“एव”मित्यादिना—भूयः स्वतन्त्रश्रुतिनिःसङ्गत्वमेव प्रकारान्तरेण समर्थयते।
एवं च पौरुषेयत्वे वेदानामुपपादिते।
स्वतःप्रामाण्यमप्येषां प्रतिक्षिप्तमयत्नतः॥ २८११॥
तथाहि श्रुतेः प्रामाण्यं यथा स्यादिति मन्यमानाः सामान्येन सर्वप्रमाणानां स्वतःप्रामाण्यमप्रामाण्यं तु परत इत्याहुर्जैमिनीयाः। परतः किल प्रामाण्येऽनवस्थादिदोषप्रसङ्गात्प्रमाणेतरव्यवस्थोच्छेदः स्यात्। तथाहि चत्वारः पक्षाः सम्भवन्ति—कदाचिदुभेऽपि प्रामाण्याप्रामाण्ये स्वत एवेति प्रथमः, कदाचिदपरतएवेति द्वितीयः, प्रामाण्यं परतोऽप्रामाण्यं तु स्वत एवेति तृतीयः, एतद्विपर्ययश्चतुर्थः। तत्र न तावदाद्यः पक्षः, तथाहि—एकव्यक्त्याधारं वा तदुभयं स्याद्व्यक्तिभेदेन वा। न तावदेकस्यां व्यक्तौ परस्परपरिहारस्थितलक्षणयोः प्रामाण्येतरधर्मयोः सम्भवः, विरोधात्। नापि व्यक्तिभेदेन, नियमकारणाभावान्निश्चयहेत्वसम्भवाच्चाऽसङ्कीर्णप्रमाणाप्रमाणव्यवस्थानाभावप्रसङ्गत्। तथाहि द्वयोरपि स्वातन्त्र्यादिदं प्रमाणमेवेति नियमो न स्यात्। बाधसामान्येन च द्वयोरपि तिरोहितभेदत्वादन्यस्य चावधारणकारणस्यानभ्युपगमाद्विभागेनापरिज्ञानादिदं प्रमाणमप्रमाणमिति व्यवस्था न स्यात्। नापि द्वितीयः पक्षः, प्रागुभयस्वभावरहितस्य ज्ञानस्य निःस्वभावत्वप्रसङ्गात्। नहि परस्परपरिहारस्थितलक्षणयोः प्रामाण्येतरयोरभावे रूपान्तरमस्य शक्यमवधारयितुमित्यसंशयमस्यानुपाख्यत्वमापद्यते। आह च— स्वतस्तावद्द्वयं नास्ति विरोधात्परतो नच। निःस्वभावत्वमेवं हि ज्ञानरूपे प्रसज्यते॥ विज्ञानव्यक्तिभेदेन भवेच्चेदविरुद्धता। तथाऽप्यन्यानपेक्षत्वे किं क्व नेति निरूप्यते॥ इति। नापि तृतीयः पक्षोऽनवस्थादोषात्। तथाहि—न तावत्परतोऽप्रमाणभूतात्प्रामाण्यमाशंसनीयम्, तस्यस्वयमेवाप्रमाणत्वात्। नापि प्रमाणभूतात्, तस्यापि तुल्यपर्यनुयोगेन परतःप्रामाण्याशंसायामनवस्थाप्रसङ्गात्। ततश्चैकप्रमाणव्यक्तिव्यवस्थापनाय प्रमाणपरम्परामनुसरतः सकलमेव पुरुषायुषमुपयुज्यते। तस्माद्गत्यन्तरासम्भवात्स्वतः सर्वप्रमाणानां प्रामाण्यम्, परतोऽप्रामाण्यमिति गृह्यताम्। तत्र प्रयोगः—ये यद्भावनियतास्ते तं प्रति न परमपेक्षन्ते, यथाऽऽकाशममूर्त्तत्वाय, प्रमाणभावनियताश्च विवादास्पदीभूता विज्ञानादय इति व्यापकविरुद्धोपलब्धिः। न चास्याऽनैकान्तिकत्वम्, स्वतोऽसम्भविनो धर्मस्य परेणाधातुमशक्यत्वादाकाशस्येव मूर्त्तत्वं यदाह— नहि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यत इति॥ २८११॥
अत्र “स्वत” इत्यादिना तुच्छं प्रतिज्ञार्थं सम्भावयंस्तद्विचारद्वारेण दूषणमारभते।
स्वतःसर्वप्रमाणानां प्रामाण्यमिति गृह्यताम्।
इत्येतस्य च वाक्यस्य भवद्भिः कोऽर्थ इष्यते॥ २८१२॥
कोऽर्थ इष्यत इति प्रश्ने पर आह—“मेयबोधादिक” इत्यादि।
मेयबोधादिके शक्तिस्तेषां स्वाभाविकी स्थिता।
नहि स्वतोऽसती शक्तिः कर्तुमन्येन शक्यते॥ २८१३॥
यदि ज्ञानं प्रमाणं तदा तस्य मेयबोधे—प्रमेयपरिच्छेदे स्वाभाविकी शक्तिः, अर्थपरिच्छेदकत्वाज्ज्ञानस्य। अथ चक्षुरादीनि तदा तेषां यथार्थज्ञानजनने, चोदनायाअतीन्द्रियार्थाधिइगमे स्वत एव शक्तिरित्येतदादिशब्देन सङ्गृहीतम्। अत्रैव तावत्पर उपपत्तिमाह—“नही”त्यादि॥ २८१३॥
एतदेव दर्शयन्नाह—“अनपेक्षत्वमेवैक”मित्यादि।
अनपेक्षत्वमेवैकं प्रामाण्यस्य निबन्धनम्।
तदेव हि विनाश्येत सापेक्षत्वे समाश्रिते॥ २८१४॥
“प्रामाण्यस्ते”ति। प्रामाण्यव्यवस्थानस्य। “तदेव ही”ति। प्रामाण्यम्। व्यापकनिवृत्तौ व्याप्यस्यानवस्थानात्॥ २८१४॥
स्यादेत्—विनाश्यतां नाम को दोष इत्याह—“को ही”त्यादि।
को हि मूलहरं पक्षं न्यायवाद्यध्यवस्यति।
येन तत्सिध्द्युपायोऽपि स्वोक्त्यैवास्य विनश्यति॥ २८१५॥
मूलम्—प्रामाण्यम्, तच्च सापेक्षत्वेनापह्रियते, तस्य तद्व्यापकविरुद्धत्वात्। तथाहि—निरपेक्षत्वेन प्रामाण्यं व्याप्तम्, तच्च कथं स्वव्यापकविरुद्धे सापेक्षत्वे सत्यवस्थां लभेत। “येने”त्यादिना प्रामाण्यस्यानपेक्षत्वेन व्याप्तिं दर्शयति—“येने”ति। यस्मादित्यर्थः॥ २८१५॥
कथं विनश्यतीत्याह—“सापेक्षं ही”ति।
सापेक्षं हि प्रमाणत्वं न व्यस्थाप्यते क्वचित्।
अनवस्थितहेतुश्च कः साध्यं साधयिष्यति॥ २८१६॥
न व्यवस्थाप्यत इति। अनवस्था स्यात्। भवत्वनवस्थादोष इत्याह—“अनवस्थि”त इत्यादि। अनवस्थितोऽपरिनिश्चितो हेतुर्यस्य वादिनः स तथोक्तः। एतदुक्तं भवति—ज्ञातो हि ज्ञापको व्याप्यमर्थं ज्ञापयति, न सत्तामात्रेण, ततश्च वादी स्वयमेव तावदप्रतिपन्नः कथं परप्रतिपादनाय साधनमुपादास्यते॥ २८१६॥
“इत्येव”मित्यादिना दूषणमारभते।
इत्येवमिष्यतेऽर्थश्चेन्ननु चाव्यतिरेकिणी।
शक्तिः सर्वपदार्थानां पुरस्तादुपपादिता॥ २८१७॥
इष्टकार्यसमर्थं हि स्वरूपं शक्तिरुच्यते।
तस्य भावात्मताभावे भावो न स्यात्सकारकः॥ २८१८॥
तत्र स्वाभविकीति कोऽर्थोऽभिप्रेतः, किं नित्यत्वेन निर्हेतुकत्वात्स्वभाविकी, आहोस्विदनित्याऽपि सती स्वहेतुभ्यो ज्ञानानां स्वभावनिष्पत्तिकाल एव भवति न तूत्तरकालं हेत्वन्तरेणाधीयत इति कृत्वा स्वाभाविकीति विकल्पद्वयम्। तत्र न तावदाद्यो विकल्पः, तथाहि—सा व्यतिरिक्ता वा भवेदव्यतिरिक्ता वा यद्वोभयानुभयस्वभावेति चत्वारः पक्षाः। तत्र न तावदाद्यः, सम्बन्धासिद्धेः पदार्थस्याकारकत्वप्रसङ्गाच्चेत्यादिना सर्वपदार्थानामव्यतिरिक्तैव शक्तिरिति बहुशः प्रतिपादितत्वात्। एतदेव सूचयन्नाह—इष्टेत्यादि। कार्यकरणसमर्थो हि स्वभावशक्तिस्तस्य च स्वभावस्य भावात्मताया अभावे सति स भावः कारको न स्यात्। ततश्चास्यावस्तुत्वप्रसङ्ग इति भावः॥ २८१७॥ २८१८॥
अथाव्यतिरिक्तेति पक्षस्तदा स्वाभाविकी न स्यात्, अर्थस्य हेतुबलभावित्वेनानित्यत्वात्तदव्यतिरिक्ताया अपि शक्तेर्हेतुबलभावित्वेनानित्यताप्रसङ्गत्। अन्यथा हि भिन्नयोगक्षेमत्वादभेदो न स्यात्। एतदेवाह—“सा चानित्येदृशी”त्यादि।
सा चानित्येदृशी शक्तिः स्वहेतुबलभाविनी।
स्वाभाविकी प्रमाणानां युष्माभिः कथमिष्यते॥ २८१९॥
किञ्च प्रमाणानां शक्त्यव्यतिरेकाच्छक्तिस्वरूपवन्नित्यत्वाहेतुत्वप्रसङ्ग इति दर्शयन्नाह—“स्वाभाविक्यां ही”त्यादि।
स्वाभाविक्यां हि शक्तौ स्यान्नित्यता हेतुताऽथवा।
प्रमाणानां च तादात्म्यान्नित्यताहेतुते ध्रुवम्॥ २८२०॥
ततश्च को दोष इत्याह—“सदाभाव” इत्यादि।
सदाभावोऽथवाऽभावोऽहेतुत्वेऽप्यनपेक्षणात्।
अतः कार्यं तदायत्तं कादाचित्कं न युज्यते॥ २८२१॥
दृश्यते च प्रमाणानां स्वरूपं कार्यमेव च।
कादाचित्कमतः शक्तिर्व्यक्ता स्वाभाविकी न वः॥ २८२२॥
अहेतुत्वे सदाभावोऽभावो वा। नित्यत्वे तु सदाभावोऽनु(क्तोऽपि) सिद्ध एवेति नोक्तः। अपरमपि प्रसङ्गमाह—“अत” इत्यादि। “तदायत्त”मिति। प्रमाणायत्तम्। एतेन यथायोगं प्रत्यक्षानुमानविरोधौ प्रतिज्ञाया दर्शितौ। तथाहि प्रमाणानां स्वरूपं कादाचित्कं प्रत्यक्षत एव सिद्धम्। अनुमानतोऽपि कार्यक्रमतोऽनुमितम्, ततश्च तस्य नित्यत्वाभ्युपगमः स्फुटतरमेव प्रमाणाभ्यां बाध्यत इति॥ २८२१॥ २८२२॥
“प्रमाणाना”मित्यादिना परस्य यथोक्तप्रसङ्गद्वयसमर्थ(समाधा ?)नोपायमाशङ्कते।
प्रमाणानां स्वरूपं चेद्व्यञ्जकैर्व्यक्तिमश्रुते।
प्रत्ययान्तरसापेक्षं कार्यमारभते च तत्॥ २८२३॥
यदा हि व्यञ्जकैः प्रमाणस्वरूपं व्यज्यते तदा तदुपलभ्यते नान्यदेति। तेन सत्यपि नित्यत्वे न सर्वदोपलब्धिप्रसङ्ग। नापि कार्यस्य सदा सद्भावप्रसङ्गः, कारणान्तरापेक्षस्य कार्यारम्भकत्वाभ्युपगमात्, न केवलमस्य। तेन कारणान्तरसन्निधानासन्निधानाभ्यां कार्यस्य कादाचित्कता भवतीति भावः॥ २८२३॥
“व्यक्ती”त्यादिना प्रतिविधत्ते।
व्यक्तिहेत्वन्तरापेक्षे व्यस्ते नित्यस्य वस्तुनः।
तस्मात्तद्रूपकार्याणां नित्यां स्यादुपलम्भनम्॥ २८२४॥
व्यक्तिश्च हेत्वन्तरापेक्षा चेति व्यक्तिहेत्वन्तरापेक्षे। पूर्वं हि श्रुतिपरीक्षायां विस्तरेण व्यक्तिर्नित्यस्य निरस्ता। हेत्वन्तरापेक्षा चानुपकार्यस्यायुक्तेति प्रतिपादितम्।“तद्रूपकार्याणा”मिति। तेषाम्—प्रमाणानाम्। रूपकार्याणि—रूपं—स्वभावः। उभयपक्षस्तु विरोधाद्याथोक्तपक्षद्वयभाविदोषप्रसङ्गान्न युक्तः। नाप्यनुभयपक्षः, परस्परव्यवच्छेदरूपाणामेकनिषेधस्यापरविधिनान्तरीयकत्वान्न तदानीमेव विहितस्य निषेधो युक्तः, एकत्र विधिप्रतिषेधयोर्विरोधादिति भावः। स्फुटतरत्वाद्दूषणस्यैतन्नोक्तम्॥ २८२४॥
इदानीमन्तिमं पक्षत्रयमभ्युपगम्य दूषणमाह—“पृथक्त्व”मित्यादि।
पृथक्त्वमुभयात्मत्वं वाऽस्तु शक्तेस्तथाऽपि तत्।
ज्ञानं नित्यं भवेदेव नित्यशक्त्या हि सङ्गतम्॥ २८२५॥
पृथक्त्वं—व्यतिरेकपक्षः। उभयात्मकग्रहणमुपलक्षणम्। अनुभयात्मकपक्षाङ्गीकारोऽपि द्रष्टव्यः। यद्वा—तस्याप्युभयरूपप्रतिषेधस्वभावतयोभयात्मकत्वमस्त्येव। अस्मिन्पक्षत्रयेऽपि नित्यया शक्त्या ज्ञानस्य सम्बन्धान्नित्यत्वं स्यात्॥ २८२५॥
कथमित्याह—“अन्यथा ही”त्यादि।
अन्यथा हि न नित्या स्यादेकरूपासमन्वयात्।
कदाचित्सा हि सम्बद्धा तज्ज्ञानेन नचान्यदा॥ २८२६॥
अन्यथा हि यदि शक्तिसम्बद्धं ज्ञानमनित्यं भवेत्तदा शक्तेर्नित्यत्वं न प्राप्नोति। कुतः ?। एकरूपासमन्वयात्। एकस्वभावानुगमाभावादित्यर्थः। थमेवैकरूपासमन्वयं दर्शयति—“कदाचि”दित्यादि। अनित्ये हि विज्ञाने सति शक्तेस्तज्ज्ञानसम्बन्धासम्बद्धस्वभावद्वयं स्यात्, न चैकस्य परस्परविरुद्धस्वभावद्वयसम्भवो युक्तः, एकत्वहानिप्रसङ्गात्। भेदव्यवहारोच्छेदापत्तेश्च॥ २८२६॥
द्वितीयं विकल्पमधिकृत्याह—“अथे”त्यादि।
अथ शक्तिः स्वहेतुभ्यः प्रमाणानां प्रजायते।
जातानां तु स्वहेतुभ्यो नान्यैराधीयते पुनः॥ २८२७॥
“तदत्रे”त्यादिना सिद्धसाध्यतां पक्षदोषमाह।
तदत्र न विवादो नः को ह्यनंशस्य वस्तुनः।
स्वहेतोरुपजातस्य शक्तिं पश्चात्प्रकल्पयेत्॥ २८२८॥
यन्नामोत्तरकालं हि रूपमाधीयते परैः।
तद्भावान्तरमेवेति न तस्यात्मोपदिश्यते॥ २८२९॥
तथाहि स्थिरास्थिरस्वभावभेदेन द्विप्रकारस्यापि पदार्थस्य निरंशत्वात्सर्वात्मनापरिनिष्पत्तेर्नोत्तरकालं प्रत्ययान्तरेणात्मभूता शक्तिराधातुं पार्यते, आधानेवाऽर्थान्तरकरणमेव स्यात्, न तु स्वभावभूतशक्त्याधानम्। भावस्वभावानभ्युपगमे वा शक्तेरकारकत्वप्रसङ्ग इत्युक्तम्॥ २८२८॥ २८२९॥
