमनैकान्तिकत्वं च। तथाहि हेतुरुच्यमानो भावधर्मो वाऽभिधीयेत, अभावधर्मो वा, यद्वोभयधर्मः, इति पक्षत्रयम्। तत्र सर्वज्ञे धर्मिणि न भावधर्मः प्रतिवादिप्रसिद्धः सम्भवति, तस्यैव धर्मिणः साध्यत्वेन(ना ?)सिद्धत्वात्। सिद्धौ वा अविवादप्रसङ्गात्। योहि भावधर्मं तत्रेच्छति स कथं वादी तं वादं नेच्छेत्। निराश्रयस्य धर्ममात्रस्य ग्रहीतुमशक्यत्वात्। नाप्यभावधर्मो हेतुः सर्वज्ञसिद्धये युक्तः, तस्य भावविपरीतसाधकत्वेन विरुद्धत्वात्, नाप्युभयधर्मस्तस्यानैकान्तिकत्वात्। कथं हि नाम भावाभावधर्मोभावधर्मसिद्धावभावाख्यविपक्षवृत्तिव्यवच्छेदलभ्यं भावाद्व्य(व्य ?)भिचारित्वलक्षणं हेतुत्वमनुभवेत्। तस्मात्रिप्रकारोऽप्येकदेशो लिङ्गभूतो नास्त्यनुमापक इति नानुमानतः सर्वज्ञस्य सिद्धिः॥ ३१८६॥

शब्दादपि न सर्वज्ञावसायोऽस्तीति दर्शयति—“नचागमविधि”रित्यादि।

नचागमविधिः कश्चिन्नित्यसर्वज्ञबोधकः।
कृत्रिमेण च सत्येन स कथं प्रतिपाद्यते॥ ३१८७॥

शब्दादसन्निकृष्टेऽर्थे यज्जायते ज्ञानं तच्छाब्दम्, तच्च द्विविधं नित्यशब्दजनितं पौरुषेयध्वनिहेतुकं च। तत्र तथाविधस्य सर्वज्ञप्रतिपादकस्यागमस्य नित्यस्याभावान्न तावदाद्यं सम्भवति। यच्चोपनिषदादौ पठ्यते— यः सत्यवाक् सत्यसङ्कल्पः सत्यकामः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः इत्येवमादि, सोऽप्यर्थवादो द्रष्टव्यः। यच्च पौरुषेयं वचनमुच्यते—स भगवांस्तथागतोर्हेन सम्यक् सम्बुद्ध इति, तस्याप्रमाणत्वात्कथं तेनासत्येन स प्रत्याय्येत॥ ३१८७॥

स्यादेतन्न यतःकुतश्चिद्वचनात्सर्वज्ञोऽस्माभिः प्रतीयते। किं तर्हि ?। तेनैव भगवतोक्तेन। सर्वज्ञोऽहं सर्वदर्शी, नास्ति तथागतस्य किञ्चिदज्ञातमित्यादि। अतस्तद्वचनादेव प्रतीयत इत्याह—“अथे”त्यादि।

अथ तद्वचनेनैव सर्वज्ञोऽन्यैः प्रतीयते।
प्रकल्प्येत कथं सिद्धिरन्योन्याश्रययोस्तयोः॥ ३१८८॥

एवं सतीतरेतराश्रयदोषः प्राप्नोति॥ ३१८८॥

कथमित्याह—“सर्वज्ञोक्ततये”त्यादि।

सर्वज्ञोक्ततया वाक्यं सत्यं तेन तदस्तिता।
कथं तदुभयं सिद्ध्येत्सिद्धान्मूलान्तरादृते॥ ३१८९॥

तथाहि न तावत्तद्वचनस्य प्रामाण्यं निश्चीयते यावत्सर्वज्ञोक्तमेतदित्येवं नावगम्येत। तस्य च सर्वज्ञस्यावगतिस्तत एव वचनादिति व्यक्तमितरेतराश्रयत्वम्। “सि”“द्धान्मूलान्तरादृत” इति। निश्चितात्कारणान्तराद्विनेत्यर्थः॥ ३१८९॥

अथापि स्याच्छ्रावका(क ?)च्छारिपुत्रादेर्वचनात्सर्वज्ञोऽवसीयते, यतस्तेनोक्तम्— सर्वज्ञोऽयं शाक्यकुलनन्दन इति, अत्राह—“असर्वज्ञप्रणीतात्त्वि”त्यादि।

असर्वज्ञप्रणीतात्तु वचनान्मूलवर्जितात्।
सर्वज्ञमवगच्छन्तः स्ववाक्यात्किं न जाय(न ?)ते॥ ३१९०॥

नह्यनासादितप्रमाणभावस्यान्यवाक्यस्य स्ववचनात्कश्चिद्विशेषोऽस्ति, येन बौद्धाः स्ववचनादेव सर्वज्ञं न प्रतिपद्यन्ते, अन्यवचनात्प्रतियन्तीति न किञ्चित्कारणमुत्पश्यामोऽन्यत्र जाड्यात्॥ ३१९०॥

अथ मतमपरिमितास्तथागता अभूवन्, भविष्यन्तश्च, ततश्चैकस्य तदन्यवचनात्सर्वज्ञताऽवसीयते। अन्यस्याप्यन्यवचनादित्यत्राह—“सर्वज्ञा बहव” इत्यादि।

सर्वज्ञा बहवः कल्प्याश्चैकसर्वज्ञसिद्धये।
य एवैकोऽप्यसर्वज्ञः स सर्वज्ञं न बुद्ध्यते॥ ३१९१॥

एकसर्वज्ञसिद्धये सर्वज्ञपरम्परामनुसरतः सकलपुरुषायुषसङ्क्षयेऽपि नार्वाग्दर्शनस्य सर्वज्ञनिश्चयोत्पत्तिसम्भव इति सर्वज्ञाः कल्प्याः प्रसज्येरन्॥ ३१९१॥

अपि च—आस्तां तावदिदं यदिदानीन्तनाः सर्वज्ञमसन्निहितं बोद्धुमस(म)र्था इति, अपि तु तत्कालसन्निहिता अपि तं ज्ञातुं न शक्नुवन्त्येवासर्वविदइत्येतद्दर्शयन्नाह—“सर्वज्ञोऽय”मित्यादि।

सर्वज्ञोऽयमिति ह्येवं तत्कालैरपि बोद्धृभिः।
तज्ज्ञानज्ञेयविज्ञानशून्यैर्ज्ञातुं न शक्यते॥ ३१९२॥

सर्वज्ञो नावबुद्धश्च येनैव स्यान्न तं प्रति।
तद्वाक्यानां प्रमाणत्वं मूलाज्ञानेऽन्यवाक्यवत्॥ ३१९३॥

तस्य सर्वज्ञ(स्य)ज्ञानं तज्ज्ञानम्, तदेव ज्ञेयं परिच्छेद्यं यस्य विज्ञानस्य तत्तथा, तच्च तद्विज्ञानं चेति तथोक्तम्, तेन शून्याः—रहिताः। अथवा तज्ज्ञानस्य यद्विज्ञेयं तेन शून्याः, असर्वज्ञा इत्यर्थः। नहि शरीरमात्रदर्शनात्सर्वज्ञ इत्येवमवसातुं पार्यते। विशिष्टज्ञानसम्बन्धग्रहणानन्तरीयकत्वादस्यावसायस्य। तच्च विशिष्टं ज्ञानं सकलपदार्थविषयं साधकम्। सकलपदार्थविषयता तस्य तद्ग्राह्यविषयग्रहणमन्तरेणावसातुं न शक्यते। नहि दण्डिप्रत्ययो दण्डग्रहणमन्तरेण भवति। प्रयोगः—यस्य यद्ग्रहणोपाधिरवग्रहस्तस्य तदुपाधिग्रहणाभावे ग्रहणं न भवति, तद्यथा दण्डग्रहणोपाधिदण्ड (ण्डि?) ग्रहणं न दण्डि(ण्ड?)रूपा(रूपोपाध्य ?)ग्रहे भवति, नास्ति च सर्वज्ञज्ञानग्रहणस्य ज्ञेयग्रहणोपाधिर्ज्ञेयरूपोपाधिग्रहणमर्वाग्दर्शिनामिति व्यापकानुपलब्धिः। उपाधिग्रहणेनोपाधिमद्ग्रहणस्य व्याप्तत्वात्। तस्य चेहाभावः। ततश्च तदानींसन्निहितेनाप्यसर्वविदा येनैव सर्वज्ञो नावधार्यते, तं प्रति सर्वज्ञवाक्यानामपि सतामनिश्चितत्वादप्रामाण्यमेव, मूलस्य प्रामाण्यनिश्चयकारणस्य सर्वज्ञज्ञाननिश्चयस्याभावात्। “अन्यवाक्यव”दिति। रथ्यापुरुषवाक्यस्येव॥ ३१९२॥ ३१९३॥

अथ मतम्—अशेषशिष्यजनधर्मस्यानेकविधचित्तचरितादिपरिज्ञानाददेशनादिप्रातिहार्येण विनेयजनमनांस्यावर्जयन्नसावात्मनः सर्वज्ञतामयत्नेन तेभ्यः प्रतिपादयतीत्यत्राह—“सर्वशिष्यैरपी”त्यादि।

सर्वशिष्यैरपि ज्ञातानर्थान्संवादयन्नपि।
न सर्वज्ञो भवेदन्यलोकज्ञातार्थवर्जनात्॥ ३१९४॥

नच सर्वनरज्ञातज्ञेयसंवादसम्भवः।
कालत्रयत्रिलोकस्थैर्नरैर्न च समागमः॥ ३१९५॥

यन्नाम तत्कालसन्निहितकियन्मात्रजनपरिज्ञातानर्थान्परिज्ञातवांस्तथाऽपि न सर्वज्ञो भवति, तत्कालासन्निहितान्यलोकपरिज्ञातस्यार्थस्यापरिज्ञानात्। नह्येकदेशपरिज्ञानेन सकलज्ञो भवत्यतिप्रसङ्गात्। नापि तत्कालसन्निहिताशेषजनपरिज्ञातार्थसंवादःसम्भवति। दूरस्थानामनर्थिनां च संवादाभावात्। स्यादेतत—यदा सर्व एव जनास्तथागतं युगपदुपेत्य यद्यत्प्रश्नयन्ति तदा स भगवांस्तदैव व्याकरोतीत्यतोऽस्त्येव सर्वनरज्ञातज्ञेयसंवाद इत्यत्राह—“कालत्रयत्रिलोकस्थै”रिति। नह्यतीतानागतवर्त्तमानकालवर्त्तिनां नॄणां समागमः क्वचिदपि सम्भवी, नापि स्वर्गपातालमर्त्यात्मकलोकत्रयस्थानाम्। यद्वा—लोकत्रयं कामरूपारूपधातुत्रयात्मकं बोद्धव्यम्॥ ३१९४॥ ॥ ३१९५॥

स्यादेतत्—यदि समस्तलोकपरिज्ञातार्थपरिज्ञानसामर्थ्यं तस्य न स्यात्तदा कियन्मात्रपरिज्ञातार्थसंवादोऽपि कथं स्यात्, भवति च, तेन मन्यामहे—अस्त्येवास्यसकलपदार्थपरिज्ञानसामर्थ्यमिति, अत्राह—“किञ्चिज्ज्ञोपी”त्यादि।

किञ्चिज्ज्ञोपि हि शक्नोति स्तोकान्भ्रमयितुं नरान्।
सर्वज्ञं येन गृह्णीयुस्ते भक्तिभ्रान्तचेतसः॥ ३१९६॥

भुक्तचिन्तितमुष्टिस्थद्रव्यसंवादनक्षमाः।
केचित्कुहकविज्ञानैर्द्धर्मादिज्ञानवर्जिताः॥ ३१९७॥

तथा मायेन्द्रजालादिकुशलाः केचिदज्ञकम्।
भ्रामयन्ति जनं येन सर्वज्ञाः प्रतिभान्ति ते॥ ३१९८॥

नहि किञ्चिन्मात्रातीन्द्रियपदार्थपरिज्ञानमात्रेण धर्माधर्मादिपरिज्ञानं तस्य सिद्ध्यति, कुहकज्ञानिभिर्मायेन्द्रजालादिकुशलैश्चानेकान्तात्। तथाहि—मन्त्रौषधादिप्रयोगेण यथा भुक्तम्—अन्नव्यञ्जनादि, यथा चिन्तितं च मनसा वस्तु, मुष्टिस्थं च द्रव्यं संवादयन्त्येव। न चैतावता ते धर्मादिविदो भवन्ति। यथा केचिदिन्द्रजालकुशला विचित्रोद्यानविमानाप्सरोगणदेवपुत्रादिकमाकाशे दर्शयन्तीत्यनेकान्तः ॥ ३१९६॥ ३१९७॥ ३१९८॥

ननु चेतिहासपुराणेषु ब्रह्मादिः सर्वज्ञः कीर्त्तितः, तथाहि ब्रह्मणो ज्ञानमप्रतिघं वैराग्यं चेति तत्र पठ्यते, तत्कथमागमात्सर्वज्ञो न सिद्ध इत्यत्राह—“इतिहासे”त्यादि।

इतिहासपुराणेषु ब्रह्मादिर्योऽपि सर्ववित्।
ज्ञानमप्रतिघं यस्य वैराग्यं चेति कीर्तितम्॥ ३१९९॥

गौणत्वेनैव वक्तव्यः सोऽपि मन्त्रार्थवादवत्।
यद्वा प्रकृतधर्मादिज्ञाना( प्रति )घतोच्यते॥ ३२००॥

धर्मार्थकाममोक्षेषु प्रकृतेषु चतुर्ष्वपि।
ज्ञानमप्रतिघं तस्य न तत्सर्वार्थगोचरम्॥ ३२०१॥

यथा मन्त्रेष्वर्थवादनिर्देशो भवति तथेतिहासादिष्वपि ब्रह्मादेः सर्वज्ञत्वमर्थवादाद्बोद्धव्यम्। अन्यार्थो हि शब्दोऽन्यमर्थं वदतीति कृत्वाऽर्थवाद उच्यते। अथवा प्रकृतेषु धर्मार्थकाममोक्षेषु ज्ञानस्याप्रतिघत्वादस्य ब्रह्मादेर्ज्ञानार्थाऽप्रतिघता निर्दिष्टा। नतु सर्वार्थेष्वप्रतिघातात्॥ ३१९९॥ ३२००॥ ३२०१॥

ननु च यदि तस्य धर्मादेरन्यत्र वस्तुविज्ञानं प्रतिहन्येत तत्कथमप्रतिघमित्युच्येतेत्यत्राह—“न ही”त्यादि।

न ह्यप्रतिघतामात्रात्सर्वगोचरतोच्यते।
स्वार्थेष्वप्यप्रतीघाताद्भवत्यप्रतिघं हि तत्॥ ३२०२॥

यद्येवं यदि स्वार्थाप्रतिघातादप्रतिघमुच्यते तदा सर्वेषामेव पुंसां ज्ञानं स्वार्थाप्रतिघातीति तत्को विशेषो ब्रह्मादेर्येन तस्यैवाप्रतिघं ज्ञानमुच्यते नान्येषामित्यत्राह—“एतच्चे”त्यादि।

एतच्च फलदज्ञानं यावद्धर्मा( दि )गोचरम्।
नतु वृक्षादिभिर्ज्ञातैः सर्वैः किञ्चित्प्रयोजनम्॥ ३२०३॥

यावदौपयिकज्ञानं नचैतत्प्रतिहन्यते।
तेनाप्रतिघविज्ञानव्यपदेशोऽस्य लभ्यते॥ ३२०४॥

एतदाचष्टे—पुरुषार्थोपयोगिषु धर्मादिषु तस्यैव ब्रह्मणो ज्ञानमप्रतिघं प्रवर्त्तते नान्येषामित्येतद्विशेषख्यापनाय ब्रह्मादेरेव स्वार्थाप्रतिघत्वादप्रतिघाति ज्ञानमुक्तं नान्येषाम्। “औपयिकज्ञान”मिति। औपयिके—पुरुषार्थोपयोगिनि धर्मादौ ज्ञानमौपयिकज्ञानम्। “यावदि”ति। नि(र)विशेषम्। औपयिकज्ञानविशेषणं चैतत्॥ ३२०३॥ ॥ ३२०४॥

“यद्वे”ति पक्षान्तरमाह।

यद्वाऽऽत्मन्येव तज्ज्ञानं ध्यानाभ्यासप्रवर्तितम्।
तस्यैवाप्रतिघातेन ज्ञानाप्रतिघतोच्यते॥ ३२०५॥

“आत्मनी”ति। पुरुषे। “तस्यैवे”ति। आत्मविषयस्य ज्ञानस्य॥ ३२०५॥

ननु चेश्वरस्य ज्ञानादयो दशाव्यया गुणाः पठ्यन्ते, तत्कथमसावव्ययज्ञानयोगात्सर्वज्ञो न भवतीत्याह—“ज्ञान”मित्यादि।

ज्ञानं वैराग्यमैश्वर्यमिति योऽपि दशाव्ययः।
शङ्करः श्रूयते सोऽपि ज्ञानवानात्मवित्तया॥ ३२०६॥

ज्ञानम्—तत्त्वावबोधः, वैराग्यम्—विषयवैमुख्यम्, ऐश्वर्यमष्टविधम्—अणिमा लघिमा महिमा प्राप्तिः प्राकाम्यमीशित्वं वशित्वं यत्रकामावसायिता चेति, एते दश ज्ञानादयोऽव्यया अनुयायिनो यस्यासौ दशाव्ययः। तत्राणिमा—यदणुशरीरो भूत्वा सुखं लोकं सञ्चरति सर्वभूतैरदृश्यः। लघिमा—यो लघुत्वाद्वायुवद्विचरति।महिमा—यत्पूजितः सर्वलोकेषु वन्दितोऽर्चितश्च महद्भ्योऽपि महत्तमो भवति। प्राप्तिः—यद्यन्मनसा चिन्तयति तत्तत्प्राप्नोति। प्राकाम्यम्—यत्प्रचुरकामो भवति विषयान्भोक्तुं शक्नोतीत्यर्थः। ईशित्वम्—यत्रैलोक्यस्य प्रभुर्भवति। वशित्वम्— यद्भूतानि स्थावरजङ्गमानि वशं नयति, तस्येन्द्रश्च भवति। यत्रकामावसायिता—यत् ब्राह्मप्राजापत्यदैवगान्धर्वयाक्ष्य राक्षस्यपैत्रपैशाचेषु मानुष्येषु तैर्यग्योन्येषु च स्थानान्तरेषु यत्र यत्र कामयते तत्र तत्रावसति। “आत्मवित्तये”ति। आत्मवेदितया स ज्ञानवान्न तु निरवशेषपदार्थपरिज्ञानवत्तयेत्यर्थेः॥ ३२०६॥

कस्मात्पुनरेकदेशपरिज्ञानेऽपि स एव शङ्करो ज्ञानवानुच्यते नान्य इत्याह—“एतदेव ही”त्यादि।

एतदेव हि तज्ज्ञानं यद्विशुद्धात्मदर्शनम्।
अशुद्धे तन्निमित्ते च यत्तदज्ञानमुच्यते॥ ३२०७॥

विशुद्धश्चासावात्मा चेति तथोक्तः, तस्य दर्शनमिति समासः। “तन्निमित्त” इति। तस्य शुद्धात्मदर्शनस्य निमित्तं तन्निमित्तम्, किं तत् ?, आत्मैव। तस्मिन् शुद्धे तन्निमित्ते आत्मनि सति यदात्मदर्शनमविशुद्धं प्रवर्त्तते तदज्ञानमुच्यते, कुत्सितत्वात् ॥ ३२०७॥

ननु यदि ध्यानाभ्यासाद्ब्रह्मादेर्विशुद्धज्ञानसम्भवोऽभ्युपगम्यते तदा कः प्रद्वेषो बुद्धादिषु, येन तेषामपि ज्ञानमप्रतिघं विशुद्धं च नेष्यते, इत्याशङ्क्य पक्षान्तरोपदर्शनेन ब्रह्मादीनां विशेषं दर्शयन्नाह—“अथापी”त्यादि।

अथापि वेददेहत्वाद्ब्रह्मविष्णुमहेश्वराः।
सर्वज्ञानमयाद्वेदात्सर्वज्ञा मानुषस्य किम्॥ ३२०८॥

क्वच बुद्धादयो मर्त्याः क्वच देवोत्तमत्रयम्।
येन तत्स्पर्द्धया तेऽपि सर्वज्ञा इति मोहदृक्॥ ३२०९॥

सात्मीभूतवेदत्वाद्वेददेहा उच्यन्ते। सर्वपदार्थज्ञानकारणत्वात्सर्वज्ञानमयो वेदः। एतदुक्तं भवति। नहि ब्रह्मादीनां स्वातन्त्र्येण धर्मादिषु ज्ञानमप्रतिघं प्रवर्त्तते। किं तर्हि ?। वेदद्वारेण। न चैवं बुद्धादीनां भवद्भिरिष्यते। तेषां स्वयं तु ( स्वायत्त ? ) ज्ञानत्वात्। किञ्च—ब्रह्मादीनां ध्यानाभ्यासाद्विशुद्धज्ञानसम्भवो युज्यत एव, तेषां देवत्वेन सर्वजनोत्कृष्टत्वात्। वेदे पठितत्वाच्च। मनुष्यस्य तु न कदाचिदीदृशं सामर्थ्यं सम्भाव्यं तस्य तद्विपरीतत्वात्। तस्मान्मनुष्या अपि सर्वज्ञा इति मोहदृक्। मोहदर्शनमेतद्भवताम्॥ ३२०८॥ ३२०९॥

स्यादेतद्यदि ब्रह्मादयो वेदे पठ्यन्ते तदा कथमनित्याभिधेयसम्बन्धाद्वेदस्याप्यनित्यत्वं न प्रसज्येत। अथ वेदानां नित्यत्वमिष्यते तदा ब्रह्मादीनां नित्यवेदाभिधेयत्वं विरुध्यते तेषामनित्यत्वात्। अथ तदविरुद्धं तदा बुद्धादीनामपि तदभिधेयत्वाविरोध इत्येतदाशङ्क्याह—“नित्येऽपी”त्यादि।

नित्येऽपि चागमे वेदे ब्रह्मादित्रयकीर्त्तनम्।
तन्नित्यत्वाच्च वेदानां नित्यत्वं न विहन्यते॥ ३२१०॥

“तन्नित्यत्वा”दिति। तेषां ब्रह्मादीनां नित्यत्वात्॥ ३२१०॥

“ते ही”त्यादिना—एतदेव स्पष्टीकरोति।

ते हि नित्यैर्गुणैर्नित्यं कर्मभिश्च समन्विताः।
नित्यवेदाभिधायित्वसम्भवान्न विरोधिनः॥ ३२११॥

अनित्यस्य तु बुद्धादेर्न नित्यागमगम्यता।
नित्यत्वे चागमस्येष्टे वृथा सर्वज्ञकल्पना॥ ३२१२॥

“न नित्यागमगम्यते”ति। शब्दार्थसम्बन्धस्यानित्यत्वप्रसङ्गात्। नित्यस्य चागमस्य परैरनभ्युपगमात्। अभ्युपगमे वा सर्वज्ञकल्पनाया वैयर्थ्यप्रसङ्गात्॥ ३२११॥ ॥ ३२१२॥

एतदेव दर्शयति—“सर्वज्ञज्ञापनात्तस्ये”ति।

सर्वज्ञज्ञापनात्तस्य वरं धर्मावबोधनम्।
वेदबोधितसर्वज्ञज्ञानाद्धर्मात्तिरोहितात्॥ ३२१३॥

अतिरोहितधर्मादिज्ञानमेव विशेष्यते।
एवमागमगम्यत्वं न सर्वज्ञस्य लभ्यते॥ ३२१४॥

नित्यस्यागमस्य सर्वज्ञज्ञापनात्सकाशाद्वरं धर्मावबोधनमेवेष्टम्। कथं तद्वरमित्याह —“वेदबोधिते”त्यादि। वेदाश्रयेण हि धर्मज्ञानं भवदतिरोहितं भवति आ(अन्यथा ?)लोकस्थितेरविशेषेण सर्वेषामेव सम्भवात्। तिरोहितस्तु वेदबोधितसर्वज्ञज्ञातो धर्मस्तस्य निर्वाणं(ग)तस्याप्रकटत्वात्। अनिर्वाणावस्थायामप्यनिच्छया तदुपदेशाभावात्। उपदेशेऽपि सर्वत्र सर्वदा सर्वेषां श्रवणाभावात्॥ ३२१३॥ ३२१४॥

नाप्युपमानप्रमाणसमधिगम्यः सर्वज्ञ इति दर्शयति—“सर्वज्ञसदृश” इत्यादि।

सर्वज्ञसदृशः कश्चिद्यदि दृश्येत सम्प्रति।
तदा गम्येत सर्वज्ञसद्भाव उपमाबलात्॥ ३२१५॥

उपमानं हि सादृश्यतदुपाधिविषयत्वात्सदृशपदार्थग्रहणानन्तरीयकमसन्निकृष्टार्थगोचरम्, यथा—गवयग्रहणद्वारेण गोः स्मरणम्, नच सर्वज्ञसदृशः कश्चित्प्रतीतः सम्भवतीत्यतः सदृशपदार्थग्रहणाभावान्न प्रवर्त्तते। प्रयोगः—यस्य सदृशग्रहणं नास्ति, न स उपमानगम्यः, यथा वन्ध्यासुतः, नास्ति च सदृशग्रहणं सर्वज्ञस्येतिव्यापकानुपलब्धिः॥ ३२१५॥

किञ्च—उपमानान्न केवलं सर्वज्ञाधिगमोऽसम्भवी, अपि तु सर्वेषामेव पुंसामुपमानादसर्वज्ञत्वमेव युक्तं प्रत्येतुमित्यादर्शयति—“नरा”नित्यादि।

नरान्दृष्ट्वा त्वसर्वज्ञान्सर्वानेवाधुनातनान्।
सादृश्यस्योपमानेन शेषासर्वज्ञनिश्चयः॥ ३२१६॥

नचाप्यर्थापत्त्या सर्वज्ञः सिद्ध्यतीत्येतत्प्रतिपिपादयिषुः परमतं तावदाशङ्कते—“उपदेशो ही”त्यादि।

उपदेशो हि बुद्धादेर्धर्माधर्मादिगोचरः।
अन्यथा नोपपद्येत सर्वज्ञो यदि नो भवेत्॥ ३२१७॥

प्रत्यक्षादौ निषिद्धेऽपि सर्वज्ञप्रतिपादके।
अर्थापत्त्यैव सर्वज्ञमित्थं यः प्रतिपद्यते॥ ३२१८॥

योऽयं बुद्धादेर्धर्माद्युपदेशः सोऽन्यथा नोपपद्यते, यदि धर्मादयस्तेन साक्षान्न विदिता भवेयुः, तस्माद्यद्यपि प्रत्यक्षादि सर्वज्ञप्रतिपादकं निषिद्धम्, तथाऽप्यर्थापत्त्या सर्वदर्शी पुमान्सिद्ध इत्येवं यः प्रतिपद्यते—सोऽयुक्तं प्रतिपद्यते, वक्ष्यमाणान्न्यायादिति भावः॥ ३२१७॥ ३२१८॥

यद्वा—अनुमानमेवेदं नार्थापत्तिस्त्रैरूप्यसम्भवादिति दर्शयति “यद्वे”त्यादि।

यद्वा सामान्यतो दृष्टं प्रवृत्तमिह साधनम्।
सर्वज्ञस्योच्यतेऽन्यत्र ज्ञानपूर्वत्वदर्शनात्॥ ३२१९॥

यः कश्चिदुपदेशो हि स सर्वो ज्ञानपूर्वकः।
यथाऽभयादिशक्तीनामुपदेशस्तथाविधः॥ ३२२०॥

धर्माधर्मोपदेशोऽयमुपदेशश्च तत्कृतः।
तदीयज्ञानपूर्वत्वं तस्मादस्यानुमीयते॥ ३२२१॥

सामान्यतो दृष्टमित्यनेन विशेषतो दृष्टस्यासम्भवमाह। ययोरेव हि लिङ्गलिङिगनोः प्रत्यक्षेण सम्बन्धो दृष्टः स एव लिङ्गी तेनैव लिङ्गेन कालान्तरे संशयव्यवच्छेदाय यदाऽनुमीयते तदा विशेषतो दृष्टमनुमानमुच्यते। नच सर्वज्ञेन सह धर्माद्युपदेशस्य क्वचित्सम्बन्धो गृहीत इत्यतः सामान्यतो दृष्टमेवैतत्। तथाहि—सामान्येनोपदेशस्यान्यत्र स्वसन्ताने ज्ञानपूर्वकत्वं दृष्टम्, अतो यथा देवदत्तस्य गतिपूर्विकान्देशान्तरप्राप्तिमुपलभ्याऽऽदित्यस्य देशान्तरप्राप्त्या गतिरनुमीयते, एवं बुद्धादेरपि भगवतो धर्माद्युपदेशात्तज्ज्ञानमनुमास्यते। प्रयोगः—यः कश्चिदुपदेशः स वक्तृज्ञानपूर्वकः, यथा हरीतक्यादिशक्त्युपदेशः, उपदेशश्चायं बुद्धादीनां धर्माद्युपदेश इति स्वभावहेतुः॥ ३२१९॥ ३२२०॥ ३२२१॥

अत्रोत्तरमाह—“अन्यथाऽपी”त्यादि।

अन्यथाऽप्युपपन्नत्वान्नार्थापत्तिरियं क्षमा।
अतएवानुमाऽप्येषा न साध्वी व्यवतिष्ठते॥ ३२२२॥

उपदेशो हि बुद्धादेरन्यथाऽप्युपपद्यते।
स्वप्नादिदृष्ट(ष्टं?)व्यामोहा(त्)वेदाद्वादि(च्चावि?)तथ(थं?)श्रुतात्

अन्यथाऽपि हि व्यामोहादिनोपदेशस्य सम्भवादुभयोरप्यनुमानार्थापत्त्योरनैकान्तिकत्वम्। कथमन्यथापि सम्भवतीत्याह “स्वप्नादी”त्यादि। यथोक्तं शाबरे भाष्ये —“उपदेशो हि व्यामोहादपि भवति, असति व्यामोहे वेदादपि भवती”ति। तत्रव्यामोहाद्भवन्दृष्टो यथा स्वप्नोपलब्धस्यार्थस्य, वेदाद्दृष्टो यथा मन्वादीनाम्॥ ३२२२॥ ॥ ३२२३॥

ये तु सुगतादयो वेदानभिज्ञास्तेषां व्यामोहात्परवञ्चनार्थं वोपदेशः सम्भाव्यत इत्येतत्प्रतिपादयति—“ये ही”त्यादि।

ये हि तावदवेदज्ञास्तेषां वेदादसम्भवः।
उपदेशकृतो, यस्तैर्व्यामोहादेव केवलात्॥ ३२२४॥

शिष्यव्यामोहनार्थं वा व्यामोहाद्वाऽतदाश्रयात्।
लोके दुष्टोपदेष्टृणामुपदेशः प्रवर्त्तते॥ ३२२५॥

“अतदाश्रया”दिति। अवेदाश्रयात्॥ ३२२४॥ ३२२५॥

कथमिदमवगतम्—न वेदाश्रयोऽसावुपदेश इत्याह—“यद्यसा”वित्यादि।

यद्यसौ वेदमूलः स्याद्वेदवादिभ्य एव तु।
उपदेशं प्रयच्छेयुर्यथा मन्वादयस्तथा॥ ३२२६॥

यतस्तु मूर्खशूद्रेभ्यः कृतं तैरुपदेशनम्।
ज्ञायते तेन दुष्टं तत्सांवृतं कूटकर्मवत्॥ ३२२७॥

यदि हि बुद्धादीनां धर्माद्युपदेशो वेदमूलः स्यात्तदा ब्राह्मणेभ्य एव विद्वद्भ्यो मन्वादिवदुपदिशेयुः, नच तैर्ब्राह्मणेभ्य एवोपदिष्टम्, किन्तु वठरशूद्रेभ्य एव, अतोऽवगम्यते, सांवृतम्—अलीकम्, तत्—उपदेशनम्, यथा कूटदीनारादिकर्मेति ॥ ३२२६॥ ३२२७॥

ये तु मन्वादयस्तेषां वेदज्ञत्वाद्वेदमूल एव धर्माद्युपदेशो नतु स्वातन्त्र्येणेति दर्शयति—“ये त्वि”त्यादि।

ये तु मन्वादयः सिद्धाः प्राधान्येन त्रयीविदाम्।
त्रयीविदाश्रितग्रन्थास्ते वेदप्रभवोक्तयः॥ ३२२८॥

ऋग्यजुःसामाख्यास्त्रयो वेदास्त्रयी भण्यते, तां विदन्तीति त्रयीविदो ब्राह्मणा उच्यन्ते। त्रयीविद्भिराश्रितो धर्मशास्त्रादिग्रन्थो येषां ते तथोक्ताः। तद्ग्रन्थाश्रयणा(णे?)कारणमाह—“ते वेदप्रभवोक्तय” इति। वेदप्रभवा उक्तयो येषां ते तथोक्ताः ॥ ३२२८॥

एतदपि कथमवसितमित्याह—“नादृ”ष्ट्वेत्यादि।

नादृष्ट्वा वेदवाक्यानि शिष्येभ्यश्चाप्रदर्श्य वा।
ग्रन्थप्रणयनं तेषामर्पणं चोपपद्यते॥ ३२२९॥

अर्पणमिति बोधनम्। एवं पञ्चभिरपि प्रमाणैर्न सर्वज्ञः सिद्ध्यतीति पारिशेष्यादभावेनैव गम्यत इति सिद्धोऽभावप्रमाणविषयीकृतविग्रहत्वादित्ययं हेतुः। नाप्यनै कान्तिक इति पूर्वं प्रतिपादितम्, निमित्तान्तराभावाच्चाभावव्यवहारस्येति भावः ॥ ३२२९॥

येऽपि मन्यन्ते—नास्माभिः शृङ्गग्राहिकया सर्वज्ञः प्रसाध्यते, किं तर्हि ?, सामान्येन सम्भवमात्रं प्रसाध्यते—अस्ति कोऽपि सर्वज्ञः, क्वचिद्वा सर्वज्ञत्वमस्ति, प्रज्ञादीनां प्रकर्षदर्शनादिति, तान्प्रतीदमाह—नर इत्यादि।

नरः कोऽप्यस्ति सर्वज्ञस्तत्सर्वज्ञत्वमित्यपि।
साधनं यत्प्रयुज्येत प्रतिज्ञान्यूनमेव तत्॥ ३२३०॥

सिसाधयिषितो योऽर्थः सोऽनया नाभिधीयते।
यत्तूच्यते न तत्सिद्धौ किञ्चिदस्ति प्रयोजनम्॥ ३२३१॥

हेतोस्तावत्पूर्वमनैकान्तिकत्वं प्रतिपादितमित्यतः पक्षदोषमेव तावत्प्रतिपादयति। अन्यस्मिन्साधयितुमिष्टे यदन्यत्प्रतिज्ञायते तत्प्रतिज्ञान्यूनं पक्षदोषः। इह च स्वस्य शास्तुः सर्वज्ञत्वं साधयितुमिष्टं न सामान्येन। तथाहि—न व्यसनितया सर्वज्ञोऽन्विष्यते प्रेक्षावता, किं तर्हि ?, तद्वचनाद्धर्माधर्मौ ज्ञात्वा प्रवर्त्तिष्ये निवर्त्तिष्ये वेति प्रवृत्तिनिवृत्तिकामतया, नच सामान्येन सिद्धेनापि तेन प्रवृत्तिं प्रति पुरुषस्य कश्चिदुपयोगोऽस्ति, विशेषपरिज्ञानमन्तरेण तद्वचनानिश्चयात्, तस्मात्स एव विशेषः प्रवृत्तिकामेन साधनीय इति सामान्यप्रतिज्ञानं प्रतिज्ञान्यूनमेव। “सिसाधयिषितो योऽर्थ” इति। साधयितुमिष्टो योऽर्थः। “स” इति। विशेषः, स्वशास्ता। “अनये”ति। प्रतिज्ञया। “यत्तूच्यत” इति। विशेषासंस्पर्शेन कोऽप्यस्ति नरः सर्वज्ञः क्वचिद्वास्ति सर्वज्ञत्वमिति, तेन सिद्धेनापि न किञ्चित्प्रयोजनम्॥ ३२३०॥ ३२३१॥

कथमित्याह—“यदीये”त्यादि।

यदीयागमसत्यत्वसिद्ध्यै सर्वज्ञतोच्यते।
न सा सर्वज्ञसामान्यसिद्धिमात्रेण लभ्यते॥ ३२३२॥

“स”(“स”?)ति। य(त?)दीयागमसत्यत्वसिद्धिः॥ ३२३२॥

कस्मान्न लभ्यत इत्यत्राह—“याव”दित्यादि।

यावद्बुद्धो न सर्वज्ञस्तावत्तद्वचनं मृषा।
यत्र क्वचन सर्वज्ञे सिद्धे तत्सत्यता कुतः॥ ३२३३॥

तथाहि यावद्बुद्धस्य सर्वज्ञत्वं न सिद्ध्यति तावत्तद्वचनस्यापि न सत्यत्वनिश्च योऽस्ति, न च सामान्येन सर्वज्ञसिद्धौ बुद्धवचनस्य सत्यत्वं सिद्ध्येत्, प्रतिबन्धाभावात्॥ ३२३३॥

एतदेव दर्शयति—“अन्यस्मि”न्नित्यादि।

अन्यस्मिन्नहि सर्वज्ञे वचसोऽन्यस्य सत्यता।
सामानाधिकरण्ये हि तयोरङ्गाङ्गिता भवेत्॥ ३२३४॥

कदा नाम तयोः प्रतिबन्धो न भवती(प्रतिबन्धो भवती?)त्याह—“सामानाधि”“करण्ये ही”त्यादि। सामानाधिकरण्यम्—एकपुरुषाश्रितत्वम्। “तयो”रिति। सर्वज्ञत्व(सत्य)वचनयोः। “अङ्गाङ्गिता”। हेतुफलता। एतदुक्तं भवति—एकाश्रयत्वे सति सत्यस्य वचसः सर्वज्ञत्वं कारणं भवेत्, नान्यथाऽतिप्रसङ्गात्॥ ३२३४॥

यदप्यम(प?)रैः सर्वज्ञसिद्धये साधनमुपरचितं तदप्येतेनैव प्रतिव्यूढमिति दर्शयितुमाह—“यत्सर्व”मित्यादि।

यत्सर्वं नाम लोकेऽस्मिन्प्रत्यक्षं तद्धि कस्यचित्।
प्रमेयज्ञेयवस्तुत्वैर्दधिरूपरसादिवत्॥ ३२३५॥

ज्ञानमात्रेऽपि निर्दिष्टे पक्षन्यूनत्वमापतेत्।
सर्वज्ञ इति योऽभीष्टो नेत्थं स प्रतिपादितः॥ ३२३६॥

यदि बुद्धातिरिक्तोऽन्यः कश्चित्सर्वज्ञतां गतः।
बुद्धवाक्यप्रमाणत्वे तज्ज्ञानं क्वोपयुज्यते॥ ३२३७॥

यत्प्रमेयत्ववस्तुत्वादियोगि तत्कस्यचित्प्रत्यक्षं, यथा दधिरूपरसादिकं, सर्वं च पदार्थजातं प्रमेयादिस्वभावमिति स्वभावहेतुः। अत्रापि पूर्ववत्प्रतिज्ञान्यूनत्वं हेतोश्चानैकान्तिकत्वं वक्तव्यम्। तस्मान्न विशेषेण नापि सामान्येन सर्वज्ञत्वस्य सिद्धिः सम्भवति। अतो नास्ति सर्वज्ञ इति सिद्धम्। तदभावात्तद्वचनस्याभाव इति न तद्वचनात्प्रवृत्तिः सम्भवति कस्यचित्॥ ३२३५॥ ३२३६॥ ३२३७॥

अथवा सम्भवतु नाम सर्वज्ञः पुरुषस्तथाऽपि सर्वज्ञप्रणीतं वचनं न सम्भवत्येव, यतः प्रवृत्तिर्भविष्यति भवतामित्येतत्प्रतिपादयन्नाह—“दशभूमी”त्यादि।

दशभूमिगतश्चासौ सर्वरागादिसङ्क्षये।
शुद्धस्फटिकतुल्येन सर्वं ज्ञानेन बुद्ध्यते॥ ३२३८॥

ध्यानापन्नश्च सर्वार्थविषयां धारणां दधत्।
तथा व्याप्तश्च सर्वार्थैः शक्तो नैवोपदेशने॥ ३२३९॥

तथाहि किल दशभूमिप्रतिष्ठितोऽशेषरागादिमलकलङ्कापगमाच्छुद्धस्फटिकतुल्येन ज्ञानेन सकलं ज्ञेयमवच्छेद्यत इत्येवं भवद्भिर्वर्ण्यते। ततश्चास्यां तावदवस्थायां धारणां चित्तस्यैकाग्र्यतां दधदर्थबोध एव व्यापृतत्वान्नासौ शक्नोति धर्ममुपदेष्टुं न हीयतो व्यापारान्कश्चित्कर्तुं समर्थः॥ ३२३८॥ ३२३९॥

व्युत्थाय देशयति चेदित्याह—“यदा चे”त्यादि।

यदा चोपदिशेदेकं किञ्चित्सामान्यवक्तृवत्।
एकदेशज्ञगीतं तन्न स्यात्सर्वज्ञभाषितम्॥ ३२४०॥

नह्यवितर्का वचनप्रवृत्तिरस्तीति सविकल्पचेतोऽवस्थितेनैवानेन धर्मो देशनीयः, ततश्चास्यामवस्थायां बालपण्डितयोरविशेषादसर्वज्ञ एवासाविति तद्भाषितमसर्वज्ञभाषितमेव स्यात्॥ ३२४०॥

स्यादेतत्—नैवासावुपदिशति किञ्चित्, सर्वदा निर्विकल्पसमाधिस्थितत्वात्, किन्तु तदाधिपत्येन विचित्रधर्मदेशनाप्रतिभासा विज्ञप्तयो भव्यानां भवन्ति। यथोक्तम्—यस्यां रात्रौ तथागतोऽभिसम्बुद्धो यस्यां च परिनिवृतः, अत्रान्तरे तथागतेन एकमप्यक्षरं नोदाहृतं न प्रव्याहृतम्, तत्कस्य हेतोः ?, सततसमाहितो हि तथागतः, अपि तु ये अक्षररुतदेशना वैनेयिकास्ते तथागतस्य मुखादुष्णीषादूर्णयाः शब्दं निःसरतं शृण्वन्तीत्यादि, तत्राह—“तस्मिन् ध्यानसमापन्न” इत्यादि।

तस्मिन्ध्यानसमापन्ने चिन्तारत्नवदास्थिते।
निश्चरन्ति यथाकामं कुट्यादिभ्योऽपि देशनाः॥ ३२४१॥

ताभिर्जिज्ञासितानर्थान्सर्वान् जानन्ति मानवाः।
हितानि च यथाभव्यं क्षिप्रमासादयन्ति ते॥ ३२४२॥

इत्यादिकीर्त्त्यमानं तु श्रद्दधानेषु शोभते।
वयमश्रद्दधानास्तु ये युक्तीः प्रार्थयामहे॥ ३२४३॥

चिन्तारत्नम्—चिन्तामणिः। अयमत्र समुदायार्थः—ये श्रद्धालवस्तान्प्रतीदमप्रमाणकमुपवर्ण्यमानं शोभेत। ये तु पुनरस्मद्विधाः प्रमाणोपपन्नार्थग्राहितथा युक्तिमेव प्रार्थयन्ते ते कथमेतदुच्यमानमप्रमाणकं गृहीष्यन्ति॥ ३२४१॥ ३२४२॥ ३२४३॥

किञ्च—भवतु नामैवं कल्पना, तथापि कुट्यादिनिर्गतासु देशनासु सर्वज्ञाधिपत्यप्रभवत्वं सन्दिग्धमेवेति न तत्र प्रमाणत्वेन प्रेक्षावतां विश्वासो युक्त इति दर्शयति—“कुट्यादिनिःस्व”(“सृ?”)“तानामि”त्यादि।

कुट्यादिनिःस्व(सृ?)तानां चन स्यादाप्तोपदिष्टता।
विश्वासश्च न तासु स्यात्केनेमाःकीर्तिता इति॥ ३२४४॥

किन्नु बुद्धप्रणीताः स्युः किन्नु ब्राह्मणवञ्चकैः।
क्रीडद्भिरुपदिष्टाःस्युर्दूरस्थप्रतिशब्दकैः॥ ३२४५॥

किंवा क्षुद्रपिशाचाद्यैरदृष्टैरेव कीर्त्तिताः।
तस्मान्न तासु विश्वासः कर्त्तव्यः प्राज्ञमानिभिः॥ ३२४६॥

सर्वं सुबोधम्॥ ३२४४॥ ३२४५॥ ३२४६॥

एतावत्कुमारिलेनोक्तं पूर्वपक्षीकृतम्, साम्प्रतं सामटयज्ञटयोर्मतेन पुनरपि सर्वज्ञदूषणमाह—“इदं चे”त्यादि।

एवं सर्वज्ञता पुंसां स्वातन्त्र्येण निरास्पदा।
इदं च चिन्त्यते भूयः सर्वदर्शी कथं मतः॥ ३२४७॥

युगपत्परिपाट्या वा सर्वं चैकस्वभावतः।
जानन्यथाप्रधानं वा शक्त्या वेष्येत सर्ववित्॥ ३२४८॥

युगपच्छुच्यशुच्यादिस्वभावानां विरोधिनाम्।
ज्ञानं नैकधिया दृष्टं भिन्ना वा गतयः क्वचित्॥ ३२४९॥

भूतं भवद्भविष्यच्च वस्त्वनन्तं क्रमेण कः।
प्रत्येकं शक्नुयाद्बोद्धुं वत्सराणां शतैरपि॥ ३२५०॥

स्वभावेनाविभक्तेन यः सर्वमवबुध्यते।
स्वलक्षणानि भावानां सर्वेषां न स बुध्यते॥ ३२५१॥

बोद्धा सामान्यरूपस्य सर्वज्ञेनापि तेन किम्।
अन्याकारेण बोधेन नैव वस्त्ववगम्यते॥ ३२५२॥

तदेकाकारविज्ञानं सम्यङ्मिथ्याऽपि वा भवेत्।
सम्यक्त्वे दृष्टबाधैवं प्रसक्तं सर्वमद्वयम्॥ ३२५३॥

ततश्च शिष्यसर्वज्ञधर्माधर्मतदुक्तयः।
न स्युर्वो भिन्नरूपत्वे स्वभावानवधारणात्॥ ३२५४॥

मृषात्वे त्वेकबोधस्य भ्रान्तः प्राप्नोति सर्ववित्।
न श्रद्धेयं वचस्तस्य तदोन्मत्तादिवाक्यवत्॥ ३२५५॥

सहेतु सकलं कर्म ज्ञानेनालौकिकेन यः।
समाधिजेन जानाति स सर्वज्ञो यदीष्यते॥ ३२५६॥

प्रत्यक्षमनुमानं वा शाब्दं वा तदतत्कृतम्।
प्रमाणमस्य सद्भावे नास्तीति नास्ति तादृशः॥ ३२५७॥

युगपत्परिपाट्या वा कथं कार्याद्विनाऽनुमा।
सामर्थ्यमपि नैवास्ति समर्थे सर्वमेव वा॥ ३२५८॥

सर्वे सर्वावबोधे च क्षेत्रज्ञाः प्रभविष्णवः।
उपायविफलत्वात्तु बुध्यन्ते निखिलं न ते॥ ३२५९॥

लब्धासाधारणोपायोऽशेषपुंसां विलक्षणः।
तत्रैकः सर्ववित्कश्चिदित्येवं निष्प्रमाणकम्॥ ३२६०॥

इत्थं यदा न सर्वज्ञः कश्चिदप्युपपद्यते।
न धर्माधिगमे हेतुः पौरुषेयं तदा वचः॥ ३२६१॥

इति मीमांसकाः प्राहुः स्वतन्त्रश्रुतिलालसाः।
विस्तरेण च वेदानां साधिता पौरुषेयता॥ ३२६२॥

किं युगपदशेषपदार्थपरिज्ञानात्सर्ववित्, आहोस्वित्परिपाट्या—क्रमेण, यद्वा सर्वस्य जगत एकेन—नित्यादिना रूपेण ज्ञानात्, यथा प्रधानावगमाद्वा—यदेव हि पुरुषार्थोपयोगि कर्मफलादि तस्यैव ज्ञानात्, यद्वा सर्वपदार्थपरिज्ञानसामर्थ्य— योगात् सर्वविदुच्यते—यथाग्निः सर्वं क्रमयौगपद्याभ्यामभुञ्जानोऽपि सर्वभुगिति। तत्र प्रथमे पक्षे कल्पनाद्वयम्, एकया वा धिया युगपदशेषं जानीयादनेकया वा। न तावदेकया, परस्परविरुद्धानां शुच्यशुच्यादीनामर्थानां युगपदेकज्ञानेन ग्रहणादर्शनात्। स्यादेतद्विरुद्धानेकपदार्थविषया बह्व्यो बुद्धयस्तस्य सकृद्वर्त्तन्त इत्याह—“भिन्ना वा गतय इति”। न दृष्टा इति विभक्तिविपरिणामेन सम्बन्धः। नहि युगपद्भिन्नगतयो दृष्टा एकविज्ञानसन्ततयः सत्वा इति सि1 ॥॥॥॥॥॥॥॥॥॥॥॥। ॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥। वर्षशतैरपि ज्ञातुमशक्यत्वात्। वर्षशतग्रहणमुपलक्षणं कल्पैरपि न ॥॥॥॥॥॥। अन्यथा स्वतन्त्रत्वं हीयेत ॥॥॥॥ ॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥ ॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥

तस्मादतीन्द्रियार्थनां साक्षाद्द्रष्टैव विद्यते।
नतु नित्येन वचसा कश्चित्पश्यत्यसम्भवात्॥ ३२६३॥

तेन साक्षादेवातीन्द्रियार्थानां द्रष्टा विद्यते, नतु नित्यवचनद्वारेण, तस्य नित्यस्य वचसोऽसम्भवात्। द्रष्टैवेत्यवधारणं भिन्नक्रमं साक्षादित्यस्यानन्तरं द्रष्टव्यम्॥ ३२६३॥

भवतु नाम नित्यस्य वचसः सम्भवस्तथापि न तस्यातीन्द्रियार्थप्रतिपत्तिं प्रति कारणभावो युक्त इत्येतत्प्रतिपादयन्नाह—“नित्यस्ये”त्यादि।

नित्यस्य वचसः शक्तिर्न स्वतो वापि नान्यतः।
स्वार्थज्ञाने समुत्पाद्ये क्रमाक्रमविरोधतः॥ ३२६४॥

तत्र स्वार्थः स्वकीयमभिधेयम्। यद्वा—स्वः—आत्मा, शब्दस्य स्वभावः, अर्थः —अभिधेयः, स्वश्चार्थश्च स्वार्थौ, तयोर्ज्ञानम्, तस्मिन्समुत्पाद्ये। तत्समुत्पादनाय नित्यस्य वचसः शक्तिः स्वतो वा भवेन्निसर्गसिद्धा, अन्यतो वा सहकारिकारणात्। तत्र न तावत्स्वतः, कुतः, क्रमाक्रमाभ्यां कार्योत्पादनं प्रति नित्यस्य विरोधात्। नहि क्रमयौगपद्याभ्यामन्यः प्रकारः सम्भवति, येनार्थक्रिया भवेत्। अन्योन्यव्यवच्छेदस्थितलक्षणत्वादनयोः। तेन क्रमयौगपद्याभ्यामेवार्थक्रिया व्याप्ता। नच नित्यस्य वचसः क्रमेण स्वार्थज्ञानोत्पादकत्वं युक्तम्। प्रथमकार्योत्पादावस्थायामुत्तरकालभाविज्ञानकार्योत्पादकस्वभावाप्रच्युतेस्तन्मात्रभावीनि कार्याणि युगपदेव स्युः। नापि क्रमेण युक्तम्, उत्तरकालमपि प्रथमकार्योत्पादावस्थावत्कार्यकरणसमर्थाविकलस्वभावानुवृत्तेरजनकत्वविरोधात्। प्रयोगः—यो यद्व्यापकधर्मरहितः स तद्व्याप्तधर्मविकलः, यथा वृक्षत्वधर्मशून्यो घटादिस्तद्व्याप्तशिंशपात्वधर्मविकलः, अर्थक्रियासामर्थ्यधर्मव्यापकक्रमाक्रमधर्मरहितं च नित्यं बेदाख्यं वचनमित्यर्थतो व्यापकानुपलब्धिः, अतो न स्वतो नित्यवचसः शक्तिसम्भवः। नाप्यन्यतः सहकारिकारणात्। तेन शक्तेस्तत्स्वभावाव्यतिरिक्तायास्तत्स्वभाववत्कर्तुमशक्यत्वात्। अर्थान्तरत्वेऽपि सम्बन्धासिद्धेरिति बहुधा चर्चितमेतत्। तस्मादतीन्द्रियार्थपरिज्ञानस्यनित्यवचनाश्रयत्वमनुमानबाधितत्वादयुक्तम्॥ ३२६४॥

यच्चोक्तमभावप्रमाणविषयीकृतविग्रहत्वान्नास्ति धर्मज्ञ इति, तत्र धर्मज्ञाभावप्र तिज्ञाया अर्थापत्तिप्रमाणबाधितत्वं हेतोश्चासिद्धत्वं पराभ्युपगमेनैव प्रतिपादयन्नाह —“स्वर्गयागादयस्तस्मा”दित्यादि।

स्वर्गयागादयस्तस्मात्स्वतो ज्ञात्वा प्रकाशिताः।
वेदकारस्तवाप्यस्ति तादृशोऽतीन्द्रियार्थदृक्॥ ३२६५॥

प्रधानपुरुषार्थज्ञः सर्वधर्मज्ञ एव वा।
तस्यानुपगमे न स्याद्वेदप्रामाण्यमन्यथा॥ ३२६६॥

तेनार्थापत्तिलब्धेन धर्मज्ञोपगमेन तु।
बाध्यते तन्निषेधोऽयं बिस्तरेण कृतस्त्वया॥ ३२६७॥

“स्वत” इति। स्वातन्त्र्येण। वेदानपेक्षेण ज्ञानेनेत्यर्थः। “तादृश” इति। यादृशो भवद्भिः प्रतिक्षिप्यते। “अर्थापत्तिलब्धेने”ति। वेदप्रामाण्याभ्युपगमसामर्थ्यलब्धेन। अतएवाभावप्रमाणविषयीकृतविग्रहत्वमप्यसिद्धम्, अर्थापत्त्या विषयीकृतत्वात्॥ ३२६५॥ ३२६६॥ ३२६७॥

यच्च सर्वशब्दस्य प्रकृतार्थो(र्था?)पेक्षित्वं बहुधा विकल्प्य दूषणमुक्तम्, तन्नावतरत्येव। अस्य पक्षस्यानभ्युपगमात्। नह्यस्माभिर्धर्मादिव्यतिरिक्तविवक्षिताशेषार्थाभिज्ञतया सर्वज्ञोऽभ्युपगम्यते, येन तत्र दूषणमासज्येत। किं तर्हि ?। यस्य सकलक्लेशज्ञेयावरणमलव्यपगतेन चेतसा सकलमेव धर्मादिकं ज्ञेयमवभासते स सर्वज्ञोऽभीष्टः। तत्र च भवता न किञ्चिद्बाधकं प्रमाणमभ्यधायि। यच्चोक्तम्—“एकस्यैव शरीरस्य यावन्तः परमाणवः” इत्यादि, तत्केवलं प्रतिज्ञामात्रमप्रमाणकमुक्तम्। नच प्रतिज्ञामात्रादुपपत्तिशून्यादर्थसिद्धिः सम्भवति। सर्वस्य सर्वार्थसिद्धिप्रसङ्गादित्येतत्सर्वमागूर्याह—“किञ्चे”त्यादि।

किञ्चाकारणमेवेदमुक्तमाज्ञा (मज्ञ?) प्रभावि(षि?)तम्।
केशरोमाणि यावन्ति कस्मानि ज्ञातुमर्हति॥ ३२६८॥

यस्मान्निर्मलनिष्कम्पज्ञानदीपेन कश्चन।
द्योतिताखिलवस्तुः स्यादित्यत्रोक्तं न बाधकम्॥ ३२६९॥

अकारणमिति। न विद्यते कारणमुपपत्तिस्त्रिरूपलिङ्गाख्यानं यस्य तत्तथोक्तम्। क्लेशज्ञेयावरणमलविविक्तत्वान्निर्मलं मारतीर्थिकपरिहाण(?)समीरणाकम्प्यत्वादकम्प्यं यदेव ज्ञानं तदेव दीपः। प्रकाशसाम्यात्। द्योतितं विषयीकृतमखिलं धर्मा दिकं वस्तु येन स तथोक्तः। सापेक्षत्वेऽपि गमकत्वात्समासः। “अत्रोक्तं न बाध”“क”मिति। प्रमाणमिति शेषः। न केवलं नोक्तम्, नाप्यत्र किञ्चिद्बाधकमस्तीति भावः। “तथाहि”—न तावत्प्रत्यक्षं बाधकम्, तस्यातद्विषयत्वात्। यदेव हि वस्तु प्रत्यक्षेण यथा विषयीक्रियते तत्र प्रत्यक्षप्रसिद्धे विपरीतो धर्मोऽभ्युपगम्यमानःप्रत्यक्षेण बाध्यते। यथा शब्दे धर्मिणि अश्रावणत्वं श्रावणत्वेन। न तु यत्र प्रत्यक्षस्याप्रवृत्तिः। नच परसन्तानवर्तीनि चेतांसि सर्वाणि प्रत्यक्षतोऽसर्वज्ञेन विषयीक्रियन्ते केनचित्। येन तत्र सर्वज्ञत्वं प्रतिज्ञायमानं प्रत्यक्षेण बाध्येत। सर्वेषामेवार्वाग्दर्शित्वात्। विषयीकरणे वा स एव सर्वज्ञ इत्यप्रतिक्षेपः।

“स्यादेतत्”—न वयं प्रत्यक्षं प्रवर्त्तमानमभावं साधयतीति ब्रूमः। किं तर्हि ?। निवर्त्तमानम्। तथाहि—यत्र वस्तुनि प्रत्यक्षस्य निवृत्तिस्तस्याभावोऽवसीयते, यथा शशविषाणस्य। यत्र प्रवृत्तिस्तस्य भावः, यथा—(अ)स्यादेः। न च सर्वज्ञविषयङ्कदाचित्प्रत्यक्षं प्रवृत्तमित्यतस्तन्निवृत्तेस्तदभावोऽवसीयत इति। “तदेतदसम्बद्धम्”। नहि प्रवृत्त(प्रत्यक्ष?)निवृत्तेर्यो भवति निश्चयः स प्रत्यक्षाद्भवति। अभावभावयोरेकत्रविरोधात्। नच प्रत्यक्षनिवृत्तिर्वस्तु(स्त्व?)भावेन व्याप्ता, येनासौ वस्त्वभावस्ततो निश्चीयते। सत्यपि वस्तुनि व्यवहितादौ प्रत्यक्षस्य निवृत्तिदर्शनात्। “स्यादेतत्”—न प्रत्यक्षनिवृत्तेः सकाशात्स्यादभावनिश्चय इति ब्रूमः। किं तर्हि ?। निवृत्तं प्रत्यक्षमभावं साधयतीति। “तदेत”च्छब्दान्यत्वं केवलं भवतोच्यते। नत्वर्थभेदः। न च शब्दान्यत्वमात्रादर्थान्यत्वं युक्तमतिप्रसङ्गात्। तथाहि—निवृत्तिर्वस्तुसत्तानिषेध उच्यते। निवृत्तशब्देनापि परमार्थतः स एवाभिधीयते। केवलमेको भेदान्तरप्रतिक्षेपेण तन्मात्रजिज्ञासायां तमाह, अपरस्त्वप्रतिक्षेपेणेति विशेषः। परमार्थतस्तु द्वाभ्यामसत्त्वमेव वस्तुनः प्रतिपाद्यते। नवाऽसतो हेतुभावः सम्भवी, सर्वसामर्थ्यविरहलक्षणत्वात्तस्य। तस्माद्यस्य यदुत्पादकं प्रकाशकं वा तत्तस्योत्पादने प्रकाशने च सन्निहितसत्ताकमेव भवति, नतु निवृत्तस्वभावं, यथा बीजमङ्कुरस्य दीपो वा रूपस्य। नहि तौ निवृत्तावङ्कुरघटरूपाद्युत्पादनप्रकाशने समर्थौ भवतः। “अपि च”—निवृत्तं प्रत्यक्षमभावं साधयतीति कोऽत्रार्थोऽभिमतः। यदि तावद्वर्त्तमानादध्वनो निवृत्तमित्यर्थस्तदा सामर्थ्यादतीतानागतावस्थमित्येवमुक्तं स्यात्। नचातीतानागतवस्तु विद्यत इति पूर्वं प्रतिपादितम्। तत्कथमसतो व्यापारः सिद्ध्येत्। अथ वर्त्तमानमपि सद्यद्यत्र विषये नोत्पद्यते तत्ततो निवृत्तमित्युच्यते। एवमपि नातो वस्त्वभावसिद्धिर्व्य भिचारात्। नहि चक्षुर्विज्ञानं गन्धरसादिविषये नोत्पद्यत इत्येतावता ततस्तदभावः सिद्ध्येत्। तस्मान्न प्रत्यक्षतः कस्यचिदभावसिद्धिः। “यद्येवं” कथमनुपलम्भाख्यात्प्रत्यक्षात् घटाद्यभावसिद्धिः प्रदेशान्तरे भवद्भिर्वर्ण्यते। “नैतदस्ति”। नहि तत्राभावविषयीकरणात्प्रत्यक्षमभावं साधयतीत्युच्यते। किं तर्हि ?, एकज्ञानसंसर्गयोग्ययोरर्थयोरन्यतरस्यैव या सिद्धिः साऽपरस्याभावसिद्धिरिति कृत्वा। यतस्तयोः सतोर्नैकरूपनियता प्रतिपत्तिः सम्भवति। योग्यताया अविशेषात्। न चैवं सर्वज्ञत्वस्यकेनचित्सार्द्धमेकज्ञानसंसर्गिता निश्चिता, यस्य केवलस्योपलम्भात्तदभावं व्यवस्यामः। तस्य सर्वदैवात्यन्तपरोक्षत्वात्।

एवं तावत्प्रत्यक्षं सर्वविदो(न)बाधकं सम्भवति। नाप्यनुमानं सर्वज्ञाभावं साधयति। तस्य विधिविषयत्वाभ्युपगमात्। यतोऽभावमेव प्रमाणमभावविषयमुपवर्ण्यते नान्यत्। अतएवार्थापत्त्यादीनां त्रयाणामपि बा(नसा?)धकत्वम्। “अथापि स्यात्”—नास्माभिः प्रसज्यरूपेण सर्वज्ञाभावः प्रसाध्यते, किं तर्हि ?, सर्वनरान्पक्षीकृत्य पर्युदासवृत्त्या तेष्वसर्वज्ञत्वं साध्यते, तेनानुमानादीनां व्यापारो भवत्येवेति। “भवत्वेवम्”, तथाप्यनुमानं तावन्न सम्भवति, सर्वनरेष्वसर्वज्ञत्वाव्यभिचारिलिङ्गाप्रसिद्धेः। यदपि च प्रमेयत्ववक्तृत्वादिकमुक्तं तदपि व्यभिचारीति पश्चात्प्रतिपादयिष्यते। नाप्यर्थापत्तिरसर्वज्ञं साधयति। प्रत्यक्षानुमानव्यतिरेकेणान्येषां प्रमाणत्वासिद्धेः। सत्यपि वा प्रमाणान्तरत्वे नार्थापत्तिस्तावदसर्वज्ञसाधने पर्याप्ता, यतो दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यते इत्यदृष्टपरिकल्पनाऽर्थापत्तिः। नचासर्वज्ञत्वमन्तरेण सर्वनरेषु कश्चिदर्थो दृष्टादिर्नोपपद्यते, यतस्तदर्थापत्त्या कल्प्येत। नाप्युपमानं क्षमम्, तथाहि—स्मर्यमाणमेव वस्तु पुरोवर्त्तिपदार्थसादृश्योपाधि सादृश्यमात्रं वा पुरोवर्त्तिना स्मर्यमाणवस्तुगतमुपमानेन प्रतीयते। यथानुभूतगोदर्शनस्य पुंसोऽरण्यगतस्य गवयदर्शनात्पूर्वानुभूते गवि तत्साधर्म्यज्ञानम्। यथोक्तम्—तस्माद्यत्स्मर्यते तत्स्यात्सादृश्येन विशेषितम्। प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम्॥ इति। तस्मात्स्मर्यमाण एव धर्मी उपमानस्य विषयः, अनुभूतमेव च वस्तु स्मरणेन विषयीक्रियते, नान्यत्। नच सर्वनरसन्तानवर्त्तीनि चेतांसि केनचित् सर्वविदाऽनुभूतानि, यतः स्मरणेन विषयीक्रियेरन्। नचानुभूयमानस्य वस्तुनःसर्वनरैरसर्वज्ञत्वसाधारणधर्मनिश्चयोऽस्ति, यद्वशादसर्वज्ञत्वं सर्वनरेषूपमीयेत। “यदपि” सत्त्वादिकं क्वचिदसर्वज्ञे दृष्टं तदपि नासर्वज्ञत्वसाधारणं सिद्धम्। सर्वज्ञस्यापि सत्त्वाद्यविरोधात्। नहि गवये सत्त्वादिधर्मदर्शनाद्धटादीनामपि गवयसादृश्यमुपमीयते। भवतु नाम सर्वनराणां सत्त्वादिना साधर्म्यमसर्वज्ञत्वं तु न सिद्ध्यति। एतेनैव तत्प्रत्युक्तम्, यदुक्तं—नरान् दृष्ट्वेत्यादि।

नापि शब्दाख्यं प्रमाणं सर्वविदो बाधकमस्ति। यत्तावत्पौरुषेयं तदप्रमाणमेव स्वयं मीमांसकैरतीन्द्रियार्थविषयेऽभ्युपगम्यते, यच्चापौरुषेयं तदप्यप्रमाणमिति निवेदितम्। नचापि किञ्चिद्वैदिकं वचनं सर्वनरासर्वज्ञत्वप्रत्यायकमुपलभ्यते। नच तत्रानुपदेशादर्थान्तराभावः सिद्ध्यति, सर्ववस्तूनां शास्त्रोपदेशेऽनधिकृतत्वात्। अन्यथा हि भवन्मातृविवाहादीनामप्यभावप्रसङ्गः स्यात्, तत्रापाठात्। नचैकदेशे क्वचित्पाठादर्शनात्सर्वत्रापाठनिश्चयो युक्तः, अनेकशाखाशताऽन्तर्हितश्रवणादन्यत्रापि पाठस्य सम्भाव्यमानत्वात्। शाखान्तरे स्फुटतरमेव सर्वज्ञः पठ्यत इति पश्चात्प्रतिपादयिष्यामः।

नाप्यभावप्रमाणविषयीकृतत्वात्सर्वविदोऽसत्त्वसिद्धिः। तथाहि—यदि प्रमाणनिवृत्तिमात्रं प्रसज्यलक्षणमभावप्रमाणं वर्ण्यते तदा नासौ कस्यचित्प्रतिपत्तिर्नापिप्रतिपत्तिहेतुरिति न तेन विषयीकरणं युक्तमवस्तुत्वात्। अतो नासौ प्रमाणम्। अथ पर्युदासावृत्त्या प्रमाणाख्याद्भावादन्यो भाव एवाभिप्रेतः, एवमपि प्रमाणाद्व्यावृत्त्यात्मतया न प्रामाण्यं सिद्ध्येत्। नहि ब्राह्मणादन्यो ब्राह्मण एव युक्तः। “स्या”“देतत्”—न सर्वप्रमाणव्यावृत्तोऽसौ वर्ण्यते। किं तर्हि ?। विवक्षितप्रमाणपञ्चकव्यतिरेकेणान्यः प्रत्ययविशेष एव। यद्येवं किमाकारोऽसाविति वाच्यम्। यस्मात्प्रमाणपञ्चकागोचरस्तस्मादसौ सर्वज्ञो नास्तीत्येवमाकार इति चेत्। यद्येवमाकारो न तर्हि प्रमाणम्, व्यभिचारात्। नहि प्रमाणपञ्चकस्या(स्व?)स्वभावाकारणभूतस्यनिवृत्तावप्रतिबद्धं सर्वज्ञादिवस्तु निवर्त्तते, येनायं प्रत्ययः सत्यत्वमश्नवीत। तस्मान्न किञ्चिद्बाधकं प्रमाणं सर्व(ज्ञ)स्यास्तीति भावः॥ ३२६८॥ ३२६९॥

स्यादेतत्—अनुपलम्भो यो युष्माभिरुपवर्णितोऽनुमानत्वेन स एव सर्वज्ञस्य बाधको भविष्यति, किमत्रास्माकमन्येन प्रमाणेनेति। सत्यमेतदनुपलम्भः प्रमाणम्। किन्त्विदमिह सम्प्रधार्यम्। किं स्वोपलम्भनिवृत्तिस्त्वया सर्वज्ञाभावसिद्धयेऽनुपलम्भोऽभिप्रेतः ?, आहोस्वित्सर्वपुरुषोपलम्भनिवृत्तिर्वा ?, अनुपलम्भोऽपि किं निर्विशेषणोऽभीष्ट उपलब्धिलक्षणप्राप्तस्येत्येतस्य विशेषणस्यानाश्रयणात् ?, आहोस्वित्सवि शेषण इति। तत्र न तावन्निर्विशेषणश्चा(स्स्वा?)नुपलम्भः प्रमाणं सर्वज्ञाभावसिद्धये युक्त इति दर्शयन्नाह—“नचाप्यदृष्टिमात्रेणे”त्यादि।

नचाप्यदृष्टिमात्रेण तदसत्ताविनिश्चयः।
हेतुव्यापकतायोगादुपलम्भस्य वस्तुषु॥ ३२७०॥

मात्रग्रहणमुपलब्धिलक्षणप्राप्तस्येत्येतद्विशेषणनिरासार्थम्। “तदसत्ताविनिश्चय” इति। सर्वज्ञासत्ताविनिश्चयः। कस्मात् ?, वस्तुषु—वस्तुविषये उपलम्भस्य हेतुत्वव्यापकत्वायोगात्। नह्यर्वाग्दर्शनस्योपलम्भो वस्तूनां व्यापको वृक्षत्वमिव शिंशपात्वस्य, सत्यपि वस्तुनि देशादिविप्रकर्षेणानुपलम्भसम्भवात्। नापि कारणमग्निरिव धूमस्य, वस्तूनामेवोपलम्भं प्रति कारणत्वाभावात्। नचाकारणाव्यापकभूतस्यान्यस्य निवृत्तावन्यस्य निवृत्तिर्युक्ता, अतिप्रसङ्गात्। या च कार्यानुपलब्धिसक्ता(त्ता?)न सा कारणमात्रस्याभावं गमयति। किं तर्हि ?। अप्रतिबद्धसामर्थ्यस्यैव। न चार्वाग्दर्शिनो(नः उ?)पलम्भं प्रति वस्तूनामप्रतिबद्धसामर्थ्यमस्ति। येन स निवर्त्तमानो वस्तूनामभावं साधयेत्॥ ३२७०॥

कारणव्यापकयोर्निवृत्तावपि कथमन्यस्य निवृत्तिरिति चेदत्राह—“कारणे”त्यादि।

कारणव्यापकाभावे निवृत्तिश्चेह युज्यते।
हेतुमद्व्याप्तयोस्तस्मादुत्पत्तेरेकभावतः॥ ३२७१॥

कृशानुपादपाभावे धूमाम्रादिनिवृत्तिवत्।
अन्यथाऽहेतुतैव स्यान्नानात्वं च प्रसज्यते॥ ३२७२॥

हेतुर्विद्यते यस्य तद्धेतुमत्, कार्यमित्यर्थः। हेतुमच्च व्याप्तं चेति विग्रहः। तयोर्हेतुमद्व्याप्तयोर्निवृत्तिर्युज्यत इति पूर्वेण सम्बन्धः। अत्र कारणं “तस्मादुत्पत्तेरेकभावत” इति। हेतुनिवृत्तौ हि सत्यां हेतुमान्निवर्त्तते, ततो हेतोरुत्पत्तेरात्मभावप्रतिलम्भाद्धेतुमतः, यथा कृशानुनिवृत्तौ धूमस्य निवृत्तिः, तथा व्यापकनिवृत्तौ व्याप्यं निवर्त्तते, तेन व्यापकेन सह तस्यैकभावतः—एकस्वभावत्वात्। यथा वृक्षनिवृत्तौ आम्रखदिरादिनिवृत्तिः, वृक्षविशेषस्यैव आम्रादित्वेन प्रतीतेः। अन्यथा हि यदि कारणनिवृत्तावपि न निवर्त्तेत तत्कारणमेव न स्यात्। नहि यद्यस्मिन्स(न्नस ?)त्यपि भवति तत्तस्य कारणं युक्तमतिप्रसङ्गात्। नापि यन्निवृत्तौ यन्न निवर्त्तते स तस्य स्वभावो युक्तो गौरिव गवयस्य। तस्माद्व्यापक एव स्वभावो व्याप्यं कारणमेव च कार्यं निवर्त्तमानं निवर्त्तयेत्, नान्यदतिप्रसङ्गात्। यथोक्तम—“तस्मात्तन्मात्रसम्बद्धः स्वभावो भावमेव तु। निवर्त्तयेत् कारणं वा कार्यमव्यभिचारतः। अन्यथैकनिवृत्त्याऽन्यविनिवृत्तिः कथं भवेत्। नास्त(श्व?)वानिति मर्त्त्येन न भाव्यं गोमताऽपि कि”मिति ॥ ३२७१॥ ३२७२॥

अथापि स्वोपलम्भस्य सर्वार्थान्प्रति हेतुत्वं व्यापकत्वं चाङ्गीक्रियते तदा स्ववचनविरोधः प्रतिज्ञायामापद्यत इति दर्शयन्नाह—“स्वोपलम्भस्ये”त्यादि।

स्वोपलम्भस्य चार्थेषु निखिलेषु विनिश्चये।
कुतश्चिद्भवतो ज्ञानाद्धेतुत्वव्यापकत्वयोः॥ ३२७३॥

भवानेव तदा सिद्धः सर्वार्थज्ञोऽप्रयत्नतः।
ततश्च स्वात्मनि द्वेषः कस्ते सर्वविदि स्वतः॥ ३२७४॥

“हेतुत्वव्यापकत्वयोरि”ति। निश्चयापेक्षया षष्ठी। “उपलम्भस्य चार्थेष्वि”तिषष्ठीसप्तम्यौ हेतुत्वव्यापकत्वयोरित्येतदपेक्ष्य यथाक्रमं सम्बन्धे विषयभावे च योज्ये। एतदुक्तं भवति—यदि भवता कुतश्चित्प्रमाणात्स्वोपलम्भस्य सर्वार्थेषु हेतुत्वे व्यापकत्वं निश्चितं तदाऽऽत्मनि स्फुटतरमेव त्वया सर्वज्ञत्वं प्रतिज्ञातं भवति। नह्यसर्वविदो ज्ञानमशेषज्ञेयव्यापकं भवति। सर्वज्ञाभावसिद्धये च साधनोपादानात्तदेव निषिध्यत इति स्ववचनव्याघातः॥ ३२७३॥ ३२७४॥

एवं तावन्निर्विशेषणः स्वानुपलम्भो न सर्वविदोऽसत्त्वप्रसिद्धये निर्देशनमर्हति, नाप्युपलब्धिलक्षणप्राप्तस्य सतोऽनुपलम्भादिति विशेषणात्सविशेषणः। तथाहि —स निर्दिश्यमानः स्वशब्देन वा निर्दिश्यते, यथा नास्ति क्वचित्प्रदेशविशेषे घट उपलब्धिलक्षणप्राप्तस्यानुपलम्भादिति निर्देशस्तथा सर्वज्ञाभावसिद्धयेऽपि स्यात्।य(अ?)थार्थान्तरस्य तत्कारणव्यापकात्मन उपलब्धिलक्षणप्राप्तस्याभावोपदर्शनादस्वशब्देन। यथा—नास्त्यत्र धूमो वह्न्यभावात्, नास्त्यत्र शिंशपा वृक्षाभावादिति।नह्यप्रतिबद्धस्याहेत्वव्यापकभूतस्यान्यस्य विनिवृत्तावपरस्य नियमेन निवृत्तिर्युक्तेति पूर्वमुक्तमतिप्रसङ्गापत्तेरिति। नाचाप(प्य?)निश्चितस्वहेतुव्यापकव्यतिरेकस्यार्थस्य कारणव्यापकयोर्व्यतिरेकाद्व्यतिरेकः सिद्ध्यतीति, अतस्तत्राप्युपलब्धिलक्षणप्राप्तस्येतिविशेषणमाश्रयणीयम्। एवं सर्वज्ञेऽपि स्यात्। यद्वा—अर्थान्तरस्य साक्षात्पारम्पर्येण वा विरुद्धस्यैव विधानात्तन्निषेधः, नाविरुद्धस्य, तस्य तत्सहभावसम्भवात्। यथा—नास्त्यत्र शीतस्पर्शो वह्नेरिति साक्षाद्विरुद्धस्य वह्नेर्विधानाच्छीतस्पर्शनिषेधः,तद्वत्सर्वज्ञनिषेधेऽपि स्यात्। पारम्पर्येण तु विरुद्धस्य कदाचित्तद्व्यापकविरुद्धस्यैव वा विधानात्सर्वविदो निषेधः, यथा—तुषारस्पर्शव्यापकशीतविरुद्धवह्निविधानात्तुषारस्पर्शनिषेधः। तत्कारणविरुद्धविधानाद्वा, यथा—रोमहर्षादिकारणशीतविरुद्धदहनविशेषविधानाच्छीतकार्यरोमहर्षादिनिषेधः। तद्विरुद्धकार्यस्य वा विधानात्, यथा—क्वचित्प्रदेशविशेषे शीतादिविरुद्धवह्न्यादिकार्यस्य धूमादेर्विधानात्शीतस्पर्शनिषेधः। तत्करणविरुद्धकार्योपलम्भाद्वा, यथा—रोमहर्षादिकारणशीतविरुद्धवह्निकार्यधूमोपदर्शनाद्रोमहर्षादिनिषेधः। रोमहर्षादिविशेषयुक्तपुरुषवान(न्ना?)यं प्रदेशो धूमादिति। तद्विरुद्धव्याप्तस्य वा विधानात्तन्निषेधः, यथा—ध्रुवभावित्वविरुद्धाध्रुवभावित्वव्याप्तस्य सापेक्ष(त्व)स्य विधानाद्ध्रुवभावित्वनिषेध इति। त एते सर्व एवानुपलब्धिप्रयोगाः सर्वज्ञाभावसिद्धये न सम्भवन्ति, तस्य सर्वविदः सर्वदैवानुपलब्धिलक्षणप्राप्तत्वात्। एषा चोपलब्धिलक्षणप्राप्तानुपलम्भभेदत्वादित्येतद्दर्शयति—“अत एवे”त्यादि।

अत एव न दृश्योऽयं सर्वज्ञस्ते प्रसिद्ध्यति।
तद्दृश्यत्वे हि सार्वज्ञ्यं तवैव स्यादयत्नतः॥ ३२७५॥

सर्वार्थविषयं ज्ञानं यस्य दृश्यः स ते कथम्।
सर्वार्थविषयं ज्ञानं तवापि यदि नो भवेत्॥ ३२७६॥

अत एव स्ववचनविरोधप्रसङ्गान्न भवता सर्वज्ञः स्वयमुपलब्धिलक्षणप्राप्तोऽङ्गीकर्त्तव्यः। अन्यथा हि स्वस्मिन्सर्वज्ञत्वमभ्युपेतं स्यात्। कथमित्याह—“सर्वार्थविषय”मित्यादि। यदि हि सर्वार्थगोचरं तत्रा(वा?)पि ज्ञानं भवेदेवं ते सर्वज्ञ उपलब्धिलक्षणप्राप्तो भवेन्नान्यथा, नह्यसर्वविदां सर्वविदुपलम्भगोचरो भवति॥ ३२७५॥ ॥ ३२७६॥

स्यादेतत्—माभूदुपलब्धिलक्षणप्राप्तोऽस्माकं सर्वज्ञस्तथापि किमित्येतेऽनुपलब्धिप्रयोगास्तदभावसिद्धये न सम्भवन्तीत्याह—“तेने”त्यादि।

तेनादृष्टिविशेषोत्थं कारणव्यापकात्मनाम्।
प्रकृत्या दृश्यरूपत्वात्सर्वज्ञस्य न सिध्यति॥ ३२७७॥

यस्मादुपलब्धिलक्षणप्राप्तस्तव न भवति सर्वज्ञस्तेन कारणेन सर्वज्ञकारणव्याप कस्वभावानामदृष्टिविशेष उपलब्धिलक्षणप्राप्तानुपलम्भो न सिद्ध्यति। स्वभावकारणव्यापकानुपलब्धिप्रयोगा आद्यास्त्रयो न सिद्ध्यन्तीति यावत्॥ ३२७७॥

यद्येवमन्ये तर्हि शेषाः सिद्ध्यन्तु, तथाऽपि सिद्ध एव सर्वज्ञाभाव, इति चेदाह —“इयं चे”त्यादि।

इयं च त्रिविधा दृष्टिर्विश्व(नव?)रूपा प्रवर्त्तते।
तत्तद्विरुद्धाद्यगतिगतिभेदप्रयोगतः॥ ३२७८॥

मूलप्रभेदरूपाया अस्याः सर्वविदं प्रति।
साधिते शक्तिवैकल्ये व्यस्ता अन्या अयत्नतः॥ ३२७९॥

इयमेवानन्तरेक्ता स्वभावव्यापककारणानामदृष्टिस्त्रेधा प्रपञ्च्यमाना नवधा भिद्यते। कथमित्याह—“तत्तद्विरुद्धाद्यगती”त्यादि। तच्छब्देन प्रक्रान्तं स्वभावव्यापककारणाख्यं त्रयमभिसम्बध्यते, तेन स्वभावादिना विरुद्धं तद्विरुद्धम्, तच्च त्रिविधमेव भवति, स्वभावव्यापककारणविरुद्धभेदात्। तद्विरुद्धमादिर्यस्य तत्तद्विरुद्धादि। आदिशब्देन विरुद्धकार्य—कारणविरुद्धकार्य—विरुद्धव्याप्तास्त्रयो गृह्यन्ते। पुनर्द्वितीयेन तच्छब्देन तदेव स्वभावादित्रयं सम्बध्यते। तच्च तद्विरुद्धादि चेति तत्तद्विरुद्धादीति। यथाक्रमं तयोरगतिगती तद्विरुद्धाद्यगतिगती। तदगतिस्तद्विरुद्धादिवानि(गति?)श्चेत्यर्थः। तयोर्भेदस्तेन प्रयोग इति समासः। तत्र तदगत्या साक्षात्रिविधा स्वभावकारणव्यापकानुपलब्धिर्निर्दिष्टा। अस्या एव त्रिविधाया अदृष्टेः शेषानुपलब्धयः पारम्पर्येण सूचिका इत्यत इयं त्रिविधानुपलब्धिरासां मूलभेदरूपा भवति। तथाहि—तद्विरुद्धगत्या स्वभावविरुद्धोपलब्धिः व्यापकविरुद्धोपलब्धिः कारणविरुद्धोपलब्धिश्च निर्दिष्टा। आदिशब्देन विरुद्धकार्योपलब्धिः कारणविरुद्धकार्योपलब्धिर्विरुद्धव्याप्तोपलब्धिश्च सङ्गृहीताः। एताभिश्च पारम्पर्येण यथायोगं स्वभावव्यापककारणानुपलब्धयः सूच्यन्त इत्यतस्त्रिविधाया मूलप्रभेदरूपायाः सर्वज्ञाभावसिद्धिम्प्रत्यसामर्थ्यप्रतिपादनात्तच्छाखाभूतानां यत्नमन्तरेणैव प्रतिपादितं भवतीति नास्यां पृथगसामर्थ्यप्रतिपादनाय यत्नः कार्यः, नहि मूले छिन्ने शाखानामवस्थितिर्भवेत्।परमार्थतस्तु स्वभावानुपलब्धिरेव सर्वासां मूलभूता, अर्थान्तरभेदाश्रयणात्तु त्रिविधा मूलत्वेनोक्ता॥ ३२७८॥ ३२७९॥

स्यादेतत्—यदि सर्वज्ञोऽनुपलब्धिलक्षणप्राप्तस्तदा माभूत्तदनुपलम्भविशेषसिद्धिः, तत्कारणव्यापकयोस्तूपलब्धिलक्षणप्राप्तत्वात्किमिति तददृष्टिविशेषो न सिद्ध्यति, तद्विरुद्धादीनां चोपलभ्यस्वभावत्वादुपलम्भः किमिति न सिद्ध्येदित्याह—“कार्यकारणते”त्यादि।

कार्यकारणताव्याप्यव्यापकत्वविरोधिताः।
दृश्यत्वे सति सिद्ध्यन्ति यश्चात्मा सविशेषणः॥ ३२८०॥

सर्वज्ञो नच दृश्यस्ते तेन नैता अदृष्टयः।
तन्निराकरणे शक्ता निषेधाङ्गं नचापरम्॥ ३२८१॥

कार्यकारणभावो व्याप्यव्यापकत्वं विरोधिता चेति द्वन्द्वः। प्रत्यक्षानुपलम्भसाधनो हि कार्यकारणभावः, सर्वज्ञादेरदृश्यत्वान्न तेन सह कार्यकारणभावः सिद्ध्यति। नापि व्याप्यव्यापकभावस्तस्याप्युपलब्धिलक्षणप्राप्तस्यानुपलम्भपूर्वकत्वात्। तथाहि —यन्निवृत्तौ यन्नियमेन निवर्त्तते स तेन व्याप्तो व्यपदिश्यते, निवृत्तेश्च नानुपलब्धिलक्षणप्राप्तानुपलम्भमन्तरेण सिद्धिर्भवति। विरोधितापि दृश्ययोरेव वस्तुनोः सिद्ध्यति नादृश्ययोः। तथाहि—सहानवस्थानलक्षणस्तावद्विरोधोऽविकलकारणस्य भवतोऽन्यभावेऽभावाद्दृश्यते। भावाभावौ च नानुपलभ्यस्वभावयोर्वस्तुनोर्निश्चेतुं शक्यौ। परस्परपरिहारस्थितलक्षणोऽपि विरोधो यद्य(द?)वच्छेद्याना(न?)न्तरीयको यस्य परिच्छेदस्तयोर्व्यवस्थाप्यते, यथा क्रमाक्रमयोः। परिच्छेदश्च नादृश्ये सम्भवति। यद्येवं भावाभावादीनां कथं विरोधसिद्धिः, नहि तत्रोभयोर्दृश्यत्वमस्ति। नैष दोषः। नहि भावाभावौ पृथक्परिच्छिद्य पश्चात्तयोर्व्यवच्छेद्यव्यवच्छेदकभावात्विरोधो व्यवस्थाप्यते। किं तर्हि ?, पृथक्परिच्छिन्नयोरेव। तथाह्येकस्मिन्धर्मिण्येककालं तयोर्विरोधो व्यवस्थाप्यते नतु धर्म्यन्तरे। नहि गोरभावे अश्वस्य भावविरोधः कश्चित्। नाप्येकत्रधर्मिणि भिन्नकालयोस्तयोर्विरोधः, नहि प्रागभूतस्य (भूतस्य) वा पश्चाद्भावाभावौ न सम्भवतः। एकस्मिंस्तु वस्तुनि तयोर्युगपदपरिच्छेदाद्विरोधः, नतु तत्रैव, परिच्छिद्य व्यवच्छेदात्। अपरिच्छिन्नस्य कथं व्यवच्छेद इति चेत्। अत एव, यत एव न परिच्छिद्यते तत्र धर्मिणि तत एव तस्य व्यवच्छेदः सम्भवेत्। अन्यथा तत्र परिच्छिन्नधर्मस्य कथं व्यवच्छेदः शक्यते कर्तुम्। अयमेव हि तदभावव्यवच्छेदो य एव तत्परिच्छेदः, स एवान्याभावस्य तत्र परिच्छेदो यएवान्यव्यतिरिक्तस्य तस्य परिच्छेदः। तस्माद्यस्य धर्मिणोऽभावो व्यवच्छिद्यते भावश्च परिच्छिद्यते सोऽवश्यं दृश्योऽभ्युपगन्तव्यो नह्यदृश्यस्य परिच्छेदो नापरिच्छिन्नस्य तद्विपरीतधर्मव्यवच्छेदः सम्भवति। न त्वेवं सर्वज्ञे सम्भवति, नहि सर्वे नरा धर्मिणो दृश्याः कस्यचित्, येन तेष्वसर्वज्ञत्वधर्मपरिच्छेदात्सर्वज्ञत्वव्यवच्छेदः सिद्ध्येत्। तस्यैव सर्वज्ञत्वप्रसङ्गात्। तस्मादनुपलभ्यधर्मिणि सर्वज्ञत्वासर्वज्ञत्वयोर्विरोधो न सिद्ध्यति। स्वसन्ताने तु सिद्ध्यति। तत्रापि नानागतावस्थायां तस्यास्तदानीमदृश्यत्वात्। तस्मात्स्थितमेतत् दृश्यस्यैव कार्यकारणादिभावः सिद्ध्यतीति। “यश्चात्मा सविशेषण” इति। स सिद्ध्यतीति सम्बन्धः। तत्र आत्मा स्वभावः, सह विशेषणेन वर्त्तत इति सविशेषणः। तत्र विशेषणं त्रिविधविप्रकर्षरहितत्वम्। “एता अदृष्टय” इति। कारणाद्यनुपलब्धयः सर्वज्ञस्य केनचित्सह कार्यकारणभावविरोधव्याप्यव्यापकाभावासिद्धेः। सत्स्वन्येषूपलम्भकारणेषु क्वचित्कदाचित्प्रत्यक्षत्वासिद्धेश्च। निषेधाङ्गं नचापरमस्त्यनुपलब्धिविशेषं त्यक्त्वा॥ ३२८०॥ ॥ ३२८१॥

पुनरपि स्वानुपलम्भस्य निर्विशेषणस्य प्रयोगेऽतिप्रसङ्गापादनेनानैकान्तिकतामुद्भावयन्नाह—“यदी”त्यादि।

यदि त्वदृष्टिमात्रेण सर्ववित्प्रतिषिध्यते।
तदा मातृविवाहादिनिषेधोऽपि भवेत्तव॥ ३२८२॥

मातृविवाहादीत्यादिशब्देन स्वपित्रोः सुरतोपभोगादिपरिग्रहः। ततश्च जारजातत्वमापन्नं भवत इति भावः। यथोक्तम्—“यद्यत्र भवतो मन्दचक्षुषोऽनुपलब्धिरर्थानपाकुर्यात् हन्त हतोऽसि, पितृव्यपदेशनिबन्धनस्याप्यप्रवृत्तिप्रसङ्गादिति”॥ ३२८२॥