स्यादेतत्—माभूदनंशस्य वस्तुन उत्तरकालं शक्त्याधानम्, सांशस्य कस्मान्न भवतीत्याह—“विरुद्धधर्मसङ्गो ही”त्यादि।
विरुद्धधर्मसङ्गो हि वस्तूनां भिन्नतोदिता।
तन्निष्पत्तावनिष्पत्तेः शक्तावपि स विद्यते॥ २८३०॥
“स विद्यत” इति। विरुद्धधर्मप्रसङ्ग॥ २८३०॥
अस्थिरे तु भावे विशेषेण दूषणमाह—“साधिते”त्यादि।
साधितक्षणभङ्गश्च सर्वेऽर्था इति तेषु न।
प्रत्ययान्तरमाधातुं शक्तं किञ्चन शक्तिमत्॥ २८३१॥
नहि तेषामवस्थानं परस्तादस्ति येन ते।
प्रत्ययान्तरतः शक्तिं लभेरन्कुत्रचित्फले॥ २८३२॥
“कुत्रचित्फल” इति। अर्थनिश्चयादौ। शेषं सुबोधम्॥ २८३१॥ २८३२॥
स्यादेतत्—यदि भवतां न विवादः कथं तर्हि परतःप्रामाण्यमभ्युपगतमित्यत आह—“एतावत्त्वि”त्यादि।
एतावत्तु वदन्त्यत्र सुधियः सौगता इमे।
ज्ञाने क्वचित्स्थिताऽप्येषा न बोद्धुं शक्यते स्वतः॥ २८३३॥
“बोद्धु”मिति। निश्चेतुम्। “स्वत” इति। विज्ञानस्वरूपादनुभवमात्रादनपेक्षितोत्तरकालभाविकार्यसंवादात्॥ २८३३॥
स्यादेतत्—विज्ञानाव्यतिरेकाच्छक्तेर्विज्ञानग्रहेणे साऽपि गृहीतैव। तत्कथं बोद्धुं न शक्यत इत्याह—“यथाऽवस्थिते”त्यादि।
यथाऽवस्थितविज्ञेयवस्तुबोधाप्तिशक्तताम्।
को नामानुभवात्मत्वान्निश्चेतुं केवलात्प्रभुः॥ २८३४॥
बोधश्चाप्तिस्च बोधाप्ती, यथावस्थितस्य विज्ञेयस्य वस्तुनो ये बोधाप्ती, तत्र—तद्विषये, शक्ततेति विग्रहः। “केवलादि”ति। सम्बन्धादिकारणगुणपरिज्ञानानपेक्षात्॥ २८३४॥
कस्मान्न प्रभुरित्याह—“अप्रमाणे” इत्यादि।
अप्रमाणेऽपि येनैतत्केशपाशादिदर्शने।
विद्यतेऽनुभवात्मत्वं विस्पष्टाकारभासिनि॥ २८३५॥
“केशपाशादिदर्शन” इति। केशोण्ड्रकादिदर्शने। अनेनैतदाह—यद्यप्यनुभूताशक्तिस्तथाप्यप्रमाणसारूप्याद्भ्रान्तेर्निश्चेतुं न शक्यते विषादिशक्तिवत्। नह्यनुभव एव केवलो निश्चयहेतुरन्यस्याप्यभ्यासादेरपेक्षणात्। यत्र ह्यंशे भ्रान्तिनिमित्तेन न गुणान्तरमारोप्यते तत्रैव निश्चयः॥ २८३५॥
कुतस्तर्हि सा निश्चितव्येत्याह—“तस्मा”दित्यादि।
तस्मादर्थक्रियाज्ञानमन्यद्वा समपेक्ष्यते।
निश्चयायैव न त्वस्या आधानाय विषादिवत्॥ २८३६॥
“अन्यद्वे”ति। हेतुशुद्धिज्ञानम्। “न त्वस्या आधानाये”ति। अन्यदपेक्षत इतिसम्बन्धः। “अस्या” इति। शक्तेः। निश्चयस्य पुरुषाधारत्वात्तदुत्पत्तये युक्ता कारणा न्तरापेक्षा, नत्वाधानाय, तस्य शक्त्याधारत्वात्, शक्तेश्च सहभावनिष्पत्तौ निष्पन्नत्वादिति भावः॥ २८३६॥
“यथाही”त्यादिना विषादिवदिति दृष्टान्तं व्याचष्टे।
यथाहि विषमद्यादेस्तदन्यसमतेक्षणात्।
फलानन्तरताभावाच्चैतदात्माविनिश्चये(यः?)॥ २८३७॥
मूर्च्छास्वेदप्रलापादितत्फलोत्पत्तिनिश्चये।
तादात्म्यं गम्यतेऽप्येवं ज्ञाने तच्छक्तिनिश्चयः॥ २८३८॥
“तदन्यसमतेक्षणा”दिति। तस्माद्विषादेरन्यन्नागरपानकादि, तेन समता— सारूप्यम्, तस्या ईक्षणमिति विग्रहः। “फलानन्तरताभावा”दिति। फलं मूर्च्छादि, तस्यानन्तरताया अभावादिति विग्रहः। अनन्तरं फलाभावादिति यावत्। “एतदात्माबिनिश्चय” इति। विषादाद्याऽत्माविनिश्चये (यः ?)। “तादात्म्य”मिति। विषादिस्वभावत्वम्। “तच्छक्तिनिश्चय” इति। यथावस्थितज्ञेयवस्तुबोधाप्तिनिश्चयः ॥ २८३७॥ २८३८॥
स्ववचनविरोधं प्रतिज्ञायाः प्रतिपादयन्नाह—“किञ्चे”त्यादि।
किञ्चाविवादमेवेदं प्रामाण्यं शक्तिलक्षणम्।
प्रमाणान्तरनिश्चेयमित्येवं हि त्वयोदितम्॥ २८३९॥
शक्तयः सर्वभावानां कार्यार्थापत्तिसाधनाः।
इत्यर्थापत्तितः सिद्धं न सिद्धं परतः कथम्॥ २८४०॥
“न सिद्धं परतः क”थमिति। सिद्धमेव। अर्थापत्तेः प्रमाणान्तरत्वादिति भावः ॥ २८३९॥ २८४०॥
यदुक्तम्—तदेव हि विनाश्येतेति, तस्यानैकान्तिकत्वं प्रतिपादयन्नाह—“निष्पन्ने”त्यादि।
निष्पन्नानंशरूपस्य प्रामाण्यस्य स्वहेतुतः।
तदेवं न विनाशाप्तिर्निश्चयेऽन्यव्यपेक्षणात्॥ २८४१॥
एतदेव स्पष्टयन्नाह—“न तत्स्वभावे”त्यादि।
न तत्स्वभावनिष्पत्त्यै प्रमान्तरमपेक्ष्यते।
तद्रूपनियार्थं तु प्रतिपत्तावपेक्ष्यते॥ २८४२॥
स्यादेतत्—यदि भवतां ज्ञानापेक्षया परतःप्रामाण्यं साध्यते, तदाऽस्माकमपि सिद्धसाध्यता। तथाहि—ज्ञानमप्यर्थापत्तितस्तावत्सिद्धमिष्यते, किमङ्ग पुनः तच्छक्तिरूपं प्रामाण्यम्। अर्थनिश्चयलक्षणे स्वकार्ये तु कर्त्तव्ये ज्ञानं नापेक्षत इति स्वतस्तदुच्यत इति। तदेतदसम्यक्। प्रामाण्यनिश्चयमन्तरेण स्वार्थनिश्चयस्यैवासम्भवात्। संशयादिविषयीकृतस्य च कथं कार्ये निरपेक्षता, प्रमाणान्तरग्रहणापेक्षायां वा कथं स्वपक्षे अनवस्था न स्यादिति यत्किञ्चिदेतत्॥ २८४२॥
“किञ्चे”त्यादिना हेतोस्तद्भावनियतत्वादित्येतस्यानैकान्तिकतामुद्भावयति।
किञ्चाप्रामाण्यमप्येवं स्वत एव प्रसज्यते।
नहि स्वतोऽसतस्तस्य कुतश्चिदपि सम्भवः॥ २८४३॥
अनपेक्षत्वमेवैकमप्रामाण्यनिबन्धनम्।
इत्याद्यं वाऽप्यनिःशेषमभिधातुं हि शक्यते॥ २८४४॥
विसंवादनसामर्थ्यं निश्चयं तु यथाऽन्यतः।
तथा संवादसामर्थ्यं सर्वथाऽतो द्वयं समम्॥ २८४५॥
ततः कोऽतिशयो दृष्टः प्रामाण्यस्य विपर्ययात्।
येन स्वतस्तदेवेष्टं परतस्त्वप्रमाणता॥ २८४६॥
तथा संवादसामर्थ्यम्—निश्चयमन्यत इति वर्त्तते। “समं द्वय”मिति। प्रमाणमप्रमाणं च। “विपर्ययादि”ति। अप्रामाण्यात्। योऽपि मन्यते। न नित्यत्वाच्छक्तीनां स्वाभाविकत्वं नापि स्वहेतुभ्य एवोत्पत्तेरुत्तरकालं कारणान्तरानपेक्षणात्। किं तर्हि ?। स्वभावत एव भावानां प्रतिनियतरूपाः शक्तयः समुद्भवन्तीति स्वाभाविकत्वमासाम्। तथाहि—यदेव स्वात्मनि रूपमस्ति कारणानां तदेव तैः कार्ये समाधीयते, यथा कापालैरुपजन्यमाने घटे रूपादयः स्वगुणद्वारेणैव प्रारभ्यन्ते, उदकाद्याहरणशक्तिस्तु तैरात्मन्यविद्यमानत्वान्नाधीयते घटे, स्वत एव तु सा तस्य प्रादुर्भवति, तथा ज्ञानेऽपि तत्कारणैरिन्द्रियादिभिरर्थपरिच्छेदशक्तिरात्मन्यविद्यमानत्वान्नाधीयते, स्वत एव सा तस्य भवतीति। अतः स्वाभाविकी शक्तिरिति तस्याप्येतत्प्रलापमात्रम्। अनेन न्यायेनाप्रामाण्यस्यापि स्वत एव प्रसङ्गात्। तथाहि—तदपि विपरीतार्थपरिच्छेदादिशक्तिलक्षणम्, न च नयनादीनां तथाविधशक्तियोगोऽस्तीति। किञ्च—यद्यात्मन्यविद्यमानं रूपं कारणैर्नाधीयते कार्ये, तदा कथमिन्द्रियादयो ज्ञाने(न ?) रूपतामात्मन्यसतीमादधति विज्ञाने। त(य ?)थाऽविद्यमानापि सा तैराधीयते, (तथा) अर्थपरिच्छेदशक्तिं किं नादधीरन्। नहि तदाधाने तेषां कश्चित्प्रतिरोद्धा। किञ्च—यदि तावदव्यतिरेकिण्यः शक्तयो भावादभ्युपगम्यन्ते,तदा भावस्वरूपवत्तासामपि हेतुप्रतिबद्धैरात्मस्थितिरिति कुतः स्वाभाविकत्वमासाम्। अथ व्यतिरेकिण्यस्तदा स्वयमेव भावान्न स्वाश्रयैस्तासां सम्बन्धः सिद्ध्यति, तेषां तदनुपकारकत्वात्। नचानुपकारक आश्रयो युक्तोऽतिप्रसङ्गात्। किञ्चानिमित्ताःस्वातन्त्र्येणैता भवन्त्यो न देशकालनियममपेक्षेरन्। तथाहि—यस्य यत्किञ्चित्कचिदायत्तमनायत्तं वा भूत्त्वोपलीयते। न वा यत्पुनरनायत्तं स्वातन्त्र्येण प्रवृत्तम्,तत्किमिति कदाचित्क्वचिद्विरमेत्। ततश्च प्रतिनियतशक्तियोगिता भावानां न स्यात्। अन्यथा सर्वस्य सर्वत्रोपयोगः स्यादिति। अन्ये तु मन्यन्ते—तत्कार्यदर्शनमाश्रित्येदमुच्यते—स्वतः सर्वप्रमाणानामित्यादि। यतः सर्व एव भावाः सन्तएव कारणैः क्रियन्ते कार्योत्पादनियमात्। नह्यसन्तो व्योमकुसुमादयः क्वचिदपि शक्यन्ते कर्तुम्, सिकतासु वा तैलम्। असत उत्पत्तौ सर्वस्यासत्त्वेऽतिशयाभावात् सर्वदा सर्वत्र चोत्पत्तिः स्यादिति। तदेतदयुक्तम्। कारणवैयर्थ्यप्रसङ्गात्। असत्तावद्भवन्मते न किञ्चिक्रियते। सतोऽपि सर्वनिराशंसत्वान्न किञ्चित्कर्त्तव्यमस्तीति किं हि कुर्वंस्तस्य तत्कारकं भवेत्। अतः कार्यकारणत्वाभावप्रसङ्गः। अभिव्यक्तिः सतः क्रियत इति चेन्न। तस्या अपि सदसत्त्वेन करणविरोधात्। यतस्तत्रापीदं विकल्पद्वयमवतरति—किं सा सती क्रियते, आहोस्विदसतीति। प्रथमे पक्षेऽतिशयाभावात्करणानुपपत्तिरित्युक्तम्। तत्राप्यभिव्यक्त्याश्रयणेऽनवस्थाप्रसङ्गः। नापि द्वितीयः पक्षोऽसतः क्रियानभ्युपगमात्। अभ्युपगमे वा भावस्याप्यसतः करणप्रसङ्गात्। किञ्चार्थान्तरभूता वा भावादभिव्यक्तिः क्रियेत अनर्थान्तरभूता वा। यद्यर्थान्तरभूता क्रियेत तदा भावस्य न किञ्चित्कृतं स्यात्। नह्यन्यस्य करणेऽन्यत्कृतं नाम, अतिप्रसङ्गात्। तत्सम्बन्धिन्यभिव्यक्तिः क्रियत इति चेत्र। अनुपकार्यतया तत्सम्बन्धित्वासिद्धेः। उपकारे वाऽभ्युपगम्यमाने तस्याप्यर्थान्तरत्वेऽनवस्थाप्रसङ्गात्सम्बन्धासिद्धिः। अनर्थान्तरत्वेऽपि कारणानां वैयर्थ्यप्रसङ्गः। भावादेवाश्रयभूतादुपकारस्वभावाया अभिव्यक्तेरुत्पादान्नित्याभिव्यक्तिप्रसङ्गः, स्वभावस्याभिव्यक्तिकारणस्य सर्वदा विद्यमानत्वात्। नाप्यनुपकार्यस्य परापेक्षा युक्तेति प्रतिपादितं बहुधा। अथानर्थान्तरभूताऽभिव्यक्तिः क्रियत इति पक्षः,सोऽप्ययुक्तोऽतिशयाभावात्। तथाह्यनर्थान्तरभूता क्रियत इति भावस्वभावः क्रियत इत्युक्तं भवति। तस्य च सत्त्वेन सर्वनिराशंसत्वात्करणम युक्तमित्येतदेव चिन्त्यते। किञ्च—अभिव्यक्तिवद्भावस्याप्यसतः करणं स्यादव्यतिरेकात्। भावस्वभाववद्वाऽभिव्यक्तेरपि सत्या एव करणप्रसङ्गः, न चैतदपि युक्तम्, अतिशयाभावात्। अनवस्थाप्रसङ्गादित्युक्तम्। सदर्थविषये च कारणव्यापार इष्यमाणे कारणानां कार्यक्रियानुपरमप्रसङ्गः। किं हि तदोपलभ्य कारणानि निवर्त्तेरन्। कार्यसत्तामिति चेन्न। भवन्मत्या तस्याः प्रागपि भावात्। तस्मादसदेवोत्पद्यते, यस्यकारणमस्ति। न व्योमकुसुमादि। तदुत्पादनसमर्थकारणाभावादिति। अतः कारणशक्तिप्रतिनियमात्कार्यकारणभावनियमो भविष्यति। नहि सर्वो भावः सर्वोत्पादनसमर्थोऽङ्गीक्रियते। अनादिस्वहेतुपरम्परया सर्वभावानां शक्तेर्नियमितत्वात्। यदि चासत्प्रामाण्यमन्येन कर्तुं न शक्यत इति स्वतस्तदुच्यते, अप्रामाण्यमपि तर्ह्यनेनैव न्यायेन स्वत एव प्राप्नोतीति यत्किञ्चिदेतत्। योऽपि मन्यते प्रामाण्यं नाम विज्ञानस्यार्थपरिच्छेदोत्पादिका शक्तिः, शक्तिश्च क्षणिकविज्ञानाश्रितत्वात्स्वतोऽसती न शक्यते कर्तुम्। कालत्रयेऽपि तस्याः क्रियानुपपत्तेः। तथाहि न तावत्प्राग्विज्ञानोत्पत्तेः क्रियते, आश्रितत्वात्। नह्याश्रितस्याश्रयाभावे करणं युक्तम्, यथा कुड्याभावे चित्रस्य, अनाश्रितत्वप्रसङ्गात्। अतएव सहकरणमप्ययुक्तमाश्रितत्वात्। नहि कुड्यालेख्ययोराश्रयाश्रितयोर्युगपदारम्भः सम्भवति। नाप्युत्पन्नस्य सतो विज्ञानस्य पश्चात्क्रियते क्षणिकत्वात्। तावत्कालं स्थितेरभावात्। अतःसर्वप्रमाणानां स्वतःप्रामाण्यमुच्यते इति तदेतदसम्यक्—तथाहि—यत्तावदुक्तम्र्थपरिच्छेदोत्पादिकाशक्तिः प्रामाण्यमिति तदसम्बद्धम्। अर्थपरिच्छेदस्य ज्ञानपर्यायत्वात्। न च तदेव ज्ञानमाश्रिता सती शक्तिस्तस्यैवोत्पादिका युज्यते, अनाश्रितत्वप्रसङ्गात्समानकालं च कार्यकारणभावादुपपत्तेः। यच्चोक्तमाश्रितत्वात्सह प्राक्च न क्रियत इति। तदप्ययुक्तम्, अव्यतिरेकादाश्रितत्वासिद्धेः। भावस्वभाव एव हि विशिष्टार्थक्रियाकारी तद्भावमात्रजिज्ञासायां शक्तिरिति व्यपदिश्यते। नार्थान्तरम्। अर्थान्तरत्वे भावस्याकारकत्वप्रसङ्गः सम्बन्धासिद्धिश्चेति निर्लोडितमेतद्बहुधा।तस्मात्स्वभावभूता विज्ञानस्य शक्तिरभिन्नयोगक्षेमत्वाद्विज्ञानस्वभाववत्प्राग्विज्ञानोत्पत्तेरसत्येव क्रियत इत्यविरुद्धम्। सहैव च विज्ञानेनोत्पद्यत इत्यपि युक्तमेव। स्वभावभूतस्य धर्मस्य भावेन सहैकयोगक्षेमत्वात्। भवतु नाम शक्तेर्व्यतिरेकः पदार्थात्, तथाऽपि सदसतोराश्रितत्वानुपपत्तेराश्रितत्वमसिद्धम्। तथाहि—सत्तावन्नाश्रयते तस्य सर्वात्मना निष्पत्तेर्निरपेक्षत्वात्। नापि सत आश्रयो युक्तस्तस्याकिञ्चित्करत्वात्। यथा विन्ध्यो हिमवतः। स्थितिस्तेन क्रियत इति चेत्। न। स्थितेः स्थातुरव्यतिरेकात्। स्थातुरेव हि स्वभावस्तथा भेदान्तरप्रतिक्षेपेणोच्यते। नच तेनाश्रयेणावस्थातुरात्मा क्रियत इत्यकिञ्चित्कर एव। व्यतिरेकेऽपि स्थितेः स्थातुः स्थापकोऽकिञ्चित्कर एव। अर्थान्तरभूतायाः स्थितेः करणात्। न चान्यस्य करणेनान्यस्य किञ्चित्कृतमित्युभयथापि स्थापकस्याकिञ्चित्करत्वम्। तत्सम्बन्धिनीं स्थितिं करोतीति चेत्। न, स्थाप्यस्थापकयोरिव स्थितिमतः स्थित्या सह सम्बन्धासिद्धेः, अनवस्थाप्रसङ्गश्चेतिनिर्लोडितप्रायमेतत्। किञ्च—यदि पदार्थस्य स्थापिका स्थितिरर्थान्तरभूताऽङ्गीक्रियते, तदा न कस्यचित्पदार्थस्य विनाशः प्राप्नोति। स्थापिकायाः स्थितेर्विद्यमानत्वात्। नापि विनाशहेतुवशात्सत्यामपि स्थितौ विनाशो भविष्यतीति शक्यं वक्तुम्।तस्याप्यकिञ्चित्करत्वादयुक्तं विनाशकत्वम्। तथाहि तत्राप्ययं विकल्पोऽवतरत्येव— किं भावादर्थान्तरभूतं विनाशं नाशहेतुः करोत्याहोस्विद्भावमेव। न तावद्भावमेव करोति, तस्य निष्पन्नत्वात्। अन्यस्य च करणे भावस्य न किञ्चित्कृतमिति तदवस्थत्वात्। भावस्य विनाशाभावादकिञ्चित्करो विनाशहेतुरिति चर्चितमेतत्स्थिरभावपरीक्षायां विस्तरेण। किञ्च—प्रकृत्या भावोऽस्थिरस्वभावो वा स्यात्, स्थिरस्वभावो वा। तत्र यदिप्रकृत्यैवास्थिरात्मां भावः स्वहेतोरुत्पन्नः, तदा तेन स्वभावनिष्पत्तेरूर्ध्वं स्वयं न स्थातव्यमेवेति तस्याकिञ्चित्करौ द्वावपि स्थितिनाशहेतू। अथ प्रकृत्या स्थिरात्मा भावः, तथापि तस्य स्वभावान्यथात्वासम्भवान्न कश्चिद्विनाशकः, स्वयमेव स्थावरत्वान्नापि कश्चित्स्थापकः, इत्युभयथा स्थितिनाशहेतू अकिञ्चित्करौ। नाप्यसदाश्रयत इति पक्षः। तस्य सर्वस्वभावरहितत्वेनाधेयत्वव्यापारयोरसम्भवाच्छशविषाणवदित्यसिद्धमाश्रितत्वं शक्तेः। सिद्धौ वाऽनैकान्तिकत्वमाश्रितानामपि रूपादीनां घटे सहोत्पत्तिदर्शनात्। अप्रामाण्येऽपि प्रसङ्गाच्च। तथाह्यप्रामाण्यमपि विपरीतार्थपरिच्छेदोत्पादिका शक्तिः। शक्तेश्च विज्ञानाश्रितायाः कालत्रयेऽप्यकरणात्प्रामाण्यवदप्रामाण्यात्मिका शक्तिः स्वत एव प्रसज्येत। किश्च— यदि कालत्रयेऽपि ज्ञानस्य शक्तिर्न प्रादुर्भवति, तदा सर्वसामर्थ्यशून्यं विज्ञानं प्राप्नोति। यस्य हि यो धर्मः कालत्रयेऽपि न सञ्जायते, स कथं तस्य सम्भवेत्, यथाऽऽकाशस्य मूर्त्तत्वम्। कुतो वा शक्तिभिरिदमत्यद्भुतमिन्द्रजालं शिक्षितम्, येनैता विज्ञानस्य कालत्रयेप्यसमासादितसम्भवा अपि सत्यस्तेन सह सङ्गतिमनुभवन्तीति। किमप्येतन्महद्भूतं नित्यत्वादनुभवन्तीति चेत्। न। सर्वस्य शक्तियोगिताप्रसङ्गात्। नियामकाभावात्। नह्यनायत्तस्य प्रतिनियतपदार्थ योगितायां किञ्चित्कारणं नियामकं पश्यामो येनैता विज्ञानस्य भवेयुर्नान्यस्येति।ततश्च प्रत्यासन्ननिबन्धनाभावात्सर्वस्यैवैताः प्राप्नुवन्तीत्युक्तमेतत्। न चापि तासामकिञ्चित्करः कश्चिदाश्रयो युक्तो नित्यत्वेन कस्यचित्स्वभावविशेषस्य कर्त्तव्यस्याभावादित्यलं बहुना॥ २८४३॥ २८४४॥ २८४५॥ २८४६॥
पुनरपि प्रकारान्तरेण प्रतिज्ञार्थं विकल्पयन्नाह—“स्वत” इत्यादि।
स्वतस्त्वस्य प्रमाणानां प्रामाण्यस्योपवर्णनात्।
स्वकार्ये वृत्तिर्जातानामथाप्यभिमता स्वतः॥ २८४७॥
एतदुक्तं भवति। अथ—स्वतःप्रामाण्यमित्यनेनायमर्थोऽभिप्रेतः, जातानामुत्तरकालं स्वत एव कारणान्तरानपेक्षाणां (स्वकार्ये) वृत्तिः—हेतुभाव इति यावत्। तेन यथोक्तदोषानवसर इत्यभिप्रायः परस्य। तत्र प्रमाणानां स्वकार्यं स्वगतप्रामाण्यनिश्चयोऽर्थनिश्चयो वा। एतस्मिन्स्वकार्ये कर्त्तव्ये न हेतुमपेक्षन्ते॥ २८४७॥
कुतस्तर्ह्येषां व्यपेक्षेत्याह—“आत्मलाभे ही”त्यादि।
आत्मलाभे हि भावानां कारणापेक्षितेष्यते।
लब्धात्मानः स्वकार्येषु वर्त्तन्ते स्वयमेव तु॥ २८४८॥
सामान्येन भावानामात्मलाभं प्रति कारणान्तरापेक्षितां प्रतिपाद्यं ज्ञानेऽपि योजयन्नाह—“उत्पादमात्र” इत्यादि।
उत्पादमात्र एवातो व्यपेक्षास्ति स्वहेतुषु।
ज्ञानानां स्वगुणेष्वेषा नतु निश्चयजन्मनि॥ २८४९॥
“स्वगुणेष्वि”ति। निश्चयजन्मापेक्षयाऽऽधारसप्तमी। एतदुक्तं भवति—ज्ञानानां ये स्वगता गुणा अविपरीतबोधात्मकत्वं विशुद्धकारणजनितत्वमित्येवमादयस्तेषु निश्चयोत्पादे कर्त्तव्ये न त्वेषां हेतुषु व्यपेक्षाऽस्तीति॥ २८४९॥
यद्येवं कथं तर्हि तेषां तत्र हेतुभावो भवतीत्याह—“जनने ही”त्यादि।
जनने हि स्वतन्त्राणां प्रामाण्यार्थविनिश्चितेः।
स्वहेतुनिरपेक्षाणां तेषां वृत्तिर्घटादिवत्॥ २८५०॥
प्रामाण्यं चार्थश्च—प्रमेय इति प्रामाण्यार्थौ अनयोर्विनिश्चितिः। तस्या जनन इति सम्बन्धः। अर्थनिश्चितिरालोचनापेक्षयोच्यते। अन्येषां स्वयमेव निश्चयात्मकत्वात्। “वृत्तिरिति”। हेतुभाव इत्यर्थः॥ २८५०॥
“मृत्पिण्ड” इत्यादिना घटादिवदिति दृष्टान्तं व्याचष्टे।
मृत्पिण्डदण्डचक्रादि घटो जन्मन्यपेक्षते।
उदकाहरणे त्वस्य तदपेक्षा न विद्यते॥ २८५१॥
एवं स्वतःप्रमाणत्वमन्ते चावश्यमेव तत्।
पराधीने प्रमाणत्वे ह्यनवस्था प्रसज्यते॥ २८५२॥
एवं प्रतिज्ञार्थाविरोधं समर्थ्य हेतोस्तद्भावनियतत्वादित्यस्य व्याप्तिं प्रसाधयन्नाह—“अन्ते चावश्यमेव त”दित्यादि। “अन्त” इति। सर्वपश्चिमे ज्ञान इत्यर्थः।“त”दिति। प्रामाण्यम्। कस्मादवश्यमन्तेऽङ्गीकर्त्तव्यमित्याह—“पराधीन” इत्यादि ॥ २८५१॥ २८५२॥
एतदेव दर्शयति—“मौलिके चेदि”त्यादि।
मौलिके चेत्प्रमाणत्वे प्रमाणान्तरसाध्यता।
तव तत्रैवमिच्छन्तो न व्यवस्थां लभेमहि॥ २८५३॥
यथैव प्रथमं ज्ञानं तत्संवादमपेक्षते।
संवादेनापि संवादः पुनर्मृग्यस्तथैव हि॥ २८५४॥
मूलम्—प्रथमं ज्ञानम्, तत्र भवं मौलिकम्। तत्समवायीति यावत्। तथाहि परतःप्रामाण्यं कदाचिदर्थक्रियासंवादज्ञानाद्वा भवेत्, कारणगुणपरिज्ञानाद्वा, तत्र न तावदाद्यः पक्ष इति दर्शयन्नाह—“यथैवे”त्यादि॥ २८५३॥ २८५४॥
अथापि स्यादर्थक्रियासंवादिज्ञानस्य स्वत एव प्रामाण्यमिष्टं तेनानवस्था न भविष्यतीत्याह—“कस्यचि”दित्यादि।
कस्यचित्तु यदीष्येत स्वत एव प्रमाणता।
प्रथमस्य तथाभावे प्रद्वेषः केन हेतुना॥ २८५५॥
द्वितीयेऽपि पक्षेऽनवस्थादोषं प्रतिपादयन्नाह—“एवं यदि गुणाधीने”त्यादि।
एवं यदि गुणाधीना प्रत्यक्षादिप्रमाणता।
गुणाश्च न प्रमाणेन विना सन्ति कदाचन॥ २८५६॥
ततो गुणपरिच्छेदिप्रमाणान्तरमिच्छतः।
तस्याप्यन्यपरिच्छिन्नगुणायत्ता प्रमाणता॥ २८५७॥
“गुणाधीने”ति। कारणगुणपरिज्ञानायत्ता। “प्रमाणते”ति। प्रमाणतानिश्चयः। “न सन्ती”ति। सद्व्यवहारा(र ?)योग्या न सन्तीत्यर्थः। “तस्यापी”ति। गुणपरिच्छेदिनः प्रमाणस्य। “अन्यपरिच्छिन्नगुणायत्ते”ति। अन्येन प्रमाणेन परिच्छिन्नो यो गुणस्तन्निश्चयायत्तं प्रामाण्यमित्यर्थः॥ २८५६॥ २८५७॥
अत्र दृष्टान्तमाह—“यथाऽऽद्य” इति।
यथाऽऽद्ये च तथाऽन्यत्रेत्यनवस्थैव पूर्ववत्।
तत्र तत्रैवमिच्छन्तो न व्यवस्थां लभेमहि॥ २८५८॥
गुणज्ञानं गुणायत्तप्रामाण्यमथ नेष्यते।
आद्यमप्यर्थविज्ञानं नापेक्षेत गुणप्रमाम्॥ २८५९॥
अतो दूरमपि ध्यात्वा प्रामाण्यं यत्स्वतः क्वचित्।
अवश्याभ्युपगन्तव्यं तत्रैवादौ वरं स्थितम्॥ २८६०॥
यथा प्रथमे ज्ञाने प्रमाणान्तरपरिच्छिन्नगुणायत्ता प्रमाणता तथाऽन्यत्रापीत्यर्थः।“पूर्वव”दिति। संवादतः प्रामाण्यनिश्चयवत्। “तत्र तत्रे”ति। पूर्वपूर्वस्मिन्गुणज्ञाने। अथ गुणज्ञानस्य स्वत एव प्रामाण्यमनवस्थाभयादङ्गीक्रियते, तदाऽर्थविज्ञानेऽपि कः प्रद्वेषः, येन तस्य परतःप्रामाण्यमिष्यते न तु स्वत इति नहि किञ्चित्कारणमुत्पश्यामः। तस्मात्तीरादर्शने च शकुनिना सुदूरमपि गत्वा तत्रैव पुनरागन्तव्यमित्यलमप्रतिष्ठादि(ष्ठित ?)कुप्रतिपत्त्या। एतदेव दर्शयति—“गुणज्ञान”मित्यादि। गुणायत्तम्—गुणनिश्चयायत्तं प्रामाण्यं यस्य तत्तथोक्तम्॥ २८५८॥ २८५९॥ २८६०॥
स्यादेतत्संवादगुणज्ञानयोर्मूलज्ञानाद्विशेषोऽस्ति, तेन तयोः स्वत एव प्रामाण्यं नाद्यस्येत्यत आह—“संवादे”त्यादि।
संवादगुणविज्ञाने केन वाऽभ्यधिकेन ते।
आद्यस्य तदधीनत्वं यद्बलेन भविष्यति॥ २८६१॥
तस्मात्स्वतःप्रमाणत्वं सर्वत्रौत्सर्गिकं स्थितम्।
बाधकारणदुष्टत्वज्ञानाभ्यां तदपोह्यते॥ २८६२॥
परायत्तेऽपि चैतस्मिन्नानवस्था प्रसज्यते।