अत्र परस्य परिहारमाशङ्कते—“सुताख्ये”त्यादि।

सुताख्यकार्यदृष्ट्या चेद्धेतोस्तस्यास्तितागतिः।
तदभावेऽपि तत्कार्यं ननु कस्याञ्चिदीक्षते॥ ३२८३॥

तस्य मातृविवाहादिकस्य हेतोः सुताख्यादिकार्यदर्शनादनुमानप्रमाणतः सिद्धत्वात्तदनुपलब्धिर्न सिद्धेति न तदभावप्रसङ्गः। “तदभाव” इत्यादिनाऽस्य कार्यहेतोर्व्यभिचारमादर्शयति—“तदभाव” इति। तस्य विवाहस्याभावे तथा विवाहितभर्न्त्रा च सह सुरतोपभोगाभावेऽपि कस्याश्चिद्दुष्टयोषितः परपुरुषसङ्गत्या सुताख्यं कार्यमुपलभ्यते तद्वद्भवतु (तो ?) मातुरपि स्यादित्यसिद्धमनुमानम्, ततश्च भवतो जार जातत्वप्रसङ्गो दुर्निवारः। “आचार्यधर्मकीर्त्ति”नाऽपि विशिष्टपितृव्यपदेशनिबन्धनाभावप्रसङ्गापादनस्य विवक्षितत्वाज्जारजातत्वप्रसङ्गापादनमेव कृतम्॥ ३२८३॥

“अन्योपलम्भत” इत्यादिना परस्योत्तरमाशङ्कते।

अन्योपलम्भतस्तस्य नासत्ता गम्यते यदि।
ननु चान्योपलम्भस्ते सिद्धस्तद्विषयः कथम्॥ ३२८४॥

अन्येषां पुरुषाणामुपलम्भोऽन्योपलम्भः। “तस्ये”ति। मातृविवाहादेः। नासत्ता गम्यते, किं तर्हि ?, सत्तैव। अत्रान्योपलम्भासिद्धिः, तद्भावयन्नाह—“ननु चे”त्यादि॥ ३२८४॥

कथमिति पृष्टः सन्पर आह—“उपदेशादि”ति।

उपदेशान्न सर्वज्ञेऽप्ययं किं विद्यते तथा।
इदं च स्वोक्तमपरं किमत्र न समीक्ष्यते॥ ३२८५॥

सर्वदा चैव पुरूषाः प्रायेणानृतवादिनः।
यथाऽद्यत्वे न विस्त्रम्भस्तथाऽतीतार्थकीर्त्तने॥ ३२८६॥

“सिद्ध” इति प्रकृतेन सम्बन्धः। अतिप्रसङ्गापादनामु(दु?)पदेशस्यानैकान्तिकतामादर्शयन्नाह—“न सर्वज्ञेऽपी”ति। “अय”मिति। उपदेशः। सर्वज्ञे किं न विद्यते, अपितु विद्यत एव, तत्र यदि मातृविवाहाद्युपदेशः प्रमाणीक्रियते, सर्वज्ञोऽस्तीत्ययमस्मदीयोऽप्युपदेशः किं न प्रमाणीक्रियेत, विशेषाभावात्। किञ्च—स्ववाचैवोपदेशस्याप्रामाण्यमुक्तं भवतेति दर्शयति—“इदं चे”त्यादि॥ ३२८५॥ ३२८६॥

एवं तावन्न स्वोपलम्भनिवृत्तिः सर्वज्ञाभावसिद्धये प्रमाणं युक्ता, निर्विशेषणायाअनैकान्तिकत्वात्सविशेषणायाश्चासिद्धत्वादिति प्रतिपादितम्, इदानीं सर्वपुरूषोपलम्भनिवृत्तेरसिद्धत्वान्न सर्वज्ञासत्त्वसाधने प्रामाण्यं युक्तमित्येतत्प्रतिपादयन्नाह—“मा वाभू”दित्यादि।

मा वाभूदुपदेशोऽस्य प्रामाण्यं वा तथाऽपि वः।
कृतोऽयं निश्चयः सर्वैः सर्वविन्नोपलभ्यते॥ ३२८७॥

एवं हि निश्चयो हि स्यात्सर्वसत्त्वात्मदर्शने।
तद्दृष्टौ सर्वविद्भूतो भवानिति च वर्णितम्॥ ३२८८॥

“उपदेश” इति। सर्वविदोऽस्तित्वप्रतिपादक इति शेषः। अस्य—प्रामाण्यं वेत्युप देशस्य। “सर्वसत्त्वात्मदर्शन” इति। सर्वसत्त्वस्वभावदर्शने। अस्त्येवास्माकं सर्वसत्त्वात्मदर्शनमिति चेदाह—“तद्दृष्टा”वित्यादि। तद्दृष्टौ—सर्वसत्त्वात्मदृष्टौ॥ ३२८७॥ ॥ ३२८८॥

अन्यथा संशयो युक्तोऽनुपलम्भेऽपि सत्त्ववत्।
केचित्सर्वविदः सन्तो विदन्तीति हि सङ्क्यते॥ ३२८९॥

स्वयमेवात्मनाऽऽत्मानमात्मज्योतिः स पश्यति।
इत्यप्याशङ्क्यतेऽतश्च सर्वादृष्टिरनिश्चिता॥ ३२९०॥

“अन्यथे”ति। सर्वसत्त्वात्मदर्शनाभावे। “सत्त्वव”दिति। देशादिविप्रकृष्टस्य वस्तुनः सत्तायामिव सत्त्ववत्। एतदुक्तं भवति—यथा देशादिविप्रकृष्टस्य वस्तुनः सत्यप्यनुपलम्भे तत्सत्तायां संशयो भवति, सत्यपि वस्तुन्यनुपलम्भात्, एवमन्यपुरुषवर्त्तिनि सर्वज्ञविषयोपलम्भेऽपि संशयो युक्तः। अथवा—अयमर्थः—यथा सर्वज्ञसत्तायामनुपलम्भेऽपि संशयस्तथा सर्वज्ञत्वविषयोपलम्भेऽपि संशयः, द्वयोरपि स्वभावविप्रकर्षेणानुपलम्भसम्भवात्। ननु वस्तुसत्त्वे संशयो युक्तो यतः सत्यपि वस्तुनितदनुपलम्भस्य दर्शनात्कदाचित्स्यादिति सम्भाव्यमानत्वात्। नतु सर्वज्ञदर्शनं कस्यचिदर्वाग्दर्शनस्य सम्भाव्यते, नचासम्भाव्यमाने वस्तुनि प्रेक्षावतः संशयो युक्त इत्यत आह—“केचिदि”त्यादि। “स्वय”मेवेति। परसिद्धान्ताभ्युपगमादुक्तम्। स्वयमेवेत्यस्यैव निर्देश “आत्मने”ति। “आत्मे”ति पुरुषः। “ज्योति”रिति। चिद्रूपत्वेन प्रकाशात्मकत्वादात्मनः॥ ३२८९॥ ३२९०॥

“तथाही”त्यादिना इदमेव समर्थयते।

तथाहि सर्वशब्देन सर्वे प्राणभृतो मताः।
स च सर्वाबहिर्भूत इत्यदृष्टिरनिश्चिता॥ ३२९१॥

“स” चेति। सर्वज्ञः॥ ३२९१॥

स्यादेतदर्वाग्दर्शिन एव सर्वशब्देन विवक्षिता नतु सर्वज्ञः, तेन शङ्का न भविष्यतीत्याह—“तदेके”त्यादि।

तदेकपरिहारेण प्रतिबन्धोऽत्र को भवेत्।
न ह्यन्यैरपरिज्ञानात्स्वरागादि निवर्त्तते॥ ३२९२॥

यदि हि तस्य सर्वज्ञस्य परिहारेणान्येषामर्वाग्दर्शिनामनुपलम्भो हेतुत्वेनोपादीयते तदाऽनैकान्तिकता, तस्य स्वानुपलम्भवत्सर्वज्ञाभावेन सहाविनाभावलक्षणस्य प्रतिबन्धस्याभावात्। “नही”त्यादिना तमेव प्रतिबन्धाभावं समर्थयते॥ ३२९२॥

एवमनुपलम्भाख्यस्य प्रमाणस्यानैकान्तिकत्वमसिद्धत्वं च प्रतिपादितम्, इदानीमभावप्रमाणविषयीकृतविग्रहत्वादित्यस्यापि हेतोः सन्दिग्धासिद्धतेति प्रतिपादयन्नाह —“केचि”दित्यादि।

केचिदर्वाग्दृशो वाऽपि प्रपश्यन्तेऽनुमानतः।
काश्चिदेव हि केषाञ्चिन्निपुणा मतयः क्वचित्॥ ३२९३॥

तथाहि वेदभूम्यादेः क्षणिकत्वादिसाधनम्।
पुरः प्रोक्तं सुविस्पष्टमपि नो लक्षितं जडैः॥ ३२९४॥

तदेवं शङ्कया नास्य ज्ञानाभावोऽपि निश्चितः।
यतोऽसत्त्वं प्रपश्यन्ते निर्विशङ्का हि जातयः॥ ३२९५॥

केचिन्निपुणमतय अर्वाग्दर्शिनोऽपि सन्तः कदाचिदनुमितेः सर्वज्ञं प्रतिपद्यन्त इति सम्भाव्यमानत्वात्सन्दिग्धासिद्धत्वमभावप्रमाणविषयीकृतत्वादित्यस्य हेतोः। तथाहि—वेदध्वनिधरणिगिरितनुवज्रादीनां क्षणिकत्वानात्मत्वादि स्फुटतरमपि भवद्भिर्मीमांसकपशुभिरनुपलक्षितमपि सत्, अस्माभिर्दृढतरसाधनोपदर्शनेन प्रसाधितम्, तथा सर्वज्ञे यदि नाम साधनमिदानीं नोपलभ्यते तथाऽपि सम्भाव्यमानत्वात्सन्दिग्धमित्यतः प्रमाणपञ्चकविरहस्वभावाभावप्रमाणविषयीकृतविग्रहत्वमसिद्धम्। सन्दिह्यमानत्वात्। यत इति। मानाभावात्॥ ३२९३॥ ३२९४॥ ३२९५॥

किञ्च—माभून्नामार्वाग्दर्शिनां सर्वेषामेव सर्वज्ञसिद्धावनुमानम्। तथाऽप्यनैकान्तिकता हेतोरिति दर्शयन्नाह—“अभावेऽप्यनुमानस्ये”त्यादि।

अभावेऽप्यनुमानस्य नातोऽसत्ताविनिश्चयः।
असमारब्धधूमादिकार्यवह्न्यादिसत्त्ववत्॥ ३२९६॥

प्रतिपादितं हि पूर्वं यथा न प्रमाणं वस्तुनो हेतुर्नापि व्यापकं तत्कथमस्य निवृत्तावपि वस्तु निवर्तते। तथा ह्ययोगोलकवह्न्यादेरनारब्धधूमादिकार्यस्यापवरककुहरान्तर्गतस्य लिङ्गाभावान्नानुमानमुत्पद्यते। अथ च तस्य सत्त्वमनिवृत्तमिति नासत्तानिश्चयस्तद्वत्सर्वज्ञाभावसाधने अनुमानाभावे संशयः। “अत” इति। अनुमान्नाभावात्। असमारब्धं धूमादिकार्यं येन वह्न्यादिना स तथोक्तः, असमारब्धधूमादिकार्यश्चासौ वह्न्यादिश्चेति विग्रहः, तस्य सत्तायामिव सत्त्ववत्॥ ३२९६॥

“कदाचिदुपलब्धेऽर्थे” इत्यादिना परः अयोगोलकवह्न्यादिदृष्टान्तसंशयकारणमुपलम्भं दर्शयत्, सर्वज्ञे च तदभावादयुक्तः संशय इति प्रतिपादयन् हेतोरनैकान्तिकतामेव समर्थयते।

कदाचिदुपलब्धेऽर्थे सन्देहो ननु युज्यते।
यथा स्थाणौ तथा ह्येष उभयांशावलम्बकः॥ ३२९७॥

यतः स्थाणुनरौ दृष्टौ कदाचिदिति तद्गतिः।
संशयो युज्यते तत्र दृष्टस्त्वेवं न सर्ववित्॥ ३२९८॥

यो ह्यर्थः कदाचिदुपलब्धपूर्वस्तत्रैव संशयो युज्यते, यथा स्थाणौ नान्यत्र, तथो(स्यो?)भयांशावलम्बित्वात्। अन्यथा हि यत्किञ्चिददृष्टं तत्सर्वमालम्बेत संशयः।ततश्चोभयांशावलम्बित्वनियमो न स्यात्। तेनायोगोलकवह्न्यादौ युक्तः संशयो नतुसर्वज्ञे, तस्य कदाचिदप्यनुपलम्भात्॥ ३२९७॥ ३२९८॥

“नन्वि”त्यादिना प्रतिविधत्ते।

ननु मातृविवाहादेरसत्त्वं मुक्तसंशयम्।
एतेनैव प्रकारेण तव धीमन्प्रसज्यते॥ ३२९९॥

यदि कदाचिदुपलब्धेऽर्थे संशयोऽन्यत्राभावनिश्चयस्तदाऽमुना न्यायेन भवतो मातृविवाहादेस्स(रस?)त्त्वमसंशयितं प्राप्नोति। नहि भवता कदाचिन्मातृविवाह उपलब्धपूर्वः। येनात्रापि नाभावनिश्चयो भवेद्भवतः। अत्र च शेषं चोद्यमुत्तरपूर्वव द्वाच्यम्। धीमन्नित्युपहासवचनम्॥ ३२९९॥

यद्येवं निर्निबन्धन एव तर्हि संशयः प्राप्त इत्याह—“अस्माभिरि”त्यादि।

अस्माभिः संशयस्त्वत्र प्रमाभावेऽपि वर्ण्यते।
भावेऽभावे च वस्तूनां प्रमाणविनिवृत्तितः॥ ३३००॥

प्रमाणाभावमात्रस्य हि वस्तुभावाभावयोरपि प्रदर्शनादव्यवस्थितत्वमतः सदसत्तानिश्चयानुत्पत्तेरेव संशयो वर्ण्यते। यथोक्तम्—उपलब्ध्यनुपलब्ध्यव्यवस्थातोविशेषापेक्षो विमर्शः संशय इति॥ ३३००॥

स्यादेतन्नैव वस्तुसदसत्तयोरुभयत्रापि प्रमाणनिवृत्तिर्दृश्यत इत्याह—“नेत्रादीना”मित्यादि।

नेत्रादीनां हि वैकल्ये वस्तुसत्त्वेऽपि न प्रमा।
तेषामविकलत्वेऽपि वस्त्वभावाद्धटादिवत्॥ ३३०१॥

ततश्चानुपलम्भस्य केवलस्य द्विधेक्षणात्।
तत्प्रमाभावतोऽप्यस्तु सर्वज्ञे संशयो वरम्॥ ३३०२॥

तथाहि सत्यपि घटादिके वस्तुनि नेत्रविकलस्य न प्रमाणं प्रवर्त्तते। तेषां च मेत्रादीनामवैकल्येऽपि विषयाख्यस्य वस्तुनोऽसन्निहितत्वेनासत्त्वेऽपि न प्रवर्त्तत इति प्रकृतेन सह सम्बन्धः। यथा घटादौ योग्यदेशासन्निहिते। “केवलस्ये”ति। दृश्यताविशेषणरहितस्य। “द्विधेक्षणा”दिति। भावेऽभावे च। “त”दिति। तस्मात्। “वर”मिति। कुशलमूलप्रतिसन्धानकारणात्। तथाहि—मिथ्यादृष्ट्या समुच्छिन्नकुशलमूलानां कुशलमूलप्रतिसन्धानं(ने?)काङ्क्षाऽस्ति, “दृष्टिभ्यां वर्ण्यते सन्धिः काङ्क्षाऽस्तिदृष्टिभ्या”मिति वचनात् (?)। अत एव तत्र तत्राचार्याः संशयं विदधते—“भावे किं प्रमाणमिति चेदत एव संशयोस्त्वि”ति॥ ३३०१॥ ३३०२॥

स्यादेतत्—यदि सर्वज्ञोऽस्ति किमिति कदाचित्केनचिन्नोपलभ्यते। यदि नामार्वाग्दर्शिनां नित्यानुपलभ्योऽसाविति स्यात्, तथाऽपि तत्कार्यं वा किं न केनचित् गृह्येत, नहि चक्षुरादीनामप्रत्यक्षत्वे तत्कार्यस्यापि ज्ञानस्याप्रत्यक्षत्वेन भवितव्यमित्यत आह—“स हि सन्नपी”त्यादि।

स हि सन्नपि नेक्ष्येत जडैरन्यविकल्पवत्।
साक्षादयोगुडाङ्गारा(र?)वह्विवन्न च कार्यकृत्॥ ३३०३॥

तत्कार्यं वा यदाऽदृश्यमन्यकल्पजरागवत्।
कार्ये दृश्येऽपि वा तेन नान्वयोऽस्य प्रतीयते॥ ३३०४॥

सर्वार्थज्ञो यतोऽदृश्यः सदैव जडधीदृशाम्।
नातोऽनुमानतस्तस्य सत्ता सिद्धिं प्रयास्यति॥ ३३०५॥

अहेत्वव्यापकं चोक्तं प्रमाणं वस्तुनोऽस्य च।
निवृत्तावस्य भावोऽपि दृष्टस्तेनापि संशयः॥ ३३०६॥

नेक्ष्येत साक्षादिति सम्बन्धनीयम्। नहि यावत् किञ्चित्सकृत्सर्वमुपलभ्यम्,येनोपलम्भाभावात्सर्वज्ञाभावः स्यात्, सतोऽप्यन्यपुरुषगतस्य विकल्पस्य परैरनुपलम्भात्। नाप्यवश्यं कारणानि सदैव समारब्धकार्याणि भवन्ति, येन सर्वज्ञस्यकार्यानुपलम्भादसत्त्वं स्यात्, अनारब्धधूमकार्यस्याप्ययोगोलकवह्न्यादेर्दर्शनात्। भवतु नाम सदैव कारणानां कार्यवत्त्वं तथाऽपि न तत्कार्याभावनिश्चयः, नहि सर्वकार्यमुत्पन्नमपि दृश्यत्वेन व्याप्तम्, येन कार्यानुपलब्ध्या तदभावः सिद्ध्येत्।उत्पन्नस्यापि कार्यस्यादर्शनात्। अन्यकल्पजरागवत्—यथाऽन्यस्य पुरुषस्य कल्पादयोनिसौमनस्काराज्जातोऽपि रागो नोपलभ्यते, न चास्याभावः। सत्यपि वा कार्यदर्शने तत्कारणस्यातीन्द्रियत्वादगृहीततदन्वयव्यतिरेकस्य पुंसस्तदनुमानानुत्पत्तिसम्भवात्, तथा—सत्यपि सर्वे(सर्वज्ञे?)नानुमानात्सिद्धिर्भवेदिति सम्भाव्यते। “जडधीदृशामि”ति। धीरेव दृक्—धीदृग्, जडा धीदृग् येषां ते तथोक्ताः। अपिच पूर्वमुक्तम्—यथा न प्रमाणं वस्तुनो हेतुः, नापि व्यापकं, तत्कथमस्यानुमानस्याहेतु(त्व?)व्यापकभूतस्य निवृत्तावपि वस्तु निवर्त्तेतेति भावः। अहेतुश्च तदव्यापकं चेति तथोक्तम्—नचाप्येतच्छक्यं वक्तुम्, अकारणाव्यापकभूतस्याप्यनुमानाख्यस्यप्रमाणस्य निवृत्तौ वस्तु निवर्त्तमानं दृष्टमेव(मिति?)। नहि दृष्टेऽनुपपन्नं नामेत्याशङ्क्याह—“निवृत्तावस्य भावोऽपि दृष्ट” इति। अस्यानुमानस्य निवृत्तावपि सत्यामस्य वस्तुनो भावोऽपि दृष्टः, यथा—अयोगोलकवह्न्यादेरिति पूर्वमुक्तम्॥ ३३०३॥॥ ३३०४॥ ३३०५॥ ३३०६॥

एवं विस्तरेण सर्वज्ञाभावसिद्धये बाधकप्रमाणासम्भवं प्रतिपाद्योपसंहरति—“तस्मादि”त्यादि।

तस्मात्सर्वज्ञसद्भावबाधकं नास्ति किञ्चन।
प्रमाणं साधकं त्वस्य विस्तरेणाभिधास्यते॥ ३३०७॥

स्यादेतत्—यथाऽस्माकं न किञ्चित्तद्वाधकं प्रमाणमस्ति, तथा भवतां (न) तत्साधकमपीत्यत्राह—“साधकं त्वस्ये”ति॥ ३३०७॥

यदुक्तम—समस्तावयवव्यक्तिविस्तरज्ञानसाधनमित्यादि, अत्राह—“निःशेषार्थे”त्यादि।

निःशेषार्थपरिज्ञानसाधने विफलेऽपि च।
सुधियः सौगता यत्नं कुर्वन्त्यन्येन चेतसा॥ ३३०८॥

अने(न्ये?)न चेतसेति। अने(न्ये?)नाभिप्रायेण॥ ३३०८॥

कः पुनरसावित्याह—“स्वर्गे”त्यादि।

स्वर्गापवर्गसम्प्राप्तिहेतुज्ञोस्तीति गम्यते।
साक्षान्न केवलं किन्तु सर्वज्ञोपि प्रतीयते॥ ३३०९॥

मुख्यं हि तावत्स्वर्गमोक्षसम्प्रापकहेतुज्ञत्वसाधनं भगवतोऽस्माभिः क्रियते, यत्पुनरशेषार्थपरिज्ञातृत्वसाधनमस्य तत्प्रासङ्गिकमन्यत्रापि भगवतो ज्ञानप्रवृत्तेर्बाधकप्रमाणाभावात्साक्षादशेषार्थपरिज्ञानात्सर्वज्ञो भवन् न केनचिद्बाध्यत इति, अतो न प्रेक्षावतां तत्प्रतिक्षेपो युक्तः। किन्तु ये सर्वज्ञत्वाधिगमार्थिनस्तेषां तदर्थप्रवृत्तिर्युक्ता चेति दर्शितं भवति॥ ३३०९॥

ततश्चैवं बाधकप्रमाणाभावे सति वक्ष्यमाणे च परिस्फुटे सर्वज्ञसाधने योऽयं भवतां निश्चयैकविषयस्य सर्वज्ञस्य प्रतिक्षेपः—सर्वे एव पुरुषा रागादिभिरविषयानोपप्लुता इति, स केवलं मोहादेवेति दर्शयति—“ततश्चे”त्यादि।

ततश्च बाधकाभावे साधने सति च स्फुटे।
कस्माद्विप्रतिपद्यन्ते सर्वज्ञे जडबुद्धयः॥ ३३१०॥

स्यादेतत्—तथाभूतपुरुषसंसाधकं प्रमाणं तथाविधं नास्तीत्येवं मन्यमानैरस्माभिः प्रतिक्षिप्यते, नतु मोहादित्याह—“माभूद्वे”त्यादि।

माभूद्वा साधनं तत्र बाधके त्वविनिश्चिते।
संशयः स्यादयं त्वेषां निश्चयः किन्निबन्धनः॥ ३३११॥

एतच्चाभ्युपगम्योच्यते, साधनं तु वक्ष्यमाणमस्त्येव। “अयं निश्चय” इति। नास्ति सर्वज्ञ इत्येवं मीमांसकानाम्॥ ३३११॥

यच्चोच्यते भवद्भिः—“चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितमित्येवञ्जातीयकमर्थं शक्नोत्यवगमयितुं नान्यत्किञ्चनेन्द्रिय”मिति, एतदपि केवलं प्रतिज्ञामात्रमप्रमाणकमेवोद्धोष्यते भक्तिवादेनेति दर्शयति—“भूतादी”त्यादि।

भूतादिबोधने शक्ता चोदनैवापरं नतु।
इत्ययं नियमो युक्तो ह्यन्यासत्त्वे विनिश्चिते॥ ३३१२॥

“अपर”मिति। सर्वज्ञप्रत्यक्षादि। “अन्यासत्त्व” इति। अन्यस्य सर्वज्ञस्यासत्त्वे विनिश्चिते सत्येवं वक्तुं युक्तं नान्यथा, अवधारणस्य नैष्फल्यात्॥ ३३१२॥

तत्र सर्वं जगत्सूक्ष्मेत्यादावाह—“प्रधाने”त्यादि।

प्रधानपुरुषार्थज्ञसर्वार्थज्ञप्रसिद्धये।
तच्च मानं पुरः प्रोक्तं पश्चादन्यच्च वक्ष्यते॥ ३३१३॥

अतः सर्वजगत्सूक्ष्मभेदज्ञार्थप्रसाधने।
नास्थाने क्लिश्यते लोकः संरम्भाद्ग्रन्थवादयोः॥ ३३१४॥

नह्यस्माभिः सर्वज्ञविषयां चिन्तां मुक्त्वा सर्वज्ञसाधने प्रयत्नः क्रियते। किं तर्हि ? प्रधानभूतधर्मज्ञसाधन एव। तथा च पूर्वम्—“तेनार्थापत्तिलभ्येन धर्मज्ञोपगमेने”त्यादिना धर्मज्ञसाधनेऽर्थापत्त्याख्यं भवन्मतेनैव प्रमाणमुक्तम्, पश्चाच्चानुमानाख्यं प्रमाणमभिधास्यते, तेन नास्थाने लोकः क्लिश्यते, किं तर्हि ?, स्थान एव ॥ ३३१३॥ ३३१४॥

सर्वप्रमातृसम्बद्धेत्यादावाह—“सर्वे”त्यादि।

सर्वप्रमातृसम्बद्धप्रत्यक्षाद्यनिवारणात्।
केवलागमगम्यत्वं नाप्यते पुण्यपापयोः॥ ३३१५॥

धर्मादिविषयस्य सर्वप्रमातृसम्बद्धस्य प्रत्यक्षादेर्दर्शन(रदर्शन?)मात्रेण निवारयितुमशक्यत्वान्न धर्माधर्मयोरागममात्रगम्यत्वं लभ्यते॥ ३३१५॥

यच्चोक्तमेतावता चेत्यादि, तत्राह—“एतावते”त्यादि।

एतावता च मीमांसापक्षेऽसिद्धेऽपि यः पुनः।
सर्वज्ञवारणे यत्नः सोऽतिसौख्या(मौर्ख्या?)त्परैः कृतः ३३१६

“असिद्धेऽपी”ति। धर्मज्ञस्य सिद्धत्वात्। “परैरि”ति। मीमांसकैः॥ ३३१६॥

ये “तु” विच्छिन्नमूलत्वादित्यादावाह—“ये त्वविच्छिन्नमूलत्वा”दित्यादि।

ये त्वविच्छिन्नमूलत्वाद्धर्मज्ञत्वेऽहते सति।
सर्वज्ञान्पुरुषानाहुर्धीमत्ता तैः प्रकाशिता॥ ३३१७॥

अहत इत्यकारप्रश्लेषो द्रष्टव्यः। “तै”रिति। बौद्धैः॥ ३३१७॥

साक्षात्प्रत्यक्षदर्शित्वादित्यादावाह—“रसने”त्यादि।

रसनेन्द्रियसम्बन्धान्मद्याशुचिरसादयः।
वेद्येरन्यदि तस्यैव तदानीं निन्द्यता भवेत्॥ ३३१८॥

भूतार्थभावनोद्भूतमानसेनैव चेतसा।
अप्राप्ता एव वेद्यन्ते निन्दिता अपि संवृतौ॥ ३३१९॥

यदि नाम साक्षान्मद्यरसादिसंवेदनमभूत्तस्य तथाऽपि न धर्मज्ञत्वहानिर्भवेत्। निन्द्यत्वमापद्यत इति चेत्, यो रसनादीन्द्रियसंसर्गेण तान्रसनादीन्संवेदयते सलोकसंवृत्त्या निन्द्यो भवेत्, नतु भगवांस्तथा संवेदयते, किं तर्हि ?, मनसा, तच्चाप्राप्तविषयमिति न लोके तत्कृतं निन्द्यत्वं प्रतीतम्। नहि निन्द्यत्वं परमार्थतः कस्यचि दस्ति, अनवस्थितत्वात्तस्य। तथाहि—श्रोत्रियस्य यन्निन्द्यं न तज्जोद्विङ्ग(ज्जुङ्गित?)स्य, किन्तु संवृत्या लोके मद्यादयो गर्हितास्तान्संवेदयतस्तथाऽपि भगवतो न निन्द्यत्वम्, मद्यस्य मनसैव वेदनात्। स्यादेतत्—यथा रसनेन्द्रियसम्बन्धादन्येषां मद्यादिसंवित्तौ दुःखाद्यनुभवस्तथा मनसाऽपि संवेदयतः प्राप्नोतीति। नैतदस्ति। रसनादीन्द्रियसम्बन्धेनानुभूयमाना रसादय इन्द्रियस्यानुग्रहोपघातं कुर्वन्तो दुःखादिहेतवो भवन्ति। ते चाकुशलादिकर्मानुरूपेण विपर्यस्तचेतसां केषाञ्चिदेव तथा दुःखादिहेतुत्वेन प्रख्यायन्ते, न सर्वेषाम्। यथाहि प्रेतानां पूयादिरूपेण सलिलादि। नचैवं ( चेदं? ) भगवतः सर्वमस्ति। तथाहि मनसैव संवेदनान्नेन्द्रियोपघातादिसम्भवः, अनाश्रवपञ्चव्यवहारात्मकत्वाद्भगवतो नापि साश्रवकर्माधिपत्यसम्भवः, अविपरीतानित्यादिरूपेण संवेदनान्नापि विपर्यस्तत्वम्, अत एव भगवतो मानसस्यापि दौर्मनस्यादिलक्षणस्य दुःखादेरसम्भवः, तस्य मोहजत्वात्। एतच्च सर्वं बाह्यार्थसम्भवे सति चोद्यमवतरति। विज्ञानवादनये तु दूरीकृतावकाशमेतत्। तथाहि—परमार्थतो रूपस्कन्धासम्भवान्न सन्त्येवाशुच्यादयस्तेषाम्, मा भूत्तत्परिकल्प्या वासना,(?)बोधमात्रसमुत्थितत्वात्। अतो न ( ते ) सात्मीकृतपरमार्थदर्शनानां दूरीभूताशेषाशुच्यादिप्रतिभासानां दर्शने प्रतिभासन्ते यथा तिमिरादिदोषापगमेऽनुपहतचक्षुषान्दर्शने न केशादयः। यथोक्तम्— नन्वज्ञानेन भासन्ते तस्याशुचिरसादयः। असंवेदास्ततः सिद्धा द्वितीयशशिबिम्बवत्॥ यस्य तु विप्रस्य व्यापितया सकलाशुचिदेशसम्बद्धा वेदध्वनयो वदनोदरादिवर्त्तिनः सदैव स कथमिह लोके न निन्द्यो भवेत्॥ ३३१८॥ ३३१९॥

नच वेदोपवेदाङ्गेत्यादावाह—“यत एवे”त्यादि।

यत एव न वेदादिप्रोक्तार्थप्रतिपादकम्।
तायिनो दृश्यते वाक्यं तत एव स सर्ववित्॥ ३३२०॥

सम्भाव्यते समस्तासत्तीर्थ्याऽसाधारणस्थितिः।
प्रमादाधीतमात्मादि वेदेऽलीकं ब्रवीति हि॥ ३३२१॥

यद्यथैवावस्थितं वस्तु सदादिरूपेण तस्य तथैव ज्ञानात्सर्वविद्भवति। नच यथा वेदे निर्दिष्टा आत्मादयोऽर्थास्ते तथैव सन्ति प्रमाणेन बाध्यमानत्वात्। तत्कथं तथैवतानुपदिशंस्तत्त्वदर्शी भवेत्। नचैतच्छक्यं वक्तुं मिथ्यात्वेनापि ते नैव ज्ञाता इति, यथा ज्ञाता एव। तथाहि—वेदादिविहिताः सर्व एव प्राणिवधादयोऽकुशलाः कर्मपथ्या दुर्गतिहेतुत्वेन निर्दिष्टाः, तथा—“नास्तीह सत्त्व आत्मा वा धर्मास्त्वेते सहेतुकाः” इत्यादिनाऽऽत्मादयोऽप्यसत्त्वेनोक्ता इत्यसिद्धं वेदादिविहितपदार्थापरिज्ञानं भगवतः॥ ३३२०॥ ३३२१॥

स्वग्रन्थेष्वनिबद्धोऽपीत्यादावाह—“अद्वितीय”मित्यादि।

अद्वितीयं शिवद्वारं कुदृष्टीनां भयङ्करम्।
विन(ने?)येभ्यो हितायोक्तं नैरात्म्यं तेन तु स्फुटम्॥ ३३२२॥

अन्यतीर्थ्यैरनधिगतत्वादद्वितीयम्, तेषां सर्वेषामेव वितथात्मदृष्ट्यभिनिविष्टत्वात्। एतच्च सर्वं नैरात्म्यविशेषणम्। “शिवद्वार”मिति। निर्वाणप्रवेशोपायभूतत्वात्। शिवमिति निर्वाणमुच्यते। “कुदृष्टीना”मिति। कुत्सिता आत्मादिदृष्टयो येषां ते तथोक्ताः।वितथदृष्ट्यभिनिविष्टबालजनत्रासकरमित्यर्थः। यथोक्तम्— नास्त्यहं न भविष्यामि न मेऽस्ति न भविष्यति। इति बालस्य सन्त्रासः पण्डितस्य भयक्षणः॥ इति। एतेन विपरीताभिनिवेशावस्थितैस्तदधि(ग)मो (व)क्तुमपि न शक्यते, किमुताधिगन्तुमिति दर्शितं भवति॥ ३३२२॥

नचापि पृथग्जनभूमिस्थितेन केनचित्कदाचिदपि परिज्ञातपूर्वं तदिति दर्शयति —“संसार्यनुचित”मिति।

संसार्यनुचितं ज्ञातं सर्वानर्थनिवर्त्तकम्।
तदभ्यासादियुक्तानां गुणरत्नाकरं परम्॥ ३३२३॥

ईदृक्च परमं तत्त्वं जानन्ति कवयो यदि।
प्रधानपुरुषार्थज्ञान्सर्वज्ञान्को न मन्यते॥ ३३२४॥

संसारिभिः पृथग्जनैरनुचितमनभ्यस्तमित्यर्थः। कथं हिताय तत्प्रभवति येन तदर्थं देशितमित्याह—“ज्ञात”मित्यादि। ज्ञातं साक्षात्कृतं सत्क्लेशजन्मादिलक्षणस्याशेषानर्थराशेर्निवर्त्तकं भवति। उत्तरकालमपि तदभ्यस्यमानं रथ्यादि(?)वैशेषिकगुणाभिनिवर्त्तकमित्येव परमं पुरुषार्थोपयोगितत्त्वं यदि कवयोऽधिगच्छन्ति, तेऽपि सन्तु सर्वज्ञाः, न ह्यस्माभिरेकपुरुषावधिकमेव सर्वज्ञत्वमभ्युपेयते, किं तर्हि ?, य एवं यथोदिततत्त्ववेदी स एव सर्वविदिष्यते नान्यः, न चैवं कवीनामस्ति, तेनातिप्रसङ्गो न भवति॥ ३३२३॥ ३३२४॥

एतेन—यदुक्तं सर्वज्ञेषु च भूयस्स्वित्यादि, तदपि प्रत्युक्तमिति दर्शयन्नाह—“इदं चे”त्यादि।

इदं च वर्द्धमानादेर्नैरात्म्यज्ञानमीदृशम्।
न समस्त्यात्मदृष्टौ हि विनष्टाः सर्वतीर्थिकाः॥ ३३२५॥

स्याद्वादाक्षणिकस्या(त्वा?)दि प्रत्यक्षादिप्रबो(बा?)धितम्।
बह्वेवायुक्तमुक्तं यैः स्युः सर्वज्ञाः कथं नु ते॥ ३३२६॥

वाहीकादिप्रसिद्धेऽस्मिन्प्रत्यक्षेऽर्थे स्खलन्ति ये।
कथं सम्भाव्यते तेषामत्यक्षाधिगमः स्फुटः॥ ३३२७॥

असर्वज्ञत्वमेवं तु अ(प्र?)स्पष्टमवगम्यते।
मिथ्याज्ञानानुषङ्गित्वाद्विपरीतप्रकाशनात्॥ ३३२८॥

स्थाणौ नर इति भ्रान्तः प्रतिपत्त्या(त्ता?) यथा परः।
सर्वाभिश्च परीक्षाभिर्विज्ञेयो हेतुसिद्धितः॥ ३३२९॥

सम्यक् सर्वपदार्थानां तत्त्वज्ञानाच्च सर्ववित्।
हेतावतो न सम्बोध्या सन्दिग्धव्यतिरेकिता॥ ३३३०॥

यथोक्तं तत्त्वज्ञानं यदि वर्द्धमानकपिलादीनां सम्भवेत्तदा तेषामपि सर्वज्ञत्वं भवतु, यथा सर्व एवामी सर्वदोषप्रसवहेतुवितथात्मग्रहग्राहगृहीताः प्रत्यक्षादिप्रमाणबाधिताक्षणिकादिपदार्थानामुपदेष्टारः, तत्कथमाकुमारमतिप्रतीतिपथमुपगतेष्वपिपदार्थेषु प्रस्खलतामेषामतीन्द्रियार्थदर्शनं सम्भावनापथमवतरिष्यति, येनोच्यतेकपिलो नेति का प्रमेति। तथाहीयमत्र प्रमा स्फुटतरमभिधातुं शक्यते, ये मिथ्याज्ञानानुषङ्गिणस्ते सर्वविदो न भवन्ति, यथा स्थाणौ नर इति समुपजातविभ्रमः पुमान्, मिथ्याज्ञानानुषङ्गिणश्च वर्द्धमानादय इति विरुद्धव्याप्तोपलब्धिः। सर्वज्ञ(त्व)विरुद्धेनासर्वज्ञत्वेन मिथ्याज्ञानानुषङ्गित्वस्य व्याप्तत्वात्। न चासिद्धो हेतुः, यतो विपरीतार्थप्रकाशनमेषां सर्वाभिः परीक्षाभिः प्रतिपादितम्। नचापिसन्दिग्धविपक्षव्यावृत्तितयाऽनैकान्तिकता हेतोः, यतः सम्यगशेषपदार्थपरिज्ञातृत्वेन सर्वज्ञत्वमिष्यते। नच यत्र सम्यग् ज्ञानं तत्र तद्विरुद्धस्य मिथ्याज्ञानस्य सम्भवः॥ ३३२५॥ ३३२६॥ ३३२७॥ ३३२८॥ ३३२९॥ ३३३०॥

स्यादेतत्—यदि नाम विपरीतार्थप्रकाशनमेषाम्, तथाऽपि मिथ्याज्ञानानुषङ्गि त्वमतोऽवसातुं न शक्यते, यतोऽन्यथाऽपि व्यवहाराः शक्यन्ते कर्त्तुं विचित्राति(भि?)सन्धित्वात्पुरुषाणाम्, तेन हेतोः सन्दिग्धासिद्धतेत्येतदाशङ्क्याह—“आभिप्रायिक”मित्यादि।

आभिप्रायिकमेतेषां स्याद्वादादिवचो यदि।
तात्त्विकं सर्ववस्तूनां किमेभी रूपमिष्यते॥ ३३३१॥

यदि ह्यन्याभिप्रायेण तैरेतत्स्याद्वादादिप्रमाणविरुद्धमित्यु(मप्यु?)क्तमित्यभिधीयते। अभिधीयताम्, नह्यस्माभिः स्वातन्त्र्येण वर्द्धमानादीनामसर्वज्ञत्वं साधयितुमिष्टम्, किन्तु भवता परस्परविरुद्धमतावस्थितेन कपिलादिषु यदि सुगतः सर्वज्ञस्तदा कपिलो नेति का प्रमेत्युक्तम्, अत्रास्माभिः प्रमाणं भवन्मत्या तेषां मतभेदमङ्गीकृत्याभिधीयते, तेन नासिद्धता हेतोः। तथाहि यद्येषामाभिप्रायिकं वचो वर्ण्यते तदा किमेषां पारमार्थिकं वस्तुरूपमिष्टमिति वक्तव्यम्॥ ३३३१।

परं ( एवं? ) पृष्टः सन्पर आह—“अनात्मक्षणिकत्वा”दीति।

अनात्मक्षणिकत्वादि यद्येवं सर्वदर्शिनः।
साक्षात्समस्तवस्तूनां तत्त्वरूपस्य दर्शनात्॥ ३३३२॥

सन्तु तेपि समस्तानामैकमत्येन संस्थितेः।
परस्परविरुद्धार्थं नीतार्थं न हि ते जगुः॥ ३३३३॥

यदि सात्मादीनि ब्रूयात्तदा मतभेद एवोक्तः स्यादिति नासिद्धता भवेत्।“यद्येव”मित्यादिनोत्तरमाह—नह्यस्माभिः श्रृङ्गग्राहिकयाऽयमसौ सर्वज्ञ इत्येवं साधयितुमिष्टः, किन्तु सामान्येन। यदि कपिलादीनामेवंविधतत्त्वपरिज्ञानमभ्युपगम्यतेन तर्हि भवता वक्तव्यम् “मतभेदः कथं तयो”रिति, सर्वेषामैकमत्येन स्थितत्वात्। यस्तु परस्परविरुद्धार्थोपदेशस्तेषां स नेयार्थतया व्यवतिष्ठते। नह्यैकमत्येन स्थिताः परस्परविरुद्धं नीतार्थं—तात्विकं रूपं गदन्तीति युक्तम्। तस्मान्मतभेदमिच्छताना(मा?)भिप्रायिकं वचो वाच्यम्, एषां मतभेदाभ्युपगमे च न वक्तव्यम्—“को नामैको निरूप्यता”मिति, यतः सुगत एव यथोक्तज्ञानयोगितया सर्वज्ञत्वेनावधार्यते नान्य इति निरूपितमेतत्॥ ३३३२॥ ३३३३॥

किञ्च कपिलादीनां यथोक्तज्ञानाभ्युपगमे सुगतत्वमेवापद्यत इत्येतद्दर्शयन्नाह—“प्रतिपादितरूपस्ये”त्यादि।

प्रतिपादितरूपस्य सर्ववस्तुगतस्य च।
साक्षात्तत्त्वस्य विज्ञानात्सुगताः सर्वदर्शिनः॥ ३३३४॥

तेषां चैवंविधे ज्ञाने सुगतत्वं न भिद्यते।
प्रशस्तज्ञानयोगित्वादेतावत्तस्य लक्षणम्॥ ३३३५॥

प्रतिपादितं प्रसाधितं प्रमाणतो रूपं स्वभावो यस्यानात्मादिलक्षणस्य तत्त्वस्य तत्तथोक्तम्। “तेषा”मिति। वर्द्धमानादीनाम्। “एताव”दिति। प्रशस्तज्ञानयोगित्वम्।“तस्ये”ति। सुगतत्वस्य। यतो नैरात्म्यज्ञानात्प्रशस्तं समस्तज्ञेयाद्यावरणप्रहाणं गत इति सुगत उच्यते॥ ३३३४॥ ३३३५॥

किञ्च—सामान्येनापि सर्वज्ञसम्भवे साध्यमाने भगवत्येवावतिष्ठते सामर्थ्यादिति दर्शयति—“तत्सम्भव्यपी”त्यादि।

तत्सम्भव्यपि सर्वज्ञः सामान्येन प्रसाधितः।
तल्लक्षणाविनाभावात्सुगतो व्यवतिष्ठते॥ ३३३६॥

“त”दिति। तस्मात्। “लक्षणाविनाभावा”दिति। सर्वज्ञलक्षणाविनाभावात् ३३३६ ननु विशेषनिर्देशमन्तरेण कथमसौ लभ्यत इत्याह—“अनिर्दिष्टविशेषोऽपी”त्यादि।

अनिर्दिष्टविशेषोऽपि सर्वज्ञः कोऽपि सम्भवेत्।
यो यथावत् जगत्सर्वं वेत्त्यनात्मादिरूपतः॥ ३३३७॥

यो हि सर्वं जगदनात्मादिरूपेण यथावदवगच्छति स सर्वज्ञ इत्येवं सामान्येन कृतेऽपि सर्वज्ञलक्षणे यत्र तदुपलभ्यते स सामर्थ्याद्विशेषोऽवगम्यत एवेति विशेषोपादानमनर्थकम्, एतच्च सर्वज्ञलक्षणं भगवत्येवोपलभ्यते नान्यत्र, विचित्रैरुपायैरविकलचतुःसत्यलक्षणसाभ्युपायहेयोपादेयतत्त्वप्रकाशनादिति भावः। नह्यविदितं वस्तु तथाभावैस्तथावत्तदविपरीतमविकलमुपदेष्टुं शक्यते। यथोक्तम्— परोक्षोपेयतद्धेतोस्तदाख्यानं हि दुष्करम् इति॥ ३३३७॥

स्यादेतद्यदि नामानात्मादिरूपतो जगद्विदितमस्य तथापि कथमसौ सर्वज्ञः सिद्ध्यतीत्याह—“प्रत्यक्षीकृतनैरात्म्य” इत्यादि।

प्रत्यक्षीकृतनैरात्म्ये न दोषो लभते स्थितिम्।
तद्विरुद्धतया दीप्रे प्रदीपे तिमिरं यथा॥ ३३३८॥