प्रामणाधीनमेतद्धि स्वतस्तच्च प्रतिष्ठितम्॥ २८६३॥
ननु यदि विज्ञानं स्वतःप्रमाणमेवं सति सर्वज्ञानप्रामाण्यप्रसङ्ग इत्यत आह—“तस्मा”दित्यादि। उत्सर्गः—सामान्येन विधानम्, तत्र भवमौत्सर्गिकम्। बाधाः— अर्थान्यथात्वावधारणं कारणदुष्टत्वज्ञानं चेति बाधकारणदुष्टत्वज्ञाने। ननु च (तथाच ?)प्रामाण्यमौत्सर्गिकं स्थितं सत्कथम(त्क्वचिद?)पोह्यते (ननु च) यद्यप्रामाण्यं बाधकारणदुष्टत्वज्ञानाभ्यां प्रतिपाद्येत, तच्च ताभ्यां प्रतिपाद्यमानं परतो भवेत्, तथेष्यत एवेति चेदेवं सति प्रामाण्यवदत्राप्यनवस्था भवेदित्यत आह—“परायत्त” इत्यादि। भवेदनवस्था, यद्यप्रामाण्यमप्रमाणतो भवेत्, यावताऽप्रमाणाद्विजातीयादप्रामाण्यमिष्यते। तच्च स्वत एव प्रतिष्ठितमिति कुतोऽनवस्था॥ २८६१॥ ॥ २८६२॥ २८६३॥
एतदेव दर्शयति—“प्रमाणं ही”त्यादि।
प्रमाणं हि प्रमाणेन यथा नान्येन साध्यते।
न सिध्यत्यप्रमाणत्वमप्रमाणात्तथैव हि॥ २८६४॥
तुल्यजाताश्रयत्वे हि प्रतिष्ठा नोपपद्यते।
विजातेस्त्वन्यहेतुत्वाद्दृढमूलप्रतिष्ठिता॥ २८६५॥
“विजाते”रिति। अप्रमाणस्य। अस्य च दृढमूलप्रतिष्ठितेत्यनेन सम्बन्धः। “अन्यहेतुत्वा”दिति हेतुनिर्देशः। अन्यो हेतुः प्रमाणलक्षणो यस्येति विग्रहः। दृढमूलप्रतिष्ठितेऽति। दृढा—अनवस्थादिदोषैरकम्प्या मूलप्रतिष्ठा यस्य स तथा, तद्भावस्तत्त्वम् ॥ २८६४॥ २८६५॥
स्यादेतद्यद्यप्यनपेक्ष्यप्रामाण्यो बाधकः प्रत्ययः, तथाप्यबाध्यमानतया प्रतीत एवान्यस्याप्रामाण्यमाधातुं समर्थो नान्यथेत्यत आह—“बाधकप्रत्ययस्ताव”दित्यादि।
बाधकप्रत्ययस्तावदर्थान्यत्वावधारणम्।
सोऽनपेक्षप्रमाणत्वात्पूर्वज्ञानमपोहते॥ २८६६॥
“अपोहत” इति। प्रतिक्षिपति (अ) प्रमाणत्वेन निरस्यतीत्यर्थः॥ २८६६॥
स्यादेतद्वाधकेऽपि प्रत्यये प्रथमज्ञानस्येव बाधकानन्तरं सम्भाव्यत एव, तत्कथं तत्र बाधकान्तरापेक्षा निवृत्ता, येनास्या बाध्यमानतानिश्चयो भवेदित्यत आह—“तत्रापी”त्यादि।
तत्रापि त्वपवादस्य स्यादपेक्षा पुनः क्वचित्।
जाताशङ्कस्य पूर्वेण साऽप्यल्पेन निवर्त्तते॥ २८६७॥
“तत्रापि क्वचि”दिति। अर्थान्यत्वावधारणलक्षणे बाधके प्रत्यये। “जाताशङ्कस्ये”ति। पुंसः। “पूर्वेणे”ति। प्रथमेन ज्ञानेन। “साऽपी”ति। अपवादापेक्षा। “अल्पेने”ति। यत्नेनेति शेषः॥ २८६७॥
कथं निवर्त्तत इत्याह—“बाधकान्तरमि”त्यादि।
बाधकान्तरमुत्पन्नं यद्यस्यान्विष्यतोऽपरम्।
ततो मध्यमबाधेन पूर्वस्यैव प्रमाणता॥ २८६८॥
अथानुरूपयत्नेन सम्यगन्वेषणे कृते।
मूलाभावान्न विज्ञातं भवेद्बाधकबाधकम्॥ २८६९॥
ततो निरपवादत्वात्तेनैवाद्यं बलीयसा।
बाध्यते तेन तस्यैव प्रमाणत्वमपोह्यते॥ २८७०॥
एवं परीक्षकज्ञानत्रितयं नातिवर्त्तते।
ततश्चाजातबाधेन नाशङ्क्यं बाधकं पुनः॥ २८७१॥
यदि निरूपयतस्तस्यापि बाधकस्य बाधकान्तरमुत्पद्यते, तदा मध्यमस्य तृतीयेन बाधितत्वात्प्रथममेव प्रमाणं भवेत्। अथ नोत्पद्यते मूलस्य कारणस्याभावात्। तदा तेनैव द्वितीयेन बलीयसाद्यं बाध्यत इति कृत्वा तस्य तेन प्रामाण्यमपोहितं भवति। “नातिवर्त्तत” इति। नातिक्रामति। कोऽसौ ?। पुमानिति शेषः। अथतृतीयेऽपि ज्ञाने द्वितीयज्ञानवद्बाधकापेक्षा कस्मान्न भवति येन परीक्षकज्ञानत्रयं नित्यं यतः स्यादित्यत आह—“ततश्चे”त्यादि। अजातोऽनुत्पन्नो बाधो यस्य प्रमातुः ॥ २८६८॥ २८६९॥ २८७०॥ २८७१॥
कस्मान्नाशङ्क्यमित्याह—“उत्प्रेक्षते ही”त्यादि।
उत्प्रेक्षते हि यो मोहादजातमपि बाधकम्।
स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत्॥ २८७२॥
क्षयम्—नाशम्। तत्वभ्रंशात्॥ २८७२॥
“तथाचे”त्यादिना प्रवचनेनैतदेव समर्थयते।
तथाच वासुदेवेन निन्दिता संशयात्मता।
नायं लोकोऽस्ति कौन्तेय न परः संशयात्मनः॥ २८७३॥
“वासुदेवेने”ति। विष्णुना। कुन्तेरपत्यं कौन्तेयोऽर्जुनः॥ २८७३॥
यद्येवं प्रथमेऽपि ज्ञाने बाधाशङ्का न प्राप्नोति, ततश्च सर्वज्ञानेऽपि प्रामाण्यप्रसङ्ग इत्याशङ्क्याह—“यावानेवे”त्यादि।
यावानेवापवादोऽतो यत्र सम्भाव्यते मतौ।
अन्विष्टेऽनुपजाते च तावत्येव तदात्मनि॥ २८७४॥
कदाचित्स्यादपीत्येवं न भूयस्तत्र वस्तुनि।
उत्प्रेक्षमाणैःस्थातव्यं नात्म(प्त?)कामैः प्रमातृभिः॥ २८७५॥
यत्र—यस्यां मतौ यावानेवापवादः सम्भाव्यते, तावत्येवापवादेऽन्विष्टेऽनुपजाते च, तदात्मनि—तत्र मतौ, स नास्तीत्येव गम्यत इत्यध्याहार्यम्॥ २८७४॥ २८७५॥
कुत्र कियानपवादः सम्भाव्यत इत्येतद्दर्शयन्नाह—“देशे”त्यादि।
देशकालनरावस्थाभेदाः संव्यवहारतः।
सिद्धा एव हि ये यस्मिंस्तेऽपेक्ष्या बाधकार्थिना॥ २८७६॥
देशश्च कालश्च नरश्चावस्था चेति तथोक्ताः तासां भेदा इति समासः॥ २८७६॥
एते च देशादिभेदाः कस्यचिदेव केचिद्बाधका नतु सर्वे सर्वस्य तेन न सर्वत्र सर्वेषामाशङ्का कार्येत्येतद्दर्शयन्नाह—“दूरदेशे”त्यादि।
दूरदेशव्यवस्थानादसम्यग्दर्शने भवेत्।
अन्याशङ्का क्वचित्तत्र समीपगतिमात्रकम्॥ २८७७॥
अपवादावधिः कालनरावस्थान्तरे न तु।
व्यपेक्षा विद्यते तस्मिन्मृगतृष्णादिबुद्धिवत्॥ २८७८॥
“अन्याशङ्के”ति। अन्यस्य जलादेराशङ्का अन्याशङ्का। “क्वचि”दिति। मरीचिकादौ।“समीपगतिमात्रक”मिति। अपवादावधिरिति सम्बन्धः। एतदुक्तं भवति। यत्र दूरदेशत्वमेव भ्रान्तिनिमित्तं सम्भवति तत्र समीपगमनमात्रमेवापेक्षणीयं बाधकस्य भावाभावनिश्चयाय, नतु कालादौ व्यपेक्षा कार्या। तत्र तस्याभ्रान्तिनिमित्तत्वात्। अत्रोदाहरणमाह—“मृगतृष्णादिबुद्धिव”दिति। मृगतृष्णादिबुद्धिः—मरीचिकादौ जलादिभ्रान्तिः। आदिशब्देनाल्पीयसि महत्त्वबुद्धिः, य(त?)था दूरे महति चाल्पबुद्धिरित्येवमादि गृहीतव्यम्। नहि तत्र समीपगतानां कालाद्यपेक्षा सम्भवति। एवं कालादिष्वपि। यत्र यस्यैव भ्रान्तिनिमित्तत्वं सम्भवति तस्यैवापेक्षा कार्या नान्यस्येत्येतदुदाहरणेन दर्शयति॥ २८७७॥ २८७८॥
तत्र कालविशेषमधिकृत्याह—“एवं सन्तमस” इत्यादि।
एवं सन्तमसे काले यो गवाश्वादिसंशयः।
भ्रान्तेर्वा निर्णयस्तत्र प्रकाशीभवनावधिः॥ २८७९॥
सङ्गतं तमो यस्मिन्काले स तथोक्तः॥ २८७९॥
नरविशेषमधिकृत्याह—“तथे”त्यादि।
तथाहि चन्द्रदिग्मोहवेदवर्णस्वरादिषु।
पुरुषान्तरसम्प्रश्नादन्यथात्वावधारणम्॥ २८८०॥
तैमिरिकादीनां द्विचन्द्रादिज्ञानेषु पुरुषान्तरपरिप्रश्नादेवान्यथात्वनिश्चयो भवति, न तत्र कालाद्यपेक्षा॥ २८८०॥
अवस्थाभेदमधिकृत्याह—“रागद्वेषे”त्यादि।
रागद्वेषमदोन्मादक्षुत्तृष्णादिक्षतेन्द्रियैः।
दुर्ज्ञाने ज्ञायमानेऽर्थे तदभावाद्विपर्ययः॥ २८८१॥
“तदभावा”दिति। रागाद्यवस्थाया अभावात्॥ २८८१॥
ऋणादीत्यादिना लोकव्यवहारेणापि परीक्षकज्ञाने तृतीयस्यैवापेक्षेति प्रतिपादयति—
ऋणादिब्यवहारेऽपि द्वयोर्विवदमानयोः।
एकं प्रत्यर्थिनो वाक्यं द्वे वाक्ये पूर्ववादिनः॥ २८८२॥
अनवस्थाभयादेव न वाक्यं लिख्यतेऽधिकम्।
ततस्तु निर्णयं ब्रूयुः स्वामिसाक्षिसभासदः॥ २८८३॥
एवं ज्ञानत्रयस्यैव सर्वत्र विक्रियेष्यते।
त्रिसत्यताऽपि देवानामत एवाभिधीयते॥ २८८४॥
तेन स्वतःप्रमाणत्वे नानवस्थोभयोरपि।
प्रमाणत्वाप्रमाणत्वे यथायोगमतः स्थिते॥ २८८५॥
किञ्च—यदि नाम प्रत्यक्षादेः परतःप्रामाण्यं सिद्ध्यति—न तु शाब्दस्य, तथाऽप्यस्मत्पक्षसिद्धिरेव। तथा (हि) सर्वोऽयमारम्भश्चोदनायाः प्रामाण्यप्रतिपादनफलः,शाब्दस्य च प्रमाणस्य स्वतःप्रामाण्ये सिद्धे सिद्धमेव चोदनायाः प्रामाण्यमिति किमस्माकमन्येषां स्वतःप्रामाण्यप्रसिद्धये प्रयासेनेति मन्यमानः शाब्दस्य प्रमाणस्य स्वतःप्रामाण्यं प्रतिपादयन्नाह—“नित्यमि”त्यादि।
नित्यमाप्तप्रणीतं वा वाक्यं यच्चावधार्यते।
श्रोत्रुच्चारयितृभ्यां तन्न मनागपि दूष्यते॥ २८८६॥
ये विद्यागुरवस्तत्र सहाध्यायिन एव च।
विनाशं वारयन्तस्ते तादृशां पालनक्षमाः॥ २८८७॥
अतो गुणनिषिद्धैर्वा दोषैर्वाक्यं न दूष्यते।
यद्वा कर्तुरभावे ते न स्युर्दोषा निराश्रयाः॥ २८८८॥
द्विविधं हि शाब्दं ज्ञानं प्रमाणम्, नित्यवाक्यजनितं आप्तप्रणीतवाक्यहेतुकं च। तत्रैतस्मिन्द्विविधेऽपि कारणस्यादुष्टत्वं प्रतिपादयति। तथाहि—यत्तावन्नित्यं वाक्यं तस्य श्रोतृवक्तृकृतो न दोषः सम्भवति। नित्यं विद्यागुरुभिरध्यापकैरध्येतृभिश्च पाल्यमानत्वात्। यदप्याप्तोक्तम्, तत्र गुणैः कृपादिभिर्दोषाणां निषिद्धत्वात्। प्रकारान्तरेण नित्यस्य वाक्यस्यादुष्टत्वं प्रतिपादयन्नाह—“यद्वे”त्यादि। दोषा हि रागादयः पुरुषधर्मत्वात्कर्तारमेवाश्रिताः। ते कथमाश्रय(स्य)कर्तुर्निवृत्तावपौरुषेयेषुवाक्येष्ववतिष्ठेरन्। तदाऽनाश्रितत्वप्रसङ्गात्। एष ह्याश्रितधर्मो यदाश्रयानुविधायित्वम्॥ २८८६॥ २८८७॥ २८८८॥
ननु चाप्तवाक्यस्य गुणैर्दोषाणां निराकरणात्प्रामाण्याभ्युपगमे गुणेभ्यः प्रामाण्यमभ्युपगतं स्यात्, ततश्चावस्थादोषोऽत्रापि सम्भवेदित्याशङ्क्याह—“तत्रे”त्यादि।
तत्राप्तोक्तेर्द्वयं दृष्टं दोषाभावगुणात्मकम्।
गुणेभ्यश्च प्रमाणत्वं यथा नास्ति तथोदितम्॥ २८८९॥
गुणवत्त्वादतो वक्तुर्न दोषास्तन्निराकृताः।
स्वतो वाक्यं प्रमाणं च दोषाभावोपलक्षितम्॥ २८९०॥
दोषाभावगुणावात्मा स्वभावो यस्य द्वयस्य तत्तथोक्तम्। “तथोदित”मिति। “एवं यदि गुणाधीना प्रत्यक्षादिप्रमाणते”त्यादिना। “तन्निराकृता” इति। गुणनिराकृताः।“दोषाभावोपलक्षित”मिति। दोषरहितगुणानां दोषनिषेधमात्र एव व्यापारो न प्रामाण्याधान इत्यभिप्रायः॥ २८८९॥ २८९०॥
ननु च दोषाभावनिश्चयात्प्रामाण्येऽभ्युपगम्यमानेऽप्यनवस्थैवेति परमतमाशङ्कयन्नाह—“दोषाभाव” इत्यादि।
दोषाभावो गुणेभ्यश्चेदाप्तवाक्येषु गम्यते।
अनवस्था भवेत्सैव गुणवत्त्वानुगामिनः॥ २८९१॥
तथाहि—दोषाभावो गुणपरिज्ञानान्निश्चेयः, गुणपरिज्ञानस्य च पुनरपि दोषाभावात्प्रामाण्यमवसेयम्, तत्रापि दोषाभावो गुणेभ्यः परिज्ञेयः, पुनस्तत्राप्येवमित्येवं सैव सर्वव्यवस्थालोपिन्यनवस्था तदवस्था॥ २८९१॥
नैष दोष इत्यादिना प्रतिविधत्ते।
नैष दोषो गुणज्ञानं तदा नैव ह्यपेक्ष्यते।
ज्ञायमानतया नैव गुणास्तत्रोपकारिणः॥ २८९२॥
सत्तामात्रेण ते सर्वे दोषव्यावर्त्तनक्षमाः।
नृदोषविषयं ज्ञानं तेषु सत्सु न जायते॥ २८९३॥
“तेषु सत्स्वि”ति। गुणेषु॥ २८९२॥ २८९३॥
दि नाम न जायते ततः किमित्यत आह—“दोषैश्चे”ति।
दोषैश्चाज्ञायमानत्वान्न प्रामाण्यमपोद्यते।
अनपोदितसिद्धं च तदिहापि स्वतः स्थितम्॥ २८९४॥
न प्रामाण्यमपोद्यत इति सम्बन्धः। कस्मात् ?। अज्ञायमानत्वात्—गुणनिषिद्धत्वाद्दोषाणामभावादेवाज्ञायमानत्वम्। “अनपोदितसिद्धं चे”ति। अनपोदितत्वात्सिद्धम्, उत्सर्गस्यापवादविरहे निसर्गसिद्धत्वात्। “इहा”पीति। आप्तवाक्ये न केवलमपौरुषेय इत्यपिशब्दः॥ २८९४॥
ननु च यदि नाम क्वचित्पौरुषेये वाक्ये दोषा न ज्ञायन्ते तथापि सम्भाव्यन्त एव, तेषां तदाश्रितत्वात्। ततश्च यथा गुणाः सत्तामात्रेण दोषव्यावर्त्तनक्षमास्तथा दोषा अपि गुणव्यावर्त्तनसमर्था इति तत्किमुच्यते—दोषैश्चाज्ञायमानत्वान्न प्रामाण्यमपोद्यत इति, एतदाशङ्क्याह—“दोषाः सन्ती”त्यादि।
दोषाः सन्ति न सन्तीति पौरुषेये तु शङ्क्यते।
वेदे कर्तुरभावाच्च दोषाशङ्कैव नास्ति नः॥ २८९५॥
अतो यदनपेक्षत्वाद्वेदे प्रामाण्यमुच्यते।
तदाप्तेन प्रणीतेऽपि सुतरां सिद्ध्यति स्वतः॥ २८९६॥
एवं मन्यते। न ह्यस्माभिरवश्यं पौरुषेयवचनस्य प्रामाण्यं समर्थनीयम्, किन्तु सर्व एवायमारम्भो वेदस्य प्रामाण्यसिद्ध्ये, तत्र यदि नाम पौरुषेयस्य वचनस्याप्रामाण्यं जातं तथापि न काचित्क्षतिर्वेदस्य, दोषाशङ्काया अभवादेव प्रामाण्यसिद्धेरित्यनपेक्षत्वादुच्यत इति। यथोक्तं भाष्ये—तस्मात्प्रमाणमनपेक्षत्वात्। नैवं सति प्रत्ययान्तरमपेक्षितव्यं पुरुषान्तरं वा स्वयम्प्रत्ययो ह्यसाविति॥ २८९५॥ २८९६॥
अपिच—किं प्रमाणान्तरपरिच्छिन्नेऽर्थे प्रवृत्तिरिष्टा, आहोस्विन्नेति पक्षद्वयम्, तत्र यदि तावन्नेष्टेति द्वितीयः पक्षस्तदा वेदस्य स्वत एव प्रामाण्यं सिद्धमिति दर्शयति—“वेदार्थ” इत्यादि।
वेदार्थेऽन्यप्रमाणैर्या सर्वकालमसङ्गतिः।
तयैवास्य प्रमाणत्वमनुवादत्वमन्यथा॥ २८९७॥
वेदार्थः—अग्निहोत्रात्स्वर्गो भवतीत्यादिः। “अन्यप्रमाणै”रिति। वेदादन्यैः प्रत्यक्षादिभिः सङ्गतिरेकविषयतया सम्बन्धः, तत्प्रतिषेधोऽसङ्गतिः। “तयैवे”ति। असङ्गत्या“अस्ये”ति। वेदस्य। अथ प्रवृत्तिरिष्टेति पक्षस्तदा गृहीतग्राहित्वादुत्तरकालभाविनो ज्ञानस्य न प्रामाण्यं प्राप्नोतीति दर्शयन्नाह—“अनुवादत्वमन्यथे”ति। अन्यथा—यद्यन्यैरपि प्रमाणैरवगतेऽर्थे प्रमाणस्य प्रवृत्तिरिष्यते तदा तस्यान्यप्रकाशितार्थप्रकाशकत्वादनुवादत्वमिति स्मृत्यादिवदप्रामाण्यप्रसङ्गः। तस्माद्यत्प्रमाणं न तत्प्रमाणान्तरसङ्गतिमपेक्षत इति सर्वस्यैव प्रमाणस्य स्वतःप्रमाण्यं प्रसिद्धमिति भावः॥ २८९७॥
एतदेव दर्शयति—“अन्यस्यापी”त्यादि।
अन्यस्यापि प्रमाणत्वे सङ्गतिर्नैव कारणम्।
तुल्यार्थानां विकल्पेन ह्येकस्यैव प्रमाणता॥ २८९८॥
वेदादन्यस्यापि प्रत्यक्षादेः। “तुल्यार्थाना”मिति। एकविषयप्रवृत्तानाम्। “एकस्यैवे”ति। प्रथमस्य। अन्येषामनुवादत्वात्। नच तेभ्य उत्तरकालभाविभ्यः प्रत्ययेभ्यः प्रथमस्य प्रामाण्यं युक्तं तेषां गृहीतविषयत्वेन स्वयमेवाप्रमाणत्वात्॥ २८९८॥
ननु च दृश्यत एव सन्तमसादिप्रदेशे प्रथमज्ञानगृहीतस्याप्यर्थस्योत्तरोत्तरतःप्रमाणात्परिच्छेदः स्पष्टालोकावस्थायामित्याशङ्क्याह—“यत्रापी”त्यादि।
यत्रापि स्यात्परिच्छेदः प्रमाणैरुत्तरैः पुनः।
नूनं तत्रापि पूर्वेण नार्थः सोऽवधृतः स्फुटम्॥ २८९९॥
पूर्वस्य ज्ञानस्यानवधृतार्थत्वादप्रामाण्यमेवेति भावः॥ २८९९॥
अपिच—यदि प्रमाणान्तरसङ्गत्या प्रामाण्यमेवं सति सकृज्जातविनष्टार्थविषयस्य ज्ञानस्य श्रोत्रधियश्च प्रामाण्यं न प्राप्नोति तद्विषये प्रमाणान्तराप्रवृत्तेरिति दर्शयति“सकृ”दित्यादि।
सकृज्जातविनष्टे च भवेन्नार्थे प्रमाणता।
श्रौत्रा धीश्चाप्रमाणं स्यान्नेत्रादिभिरसङ्गता॥ २९००॥
“नेत्रादिभिरसङ्गते”ति। एकविषयत्वेनासम्बन्धात्। प्रयोगः—यत्प्रमाणान्तरसङ्गतिनिरपेक्षं तत्स्वत एव प्रमाणम्, यथा श्रोत्रज्ञानं सकृज्जातं विनष्टविषयं च विज्ञानम्, प्रमाणान्तरसङ्गतिनिरपेक्षं च वेदार्थविषयं ज्ञानमिति स्वभावहेतुः २९००
“श्रोत्रे”त्यादिना दृष्टान्तस्य साधनविकलतामाशङ्कते।
श्रोत्रज्ञानान्तरेणास्याः सम्बन्धाच्चेत्प्रमाणता।
सिद्धा वेदेऽपि तज्जन्यविज्ञानान्तरसङ्गतेः॥ २९०१॥
साधनान्तरजन्या तु बुद्धिर्नास्ति द्वयोरपि।
हेत्वन्तरकृतज्ञानसंवादोऽतो न वाञ्छ्यते॥ २९०२॥
तथा ह्येकस्मिन्नपि शब्दे बहुभिः श्रूयमाणे श्रोत्रज्ञानान्तरप्रवृत्तेरस्याः श्रोत्रधियःप्रमाणान्तरसङ्गत्यपेक्षया सम्यक्त्वमवसीयते। “सिद्धा वेदेऽपी”त्यादिना प्रतिविधत्ते—“तज्जन्यविज्ञानान्तरसङ्गते”रिति। वेदजन्यविज्ञानान्तरसम्बन्धात्।“द्वयोरपी”ति। श्रोत्रबुद्धिवेदार्थबुद्ध्योः। एतदुक्तं भवति—प्रमाणान्तरसङ्गतिनिरपेक्षत्वादित्यत्र साधनान्तरजन्यं प्रमाणान्तरं विवक्षितम्, नत्वेकसाधनसाध्यम्, तेन हेतोः सविशेषणत्वान्न साधनविकलता दृष्टान्तस्येति भावः। “हेत्वन्तरकृतज्ञानसंवाद” इति। हेत्वन्तरेण कृतं च तत् ज्ञानं चेति तथोक्तम्—तस्य संवाद इति विग्रहः॥ २९०१॥ २९०२॥
अथैकसाधनसाध्यप्रमाणान्तरप्रवृत्तिमात्रेणापि परतः प्रामाण्यमिष्टम्, तदा सिद्धसाध्यतेति मन्यमान आह—“यथे”त्यादि।
यथा त्वेकेन्द्रियाधीनविज्ञानान्तरसङ्गतिः।
प्रत्यक्षे कारणं क्लृप्ता तथा वेदेऽपि कथ्यताम्॥ २९०३॥
“कारणं क्लृप्ते”ति। श्रोत्रज्ञानान्तरेणास्याः सम्बन्धाच्चेत्प्रमाणतेति वचनात् ॥ २९०३॥
कथं वेदे कथनीयमित्यत आह—“एकेनैव ही”त्यादि।
एकेनैव हि वाक्येन देशकालन( लान्त?)रादिषु।
लभ्यमानेऽर्थसंवादे न मृग्यं कारणान्तरम्॥ २९०४॥
तस्माद्दृढं यदुत्पन्नं विज्ञानं न विसंवदेत्।
देशान्तरादिविज्ञानैः प्रमाणं तदसंशयम्॥ २९०५॥
“दृढ”मिति। संशयविपर्यासरहितत्वात्। “देशान्तरादिविज्ञानै”रिति। आदिशब्देन नरान्तरादिविज्ञानपरिग्रहः॥ २९०४॥ २९०५॥
नचासिद्धताऽस्य हेतोरिति दर्शयन्नाह—“साध्ये”त्यादि।
साध्या न चानुमानेन शब्दादीनां प्रमाणता।
प्रत्यक्षस्यापि सा माभूत्तत्साध्यैवाविशेषतः॥ २९०६॥
न तावत्प्रत्यक्षेण साध्या वेदार्थस्यातीन्द्रियत्वादिति भावः। नाप्यनुमानेनातिप्रसङ्गात्। “शब्दाना”मिति। वैदिकानामिति शेषः। प्रकरणाद्वा विशेषगतिः २९०६
स्यादेतदिष्यत एव प्रत्यक्षस्याप्यनुमानसाध्या प्रमाणतेत्याह—“प्रमाणाना”मित्यादि।
प्रमाणानां प्रमाणत्वं येन चान्येन साध्यते।
तस्याप्यन्येन साध्यत्वादनवस्था प्रसज्यते॥ २९०७॥
अन्येनासाधिता चेत्स्यात्साधकस्य प्रमाणता।
साध्यानामपि सा सिद्धा तद्वदेव भवेत्ततः॥ २९०८॥
प्रत्यक्षवत्तस्याप्यनुमानस्यापरेणानुमानेन प्रमाणतायां साध्यायामनवस्था स्यात्। अथानुमानाख्यस्य साधनस्य प्रामाण्यं नान्येन साध्यते तदा साध्यस्यापि प्रत्यक्षादेःसा साध्या साभूदविशेषात्॥ २९०७॥ २९०८॥
“नन्वि”त्यादिना बौद्धो हेत्वसिद्धिमेव समर्थयते।
ननु प्रमाणमित्येवं प्रत्यक्षादि न गृह्यते।
नचेत्थमगृहीतेन व्यवहारोऽवकल्पते॥ २९०९॥
यदि प्रमाणानां प्रमाणान्तरापेक्षा न स्यात्तदा प्रमाणमित्येषु प्रत्यक्षादिषु निश्चयो न स्यात्। ततश्च सर्वव्यवहारोच्छेदप्रसङ्गः॥ २९०९॥
“प्रमाणं ग्रहणादि”त्यादिना प्रतिविधत्ते।
प्रमाणं ग्रहणात्पूर्वं स्वरूपेण प्रतिष्ठितम्।
निरपेक्षं च तत्स्वार्थे प्रमिते मीयते परैः॥ २९१०॥
एतदुक्तं भवति—यद्यपि प्रमाणं स्वरूपनिश्चयं प्रति प्रमाणान्तरमपेक्षते तथापि न व्यवहारोच्छेदः, अर्थपरिच्छेदं प्रति प्रमाणान्तरनिरपेक्षत्वात्, अर्थश्चेत्परिच्छिन्नस्तदा तावतैव सर्वव्यवहारपरिसमाप्तिरिति किं स्वरूपं प्रति निश्चयानिश्चयनिरूपणया, अर्थनिश्चयार्थत्वादस्या इति सङ्क्षेपार्थः। अवयवार्थस्तूच्यते—“ग्रहणा” “त्पूर्व”मिति। प्रमाणमेतदित्यतो निश्चयात्पूर्वमित्यर्थः। “स्वरूपेणे”ति। अर्थपरिच्छेदात्मना। “निरपेक्ष”मिति। स्वार्थपरिच्छेदं प्रति प्रमाणान्तरं नापेक्षत इत्यर्थः। तत्स्वार्थे प्रमिते—निश्चिते तूत्तरकालमनुमानादिभिः प्रमाणैः प्रमीयते। यथोक्तम्—नह्यज्ञातेऽर्थे कश्चिद्बुद्धिमुपलभते। ज्ञाते त्वनुमानादवगच्छतीति॥ २९१०॥
स्यादेतत्—अविदितायां बुद्धौ स्वार्थपरिच्छेद एव न युक्तः, यथोक्तमप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्ध्यतीत्याशङ्क्याह—“यथाचे”त्यादि।
यथाचाविदितैरेव चक्षुरादिभिरिन्द्रियैः।
गृह्यन्ते विषयाः सर्वे प्रमाणैरपि ने तथा॥ २९११॥
तेनात्र ज्ञायमानत्वं प्रामाण्ये नोपयुज्यते।
विषयानुभवोऽप्यस्मादज्ञातादेव लभ्यते॥ २९१२॥
सुगमम्॥ २९११॥ २९१२॥
यद्येवं(अ)प्रमाणमप्यनया नीत्या स्वत एव प्रसज्यत इत्याशङ्क्याह—“अप्रमाण”मित्यादि।
अप्रमाणं पुनः स्वार्थे प्रमाणमिव हि स्थितम्।
मिथ्यात्वं तस्य गृह्येत न प्रमाणान्तरादृते॥ २९१३॥
अप्रमाणं हि प्रमाणवदाभातीति न तत्सत्तामात्रेण स्वार्थं परिच्छिनत्ति, तस्मान्मिथ्यात्वं—मिथ्यार्थपरिच्छेदित्वमस्य प्रमाणान्तरं विना ग्रहीतुं न शक्यत इति परतस्तद्व्यवस्थाप्यते॥ २९१३॥
ननु च प्रमाणेऽपि तुल्यम्—तथाहि तदपि स्वार्थे क्वचिदप्रमाणमिवाभातीत्यत आह—“न ह्यर्थस्येत्या”दि।
न ह्यर्थस्यान्यथाभावः पूर्वेणात्तस्तथात्ववत्।
तदत्राप्यन्यथाभावे धीर्यद्वा दुष्टकारणे॥ २९१४॥
तावता चैव मिथ्यात्वं गृह्यते नान्यहेतुकम्।
उत्पत्त्यवस्थमेवेदं प्रमाणमिति मीयते॥ २९१५॥
“पूर्वेणे”ति। अप्रमाणेन। “आत्त” इति। गृहीतः। “तथात्ववदि”ति वैधर्म्यदृष्टान्तः। एतदुक्तं भवति—यथा प्रमाणेन तथात्वमात्तं न तथा मिथ्यात्व(म)प्रमाणेनेति न समानम्। तथाहि—उत्पत्त्यवस्थमेव प्रमाणं प्रमाणमिति मीयते, नत्वप्र माणमप्रमाणमिति, तस्य नित्यं प्रमाणवदवभासनादिति भावः। तदित्यादिना परतोऽप्रामाण्यमुपसंहरति। यद्वा दुष्टकारणे धीरिति सम्बन्धः। तावता चैवेति। अन्यथा भावधिया दुष्टकारणधिया च। स्यादेतत्। यद्येतयोर्धियोः सम्यक्त्वं गृहीतं भवेत्तदाऽऽभ्यां मिथ्यात्वं गृह्येत, तयोश्च सम्यक्त्वग्रहणाय प्रमाणान्तरापेक्षायामनवस्था स्यादित्यत आह—“उत्पत्त्यवस्थ”मित्यादि। “इद”मिति। अर्थान्यथाज्ञानं दुष्टकारणज्ञानं च। तेन नानवस्थेति भावः॥ २९१४॥ २९१५॥