क्लेशज्ञेयावरणप्रहाणतो हि सर्वज्ञत्वम्, तत्र क्लेशा एव रागादयो भूतदर्शनप्रति बन्धा(न्ध?)भावात्क्लेशावरणमुच्यन्ते, दृष्टस्यापि हेयोपादेयतत्त्वस्य यत्सर्वाकारापरिज्ञानं प्रतिपादनासामर्थ्यं च ज्ञेयावरणम्। तत्र क्लेशावरणस्य नैरात्म्यप्रत्यक्षीकरणात्प्रहाणिः। ज्ञेयावरणस्य तु तस्यैव नैरात्म्यदर्शनस्य सादरनिरन्तरदीर्घकालाभ्यासात्। तथाह्यमी रागादयः क्लेशा वितथात्मदर्शनमूलका अन्वयव्यतिरेकाभ्यां निश्चिताः, न बाह्यार्थबलभाविनः। यतः सत्यपि बाह्यार्थे नायोनिसौमनच्छा(स्का?)रमन्तरेणोत्पद्यन्ते। विनापि चार्थेनायोनिसौविकल्पसम्मुखीभावे समुत्पद्यन्ते। नच स(य?)त्सदसत्तानुविधायि यन्न भवति तत्तत्कारणं युक्तमतिप्रसङ्गात्। नाप्येते परपरिकल्पितात्मसमवायिनः, तस्यात्मनो निरस्तत्वात्। सत्यपि वा तस्मिन्नित्यं रागादीनामुत्पत्त्यनपायप्रसङ्गात्। उत्पत्तिस्थितिकारणस्याविकलस्यात्मनः सर्वदा सन्निहितत्वात्। परैरनाधेयातिशयस्य तदपेक्षानुपपत्तेश्चेति बहुधा चर्चितमेतत्। सदसतोश्चाश्रयणनिषेधादयुक्तमेषां क्वचित्समवायित्वमित्यतो न नित्यहेतुप्रतिबद्धात्मस्थितयः। नापि बाह्यार्थबलभाविनः। किन्त्वभूतात्मदर्शनबलसमुद्भाविनः, तथाह्यहमित्यपश्यतो नात्मस्नेहो जायते, नापि ममेत्यगृह्णत आत्ममुखोत्पादानुकूलत्वेनागृहीते वस्तुन्यात्मीयत्वेनाभिष्वङ्गः समुद्भवति। द्वेषोऽपि नहि क्वचिदसक्तस्यात्मात्मीयप्रतिकूलत्वेनागृहीते वस्तुनि प्रादुर्भावमासादयति। आत्मीयानुपरोधिनि तदुपरोधप्रतिघातिनि च तस्यासम्भवात्। एवं नामादयोऽपि वाच्याः। तस्मादनादिकालीनं पूर्वपूर्वसजातीयाभ्यासजनितमात्मदर्शनमात्मीयग्रहं प्रसूते, तौ चात्मीयस्नेहम्, सोऽपिद्वेषादिकमित्यन्वयव्यतिरेकाभ्यामात्मग्रहादात्मात्मीयग्रहमूलत्वमेषां स्फुटतरमागोपालाङ्गनमवसितमेव। आत्मदर्शनविरुद्धं च नैरात्म्यदर्शनम्, तद्विपरीताकारालम्बनत्वात्। अनयोर्हि युगपदेकस्मिन् सन्ताने रज्जुसर्पतज्ज्ञानयोरिव सहावस्थानमैक्यं च विरुद्धम्। अतो नैरात्म्यदर्शनस्यात्मदर्शनविरोधात्तन्मूलैरपि रागादिभिः सह विरोधो भवति, दहनविशेषे(णे)व शीतकृतरोमहर्षादिविशेषस्य। तेन सर्वदोषविरोधिनैरात्म्यदर्शने प्रत्यक्षीकृते सति न तद्विरुद्धो रागादिदोषगणोऽवस्थानं लभते तिमिरवदालोकपरिगते देश इत्यतो नैरात्म्यदर्शनात्क्लेशावरणप्रहाणं भवति। प्रयोगः —यत्र यद्विरुद्धवस्तुसमवधानं न तत्र तदपरमवस्थितिमासादयति, यथा दीप्रप्रदीपप्रभाप्रसरसंसर्गिणि धरणितले तिमिरम्, अस्ति च दोषगणविरुद्धनैरात्म्यदर्शनसमवधानं प्रत्यक्षीकृतनैरात्म्यदर्शने पुंसीति विरुद्धोपलब्धिः।

“स्यादेतत्”—यथा नैरात्म्यदर्शनसमाक्रान्ते चेतसि विरुद्धतयाऽऽत्मदर्शनस्योत्प त्तुमनवकाशस्तथा नैरात्म्यदर्शनस्याप्यात्मदर्शनसमाक्रान्ते मनसि, विरोधस्य तुल्यत्वात्, ततश्च कस्यचिन्नैरात्म्यदर्शनस्यासम्भवादसिद्धो हेतुः। सम्भवतु वा न वा नैरात्म्यदर्शनम्, तथाऽप्यनयोर्विरोधे सत्यपि नात्यन्तं बाध्यबाधकभावः सिद्ध्यति, यथा रागद्वेषयोः सुखदुःखयोर्वा। यतोऽत्यन्तप्रहाणमिह साधयितुमिष्टम्। नतु तावत्कालासमुदाचारमात्रमित्यतोऽनैकान्तिकता हेतोः। दृश्यतेऽपि सतामखण्डितमहिमानो रागादयः समुदयमासादयन्त इत्यतोऽपि हेतोर्नैकान्तिकतेति। “नैत”दस्ति। यदि नैरात्म्यविकल्पस्योत्पादोऽप्रहाणक्लेशस्य सन्ताने न सम्भवत्तदा न सम्भवेन्नैरात्म्यदर्शनोदयावकाशः, यावताऽनुभवसिद्धस्तावन्नैरात्म्यविकल्पसम्मुखीभावः सर्वेषामेव। स एव च भावनया कामिनीविकल्पवत्प्रकर्षगमनसम्भवादन्ते स्फुटप्रतिभासतया प्रमाणप्रतीतार्थग्राहितया च प्रत्यक्षतामापद्यत इति कथं नैरात्म्यदर्शनोदयासम्भवः। अपि च—यथाऽन्धकारपरिगते देशे कालान्तरेण प्रकाशोदयावकाशसम्भवस्तथेहापि किं न सम्भाव्यते। नचाप्येवं शक्यं वक्तुम्—सैव तादृशी भावना न कस्यचित्सम्भवति, या तथाभूतप्रत्यक्षज्ञानफला भवेदिति। यतोऽसम्भवे कारणं वचनीयम्। तथाहि—भावनायामप्रयोगे सर्वेषामेवानर्थित्वं वा कारणं भवेत् ?,प्रेक्षावतः प्रवृत्तेरर्थितया व्याप्तत्वात्। सत्यप्यर्थित्वे प्रहेयस्वरूपापरिज्ञानाद्वा न प्रवर्त्तते प्रेक्षावान् ?, अनिर्ज्ञातस्वरूपस्य दोषस्य हातुमशक्यत्वात्। सत्यपि तत्स्वरूपज्ञाने नित्यत्वं वा दोषाणां पश्यंस्तत्प्रहाणाय न यत्रमारभते ?, नित्यस्य प्रहाणासम्भवात्। असत्यपि वा नित्यत्वनिर्हेतुकत्वमेषामवगम्य निवर्त्तते ?, स्वतन्त्रस्यासम्भवदुच्छेदत्वात्। सत्यपि वा कारणवत्त्वे तत्कारणस्वरूपानिश्चयादपि नाद्रियते भावनायाम् ?, अपि(वि?)ज्ञातनिदानस्य व्याधिरिव प्रहातुमशक्यत्वात्। भवतु वा तत्कारणपरिज्ञानं किं तत्कारणं नित्यमवगम्य नोत्सहते तत्प्रहाणाय प्रेक्षापूर्वकारी ?, अविकलकारणस्य प्रतिबद्धुमशक्तेः। अनित्यत्वेऽपि वा तत्कारणस्य दोषाणां प्राणिधर्मतामवेत्य न प्रयतते ?, स्वभावस्य हातुमशक्यत्वात्। अस्वभावत्वे वा दोषाणां क्षयोपायासम्भवान्निवर्त्तते ?, नह्युपायविकलस्योपेयसम्प्राप्तिरस्ति। सत्त्वेऽपि चोपायस्य तदपरिज्ञानादसम्भवत्तदनुष्ठानो भवेत् ?, अपरिज्ञातस्वरूपस्यानुष्ठानासम्भवात्। परिज्ञानेऽपि वा लङ्घनादिव व्यवस्थितोत्कर्षतया जन्मान्तरासम्भवेन वा भावनायाअत्यन्तप्रकर्षमसम्भावयन्नाभियोगवान्भवति ?। भवतु वाऽत्यन्तप्रकर्षगमनसम्भवात्प्रतिपक्षोदयेन दोषाणां क्षयः, तथापि ताम्रादिकाठिन्यवत्पुनरपि दोषादयं सम्भा वयन्नाभियोगमारभत इति ?। तत्र न तावदनर्थित्वं सिद्धम्। तथाहि—ये तावज्जात्यादिदुःखोत्पीडितमानसाः संसारादुन्त्रस्तमनसस्तदुपशममात्मनः प्रार्थयन्ते, तेषां श्रावकादिबोधनियतानां संसाराद्भयमेव नैरात्म्यभावनार्थित्वनिमित्तम्। ये तु गोत्रविशेषात्प्रकृत्यैव परहितकरणैकाभिरामाः संस्कारादिदुःखत्रितयपरिपीडितं जगदवेक्ष्य कृपापरतन्त्रतया तद्दुःखदुःस्विनः स्वात्मनि व्यपेक्षामपास्य सकलानेव संसारिण आत्मत्वेनाभ्युपगतास्तत्परित्राणाय प्रणिदधते तेषां करुणैव भावनाप्रवृत्तिनिमित्तम्, परोक्षोपेयतद्धेतोस्तदाख्यानस्य दुष्करत्वात्। परहितकरणेन प्रेक्षावतः किं प्रयोजनमिति चेन्न। तदेव प्रयोजनमिष्टलक्षणत्वात्तस्य। नचाप्रेक्षावत्त्वप्रसङ्गः।परिकल्पितात्मग्रहनिबन्धनत्वादात्महितकरणाभिनिवेशस्य सकलसाधुजनसम्मतत्वात्, स्वफलानुबन्धित्वाच्च परहितकरणस्य। अपि च भावनाप्रवृत्तावर्थित्वासम्भवोऽत्र प्रतिपादयितुमारब्धः, तद्यदि नामाप्रेक्षावत्त्वं तस्य भवेत्किमियता प्रवृत्तावनर्थित्वं तस्य स्यात्। तस्मादिदमेव वक्तव्यम्—परहितकरणाय नैव कश्चित्प्रवर्त्तते प्रयोजनाभावादिति, तत्र चोक्तम्। अपि च—यथा केचिदुपलभ्यन्तेऽतितरामभ्यस्तनैर्घृण्या अकारणमेव परव्यसनाभिरामाः परदुःखसुखिनस्तथा केचिदभ्यस्तकारुण्याः परसुखाभिरामाः परदुःखदुःखिनः प्रयोजनान्तरमन्तरेणापि भवन्तीति किं न सम्भाव्यम्। नापि दोषस्वरूपापरिज्ञानम्, यतोऽभिष्वङ्गपरिघातात्मात्मीयोन्नत्याद्याकारेण रागद्वेषमोहमानमदेर्ष्यामात्सर्यादयः क्लेशोपक्लेशगणा विदितस्वरूपा एवोदयन्ते व्ययन्ते च। नापि च ते नित्याः, कादाचित्कतया संवेद्यमानत्वात्। अतएव नाहेतुकत्वमेषाम्, अहेतोरनपेक्षितत्वेन देशकालस्वभावनियमायोगात्। अतोऽपि नित्यहेतुत्वमेषां प्रतिक्षिप्तम्, तत्कारणस्यात्मादेः सदा सन्निहितत्वादनाधेयातिशयस्य परैः सहकारिनिरपेक्षत्वात्। तन्मात्रभाविनां सर्वदा युगपन्नो(च्चो?)त्पत्तिप्रसङ्गात्। अतःसामर्थ्यादनित्यहेतव एवैते। अनित्योऽपि हेतुरेषां विदितस्वरूप एव, आत्मात्मीयविपर्यासहेतुकत्वाद्रागादेर्दोषगणस्य तदन्वयव्यतिरेकानुविधानादिति पूर्वं प्रतिपादितत्वात्। नापि प्राणिधर्मत्वमेषां तस्यैव धर्मिणोऽसिद्धेः, न हि प्राणी नाम धर्मी विद्यते कश्चित्, यस्यामी रागादयो धर्मा भवेयुः। केवलमिदम्प्रत्ययतामात्रमिदं विकल्पसमारोपितत्वाद्धर्मधर्मिव्यवहारस्य। अथ चित्तस्वभावत्वेन तत्रोत्पत्त्या वा प्राणिधर्मत्वमेषाम्, तथाऽप्यसिद्धिरनैकान्तिकश्च। तथाहि—विषयविषयिभावभिच्छता चित्तं विषयग्रहणस्वभावमभ्युपेयम्, अन्यथा विषयज्ञानयोर्न विषयविषयिभावः। अर्थ ग्रहणस्वभावत्वेनाङ्गीक्रियमाणे यस्तस्य स्वभावस्तेनैवात्मनोंऽशोर्थस्तेन गृह्यत इतिवक्तव्यम्। अन्यथा कथमसौ गृहीतः स्यात्। यद्यसताऽऽकारेण गृह्येत ततश्च विषयविषयिभावो न स्यात्। तथाहि—यथा ज्ञानं विषयीकरोत्यर्थं न तथा सोऽर्थः, यथा सोऽर्थो न तथा तं विषयीकरोतीति निर्विषयान्येव ज्ञानानि स्युः। ततश्च सर्वपदार्थासिद्धिप्रसङ्ग। तस्माद्भूतविषयाकारग्राहिताऽस्य स्वभावो निज इतिस्थितम्। भूतश्च स्वभावो विषयस्य क्षणिकानात्मादिरूप इति प्रतिपादितमेतत्। तेन नैरात्म्यग्रहणस्वभावमेवेति तन्नात्मग्रहणस्वभावम्। यत्पुनरन्यथास्वभावोऽस्यख्यातिमूढानाश(मूढानांस?) सामर्थ्यादागन्तुकप्रत्ययबलादेवेत्यवतिष्ठते, न स्वभावत्वेन, यथा रज्ज्वां सर्पप्रत्ययस्य। अतएव क्लेशगणोऽत्यन्तसमुद्धतोऽपि नैरात्म्यदर्शनसामर्थ्यमस्योन्मूलयितुमसमर्थः। आगन्तुकप्रत्ययकृतत्वेनादृत्वात्। नैरात्म्यज्ञानं तु स्वभावत्वात्प्रमाणसहायत्वाच्च बलवदिति तुल्येऽपि विरोधित्वे आत्मदर्शने प्रतिपक्षो व्यवस्थाप्यते। न चात्मदर्शनं तस्य तद्विपरीतत्वात्। यस्यापि न बाह्योऽर्थोऽस्तीति पक्षस्तस्यापि मते नैरात्म्यग्रहणस्वभावमेव ज्ञानं नात्मदर्शनात्मकम्, तस्यात्मनोऽसत्त्वात्। तथाहि—यदि नाम तेन विषयस्याभावात्तद्ग्रहणात्मकं ज्ञानं नेष्टम्, स्वसंवेदनात्मकं तु तदवश्यमङ्गीकर्त्तव्यम्। अन्यथा ज्ञानस्यापि व्यवस्था न स्यात्। स चात्मा विद्यमानेनैवानात्माद्वयादिरूपेण संवेद्यो नान्यथा, पूर्ववद्दोषप्रसङ्गात्। तस्मात्प्राणिधर्मत्वमेषामसिद्धम्। नापि तत्रोत्पद्यत इत्येतावता स्वभावत्वेपरिकल्पिते प्रहाणासम्भवोऽनेकान्तात्। तथाहि—रज्ज्वां सर्पज्ञानमुत्पद्यते, अथ चतत्सम्यग्ज्ञानोत्पादान्निवर्त्तते। नापि क्षयोपायासम्भवः। स्वहेतुविरुद्धस्वभावपदार्थाभ्यासस्य क्षयोपायत्वेन सम्भवात्। तथाहि—ये सम्भवत्स्वहेतुविरुद्धस्वभावाभ्यासास्ते सम्भवदत्यन्तसन्तानविच्छेदाः, तद्यथा व्रीह्यादयः, तथा चामी रागादय इति सम्भवत्येवैषां क्षयोपायः। नापि तदपरिज्ञानम्, यतो हेतुस्वरूपज्ञानादेव यत्तद्विपरीतालम्बनाकारं वस्तु स तस्य प्रतिपक्ष इति स्फुटमवसीयत एव। नैरात्म्यदर्शनं च तत्र विपरीतालम्बनाकारत्वात्प्रतिपक्ष इति प्रदर्शितमेतत्। नापि लङ्घनादिवद्व्यवस्थितोत्कर्षता। पूर्वपूर्वाभ्यासाहितस्य स्वभावत्वेनानपायादुत्तरोत्तरप्रयत्नस्यापूर्वविशेषाधानैकनिष्ठत्वात्। स्थिराश्रयत्वात्। पूर्वसजातीयबीजप्रभवत्वाच्च प्रज्ञादेर्नत्वेवं लङ्घनादिरिति पश्चात्प्रतिपादयिष्यते। नापि जन्मान्तरासम्भवः पूर्वजन्मप्रसरस्य प्रसाधितत्वात्। नापि ताम्रादिकाठिन्यादिवत्पुनरुत्पत्तिसम्भवो दोषाणाम्, तद्विरोधिनैरात्म्यदर्शनस्या त्यन्तसात्म्यमुपगतस्य सदाऽनपायात्। ताम्रादिकाठिन्यस्य हि यो विरोधी वह्निस्तस्य कादाचित्कसन्निहितत्वात्काठिन्यादेस्तदभाव एव भवतः पुनस्तदपायादुत्पत्तिर्युक्ता। नत्वेवं मलानाम्। अपायेऽपि वा मार्गस्य भस्मादिभिरनैकान्तान्नावश्यं पुनरुत्पत्तिसम्भवो दोषाणाम्, तथाहि—काष्ठादेरग्निसम्बन्धाद्भस्मसाद्भूतस्य तदपायेऽपि न प्राक्तनरूपानुवृत्तिः, तद्वद्दोषाणामपीत्यनैकान्तः। किञ्चागन्तुकतया प्रागप्यसमर्थानां मलानां पश्चात्सात्मीभूतं तन्नैरात्म्यं बाधितुं कुतः शक्तिः, नहि स्वभावो यत्नमन्तरेण निवर्त्तयितुं शक्यते। नच प्राप्यपरिहर्त्तव्ययोर्वस्तुनोर्गुणदोषदर्शनमन्तरेण प्रेक्षावतां हातुमुपादातुं वा प्रयत्नो युक्तः। नच विपक्षसा(नचाविपर्यस्ता ?)त्मनः पुरुषस्य दोषेषु गुणदर्शनं प्रतिपक्षे वा दोषदर्शनं सम्भवति, अविपर्यस्तत्वात्। नहि निर्दोषं वस्त्वविपर्यस्तधियो दुष्टत्वेनोपाददते, नापि दुष्टं गुणवत्त्वेन। नच नैरात्म्यदर्शनस्य कदाचिद्दुष्टता। सर्वोपद्रवरहितत्वेन गुणवत्त्वात्। तथाहि—निःशेषरागादिमलस्यापगमान्न भूतार्थदर्शननिबन्धोपद्रवः। नापि रागादिपर्यवस्थानकृतः कायचित्तपरिदाहोपद्रवोऽस्ति। नापि जन्मप्रतिबद्धो व्याधिजाद्युपद्रवः, जन्महेतोः क्लेशस्याभावात्। नापि साश्रवसुखोपभोगवद्वैरस्योपद्रवः प्रशमसुखरसस्यैकान्ततयाऽनुद्वेगकरत्वात्। तन्नास्य हानाय यत्नो युक्तः। अपि तु यदि भवेदपरिहाणायैव भवेत्। बुद्धेः, प्रकृत्या गुणपक्षपातात्। नापि दोषोपादानाय प्रयत्नः, तेषां सर्वोपद्रवास्पदत्वेन दुष्टत्वात्। तस्मात्सम्भविनी नैरात्म्याभावना। तस्याश्च प्रकर्षपर्यन्तगमनात्स्फुटप्रतिभासज्ञानफलत्वं दृष्टम्। यथा कामिनीं भावयतः कामातुरस्य। तथाहि तस्य सविभ्रमाः पश्याम्युपगूह इत्येवं वाचःकायव्यापाराश्चाभिप्रायानुरूपाः साक्षात्कारिनिबन्धानाः प्रवर्त्तन्ते। तस्मान्नासिद्धो हेतुः। नाप्यनैकान्तिकः, यतो नैरात्म्यदर्शनस्य भूतार्थविषयत्वेन बलवत्त्वमात्मदर्शनस्य तु विपर्ययाद्विपर्यय इति भवति विपक्षप्रतिपक्षभावः। रागद्वेषयोरप्यभूतात्मग्रहसंस्पर्शेन प्रवृत्तेर्न तयोर्विरुद्धरूपग्रहणनिमित्तो विपक्षप्रतिपक्षभावः। नापि विपर्यासात्, अविपर्यासकृतोर्द्वयोरपि विपर्यस्तत्वात्। नाप्यनयोर्विरोधः सिद्धः, द्वयोरप्यात्मग्रहैकयोनित्वात् कार्यकारणभावाच्च। तथाहि—सत्यात्मात्मीयाभिष्वङ्गे तदुपरोधिनि द्वेषो जायते नान्यथा। नचाभिन्नकारणयोः कार्यकारणभूतयोर्बाध्यबाधकभावो युक्तः, यथा वह्निधूमयोरेकेन्धनप्रभवयोः, यथा वात्मग्रहस्नेहयोः, अतिप्रसङ्गात्। युगपदनुत्पत्तिस्तु तदुपादानचित्तस्य युगपत्सजातीयचित्तद्वयाक्षेपासाम र्थ्यात्। नापि सुखदुःखयोः परस्परं विरोधः, तथाहि—द्विविधे सुखदुःखे मानसे विषयजे च। तत्र ये तावन्मानसे तयोर्द्वेषानुनयसम्प्रयोगित्वाद्रागद्वेषाभ्यामेकयोगक्षेमतया तद्विपर्यस्तत्वमभिन्नात्मरूपग्राहित्वमात्मग्रहैकयोनित्वं कार्यकारणभावश्चेति न परस्परं विरोधः सम्भवति। ये च विषयजे तयोरपि परस्परं कारणभेदाप्रतिनियमान्न विरोधः। तथाहि यत एव सुखमुत्पद्यते तत एवातिसेव्यमानाद्दुःखमपीति न तयोः कारणभेदप्रतिनियमोऽस्ति। नत्वेवं नैरात्म्यदर्शनस्येतरेण। किञ्च—द्वयोरप्यनयोर्विषयबलभावित्वेन तुल्यबलत्वम्, नतु मार्गदोषयोः, मार्गस्यैव भूतार्थविषयत्वेन बलवत्त्वात्, न दोषाणाम्। अपि(च)खलु सुखदुःखेऽचिरस्थितिके न तु पुनरेवं नैरात्म्यदर्शनम्, तस्य सात्मत्वेन सदाऽनपायादिति पूर्वमुक्तमतो न व्यभिचारः। युगपदनुत्पत्तेस्तु कारणमुक्तम्। यत्पुनरुक्तमनुमानबलावधारितनैरात्म्यानामपि समुत्पद्यन्ते रागादय इति, तदयुक्तम्। यस्माद्भावनामयं स्फुटप्रतिभासतयानिरात्मकवस्तुसाक्षात्कारिज्ञानमविकल्पकं प्रमाणप्रसिद्धार्थविषयतया चाभ्रान्तं तन्नैरात्म्यदर्शनमात्मदर्शनस्यात्यन्तोन्मूलनेन प्रतिपक्षो वर्णितो न श्रुतचिन्तामयम्। यस्मादनादिकालाभ्यासादत्यन्तोपारूढमूलत्वान्मलानां क्रमेणैव विपक्षवृद्ध्याऽवह्रसतां क्षयः, नतु सकृच्छ्रवणेन। यथा शीतस्पर्शस्य वह्निरूपसम्पर्कमात्रान्न क्षयः। नचापि श्रुतचित्तामयनैरात्म्यज्ञानसम्मुखीभावे सति रागादिसमुदयः सिद्धो येन व्यभिचारः स्यात्। तथाहि—समुत्पन्नं रागादिपर्यवस्थानमशुभादिमनस्कारबलेन विनोदयन्त्येव सौगताः। अतएवाखण्डितमहिमत्वमेषामसिद्धम्। विरोधोऽपि नैरात्म्यदर्शनेनैषामत एव व्यवस्थाप्यते। तत्सम्मुखीभावे सत्यपकर्षात्। ये हि यदुपधानादपकर्षधर्माणस्ते तदत्यन्तवृद्धौ निरन्वयसमुच्छित्तिधर्माणो भवन्ति, यथा सलिलावृद्धावग्निज्वाला, नैरात्म्यज्ञानोपधानाच्चापकर्षधर्माणो दोषा इति तदत्यन्तवृद्धौ कथमवस्थां लभेरन्। अतो नानैकान्तिकता हेतोः। सपक्षे भावाच्च न विरुद्धता ॥ ३३३८॥

एवं क्लेशावरणप्रहाणं प्रसाध्य ज्ञेयावरणप्रहाणं प्रतिपादयन्नाह—“साक्षात्कृति विशेषा”दिति।

साक्षात्कृतिविशेषाच्च दोषो नास्ति सवासनः।
सर्वज्ञत्वमतः सिद्धं सर्वावरणमुक्तितः॥ ३३३९॥

साक्षात्करणं कस्य ?, नैरात्म्यस्येति प्रकृतत्वाद्गम्यते। तस्याविशेषः—बहुशो बहुधोपायं(यैः?)कालेन बहुना सर्वाकारेण तत्र तद्विपक्षे च गुणदोषाणामत्यन्तप्रकाशीभावः। अत एव श्रावकादेर्नैरात्म्यदर्शनेऽपि न सर्वज्ञत्वम्। तथाविधान्तराभ्यासविशेषाभावेन ज्ञेयावरणस्याप्रहाणात्। प्रयोगः—या सादरनैरन्तर्यदीर्घकालविशेषणा भावना सा करतलायमानग्राह्यावभासमानज्ञानफला, तद्यथा कामातुरस्य कामिनीभावना, यथोक्तविशेषणत्रययुक्त च सर्वाकारसर्वमतनैरात्म्यभावना कारुणिकस्येति स्वभावहेतुः। नचासिद्धो हेतुः, कारुणिकस्यार्थित्वेन तथा प्रवृत्तिसम्भवस्य प्रतिपादितत्वात्। नाप्यनैकान्तिकत्वम्, यतः सर्वधर्मगतनैरात्म्यालम्बनस्य मनोविज्ञानस्य धर्मिणो यथोक्तविशेषणत्रययुक्तभावनासंस्पृष्टत्वेन हेतुना स्फुटप्रतिभासित्वं साध्यम्। एतेन च साध्यधर्म्येण यथोक्तसाधनधर्मस्य व्याप्तिः सिद्धा।कारणान्तरानपेक्षित्वात्स्फुटप्रतिभासित्वस्य। ततश्च सामर्थ्यात्सर्वज्ञत्वेनापि व्याप्तिः सिद्धा। यस्मात्सर्ववस्तुगतनैरात्म्याद्यालम्बनस्य मनसो यत्स्फुटप्रतिभासित्वं तदेवास्य सर्वज्ञत्वं नान्यत्। तथाहि भाव्यमानवस्तुस्फुटप्रतिभासित्वेन भावनायाःसामान्येन व्याप्तौ सिद्धायां सामर्थ्यात्सर्वज्ञत्वेनापि सिद्धैव। यथोक्तधर्मिण्यन्यस्यस्फुटप्रतिभासित्वस्यासम्भवात्। एतेन ये सत्तासाधने दोषाः प्रोक्तास्ते प्रत्युक्ताः। सर्वज्ञसत्ताया असाध्यत्वात्। प्रसिद्धे मनसि धर्मिणः स्फुटप्रतिभासित्वस्य साध्यत्वात्। एवमनेन प्रकारेण प्रसिद्धात्साक्षात्कृतिविशेषात्कायवाग्बुद्धिवैगुण्यलक्षणाया दोषवासनायाः प्रहाणात्सिद्धमावरणद्वयप्रहाणम्। अतः सर्वावरणविमुक्त्या सिद्धं सर्वज्ञत्वम्॥ ३३३९॥

स्यादेतद्यदि नाम सामान्येन सिद्धं सुगते तु न सिद्धमित्याह—“एतच्चे”त्यादि।

एतच्च सुगतस्येष्टमादौ नैरात्म्यकीर्त्तनात्।
सर्वतीर्थकृतां तस्मात्स्थितो मूर्ध्नि तथागतः॥ ३३४०॥

एतद्यथोक्तं सर्वज्ञत्वं सुगतस्यैवेष्टं—सिद्धम्। न कपिलादेः। कस्मात् ?, आदौ नैरात्म्यकीर्त्तनात्। एतदुक्तं भवति। येनेदं सर्वपदार्थानां स्कन्धपञ्चकत्वादिदेशनया सर्वाकारमादौ प्रथमतो नैरात्म्यं कीर्त्तितम्, स एवादौ सर्वधर्माणां विचित्रप्रभेदनैरात्म्यकीर्तनात्कार्यलिङ्गात्सिद्धः पुरुषविशेषोऽस्माभिः सुगत इत्युच्यते। तस्यानया देशनया साभ्युपायहेयोपादेयतत्त्वस्थिराशेषज्ञानं साध्यते। (ते) न ज्ञान योगादेवासौ सर्वज्ञः प्रमाणभूतश्चेति तदुक्तप्रतिपत्तिकामैः साधयितुं युक्तः, नतु कीटसङ्ख्यादिज्ञानात्। किन्तु कीटसङ्ख्यादावपि तस्य ज्ञानसम्भवः साध्यते। तत्त्वस्थिराशेषज्ञानं त्वाहत्य। तथाहि—प्रमाणसंवादिनैरात्म्यदेशनया तत्त्वज्ञानं यस्य सिद्धम्, तस्यैव नैरात्म्यस्य पूर्वापराव्याहतदेशनया स्थिरज्ञानम, नवाङ्गेऽपि शास्त्रप्रवचने प्रियान(नु?) विषयायामपि देशनायां दुःखादिलक्षणसत्यदेशनाया एकवाक्यत्वात्। विचित्रैश्चोपायैश्चतुःसत्यप्रकाशनादशेषज्ञानमस्यानुमीयते। शेषस्य सर्वाकारज्ञानप्रतिपादनासामर्थ्यलक्षणस्य प्रहाणात्। नह्यविदितसर्वाकारगुणदोषस्तत्प्रतिपादनाकुशलश्च तथा प्रतिपादयति। नापि वेदाद्विज्ञाय प्रतिपादयतीति युक्तम्। तस्य पौरुषेयत्वप्रतिपादनादिति भावः। अतोऽशेषतीर्थकरमृर्ध्नि भगवान्ज्ञानातिशययोगात्स्थित इति सिद्धम्॥ ३३४०॥

अतएव यथोक्तज्ञानातिशययोगिना भगवता सहान्येषां न तुल्यत्वमस्तीति दर्शयन्नाह—“तेने”त्यादि।

तेन प्रमाणसंवादितत्त्वदर्शनयोगिना।
न तुल्यहेतु(योग ?)ताऽन्येषां विरुद्धार्थोपदेशिनाम् ३३४१

प्रमाणगोचरा येषां प्रमाबाधाकुलं वचः।
तेषामत्यक्षविज्ञानशक्तियोगो हि दूरतः॥ ३३४२॥

नह्येषां ज्ञानातिशययोगिताप्रसाधकः कश्चिद्धेतुरस्ति। तथाहि—हेतुर्भवत् वचनाख्यमेव लिङ्गं भवेत्। तच्चैषां प्रमाणविरुद्धार्थप्रतिपादकमिति कथं ततो ज्ञानातिशययोगिताऽमीषां प्रतियेत॥ ३३४१॥ ३३४२॥

सुगतस्यापि वचनं प्रमाणविरुद्धमिति चेदाह—“सम्बद्धे”त्यादि।

सम्बद्धानुगुणोपायं पुरुषार्थाभिधायकम्।
दृष्टेऽप्यर्थे प्रमाणाभ्यामीषदप्यप्रबाधितम्॥ ३३४३॥

सम्बद्धम्—वाक्यानामेकार्थोपसंहारेण परस्परं सङ्गतम्, नतु दशदाडिमादिवाक्यवत्परस्परासङ्गतम्। अनुगुणः—शक्यानुष्ठानतया नैरात्म्यभावनादिलक्षणउपायो यस्मिन्नुपदिष्टस्तत्तत्तथोक्तम्, नतु विषप्रशमनाय तक्षकचूडारत्नालङ्कारोपदेशवदशक्योपायम्। पुरुषार्थः—अभ्युदयनिःश्रेयसलक्षणः, तस्याभिधायकम्, नतु काकदन्तपरीक्षावदपुरुषार्थफलम्। ननु चैतत्सर्वं कपिलादिवाक्येष्वप्यस्तीत्याह—“दृष्टे” “ऽपी”त्यादि। दृष्टे—प्रत्यक्षानुमानविषयत्वेनाभिप्रेते। प्रमाणाभ्याम्—प्रत्यक्षानुमानाभ्याम्। अबाधितं यथा निर्दिष्टस्यार्थस्य तथाभावात्। तथाहि—नीलादिसुखदुःखादिनिमित्तोद्ग्रहणरागादिबुद्धिलक्षणस्य स्कन्धपञ्चकस्य प्रत्यक्षत्वेनाभिमतस्यनान्यथात्वं सम्भवति, अप्रत्यक्षत्वेन चाभिमतानामप्रत्यक्षतेव। यथा परैः प्रत्यक्षाभिमतानां रूपशब्दादिसन्निवेशेनां सुखादीनां द्रव्यकर्मसामान्यसंयोगादीनां च।तथा—वस्तुबलप्रवृत्तानुमानविषयत्वेनाभिप्रेतानां तथा भाव एव। यथा चतुर्णामार्यसत्यानामतद्विषयत्वेनेष्टानां चातद्विषयत्वमेव। यथा परैर्वस्तुबलानुमानविषयत्वेनाभिमतानामात्मादीनाम्। अपिशब्दाददृष्टेऽपि न विक्रियेति दर्शितम्। तथाह्यत्र रागादिरूपं तत्प्रभवं वा धर्ममुद्दिश्य तत्प्रहाणाय तन्निदानात्मदर्शनविरोधेन नैरात्म्यदर्शनमेव प्रतिपक्षो देशितो नतु कपिलादिशास्त्रवत्तन्निदानाविरुद्धः स्नानाग्निहोत्रादिरुपदिष्टः॥ ३३४३॥

अत एव विशुद्धसुवर्णवत्परीक्ष्य ग्राह्यमेतद्विचक्षणैरिति भगवतोक्तमित्येतत्सूचयन्नाह—“तापा”दित्यादि।

तापाच्छेदान्निकषाद्वा कलधौतमिवामलम्।
परीक्ष्यमाणं यन्नैव विक्रियां प्रतिपद्यते॥ ३३४४॥

यथा कलधौतं सुवर्णममलं सर्वदोषरहितं परीक्ष्यमाणं तापादिभिर्न विक्रियां प्रतिपद्यते तथा भगवद्वचोरत्नं प्रत्यक्षेण तापसदृशेन वस्तुबलप्रवृत्तानुमानेन निकषप्रख्येणागमापेक्षानुमानेनापि छेददृष्टान्तसूचितेन न विक्रियते। अतः प्रेक्षापूर्वकारिण एवम्भूतादेवागमात्प्रवृत्तिर्युक्ता नान्यत इत्यभिप्रायः॥ ३३४४॥

रत्नसाधर्म्यमस्य दर्शयन्नाह—“समस्ते”त्यादि।

समस्तकुमतध्वान्तविध्वंसानुगुणोदयम्।
तथागतवचोरत्नमलब्धम्बहुकल्मषैः॥ ३३४५॥

ततः सुगतमेवाहुः सर्वज्ञमतिशालिनः।
प्रधानपुरुषार्थज्ञं तं चैवाहुर्भिषग्वरम्॥ ३३४६॥

सुगतस्तेन सर्वज्ञः कपिलो नेति तु प्रमा।
अनन्तरोदिता व्यक्ताऽप्येषा मूढैर्न लक्षिता॥ ३३४७॥

कुमतमेव ध्वान्तमन्धकारम्, तस्य विध्वंसो विनाशः, तस्मिन्ननुगुण उदयो यस्य तत्तथोक्तम्। “बहुकल्मषै”रिति। अपुण्यवद्भिः। “अनन्तरोदिते”ति। यथोक्तवचनाख्यकार्थलिङ्गजा॥ ३३४५॥ ३३४६॥ ३३४७॥

गणिताद्येकदेशेष्वित्यादावाह—“यथोदितान्तरादि”त्यादि।

यथोदितान्तरादेव विशेषोऽप्यवधार्यते।
ऋषभादिकुतीर्थेभ्यः स्मरभङ्गविधायिनः॥ ३३४८॥

यथोक्तज्ञानातिशययोगाद्भगवतो मारजितो ऋषभवर्द्धमानादिभ्यो विशेषे सिद्धे सति न युक्तं सत्यवचसा भवता वक्तुम्—न विशेषोऽवधार्यत इति (इति) समुदायार्थः॥ ३३४८॥

स्यादेतत्—गणिताद्येकदेशार्थेऽविसंवादादुभयेषामस्माभिरविशेष उच्यत इत्याह —“को ही”त्यादि।

को हि निःशेषशास्त्रार्थतत्त्वज्ञं मन्यते जडः।
समानभोजनज्ञानान्मातृकामात्रवेदनात्॥ ३३४९॥

येनैव हेतुनेत्यादावाह—“तद्येने”त्यादि।

तद्येन हेतुनैकस्य सर्वज्ञत्वं प्रसाध्यते।
तद्धेतुवस्तुनोऽसत्त्वान्न सोऽन्यस्योपतिष्ठते॥ ३३५०॥

“तदि”ति। तस्मात्। “तद्धेतुवस्तुन” इति। यदि नाम शब्दमात्रमस्ति—स्याद्वादादीनामविपरीतार्थानां सर्वार्थव्यापिनामुपदेष्टृत्वादिति, तथाऽपि तस्य वस्तुप्रतिबद्धस्य हेतुवस्तुनो—हेत्वर्थस्याभावान्नासौ हेतुरन्यस्य कपिलादेरुपतिष्ठते, वस्त्वेव हि वस्तुप्रतिबद्धत्वाद्वस्तु गमयति, न शब्दमात्रम्॥ ३३५०॥

दूषणानीत्यादावाह—“तद्दूषणानी”त्यादि।

तद्दूषणान्यसंरम्भाः सर्वज्ञजिनशासने।
शाक्या यानि वदन्त्येव तान्यशक्ता दिगम्बराः॥ ३३५१॥

असंरम्भा इति। संरम्भरहिताः। कृपयैव परानुग्रहाय तेषां प्रवृत्तेर्न भवतामिव रोषमानादिभिः। “एव”मिति। तदुपदिष्टस्य स्याद्वाद्वादेर्दुष्टत्वप्रतिपादनात्॥ ३३५१॥

तत्रानवस्थितैरित्यादावाह—“यदि”त्यादि।

यत्सिद्धप्रतिबन्धेन प्रमाणेनोपपादितम्।
तत्त्वं सौगतसिद्धान्ते सिद्धं नान्यमते तथा॥ ३३५२॥

तेन व्यवस्थितैस्तेषां भिन्नैः साधनदूषणैः।
प्रतिबिम्बोदयाग्रस्तैर्निर्णयः क्रियतामलम्॥ ३३५३॥

“य”दिति। यस्मात्। “सिद्धप्रतिबन्धेने”ति। वस्तुबलप्रवृत्तेर्न(र्नः?) सिद्धतादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धेनेत्यर्थः। “तेने”ति। तस्मात्॥ ३३५२॥ ३३५३॥

“यस्य ज्ञेये”त्यादावाह—“सर्वाकारज्ञताया”स्त्वित्यादि।

सर्वाकारज्ञतायास्तु न कश्चिदपि विद्यते।
साक्षादितरथा वाऽपि विरोधो ज्ञेयतादिभिः॥ ३३५४॥

अज्ञेयत्वादिविश्लेषात् ज्ञेयत्वादि व्यवस्थितम्।
न सर्वज्ञत्वविश्लेषात्तत्पुनः स्थितलक्षणम्॥ ३३५५॥

अर्थान्तरविधानेनार्थान्तरस्य निषेधं प्रतिपादयितुमिच्छता साक्षात्पारम्पर्येण वा विरुद्धस्यैव विधानात्प्रतिपादनीयो नाविरुद्धस्य, अन्यथा हि यस्य कस्यचिद्विधानेन सर्वस्य निषेधः स्यात्। नच सर्वज्ञत्वस्य ज्ञेयत्वादिभिः सह कश्चित्साक्षात्पारम्पर्येण वा विरोधोऽस्ति। तथाहि—द्विविध एव धावानां विरोधो निरुप्यमाणोऽवतिष्ठते, परस्परपरिहारस्थितलक्षणो वा—यथा भावाभावयोः क्रमाक्रमयोर्वा। सहानवस्थानलक्षणो वा—यथाग्निशीतस्पर्शयोः। तत्राद्यस्तावज्ज्ञेयत्वादिभिः सह सर्वज्ञत्वस्य न सम्भवतीति दर्शयति—“अज्ञेयत्वा”दीत्यादि। यद्व्यवच्छेदनान्तरीयको यस्य परिच्छेदस्तयोरेव परस्परपरिहारस्थितलक्षणो विरोध इति पूर्वमुक्तम्। न च ज्ञेयत्वादिसर्वज्ञत्वव्यवच्छेदेन स्थितम्, किं तर्हि ?, अज्ञेयत्वादिव्यवच्छेदेन॥ ३३५४॥ ॥ ३३५५॥

नापि द्वितीयो विरोधः सम्भवतीति दर्शयन्नाह—“सर्वज्ञत्व”मित्यादि।

सर्वज्ञत्वं नचाप्येतत्क्वचित्सम्पूर्णकारणम्।
सत्त्वादिसम्भवे पश्चात्प्राक्प्रवृत्तं निवर्त्तते॥ ३३५६॥

यस्य ह्यविकलकारणस्य भवतो यत्सन्निधानादभावस्तयोरेव सहानवस्थानलक्षणो विरोधः, नचैतत्सर्वज्ञत्वमविकलकारणं प्राक्प्रवृत्तं दृष्टम्, येन पश्चात्सत्त्वादिसम्भवे सति निवर्त्तत इति स्यात्॥ ३३५६॥

कस्मान्न प्रवृत्तमित्याह—“नैःस्वाभाव्य” इत्यादि।

नैःस्वाभाव्योऽस्ववित्तौ च नहि तज्जातु जायते।
प्राक्प्रवृत्तेः प्रसिद्धेयमेवं सर्वज्ञता भवेत्॥ ३३५७॥।

यदि सर्वज्ञत्वं सत्त्वज्ञेयत्वसद्भावे सति निवर्त्तत इति भवताऽभ्युपगम्यते। तथा च सति सत्त्वादिसन्निधानात्पूर्वमस्यासत्त्वमज्ञेयत्वं च स्वसंविदापीत्यभ्युपगतं भवेत्, ततश्चासत्त्वेन नैःस्वाभाव्ये सत्यज्ञेयत्वाच्चास्ववित्तौ सत्यां नैतत्सर्वज्ञत्वं जायते—भवतीति तत्कथं प्राक्प्रवृत्तं पश्चान्निवर्त्तत इति स्यात्। नहि निःस्वभावस्योत्पत्तिः सम्भवति। नाप्यनुपलब्धस्य सत्ताव्यवस्थानिबन्धनमस्ति, ज्ञाननिबन्धनत्वाद्वस्तुसत्ताव्यवस्थायाः। तस्मात् स्ववचनव्याघात इत्यभिप्रायः। किञ्च यदि प्राक् प्रवृत्तिरस्याभ्युपगम्यते तदा प्रवृत्तेः प्रयत्नमन्तरेणैव सर्वज्ञता सिद्धा, अतो न तत्प्रतिक्षेपो युक्तः,अन्यथा स्ववचनव्याहतिः स्यादिति दर्शन्नाह—“प्राक्प्रवृत्ते”रित्यादि। प्राक्प्रवृत्तेः, सर्वज्ञत्वस्याभ्युपगमे सतीति शेषः॥ ३३५७॥

अथापि स्यान्माभूद्विरुद्धं ज्ञेयत्वादि, तथापि सर्वज्ञासत्त्वं गमयतीत्याह।

नाविरुद्धविधाने च युक्तमन्यनिवर्त्तनम्।
अन्यता रूपसद्भावाद्रसाभावोऽपि गम्यते॥ ३३५८॥

यस्तु मन्यते—यद्यपि ज्ञेयत्वादयो न विरुद्धयन्ते सर्वज्ञत्वेन, वक्तृत्वं तु विरुध्यत एव, पारम्पर्येणैतत्कारणेन विकल्पेन सर्वज्ञत्वस्य सहानवस्थानात्। तथाहि —नावितर्क्य नाविचार्य वाचं भाषत इति न्यायाद्वचनस्य विकल्पो हेतुः, विकल्पानां च सर्वेषामभिलापसंसृष्टतया न वस्तुस्वरूपग्रहणमस्ति, तस्य निर्विकल्पज्ञानगोचरत्वात्, अतो विकल्पावस्थायां वस्तुस्वरूपपरिज्ञानाभावान्न सर्वज्ञत्वमस्तीति सिद्धाऽस्य वक्तृत्वस्य विपक्षात्सर्वज्ञत्वलक्षणात्कारणानुपलब्धा व्यतिरेकनिश्चितिरिति नानैकान्तिकता हेतोः। अयं च वक्तृत्वाख्यो हेतुः “यस्य ज्ञेयप्रमेयत्ववस्तुसत्त्वादिलक्षणा” इत्यत्रादिशब्देनाक्षिप्त एवेति। तदेतत् “तदत्रादिपदाक्षिप्त” इत्यादिनाऽऽशङ्क्य “अत्रापि ये प्रवक्तृत्व”मित्यादिना परिहरति।

तदत्रादिपदाक्षिप्ते वक्तृत्वे योऽभिमन्यते।
निश्चयं व्यतिरेकस्य परस्परविरोधतः॥ ३३५९॥

विकल्पे सति वक्तृत्वं सर्वज्ञश्चाविकल्पतः।
न ह्याविष्टाभिलापेन वस्तु ज्ञानेन गम्यते॥ ३३६०॥

अत्रापि ये प्रवक्तृत्वं वितर्कानुविधानतः।
सर्वज्ञस्याभिमन्यन्ते न तैर्वचनसम्भवे॥ ३३६१॥

सर्वज्ञ इष्यते नापि विकल्पज्ञानवृत्तितः।
तस्मिन्क्षणे विकल्पे तु वक्तुत्वं न प्रसिद्धयति॥ ३३६२॥

केचिद्भगवतो वक्तृत्वं विकल्पसम्मुखीभावादेवेति प्रतिपन्नाः, अन्ये तु पूर्वावेव(श?)वशादेवाविकल्पयतोऽपि वचनप्रवृत्तिर्भगवत इति वर्णयन्ति। तत्र प्रथमे दर्शने यदि विकल्पावस्थायामसर्वज्ञत्वं साध्यते तदा सिद्धसाध्यता, इष्यत एव तैस्तस्यामवस्थायां भगवतोऽसर्वदर्शित्वम्। अथाविकल्पावस्थायामसर्वज्ञत्वं भावयितुमिष्टम्। तदा हेतोरसिद्धता। नहि तस्यामवस्थायां वचनप्रवृत्तिरस्ति, समुत्थापकस्य विकल्पस्य तदानीमभावात्॥ ३३५९॥ ३३६०॥ ३३६१॥ ३३६२॥

ननु यदि विकल्पावस्थायामसर्वज्ञत्वमिष्यते तदा तद्वचनस्यासर्वज्ञभाषितत्वादप्रामाण्यमेव प्राप्नोतीत्याशङ्क्याह—“असर्वज्ञप्रणीतत्व”मित्यादि।

असर्वज्ञप्रणीतत्वं नचैवं तस्य युज्यते।
सर्वज्ञतासमाक्षेपादतः संवादनं भवेत्॥ ३३६३॥

अनुभूय यथा कश्चिदौष्णयं पश्चात्प्रभाषते।
तस्माद्वस्त्वविसंवादस्तदर्थानुभवोद्भवात्॥ ३३६४॥

तेन सर्वज्ञताकाले हेतोरस्याप्रसिद्धता।
व्याहारवृत्तिकाले तु भवेत्सिद्धप्रसाधनम्॥ ३३६५॥

यद्यपि तस्यामवस्थायामसर्वज्ञस्तथाप्यसर्वज्ञप्रणीतत्वमस्य न भवति, कुतः ?, सर्वज्ञतया समाक्षिप्तत्वात्तस्य। अत एव सर्वज्ञज्ञानबलोत्पन्नविकल्पसमुत्थापितत्वात्तस्य पारम्पर्येण वस्तुनि प्रतिबन्धादनुमानविकल्पवत्प्रामाण्यमपि भवति। अत्रैव दृष्टान्तमाह—“अनुभूये”त्यादि। “तस्मा”दिति। उष्णानुभवबलभाविनो वचनात्। “तदर्था”“नुभवोद्भवा”दिति। तस्योष्णार्थस्यानुभवात्पारम्पर्येण विकल्पस्योद्भवादित्यर्थः। “स्या”“देतत्”—यदि सर्वज्ञस्य विकल्पप्रत्ययोऽस्ति तदा भ्रान्तः प्राप्नोति, विकल्पस्य प्रकृत्यास्वप्रतिभासेना(ऽन?)र्थेऽर्थाध्यवसायेन प्रवृत्तेर्भ्रान्तत्वादिति। “नैतदस्ति”। यद्यारोपितस्यतात्त्विकस्य च रूपस्य विभागं न जानीयात्तदा भ्रान्तो भवेत्, यावता विकल्पविषयमारोपितात्मनैव निश्चिन्वन्बाह्यं च वस्तु निर्वकल्पकज्ञानगोचरं पृथगेव तात्त्विकन्तात्त्विकात्मना पश्यन्कथं विपर्यस्तो नाम। यद्यविपर्यस्तः कथमारोपयति विकल्पावस्थायामिति चेत्। न। शब्दप्रवृत्त्युपायज्ञत्वात्। यतो नान्यमारोपकविकल्पव्य तिरेकेण शब्दस्य समुत्थापकं पश्यति, नापि शब्दर्थमारोपितादन्यमुपलभते, अतःशब्दप्रवृत्त्युपायज्ञो जगदनुकम्पया यथावदधिगतं तत्त्वमप्रतिपाद्य परस्मै नासितुं समर्थः संस्तत्प्रतिपिपादयिषया शब्दप्रवृत्त्युपायमारोपकं विकल्पमारोप्यं च शब्दाभिधेयमारचयति। एतच्च पश्चादाशङ्क्य चोद्यं परिहरिष्यति। अस्माभिस्त्वत्र प्रस्तावागतत्वादित्यभिहितम्। अत एव वक्तृत्वाद्रागित्वानुमानमप्ययुक्तमन्यथापि वचनप्रवृत्तिसम्भवात्। नहि रागादीनामेव कार्यं वचनस्पन्दादयः वक्तुकामतासामान्यहेतुत्वात्। भाव(सा च?)वक्तुकामता वीतरागस्य करुणयापि सम्भवतीति व्यभिचारः। सैव करुणा राग इति चेत्। न। (न)नामकरुण(या) किञ्चिदनिष्टमापद्यते। किन्तु नित्यसुखात्मात्मीयदर्शनाक्षिप्तं साश्रववस्तुविषयं चेतसोऽभिष्वङ्गं रागमाहुः। तत्पूर्वकश्चात्मात्मीयोपरोधिनि प्रतिहतिर्द्वेषः। आत्मात्मीयग्रहश्च मोहो न चैव कृपा। तस्या असत्यप्यात्मग्रहे दुःखविशेषदर्शनमात्रेणाभ्यासबलेनैवोत्पादात्।तथाहि वीतरागाणां धर्माद्यालम्बना मैत्र्यादयः शास्त्रे वर्णिताः॥ ३३६३॥ ३३६४॥ ॥ ३३६५॥

स्यादेतद्यदि सर्वविषयज्ञानासम्मुखीभावमात्रं साध्यते, तथापि सिद्धसाध्यता भवेद्यावता समस्तवस्तुतत्त्वविस्तरज्ञानाशक्तता साधयितुमिष्टा, अतो न सिद्धसाध्यता नापि हेतोरसिद्धता व्याहारसामर्थ्यमात्रस्य हेतुत्वेन विवक्षितत्वात् इत्यत आह—“समस्ते”त्यादि।

समस्तवस्तुविज्ञानशक्त्यपाकरणेऽपि ते।
सन्दिग्धव्यतिरेकित्वं तदवस्थं प्रसज्यते॥ ३३६६॥

व्याहारवृत्तिसामर्थ्ये हेतुत्वेनापि सम्मते।
सन्दिग्धव्यतिरेकित्वदोष एवानुवर्त्तते॥ ३३६७॥

उभयत्रापि पक्षे साध्यविपर्यये हेतोर्बाधकप्रमाणाभावात्। सन्दिग्धव्यतिरेकित्वेन नैकान्तिकता हेतोः॥ ३३६६॥ ३३६७॥

अथ येषामविकल्प(य)तोऽपि भगवतो वचनप्रवृत्तिरिति पक्षस्तत्राह—“चक्रे”त्यादि।

चक्रभ्रमणयोगेन निर्विकल्पेऽपि तायिनि।
सम्भारावेगसामर्थ्याद्देशना सम्प्रवर्त्तते॥ ३३६८॥

इति ये सुधियः प्राहुस्तान्प्रत्यपि न सिध्यति।

यथाहि चक्रस्योपरतेऽपि दण्डप्रेरणव्यापारे पूर्वावेगवशाद्भ्रमणम्, एवं भगवति प्रत्यस्तमितसमस्तकल्पनाजालेऽपि स्थिते प्रवर्त्तत एव पूर्वपुण्यज्ञानसम्भारावेगवशाद्देशनेति सुधियः सौगताः केचन विज्ञानवादिनः प्रतिपन्नाः, तान्प्रति स्फुटतरमसिद्धतादोषो हेतोरवसीयत एव।

स्यादेतदस्मिन्दर्शने सर्वेषामेव स्वप्रतिभासानुभवमात्रत्वात्परमार्थतो न कस्यचिद्वक्तृत्वमस्ति, किं त्वध्यवसायवशादवदत्यपि परस्मिंस्तथा प्रतिभासिविज्ञानोत्पत्तावधिपतिप्रत्ययभावेन स्थिते वक्तृत्वाभिमानो लोके, तदेवाध्यवसायिकं लोकप्रतीतं वक्तृत्वं हेतुत्वेनाभिप्रेतम्। नहि सिद्धान्तप्रसिद्धो हेतुर्धर्मी वा क्रियते, किं तर्हि लोकप्रतीत एवेत्यतो नासिद्धता हेतोरित्याशङ्क्याह—“वक्तृत्व”मित्यादि।

वक्तृत्वं यत्तु लोकेन मतमाध्यवसायिकम्॥ ३३६९॥

तत्र तादृशि हेतोः स्यात्सन्दिग्धव्यतिरेकिता।

अत्रापि पूर्ववत्सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकता हेतोः।

“नन्वि”त्यादिना परो यदसिद्धत्वमत्र विज्ञानवादनये प्रोक्तं तद्विघटयति।

ननु चासिद्धता केन मतेऽत्रानुपपत्तिके॥ ३३७०॥

एवं मन्यते—य एव तूभयनिश्चितवाची स एव साधनं दूषणं वा, नान्यतर(रा?)प्रसिद्धः सन्दिग्धवाची, पुनः साधनापेक्षणादिति न्यायात्। अप्रमाणोपपन्नेऽस्मिन्विज्ञानवादमते कथमसिद्धतोद्भाव्यते, नहि स्वेच्छामात्रेण सिद्धत्वासिद्धत्वपरिकल्पनायां दूषणं भवति, किं तर्हि ?, प्रमाणबलोपपादितायां सिद्धावसिद्धौ वा, न च प्रमाणबलाद्विज्ञाननयः सिद्धः, अस्य विस्तरेण निरस्तत्वात्॥ ३३६८॥ ॥ ३३६९॥ ३३७०॥

उच्यत इत्यादिना प्रतिविधत्ते।

उच्यते यदि वक्तृत्वं स्वतन्त्रं साधनं मतम्।
तदानीमाश्रयासिद्धः सन्दिग्धासिद्धताऽथवा॥ ३३७१॥

अस्य चार्थस्य सन्देहात्सन्दिग्धासिद्धता स्थिरा।
प्रसङ्गसाधनं तस्मात्त्वया वक्तव्यमीदृशम्॥ ३३७२॥

तत्र चागममात्रेण सिद्धो धर्मः प्रकाश्यते।
नतु तद्भावसिद्ध्यर्थं ज्ञापकं विद्यते परम्॥ ३३७३॥

अत्र विकल्पद्वयं कदाचिद्वक्तृत्वं स्वातन्त्र्येण साधनं वाभिप्रेतं भवेत्, प्रसङ्गसाधनं वा। तत्राद्ये पक्षे विशेषेणाश्रयो न सिद्ध इत्याश्रयासिद्धता हेतोः। अथ सामान्येनाश्रयो विवक्षितस्तथापि यावत्प्रतिवादिनं प्रति प्रमाणेन वक्तृत्वं न साध्यते तावत्सन्दिग्धासिद्धता, य एव तूभयनिश्चितवाची स एव साधनमिति न्यायात्। “अ”“स्ये”ति। वक्तृत्वस्य। तस्मान्माभूदयं दोष इति प्रसङ्गसाधनमङ्गीकर्त्तव्यं त्वया। तत्रापि प्रसङ्गसाधने य एवाविचाररमणीयतयाऽऽगममात्रात्परस्य प्रसिद्धो धर्मः स एव साधनत्वेन प्रकाशनीयः परस्परविरोधोद्भावनाय, नत्वसौ प्रमाणेन साधनीयो निष्प्रयोजनत्वात्। नच वक्तृत्वं परस्यागममात्रेण प्रसिद्धमित्युभयथाऽप्रसिद्धता हेतोः ॥ ३३७१॥ ३३७२॥ ३३७३॥

“एव”मित्यादिनोपसंहरन्परोक्तेष्वर्थविपर्ययमादर्शयति।

एवं यस्य प्रसेयत्ववस्तुसत्तादिलक्षणाः।
निहन्तुं हेतवोऽशक्ताः को न तं कल्पयिष्यति॥ ३३७४॥

वेदवादिमुखस्थैवं युक्तिर्लौकिकवैदिकी।
न काचिदपि शाक्योग्रसर्पज्ञानविषापहा॥ ३३७५॥

दृग्विषैरिह दृष्टोऽपि स्वल्पशक्तिर्द्विजो जडः।
उच्छ्वासमपि नो कर्त्तुं शक्नोति किमु वासि(बाधि?)तुम् ३३७६

वेदवादिमुखस्था तु युक्तिः साध्व्यपि दुर्भगा।
कण्ठिका चरणस्थेव जघन्याश्रयसंस्थितेः॥ ३३७७॥

“को न तं कल्पयिष्यतीति”। सम्भवित्वेनेति शेषः। यतो बाधकानुपलम्भादेव तस्य सम्भावना सिद्ध्यतीति भावः। आस्तां तावदेतत्—यदसाध्वी युक्तिर्वेदवादिमुखस्था नैव शोभत इति, नैवात्र चित्रम्, किन्तु—साध्व्यप्याश्रयदोषेण भवतोच्यमाना न भ्राजते॥ ३३७४॥ ३३७५॥ ३३७६॥ ३३७७॥

कथमित्याह—“पावकाव्यभिचारित्व”मित्यादि।

पावकाव्यभिचारित्वं धूमस्यापि न शक्यते।
वक्तुं तेन यतो धूमस्तन्मतेऽन्यत्र वर्त्तते॥ ३३७८॥

एकवस्तुस्वरूपत्वादुदन्वत्यपि वर्त्तते।
तत्राप्यनलसद्भावे व्यतिरेकः किमाश्रयः॥ ३३७९॥

धूमस्य हि दहनप्रतिबद्धजन्म तथा तदप्यभिचारित्वमागोपालमतिप्रतीतमेव, तस्यापि त्वया सर्वस्य जगतो वस्तुत्वादिना पारमार्थिकमैक्यं वर्णयता दहनाब्यभिचारित्वं न शक्यं प्रतिपादयितुम्, वस्तुस्वरूपत्वेनोदकेऽस्य भवन्मतेन धूमस्य परमार्थतो वृत्तेः। स्यादेतत्—अव्यभिचारितैवेत्याह—“तत्रा”पीत्यादि। तत्राप्युदन्वति तादान्म्येन यद्यनलस्वभावोऽङ्गीक्रियते तदाऽनले साध्ये जलादिर्न विपक्षः स्यात्, ततश्च विपक्षाभावाद्धूमादेर्लिङ्गस्य किमाश्रयो विपक्षाद्व्यतिरेको भवेत्॥ ३३७८॥ ॥ ३३७९॥

तद्रूपकार्यविज्ञप्तिः किंवा तत्रापि नो भवेत्।
विलक्षणात्मभावे वा वस्तुभेदोऽस्तु तात्त्विकः॥ ३३८०॥

यदि जलधौ परमार्थतो दहनोऽवस्थित इति मतम्, किमिति तद्रूपोपलब्धिर्दाहपाकादिलक्षणकार्यनिर्भासा च विज्ञप्तिर्न जायते। वैलक्षण्यमपीष्टमिति चेदाह—“विलक्षणात्मे”त्यादि। एतच्च विस्तरेण स्याद्वादपरीक्षायां विचारितमित्यास्तां तावदेतत्॥ ३३८०॥

यदुक्तमेकेन प्रमाणेनेत्यादि, तत्राह—“समस्ते”त्यादि।

समस्तवस्तुसम्बद्धतत्त्वाभ्यासबलोद्गतम्।
सार्वज्ञं मानसं ज्ञानं मानमेकं प्रकल्प्यते॥ ३३८१॥

नतु नेत्रादिविज्ञानं ततः किमिदमुच्यते।
नूनं स चक्षुषा सर्वात्रसादीन्प्रतिपद्यते॥ ३३८२॥

सिद्धं च मानसं ज्ञानं रूपाद्यनुभवात्मकम्।
अविवादः परस्यापि वस्तुन्येतावति स्फुटः॥ ३३८३॥

वर्ण्यते हि स्मृतिस्तेन रूपशब्दादिगोचरा।
स्वप्ने च मानसं ज्ञानं सर्वार्थानुभवात्मकम्॥ ३३८४॥

ततश्चानियतार्थेन मानसेन प्रकल्पिते।
सर्वज्ञे चक्षुषा कस्माद्रसादीन्प्रतिपद्यते॥ ३३८५॥

चाक्षुषेणैव तत्क्लृप्तावयं दोषो भवेदपि।
समासेन तु चित्तेन वेत्त्येव च रसादिकम्॥ ३३८६॥

यत्राप्यतिशयो दृष्टः स्वस्वार्थानतिलङ्घनात्।
दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोत्रवृत्तितः॥ ३३८७॥

इत्यादिकमतोऽनिष्टं परैरुक्तं न नो यतः।
स्वार्थाविलङ्घनेनैव मानसेऽतिशयो मतः॥ ३३८८॥

यज्जातीयैः प्रमाणैश्च यज्जातीयार्थदर्शनम्।
दृष्टं सम्प्रति लोकस्य तथा कालान्तरेऽपि नः॥ ३३८९॥

यदि चक्षुरादीन्द्रियधियां सर्वार्थपरिज्ञानमभ्युपगतं भवेत्, तदा भवेद्यथोक्तदोषप्रसङ्गः, यावता समस्तवस्तुगतानित्यत्वादिलक्षणाशेषतत्त्वाभ्यासप्रकर्षपर्यन्तजेन मनोविज्ञानेन सत्त्वार्थगोचरेण स्फुटप्रतिभासाविसंवादित्वाभ्यां प्रत्यक्षतामुपगतेन युगपदशेषवस्तुग्रहणात्सर्वविदिष्टः, नतु चक्षुरादिधिया। नच मनोज्ञानं सर्वार्थगोचरतया न प्रसिद्धमिति युक्तं वक्तुम्, यतो भवताऽपि रूपशब्दादिविषयं स्मार्त्तं ज्ञानमुपवर्णितम्। तच्च मनोज्ञानमेव। स्वप्ने च रूपादिप्रतिभासमतिप्रतीतमेवेति नास्यापह्नवः शक्यक्रियः। तेन स्वार्थाविलङ्घनेनैवातिशयस्येष्टत्वान्नास्माकं किञ्चिदनिष्टमापादितं भवता॥ ३३८१॥ ३३८२॥ ३३८३॥ ३३८४॥ ३३८५॥ ३३८६॥ ॥ ३३८७॥ ३३८८॥ ३३८९॥

यस्यापि ज्ञानवादिनोऽक्षधिया सर्वविदिष्टस्तस्यापि दोषा(ष?)दौष्कुल्यवासनायाः प्रहाणे सति सर्वार्थवृत्तित्वेन सर्वधियां विभुत्वलाभस्येष्टत्वात्। दौष्कुल्यवासनैव हि धियां नियमकारणम्। तत्प्रहाणे सति कुतो नियतार्थविषयत्वमासां सम्भवेदिति मन्यमान आह—“विशुद्धं वे”त्यादि।

विशुद्धं वा भवेज्ज्ञानं सर्वं सर्वार्थगोचरम्।
हेतोः सम्भाव्यते कश्चित्फलेऽप्यतिशयः क्वचित्॥ ३३९०॥

नहि सूक्ष्मफला दृष्टा आमलक्यो मराविति।
सर्वास्तत्त्वेन तद्रूपा अन्यत्रापि भवन्ति ताः॥ ३३९१॥

शृण्वन्ति चक्षुषा सर्पा इत्येषाऽपि श्रुतिस्ततः।
सम्भाव्यार्था विचित्रा हि सत्त्वानां कर्मशक्तयः॥ ३३९२॥

कारणभेदेन हि भावानां स्वभावभेदप्रतिनियमान्न शक्यते क्वचिदेकदा दृष्टस्य वस्तुनः सर्वत्र सर्वदा तथा भावो निश्चेतुम्, नहि सूक्ष्मफला आमलक्यो मरुषु समुपलब्धा इत्येतावता सर्वत्र देशे सत्यपि कारणभेदसम्भवे तथात्वेनावधारयितुं दर्शनमात्रेण प्रेक्षावन्तो युक्ताः। तेन चक्षुषाऽपि योगाभ्यासविशेषबलशलाकोन्मीलितेनकश्चिदपि सर्वार्थान्पश्यतीत्यविरुद्धम्॥ ३३९०॥ ३३९१॥ ३३९२॥

यज्जातीयैरित्यादावाह—“यस्ये”त्यादि।

यस्याध्वत्रितयस्थं हि सर्वं वस्त्ववभासते।
तथा नियतसामर्थ्यं वक्तुमित्थं स शोभते॥ ३३९३॥

“तथा नियतसामर्थ्य”मिति। तेनेष्टरूपेण नियतसामर्थ्यं सर्वं वस्त्ववभासत इति सम्बन्धः॥ ३३९३॥

कीदृशं तद्वक्तुं शोभत इत्याह—“यज्जातीयै”रित्यादि।

यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनम्।
भवेदिदानीं लोकस्य तथा कालान्तरेऽप्यभूत्॥ ३३९४॥

इदानीमपि लोकस्य शक्तिर्ज्ञातुं न शक्यते।
भवता जन्तुमात्रेण सर्वशक्त्यविनिश्चयात्॥ ३३९५॥

निःशेषसत्त्वशक्तीनां ज्ञाने सर्वज्ञता बत।
नचानुमानतः सिद्धिरन्यथाभावशङ्क्या॥ ३३९६॥

स्यादेतत्—न वयं प्रत्यक्षतो ज्ञात्वैवं ब्रूमः “तथा कालान्तरेऽप्यभू”दिति, किं तर्हि ?, अनुमानात्। यत्प्रमाणं यज्जातीयार्थग्राहि दृष्टं तत्कालान्तरेऽपि तथैवाभूत्प्रमाणत्वादिति, तत्राह—“न चानुमानतः सिद्धि”रिति। आमलक्यादिवद्धेतुविशेषणकार्यस्य विशेषदर्शनात्। अन्यथाऽपि विजातीयार्थग्रहणद्वारेण प्रवृत्तेः सम्भाव्यमानत्वादनैकान्तिकता हेतोः॥ ३३९४॥ ३३९५॥ ३३९६॥

येऽपि सातिशया दृष्टा इत्यादावाह—“अतीन्द्रियार्थविज्ञानयोगेना”पीत्यादि।

अतीन्द्रियार्थविज्ञानयोगेनाप्युपलभ्यते।
प्रज्ञादिगुणयोगित्वं पुंसां विद्यादिशक्तितः॥ ३३९७॥

अस्ति हीक्षणिकाद्याख्या विद्यायां सुविभाविता।
परचित्तपरिज्ञानं करोतीहैव जन्मनि॥ ३३९८॥

श्रुतानुमितदृष्टं च यन्न वस्त्वत्र जन्मनि।
भूतं भवद्भविष्यच्च तद्विदन्ति वदन्ति च॥ ३३९९॥

ससंवादमभिव्यक्तमाविष्टाः पुरुषा इह।
विचित्रमन्त्रनागेन्द्ररक्षोयक्षादिशक्तितः॥ ३४००॥

मावा भूद्दृष्टमित्यादि तथाऽप्यत्र न बाधकम्।
किञ्चित्प्रमाणमस्तीति तदभावो न सिद्ध्यति॥ ३४०१॥

नत्वतीन्द्रियार्थदर्शनादित्यसिद्धमेतत्, तथाहि—ईक्षणिकादिविद्याबलेन डाकिन्यादीनां परचित्तज्ञानं भूतभवद्भविष्यद्वस्तुपरिज्ञानं चोपलभ्यत एव। आदिशब्देन गान्धारीप्रकृतीनां ग्रहणम्। विचित्रभूतग्रहाच्च(द्या?) वेशबलाच्चातीन्द्रियार्थपरिज्ञानदर्शनादन्यत्राप्यप्रतिक्षेपः। मा भूद्वा व्यभिचारविषयदर्शनम्। तथाप्यप्रति(लम्भ)मात्रेण सर्वविदो नाऽभावो निश्चेतुं युक्तः। तदभावः—अतीन्द्रियार्थदृगभावो न सिद्ध्यति॥ ३३९७॥ ३३९८॥ ३३९९॥ ३४००॥ ३४०१॥

प्राज्ञेऽपि हीत्यादावाह—“उक्तेन चे”त्यादि।

उक्तेन च प्रकारेण वेदकारे प्रसाधिते।
अवश्याभ्युपगन्तव्यस्त्वयाऽतीन्द्रियदृग्नरः॥ ३४०२॥

अतः प्राज्ञो नरः सूक्ष्मानर्थान् द्रष्टुं क्षमो भवेत्।
सजातीरप्यतिक्रामन्परानभिभवेन्नरान्॥ ३४०३॥

“उक्तेने”ति। अ(श्रु?)तिपरीक्षायाम्॥ ३४०२॥ ३४०३॥

अत्रैवोपपत्तिमाह—“यथा स्वविषय” इत्यादि।

यथा स्वविषये शक्तिः श्रोत्रादेः प्रविशिष्यते।
गतियोगविशेषाद्यैर्मनसोऽपि तथा भवेत्॥ ३४०४॥

यथा गतिविशेषेणाञ्जनादिलक्षणयोगविशेषेण च श्रोत्रादेः स्वार्थशक्तिर्विशिष्यते तथा मनसोऽपि हेतुविशेषेण शक्तिः प्रविशिष्यत इति सम्भाव्यम्॥ ३४०४॥

तत्र गतिविशेषकृतं श्रोत्रादेर्विशेषं दर्शयति—तथाहीत्यादि।

तथाहि वीक्ष्यते रूपं गृध्रैर्दूरतरस्थितम्।
तिरस्कृतं निधानादि तथा सिद्धाञ्जनादिकैः॥ ३४०५॥

योगविशेषकृतमप्याह—“तिरस्कृत”मित्यादि। “सिद्धाञ्जनादिकैरि”ति। वीक्ष्यत इति सम्बन्धः। हेतौ करणे वा तृतीयेयम्॥ ३४०५॥

एवं गतिविशेषस्य ज्ञानशक्तिविशेषम्प्रति हेतुभावं प्रसाध्य दार्ष्टान्तिकेऽर्थे योजयन्नाह—“एव”मित्यादि।

एवं गतिविशेषेण देवादेर्दर्शनं भवेत्।
सूक्ष्मव्यवहितादीनां स्वोपपत्त्यानुरूप्यतः॥ ३४०६॥

“स्वोपपत्त्यानुरूप्यत” इति। अधस्तादेषां ज्ञानदर्शनं प्रवर्त्तते नोर्द्ध्वमित्येवं यथा स्वमुपपत्त्या आनुरूप्येण ज्ञानं भवच्चानु(ज्जातु?) महाराजकायिकादीनां(?) देवानां केन वार्यते॥ ३४०६॥

योगकृतमपि विशेषं योजयति—“योगाभ्यासे”त्यादि।

योगाभ्यासविशेषाच्च योगिनां मानसं तथा।
ज्ञानं प्रकृष्टरूपं स्यादित्यत्रास्ति न बाधकम्॥ ३४०७॥

यदि तु पुनर्यथोक्तगतियोगादिकारणासम्भवमुपदर्श्यातिशयनिषेधः क्रियते तदा सिद्धसाध्यतेति दर्शयन्नाह—“गतियोगादिवैकल्य” इति।

गतियोगादिवैकल्ये ज्ञाने त्वतिशयो यदि।
क्षिप्यतेऽयुक्तमेतद्धि हेत्वभावात्फलं नहि॥ ३४०८॥

यथा शास्त्रान्तरज्ञानं तन्मात्रेण न लभ्यते।
उत्तरोत्तरतद्धेतुवैकल्येऽतिशयस्तथा॥ ३४०९॥

देवानाम्। यच्चोक्तम्—“श्रोत्रगम्येष्वि” त्यादि, तदप्यनेनैव प्रत्युक्तम्, अदर्शनमात्रेण तथाविधस्यातिशयस्य प्रतिषेद्धुमशक्यत्वादित्यभिप्रायः॥ ३४०८॥ ३४०९॥

यच्चोक्तम्, “एवं शास्त्रविचारेष्वि”त्यादि, (तत्राह)—“न चैकदेशे”त्यादि।

नचैकदेशविज्ञानात्सर्वज्ञानास्तितोच्यते।
येन वेदादिविज्ञानात्स्वर्गाद्यध्यक्षता भवेत्॥ ३४१०॥

किन्तु प्रज्ञाकृपादीनामभ्यासाद्वृद्धिदर्शनात्।
अन्योऽप्यतिशयस्तस्माद्वर्धमानात्प्रतीयते॥ ३४११॥

मनोगुणतयाऽप्येषां काष्ठापर्यन्तसम्भवः।
नैर्घृण्यवन्महाभ्यासान्निष्ठाऽशेषार्थबोधनात्॥ ३४१२॥

धर्मा(अर्था?)वबोधरूपा हि प्रज्ञा लक्षणतः स्थिता।
एकस्याप्यपरिज्ञाने साऽसमाप्तैव वर्त्तते॥ ३४१३॥

नह्यस्माभिरेकदेशपरिज्ञानमात्रादशेषपदार्थपरिज्ञानमभ्युपगम्यते, येनाभ्यधायि भवता “न(तु) शास्त्रान्तरज्ञानं तावन्मात्रेण लभ्यत” इति। किन्त्वभ्यासवशात्प्रज्ञाप्रकर्षोपलम्भादन्योऽप्यतीन्द्रियपरिज्ञानकृतो विशेषस्तस्मादभ्यासाद्वर्द्धमानात्प्रकर्षविशेषं प्राप्ताद्भतीति सम्भाव्यते। एतच्च पूर्वं प्रसाधितं पुनरपि भूयः प्रमाणयति—प्रयोगः—ये ये मनोगुणास्तेऽभ्यासातिशये सति सम्भवत्प्रकर्षपर्यन्तवृत्तयः, यथा श्रोत्रियजोदिङ्ग(?)नैर्घृण्यम्, मनोगुणश्च प्रज्ञेति स्वभावहेतुः। न नैकान्तिकता हेतोः, प्रज्ञायाः पदार्थस्वभावबोधलक्षणायाः प्रकर्षपर्यन्तगमनं नाशेषार्थपरिज्ञानमन्तरेण सम्भवति। नाप्यप्रसिद्धविशेषणतया हेतोरसिद्धता, पूर्वमभ्यासविशेषसम्भवस्य विस्तरेण प्रसाधितत्वात्। काष्ठाशब्दः प्रकर्षपर्यायः॥ ३४१०॥ ३४११॥ ३४१२॥ ॥ ३४१३॥

ये वा समानजातीयपूर्वबीजप्रवृत्तयः।
तेऽत्यन्तवृद्धिधर्माणः संस्कारोत्कर्षभेदतः॥ ३४१४॥

व्रीह्यादिवत्सम्भविनो दयामत्यादयोऽपि च।
यथाभिहितधर्माणः प्रवृद्धौ सर्वदर्शिता॥ ३४१५॥

अथवा ये तुल्यजातीयपूर्वबीजप्रसूतयस्ते संस्कारविशेषे सत्यत्यन्तवृद्धिधर्माणः सम्भविनः, यथा व्रीह्यादयः, यथोक्तधर्माणश्च दयाप्रज्ञादय इति स्वभावहेतुः। अत्रापि पूर्ववदसिद्धानैकान्तिकता न भवति। मतिः—प्रज्ञा। “यथाऽभिहितधर्माण” इति। समानजातीयपूर्वबीजप्रवृत्तय इत्यर्थः॥ ३४१४॥ ३४१५॥

ये चापचपधर्माणः प्रतिपक्षस्य सन्निधौ।
अत्यन्तापचयस्तेषां कलधौतमलादिवत्॥ ३४१६॥

सम्भाव्यन्ते तथा चामी क्लेशज्ञेयानृतादयः।
यथोपदिष्टधर्माणस्तत्प्रहाणेऽमला धियः॥ ३४१७॥

यथोक्तधर्मणामेषां सम्भाव्यो यदि वा मलः।
अत्यन्तोन्मूलने दक्षः प्रतिपक्षस्तथैव हि॥ ३४१८॥

अथवा ये प्रतिपक्षसन्निधावपचयधर्माणो दृष्टास्ते प्रतिपक्षात्यन्तवृद्धौ सत्यां सम्भवदत्यन्तापचयधर्माणः, यथा कनकमलादि, नैरात्म्यादिलक्षणसम्मुखीभावे चापचयधर्माणो रागादय इति स्वभावहेतुरिति। नासिद्धता हेतोः, नैरात्म्यज्ञानेन सह क्लेशादेर्विरोधस्य प्रसाधितत्वात्। नाप्यनैकान्तिकता, प्रतिपक्षात्यन्तवृद्धौ सत्यां विपक्षस्यावस्थानासम्भवात्। अन्यथा योऽत्यन्तमुन्मूलयितुमसमर्थः स कथमल्पमप्यपचयं कुर्यात्। नहि स्फुटतरस्फुरत्स्फुलिङ्गमालोज्वलज्वलनकलापान्तर्गतमपि वज्रमपचयमनुभवति कदाचित्। न चापि विपक्षस्यात्यन्तवृद्ध्यसम्भवादनैकान्तिकता,पूर्वं विस्तरेणात्यन्तवृद्धिसम्भवस्य प्रसाधितत्वात्। अथवा ये प्रतिपक्षसन्निधावपच यधर्माणस्ते सम्भवदत्यन्तोन्मूलनदक्षप्रतिपक्षाः, तद्यथा कनकमलादि, यथोक्तधर्माणश्च क्लेशज्ञेयावरणादय इति स्वभावहेतुः। अत्रापि पूर्ववदसिद्धानैकान्तिकते परिहार्ये। आदिशब्देन कर्मावरणादिपरिग्रहः॥ ३४१६॥ ३४१७॥ ३४१८॥

तत्त्वदृष्टिनिबन्धत्वादत्यन्तापचयः क्वचित्।
बाह्यस्येवास्य तमस आन्तरस्यापि गम्यते॥ ३४१९॥

तस्य चापचये जाते ज्ञानमव्याहतं महत्।
स्वातन्त्र्येण प्रवर्त्तेत सर्वत्र ज्ञेयमण्डले॥ ३४२०॥

अथवा ये तत्त्वदर्शननिबन्धकारिणस्ते सम्भवदत्यन्तापचयाः, यथा बाह्यं शार्वरं तमः, तत्त्वदर्शननिबन्धकारिणश्च क्लेशज्ञेयावरणादय इति स्वभावहेतुः। नचास्यानैकान्तिकतेति दर्शयन्नाह—“तस्य चे”ति। तस्यान्तरस्य तमसः॥ ३४१९॥ ३४२०॥

ये वा स्थिराश्रये वृत्ताः कथञ्चिदपि चाहिताः।
तद्भावायापुनर्यत्नव्यापेक्षा बाधकेऽसति॥ ३४२१॥

संस्कारोत्कर्षभेदेन काष्ठापर्यन्तवृत्तयः।
ते सम्भवन्ति विस्पष्टं शातकुम्भविशुद्धिवत्॥ ३४२२॥

यथाऽभिहितधर्माण इमे मतिदयादयः।
तेषां पर्यन्तवृत्तौ च सर्ववित्त्वं प्रभास्वरम्॥ ३४२३॥

लङ्घनोदकतापाभ्यां नचेह व्यभिचारिता।
नहि तल्लङ्घघनादेव लङ्घनं बलयत्नयोः॥ ३४२४॥

अथवा—ये स्थिराश्रयवर्त्तिनः सकृच्च यथाकथञ्चिदाहितविशेषाः सन्तोऽसति विरोधिप्रत्यये तद्भावायापुनर्यत्नापेक्षिणस्ते संस्कारोत्कर्षभेदेन सम्भवत्प्रकर्षपर्यन्तवृत्तयः, तद्यथा कनकविशुद्ध्यादयः, यथोक्तधर्माणश्च प्रज्ञाकृपादय इति स्वभावहेतुः। लङ्घनोदकतापाभ्यां न चेह व्यभिचारितेति। सविशेषणत्वादित्यभिप्रायः। नहिलङ्घनोदकतापौ सकृदाहितौ पुनराधानाय यत्नादिनिरपेक्षौ वर्त्तेते। नापि स्थिराश्रयौ यदि वाऽत्रापि समानजातीयबीजवृत्तित्वे सतीति विशेषणापेक्षणादव्यभिचारो लङ्घनेनेति मन्यमान आह—“नहि तल्लङ्घनादेवे”ति। तल्लङ्घनं नहि लङ्घनादेव जायते। कस्मिन् सति नाम जायते इत्याह—“लङ्घनं बलयत्नयो”रिति। बले यत्ने च सतिलङ्घनं भवति, नतु लङ्घने सति। तयोश्च बलयत्नयोः स्थितशक्तितया लङ्घनस्यापि स्थितात्मतेति भावः। स्यादेतद्यदि बलयत्नाभ्यामेव लङ्घनं भवाति न लङ्घनात्, एवं सत्यभ्यासे यादृशं लङ्घनं पुरुषस्य भवति तादृगभ्यासात्प्रागपि प्राप्नोतीति। नैष दोषः। प्राक्तनस्य श्लेष्मादिना देहस्य विगुणत्वात्पश्चाद्वन्न लङ्घनमुपजायते। पश्चात्तु शनैः प्रयत्नेन देहवैगुण्येऽपनीते सति यथाबलमेवावतिष्ठते लङ्घनम्। अवश्यं चैतदेवं विज्ञेयम्। अन्यथा यदि लङ्घनादेव लङ्घनं स्यात्तदा लङ्घनस्य व्यवस्थितोत्कर्षता न स्यात्॥ ३४२१॥ ३४२२॥ ३४२३॥ ३४२४॥

अथवा लङ्घनस्यापि हेतुविशेषापेक्षिणः स्थितोत्कर्षताया असिद्धेर्न तेन व्यभिचार इति दर्शयति—“यदि वे”त्यादि।

यदि वा लङ्घनस्यापि काष्ठापर्यन्तवृत्तिता।
समाधिबलगत्यादिविशेषात्स्यात्स्वहेतुतः॥ ३४२५॥

सिद्धिर्मनोजवासञ्ज्ञा तथाच श्रूयते प्रमा।
यथा चिन्तितमात्रेण याति दूरमपि प्रभु॥ ३४२६॥

नचाप्यदृष्टिमात्रेण तदभावः प्रसिद्ध्यति।
नचात्र बाधकं किञ्चिद्वक्तुमत्र परः क्षमः॥ ३४२७॥

तथाहि—समाधिबलविशेषप्रयोगाल्लङ्घनस्यास्माभिरिष्यत एवात्यन्तप्रकर्षवर्त्तित्वम्, यथा भगवतो मनोजवा नाम सिद्धिः पठ्यते, यस्यां स्थितस्य मनस इव जवो भवति। अत एव सा मनोजवेति प्रख्याता। नचास्या बाधकं प्रमाणमस्ति। नाप्यदर्शनमात्रेण प्रतिक्षेपो युक्तोऽतिप्रसङ्गत्॥ ३४२५॥ ३४२६॥ ३४२७॥

अपि च दृश्यत एवाश्रये विशेषोपाधिकादभ्यासविशेषाद्गतेरत्यन्तविशेषः, ततोऽपि भगवतस्तादृशी गतिः सम्भविनीति दर्शयन्नाह—“राजहंसशिशु”रित्यादि।

राजहंसशिशुः शक्तो निर्गन्तुं न गृहादपि।
याति चाभ्यासभेदेन पारमम्भःपतेरपि॥ ३४२८॥

आश्रयोपाधिकाभ्यासभेदादस्य गतिर्यथा।
तादृशी तादृशादेव किं न सम्भाव्यतेऽधिका॥ ३४२९॥

बोधिसत्त्वदशायां हि न शक्तस्तादृशीं गतिम्।
प्राप्तुं प्राप्ते समाधौ तु विशिष्टे शक्नुयान्मुनिः॥ ३४३०॥

यथा च राजहंसशावः प्राक् स्वकुलायादपि निर्गन्तुमशक्तः पश्चादल्पीयस्यप्य भ्यासे सति समुपजातपक्षो जलधेरपि पारमुत्पतति, तद्वदन्योऽप्याश्रयविशेषोपाधिकादभ्यासाद्विशिष्टामपि गतिमासादयतीति सम्भाव्यम्। पक्षविशेषलाभादेवासौ दूरतरदेशगामी भवतीति नाभ्यासबलेनेति चेत्। नहि सञ्जातपक्षोऽपि सहसैवोड्डीय गच्छन् दृश्यते शकुनिशावः, किं तर्हि ?, शाखान्तराच्छाखान्तरगमनक्रमेणाभ्यस्य कियन्मात्रं गमनं पश्चादपास्तशङ्को दूरतरमपि देशं व्रजति। किञ्च—आश्रयविशेषलाभे सति यथा हंसादेः प्रागशक्तस्यापि सतः पश्चाद्गतिर्विशेष्यते तथा भगवतोऽपि बोधिसत्त्वावस्थायामशक्तस्यापि सतः पश्चात्समाधिविशेषलाभादासादिताश्रयविशेषस्य तथाविधा गतिः सम्भाव्यत इत्येवम्परमेतत्। अभ्यासग्रहणमतन्त्रम्।प्रयोगः—यः सम्भवदाश्रयविशेषोपाधिरभ्यासः स सम्भवदत्यन्तदूरगमनफलः, यथा राजहंसशिशोरभ्यासः, सम्भवदाश्रयविशेषोपाधिर्मनुष्याणामभ्यास इति स्वभावहेतुः॥ ३४२८॥ ३४२९॥ ३४३०॥

यदुक्तं दशहस्तान्तरमित्यादि तदपास्तमिति दर्शयति—“दशे”त्यादि।

दशहस्तान्तरव्योम्नस्तद्यदुत्प्लुत्य गच्छति।
शक्तिः स्यादीदृशी हेतोस्तस्य दूरगतावपि॥ ३४३१॥

स्थिराश्रयत्वे सतीति विशेषणोपादानादुदकतापेन नानैकान्तिक इति दर्शयति—“उष्णता”मित्यादि।

उष्णतां नीयमानस्य क्षयो भवति चाम्भसः।
अस्थैर्यादाश्रयस्यातः कस्य कस्मिन्प्रकृष्टता॥ ३४३२॥

स्यादेतत्, प्रज्ञादेस्तु स्थिराश्रयत्वमेव कथं सिद्धमित्याह—“मानसाना”मित्यादि।

मानसानां गुणानां तु चित्तसन्ततिराश्रयः।
साऽधारयोगतो वृत्तान्न कथञ्चिन्निवर्त्तते॥ ३४३३॥

“से”ति। चित्तसन्ततिः। “आधारयोगतो वृत्ता”दिति। बोधिसत्त्वाश्रयलक्षणाधारसम्बन्धेन प्रवृत्तेरित्यर्थः। विशिष्टस्याधारस्य विवक्षितत्वात्। तथाहि—परलोकस्य प्रसाधितत्वाद्बोधिसत्त्वानां च सात्मीभूतमहाकृपाणामासंसारमशेषसत्त्वोद्धरणायावस्थानात्तदाश्रयवर्त्तिनी चित्तसन्ततिरतितरां स्थिराश्रया। या तु श्रावकादीनां सन्तानवर्त्तिनी सा न स्थिराश्रया तेषां शीघ्रतरं परिनिर्वाणान्मन्दत्वात् कृपायास्तेषामवस्थाने यत्नाभावादिति भावः॥ ३४३३॥

द्वितीयमपि विशेषणं कथं सिद्धमिति चेदाह—“याव”दित्यादि।

यावद्यावद्गुणौघोऽस्यामाभिमुख्येन वर्त्तते।
प्रभास्वरतरा तावत्सुतरामेव वर्त्तते॥ ३४३४॥

एतदेव कथं सिद्धमित्याह—“प्रभास्वर”मित्यादि।

प्रभास्वरमिदं चित्तं तत्त्वदर्शनसात्मकम्।
प्रकृत्यैव स्थितं यस्मान्मलास्त्वागन्तवो मताः॥ ३४३५॥

एतच्च पूर्वमेव व्याख्यातमस्माभिः। एते च प्रकृत्या तत्त्वदर्शनात्मकतया चित्तस्य स्वभावभूताः प्रज्ञादयो विशेषा इति प्रतिपादितमिति स्वभावत्वेन प्रज्ञादीनां सकृदाहितानां स्वरसत एव प्रकृतिर्भवतीति सिद्धम्॥ ३४३५॥

द्वितीयमपि विशेषणं तत्त्वदर्शनात्मकमेव विज्ञानस्य कथं सिद्धमिति चेदाह—“परबोधात्मे”त्यादि।

परबोधात्मनियतं चेतो यदि हि सम्भवेत्।
तदाऽसिद्धोपलम्भत्वादर्थवित्तिर्न सम्भवेत्॥ ३४३६॥

तस्मात्स्वसंवेदनात्मत्वं चेतसोऽस्ति प्रकाशनात्।
अनारोपितरूपा च स्वसंवित्तिरियं स्थिता॥ ३४३७॥