यदुक्तं बौद्धादिना मिथ्यार्थं वैदिकं वचो वाक्यत्वादग्निः शीत इत्यादि पुरुषवाक्यवदित्यादि साधनं, तस्यानैकान्तिकतेति दर्शयन्नाह—“अतो यत्रापी”त्यादि।
अतो यत्रापि मिथ्यात्वं परेभ्यः प्रतिपाद्यते।
तत्राप्येतद्द्वयं वाच्यं नतु साधर्म्यमात्रकम्॥ २९१६॥
“यत्रापी”ति। चोदनादौ। “एतद्द्वय”मिति। अन्यथात्वज्ञानं दुष्टकारणज्ञानं च।“साधर्म्यमात्रक”मिति। असत्यार्थेन पुंवाक्येन वाक्यत्वादिना तुल्यत्वम्॥ २९१६॥
कस्मान्न वाच्यमित्यत्रोपपत्तिमाह—“तत्रे”त्यादि।
तत्राप्रमाणसाधर्म्यमात्रं यत्किञ्चिदाश्रिताः।
सर्वं प्रमाणमिथ्यात्वं साधयन्त्यविपश्चितः॥ २९१७॥
तेषामात्मवधायैव तादृक्साधनकल्पनम्।
उत्पद्यते परस्यापि प्रतिबिम्बेन तादृशम्॥ २९१८॥
तेन च प्रतिषिद्धत्वादयथाभूतसाधनम्।
नौत्सर्गिकप्रमाणत्वाच्चोदना बाधितुं क्षमम्॥ २९१९॥
यद्यप्रमाणसाधर्म्यमात्रेणाप्रमाणं स्यात्तदा सर्वत्र प्रमाणानामप्रामाण्यप्रसङ्गः, शक्यते हि सर्वत्र वस्तुत्वादिना साधर्म्यं वक्तुमिति सङ्क्षेपार्थः। कथमात्मवधाय भवतीत्याह—“उत्पद्यत” इत्यादि। “परस्यापी”ति। मीमांसकस्य। “प्रतिबिम्बेने”ति। यथा बिम्बादनन्तरं प्रतिबिम्बमुत्पद्यते, तथा बौद्धोपन्यस्तसाधनान्तरं प्रतिसाधनं मीमांसकस्योदेतीत्यर्थः। तथाहि शक्यमिदमभिधातुम्—अमृषा वैदिकं वचः, वचनत्वादिभ्यः, अग्निरुष्णो भास्वर इत्यादिपुरुषवचनवदिति। तेनैवंविधेन प्रतिप्रमाणेन प्रतिषिद्धत्वात्—व्याहतत्वात्, अयथाभूता चोदनेत्यस्यार्थस्य यत्साधनमुपन्यस्तं बौद्धादिना तन्न चोदनां बाधितुं क्षमम्, कुतः ?, औत्सर्गिकप्रमाणत्वात्। औत्सर्गिकं प्रमाणं प्रामाण्यं यस्य तत्तथोक्तं तद्भावस्तत्वम्॥ २९१७॥ २९१८॥ २९१९॥
“अत्राभिधीयत” इत्यादिना—आत्मलाभे च भावानामित्यारभ्य यथाक्रमं दूषणं वक्तुमारभते—
अत्राभिधीयते येषां जातानां स्थितिरिष्यते।
तेषामेव तु नन्वेषा व्यवस्था सनिबन्धना॥ २९२०॥
“सनिबन्धने”ति। वस्त्वधिष्ठाना। असतो व्यापारायोगादिति भावः॥ २९२०॥
का पुनरसौ व्यवस्थेत्याह—“आत्मलाभ” इत्यादि।
आत्मलाभे घटादीनां कारणापेक्षितेष्यते।
लब्धात्मनां स्वकार्येषु प्रवृत्तिः स्वयमेव तु॥ २९२१॥
अथ ज्ञानेऽपि कस्मान्न युज्यत इत्याह—“यत्त्वि”त्यादि।
यत्तु ज्ञानं त्वयाऽपीष्टं जन्मानन्तरमस्थिरम्।
लब्धात्मनोऽसतः पश्चाद्व्यापारस्तस्य कीदृशः॥ २९२२॥
“असतः कीदृशो व्यापार” इति। नैव कश्चित्, सर्वसामर्थ्यशून्यत्वादसत्त्वस्येति भावः। सत्त्वेऽपि वा निरीहत्वात्सर्वभावानां नैव व्यापारः सिद्ध्येत्। न च ज्ञानस्य किञ्चित्कार्यमस्ति यत्र व्याप्रियेत। स्वार्थपरिच्छेदात्मकमस्तीति चेत्। न। ज्ञानपर्यायत्वादस्यात्मानमेव करोतीति सुव्याहृतमेतत्। प्रमाणमेतदिति निश्चयजननं स्वकार्यमिति चेन्न। क्वचिदनिश्चयाद्विपर्ययदर्शनाच्च। अनेनात्रापि प्रतिज्ञार्थे प्रत्यक्षादिविरोधः प्रतिपादितः। तथाद्युपलब्धिलक्षणप्राप्तस्यानुपलम्भेनान्योपलम्भात्मना प्रत्यक्षेणासतो व्यापाराभावो निश्चितः। नैरूप्याच्च वियदम्भोजवदनुमानतोऽपि सिद्धः। त्वयापीष्टमित्यनेन स्ववचनविरोधं चोद्भावयति॥ २९२२॥
तमेव व्यापार इत्यादिना श्लोकद्वयेन दर्शयति।
व्यापारः कारणानां हि दृष्टो जन्मातिरेकतः।
प्रमाणेऽपि तथा माभूदिति जन्म विवक्ष्यते॥ २९२३॥
नहि तत्क्षणमप्यास्ते जायते वाऽप्रमात्मकम्।
येनार्थग्रहणे पश्चाद्व्याप्रियेतेन्द्रियादिवत्॥ २९२४॥
तथाहि— सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्ष मित्यत्र सूत्रेजन्मग्रहणस्य साफल्यं प्रतिपादयितुं व्यापार इत्याद्युक्तं कुमारिलेन। ज्ञा(जा?)यमानाया एव बुद्धेः प्रामाण्यं यथा स्यादिति प्रतिपादनार्थं जन्मग्रहणं कृतमिति।किं कारणमित्याह—“नही”त्यादि। “त”दिति। ज्ञानम्॥ २९२३॥ २९२४॥
“अथापी”त्यादिना परस्योत्तरमाशङ्कते।
अथाप्यक्षणिकं ज्ञानं नित्यं चाऽभ्युपगम्यते।
अभ्युपेतविरोधोऽयमेवं युक्त्यावबाधनम्॥ २९२५॥
तथाचान्यत्र कुमारिलेन नित्यत्वमेकत्वं च बुद्धीनां वर्णितम्। यथोक्तम्—बु्द्धीनामपि चैतन्यस्वाभाव्यात्पुरुषस्यातो नित्यत्वमेकता चेष्टा। भेदस्तु विषयाश्रय इति। अत्रापि पक्षे प्रतिज्ञाया अभ्युपेतविरोधोऽनुमानविरोधोऽपि। तथा (हि) क्षणिकत्वं बुद्धीनामभ्युपगतम्। यथोक्तं भाष्ये— क्षणिका हि सा न बुद्ध्यन्तरकालमवस्थास्यत इति। तथा— न तत्क्षणमप्यास्ते इत्यादिवचनात्प्रवचनविरोधोऽपि॥ २९२५॥
युक्तिबाधां दर्शयति—“साधिते”त्यादि।
साधितक्षणभङ्गं हि सर्वं वस्तु सविस्तरम्।
नित्यं च जन्यते नेति कारणापेक्षिताऽस्य का॥ २९२६॥
नित्यत्वाभ्युपगमे कारणापेक्षिता न युक्तेति दर्शयति—“नित्यं चेत्या”दिना। जन्यस्य हि कारणान्तरापेक्षिता तत आत्मभावलिप्सया, यत्तु नित्यत्वादनुत्पाद्यं तस्य काऽपेक्षा॥ २९२६॥
“अत”श्चेत्यादिना प्रयोगरचनयाऽनुमानबाधामेव दर्शयति।
अतश्च शक्यते वक्तुं स्वत एव न वर्त्तते।
पश्चात्प्रमा स्वकार्येषु नैरूप्याद्गगनाब्जवत्॥ २९२७॥
“अस्तु वे”त्यादिनाऽभ्युपगम्याक्षणिकत्वं प्रत्यक्षादिबाधां दर्शयति।
अस्तुवाऽक्षणिकं ज्ञानं स्वत एव प्रवर्त्तते।
स्वप्रामाण्यविनिश्चित्यै चेत्तत्किं संशयादयः॥ २९२८॥
यदि स्वत एव प्रमाणनिश्चयं जनयति तदा प्रमाणे संशयादयो न प्राप्नुवन्ति। आदिशब्देन विपर्यासस्तत्पूर्वको विरोधो विपरीता प्रवृत्तिः परस्परपराहतलक्षणप्रणयनं विसंवादश्च गृह्यते। ततश्च संशयादेः प्रमाणानन्तरं निश्चयविपरीताकारस्य संवेदनात् प्रत्यक्षत एव निश्चयाभावः सिद्धो घटाभाव इव तद्विविक्तप्रदेशोपलम्भात्। ततश्च तत्सद्भावप्रतिज्ञायाः प्रत्यक्षविरोधः॥ २९२८॥
“प्रामाण्ये”त्यादिना प्रत्यक्षे विरोधमेव समर्थयते।
प्रामाण्यनिश्चयो यस्मात्तत्र तन्मात्रभाविकः।
तस्मिन् जाते च सन्देहविपर्यासावनास्पदौ॥ २९२९॥
“तस्मि”न्निति। प्रामाण्यनिश्चये॥ २९२९॥
कस्मादनास्पदावित्याह—“निश्चये”त्यादि।
निश्चयारोपमनसोर्बाध्यबाधकभावतः।
समारोपविवेके हि निश्चयो वर्त्ततेऽखिलः॥ २९३०॥
एतदेव कुत इत्याह—“समारोपे”त्यादि। निश्चयो हि समारोपविपरीताकारत्वात्तद्विषयमनिराकृत्य नात्मस्थितिमासादयति, उष्णस्पर्श इव शीतमिति कुतस्तेन विषयीकृते विषये समावेशो विपर्यासस्य॥ २९३०॥
“ततश्चे”त्यादिना स्ववचनविरोधमपि दर्शयति।
ततश्च चोदनाजन्यमतिप्रामाण्यसिद्धये।
दोषवर्जितहेतूत्थभावाद्युक्तिरपार्थिका॥ २९३१॥
हेतूत्थभावो—हेतूत्थत्वम्। आदिशब्देनानाप्ताप्रणीतोक्तिजन्यत्वाद्बाधवर्जनादित्यादि गृह्यते। तथाहि— चोदनाजनिता बुद्धिः प्रमाणं दोषवर्जितैः। कारणैर्जन्यमानत्वाल्लिङ्गाप्तोक्त्यक्षबुद्धिवत्। तथाऽनाप्ताप्रणीतोक्तिजन्यत्वाद्बाधवर्जनात् इति चोदनाजनिताया बुद्धेः प्रामाण्यसिद्धये साधनं ब्रुवता परतः साधनात्प्रामाण्यनिश्चय उक्तो भवति। स्वतः सर्वप्रमाणानां प्रामाण्यमिति च वदता तन्निषेधश्चेति परस्परवचनव्याघातः॥ २९३१॥
“सिद्ध” इत्यादिना परस्योत्तरमाशङ्कते।
सिद्धे स्वतःप्रमाणत्वे साऽपवादनिवारिणी।
यदीष्यते तदप्येवं नाऽऽशङ्काया असम्भवात्॥ २९३२॥
तावदेव हि साऽऽशङ्का यावन्नोदेति निश्चयः।
निश्चये तूद्गते तस्मिन्नप्रामाण्ये कुतोन्वियम्॥ २९३३॥
येन तद्विनिवृत्त्यर्थं यत्नः सार्थकतां व्रजेत्।
स्थाणौ निश्चिततादात्म्यो नान्यथात्वं हि(शङ्कते)॥ २९३४॥
अथापि स्यान्नास्माभिश्चोदनाजनितायाः धियः प्रामाण्यसिद्धये साधनमभिधीयते। किं तर्हि ?। यत्तत्र परेणाप्रामाण्यमासक्तं तन्निषेधायेत्येतदपि न युक्तम्। कुत आशङ्काया असम्भवात्। उक्तं हि—निश्चयारोपमनसोर्बाध्यबाधकभावतः इति तत्कुतो निश्चये समुत्पन्ने सतीयमप्रामाण्याशङ्का। येन तन्निवृत्तये भवतःसाधनप्रयोगप्रयासः सफलो भवेत्। अत्र दृष्टान्तमाह—“स्थाणा”वित्यादि। निश्चितं तादात्म्यं स्थाणुत्वं येन प्रतिपन्ना स तथोक्तः। “अन्यथात्व”मिति। वृक्षत्वपुरुषत्वादि ॥ २९३२॥ २९३३॥ २९३४॥
यद्येवं कथमप्रामाण्याशङ्का विना साधनप्रयोगं निर्वर्त्तयितुं शक्यत इत्याह—“यद्रूपे”त्यादि।
यद्रूपनिश्चयो यस्माज्जायते यत्र वस्तुनि।
तद्विपर्ययशङ्कायास्तत एव निवर्त्तनम्॥ २९३५॥
यस्मिन्रूपे निश्चयो यद्रूपनिश्चयः। “तद्विपर्ययशङ्काया” इति। तद्रूपविपरीतेस्वभावे शङ्काया इत्यर्थः। “तत” एवेति। तद्रूपनिश्चयात्॥ २९३५॥
अत्रैव दृष्टान्तमाह—“यथा धूमादी”त्यादि।
यथा धूमादिलिङ्गेभ्यः पावकाद्यस्तितागतौ।
तन्नास्तित्वव्यबच्छेदस्तत एवोपपद्यते॥ २९३६॥
“तन्नास्तित्वव्यवच्छेद” इति। पावकादिनास्तित्वव्यवच्छेदः॥ २९३६॥
अप्रमाणेत्यादिनोपसंहरति।
अप्रामाण्यव्यवच्छेदः स्वत एवैवमिष्यताम्।
अतो न साधनं युक्तमप्रामाण्यनिवृत्तये॥ २९३७॥
अत्रैवोपचयहेतुमाह—“अप्रमाणद्वये”त्यादि।
अप्रमाणद्वयाशङ्का यदि वर्त्तेत तत्र तु।
प्रामाण्यनिश्चयो न स्याद्भ्रान्त्या तद्विषयीकृतेः॥ २९३८॥
अप्रमाणद्वयं संशयविपर्यासात्मकम्॥ २९३८॥
“य” इत्यादिना विरुद्धव्याप्तोपलब्धिप्रसङ्गमादर्शयन्स्ववचनविरोधमेव समर्थयते।
यः सन्देहविपर्यासप्रत्ययैर्विषयीकृतः।
स्थाणुवन्नहि तत्रास्ति तदा तद्रूपनिश्चयः॥ २९३९॥
निश्चयविरुद्धाभ्यां संशयविपर्यासाभ्यां तद्विषयीकृतस्य वस्तुनो व्याप्तत्वान्न तत्र निश्चयावकाशः॥ २९३९॥
“बलिभुगि”त्यादिना—अनुमानविरोधं दर्शयति स्वपक्षसिद्धिं च।
बलिभुग्धूमहेतूत्थदोषादिप्रत्ययैर्यथा।
स्थाणुतेजोऽप्रमाणादि परेभ्यो व्यवसीयते॥ २९४०॥
प्रयोगः—ये सन्देहविपर्यासविषयीकृतात्मानस्ते परतोऽवसातव्यात्मतत्त्वाः, यथा स्थाण्वादयः, सन्देहविपर्यासविषयीकृतात्मकं च केषाञ्चित्प्रामाण्यमिति स्वभावहेतुः। बलिभुक् च धूमश्च हेतूत्थदोषादयश्चेति तथोक्ताः। तेषु प्रत्यया इति समासः। एभिश्च यथाक्रमं स्थाण्वादीनां सम्बन्धः। एतेन च हेतोर्व्याप्तिर्दर्शिता ॥ २९४०॥
साम्प्रतं पक्षधर्मोपदेशेनासिद्धिं परिहरन्नाह—“यत्सन्देहे”त्यादि।
यत्सन्देहविपर्यासविषयत्वं गतं तथा।
परतो निश्चयस्तस्य प्रमाणत्वस्य गम्यताम्॥ २९४१॥