मुख्यं हि तावच्चित्तस्य स्वसंवेदनमेव रूपमित्यवश्यं सर्ववादिभिरभ्युपेयम्, अन्यथा यदि परेण ज्ञानान्तरेण बुध्यत इति स्यात्तदाऽप्रसिद्धोपलम्भत्वेनार्थवित्तिर्नसिद्ध्येत्। तस्मान्मुख्यं चेतस आत्मप्रकाशनमेव रूपम्। स चात्मा तस्यानित्यादिरूप इति सामर्थ्यात्तत्त्वदर्शनात्मकमेव चित्तं सिद्धमिति भावः॥ ३४३६॥ ३४३७॥

स्यादेतत्—भवतु तत्त्वदर्शनात्मकं चेतस्तथाऽपि प्रहीणानामपि बलानां पुनरुत्पत्तिसम्भवात्सर्वेषामेव यथोक्तानां हेतूनामनैकान्तिकता दुर्निवारेत्याशङ्क्याह—“मार्गे सात्म्य”मित्यादि।

मार्गे सात्म्यमतो याते तेत(तैस्त?)स्याभिभवो न हि।
रागद्वेषादिभिर्दोषैस्ते हि प्रागेव दुर्बलाः॥ ३४३८॥

सात्मीभावाच्च मार्गस्य सर्वापक्षालनाशिनः।
न यत्नेन विना हानिर्यत्नो न गुणदर्शनात्॥ ३४३९॥

अतो निर्भलनिष्कम्पगुणसन्दोहभूषणः।
दोषवाताविकम्प्यात्मा सर्वज्ञो गम्यते जिनः॥ ३४४०॥

मार्गे(र्ग?)सात्मीभावात्प्रागपि यदा रागादयो मला आगन्तुकतया दुर्बलत्वान्मार्गमभिभवितुमसमर्थास्तदा सात्मीभावगते मार्गे कथं तमभिभविष्यन्ति। किञ्च—सात्मीभावमुपगतस्य चेतोगुणस्य श्रोत्रियस्य जोदिङ्ग(?)नैर्घृण्यवन्न यत्नमन्तरेण प्रहाणं शक्यं कर्त्तुम्। नच गुणवति वस्तुनि तत्त्वदर्शिनः प्रहाणाय यत्नः सम्भवति। कस्मात् ? गुणदर्शनात्। एतच्च पूर्वमावेदितमेव। अपक्षालः—दोषः॥ ३४३८॥ ॥ ३४३९॥ ३४४०॥

अथवा—यदेव वस्तुत्वादि त्वया सर्वज्ञप्रतिषेधायोक्तं तदेव तत्साधने पर्याप्तमिति दर्शयितुं व्याप्तिं तावदुस्तुत्वादेर्हेतोः साधयन्नाह—“किञ्चे”त्यादि।

किञ्च ये ये ति(वि?)भाव्यन्ते ते ते भ्रा(भा?)न्ति परिस्फुटम्।
भावनापरिनिष्पत्तौ कामादिविषया इव॥ ३४४१॥

सर्वधर्माश्च भाव्यन्ते दीर्घकालमनेकधा।
शून्यानात्मादिरूपेण तात्त्विकेन महान्मतिः॥ ३४४२॥

शून्यानात्मादिरूपस्य भाविकत्वं च साधितम्।
भूतार्थभावनोद्भूतेः प्रमाणं तेन तन्मतम्॥ ३४४३॥

तत्रायं मौलः प्रयोगो वक्ष्यमाणः। ये वस्तुत्वज्ञेयत्वादिधर्मयोगिनस्ते सम्भवद्भावनाप्रकर्षपर्यन्तवर्त्त्येकज्ञानस्फुटप्रकाशनाः, तद्यथा—कामिनीपुत्रचोरादयः कामाद्युपप्लुतैर्भाव्यमानाः, सर्वधर्माश्च वस्तुत्वादिधर्मयोगिन इति स्वभावहेतुः। नचायमनैकान्तिकः। तथाहि—यद्यद्भूतमभूतं वा भाव्यते तत्सर्वं भावनानिष्पत्तौ स्फुटप्रतिभासज्ञानफलं सिद्धम्, यथा कामुकादेरङ्गनादयो विषयाः, सर्वे च धर्मा भाव्यन्ते दीर्घकालं सात्मीभूतकृपैस्तात्त्विकेन रूपेणेति स्वभावहेतुः। अनेन स्फुटप्रतिभासेन ज्ञानफलेन भावना व्याप्तेति दर्शितम्, अर्थान्तरानपेक्षितत्वात्स्फुटप्रतिभासस्य तात्त्विकत्वमेव शून्यादिरूपस्य कथं सिद्धमित्याह—“शून्ये”त्यादि॥ ३४४१॥ ३४४२॥ ॥ ३४४३॥

एतच्च शून्यादिज्ञानं प्रत्यक्षप्रमाणं साधयन्नाह—“प्रत्यक्ष”मित्यादि।

प्रत्यक्षं व्यक्तभासित्वात्प्रमाणं वस्तुसङ्गतेः।
चक्षुराद्याश्रयोद्भूतनीलादिप्रतिभासवत्॥ ३४४४॥

सम्भवत्येकविज्ञाने सकृत्स्पष्टावभासनम्।
सर्वेषामपि धर्माणामतश्चैवं प्रतीयताम्॥ ३४४५॥

तथा विभाव्यमानत्वादङ्गनात्मजचोरवत्।
इच्छामात्रमुखीभावा भावनापि न दुर्लभा॥ ३४४६॥

स्फुटप्रतिभासित्वेनाविकल्पतया प्रमाणप्रसिद्धार्थविषयत्वेनाविसंवादितया चक्षुरादिज्ञानवत्प्रत्यक्षप्रमाणमेतत्। ततश्च भावनामात्रभाविनि स्फुटप्रतिभासित्वे सिद्धे सिद्धमेव सर्वधर्माणामेकज्ञाने युगपत्स्फुटप्रतिभासनमिति सिद्धा व्याप्तिः सम्भवत्येकविज्ञाने सर्वधर्माणां सकृत्स्पष्टावभासनमिति। प्रयोगः—ये ये विभाव्यन्ते ते सम्भवत्सकृदेकविज्ञानस्फुटप्रतिभासना यथाऽङ्गनादयः। सर्वधर्माश्च विभाव्यन्ते इति स्वभावहेतुः। नचायमसिद्धो हेतुर्मन्तव्य इत्यादर्शयन्नाह—“इच्छे”त्यादि। पूर्वं च विस्तरेण भावनासम्भवस्य प्रतिपादितत्वादिति नासिद्धो हेतुः॥ ३४४४॥ ३४४५॥ ॥ ३४४६॥

एवं स्फुटप्रतिभासित्वस्य भावनामात्रानुबन्धित्वप्रतिपादनेन व्याप्तिं प्रसाध्य साम्प्रतं मौलं प्रमाणार्थं दर्शयन्नाह—“भावने”त्यादि।

भावनोत्कर्षनिष्ठैकबुद्धिस्पष्टप्रकाशनाः।
वस्तुसत्त्वादिहेतुभ्यः सर्वधर्माः प्रियादिवत्॥ ३४४७॥

एवं च यस्य वस्तुत्वसत्त्वोत्पादादिलक्षणाः।
निश्चये हेतवः शक्ताः को न तं साधयिष्यति॥ ३४४८॥

एकज्ञानक्षणव्याप्तनिःशेषज्ञेयमण्डलः।
सुरासुरशिरोरत्नभूतः सिद्धोऽत्र सर्ववित्॥ ३४४९॥

भावनोत्कर्षस्य निष्ठा यस्यामेकबुद्धौ सा तथोक्ता। गमकत्वाद्वैयधिकरण्येऽपि बहुव्रीहिः। भावनोत्कर्षनिष्ठायामेकबुद्धौ स्पष्टं प्रतिभासनं येषां ते तथोक्ताः। यस्य चज्ञाने ते तथा भासन्ते स सकृदेकज्ञानव्याप्ताशेषज्ञेयमण्डलः सकलसुरासुरचूडामणिभूतः सिद्धः सर्वज्ञ इति॥ ३४४७॥ ३४४८॥ ३४४९॥

ज्ञाता धर्मादयो वै ते केनचिद्वचनादृते।
सत्यात्मनोपदिष्टत्वात्कनकादिविशुद्धिवत्॥ ३४५०॥

अथवा ये सत्यात्मनोपदिष्टास्ते केनचिद्विदिताः, यथा कनकविशुद्ध्यादयः, सत्यात्मना चोपदिष्टा धर्मादय इति स्वभावहेतुः॥ ३४५०॥

स्यादेतत्—वेदतोऽपि ज्ञात्वोपदेशसम्भवात्सिद्धसाध्यतेति चेदाह—“वेदाना”मित्यादि।

वेदानां पौरुषेयत्वे सिद्धे सिद्धं न साधनम्।
अज्ञातस्योपदेशोऽस्ति तथ्यो यादृच्छिको नरः(हि?)३४५१॥

पूर्वं श्रुतिपरीक्षायां वेदानां पौरुषेयत्वस्य प्रसाधितत्वान्न सिद्धसाध्यता। अथापि स्यादज्ञात्वा यदृच्छयाऽप्युपदेशसम्भवादनैकान्तिकतेत्याह—“अज्ञातस्ये”त्यादि। नह्यज्ञात्वा यदृच्छया प्रमाणाविरुद्धं नियमेन बहु शक्यं भाषितुम्॥ ३४५१॥

मुद्रामण्डलमन्त्रादेर्यत्मामर्थ्यमतीन्द्रियम्।
पिशाचडाकिनीमोक्षविषापनयनादिषु॥ ३४५२॥

श्रुतानुमानभिन्नेन साक्षाज्ज्ञानेन निर्मलम्।
मुनितार्क्ष्यादिविज्ञानं न चेत्तद्गदितं कथम्॥ ३४५३॥

किञ्च—यदेतन्मन्त्रादीनां विषापनयनादिसामर्थ्यमत्यन्तपरोक्षं तद्यदि बुद्धादिभिः साक्षान्न विदितं तत्कथं तैर्भाषितमिति वक्तव्यम्॥ ३४५२॥ ३४५३॥

अनुमानतो ज्ञात्वा भाषितमिति चेदाह—“न चानुमानत” इत्यादि।

न चानुमानतो ज्ञानं तस्य पूर्वमदृष्टितः।
तेन लिङ्गस्य सम्बन्धदर्शनानुपपत्तितः॥ ३४५४॥

नह्यविदितलक्षणसम्बन्धं वस्त्वनुमानविषयः, नच तेनात्यन्तपरोक्षेण वस्तुना सह कस्यचिल्लिङ्गस्य सम्बन्धः शक्यते निश्चेतुम्॥ ३४५४॥

श्रुत्वा नचान्यतः प्रोक्तं तुल्यपर्यनुयोगतः।
न यदृच्छाविसंवादिरूपमीदृक् च भावितम्॥ ३४५५॥

देशनैवम्परैवेयं नान्यहेतूपकल्पना।
हेत्वन्तरकृतायां हि वृत्तौ तन्नाम शङ्क्यते॥ ३४५६॥

पिपासाकुलचित्तस्य वाहिनीमुपसर्पतः।
तथा विद्रुमसम्प्राप्तेर्युक्ता यादृच्छिकी स्थितिः॥ ३४५७॥

परतः श्रुत्वा प्रोक्तमिति चेन्न, तस्यापि तुल्यपर्यनुयोगात। तथाहि—तथाऽप्ययं विचारोऽवतरति तेनापि परेण कथं ज्ञातम्, नह्यज्ञात्वा तथोपदेशः सम्भवेत्, तेनाप्यन्यतो ज्ञातमिति चेत्, एवं तर्ह्यनवस्था स्यात्, ततश्चान्धपरम्परायां सत्यां सर्वेषामनभिज्ञत्वान्न सम्यगुपदेशः स्यात्। यथोक्तम्—नैवञ्जातीयकेष्वर्थेषु पुरुषवचनं प्रामाण्यमुपैति, अन्धानामिव वचनं रूपविशेषेष्विति। स्यादेतदविसंवादित्वं घुणा क्षरवद्यादृच्छिकमपि सम्भाव्यत इत्याशङ्क्य ह—“न यदृच्छे”त्यादि। यदृच्छयाअविसंवादस्तदेव रूपं यस्येति विग्रहः। अन्यार्थसमीहया प्रवृत्तस्यार्थान्तरसंवादो यादृच्छिकः सम्भाव्यते। यथा नदीदेशोपसर्पणाभिप्रायेण प्रवृत्तस्य वृक्षमूलोपसर्पणम्। नचात्रान्यार्थाभिप्रायेण प्रवृत्तिः सम्भवति, तथाहि—धर्मं वो भिक्षवो देशयिष्यामीत्येवं प्रतिज्ञाय प्रवृत्तेर्धर्माद्युपदेशपरैवेयं देशना, नान्यार्थपरेत्यवसीयते। वाहिनी—नदी। विद्रुमो—वृक्षः। प्रवालं वा॥ ३४५५॥ ३४५६॥ ३४५७॥

मोहादप्युपदेशसम्भवादनैकान्तिकतेति चेदाह—“विक्षिप्तचेतसा”मित्यादि।

विक्षिप्तचेतसामेतन्मूढानां नच भाषितम्।
नियतानुक्तमं हीदं प्रकृष्टं फलसाधकम्॥ ३४५८॥

नहि नियतानुपूर्वीकं पूर्वापराव्याहतं पुरुषार्थसाधकं वाक्यं विक्षिप्तचेतोभिरनल्पं भाषितुं शक्यम्। तस्मात्सिद्धं केनचित्साक्षाद्धर्मादयो विज्ञाता इति॥ ३४५८॥

स्यादेतत्—यदि नाम सामान्येन सिद्धम्, तथाऽपि सुगते धर्मज्ञत्वं साधयितुमिष्टम्, तत्ते कथं सिद्ध्यतीत्याशङ्क्य भगवति धर्मज्ञत्वं साधयन्नाह—“योऽश्रुतानुमित”मित्यादि।

योऽश्रुतानुमितं सत्यं तत्परोऽर्थं प्रकाशते।
प्रत्यक्षज्ञाततद्रूपः स तादृक्प्रतिपादकः॥ ३४५९॥

प्रत्यक्षदृष्टनीरादिर्यथाऽन्यः प्रतिपादकः।
अश्रुतानुमितं सत्यं तत्परखार्थमुक्तवान्॥ ३४६०॥

अतीन्द्रियं पराज्ञातसामर्थ्यं परिनिश्चयात्।
मुद्रामण्डलकल्पादि लक्षणं मुनिसत्तमः॥ ३४६१॥

प्रयोगः—यस्तत्परोऽश्रुतानुमितसत्यार्थोपदेशी (स) साक्षाद्विविदिततदर्थतत्त्वः, यथा प्रत्यक्षज्ञातसलिलादिस्तदुपदेष्टा, तथा च भगवानिति स्वभावहेतुः। सत्यत्वादेः प्रसाधितत्वान्नासिद्धता हेतोः। नाप्यनैकान्तिकतेति प्रतिपादितमेतत्। सर्वेषां चहेतूनां सपक्षे सत्त्वान्न विरुद्धतेति मन्तव्यम्। “पराज्ञातसामर्थ्य”मिति। परैरज्ञातंसामर्थ्यं यस्य मुद्रादेस्तत्तथोक्तम्॥ ३४५९॥ ३४६०॥ ३४६१॥

यदुक्तम्, “तस्मादतिशयज्ञानै”रित्यादि, तत्राह—“तस्मा”दित्यादि।

तस्मादतिशयज्ञानैरुपायबलवर्त्तिभिः।
सर्व एवाधिको ज्ञातुं शक्यते योऽप्यतीन्द्रियः॥ ३४६२॥

“एकापवरकस्थस्येत्या”दावाह—“एके”त्यादि।

एकापवरकस्थस्य प्रत्यक्षं यत्प्रवर्त्तते।
शक्तिस्तत्रैव तस्य स्यान्नैवापवरकान्तरे॥ ३४६३॥

इत्येतत्सर्वसत्त्वस्थसामर्थ्यानुभवे सति।
निश्चेतुं भवतो युक्तमन्यथा किन्निबन्धनम्॥ ३४६४॥

एतत्प्रतिज्ञामात्रप्रमाणकमेवोक्तं भगव(भव?)ता, नह्यर्वाग्दर्शिनामनुपलम्भमात्रेणसर्वपुंसामतीन्द्रियार्थज्ञानाशक्तिर्निश्चेतुं पार्यते॥ ३४६३॥ ३४६४॥

स्यादेतत्—नानुपलम्भमात्रेणास्माभिरशक्तिनिश्चयः क्रियते। किं तर्हि ?। पुरुषत्वादिभ्यो हेतुभ्यः। तथाहि—सर्व एव प्ररुषा दूरव्यवस्थितादिपरार्थपरिज्ञानासमर्थाः पुरुषत्ववस्तुत्वज्ञेयत्वादिभ्यो यथाऽहमिति, अत्राह—“आत्मोदाहरणेने”त्यादि।

आत्मोदाहरणेनान्यसामर्थ्याभावनिश्चये।
पुरुषत्वादिहेतुभ्यः कार्ये चातिप्रसज्यते॥ ३४६५॥

एवं हि भवतो जाड्ये निश्चिते सर्वसूरयः।
त्वदुदाहरणेनैव भवेयुर्जडबुद्धयः॥ ३४६६॥

निश्चय इत्येतस्य कार्य इत्येतेन सामानाधिकरण्यम्। अत्रानैकान्तिकता हेतूनामतिप्रसङ्गात्। तथाहि—इदमपि शक्यं वक्तुम्—सर्व एव पुरुषा जडबुद्धयः पुरुषत्वादिभ्यो यथा भवानिति। न चैवं भवति। नह्येकत्र पुरुषेऽदृष्टस्य धर्मस्य सर्वत्राभावः शक्योऽवसातुम्, पुरुषाणां विशेषदर्शनात्॥ ३४६५॥ ३४६६॥

यच्च ऋतुपर्णेनोक्तम्—सर्वः सर्वं न जानातीत्यादि, तदपि प्रतिज्ञामात्रमेवाप्रमाणकं तेनोक्तमित्यादर्शयन्नाह—“नैकत्रे”त्यादि।

नैकत्र परिनिष्ठाऽस्ति ज्ञानस्य पुरुषे क्वचित्।
इतीदमपि वाङ्मात्रमहेतुकमुदाहृतम्॥ ३४६७॥

अथवाऽत्मसमान्पुरुषानभिसन्धाय ऋतुपर्णेन भाषितम्, तेनाविरोधादज्ञापकमेतदित्यादर्शयन्नाह—“स्वसमानि”त्यादि।

स्वसमानथवा सत्त्वानविशुद्धधियो जडान्।
अधिकृत्य तथा वाक्यमृतुपर्णेन कीर्त्तितम्॥ ३४६८॥

प्रमाणं विस्तरेणोक्तं सर्वज्ञस्य च सम्भवे।
बाधकं च प्रतिक्षिप्तं तस्य पूर्वं परोदितम्॥ ३४६९॥

अनुक्तेऽप्यथवा तस्मिंस्तस्य सम्भवसाधने।
बाधकापोहमात्रेण गम्यते तस्य सम्भवः॥ ३४७०॥

तथाहि बाधके(ऽ)दृष्टे साधके चाप्रकाशिते।
संशयो जायते तेन याति सम्भावनामसौ॥ ३४७१॥

तस्मिन्सम्भाव्यमाने च नियमस्तेन सिद्ध्यति।
वेदेनैव स्वतन्त्रेण धर्मो लक्ष्यत इत्ययम्॥ ३४७२॥

स्वेनात्मना समास्तुल्याः स्वसमाः॥ ३४६८॥ ३४६९॥ ३४७०॥ ३४७१॥ ॥ ३४७२॥

अनागते न दृष्टमित्यादावाह—“अनागते चे”त्यादि।

अनागते च विज्ञेये प्रत्यक्षस्य तथा भवेत्।
सामर्थ्यं योगिनामुक्तं तत्रैकाल्यपरीक्षणे॥ ३४७३॥

“तत्रैकाल्यपरीक्षण” इति। तत्र ह्येवमुक्तम्—सर्व एव हि भावाः साक्षात्पारम्पर्येण वा कार्यकारणतां गताः, तत्र वर्त्तमानमेव वस्त्वतीतस्य साक्षात्पारम्पर्येण वा कार्यभूतम्, अनागतस्य तु कारणभूतम्। प्रत्यक्षेण यथावत्सर्वाकारमनुभवन्तस्तत्पृष्ठलब्धैः शुद्धलौकिकैः परमार्थतो निर्विषयैर्वस्तुप्रतिबन्धादविसंवादिभिर्विकल्पैर्हेतुफलभूतामतीतामनागतां च भावसन्ततिमालम्ब्यातीतानागतं वस्तु व्यवस्थापयन्ति योगिन इति। यदाह— पारम्पर्येण साक्षाद्वा कार्यकारणतां गतम्। यद्रूपं वर्त्तमानस्य तद्विजानन्ति योगिनः॥ अनुगच्छन्ति पश्चाच्च विकल्पानुगतात्मभिः। शुद्धलौकिकविज्ञानैस्तत्त्वतो विषयैरपि॥ तद्धेतुफलयोर्भूतां भाविनीं चैव सन्ततिम्। समाश्रित्य प्रवर्त्तन्तेऽतीतानागतदेशनाः॥ इति॥ ३४७३॥

एतच्च सौत्रान्तिकानां नेष्टं सर्वत्र भगवतः साक्षाद्दर्शित्वाभ्युपगमादित्यतः सौत्रान्तिकदृष्टाभीष्टमतमादर्शयन्नाह—“यदि वे”त्यादि।

यदि वा योगसामर्थ्याद्भूताजातनिभं स्फुटम्।
लिङ्गागमनिराशंसं मानसं योगिनां भवेत्॥ ३४७४॥

यथाहि सत्यस्वप्नदर्शिनो ज्ञानमविषयमपि परमार्थतो लिङ्गागमानपेक्षं चाश्रय विशेषवशादुत्पद्यमानमविसंवादि भवति, तथा योगिनां योगबलेन यथैव तदभूद्भविष्यति वातीतमनागतं वस्तु तथैव स्फुटप्रतिभासं लिङ्गागमानपेक्षं जायते। तच्च प्रत्यक्षं प्रमाणमिष्यते॥ ३४७४॥

स्यादेतत्—स्वलक्षणविषयं प्रत्यक्षमिष्यते, नचातीतमनागतं स्वलक्षणतोऽस्ति, तत्कथं स्वलक्षणविषयं युज्यत इत्याह—“स्वात्मे”त्यादि।

स्वात्मावभाससंवित्तेस्तत्स्वलक्षणगोचरम्।
स्पष्टावभाससंवेदात्तच्च प्रत्यक्षमिष्यते॥ ३४७५॥

तस्मादतीन्द्रियार्थानां साक्षाद्द्रष्टैव विद्यते।
नित्यस्य वचसोऽसत्त्वात्तेन कश्चिन्न पश्यति॥ ३४७६॥

यद्यप्यतीतादि वस्तु स्वलक्षणतो नास्ति, तथाप्यात्मसंवेदनात्स्वलक्षणविषयत्वेनशास्त्रे निर्दिष्टमित्यविरोधः। तच्च स्फुटप्रतिभासतया प्रकल्पनापोढं तथाविधवस्त्वविसंवादाच्चाभ्रान्तमित्यतः प्रत्यक्षलक्षणोपेतत्वात्प्रत्यक्षमिति सिद्धम्॥ ३४७५॥ ३४७६॥

एतदक्षममाणो य इत्यादावाह—“अतीन्द्रियार्थविज्ञान”मित्यादि।

अतीन्द्रियार्थविज्ञानं पूर्वोक्तादनुमानतः।
मुनेः सुमतयः प्राहुर्नान्यतस्त्वागमात्कृतात्॥ ३४७७॥

पूर्वोक्तादनुमानात्सिद्धमागमनिरपेक्षं भावनाबलनिष्पन्नमर्थसाक्षात्कारि यदतीन्द्रियार्थविज्ञानं तन्मुनेर्भगवतः सुधियः सौगताः प्राहुर्नान्यस्मात्कृतकादागमादित्यतः तदनभ्युपगमाददूषणमेव॥ ३४७७॥

यच्चोक्तम्—कर्तृकृत्रिमवाक्यानामित्यादि, तत्राह—कर्तृकृत्रिमेत्यादि।

कर्तृकृत्रिमवाक्यानामुच्यते न त्वनादिता।
प्रामाण्यसिद्धये यस्मात्साऽप्रमाणेऽपि वर्त्तते॥ ३४७८॥

तथाहि नास्तिकादीनां तथा तद्वचसामपि।
वेदानां च प्रवक्तॄणां नानादित्वेऽपि मानता॥ ३४७९॥

नह्यनादिताऽस्माभिः प्रामाण्यसिद्धये साधनत्वेनोच्यते। तथा(स्या?)विपक्षेऽपि वृत्तेरनैकान्तिकत्वात्। अतोऽध्यारोप्य दूषणं भवताऽभिहितम्॥ ३४७८॥ ३४७९॥

किञ्च—भवतामेव वेदप्रामाण्यसिद्धये वेदप्रवक्तॄणां वेदानां चानादित्वं साधनं ब्रुवतां सर्वमेतद्दूषणं स्फुटतरमवतरतीति दर्शयन्नाह—“वक्तकृत्रिमवाक्याना”मित्यादि।

वक्तकृत्रिमवाक्यानामुच्यते नन्वनादिता।
प्रामाण्यसिद्ध्यै साऽस्माभिः स्पर्द्धयैव निषिध्यते॥ ३४८०॥

वक्तारश्चाकृत्रिमवाक्यानि चेति द्वन्द्वः। तत्र वक्तारो वेदानां व्याख्यातारः ३४८०

कथं निषिद्ध्यन्त इत्याह—“वक्तार” इत्यादि।

वक्तारः कर्तृभिस्तुल्यास्तदपेक्षा च मानता।
वेदानां तत्कृताख्यानादर्थप्रत्ययजन्मतः॥ ३४८१॥

“तदपेक्षे”ति। वक्रपेक्षा। कथमित्याह—“तत्कृताख्याना”दिति। तैर्वक्तृभिः कृताद्व्याख्यानादर्थप्रतीत्युत्पत्तेः कारणात्तदपेक्षा मानता वेदानाम्॥ ३४८१॥

ततश्च को दोष इत्याह—“अत” इत्यादि।

अतो न वेदवाक्यानां पारतन्त्र्यात्प्रमाणता।
अपश्यतां स्वयं धर्मं वक्तॄणामपि नैव सा॥ ३४८२॥

तदीदृशां प्रवक्तॄणां कल्प्यमानाप्यनादिता।
अप्रामाण्यपदस्थत्वान्नास्तिकादेर्न भिद्यते॥ ३४८३॥

तदज्ञानविशेषत्वात्सर्वं यात्यत्र तुल्यताम्।
न मानत्वाप्रमाणत्वे स्यातामेवमनादिनी॥ ३४८४॥

“नैवे”ति। प्रमाणतेति सम्बन्धः। यदा चैवं वेदवाक्यानां पारतन्त्र्यात्प्रमाणता नास्ति तत्प्रवक्तॄणां च सर्वेषामन्धपरम्परावद्धर्ममपश्यतामप्रामाण्यम्, अतो यत्परेणोक्तम्— प्रमाणत्वाप्रमाणत्वे स्यातामेवमनादिनी इति, तदयुक्तमित्यादर्शयन्नाह —“न मानत्वाप्रमाणत्वे स्यातामेवमनादिनी” इति। सिद्धे हि वक्तकृत्रिमवाक्यानां प्रामाण्ये प्रमाणत्वस्यानादित्वं स्यात्, यावता तदेव न सिद्धमित्ययुक्तं द्वयोरनादित्वमिति भावः॥ ३४८२॥ ३४८३॥ ३४८४॥

किञ्च—यदेतदस्माभिर्वेदतदध्यायिनां बुद्धतद्वाक्यैः सह तुल्यत्वमापादितं तत्स्पर्धयैव, न पुनर्भगवतां तद्वाक्यानां चैतैस्तुल्यत्वमस्ति, अपि तु विशेषो महानितिदर्शयन्नाह—“यद्वे”त्यादि।

यद्वाऽस्त्येव विशेषोऽयं मुनौ तद्वचनेषु च।
स दृष्टवानस्वयं धर्ममुक्तवांश्च कृपामयः॥ ३४८५॥

तथाहि प्रसाधितमेतत्। यथा भगवान्साक्षाद्धर्मं दृष्टवान्निर्दिष्टवांश्चेति। अतोऽपश्यतां स्वयं धर्ममित्येतदसिद्धमिति भावः॥ ३४८५॥

स्यादेतत्—धर्ममुक्तवान्स इत्येतदेव कथं सिद्धमित्याह—“यतोऽभ्युदये”त्यादि।

यतोऽभ्युदयनिष्पत्तिर्यतो निःश्रेयसस्य च।
स धर्म उच्यते तादृक्सर्वैरेव विचक्षणैः॥ ३४८६॥

“निःश्रेयसस्य चे”ति। यतो निष्पत्तिरिति सम्बन्धः। तत्राभ्युदयः सुखं मोक्षो निःश्रेयसम्। “स धर्म उच्यते तादृगि”ति। “यतोऽभ्युदयनिःश्रेयससंसिद्धिः स धर्म” इति वचनात्॥ ३४८६॥

भवतु नामाभ्युदयनिःश्रेयससिद्धिहेतुर्धर्मः, अस्य तु सुगतवचनस्य कथं तद्धेतुत्वं सिद्धम्, येनास्य धर्मज्ञत्वं भवेदित्याह—“तदुक्ते”त्यादि।

तदुक्तमन्त्रयोगादिनियमाद्विधिवत्कृतात्।
प्रज्ञारोग्यविभुत्वादिदृष्टधर्मोऽपि जायते॥ ३४८७॥

तेन भगवतोक्तश्चासौ मन्त्रयोगादिनियमश्चेति विग्रहः। योगः समाधिः। आदिशब्देन मुद्रामण्डलादिपरिग्रहः। “दृष्टधर्मोऽपी”ति। अस्मिन्नेव जन्मनि, न केवलं परलोक इत्यपिशब्देन दर्शयति॥ ३४८७॥

एवमभ्युदयहेतुत्वमुपदर्श्य निःश्रेयसहेतुत्वं दर्शयन्नाह—“समस्ते”त्यादि।

समस्तधर्मनैरात्म्यदर्शनात्तत्प्रकाशितात्।
सत्कार्यदर्शनोद्भूतक्लेशौघस्य निवर्त्तनम्॥ ३४८८॥

आत्मात्मीयदृगाकारसत्त्वदृष्टिः प्रवर्त्तते।
अहं ममेति माने च क्लेशोऽशेषः प्रवर्त्तते॥ ३४८९॥

सत्त्वदृक्प्रत्यनीकं च तन्नैरात्म्यनिदर्शनम्।
अभ्यासात्सात्म्यमायाते तस्मिन् सा विनिवर्त्तते॥ ३४९०॥

तन्मूलक्लेशराशिश्च हेत्वभावात्प्रती(ही?)यते।
तस्मिन्नसति तद्धेतुर्न पुनर्जायते भवः॥ ३४९१॥

तदत्यन्तविनिर्मुक्तेरपवर्गश्च कीर्त्त्यते।
अद्वितीयशिवद्वारमतो नैरात्म्यदर्शनम्॥ ३४९२॥

सर्वेषामपि तीर्थ्यानामहङ्कारनिवर्त्तनात्।
मुक्तिरिष्टाऽऽत्मसत्त्वे च नाहङ्कारो निवर्त्तते॥ ३४९३॥

शक्तकारणसद्भावाद्विषयस्याप्यदूषणात्।
तद्दूषणे त्वभावेन विपर्यासः प्रसज्यते॥ ३४९४॥

जन्मप्रबन्धात्यन्तोपशमो हि सर्वेषामेव मोक्ष इतीष्टम्, तस्य च प्राप्तिहेतुर्भगवद्वचनमेव, जन्महेतुक्लेशप्रतिपक्षभूतस्य नैरात्म्यदर्शनस्यात्रैवोपदेशात्, नान्यत्र। सर्वेषामेव चान्यतीर्थ्यानां वितथात्मदर्शनाभिनिविष्टत्वात्। अतो भगवद्वचनमेवाभ्युदयनिःश्रेयसप्राप्त्युपायभूतत्वाद्धर्मलक्षणं युक्तं नान्यत्। तेनैतदेव श्रेयोर्थिभिराश्रेयं नान्यदिति समुदायार्थः। अवयवार्थस्तूच्यते—सत्कार्यदर्शनोद्भूतत्वं क्लेशौघस्य कथं सिद्धमिति चेदाह—“आत्मात्मीये”त्यादि। एतच्चास्माभिः पूर्वमेव व्याख्यातम्। यदि नाम क्लेशौघः सत्कार्यदर्शनोद्भूतस्तथापि कथमसौ नैरात्म्यदर्शनान्निवर्त्तत इत्याह“सत्त्वदृगि”त्यादि। सत्त्वदृक्—सत्त्वदर्शनम्। सत्कार्यदृष्टिरिति यावत्। तस्याःप्रत्यनीकम्—प्रतिपक्षः। एतदपि पूर्वं दर्शितमेव। “तस्मि”न्निति। नैरात्म्यनिदर्शने।“से”ति। सत्त्वदृक्। “तन्मूल” इति। सत्त्वदृग्मूलः। “हेत्वभावा”दिति। सत्त्वदर्शनाख्यस्य हेतोरभावात्। “तस्मि”न्निति। क्लेशराशौ। “तद्धेतुरि”ति। क्लेशराशिहेतुः। “न जायत” इति। नहि कारणभावे कार्यस्योत्पादो युक्तो निर्हेतुकत्वप्रसङ्गात्। “तदत्यन्तविनिर्मुक्ति”रिति। तेषां क्लेशानां तस्य वा पुनर्भवस्यात्यन्तं पुनरुत्पत्तितो विमुक्तिस्तदत्यन्तविनिर्मुक्तिः। यथाहुः—“तदत्यन्तविमोक्षोऽपवर्ग” इति। ननु चान्यमतेष्वपि तत्त्वदर्शनं निःश्रेयसहेतुरभ्युदयहेतवश्च दश कुशलाः कर्मपथाः प्रोक्ताः, तत्कथं नैरात्म्यदर्शनमेवाद्वितीयं मोक्षद्वारमित्युच्यत इत्याह—“सर्वेषा”मित्यादि। तथाह्यहङ्कारोद्भवत्वात्स्कन्धानां तन्निवृत्तौ मुक्तिरिति सर्वेषामेव मुमुक्षूणामत्राविवादः।सा चाहङ्कारनिवृत्तिरन्यतीर्थ्यानां न सम्भवति, वितथात्मदर्शनाभिनिविष्टत्वात्तेषाम्,अहङ्कारस्य चात्मदर्शनमूलत्वात्। तत्कथमयमात्मसत्त्वे—आत्मसत्त्वाभिनिवेशेस्थिते सत्यविकलकारणे, स्वविषये चात्मन्यविदूषिते, निवर्त्तेत। यथोक्तम्—“साहङ्कारे मनसि न शमं याति जन्मप्रबन्धो नाहङ्कारश्चलति हृदयादात्मदृष्टौ तु सत्याम्। अन्यः शास्ता जगति भवतो नास्ति नैरात्म्यवादी नान्यस्तस्मादुपशमविधेस्त्वन्मतादस्ति मार्गः” इति। तथाहि—मनोधर्मा न कण्टकादिवदुत्कील्यापनेतव्याः। किं तर्हि ?। यथाभूतविषयाभिनिवेशेन ते प्रवृत्तास्तद्धेतुदूषणात्। विदूषयत्येवात्मानं योगीति चेदाह—“तद्दूषणे”त्यादि। तथाहि स विदूष्यमाणो नास्तीत्येवमभावाकारेण दूष्यः, अन्यथा तद्दूषणवैयर्थ्यं स्यात्। तथाहि—यदि सत्त्वेनात्मानमभिनिवेश्य दुःखहेतुत्वेन तं दूषयेत्। तदाऽनर्थकमेव दूषणं स्यात्। त्यागार्थं हि तद्दूषणम्। नच स्वतो नित्यस्य स्वभावभूतस्य त्यागः सम्भवतीत्यतोऽनर्थकमेव तदापद्यते। नचाभा वाकारेण दूष्यस्तैरात्मा, आत्मनि सत्यासत्यत्वाभिनिवेशेन तेषां विपर्यासप्रसङ्गात्॥ ३४८८॥ ३४८९॥ ३४९०॥ ३४९१॥ ३४९२॥ ३४९३॥ ३४९४॥

किञ्च भवतु नाम दुःखहेतुत्वादिनाऽन्येनाकारेण तस्य दूषणम्, तथाऽप्यात्मदर्शनमात्रप्रभवस्याहङ्कारस्य निवृत्तिर्न युक्तेति दर्शयन्नाह—“न युक्त”मित्यादि।

न युक्तं नाहमित्येवं यद्यहं नाम विद्यते।
नियमात्तत्त्वविद्याति निर्वाणमिति वा मृषा॥ ३४९५॥

“नाहमित्येव”मिति। नाहमित्येवं दर्शनं न युक्तमित्यर्थः। “यद्यहं नाम विद्यत” इति। यद्यात्माऽस्तीत्यर्थः। तस्मात्तत्त्वविद्भवदीयो निर्वाणं यातीत्येतन्मृषा। यतोऽहङ्कारविगमान्मुक्तिरिष्टा, न चात्मनि विषयभूते स्थितेऽहङ्कारनिवृत्तिर्युक्तेति कुतो युक्तिः॥ ३४९५॥

“तस्मा”दित्यादिनोपसंहरति।

तस्मादन्येषु तीर्थेषु दशाकुशलहानितः।
लेशतोऽभ्युदयप्राप्तिर्यद्यप्यस्ति लघीयसी॥ ३४९६॥

अपवर्गस्य तु प्राप्तिर्न मनागपि विद्यते।
सत्त्वदृष्टिविशिष्टत्वात्क्लेशमूलानपोद्धृतेः॥ ३४९७॥

“दशाकुशलहानित” इति। प्राणातिपातादत्तादानकाममिथ्याचारमृषावादपैशुन्यपारुष्यासम्भिन्नप्रलापाभिव्यापादमिथ्यादृष्टयो दशाकुशलाः। यद्वा—परेषामपरित्राणमदानमपरिचरणमसत्यमप्रियवचनमहितमस्वाध्यायः अश्रद्धा अदया स्पृहा चेति दशाकुशलानि पठ्यन्ते। तद्विपर्ययात् कुशलानि दश। तेषामकुशलानां हानिस्ततोविरतिर्दशकुशलानुष्ठानमिति यावत्। “लघीयसी”ति। विपर्यासपूर्वकत्वात्तस्याः क्षिप्रतरं भ्रंशात्। क्लेशमूलं सत्त्वदृष्टिरेव॥ ३४९६॥ ३४९७॥

अभ्युदयहेतुत्वेनापि भगवद्वचनविशेषं दर्शयति—“दशे”त्यादि।

दश कर्मयथा( पथाः? )प्रोक्ताः शुभा ये तायिना पुनः।
सभ्यग्दृष्ट्युपगूढास्ते बलवन्तो भवन्त्यलम्॥ ३४९८॥

“बलवन्त” इति। स्थिरोदारफलत्वात्॥ ३४९८॥

इतरेऽपि कस्माद्बलवन्तो न भवन्तीत्याह—“सत्त्वे”त्यादि।

सत्त्वदृष्ट्युपगूढास्तु विपर्यासानुषङ्गतः।
अविशुद्धास्ततः शुद्धं फलं तेभ्यो न जायते॥ ३४९९॥

तदेवं धर्मतत्त्वस्य देशके मुनिसत्तमे।
अपश्यतः स्वयं धर्ममिति कः स्वस्थधीर्वदेत्॥ ३५००॥

परिशुद्धादेव हि कारणात्परिशुद्धं फलं जायते नाविशुद्धात्। “मुनिसत्तम” इति। मुनीनां बाह्यशैक्ष्याशैक्ष्याणां(?) मध्ये सत्तमः शोभनः मुनिसत्तमः॥ ३४९९॥ ३५००॥

यच्चोक्तम्—“सर्वज्ञत्वं च बुद्धादेर्या च वेदस्य नित्यता। तुल्ये जल्पन्ति” इत्यादि, तत्राह—“तायिन” इत्यादि।

तायिनः सर्वविज्ञत्वं या च वेदस्य नित्यता।
तुल्ये जल्पन्ति नो विज्ञा नित्यताया असम्भवात्॥ ३५०१॥

तस्या हि बाधकं प्रोक्तं क्रमाक्रमविरोधतः।
विज्ञानादि न तत्कार्यं कथञ्चिदपि युज्यते॥ ३५०२॥

“तायिन” इति। भगवतो बुद्धस्य। यदि हि वेदस्या(स्य?) नित्यता सम्भवेत्तदैवं स्याद्वक्तुम्—“या च वेदस्य नित्यते”ति, यावता सैव न सिद्ध्येत्। पूर्वं बाधकप्रमाणोपदर्शनात्। प्रतिपादितं तदेव च बाधकं प्रमाणं स्मारयति—“क्रमाक्रमविरोधत” इति। एतच्च पूर्वं व्याख्यातमेव॥ ३५०१॥ ३५०२॥

यच्चोक्तम्—“सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः” इति, तत्राह—“दृश्यत” इत्यादि।

दृश्यते न च सर्वज्ञ इदानीमिति किं ( यत् ? )त्वया।
अथ सर्वैरिति प्रोक्तं विस्तरेणेह दूषणम्॥ ३५०३॥

भावत्कोऽनुपलम्भो हि केवलो व्यभिचारवान्।
सर्वान्यदृग्निवृत्तिस्तु सन्दिग्धेति न साधनम्॥ ३५०४॥

इदं चापरमुक्तं कुमारिलेन— निराकरणवच्छक्या न चासीदिति कल्पना इति, तत्राह—“निराकरणे”त्यादि।

निराकरणवच्छक्या न चासीदिति कल्पना।
इत्ययुक्तमतीतेऽपि तन्निराकृत्ययोगतः॥ ३५०५॥

यथा किल निराकरणमतीते काले सर्वज्ञस्य शक्यते कर्त्तुं तथासीत्सर्वज्ञ इति न कल्पना शक्यते कर्तुमिति, तदेतदयुक्तम्, अतीतेऽपि काले तस्य निराकरणायोगात्। अपिशब्दाद्भवद्भविष्यतोरपि कालयोर्न शक्यमिति दर्शयति, नह्यदर्शनमात्रादभावगतिरिति पूर्वमुक्तम्॥ ३५०५॥

“स्यान्मत”मित्यादिना परोपन्यस्तं साधनमाशङ्कते।

स्यान्मतं यो व्यतीतोऽध्वा स शून्यस्तव(सर्व?)दर्शिना।
कालत्वात्तद्यथाकालो वर्त्तमानः प्रतीयते॥ ३५०६॥

सन्दिग्धव्यतिरेकित्वाद्युक्तमेतन्न साधनम्।
वर्त्तमानश्च कालोऽयं तेन शून्यो न निश्चितः॥ ३५०७॥

प्रयोगः—योऽयमतीतः कालः स सर्वज्ञशून्यः, कालत्वात्, साम्प्रतकालवत्, तत्र साध्यविपर्यये बाधकप्रमाणानुपदर्शनात्सन्दिग्धव्यतिरेकित्वमित्यतोऽनैकान्तिकता हेतोः। दृष्टान्तोऽपि सन्दिग्धसाध्यधर्मत्वादसिद्धः॥ ३५०६॥ ३५०७॥

भवतु वा दृष्टान्तस्य सिद्धिस्तत्रापि न दृष्टमात्रेणेष्टसिद्धिर्युक्तेति दर्शयन्नाह—“हेत्वि”त्यादि।

हेतुसामग्र्यभावाच्च भूतो नाम न सम्प्रति।
रामादिवदतीते तु काले केन न सम्भवेत्॥ ३५०८॥

कः पुनरत्र प्रतिबन्धो य इदानीं नास्ति सोऽतीतेऽपि काले नाभूदिति। नहि रामभरतादय इदानीं न सन्तीत्यतीतेऽपि काले नाभूवन्निति शक्यमनुमातुम्। अतो रामादिभिरनैकान्त्यादनैकान्तिकता हेतोः॥ ३५०८॥

यच्चोक्तम्—“दृष्टो न चैकदेशोऽस्ति लिङ्गं चे” त्यत्राह—“प्रज्ञादीना”मित्यादि

प्रज्ञादीनां च धर्मित्वं कृत्वा लिङ्गमुदीरितम्।
नना(तन्नाम?) दृश्यते लिङ्गं नच सत्ता प्रसि(सा?)ध्यते॥

ये चासमानजातीयेत्यादिना प्रज्ञादीनां धर्मित्वं विधाय लिङ्गमुदीरितमतो लिङ्गं नास्तीत्येतदसिद्धम्। नापि सत्ता साध्यते, किं तर्हि ?, प्रज्ञादीनामत्यन्तोत्कर्षाख्यो धर्मः, तदेव च सर्वज्ञत्वम्, अतः सत्तासाधनेऽपि ये दोषास्तेऽप्यत्र नावतरन्त्येव ॥ ३५०९॥

न चागमविधिः कश्चिदित्यादावाह—“आगमेन त्वि”त्यादि।

आगमेन तु सर्वज्ञो नास्माभिः प्रतिपाद्यते।
लैङ्गे सति हि पूर्वोक्ते को नामागमतो वदेत्॥ ३५१०॥

नहि वस्तुबलप्रवृत्तानुमानसम्भवे सति कश्चिदिच्छामात्रानुविधायिनो वचनाद्वस्तुसिद्धिमन्विच्छेत्। अतो न वयमागमात्सर्वज्ञं साधयामः। किं तर्हि ?। अनुमानात्। तच्च पूर्वोक्तमेव॥ ३५१०॥

न चाप्येतत्सिद्धम्—“न चागमविधिः कश्चिन्नित्यः सर्वज्ञबोधन” इति, ( इति )दर्शयन्नाह—“किन्त्वि”त्यादि।

किन्तु वेदप्रमाणत्वं यदि युष्माभिरिष्यते।
तत्किं भगवतो मूढैः सर्वज्ञत्वं न गम्यते॥ ३५११॥

निमित्तनाम्नि सर्वज्ञो भगवान्मुनिसत्तमः।
शाखान्तरे हि विस्पष्टं पठ्यते ब्राह्मणैर्बुधैः॥ ३५१२॥

तथाहि—निमित्तं नाम शाखान्तरमस्ति, तत्र स्फुटतरमयमेव भगवान् शाक्यमुनिः सर्वज्ञः पठ्यते, तत्किमिति मूढैर्वेदं प्रमाणयद्भिरपि भवद्भिरसौ प्रतिक्षिप्यते ॥ ३५११॥ ३५१२॥

कथमसौ तत्र पठ्यत इत्यादर्शयन्नाह—“योऽसा”वित्यादि।

योऽसौ षड्दन्तमात्मानमवदातद्विपात्मकम्।
स्वप्ने प्रदर्श्य सञ्जातो बोधिसत्त्वो गुणोदधिः॥ ३५१३॥

विघुष्टशब्दः सर्वज्ञः कृपात्मा स भविष्यति।
प्राप्तामृतपदः शुद्धः सर्वलोकपिताऽपि च॥ ३५१४॥

“विघुष्टशब्द” इति। सकलजगत्प्रख्यातकीर्त्तिः। “प्राप्तामृतपद” इति। प्राप्तसवासनाशेषक्लेशोपशमलक्षणनिर्वाणपद इत्यर्थः। “शुद्ध” इति। अनाश्रवधातुमयः। एतावता भगवतोऽज्ञानप्रहाणलक्षणा स्वार्थसम्पत्परिदीपिता। परार्थसम्पदं दीपयन्नाह—“सर्वलोकपिते”ति। पिता—शास्ता। सर्वस्य जगतो ज्ञानत्रयसुगतिप्रतिष्ठापनात्॥ ३५१३॥ ३५१४॥

“अथे”त्यादिना परस्योत्तरमाशङ्कते।

अथ शाखान्तरं नेदं वेदान्तर्गतमिष्यते।
तदत्र न निमित्तं वो द्वेषं मुक्त्वाऽवधार्यते॥ ३५१५॥

स्वरादयश्च ते धर्माः प्रसिद्धाः श्रुतिभाविनः।
कर्तुमत्राऽपि शक्यास्ते नरेच्छामात्रसम्भवात्॥ ३५१६॥

“इद”मिति। निमित्ताख्यं शाखान्तरम्। “तदत्रे”त्यादिना प्रतिविधत्ते॥ ३५१५॥॥ ३५१६॥

“नन्वि”त्यादिना परस्योत्तरमाशङ्कते।

ननु नैवं प(तत्प?)रो नित्यः शक्यो लब्धुमिहागमः।
नित्यश्चेदर्थवादत्वं तत्परे स्यादनित्यता॥ ३५१७॥

“एवं प(एतत्प?)र” इति। सर्वज्ञप्रतिपादनपरः। कथं न शक्यो लब्धुमित्याह—“नित्यश्चे”त्यादि। यद्यसौ सर्वज्ञप्रतिपादनपर आगमो नित्यः स्यात्तदा नियमेनार्थवादत्वम्—अन्यार्थत्वमस्य द्रष्टव्यम्। अथार्थवादत्वं तस्य नेष्यते, तदा नियमादनित्यत्वमस्यापद्येत॥ ३५१७॥

कस्मात्पुनर्नित्यत्वे सत्यर्थवादत्वमापद्यत इत्याह—“आगमस्य चे”त्यादि।

आगमस्य च नित्यत्वे सि(द्धे त)त्कल्पना वृथा।
यतस्तं प्रतिपत्स्यन्ते धर्ममेव ततो नराः॥ ३५१८॥

“तत्कल्पने”ति। सर्वज्ञकल्पना। किमिति वृथेत्याह—“यत” इत्यादि। “तत” इति। नित्यादागमात्॥ ३५१८॥

“न खल्वि”त्यादिना प्रतिविधत्ते।

न खल्वस्मिन्प्रसिद्धेऽपि वेदे नित्यत्वमस्ति यत्।
प्रयत्नानन्तरज्ञानक्रमिज्ञानादि तत्फलम्॥ ३५१९॥

किन्त्वेतस्य प्रसिद्धस्य प्रामाण्योपगमे सति।
शाखान्तरेऽपि वेदत्वात्प्रामाण्यं ते प्रसज्यते॥ ३५२०॥

यद्यप्ययमृगादिवेदः स्वरूपतोऽतिप्रसिद्धः, तथाप्यस्य नित्यत्वमसिद्धम्। कथमित्याह—“य”दिति। यस्मादर्थे। यत्प्रयत्नानन्तरज्ञानं क्रमज्ञानफलं वा तदनित्यं यथा घटादि तथा च वेद इति स्वभावहेतुः। अस्य च श्रुतिपरीक्षायामसिद्धतादि विस्तरेण निरस्तमिति नात्राभिधीयते। “एतस्ये”ति। वेदस्य॥ ३५१९॥ ३५२०॥

शाखान्तरस्य वेदत्वमसिद्धमिति चेदाह—“ज्ञापनीय”मित्यादि।

ज्ञापनीयमवेदत्वं यद्वा युक्त्या ध्रुवं त्वया।
अन्यथाश्रुत्यनुक्तत्वं सन्दिग्धं तस्य ते भवेत्॥ ३५२१॥

“अन्यथे”ति॥ यद्यवेदत्वमस्य न ज्ञाप्यते तदा यत्त्वया श्रुतौ—वेदे अनुक्तत्वं तस्य सर्वज्ञस्योक्तं तत्सन्दिग्धासिद्धं भवेत्॥ ३५२१॥

यच्चोक्तं तत्परे स्यादनित्यतेत्यत्राह—“नित्यत्वं चास्त्वि”त्यादि।

नित्यत्वं चास्तु वेदस्य तत्परत्वं च तत्र तु।
तत्परे स्यादनित्यत्वं कस्मान्नाश्यर्थसङ्गतेः॥ ३५२२॥

कस्मादिति पृष्टः सन्पर आह—“नाश्यर्थसङ्गते”रिति। नाशिनार्थेन सङ्गतेः सम्बन्धात्कारणादनित्यत्वं प्राप्नोति॥ ३५२२॥

“यद्येव”मित्यादिना नैकान्तिकत्वमुद्भावयति।

यद्येवमाज्यनीवारचामीकरजटादयः।
अनित्याः कथमुच्यन्ते तेन नित्यात्मना सता॥ ३५२३॥

आज्यम्—घृतम्। नीवारो—व्रीहिविशेषः। चामीकरजटः—अग्निः। “तेने”ति। वेदेन॥ ३५२३॥

जातिरित्यादिना परस्योत्तरमाशङ्कते।

जातिस्तत्रापि नित्या चन्नेनु साऽपि निराकृता।
तन्मात्रवचने वाचो नाचाज्यादौ मतिर्भवेत्॥ ३५२४॥

तस्यापि वचने वाचो नित्यता किं न हीयते।
सर्वज्ञेऽप्याकृतिर्वास्तु तेन तत्परनित्यता॥ ३५२५॥

तत्राज्यादौ जातिरस्ति सा शब्दवाच्या तेनातिप्रसङ्गो न भविष्यतीति। तदेतदसम्यक्। सामान्यपरीक्षायां जातेर्विस्तरेण निराकृतत्वात्। भवतु वा जातिस्तथाप्याज्यादिशब्दाज्जातिमात्राभिधायिनो व्यक्तौ प्रत्ययो न प्राप्नोति। ततश्च व्यक्तिसाध्यार्थक्रियार्थिनो जात्यभिधानमनर्थकमेव स्यात्। नान्तरीयकतया व्यक्तिः प्रतीयत इति चेत्। न। प्रतीतिविप्रकर्षाभावात्। नहि शब्दादनन्तरं जातौ प्रथमतरमुपजायते मति, पश्चान्नान्तरीयकतया व्यक्तिप्रतीतिः। किं तर्हि ?। अव्यबधानेनैवार्थक्रियाकारिपदार्थाध्यवसायो लोके शब्दादुदेति। तत्प्रतिपिपादयिषयैव च शब्दम्प्रयुङ्क्ते। अतो न युक्तं वक्तुं न व्यक्तिप्रत्ययः शब्दादिति। यदि च जातिमेव शब्दो ऽभिदधीत न व्यक्तिम्। तथा बलीवर्ददोहचोदनावदसम्बन्धाभिधायित्वमवगम्यप्रेक्षावान्नैव व्यक्तौ शब्दात्प्रवर्त्तेत। अथ माभूदेष दोषप्रसङ्ग इति तस्याभि(पि?)व्यक्तिरूपस्याभिधानमङ्गीक्रियते तदा नित्यताहानिर्वेदस्य कथं न प्रसज्यते। किञ्च— भवतु नाम मुख्यतो जात्यभिधानं शब्दानां नान्तरीयकं तद्व्यक्त्यभिधानम्, तथापिसर्वस्य (ज्ञ?) परस्याप्यागमस्य नित्यता न विरोधिनीति दर्शयति—“सर्वज्ञेऽपी”त्यादि।एकस्मिन्नपि हि सर्वज्ञेऽवस्थाभेदपरिकल्पितनानात्वेन जातिशब्दवाच्यत्वमुपपद्यते, किं पुनरपरिमितानादिसर्वज्ञपरम्परासु॥ ३५२४॥ ३५२५॥

किञ्च—यदि नाम निमित्ताख्यं शाखान्तरं वेदत्वेन नाङ्गीक्रियते भवद्भिस्तथाऽपि श्रुत्यनुक्तत्वं सन्दिग्धं भवत्यनेनैवेति दर्शयन्नाह—“तदा चे”त्यादि।

तदा च वेदवाक्यानां स्वातन्त्र्येणार्थनिश्चयः।
वेदात्स्वतः परस्माच्च मोहादिविवशात्मनः॥ ३५२६॥

तेनाग्निहोत्रं जुहुयात्स्वर्गकाम इति श्रुतेः।
जिनः सर्वज्ञ इत्येवं नार्थ इत्यत्र का प्रमा॥ ३५२७॥

वेदवाक्यानां हि नित्यतया स्वातन्त्र्ये सति न ततो वेदार्थनिश्चयो जायते, नह्ययं वेदः—अयं ममार्थो नान्य इत्येवं विरौति। नापि प्रतिपत्तुः स्वतः—स्वात्मनः,परस्माद्वा, व्याख्यातुरर्थनिश्चयो भवति, सर्वेषामेव भवन्मत्या मोहादिभिर्विप्लुतत्वात्।तेनाग्निहोत्रादिवाक्याद्भगवान् सर्वज्ञ इत्ययमप्यर्थः सम्भाव्यत एव। “का प्रमे”ति। नैव काचित्॥ ३५२६॥ ३५२७॥

यच्चेदमपरमुक्तम्—“नच सर्वनरज्ञानज्ञेयसंवादसम्भवः” इति, तत्राह—“स्वर्गे”त्यादि।

स्वर्गापवर्गमात्रस्य विस्पष्टमुपदेशतः।
प्रधानार्थपरिज्ञानात्सर्वज्ञ इति गम्यते॥ ३५२८॥

समुद्रसिकतासङ्ख्याविज्ञानं क्वोपयुज्यते।
तस्यास्माकमतोऽन्यार्थज्ञानसंवेदनेन किम्॥ ३५२९॥

यच्चोक्तम्—(गौणत्वेनैव वक्तव्य इति, तत्राह—) गौणत्वेनेत्यादि।

गौणत्वेनैव वक्तव्यः सोऽपि मन्त्रार्थवादवित्।
इत्ययं नियमः सिध्येत्सर्वज्ञे तु निराकृते॥ ३५३०॥

पूर्वोक्तबाधकायोगे साधिते तु सविस्तरम्।
सन्दिग्धो गौणनियमो मुख्यार्थस्यापि सम्भवात्॥ ३५३१॥

यदि हि प्रमाणेन सर्वज्ञो निरस्तः स्यात्तदाऽन्यथानुपपत्त्या गौणार्थत्वमस्य नियतं स्यात्, नान्यथा, मुख्यार्थत्वस्यापि सम्भाव्यमानत्वात्। नच नित्यस्य वचसोऽर्थवादत्वं युक्तम्, अन्याभिप्रायदेशना ह्यर्थवादः, न चाभिप्रायरहिते वचसि विवक्षामन्तरेण सा युक्ता॥ ३५३०॥ ३५३१॥

यद्वा प्रकृतधर्मादिज्ञानादित्यादावाह—“धर्मादी”त्यादि।

धर्मादिगोचरज्ञानमात्राप्रतिघता यदि।
सफला वर्ण्यते व्यक्तं तदा बुद्धैर्जितं जगत्॥ ३५३२॥

कथं जितमित्याह—“यस्मा”दित्यादि।

यस्मादभ्युदये मोक्षे सहैतैः साधितं पुरः।
ज्ञानमप्रतिघं तेषामावैणिकमतिस्फुटम्॥ ३५३३॥

पूर्वं हि भगवतो निःश्रेयसज्ञानमप्रतिघं प्रसाधितमित्यतो भगवत एवाऽऽवैणिकमसाधारणं धर्मादिज्ञानमिति स्ववाचैव सर्वज्ञो ना(अ?)भ्युपेतः स्यात्॥ ३५३३॥

यच्चोक्तम्—यद्वाऽऽत्मन्येव विज्ञानमिति, तत्रापि भगवत्येव तथाविधज्ञानसम्भवान्न किञ्चिदनिष्टमापादितमित्यादर्शयन्नाह—“यच्चात्मन्येवे”त्यादि।

यच्चात्मन्येव विज्ञानं ध्यानाभ्यासप्रवर्त्तितम्।
तस्याप्यप्रतिघातित्वं तेषां पूर्वं प्रसाधितम्॥ ३५३४॥

“तस्यापी”ति। आत्मज्ञानस्य। “तेषा”मिति। बुद्धानां भगवताम्। “पूर्व”मिति। यावद्यावत् गुणौघोऽस्यामित्यादिना॥ ३५३४॥

ननु च तत्रात्मज्ञानं स्ववेदा(स्ववेदना?)त्मकं वर्णितम्। न त्वन्तर्व्यापारपुरुषज्ञानम्, तत्कथं सिद्धसाध्यता भवतीत्याह—“एतदेव ही”त्यादि।

एतदेव हि तज्ज्ञानं यद्विशुद्धात्मदर्शनम्।
आगन्तुकमलोपेतचित्तमात्रत्ववेदनात्॥ ३५३५॥

चेत्तमात्रवेदनमेव कथं सिद्धमिति चेदाह—“अवेद्ये”त्यादि।

अवेद्यवेदकाकारा बुद्धिः पूर्वं प्रसाधिता।
द्वयोपप्लवशून्या च सा सम्बुद्धैः प्रकाशिता॥ ३५३६॥

संसारानुचितज्ञानास्तेन सिद्धा महाधियः।
यदाधिपत्यभाविन्यो भासन्तेऽद्यापि देशनाः॥ ३५३७॥

“पूर्व”मिति। बहिरर्थपरीक्षायाम्। संसारानुचितमननुकूलं ज्ञानं येषां ते तथोक्ताः ॥ ३५३६॥ ३५३७॥

काः पुनस्तास्तदाधिपत्यभाविन्यो देशनाः श्रूयन्त इत्याह—“प्रकृत्या भास्वर” इत्यादि।

प्रकृत्या भास्वरे चित्ते द्वयाकाराकलङ्किते।
द्वयाकाराविमूढात्मा कःकुर्यादन्यथामतिः(तिम्?)॥ ३५३८॥

द्वयनैरात्म्यबोधे च स्त्र्यादिसङ्कल्पभाविनः।
रागद्वेषादयो दोषाः सङ्क्षीयन्तेऽप्रयत्नतः॥ ३५३९॥

इदं तत्परमं तत्त्वं तत्त्ववादी जगाद यत्।
सर्वसम्पत्प्रदं चैव केशवादेरगोचरः॥ ३५४०॥

“द्वयाकाराविमूढात्मे”ति। प्रहीणग्राह्यग्राहकाभिनिवेशः। “द्वयनैरात्म्यबोध” इति। पुद्गलधर्मनैरात्म्यबोधे। यद्वा—द्वयं ग्राह्यं ग्राहकं च तस्य नैरात्म्यं नैःस्वाभाव्यमिति विग्रहः। “केशवादेरगोचर” इति। केशवो हरिः, आदिशब्देनेश्वरादिपरिग्रहः॥ ३५३८॥ ३५३९॥ ३५४०॥

अथ केशवादेरपि विशुद्धमात्मदर्शनं कस्मान्नेष्यत इत्याह—“ज्ञायते ही”त्यादि।

ज्ञायते हि स्थिरात्माऽन्यैः शुद्धस्फटिकसन्निभः।
स च तेषां विपर्यासो नित्यात्मप्रतिषेधनात्॥ ३५४१॥

आत्मग्राहि च विज्ञानमात्मनो यदि जायते।
ततः सर्वात्मविज्ञानं युगपत्सम्प्रसज्यते॥ ३५४२॥

अथ तस्मान्न जायेत नित्यं वाऽभ्युपगम्यते।
तदा तद्विषयं न स्यात्पुरुषान्तरचित्तवत्॥ ३५४३॥

“अन्यै”रिति। केशवादिभिः। आत्मपरीक्षायामात्मनो निरस्तत्वात्तद्विषयं ज्ञानंविपर्यस्तत्वादविशुद्धम्। किञ्च—यदेतन्नित्यात्मविषयं तेषां ज्ञानमुपवर्ण्यते तत्किं तत आत्मनो जायते आहोस्विन्नेति पक्षद्वयम्, तत्र प्रथमे पक्षे युगपदशेषं तद्विषयं ज्ञानमविकलकारणतया जायेत, अथ द्वितीयः पक्षस्तत्रापि तन्नित्यं वा स्यादनित्यं वा।उभयथाऽपि तेनात्मना तस्यानुकार्यत्वादन्यचित्तवत् तद्विषयं न प्राप्नोति॥ ३५४१॥ ॥ ३५४२॥ ३५४३॥

यच्चोक्तम्—एतदेव हि तज्ज्ञानं यद्विशुद्धात्मदर्शनमिति, तत्राह—“ग्राह्ये”त्यादि।

ग्राह्यलक्षणवैधुर्याद्विस्तरेण च साधितात्।
नैतदेव हि तज्ज्ञानं यदि शुद्धात्मदर्शनम्॥ ३५४४॥

अथापि ज्ञानरूपत्वमात्मनोऽभ्युपगम्यते।
दृश्यदर्शननानात्वभावान्नैवमपि ग्रहः॥ ३५४५॥

स्वयम्प्रकाशरूपत्वं तज्ज्ञानस्येष्यते यदि।
स्वसंवित्तिस्तदा प्राप्ता प्रत्यक्षा च मतिर्भवेत्॥ ३५४६॥

यदि तावदात्मा जडरूपोऽभ्युपगम्यते तदा तद्विषयं ज्ञानमविशुद्धमेव, प्रकृत्या सर्वज्ञानानां ग्राह्यग्राहकवैधुर्यस्य बहिरर्थपरीक्षायां प्रसाधितत्वात्। अथ चिद्रूप आत्मेति पक्षस्तदाऽपि दृश्यदर्शनयोरभेदाद्ग्राह्यग्राहकभावानुपपत्तेस्तद्विषयं ज्ञानमिति न स्यात्, भेदे हि विषयविषयिणोर्विषयविषयिभावः स्यात्। अथ प्रदीपवत्प्रकाशतयाऽऽत्मविषयत्वमस्याभ्युपगम्यते तदा स्वसंवित्तेरनभिमतायाः प्रसङ्गः स्यात् , ज्ञानस्य चाप्रत्यक्षत्वमिष्टं व्याहन्येत। तद्दर्शयति—“प्रत्यक्षा च मतिर्भवे”दिति ॥ ३५४४॥ ३५४५॥ ३५४६॥

यदुक्तम्—अथापि वेददेहत्वादित्यादि, तत्राह—“ब्रह्मादीनां चे”त्यादि।

ब्रह्मादीनां च वेदेन सम्बन्धो नास्ति कश्चन।
भेदान्नित्यतयाऽपेक्षावियोगाच्च तदन्यवत्॥ ३५४७॥

ततश्च वेददेहत्वं ब्रह्मादीनामसङ्गतम्।
सर्वज्ञानमयत्वं च वेदस्यार्थाविनिश्चयात्॥ ३५४८॥

स्वातन्त्र्येण च सम्बुद्धः सर्वज्ञ उपपादितः।
न पुनर्वेददेहत्वाद्ब्रह्मादिरिव कल्प्यते॥ ३५४९॥

सम्बन्धे सति ब्रह्मादीनां वेददेहत्वं भवेत्, नच वेदेन सार्द्धं ब्रह्मादेः सम्बन्धोऽस्ति। तथाहि—तादात्म्यतदुत्पत्तिलक्षणो द्विविध एव सम्बन्धो भावानामिति प्रतिपादितम्, तत्र भेदाभ्युपगमान्न तादात्म्यसम्बन्धः। नापि तदुत्पत्तिः द्वयोरपिनित्यत्वेनानुपकार्यतया परस्परमपेक्षाया अभावात्। “सर्वज्ञानमयत्वं च वेदस्ये”ति।असङ्गतमिति प्रकृतेन सम्बन्धः। कस्मात् ?। अर्थानिश्चयात्। विनिश्चिते ह्यर्थे वेदस्य सर्वज्ञानमयत्वं कल्पयितुं युक्तम्, स च भवन्मत्या न सम्भवतीत्यावेदितमेतत्। नच भवद्भिरिवास्माभिर्वेदद्वारेण सर्वज्ञोऽभ्युपगम्यते। किं तर्हि ?। स्वयम्भुज्ञानत्वात्स्वयमेव भगवान्सर्वज्ञ इति प्रतिपादितमेतत्॥ ३५४७॥ ३५४८॥ ॥ ३५४९॥

यच्चोक्तम्—क्वच बुद्धादयो मर्त्या इति। तत्र मर्त्यत्वं भगवतोऽसिद्धमिति दर्शयन्नाह—“पञ्चे”त्यादि।

पञ्चगत्यात्मसंसारबहिर्भावान्न मर्त्यता।
बुद्धानामिष्यतेऽस्माभिर्निर्माणं तत्तथामतम्॥ ३५५०॥

नरकप्रेततिर्यग्देवमनुष्यभेदेन पञ्चगत्यात्मकः संसारः, तद्बहिर्भूताश्च भगवन्त इत्यसिद्धं मर्त्यत्वमेषाम्। कथं तर्हि शुद्धोदनादिकुलोत्पत्तिरेषां श्रूयत इत्याह—“निर्माणं तत्तथामत”मिति॥ ३५५०॥

एतदेवागमेन संस्पन्दयन्नाह—“अकनिष्ठे” इत्यादि।

अकनिष्ठे पुरे रम्ये शुद्धावासविवर्जिते।
बुद्ध्यन्ते तत्र सम्बुद्धा निर्मितस्त्विह बुध्यते॥ ३५५१॥

अकनिष्ठा नाम देवा(शा?)स्तेषामेकदेशे शुद्धावासकायि“का नाम देवाः(शाः?)”। अत्र हि आर्या एव शुद्धा आवसन्ति तेषामुपरि माहेश्वरभवनं नामस्थानम्। तत्र चरमभविका एव दशभूमिप्रतिष्ठिता बोधिसत्त्वा उत्पद्यन्ते। इह तु तदाधिपत्येन तथा निर्माणमुपलभ्य(त) इत्यागमः॥ ३५५१॥

नास्माकमिदं सिद्धमिति चेदाह—“स्वातन्त्र्येणे”त्यादि।

स्वातन्त्र्येण तु मर्त्त्यत्वं त्वया निश्चीयते कथम्।
परकीयागमद्वारान्न तस्यैवमवस्थितेः॥ ३५५२॥

नच तत्स्पर्धयाऽस्माभिस्ते सर्वज्ञा इतीष्यते।
आकाशकुसुमैः को हि स्पर्द्धां सत्येषु कल्पयेत्॥ ३५५३॥

यदि हि स्वातन्त्र्येण मर्त्त्यत्वं भवतोपादीयते तदा सन्दिग्धासिद्धता। नहि भगवतो मर्त्यत्वप्रसाधकं किञ्चिद्भवतः प्रमाणमस्ति, येन स्वातन्त्र्येण मर्त्त्यत्वं सिद्धं भवेत्, तस्मात्परकीयागमद्वारेण त्वया मर्त्त्यत्वं वक्तव्यम्। स च परस्यागम एवम् —यथोक्तरूपं स्थित इत्यसिद्धमेषां मर्त्त्यत्वम्॥ ३५५२॥ ३५५३॥

कथमाकाशकुसुमप्रख्यत्वमेषां सिद्धमित्याह—“सर्वशक्तिवियोगेने”त्यादि।

सर्वशक्तिवियोगेन नीरूपत्वं हि साधितम्।
नित्यानां तेन नो सन्ति परेष्टास्त्रयम्बकादयः॥ ३५५४॥

परेण हि शङ्करादयो नित्यत्वेनेष्टाः। नित्यानां च क्रमाक्रमाभ्यामर्थक्रियाविरोधात्सर्वसामर्थ्यरहितत्वं प्रसाधितम्। सर्वसामर्थ्यविरहलक्षणं चासत्त्वमिति परेष्टास्त्र्यम्बकादयो नित्या न सन्त्येवेत्याकाशकुसुमप्रख्यत्वमेषां सिद्धमेव। त्र्यम्बकः— शङ्करः॥ ३५५४॥

किञ्च—सन्तु नाम त्र्यम्बकादयः, तथाप्यतिनिकृष्टतया तेषां, न भगवतां तैः सह स्पर्द्धा क्रियतेऽस्माभिरित्यादर्शयन्नाह—“किञ्चे”त्यादि।

किञ्च तेषां विपर्यस्तं ज्ञानमात्मादिदर्शनात्।
बुद्धानां त्वविपर्यस्तं विस्तरेणोपपादितम्॥ ३५५५॥

तत्स्पर्द्धा क्रियते तैस्तु न दूरान्तरभावतः।
को हि तैमिरिकैः स्पर्द्धां कुर्यात्स्वस्थेक्षणे नरे॥ ३५५६॥

सुबोधम्॥ ३५५५॥ ३५५६॥

यच्चोक्तम्—नित्येऽपि चागमे वेद इति, तत्राह—“गुणकर्मे”त्यादि।

गुणकर्मेश्वरादीनां वेदानां चापहस्तिता।
नित्यताऽतश्च नास्माभिर्नित्य आगम इष्यते॥ ३५५७॥

सर्ववस्तुव्यापिनः क्षणभङ्गस्य प्रसाधनान्न कस्यचिन्नित्यत्वमस्तीति सर्वमेतदसङ्गतमुक्तम्॥ ३५५७॥

यच्चोक्तम्—सर्वज्ञसदृशमित्यादि, तत्राह—“उपमानेने”त्यादि।

उपमानेन सर्वज्ञसत्तासिद्धिर्न चेष्यते।
तस्याप्रमाणताप्रोक्तेः सत्तासिद्धिस्ततो न च॥ ३५५८॥

प्रसिद्धायां हि सत्तायां सादृश्यं गम्यते ततः।
साधनं प्रकृतं चेदं सत्तायाः सर्ववेदिनः॥ ३५५९॥

तन्नोपमानतः सिद्धिः प्रतिषेधोऽफलः कृ(त?)तः।
नरा दृष्टास्त्वसर्वज्ञाः सर्वे चेद्भवता ततः॥ ३५६०॥

तवैव सर्ववित्ता स्याद्दूरव्यवहितेक्षणात्।
अन्यसन्तानसम्बद्धज्ञानशक्तेश्च दृष्टितः॥ ३५६१॥

नह्युपमानस्य प्रामाण्यमस्ति येन ततः सर्वज्ञसिद्धिमभिवाञ्छेद्बौद्धः। सत्यपि वा प्रामाण्ये तस्य सत्तासिद्धावनुपयोग एव। तथाहि प्रसिद्धे धर्मिणि गवादौ गवयादिसाधर्म्यमात्रं तेन साध्यते। नच सर्वज्ञो धर्मी प्रसिद्धस्तस्यैव भवन्मतेन साध्यत्वात्। तेन भवन्मत्या सर्वज्ञसत्तायां साध्यत्वेन प्रस्तुतायामुपमानस्य प्रसङ्गाभावात्तत्प्रतिषेधोऽनर्थकः, प्राप्त्यभावात्। प्राप्तिपूर्वकत्वात्प्र“ति”षेधस्येति भावः। नरान् दृष्ट्वा त्वसर्वज्ञानित्यादावाह—“नरा दृष्टास्त्वसर्वज्ञा” इत्यादि। यदि हि सर्व एव नरा दृष्टा भवता तदा सर्वज्ञनिषेधे स्ववचनव्याघातः। तथाहि—दूरव्यवहिताशेषनरदर्शनाभ्युपगमादन्यसन्तानसम्बन्धिज्ञानशक्तिनिश्चयाभ्युपगमाच्चात्मनि सर्वज्ञत्वं स्फुटतरमेवाभ्युपेतं स्यात्, देशकालस्वभावविप्रकृष्टार्थदर्शनाभ्युपगमात्। नह्यसर्वज्ञस्यैवं परिज्ञानं सम्भवेत्। तत्प्रतिषेधाय च साधनोपादानात्तदेव प्रतिषिध्यत इतिस्ववचनव्याघातः, यथा माता मे वन्ध्येति॥ ३५५८॥ ३५५९॥ ३५६०॥ ॥ ३५६१॥

असिद्धता च हेतोरिति दर्शयन्नाह—“पुरःस्थितेऽपी”त्यादि।

पुरःस्थितेऽपि पुंसि स्यात्कथं तव विनिश्चयः।
नायं सर्वज्ञ इत्येवम्भावेऽतीन्द्रियविद्भवान्॥ ३५६२॥

आत्मासर्वज्ञतादृष्टौ शेषासर्वज्ञनिश्चये।
अतिप्रसङ्गोऽजाद्यादेः सर्वज्ञम(ज्ञस्या?)पि निश्चयात् ३५६३

बाधादृष्टेर्नचेत्सर्वधर्मनिश्चय इष्यते।
बाधाशङ्का ननूक्तेऽपि बाधादृष्टेर्न भिद्यते॥ ३५६४॥

तथाहि—पुरोऽवस्थिते पुंसि शरीरमात्रदर्शनान्नायं सर्वज्ञ इत्येवमसर्वविदा निश्चेतुमशक्यम्, किमुत देशकालव्यवस्थिते पुंसि। “भाव” इति। नायं सर्वज्ञ इत्येवं निश्चयस्य। अथ मा भूदसिद्धता हेतोरित्यात्मासर्वज्ञतया शेषासर्वज्ञनिश्चयोऽभ्युपगम्यते तदातिप्रसङ्गादनैकान्तिकतेत्यादर्शयन्नाह—“आत्मासर्वज्ञतादृष्टा”वित्यादि।आत्मन्यसर्वज्ञताया दृष्टिरिति विग्रहः। स्यादेतत्सर्वधर्मसाधनं क्रियमाणं दृष्टेन प्रज्ञादिभेदेन बाध्यत इत्यतस्तस्य साधनं (न) क्रियते। तत्त्वसर्वज्ञत्वं साध्यमानं(न) केनचिद्बाध्यत इत्यतोऽतिप्रसङ्गो न भविष्यतीति। तदेतदसम्यक्। यथैव दृष्टबाधं साध्यं हेतुर्न साधयति तथा शङ्क्यमानबाधमपीत्यतो बाधाशङ्का बाधादृष्टेर्नभिद्यते, तेनासर्वज्ञत्वसाधनमपि माभूदाशङ्क्यमानबाधत्वात्॥ ३५६३॥ ३५६४॥

यच्चोक्तमुपदेशो हि बुद्धादेरन्यथाऽप्युपपद्यत इत्याह—“स्वर्गे”त्यादि।

स्वर्गापवर्गमार्गोक्तिं निरवद्यां प्रसाधिताम्।
बुद्धानां तां जाडात्कोऽन्यो व्यामोहादभि(दिति?)मन्यते॥ ३५६५॥

अन्यथोपपन्नत्वमुपदेशस्यासिद्धम्। नहि स्वर्गापवर्गमार्गस्य निरवद्य उपदेशो व्यामोहात्सम्भवति, निरवद्यत्वं च भगवद्वचनस्य सर्वाभिः परीक्षाभिः प्रसाधितम्।“जडा”दिति। कुमारिलात्। स एव यदि परं मन्यत इत्यर्थः॥ ३५६५॥

शिष्यव्यामोहनार्थं वेत्यत्राह—“दृष्टेऽपी”त्यादि।

दृष्टेऽप्यभ्युदयं चित्तदोषशान्तिं परां तथा।
ततश्चाप्नुवतां तेन परं व्यामोहनं कृतम्॥ ३५६६॥

“दृष्ट” इति। अस्मिन्नेव जन्मनि। अभ्युदयम्—नित्यारोग्यैश्वर्यादिलक्षणम्।अवाप्नुवतामिति सम्बन्धः। “दोषशान्तिं चे”ति। रागादिदोषोपशमम्। ततः—मन्त्रध्यानसमयाभ्युपदेशात्तत्कृताद्यथाविहितानुष्ठानादाप्नुवतां शिष्याणां परं व्यामोहनं कृतमित्यतिशयोक्तिरियम्। यदीदृशं व्यामोहं भवान्मन्येत तदा भवानेव व्यामूढः स्यादव्यामोहमेवं व्यामोहमिति गृह्णन्॥ ३५६६॥

यद्यसौ वेदमूलः स्यादित्यत्राह—“वेदमूलं च नैवेद”मिति।

वेदमूलं च नैवेदं बुद्धानामुपदेशनम्।
निष्कलङ्कं हि तत्प्रोक्तं सकलङ्कं श्रुतौ पुनः॥ ३५६७॥

नहि निष्कलङ्कमुपदेशनं सकलङ्कमूलं युक्तम्॥ ३५६७॥

यतस्तु मूर्खशूद्रेभ्य इत्यत्राह—“स्वार्थसंसिद्धये तेषा”मित्यादि।

स्वार्थसंसिद्धये तेषामुपदेशो न तादृशः।
आरम्भः सकलस्त्वेष परार्थं कर्तुमीदृशः॥ ३५६८॥

तस्माज्जगद्धिताधानदीक्षिताः करुणात्मकाः।
अनिबन्धनबन्धुत्वादाहुः सर्वेषु तत्पदम्॥ ३५६९॥

“पद”मिति। सर्वगुणसम्पत्प्रतिष्ठार्थेनाभ्युदयनिःश्रेयसमार्गः पदमुच्यते॥ ३५६८॥ ॥ ३५६९॥

यैस्तु मन्वादिभिर्वेदवादिभ्य एवोपदेशनं कृतम्, तेषामेव व्यामोहार्थं तत्सम्भाव्यत इति दर्शयति—“ये ही”त्यादि।

ये हि लोभभयद्वेषमात्सर्यादिवशीकृताः।
प्रादेशिकी भवेत्तेषां देशना निःकृपात्मनाम्॥ ३५७०॥

या पुनर्भगवतामाकुमारं देशना सा तेषां माहात्म्यमेवोद्भावयतीति दर्शयति—“करुणे”त्यादि।

करुणापतन्त्रास्तु स्पष्टतत्त्वनिदर्शिनः।
सर्वापवादनिःशङ्काश्चक्रुः सर्वत्र देशनाम्॥ ३५७१॥

यथायथा च मौर्ख्यादिदोषदुष्टो भवेज्जनः।
तथातथैव नाथानां दया तेषु प्रवर्त्तते॥ ३५७२॥

नैवावाहविवाहादिसम्बन्धो वाञ्छितो हि तैः।
उपकारस्तु कर्त्तव्यः साधुगीतमिदं ततः॥ ३५७३॥

ऊढाया योषितः भर्तृगृहागमनमावाहः॥ ३५७१॥ ३५७२॥ ३५७३॥

किं तद्गीतमित्याह—“विद्ये”त्यादि।

विद्याचरणसम्पन्ने ब्राह्मणे गवि हस्तिनि।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः॥ ३५७४॥

अपि च—भवतैव मूर्खशूद्रेभ्य इत्यतिप्रकटमुच्चैरसद्भूतजातिमदोद्धतेन चेतसा ब्रुवता स्फुटतरमात्मन एव प्रकटितमिह विद्वज्जनसदसि महामौर्ख्यम्। तथाहि—कदाचिद्ब्राह्मणत्वाख्यं सामान्यं नाम वस्त्वन्तरमस्तीत्येवमुपकल्पयन्तस्तत्रभवन्तोविप्रा गर्वार्बुदमुद्वहन्ति ?, यद्वा जातकर्मादिभिः संस्कृतत्वमात्मनः समीक्ष्य ?, ब्राह्मणपितृकृतां चात्मनो ब्राह्मणीगर्भप्रसूतिमालम्ब्य ?। तत्र प्रथमे पक्षे केवलमाकाशकुशेशयमण्डनमेतद्भवतामिति दर्शयति—“शतश” इत्यादि।

शतशः प्रतिषिद्धायां जातौ जातिमदश्च किम्।
तदन्यातिशयासिद्धौ विशिष्टा सा च किं मता॥ ३५७५॥

वशित्वादिगुणाधाराः प्रक्षीणाशेषकल्मषाः।
सर्वेऽप्यत्राविशेषेण तद्योगे च विजातयः॥ ३५७६॥

भवेयुर्यदि सिद्ध्यन्ति विशिष्टास्तत्समाश्रयाः।
वैशिष्ट्यमन्यथा नैव लुब्धकद्विजजातिवत्॥ ३५७७॥

अपि च भवतु नाम सा जातिस्तथाऽपि तत्कृतमाश्रयस्य यदि वैशिष्ट्यमुपलभ्येत तदा स्याद्भवतां गर्वः, यावता न किञ्चिदतिशयं पश्याम इत्यादर्शयति—“तदन्ये”त्यादि। तेभ्यो ब्राह्मणेभ्योऽन्यस्तदन्यः शूद्रादिस्तस्मादतिशयस्तस्यासिद्धिरितिविग्रहः। तथाहि—शूद्रादिभ्यो न प्रज्ञामेधादिभिर्विण्मूत्रमांसशोणितादिभिश्च विप्राणामतिशयमुपलभामहे, तत्कथमतिशयासिद्धौ सत्यां सा तदाधारा जातिर्विशिष्यते। येन भवता जातिवादावलेपोद्धतेनैवमभिधीयते—वेदवादिभ्य एव तं प्रयच्छेयुर्यथा मन्वादय इति। यदि तु ब्राह्मणजातिसमाश्रयेण भवन्तः प्रकृत्यैव वशित्वेशित्वप्राकाम्यकरुणादिगुणगणाधाराः प्रहीणाशेषदुरिता भवेयुस्तदा भवेद्भवतां वैशिष्ट्यमन्यथालुब्धककैवर्त्तचर्मकारादिब्राह्मणस्येव सत्यपि ब्राह्मणजातियोगे कथमिव वैशिष्ट्यं सिद्ध्येत्॥ ३५७५॥ ३५७६॥ ३५७७॥

द्वितीयेऽपि पक्षे दोषमाह—“जातकर्मादय” इत्यादि।

जातकर्मादयो ये च प्रसिद्धास्ते तदन्यवत्।
आचाराः सांवृतास्ते हि कृत्रिमेष्वपि भाविनः॥ ३५७८॥

“तदन्यव”दिति। कृत्रिमाभिमतब्राह्मणेष्विव। “सांवृता” इति। नामकरणादिवत्सांव्यवहारिकाः। तृतीयेऽपि पक्षे न युक्तो मदः, नहि ब्राह्मणब्राह्मणीशरीराणां शूद्रादिशरीरतः शुक्रशोणिताद्यशुचिमयत्वेन कश्चिद्विशेषोऽस्तीत्युक्तमेतत्॥ ३५७८॥

अपि च सन्दिग्धमेव भवतो ब्राह्मणपितृकत्वमित्यतोऽपि न युक्तो मद इत्यादर्शयन्नाह—“अतीत”श्चेत्यादि।

अतीतश्च महान्कालो योषितां चातिचापलम्।
तद्भवत्यपि निश्चेतुं ब्राह्मणत्वं न शक्यते॥ ३५७९॥

अतीन्द्रियपदार्थज्ञो नहि कश्चित्समस्ति वः।
त्वदन्वयविशुद्धिं च नित्यो वेदोऽपि नोक्तवान्॥ ३५८०॥

कालान्तरेण कदाचिदब्राह्मणगोत्रकोऽपि सम्भवान्ब्राह्मणः सांवृत इत्यपि सम्भाव्यते। सत्यपि ब्राह्मणपूर्वत्वे भवतो मातृचारित्रदोषेण जारजातत्वमपि सम्भाव्यत एव। तथाहि—प्रायेण योषितो मन्मथातुराश्चपलचेतसः स्वकुलव्रतसीमानमतिपत्यापि वर्त्तमानाः समुपलभ्यन्ते। न चातीन्द्रियार्थदर्शी भवद्भिः कश्चिन्नरोऽभ्युपेयते, यतो निश्चयः स्यात्। नापि वेदो निवेदयति भवतोऽन्वयशुद्धिम्॥ ३५७९॥ ॥ ३५८०॥

किञ्च—न केवलं भवतामात्मन्यपरिनिश्चितब्राह्मण्यानां जातिमदावलेपो न युज्यते, अपि च—मन्वादीनामप्यविदितद्विजातीनां द्विजातिभ्य एवोपदेशो मोहादिति दर्शयति—“अत” इत्यादि।

अतो मन्वादयोऽप्येषामविज्ञातद्विजातयः।
नोपदेशं प्रयच्छेयुर्द्विजेभ्यस्तदनिश्चयात्॥ ३५८१॥

अविज्ञाता अनिश्चिता द्विजातयो येषां ते तथोक्ताः। “तदनिश्चया”दिति। तेषान्द्विजातीनामनिश्चयात्॥ ३५८१॥

अपि च—मन्वादिभिरस्मभ्यमेवोपदेशनं कृतमिति नैतद्भवतां महत्त्वकारणम्, अपि तु जडत्वमेव सूचयतीति दर्शयन्नाह—“निर्युक्तिकत्व”मित्यादि।

निर्युक्तिकत्वं वेदार्थे ज्ञापनाशक्तताऽऽत्मनि।
वेदाधीतिजडा विप्रा न परीक्षाक्षमा इति॥ ३५८२॥

कुतश्चिन्निश्चितं शङ्के नूनं मन्वादिभिस्ततः।
विप्रेभ्य एव वेदादेः कृतं तैरुपदेशनम्॥ ३५८३॥

“वेदाधीतिजडा” इति। वेदाधीत्या कृता जडा वेदाधीतिजडाः। वेदाध्ययनेन दूरीकृतवस्तुबोधशक्तय इति यावत्। “कुतश्चि”दिति। हेतोः॥ ३५८२॥ ३५८३॥

अतएव वेदादीनामयुक्तिकत्वमवेत्य मन्वादिभिराज्ञासिद्धत्वमात्मवचनेषूक्तमितिदर्शयति—“पुराण”मित्यादि।

पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम्।
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः॥ ३५८४॥

मन्ये तेनैव दत्तेयं जडेभ्यस्तैर्विभीषिका।
आज्ञासिद्धत्वमन्यत्र वाङ्मात्रात्किन्नु वा भवेत्॥ ३५८५॥

पुराणं नाम शास्त्रम्। “मानवो धर्म” इति। मनुना विरचितः। “साङ्गो वेद” इति। सह व्याकरणादिभिः षड्भिरङ्गैर्वर्त्तत इति साङ्गः। “चिकित्सित”मिति। चिकित्साशास्त्रं। “तेनैवे”ति। कारणेन। निर्युक्तिकत्वमेषां पुराणादीनां भवतां च जाड्यमवधार्येति यावत्॥ ३५८४॥ ३५८५॥

“यै”रित्यादि।

यैः पुनः स्वोक्तिषु स्पष्टं युक्तार्थत्वं विनिश्चितम्।
तत्प्रत्यायनसामर्थ्यमात्मनश्च महात्मभिः॥ ३५८६॥

कुतीर्थ्यमत्तमातङ्गमदग्लानिविधायिनम्।
एवमस्ताखिलत्रासाः सिंहनादं नदन्ति ते॥ ३५८७॥

कुतीर्थ्या एव मत्तमातङ्गास्तेषां मदग्लानिं विधातुं शीलं यस्य सिंहनादस्य स तथोक्तः। “एव”मिति। वक्ष्यमाणम्॥ ३५८६॥ ३५८७॥

कः पुनरसौ सिंहनाद इत्याह—“तापा”दित्यादि।

तापाच्छेदाच्च निकषात्सुवर्णमिव पण्डितैः।
परीक्ष्य भिक्षबो ग्राह्यं मद्वचो नतु गौरवात्॥ ३५८८॥

अपि च भगवद्भिरेव परमार्थब्राह्मणेभ्यः कृतमुपदेशनं न मन्वादिभिरित्येतदाह —“ये चे”त्यादि।

ये च वाहितपापत्वाद्ब्राह्मणाः पारमार्थिकाः।
अभ्यस्तामलनैरात्म्यास्ते मुनेरेव शासने॥ ३५८९॥

इहैव श्रमणस्तेन चतुर्द्धा परिकीर्त्त्यते।
शून्याः परप्रवादा हि श्रमणैर्ब्राह्मणैस्तथा॥ ३५९०॥