“य”दिति। यस्मात्। “गत”मिति। निश्चितम्। कस्य, प्रमाणस्येति शेषः। तथाहिचोदनाजनिताया बुद्धेः प्रतिपादितं सन्देहविपर्यासविषयत्वम्। “तथे”ति। यथा स्थाण्वादेः परतो निश्चयः। तस्येत्यादिना प्रमाणफलोपदर्शनम्॥ २९४१॥
यदुक्तं सिद्धे स्वतःप्रमाणत्वे साऽपवादनिवारणीति तन्न युक्तमाशङ्काया असम्भवादिति प्रतिपादितम्, इदानीं भवतु नामाप्रामाण्याशङ्कानिवृत्तये साधनप्रयोगः, तथापि भवन्मतेन सोऽपि न युक्त इति दर्शयन्नाह—“अयं चे”त्यादि।
अयं च भवतां पक्षो यत्र वाक्ये नञः श्रुतिः।
तत्रैवान्यव्यवच्छेदः स्वात्मैवान्यत्र गम्यते॥ २९४२॥
चोदनाजनिताबुद्धिः प्रमाणमिति नेह च।
प्रयोगोऽस्ति नञस्तेन नाप्रामाण्यनिवर्त्तनम्॥ २९४३॥
भवतां विधिशब्दार्थवादिनामयं पक्षः—यत्रैव वाक्ये नञः प्रयोगस्तत्रैवान्यव्यवच्छेदः प्रतीयते, अन्यत्र तु विधिरेवेति। न चात्र चोदनाजनितेत्यादौ साधनवाक्ये नञः प्रयोगोऽस्ति। तत्कथमनेनाप्रामाण्यव्यवच्छेदः प्रतिपाद्यताम्॥ २९४२॥ ॥ २९४३॥
यदुक्तम्—तत्कथं संशयादय इति, तत्रादिशब्दोपात्तमर्थं दर्शयति—“किञ्चे”त्यादि।
किञ्च सर्वप्रमाणानां प्रामाण्यं निश्चितं यदि।
स्वत एव तदा कस्मान्मतभेदः प्रवादिनाम्॥ २९४४॥
यदि सर्वप्रमाणानां स्वत एव प्रामाण्यं भवेत्तदा वादिनां प्रामाण्यविषये मतभेदो न स्यात्॥ २९४४॥
स एव कथं सिद्ध इत्याह—“येनैकै”रित्यादि।
येनैकैः स्वत एवेति प्रो(प्रा ?)च्यैर्नियम उच्यते।
किञ्चित्स्वतोऽन्यतः किञ्चित्परैश्चानियमो मतः॥ २९४५॥
“एकै”रिति। मीमांसकैः। “परै”रिति। बौद्धैः। तैः किञ्चित्स्वतःप्रमाणमिष्टम्,यथा—स्वसंवेदनप्रत्यक्षं योगिज्ञानम्, अर्थक्रियाज्ञानम्, अनुमानमभ्यासवच्च प्रत्यक्षम्, तद्धि स्वत एव निश्चीयते। अभ्यासबलेनापहस्तितभ्रान्तिकारणत्वात्। किञ्चिदन्यतः, यथा—विवादास्पदीभूतं चोदनाजनितं ज्ञानम्, प्रत्यक्षं चानपगतभ्रान्तिनिमित्तम्। अभ्यासार्थक्रियाज्ञानयोरनवाप्तत्वात्। यद्येवम्—अनुमानादौ भवन्मतेन विवादो न प्राप्नोति तस्य स्वत एव प्रमाणत्वात्। तथाहि—केचित्रिरूपलिङ्गहेतुकमनुमानमिच्छन्ति, केचिद्द्विरूपलिङ्गजं, केचिदेकरूपलिङ्गसमुद्भवम्। लक्षणप्रणयनं चानर्थकम्। तथा लोकायतं प्रति तत्प्रामाण्यप्रतिपादनं न कर्त्तव्यम्, स्वत एव प्रामाण्यनिश्चयादिति समानम्। नैष दोषः। यतोऽनुमानस्य तादात्म्यतदुत्पत्तिप्रतिबद्धलिङ्गनिश्चयादुत्पत्तेरन्तरेणाप्यर्थक्रियासंवादं पारम्पर्येण तथाविधवस्तुप्रतिबद्धजन्मतया तदर्थाव्यभिचारित्वं निश्चितमिति स्वतःप्रामाण्यमुच्यते। तदुत्पत्तिहेतुलिङ्गस्वरूपापरिज्ञानाद्वादिनोऽत्रानुत्पन्न एवानुमाने परस्परं विप्रवदन्ते, नतूत्पन्ने, तत्स्वरूपादिनिश्चयात्। अतएवाचार्यास्तदुत्पत्तिहेतुलिङ्गस्वरूपव्युत्पादनमेव कुर्वन्ति लक्षणे। कथं हि नाम विपरीतलिङ्गस्वरूपावधारणादनुमानोत्पत्तिर्भविष्यतीति। यदपि लोकायतं प्रत्यनुमानस्य प्रामाण्यप्रतिपादनं न कर्त्तव्यमिति चोद्यते, तदप्ययुक्तम्। नह्यस्माभिरनुमानस्य प्रामाण्यं साध्यते। किं तर्हि ?। व्यवहारः। तथाहि—मिथ्याऽर्थशास्त्रश्रवणाद्व्यामूढो लोकायतः सिद्धेऽप्यनुमानस्य प्रामाण्ये साङ्ख्यवन्न तद्व्यवहारं प्रवर्त्तयति, तस्य विषयोपदर्शनेन विषयी व्यवहारः साध्यते—यद्यत उत्पन्नं तत्तत्प्रापणशक्तियुक्तं, यथा प्रत्यक्षं स्वार्थस्य, अनुमेयादुत्पन्नं चेदं तत्प्रतिबद्धलिङ्गदर्शनद्वारायातं लिङ्गिज्ञानमित्येवं सङ्केतविषयकथनेन समयेप्रवर्त्तनात्। तथाहि प्रत्यक्षेऽर्थाव्यभिचारनिबन्धन एवानेन प्रामाण्यव्यवहारः कृतः। अव्यभिचारश्चास्य कोऽन्यस्तदुत्पत्तेः। यथोक्तम्— अर्थस्यासम्भवेऽभावात् प्रत्यक्षे ऽपि प्रमाणता। प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयमिति। तस्माद्यथा साङ्ख्यस्तृणाग्रे करिसत्ताभावं व्यवस्यन्नपि शास्त्रश्रवणव्यामोहादभावव्यवहारमप्रवर्त्तयन्प्रवर्त्तते। तथाऽयमपि लोकायतः। नच चोदनाजनिताया बुद्धेः प्रामाण्यं सिद्धम्,येनात्राप्यनुमानवत्प्रामाण्यव्यवहारः साध्यत इति स्यात्, तत्र प्रतिबन्धासिद्धेः प्रामाण्यस्यैव साध्यत्वादिति न समानम्॥ २९४५॥
स्यादेतत्—भवतु नाम मतभेदः, स कस्मात्स्वतःप्रामाण्ये सति न युज्यत इत्याह—“विवादो भ्रान्तित” इत्यादि।
विवादो भ्रान्तितो यस्मात्सा च निश्चयबाधिता।
निश्चिन्वन्तस्ततस्तत्त्वं विवदेरन्न वादिनः॥ २९४६॥
अनेन विवादस्य निश्चयविरुद्धभ्रान्तिकार्यस्योपलम्भान्निश्चयाभावसिद्धिमादर्शयन्ननुमानविरुद्धत्वं स्वतःप्रामाण्यप्रतिज्ञाया दर्शयति॥ २९४६॥
अपरमपि निश्चयविरुद्धकार्योपलम्भमादर्शयति—“स्वत” इत्यादि।
स्वतः सर्वप्रमाणानां प्रामाण्यस्य विनिश्चये।
न विसंवादभाक्कश्चिद्भवेन्निश्चयवृत्तितः॥ २९४७॥
अप्रमाणे प्रमाणत्वबुद्ध्या वृत्तो हि वञ्च्यते।
स्वतःप्रामाण्यबोधात्तु विपरीतो न कश्चन॥ २९४८॥
विसंवादो हि निश्चयविरुद्धाया भ्रान्तेः कार्यत्वेन प्रतीतः, स च स्वतःप्रामाण्याभ्युपगमे सति न प्राप्नोति। निश्चयेन तत्कारणस्य भ्रान्तेरपनीतत्वात्। “विपरीत” इति। विसंवादभाक्॥ २९४७॥ २९४८॥
“नन्वि”त्यादिना परः प्रत्यवतिष्ठते।
नन्वप्रमाणतो वृत्तो विदं वा कं(विसंवादं ?)समश्नुते।
निश्चयः परतस्तस्य बाधकात्प्रत्ययान्मतः॥ २९४९॥
प्रमाणतः प्रवृत्तस्तु न विसंवादमश्नुते।
अस्यैव चेष्यतेऽस्माभिः स्वतःप्रामाण्यनिश्चयः॥ २९५०॥
विसंवादो ह्यप्रमाणात्प्रवृत्तस्य भवति। तस्य चाप्रमाणस्य परतो निश्चयोऽभ्युपगत एव। यत्पुनः प्रमाणं न ततः प्रवृत्तस्य विसंवादोऽस्ति। तस्यैव च स्वतःप्रामाण्यमिष्ठमिति कथं स्वतःप्रामाण्यप्रतिज्ञाया अनुमानबाधा॥ २९४९॥ २९५०॥
“नाभिप्राये”त्यादिना प्रतिविधत्ते।
नाभिप्रायापरिज्ञानादिदं ह्यत्र विवक्षितम्।
स्वतः सर्वप्रमाणानां प्रामाण्यस्य विनिश्चये॥ २९५१॥
नियते(तो ?)यथ(त्र ?) नैवास्ति स्वतःप्रामाण्यनिश्चयः।
परिशेषबलात्तस्मिन्नप्रामाण्यं प्रतीयते॥ २९५२॥
अर्थान्यथात्वहेतूत्थदोषज्ञानानपेक्षया।
जन्मानन्तरमेवातस्तदप्रामाण्यनिश्चयात्॥ २९५३॥
अप्रमाणे प्रमाणत्वविपर्यासो न सङ्गतः।
अतोऽसंवादिनो नैव कश्चिद्वर्त्तेत तद्गतेः॥ २९५४॥
इदमत्र विवक्षितम्—यदि भवता सर्वप्रमाणानां स्वतःप्रामाण्यमभ्युपगम्यते तदा प्रामाण्यनिश्चयोत्पादेन प्रमाणं व्याप्तमित्यभ्युपगतं स्यात्। ततश्च यत्रैव प्रमाणव्यापकः प्रामाण्यनिश्चयो नोदेति तत्र सामर्थ्यात्प्रा(दप्रा ?)माण्यमवतिष्ठते। प्रमाणाप्रमाणयोः परस्परव्यवच्छेदरूपत्वात्। ततश्चाप्रामाण्यमपि स्वत एव सामर्थ्यादापतितम्, विसंवादकारणदोषपरिज्ञानाद(न?)पेक्षणात्, प्रामाण्यनिश्चयानुत्पत्तेरेवाप्रामाण्यस्य निश्चितत्वात्। ततश्च यदुक्तम्— निश्चयः परतस्तस्य बाधकात्प्रत्ययान्मतः इति तन्नोपपद्यते। एवं च सति जन्मोत्तरमेव प्रामाण्यनिश्चयोत्पादानुत्पादाभ्यां प्रामाण्येतरयोर्निश्चितत्वादप्रमाणात्परिनिश्चिता नैव कस्यचित्प्रेक्षावतः प्रवृत्तिरेव सम्भवतीति कुतो विसंवादसम्भव इति। “तद्गते”रिति। विसंवादित्वगतेर्निश्चयादित्यर्थः। एते च प्रतिज्ञादोषोद्भावनमुखेन हेतोरव्याप्तिप्रकाशनाद्धेतुदोषा एव द्रष्टव्याः, न तु प्रतिज्ञादोषाः। अन्यथा हि प्रतिज्ञाया असाधनाङ्गत्वात् तद्दोषोद्भावनं प्रतिवादिनो निग्रहस्थानं स्यात्॥ २९५१॥ २९५२॥ २९५३॥ २९५४॥
घटादिवदिति दृष्टान्तस्यासिद्धिं प्रतिपादयन्नाह—“जन्मातिरिक्ते”त्यादि।
जन्मातिरिक्तकालश्च क्रियाकालो न विद्यते।
क्षणिकत्वाद्घटादीनामित्यसिद्धं निदर्शनम्॥ २९५५॥
ननु च जन्मोत्तरकालं घटादयो दृश्यन्ते एव कुलालाद्यनपेक्षा मधूदकाद्यर्थक्रियाकारिणः, तत्कथं तेषां जन्मातिरिक्तः कालो न विद्यत इत्याह—“तेषा”मित्यादि।
तेषामुत्तरकालं हि कुलालाद्यनपेक्षिणाम्।
स्वोपादानाद्यपेक्षत्वात्स्वतो नास्ति प्रवर्त्तनम्॥ २९५६॥
स्वोपादानम्—पूर्वः पूर्वः सजातीयः क्षणः। आदिशब्देन तद्धारकपुरुषादिपरिग्रहः। एतदुक्तं भवति—उत्तरकालमन्य एव घटादिक्षणाः स्वोपादानाद्यपेक्षा वर्त्तमाना दृश्यन्ते न तु कस्यचिज्जन्मोत्तरकालमवस्थितिः सिद्धा क्षणिकत्वात्सर्वभावानामिति॥ २९५६॥
यथैव प्रथमं ज्ञानमित्यादावाह—“नचे”त्यादिना।
नचानवस्थितिप्राप्तिरन्यतो मानसंश्रितौ।
तस्मादर्थक्रियाज्ञाने स्वतःप्रामाण्यनिश्चयः॥ २९५७॥
परः प्रत्यवतिष्ठते—(“नन्वि”त्यादिना)।
ननु कोऽतिशयस्तस्य प्राक्तनादस्ति येन तत्।
परतः पूर्वविज्ञानमिव नाभ्युपगम्यते॥ २९५८॥
“उच्यत” इत्यादिना प्रतिविधत्ते।
उच्यते वस्तुसंवादः प्रामाण्यमभिधीयते।
तस्य चार्थक्रियाभ्यासज्ञानादन्यन्न लक्षणम्॥ २९५९॥
अर्थक्रियावभासं च ज्ञानं संवेद्यते स्फुटम्।
निश्चीयते च तन्मात्रभाव्यामर्शनचेतसा॥ २९६०॥
अतस्तस्य स्वतः सम्यक्प्रामाण्यस्य विनिश्चयात्।
नोत्तरार्थक्रियाप्राप्तिप्रत्ययः समपेक्ष्यते॥ २९६१॥
ज्ञानप्रमाणभावे च तस्मिन् कार्यावभासिनि।
प्रत्यये प्रथमेऽप्यस्माद्धेतोः प्रामाण्यनिश्चयः॥ २९६२॥
अयमत्र सङ्क्षेपार्थः—प्रमाणं हि नामाविसंवादि ज्ञानमुच्यते। प्रमाणमविसंवादि ज्ञानमिति वचनात्। न(स ?)चाविसंवादोऽर्थक्रियालक्षण एव, तदर्थत्वात्प्रमाणचिन्तायाः। यतोऽर्थक्रियार्थी प्रमाणमप्रमाणं वाऽन्वेषते प्रेक्षावान्न व्यसनितया। सा चार्थक्रिया दाहपाकादिनिर्भासज्ञानोदयलक्षणा, तदुत्पादादेवार्थक्रियार्थिनः प्रवृत्तस्याकाङ्क्षानिवृत्तेः। तच्चार्थक्रियाज्ञानमात्मसंवेदनप्रत्यक्षतया स्वयमेवाविर्भवति,स्पष्टानुभवत्वाच्चानन्तरं यथानुभवं परामर्शज्ञानोत्पत्त्या निश्चितमिति स्वत एव सिद्धम्। नच तत्साध्यं फलान्तरमाकाङ्क्षितं पुरुषेण, येनापरमर्थक्रियानिर्भासि प्रत्ययान्तरोदयमनुसरतोऽनवस्था स्यात्। तथाहि लोके सद्धि(वृद्धि ?)च्छेदादिकं फलमभिवाञ्छितम्, तच्चाह्लाद परितापादिरूपज्ञानाविर्भावादेवाभिनिर्वृत्तमित्येतावतैवाहितसन्तोषा निवर्त्तन्ते जना इति स्वत एव तस्य सिद्धिरुच्यते। यत्पुनः पूर्वकं तत्कारणभूतं ज्ञानं तस्य न (च?) तत्प्रापणशक्तिः प्रामाण्यमुच्यते। सा च शक्तिरनभ्यासादविदितकार्यैरवधारयितुं न शक्यत इत्युत्तरकार्यज्ञानप्रवृत्त्या निश्चीयत इति प्रथमस्य परतःप्रामाण्यमुच्यते ॥ २९५९॥ २९६०॥ २९६१॥ २९६२॥