वाहितपापधर्मत्वाद्ब्राह्मणा इति निरुक्तिः। ते चेहैव नैरात्म्याभ्यासोपदेशान्मुनेर्भगवतः शासने युक्ताः, नान्यत्र, पापक्षयोपायविकलत्वात्। अतएव भगवतोक्तम् —इहैव श्रमणः इहैव ब्राह्मणः, शून्याः परप्रवादाः श्रमणैर्ब्राह्मणैरिति। तत्र चत्वारःश्रमणाः फलस्था श्रोत आपन्नादयः (?)। ब्राह्मणा अपि तत्प्रतिपालकाश्चत्वार एव ॥ ३५८९॥ ३५९०॥

नरः कोप्यस्तीत्यादावह—“नर” इत्यादि।

नरः कोप्यस्ति सर्वज्ञ इत्याद्यपि न साधनम्।
प्रतिज्ञान्यूनतादोषदुष्टमित्युपपादितम्॥ ३५९१॥

केन ग्रन्थेनोपपादितमित्याह—“निःशेषार्थे”त्यादि।

निःशेषार्थपरिज्ञानसाधने विफलेऽपि हि।
सुधियः सौगता यत्नं कुर्वन्तीत्यादिना पुरा॥ ३५९२॥

किञ्च—नास्माभिः सर्वज्ञोक्तत्वमवगम्य तदनुष्ठानाय सर्वज्ञः प्रसाध्यते। किं तर्हि ?। ये सार्वज्ञपदप्राप्तीच्छवस्तदर्थं दोषक्षयो गुणोत्कर्षाय प्रसाध्यते। यतो वस्तुबलप्रवृत्तानुमानत एव सौगताः पुरुषार्थेषु घटन्ते न प्रवादमात्रेण। प्रमेयत्वादीनां च यथा साधनत्वं भवति तथा प्रतिपादितमेव। यच्चोक्तम्—दशभूमिगत इति, तदपि सिद्धान्तानभिज्ञेन भवतोक्तम्। नहि दशभूमिगतो भगवानिष्यते। किं तर्हि ?। बोधिसत्त्वावस्थां यावद्दशभूमिस्तत ऊर्ध्वं बुद्धभूमिरिष्यते॥ ३५९२॥

यच्चोक्तम्—एकदेशज्ञगीतं तन्न स्यात्सर्वज्ञभाषितमिति, तदपि प्रतिविहितमेवेति दर्शयन्नाह—“एकदेशे”त्यादि।

एकदेशज्ञगीतं तु न स्यात्सर्वज्ञभाषितम्।
इत्यत्रापि पुरा प्रोक्तं सर्वज्ञानान्वयादिति॥ ३५९३॥

एतदेव पुनरपि प्रतिपादयन्नाह—“यथैवे”त्यादि।

यथैवेष्टादिकानर्थाननुभूयाल्पदर्शनः।
चेतस्यारोप्य तान्पश्चात्प्रवक्त्यनुभवाश्रयान्॥ ३५९४॥

न च तद्वचनं तस्य तद्वस्तुज्ञानजन्म न।
एवं सर्वज्ञवाक्यं स्याद्धेतुभेदात्तु भिद्यते॥ ३५९५॥

“अल्पदर्शन” इति। अर्वाग्दर्शनः, असर्वज्ञ इति यावत्। “तद्वस्तुज्ञानजन्मे”ति।तस्योष्णादेर्वस्तुनो ज्ञानमनुभवस्तद्वस्तुज्ञानं ततो जन्मोत्पत्तिर्यस्य वचनस्य तत्तथोक्तम्। न नेति प्रतिषेधद्वयेन तद्वस्तुज्ञानजन्मैव भवतीति दर्शयति। “एव”मिति। तदपि तद्वस्तु ज्ञानजन्मतया प्रमाणम्। यद्येवं को विशेषोऽल्पदर्शनवचनाद्बुद्धवचनस्येत्याह—“हेतुभेदात्तु” भिद्यत इति॥ ३५९४॥ ३५९५॥

एतदेव स्पष्टयति—“समस्ते”त्यादि।

समस्तवस्तुविज्ञानमस्य कारणतां गतम्।
किञ्चिन्मात्रार्थविज्ञानं निमित्तं तस्य तु स्थितम्॥ ३५९६॥

“अस्ये”ति। बुद्धवचनस्य। तस्य त्विति। एकदेशज्ञवचनस्य॥ ३५९६॥

“विकल्पे”त्यादिना—परश्चोदयति।

विकल्पासम्भवे तस्य विवक्षा ननु कीदृशी।
प्रहीणाचरणत्वाद्धि विकल्पो नास्य वर्त्तते॥ ३५९७॥

नह्यसम्भवद्विकल्पस्य विवक्षा सम्भवति, तस्या विकल्पविशेषत्वात्। अतोऽसौ विकल्पत्वेन व्याप्ता सती तद्भा(तद?)वे कथमवस्थां लभेत। नहि वृक्षाभावे शिंशपायाः सम्भवोऽस्ति। नच सर्वज्ञस्य विकल्पसम्भवः, तस्य प्रहीणाशेषक्लेशविशेषाद्यावरणत्वात्। कल्पस्य च प्रकृत्या भ्रान्तत्वात्। तत्समुदाचारे भ्रान्तः प्राप्नोति सर्वविदिति॥ ३५९७॥

“नैव”मित्यादिना प्रतिविधत्ते।

नैवं क्लिष्टो हि सङ्कल्पस्तस्य नास्त्यावृतिक्षयात्।
जगद्धितानुकूलस्तु कुशलः केन वार्यते॥ ३५९८॥

द्विविधो हि विकल्पः सङ्क्लेशाद्यनुकूलतया क्लिष्टः। अलोभादिसम्प्रयोगसमुत्थानतया कुशलः। तत्र यः क्लिष्टः स प्रहीणक्लेशाद्यावरणानां नास्त्येव, कारणाभावात्। यस्तु कुशलः स प्रहीणावरणस्याप्यविरोधीति तेन भगवतां कृपाभ्यासप्रवर्त्तितो जगद्धितोदयानुकूलतया कुशलो विकल्पः सम्मुखीभवन् केन वार्यते॥ ३५९८॥

स्यादेतत्—सर्वस्यैव विकल्पस्य प्रकृत्या स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्ते र्भ्रान्तत्वात्प्रहीणज्ञेयावरणस्य तत्समुदाचारो विरुद्ध एवेत्याशङ्क्याह—“नच तस्ये”त्यादि।

नच तस्य विकल्पस्य सोऽर्थवत्तामवस्यति।
तं हि वेत्ति निरालम्बं मायाकारसमो ह्यसौ॥ ३५९९॥

मायाकारो यथा कश्चिन्निश्चिताश्वादिगोचरम्।
चेतो निर्विषयं वेत्ति तेन भ्रान्तो न जायते॥ ३६००॥

यदि हि तस्य विकल्पस्याविषयस्य विषयवत्तां गृह्णीयात्तदा भ्रान्तो भवेद्यावता मायाकारवदसौ तज्ज्ञानविषयतयैवावगच्छतीति कथं भ्रान्तो भवेत्॥ ३५९९॥ ॥ ३६००॥

यदुक्तम्, इत्यादि कीर्त्त्यमानं तु श्रद्दधानेषु शोभते इति, तत्राह—“इत्यादी”ति।

इत्यादि कीर्त्त्यमानं तु श्रद्दधानेषु शोभते।
प्रकृतार्थानुरूपेण प्रोक्तं नैतद्द्विजातिना॥ ३६०१॥

कथम्, किं तत्प्रकृतम् ?, तदनुरूपमेतन्न भवतीत्याह—“तथा(ऽ)व्याप्तश्चे”त्यादि।

तथा(ऽ)व्याप्तश्च सर्वार्थैः शक्तो नैवोपदेशने।
इत्येतत्प्रकृतं ह्यत्र तत्र चाहुर्महाधियः॥ ३६०२॥

तस्योपदेशने शक्तिर्न स्याच्चेत्किं तदा भवेत्।
ततो भवद्भिर्वक्तव्यमागमो न भवेदिति॥ ३६०३॥

तत्राप्याहुर्भवत्वेवं किं दृष्टोऽसौ त्वया वदन्।
प्रसङ्गसाधनेनेदमनिष्टं चोद्यते यदि॥ ३६०४॥

न चेद्वक्तृत्वमिष्येत नागमोपगमो भवेत्।
तत्प्रणेतागमेष्टौ तु तस्य वक्तृत्वमिष्यताम्॥ ३६०५॥

एतच्च प्रसङ्गसाधनं मयोक्तं न स्वातन्त्र्येणेत्येवं स्ववाचैव परोऽभिधास्यतीति मन्यमानः प्रसङ्गसाधनत्वमेव तावदस्य प्रकृतस्य समर्थयितुमाह—“तत्र चाहु”रित्यादि। यदेतद्भवतोक्तं सर्वार्थव्यावृत्तस्योपदेशने शक्तिर्न प्राप्नोतीति, अत्र तावद्भवान्प्रष्टव्यो माभूदुपदेशने तस्य शक्तिः, कोऽत्र दोष आपद्यते, इत्येवं पृष्टस्य परस्योत्तरं स्वयमेवाविष्करोति। “तत” इत्यादि। तत्राप्यभिधीयते—भवत्येवमागमाभावः, कोऽत्र विरोधः, नहि भवताऽसौ ब्रुवाणः समुपलब्धो येन दृष्ट इति विरोधः स्यादित्येवं पृष्टेन त्वया सामर्थ्यादिदमभिधानीयम्—न मया स्वयमागमस्य तत्प्रणीतत्वमुपलभ्य तस्य वक्तृत्वं प्रसाध्यते, किं तर्हि ?, भवद्भिरेवागमस्य तत्प्रणीतत्वमिष्टम्, तच्च भवतां नोपपद्यते यदि तस्य वक्तृत्वं नेष्येत। तस्मादवश्यमागमस्य तत्प्रणीतत्वमिच्छद्भिर्वक्तृत्वमपि तस्येष्टव्यमित्येवमनिष्टापादानं प्रसङ्गेन क्रियत इति॥ ३६०२॥ ॥ ३६०३॥ ३६०४॥ ३६०५॥

एवं प्रसङ्गसाधनत्वं समर्थ्य साम्प्रतं प्रकृतार्थानुरूप्यानभिधानं योजयितुमाह“यद्येव”मित्यादि।

यद्येवमीदृशो न्यायः प्रसिद्धो न्यायवादिनाम्।
प्रसङ्गसाधने धर्मः श्रद्धामात्रात्परैर्मतः॥ ३६०६॥

युक्तिप्रसिद्धतायां च स्वतन्त्रं साधनं भवेत्।
ईदृशश्च परेणेष्टस्तत्प्रणीतः स आगमः॥ ३६०७॥

सम्भारावेधतस्तस्य पुंसश्चिन्तामणेरिव।
निःसरन्ति यथाकामं कुट्यादिभ्योऽपि देशनाः॥ ३६०८॥

आधिपत्यप्रपत्त्याऽतः प्रणेता सोऽभिधीयते।
विकल्पानुगतं तस्य न वक्तृत्वं प्रसज्यते॥ ३६०९॥

वयमश्रद्दधानास्तु ये युक्तीः प्रार्थयामहे।
इतीदं गदितं तस्मात्प्रसङ्गार्थमजानता॥ ३६१०॥

य एव हि धर्मः परेणागममात्रादभ्युपेतः स एव प्रसङ्गसाधनेऽभिधीयत इति न्यायः। तत्र यदि परेण वक्तृत्वानुगमेन तत्प्रणीतत्वमागमस्येष्टं स्यात्तदा भवेद्वक्तृत्वाभावादागमस्यातत्प्रणीतत्वप्रसङ्गः, यावताऽधिपत्यमात्रेणासौ तस्यागमस्य प्रणेताऽभ्युपगतो न वक्तृत्वोपगमात्। अ तो यत्तत्प्रणीतागमोपगमेन वक्तृत्वापादनं तत्प्रसङ्गार्थानभिज्ञेन भवताऽभ्यधायि॥ ३६०६॥ ३६०७॥ ३६०८॥ ३६०९॥ ॥ ३६१०॥

यच्चेदमुक्तं कुट्यादिनिःसृतानामित्यादि। तत्राह—“कुट्यादी”त्यादि।

कुट्यादिनिःसृतानां च कस्मान्नाप्तोपदिष्टता।
तदाधिपत्यभावेन यदा तासां प्रवर्त्तनम्॥ ३६११॥

यदि हि तदाधिपत्येन तासां देशनानां न स्यात्प्रवृत्तिस्तदाऽप्तोपदिष्टता न भवेत्।

यदा तु तदाधिपत्येन ताः प्रवर्त्तन्त इत्युपगतं तदा किमिति तदुपदिष्टत्वमासां न भवेत्॥ ३६११॥

यच्चोक्तम्—विश्वासश्च न तासु स्यादिति, तत्राह—“सम्भिन्ने”त्यादि।

सम्भिन्नालापहिंसादिकुत्सितार्थविवर्जिताः।
क्रीडाशीलपिशाचादिप्रणीताः स्युः कथं च ताः॥ ३६१२॥

सम्भिन्नालापहिंसादिकुत्सितार्थोपदेशनम्।
क्रीडाशीलपिशाचादिकार्यं तासु न विद्यते॥ ३६१३॥

प्रमाणद्वयसंवादि मतं तद्विषयेऽखिले।
यस्य बाधा प्रमाणाभ्यामणीयस्यपि नेक्ष्यते॥ ३६१४॥

यच्चात्यन्तपरोक्षेपि पूर्वापरविबाधितम्।
करुणादिगुणोत्पत्तौ सर्वपुंसां प्रयोजकम्॥ ३६१५॥

सर्वाकारधरोपेतं सद्वृत्तप्रतिपादकम्।
इहामुत्र च भव्यानां विविधाभ्युदयावहम्॥ ३६१६॥

सर्वानुशयसन्दोहप्रतिपक्षाभिधायकम्।
निर्वाणनगरद्वारकपाटपुरभेदि च॥ ३६१७॥

तच्चेत्क्रीडनशीलानां रक्षसां वा वचो भवेत्।
त एव सन्तु सम्बुद्धाः सर्वतल्लक्षणस्थितेः॥ ३६१८॥

नहि नामान्तरक्लृप्तौ वस्तुरूपं निवर्त्तते।
विशिष्टेऽशिष्टसञ्ज्ञां तु कुर्वन्निन्द्यः सतां भवेत्॥ ३६१९॥

यदि हि नृत्यगीतहिंसागम्यगमनादेः तत्कर्तव्यतया तत्रोपदेशः स्यात्तदा क्रीडाद्यभिरतपिशाचादिकार्योपलम्भात्तासां तत्प्रणीतत्वं सम्भावनापथमवतरेत्। यावताप्रमाणाविरुद्धमपरस्परपराहतमार्यजनोचितं—करुणादिगुणेषु नियोजयितृ स्वर्गापवर्गफलवाहकमेतद्भगवतो वचनमित्युपपादितमेतत्। तदीदृशं कथं क्रीडनशीलस्यपिशाचादेः सम्भाव्यते। यदि नृणामपि भवता पिशाच इति नाम क्रियते। कामं क्रियतां नहि नामकरणे वस्तुस्वभावहानिः। किन्तु भवानेव विशिष्टे भगवत्यशिष्टव्यवहारं कुर्वन्सतां निन्द्य आपद्येतेति समासार्थः। अवयवार्थस्तूच्येते—सम्भिन्नालापो—गीताद्युपदेशः। हिंसा—प्राणिवधः। कुत्सितार्थः—काममिथ्याचारादिः। “प्रमाणद्वयसंवादी”ति। प्रमाणद्वयं—प्रत्यक्षानुमाने, ताभ्यां संवादस्तदविरुद्धार्थता सोऽस्यास्तीति तत्तथोक्तम्। “मत”मिति। निश्चितम्। “तद्विषयेऽखिल” इति। प्रमाणद्वयविषये। प्रमाणद्वयसंवादीति सम्बन्धः। सद्वृत्तम्—आदिमध्यान्ते कल्याणं ब्रह्मचर्यम् सर्वानुशयसन्दोहः—दृग्भावनाहेयक्लेशौघः। “तल्लक्षणस्थिते”रिति। सम्बुद्धलक्षणस्थितेः॥ ३६१२॥ ३६१३॥ ३६१४॥ ३६१५॥ ३६१६॥ ३६१७॥ ॥ ३६१८॥ ३६१९॥

यच्चोक्तम्—“अभिज्ञातमभिज्ञेयं भावनीयं च भावितम्। प्रहातव्यं च प्रहीणं च तेन बुद्धो निरुध्यत” इति, वेदस्यैव क्रीडाशीलपिशाचादिप्रणीतत्वं युक्तं सम्भावयितुम्। येन गोसवादिष्वगम्यगमनादयोऽसमाचाराः सम्प्रकाशिता इत्येतद्दर्शयन्नाह —“कामे”त्यादि।

काममिथ्यासमाचारप्राणिहिंसादिलक्षणाः।
असभ्यास्तु क्रिया येन वचसा सम्प्रकाशिताः॥ ३६२०॥

तद्भुजङ्गपिशाचादिप्रणीतमिति शङ्क्यते।
तच्चेष्टाभिरतानां हि तादृक्सम्भाव्यते वचः॥ ३६२१॥

भुजङ्गो—धूर्त्तः॥ ३६२०॥ ३६२१॥

यच्चोक्तम्—युगपच्छुच्यशुच्यादीत्यादि, तत्राह—“युगप”दित्यादि।

युगपच्छुच्यशुच्यादिस्वभावानां विरोधिनाम्।
ज्ञानमेकधिया दृष्टं न विरुद्धा विदा हि ते॥ ३६२२॥

यद्यपि भावाः केचित्परस्परं विरोधिनः, तथापि ते विदा—ज्ञानेन सहाविरुद्धा एव। युगपदेकेनापि ज्ञानेन विरुद्धानेकार्थग्रहणोपलम्भात्॥ ३६२२॥

एतदेव स्पष्टयन्नाह—“अन्योन्यपरिहारेणे”त्यादि।

अन्योन्यपरिहारेण स्थितलक्षणतोऽथवा।
एकस्मिन्न सह स्थानं विरोधस्तेषु सम्भवेत्॥ ३६२३॥

एकज्ञानावभासित्वं नतु तेषां विरोधिता।
शुच्यशुच्यहिशिख्यादेश्चक्षुषा सकृदीक्षणात्॥ ३६२४॥

द्विविध एव हि भावानां विरोधः परस्परपरिहारस्थितलक्षणता सहानवस्थानता च। तत्र ये परस्परपरिहारेण स्थितलक्षणास्तेषामैक्यं विरुद्धम्। ये तु सहानवस्था यिनस्तेषामेकदेशावस्थानं विरुद्धम्। न चैकविज्ञानभासनादेषामैक्यमेकदेशत्वं वा प्रसज्येत। तेन नैकविज्ञानभासित्वेनैषां विरोधः। दृष्टं च विरुद्धानामपि सतामेकज्ञानभासनम्। यथा शुच्यशुचिनोश्चक्षुर्ज्ञानेन परस्परपरिहारस्थितलक्षणयोरहेर्मयूरस्य च सहानवस्थायिनोर्युगपद्ग्रहणम्। आदिशब्देन छायातपादीनां ग्रहणम्। यदि तर्हि विरुद्धानामप्येकज्ञानावभासनमविरुद्धम्॥ ३६२३॥ ३६२४॥

एवं सति सुखदुःखयो रागद्वेषयोरेकज्ञानभासनं प्राप्नोतीत्याशङ्क्याह—“सुखे”त्यादि।

सुखदुःखादिभेदे तु यत्सकृन्नास्ति वेदनम्।
हेत्वभावादसान्निध्यात्तज्ज्ञेयं न विरुध्यते॥ ३६२५॥

“तज्ज्ञेय”मिति। यत्सुखादीनां सकृदवेदनं तत्कारणाभावेनानुत्पत्तेरसन्निहितत्वात्, तत् (नतु?) विरुद्धत्वादित्येवं ज्ञेयम्—“बो”द्धव्यमित्यर्थः। एतदुक्तं भवति—कारणवैकल्यादसान्निध्यं तत्र कारणं न परस्परविरोध इति॥ ३६२५॥

येषां च वास्तवो विरोधो नतु शुच्यशुच्यादिवत्कल्पनाकृतस्तेषामप्येकज्ञाने भासनमस्तीति दर्शयति—“नीलपीते”त्यादि।

नीलपीतावदातादिरूपभेदाविरोधिनः।
देशप्रकृतिभेदेपि(न?) वीक्ष्यन्ते युगपद्यतः॥ ३६२६॥

देशप्रकृतिभेदेन विरोधिन इति सम्बन्धः। तत्र देशभेदस्तदतद्देशत्वम्। प्रकृतिभेदो नीलपीतादिस्वभावत्वम्। यद्वा नीलाद्युपादानकारणत्वम्॥ ३६२६॥

यच्चोक्तम्—भूतं भवद्भविष्यतीत्यादि, तत्राह—“एकज्ञाने”त्यादि।

एकज्ञानक्षणव्याप्तनिःशेषज्ञेयमण्डलः।
प्रसाधितो हि सर्वज्ञः क्रमो नाश्रीयते ततः॥ ३६२७॥

“अत्र केचि”त्स्वयूथ्या एव विज्ञानवादिमतमुपोद्बलयन्तश्चोदयन्ति—यदि युगपदेकज्ञानक्षणेन (अ)विशेषं ज्ञेयमण्डलं व्याघा(प्य ?)ते, तदा भावनानि यत्ना(भावानामियत्ता?)परिच्छेदादानन्त्यमभ्युपेतं बाध्येत। तथा ह्येकज्ञानारूढाद्भावादन्यो भावो नास्तीत्येवं परिच्छिद्यमानाः कथमन्तवन्तो न भवेयुः। आह च— एकज्ञानसमारूढान्नान्यो भावोऽस्ति कश्चन। इयन्त इति विज्ञानादन्तवन्त इति। ततश्चक्रमपक्षे यो दोषः स युगपज्ज्ञानपक्षेऽपीति। “तदेत”दसारम्। यदि तावन्निराकारविज्ञानवादिमतमाश्रित्य चोद्यते तदा सर्वमसङ्गतम्। तथाहि—यावत्किञ्चिद्वस्तु ज्ञानं(तं?) सत्तामनुभवति। तस्य सर्वस्य सत्तामात्रेण सर्वज्ञचेतसा परिच्छेदात्तेन तद्व्याप्तमिति व्यपदिश्यते, नतु पटेनेव घटानां देशपर्यन्ततया व्याप्तेः। न चैकेन ज्ञानेन परिच्छिन्नानीत्येतावता वस्तूनामात्मस्वभावहानिः। येन तान्येकज्ञानपरिच्छेदवशादनन्तत्वमात्मस्वभावं जह्युः। नहि नीलपीतादयो भावा बहवो युगपच्चित्रास्तरणादिष्वेकज्ञानक्षणावसीयमानतनवोऽनेकत्वं जहति। नापि परस्परमन्वाविशन्ति। अपितु यथैव सन्ति तथैव ज्ञानेन परिच्छिद्यन्ते। नान्येन रूपेण। तद्वत्सत्त्वभाजनलोकोऽपि यथैव सत्तामनुभवति तथैव सर्वज्ञचेतसा गृह्यते। अपर्यन्तश्च दिक्षु विदिक्षु सत्त्वादिलोकोऽवस्थित इत्यपर्यन्त(त)या तस्य ग्रहणं नतु पर्यन्तवर्त्तितयेति कुतोऽन्तवत्त्वप्रसङ्गः। “स्यादेत”त्सकलग्रहणाभ्युपगमे कथं पर्यन्तग्रहणं न स्यादिति। “नैतदस्ति”। कोह्यत्र प्रतिबन्धो यत्र साकल्यग्रहणं तत्रावश्यं पर्यन्तग्रहणमिति। तथाहि—यावन्तस्ते सन्ति भावास्तेषां मध्ये नैकोऽपि सर्वज्ञज्ञानाविदितस्वरूपः सत्तामनुभवति। अपितु सर्व एव सर्वज्ञचेतसा विदितस्वरूपा एवोदयन्ते व्ययन्ते च, नैकोऽपि परित्यक्त इत्ययं सकलग्रहणस्यार्थः। इयमेव च तेषामेकज्ञानेन व्याप्तिः। अन्यथा सकलशब्दवाच्यत्वमपि तेषां नाङ्गीकर्त्तव्यं माभूदन्तवत्वप्रसङ्ग इति यत्किञ्चिदेतत्। “यच्चोक्त”मेकज्ञानारूढाद्भावादन्यो नास्तीत्येवं परिच्छेदात्कथमन्तवन्तो न भवेयुरिति, “तदप्यसम्यक्”। नहि निराकारज्ञानवादिपक्षे ज्ञानात्मनि भावानामारोहणमस्ति। अपि तु सत्तामात्रेण तेन निवेद्यन्ते। नापि भावानां ज्ञानापरिच्छेद्यस्वलभावतयाऽनन्तत्वमभ्युपेतम्, येन ज्ञायमानतया तेषामन्तवत्त्वं प्रसज्येत। किन्तु देशवितानापर्यन्ततयाऽनन्तो भाजनलोकः। सत्त्वलोकस्तु सङ्ख्यानापर्यन्ततयाऽपि। न च देशावष्टम्भाय पर्यन्तत्वे(ऽ) सति ग्राह्यविरोधः कश्चिद्येनाग्राह्यता भवेत्। यदि पर्यन्ततया न सङ्गृह्णाति कथं सर्वज्ञः स्यादिति चेदत एव। यत एवासौ पर्यन्ततया न गृह्णाति तत एव सर्वज्ञो भवति। अन्यथाऽनन्तं वस्त्वन्तवत्त्वेन गृह्णन् भ्रान्तो भवेत्। तथाहि—यदस्ति तदस्तित्वेन यन्नास्ति तन्नास्तित्वेन गृह्णन्सर्वविदुच्यते। न च सत्त्वभाजनलोकस्य पर्यन्तोऽस्ति। तस्मात्पर्यन्तं गमनकृत(मविद्यमान)मविद्यमानतया गृह्णन्सर्वज्ञज्ञानपरिच्छेदकृतं तु पर्यन्तं विद्यमानं विद्यमानतया पश्यन्कथमसर्वज्ञो नाम। “स्यादेतत्”—निराकारज्ञानपक्षे विषयग्रहणमनुपपन्नं सर्वत्राविशिष्टत्वात्तस्य। तेन प्रतिकर्म(पन्न?)विभागानुपपत्तेरतो निराकारपक्षोऽनुपन्यसनीय एव। सर्वदा तस्य द्र(दु?)ष्टत्वादिति। “तदेतदसम्यक्”। नहि सर्वज्ञज्ञानस्य प्रतिकर्म(पन्न?)विभाग इष्यते, तस्य सर्ववस्तुविषयत्वात्, यतो न तन्नीलस्यैव संवेदनं पीतस्यैव वा, अपि तु सर्वस्यैवेतीष्टम्। यस्य ह्यर्वाग्दर्शनस्य ज्ञानं प्रतिनियतार्थविषयं तं प्रति निराकारज्ञानपक्षे सर्वत्राविशेषात्प्रतिपन्नविभागानुपपत्तिर्दोष उच्यते। तथाहि नीलस्येदं संवेदनं न पीतस्येति नियमाभावात् सर्वस्य पृथग्जनस्य सर्वज्ञत्वप्रसङ्गापादनं क्रियते।सर्वज्ञस्य तु तदिष्टमेवेति कस्य किमनिष्टमापद्यताम्। तेन सर्वज्ञावस्थायां निराकारं योगबलेनोत्पद्यमानमविरुद्धमेव। “विभागेन” हेयोपादेयवस्तुपरिज्ञानं न स्यादिति चेत्। “न”। यदि हि युगपदनन्ते वस्तुनि प्रतिभासमाने हेयोपादेयवस्तुनः प्रतिभासविरोधः स्यात्, अविरोधे चान्यैः प्रतिभासमानस्य तस्य हेयोपादेयवस्तुनः तत्त्वप्रच्युतिः स्यात्, प्रच्युत(त)त्त्वस्यापि विभागेनावभास(न)मेव वा न स्यात्, वि(नि?)रुक्तावभासनस्यापि यदि परिच्छेदकः शुद्धलौकिको विमर्शप्रत्ययः पृष्ठभावी नोत्पद्यते तदैतत्सर्वं स्याद्वक्तुम्। यावता विश्वस्मिन्जगत्यवभासमाने तदपि हेयोपादेयं वस्त्वविरुद्धप्रतिभासमप्रच्युतात्मतत्त्वं निरुक्तमेवावभासते। पश्चाच्च सर्वज्ञज्ञानबलोत्पन्नशुद्धलौकिकप्रत्यवमर्शप्रत्ययेन परिच्छिद्यत एवेति कथं विभागेन तदपरिज्ञानं नाम। तदेवं निराकारज्ञानपक्षे तावदचोद्यमेतदिति प्रतिपादितम्।

“अथ” साकारज्ञानवादपक्षे चोद्यते। तत्राप्यविरोध एव। तथाहि—यथैव तदनन्तं वस्त्वनन्ताकारानुगतमात्मसत्त्वं सत्ता मनुभवति तथैव तत्सार्वज्ञं चेतोऽपरिमितवस्तुगताकारोपग्रहेणोत्पद्यमानमविरुद्धमेव। एकस्य ज्ञानस्यानेकवस्त्वाकारोपग्रहेणोत्पत्त्यविरोधात्। एकस्यानेकाकारविरोध एवेति चेन्न। आकाराणामसत्यत्वात्। यदि ह्येकस्य पारमार्थिका आकारा भवेयुस्तदा स्याद्विचित्रत्वविरोधः, यावता अस्य(स्व?)भूता एवाकारा इतीष्टम्। यद्येवं भ्रान्तज्ञानसङिगत्वा(त्) भ्रान्तः प्राप्नोति सर्वज्ञ इति चेन्न। यथाभूतपरिज्ञानाददोष एषः। यदि ह्यसत्यं सत्यत्वेन गृह्णीयात्तदा भ्रान्तः स्यात्, यदा त्वसत्यभूतानाकारानसत्यत्वेनैव जानाति तदा कथं भ्रान्तो भवेत्। अथाव्यतिरिक्तज्ञानारूढाकारग्रहणे सत्यर्थेषु दृष्टादिव्यवहारं कुर्वन्कथं (अ)भ्रान्त इति चेन्न। सम्यगुपायपरिज्ञानात्। यदि ह्युचितं ग्रहणोपायमपास्योपायान्तरेणामुख्येनार्थं गृह्णीयात्तदा भ्रान्तो भवेत्। यावता साकारज्ञानवादिपक्षे ज्ञानस्याकारानुभवव्यतिरेकेण नान्योऽर्थग्रहणव्यापारोऽस्ति। तत्कथमुचितेन ग्रहणव्यापारेणार्थं गृह्णन्भ्रान्तो भवेत्। अतो ज्ञेयवदेकस्यापि ज्ञानस्यानन्तवस्तुग ताकारोपग्रहेणोत्पत्तेरनन्तं वस्तु तेन व्याप्तमित्युच्यते। येनैव चात्मना ज्ञानात्मनि भावाः समारोहन्ति—तेनैव तत्पृष्ठभाविपरामर्शचेतसा परिच्छिद्यन्ते नच सार्वज्ञचेतसि परिमितभेदानुगताः समारोहन्ति भावाः। किं तर्हि ?। यावत्किञ्चिदस्तित्वमनुभवति तत्सर्वमेव समारोहति। सर्वस्यैव सर्वज्ञानोपादानं प्रत्यालम्बनभावेनाप्रतिबद्धशक्तित्वात्। मनोविज्ञानस्य च सर्वार्थविषयत्वात्। अतः सार्वज्ञचेतसः(अ)परिमितवस्त्वाकारोपग्रहणेऽननुपपत्तेः, पृष्ठलब्धेन च शुद्धलौकिकेन परामर्शप्रत्ययेन देशपर्यन्तवर्त्तित्वेनापरिच्छेदात्, कथमियन्त इति परिच्छेदो भवेत्, येनान्तवत्त्वं स्यात्। यदि नाम प्रतिभास(मा)नादन्यन्नास्तीत्येवं परामर्शो जातस्तथाऽपि नान्तवत्त्वप्रसङ्गः। तथाहि—यदि प्रतिभासमानमन्तवदेव निर्विकल्पसर्वज्ञचेतसि प्रतिभासेत तदा तत्पृष्ठलब्धेन परामर्शचेतसा अनन्तत्वं भावानां परिच्छिद्येत। तद्व्यवच्छेदाच्चानन्त(त्व)हानिर्भवेत्। यावता परिभासमानं वस्तु सर्वज्ञचेतस्यनन्तमेव प्रतिभासते सर्व(ज्ञ)स्याप्रत्तिहतशक्तित्वात्। तस्मादन्यदप्रतिभासमानमन्तवदेव। तस्यैव च परामर्शचेतसा व्यवच्छेदः क्रियत इति सुतरामेव भवताऽनन्तत्वं भावानामुपपादितमिति यत्किञ्चिदेतत्। ये तु पुनः सर्वमेव योगिविज्ञानमनालम्बनं सत्यस्वप्नदर्शनवद्वस्तुसंवादितया प्रमाणमिति प्रतिपन्नास्तान्प्रत्यन्तवत्त्वचोद्यं दूरीकृतावकाशमेवेत्यलं बहुना॥ ३६२७॥

यैः स्वेच्छासर्वज्ञो वर्ण्यते तन्मतेनाप्यसौ न विरुध्यत इत्यादर्शयन्नाह—“यद्य”दित्यादि।

यद्यदिच्छति बोद्धुं वा तत्तद्वेत्ति नियोगतः।
शक्तिरेवंविधा तस्य प्रहीणाचरणो ह्यसौ॥ ३६२८॥

युगपत्परिपाट्या वा स्वेच्छया प्रतिपद्यते।
लब्धज्ञानं च सित्त्वो(?)हि सक्षणैर्ह्यादिभिः प्रभुः ३६२९

“यद्वे”त्यादिना क्रमज्ञानपक्षेऽप्यविरोधमाह।

यद्वा षोडशभिश्चित्तैश्चतुःसत्यस्वभावकम्।
क्रमेण वेत्ति विज्ञेयं सर्वं सर्वविदित्यतः॥ ३६३०॥

तत्र तादृशि विज्ञाने क्रमेण भवति प्रभोः।
लवमात्रोऽपि नापेक्ष्यः किमङ्गाब्दशतावधिः॥ ३६३१॥

“षोडशभिश्चित्तैरिति”। क्षान्तिज्ञानैः। अष्टौ क्षान्तयो दुःखधर्मज्ञानक्षान्त्यादयः, अष्टौ च ज्ञानानि दुःखधर्मज्ञानादीनीति “षोडशभिन्नोऽयं सत्याभिसमय” इति वचनात्।“लवमात्रोऽपी”ति। काल(कला?)पर्यन्तः क्षणः, विंशक्षणशतमेकस्तत्क्षणः, षष्ठितत्क्षणा एको लव इति समयः। अङ्गेत्यामन्त्रणे। अब्द इति संवत्सरपर्यायः ॥ ३६३०॥ ३६३१॥

स्वभावेनाविभक्तेनेत्यादावाह—“स्वभावेने”त्यादि।

स्वभावेनाविभक्तेन यः सर्वमवबुध्यते।
स्वरूपाण्येव भावानां सर्वेषां सोऽवबुध्यते॥ ३६३२॥

ननु योगिनामनाश्रवं ज्ञानं शास्त्रे सामान्यविषयमेवोपवर्ण्यते, नतु स्वलक्षणविषयम्, तत्कथं सामान्यविषयेण योगिचेतसा भावानां स्वरूपाण्येव च बुध्यन्त इत्यत आह—“सा(स्वा?)त्मके”त्यादि।

सा(स्वा)त्मकाक्षणिकादिभ्यो यद्व्यावृत्तं स्वलक्षणम्।
शमोत्प्रेक्षानिमित्तत्वात्सामान्यं तदिहोच्यते॥ ३६३३॥

तद्ग्राहकं च विज्ञानं भावनाबलभावि यत्।
योगीशानामभिव्यक्तं तत्स्वलक्षणगोचरम्॥ ३६३४॥

तदेव हि स्वलक्षणं विजातीयव्यावृत्तमभिन्नाकारप्रत्ययहेतुतया शास्त्रे सामान्यलक्षणमित्युच्यते, अतस्तद्ग्राहकं योगिज्ञानं भावनाबलेन स्फुटप्रतिभासमुत्पद्यमानंस्वलक्षणगोचरमेवेत्यविरुद्धमेव। तद्यत्सामान्यगोचरं तत्कथं (न) स्वलक्षणग्राहि तद्भवतीति। यचोक्तम्—तदेकाकारविज्ञानमित्यादि, तत्सर्वमेतेनैव प्रत्युक्तम्, स्वलक्षणविषयत्वाद्योगिज्ञानस्येति॥ ३६३३॥ ३६३४॥

अथ यत्तत्सांवृत्तं तत्त्वान्यत्वादिभिराकारैरनिर्देश्यं सामान्यमस्माभिरुपवर्णितम्, यच्च परैस्तैर्थिकैः पारमार्थिकमेव प्रकल्पितम्, तद्ग्राहित्वेन योगिज्ञानस्य स्वलक्षणविषयत्वं साध्यते, तदसिद्धमित्यादर्शयन्नाह—“तत्त्वे”त्यादि।

तत्त्वान्यत्वाद्यनिर्देश्यं यत्परैश्च प्रकल्पितम्।
सामान्यं तस्य नैतेन ग्रहणं योगिचेतसा॥ ३६३५॥

आदिशब्देन नित्यत्वादिभिरनिर्देश्यमिति ग्रहीतव्यम्॥ ३६३५॥

कस्मात्तेन तस्य ग्रहणं नास्तीत्याह—“अविकल्प”मित्यादि।

अविकल्पमविभ्रान्तं तद्योगीश्वरमानसम्।
विकल्पविभ्रमाक्रान्तं तद्ग्रहे च प्रसज्यते॥ ३६३६॥

योगिज्ञानमविकल्पाभ्रान्ततया प्रत्यक्षं प्रमाणमिष्यते। यदि च तद्यथोक्तसामान्यविषयं स्यात्तदा सांवृतार्थविषयत्वाद्विकल्पाक्रान्तं प्राप्नोति। परपरिकल्पितालीकसामान्यविषयत्वाद्विभ्रमाक्रान्तं च प्रसज्यते। यद्वा—प्रत्येकमुभयविषयत्वे दोषद्वयमापतति॥ ३६३६॥

एवमध्यारोपितालीकार्थविषयत्वाद्विकल्पविभ्रमाक्रान्तं तत्प्रसज्यत इति प्रतिपादितम्। इतश्च विकल्पविभ्रमाक्रान्तं तद्ग्राहि प्रसज्यत इति भङ्ग्यन्तरेण प्रतिपादयन्नाह—“विकल्पात्मा चे”त्यादि।

विकल्पात्मा च सामान्यमवाच्यं यत्प्रकीर्त्तितम्।
नित्यानुगतिरूपं तन्नीरूपं प्रतिपादितम्॥ ३६३७॥

यदेतदनन्तरोक्तमवाच्यं—तत्त्वान्यत्वाद्यनिर्देश्यं सामान्यमुक्तम्, तद्विकल्पस्यात्मेति यद्यस्मात्प्रकीर्त्तितम्—प्रतिपादितमन्यापोहे। तस्मात्तद्ग्रहे विकल्पविभ्रमाक्रान्तं प्रसज्यत इति प्रकृतेन सम्बन्धः। तथाहि—विकल्पात्मतया सामान्यस्य तद्ग्राहियोगिज्ञानं विकल्पात्मकमेव स्यात्। तादात्म्येनैव तस्य ग्रहणात्। विकल्पस्य च प्रकृत्या स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृ़त्तेर्विपर्ययस्तत्त्वमिति विभ्रमाक्रान्तं च प्रसज्येत। यच्च परपरिकल्पितं सामान्यं नित्यानुगतिरूपं तदपि सामान्यपरीक्षायां नीरूपस्वभावमेव प्रतिपादितमिति तद्ग्रहे स्फुटतरमेव विकल्पविभ्रमाक्रान्तत्वमासज्यते॥ ३६३७॥

यच्चोक्तम्—सहेतु सफलं कर्मेत्यादि, तत्राह—“सहेत्वि”त्यादि।

सहेतु सफलं कर्म ज्ञानेनालौकिकेन यः।
समाधिजेन जानाति स सर्वज्ञोऽपदिश्यते॥ ३६३८॥

पुरस्तादनुमानेन तस्य सत्ता प्रसाधिता।
प्रमाणमस्य सद्भावे तदस्तीत्यस्ति तादृशः॥ ३६३९॥

युगपत्परिपाट्या चेत्यादावाह—“युगप”दित्यादि।

युगपत्परिपाट्या वा ज्ञानं कार्यात्प्रकाशितात्।
सामर्थ्यमपि तस्यास्ति देशनां कुरुते यदा॥ ३६४०॥

सुबोधम्॥ ३६४०॥

लब्धासाधारणोपाय इत्यादावाह—“स्वभ्यस्तधर्मनैरात्म्ये”त्यादि।

स्वभ्यस्तधर्मनैरात्म्या यस्येयं देशनाऽमला।
साधिता सर्वशास्त्रेषु(ण?) सर्वमानैरबाधिता॥ ३६४१॥

संसार्यनुचितज्ञाना केशवादेरगोचरः।
शिरोभिरर्च्यते शक्त्या याचातीव मनीषिभीः॥ ३६४२॥

समस्तदुरितारातिवर्गभङ्गविधायिनी।
चित्राभ्युदयनिष्पत्तिनिर्वाणप्राप्तिकारणम्॥ ३६४३॥

लब्धासाधारणोपायोऽशेषपुंसां विशेष(लक्ष?)णः।
स एकः सर्वविन्नाथ इत्येतत्सप्रमाणकम्॥ ३६४४॥

“सर्वशास्त्रेणे”ति। सकलेनामुना तत्त्वसङ्ग्रहेण। “संसार्यनुचितज्ञाने”ति। संसारिणामनुचितमसहजं संसार्यनुचितं तत्तादृशं ज्ञानं यस्यां देशनायां सा तथोक्ता।“केशवादेरगोचर” इति। स्वलिङ्गेनैव देशनासमानाधिकरणमेतत्। “समस्तदुरितारातिवर्गभङ्गविधायिनी”ति। दुरितान्येवारातयस्तेषां वर्गः समूहस्तस्य भङ्गं विधातुं शीलमस्या इति विग्रहः। “चित्राभ्युदयनिष्पत्तिनिर्वाणप्राप्तिकारण”मिति। कारणशब्दः प्रत्येकमभिसम्बध्यते। चित्राभ्युदयनिष्पत्तिकारणं निर्वाणप्राप्तिकारणं चेत्यर्थः॥ ३६४१॥ ३६४२॥ ३६४३॥ ३६४४॥

इत्थं यदेत्यत्राह—“इत्थ”मित्यादि।

इत्थं यदा च सर्वज्ञः कश्चिदेवोपपद्यते।
धर्माद्यधिगमे हेतुः पौरुषेयं तदा वचः॥ ३६४५॥

“कश्चिदेवे”ति। सुगत एव, न कपिलादिः। यथोक्तं प्रागित्यभिप्रायः। यश्चनिराकारसाकारज्ञानविकल्पेन दोष उक्तस्तथा(त्रा?)पि पूर्वमेवास्माभिः प्रतिविहितम्। तत्तु(त्र?)चोक्तम्— सनिर्भासमनिर्भासमन्ये निर्भासमेव च। विजानन्ति न विज्ञानबाह्यमर्थं कथञ्चन॥ इति॥ ३६४५॥

तत्कथमुभयपक्षाश्रयणेऽपि दोषाप्रसङ्ग उच्यत इत्येतदाशङ्क्याह—(“निराकारा”दीति)।

निराकारादिचिन्ता तु सर्वज्ञे नोपयुज्यते।
यथाहि भवतां ज्ञानं क्वचिदर्थे तथा परम्॥ ३६४६॥

इत्यतीन्द्रियदर्शिपुरुषपरीक्षा।

शान्तरक्षितविरचिस्तत्वसङ्ग्रहः समाप्तः।

येयमस्माभिर्विज्ञानवादस्थितैर्निराकारचिन्ता प्रागकारि सा साम्प्रतं बाह्यार्थाभिनिविष्टान्भवतो मीमांसकान्प्रति बहिरर्थमभ्युपेत्य सर्वज्ञे प्रतिपाद्यमाने भवतां बहिरर्थवादिनां कथमपि नोपयुज्यत एव कर्तुम्। कथमित्याह—“यथाही”त्यादि। अवश्यं हि भवद्भिर्बहिरर्थस्य साकारेण वा निराकारेण वा ज्ञाने ग्रहणमुपवर्णनीयम्। अन्यथा बहिरर्थोच्छेदः स्यात्। ततश्च यथा येन प्रकारेण भवतां क्वचिदर्थे ज्ञानं प्रवर्त्तते तथा तेनैवाकारेण परम्—उत्कृष्टम्, सार्वज्ञं (इति) सम्बध्यते, प्रवर्त्तिष्यते इत्यचोद्यमेतदिति॥ ३६४६॥

इति कुशलमदभ्रं यन्मयाप्रापि शुभ्रन्निरुपमजिनलक्ष्मीसद्मतामेत्य नित्यम्।
सकलजनमनांसि प्रीणयन् दीप्तकान्तिःसुगतकमलशीलस्तेन सर्वोऽस्तु लोकः॥

इत्यतीन्द्रियदर्शिपुरुषपरीक्षा।
कमलशीलविरचिता पञ्जिका समाप्ता।


  1. इत आरभ्य—३२६२ कारिकाव्याख्यानं यावत् ग्रन्थो भूयान् विगलितः। आदर्शपुस्तक एव च प्रच्युतिचिह्नमात्रं विरचितम्। ↩︎