पुनरप्यनवस्थां प्रकारान्तरेण परिहरन्नाह—“आद्य” इत्यादि।
आद्ये हि वस्तुविषये वस्तुसंवादलक्षणम्।
द्वितीयं न प्रवर्त्तेत तस्य हेतोरसम्भवात्॥ २९६३॥
अशोकस्तबकादौ हि पावकाध्यवसायिनः।
न दाहपाकनिर्भासि विज्ञानं जातु जायते॥ २९६४॥
जातौ वा न विजातीयं ज्वलनात्तत्प्रसज्यते।
तत्कार्ययोग्यतामात्रलक्षणत्वाद्विभावसौः॥ २९६५॥
यदि हि—आद्यं—प्रथमं ज्ञानमवस्तुनि प्रवृत्तमभविष्यत्तदा फलज्ञानमुत्तरकालभावि नोदपत्स्यत, कारणाभावात्, वस्तुप्रतिबद्धत्वादर्थक्रियाज्ञानस्य। न ह्यनग्निग्राहिणो ज्ञानादशोकस्तबकादावग्न्यध्यवसायेन प्रवृत्तस्य दाहपाकादिनिर्भासिनः प्रत्ययाः प्रसूयन्ते। प्रसवे वाऽग्निरेवासौ, कुतः ?, दाहपाकादिकार्योत्पत्तिहेतुत्वमात्रलक्षणत्वाद्विभावसोः। वह्नेरित्यर्थः॥ २९६३॥ २९६४॥ २९६५॥
“तस्मा”दित्यादिनोपसंहरति।
तस्मादर्थक्रियाभासं ज्ञानं यावन्न जायते।
तावदाद्येऽप्रमाशङ्का जायते भ्रान्तिहेतुतः॥ २९६६॥
ननु चार्थक्रियाज्ञानवदाद्यमपि ज्ञानं साक्षादग्न्यादिपदार्थजनितमेव, तत्किमिति तत्रैवाप्रामाण्याशङ्का, नोत्तरत्रेत्याशङ्क्याह—“अनन्तर”मित्यादि।
अनन्तरं फलादृष्टिः सादृश्यस्योपलम्भनम्।
मतेरपटुतेत्यादि भ्रान्तिकारणमत्र च॥ २९६७॥
कार्यावभासिविज्ञाने जाते त्वेतन्न विद्यते।
साक्षाद्वस्तुनिबद्धायाः क्रियायाः प्रतिवेदनात्॥ २९६८॥
आद्ये हि ज्ञाने भ्रान्तिकारणमस्ति, तथाहि तदनन्तरं दाहादिलक्षणस्य फलस्या नुत्पादो भ्रान्तज्ञानसाधर्म्यं बुद्धेरपाटवम्। आदिशब्देनानादरोऽनभ्यास इत्यादि गृह्यते। फलज्ञाने तु न किञ्चिद्भ्रान्तिकारणं विद्यत इति तस्य स्वत एव निश्चयः ॥ २९६७॥ २९६८॥
आद्येऽपि ज्ञाने यत्राभ्यासादिना प्रोत्सारितं भ्रान्तिनिमित्तं तस्य स्वत एव प्रामाण्यमिति दर्शयन्नाह—“वृत्ता”वित्यादि।
वृत्तावभ्यासवत्यां तु वैलक्षण्यं प्रतीयते।
अतद्विषयतो ज्ञानादाद्ये(ऽ)प्राप्तेऽपि तत्फले॥ २९६९॥
अभ्यासबलेन यथा योगिनां मणिरूप्यादिषु वा तद्विदां दूरीकृतभ्रान्तिनिमित्तमेव स्फुटप्रतिभासं प्रजायते विज्ञानमेवमन्यत्राप्यभ्यासबलात्स्फुटतरप्रतिभासतया निरस्तविभ्रमाशङ्कमुपजायमानमध्य(व्य ?)वधानेन सजातीयसाधारणाध्यवसायिनं न परा( सायितं परा ?)मर्शप्रत्ययं जनयद्विजातीयतोऽतद्विषयाद्व्यावृत्तमवसीयत इति स्वत एव तस्य प्रामाण्यमुच्यते। यस्तु मन्यते—अभ्यासवत्यामपि प्रवृत्तौताद्रूप्यलक्षणलिङ्गदर्शनादनुमानत एवार्थप्रापणशक्तिलक्षणप्रामाण्यनिश्चय इति सर्वत्र परतःप्रामाण्यावसायो न क्वचिदेव स्वत इति। तन्न बुद्ध्यामहे। तथाहि—असङ्कीर्णताद्रूप्यलक्षणलिङ्गनिश्चय एव कुतो भवतीति वक्तव्यम्। अभ्यासादिति चेत्, एवं तर्हि यद्यभ्यासबलाद्विजातीयाकारव्यवच्छेदेन सजातीयसाधारणमसङ्कीर्णं सारूप्यमवसीयते भ्रान्तिकारणाभावात्कः प्रामाण्ये प्रद्वेषो येन तदनुभूतं ( तौ ? ) भ्रान्तिकारणविरहेऽपि नाध्यवसीयत इति स्यात्। अपि च किमिदं सारूप्यं नाम, यदि बोधरूपता, सा मिथ्याज्ञानेऽप्यस्तीत्यनैकान्तिकता हेतोः। अथलोहिताकारनिर्भासिता, साऽशोकस्तबकादिग्राहिविज्ञाने विद्यत इति व्यभिचार एव। अथाग्न्यादिपदार्थकार्यता, सा कथं निश्चितेति वक्तव्यम्। तत्सिद्ध्यर्थमपरलिङ्गान्तरमनुसरतोऽनवस्था स्यात्। अथापि स्यादभ्यासबलादेव प्रत्यक्षतो लिङ्गानुसरणमन्तरेणापि स्वत एव सा सिद्धेति। एवं तर्हि यद्यभ्यासस्येदृशं सामर्थ्यमभ्युपगम्यते, तदा मु(श ?)क्तिनिश्चयोऽप्यभ्यासबलादेवान्तरेणापि लिङ्गानुसरणं भवतीति किं नाभ्युपगम्यते। किञ्च—यदि तत्कार्यता सिद्धा ज्ञानस्य तदा व्याप्त्यनुसरणमनर्थकम्, तत्कार्यतावसायादेव तदर्थप्रापणशक्तिसिद्धेरनुमानज्ञानवत्। यथाऽनुमानज्ञानस्य वस्तुप्रतिबद्धलिङ्गदर्शनबलेनोत्पत्तेः पारम्पर्येण वस्तुकार्यतावसायादेव स्वतःप्रामाण्यं न सारूप्यबलादन्यथा ह्यनवस्था स्यात्तथेहापि स्वत एव प्रामाण्यं स्यात्। तथाहि—यत्र पक्षधर्मत्वनिश्चयेऽपि साध्यार्थप्रतीतिर्न जायते तत्र दृष्टान्तधर्मिणि व्याप्तिमनुसरेत्प्रतिपत्ता, यथा कृतकत्वानित्यत्वयोः। इह तु ज्ञानस्य तत्कार्यस्यावसायादेव तदर्थाव्यभिचारितया तत्प्रापणशक्तिः सिद्धेति न ताद्रूप्यं लिङ्गम्। यद्येवं कथमुक्तमाचार्येण लोकायतमधिकृत्य— स खलु प्रत्यक्षं प्रमाणं नानुमानमिति ब्रुवाणः कासाञ्चिद्व्यक्तीनां प्रवृत्तौ संवादं विसंवादं चोपलभ्य तल्लक्षणं व्याप्त्या कथयेद्यथोपदेशं प्रवर्त्तमानस्याविप्रलम्भार्थम्, तद्यथादृष्टसाधर्म्यात्तथा प्रसाधितमनुमेयतां नातिपततीति। नैष दोषः। स्वपरसन्तानवर्त्तिनीरननुभूतविषयाबुद्धीरधिकृत्यैतदुक्तम्। अन्यत्रानुभूतविषयाभ्य इति वचनात्। अन्यथा हि यदि सारूप्यात्सर्वत्र प्रामाण्यं निश्चीयते तदाऽन्यत्रानुभूतविषयाभ्य इति प्रतिषेधोऽनर्थकः स्यात्। तस्मादभ्यासबलात्प्रोत्सारितभ्रान्तिमित्तमुपजायते यत्तत्स्वत एव प्रमाणमिति स्थितम्॥ २९६९॥
यदुक्तम्— यथैव प्रथमज्ञानं तत्संवादमपेक्षते इत्यादि, तत्राह—“वैलक्षण्ये”त्यादि।
वैलक्षण्याप्रतीतौ तु विजातीयार्थशङ्कया।
कार्यावभासिविज्ञानादृते मानाविनिश्चयः॥ २९७०॥
तस्मिन्सदपि मानत्वं विनिश्चेतुं न शक्यते।
उत्तराद्यक्रियाज्ञानात्केवलं तत्प्रतीयते॥ २९७१॥
अतश्च प्रथमं ज्ञानं तत्संवादमपेक्षते।
संवादेनापि संवादः पुनर्मृग्यस्तथैव न॥ २९७२॥
यत्र ह्यनुभूतमपि प्रामाण्यं भ्रान्तिकारणसद्भावाद्विनिश्चेतुं न शक्यते तत्र परतोऽर्थक्रियाज्ञानान्निश्चीयते, तावन्मात्रेणैव च पुरुषस्याभीष्टार्थसंसिद्धेराकाङ्क्षा विनिवृत्तेति न पुनः संवादेनाप्यपरः संवादस्तथैव—आद्यज्ञानवदपेक्षणीयः॥ २९७०॥ ॥ २९७१॥ २९७२॥
कस्यचित्तु यदीष्येत इत्यादावाह—“भ्रान्तिहेतो”रित्यादि।
भ्रान्तिहेतोरसद्भावात्स्वतस्तस्य प्रमाणता।
प्रथमस्य तदाभावे प्रद्वेषो भ्रान्तिसम्भवात्॥ २९७३॥
ननु च यत्सन्दिग्धार्थाविनाभावित्वेनानिश्चितार्थप्रापणसामर्थ्य ज्ञानं तदनुमानवन्न प्रमाणं प्रोप्नोति। तथाहि—अनुमानस्यार्थाविनाभावसंशये सति न प्रामाण्य मिष्टम्, एवं प्रत्यक्षेऽपि न प्राप्रोति। नैष दोषः। नह्यनुमानवदर्थनान्तरीयकमात्मानमुपदर्शयत्प्रत्यक्षं प्रमाणमिष्टम्। किं तर्हि ?। प्रतिभासनार्थावसायं कुर्वत्तु।तथाहि—अर्थक्रियार्थिनोऽभिमतमर्थं प्रापयत्प्रमाणमुच्यते। न चार्थदेशं पुरुषमुपसर्पयदर्थं वा पुरुषदेशमानयत्तत्प्रापकं भवति, अपि तु पुरुषं प्रवर्त्तयत्। तं च पुरुषं न हस्तेन गृहीत्वा प्रवर्त्तयति। किं तर्हि ?। प्रवृत्तिविषयमुपदर्शयत्। तच्चोपदर्शनं प्रतिभासमानार्थावसायान्नान्यम्। यत्र च संशयस्तत्रावश्यं प्रतिभासमानाकारावसायोऽस्ति। तदनवसाये तद्विमर्शायोगात्। ततश्चैतावता प्रत्यक्षव्यापारपरिसमाप्तेः पश्चादर्थाविनाभावसंशयो भवन्न प्रत्यक्षव्यापारमुपरुणद्धीति, सत्यपि संशयोदये भवत्येव प्रामाण्यं प्रत्यक्षस्य। यत्तु प्रतिभासमानपदार्थविरुद्धाकारावसायाक्रान्तमुदेति तन्न प्रमाणम्, यथा मरीचिकाग्राहिज्ञानं जलावसायक्रान्तम्। तत्र यथोक्तप्रमाणव्यापाराभावात्। यच्च शङ्खे पीतज्ञानं मणिप्रभायां मणिज्ञानं तदप्यप्रमाणमेव, तत्र यथार्थं प्रतिभासावसाययोरभावात्। प्रतिभासवशाद्धि प्रत्यक्षस्य ग्रहणाग्रहणे नत्वार्थाविसंवादमात्रत्। न चात्र यथा स्वभावदेशकालावस्थितवस्तुप्रतिभासोऽस्ति, नरा(वा?)देशकालः स एव भवति, देशकालयोरपि वस्तुस्वभावभेदकत्वात्। अन्यथा हिभेदव्यवहारोच्छेदः स्यात्। अनुमानस्य तु विकल्पात्मकत्वेन सामान्यविषयत्वान्नप्रतिभासवशाद्वस्तुविषयत्वव्यवस्था, वस्तुनोऽप्रतिभासात्। किं तर्हि ?। निश्चयवशात्। यथोक्तम्— निश्चयैः। यन्न निश्चीयते रूपं तत्तेषां विषयः कथमिति। ततश्चानुमानस्य तदाभासशून्यस्यापि नान्तरीयकार्थदर्शनबलेनोत्पत्तेः पारम्पर्येणवस्तुनि प्रतिबन्धात्प्रामाण्यमित्यवश्यं तत्राविनाभावनिश्चयोऽपेक्षणीयः। अन्यथाऽनुमानस्योत्पत्त्यसम्भवादिति नानुमानतुल्यं प्रत्यक्षम्॥ २९७३॥
“नन्वि”त्यादिना परः परतःप्रामाण्ये सतीतरेतराश्रयत्वमुद्भावयति।
ननु तस्य प्रमाणत्वे विज्ञानस्याविनिश्चिते।
कथं तत्र प्रवर्त्तेत प्रेक्षावानीप्सितागतेः॥ २९७४॥
तथाहि—प्रेक्षापूर्वकारिणः प्रामाण्यनिश्चये सति प्रवृत्त्या भवितव्यम्, प्रवृत्तौ च सत्यां प्रामाण्यनिश्चय इतीतरेतराश्रयात्कथं प्रेक्षावत ईप्सितार्थाविनिश्चये सति प्रवृत्तिः स्यात्॥ २९७४॥
“उच्यत” इत्यादिना प्रतिविधत्ते।
उच्यते संशयेनैव वर्त्ततेऽसौ विचक्षणाः।
वैचक्षण्यक्षतिस्तस्य नचैवमनुषज्यते॥ २९७५॥
द्विविधा हि प्रवृत्तिरर्थक्रियार्था प्रामाण्यनिश्चयार्था च, तत्राद्या प्रवृत्तिः सत्यपि संशये यथा भवति तथा प्रतिपादितम्, प्रतिभासमानार्थावसायमात्रेणैव प्रत्यक्षस्य प्रवर्त्तकत्वात्, तेन वैचक्षण्यक्षतिरेवं सति नानुषज्यते, अर्थसंशयेनापि कृषीवलादीनामिव प्रवृत्तिदर्शनादित्यभिप्रायः। नच कृषीवलादीनामुपायनिश्चयेन प्रवृत्तैर्युक्ता प्रेक्षापूर्वकारितेति युक्तं वक्तुम्, उपेयापेक्षत्वादुपायस्य। उपेयानिश्चये तन्निश्चयायोगात्॥ २९७५॥
द्वितीयाऽपि प्रवृत्तिः सत्यपि प्रामाण्यसंशये सुतरां युक्तैवेति दर्शयन्नाह—“संशयेने”त्यादि।
संशयेन यतो वृत्तेस्तत्प्रामाण्यविनिश्चये।
निश्चितोपायता तेन मानं (सा च ?) सत्यपि संशये॥ २९७६॥
यतो—यस्मात् प्रामाण्यनिश्चयं प्रति संशयेन प्रवृत्तेरेवोपायता तेन पुरुषेण निश्चिता, ततश्चोपायविषये संशयाभावात्प्रवृत्तिर्युक्तैव॥ २९७६॥
कथं सा तेनोपायता निश्चितेत्याह—“सन्देहेन प्रवृत्तावि”त्यादि।
सन्देहेन प्रवृत्तौ मे फलप्राप्तिर्भवेद्यदि।
प्रामाण्यनिश्चयस्तत्र ज्ञात एव भविष्यति॥ २९७७॥
नान्यथेति नचाप्येवमनुयोगोऽत्र युक्तिमान्।
उपाये वर्त्तते कस्मादिति नह्यन्यथागतिः॥ २९७८॥
नह्युपायाद्विना कश्चिदुपेयं प्रतिपद्यते।
इति सन्देहवृत्तोऽपि प्रेक्षावत्तां जहाति न॥ २९७९॥
सन्देहवृत्तोऽपीति। प्रामाण्यसन्देहेन प्रवृत्तोऽपीत्यर्थः। शेषं सुबोधत्वान्न विभक्तम्॥ २९७७॥ २९७८॥ २९७९॥
“ननु चे”त्यादिना परोऽर्थक्रियाज्ञानात्प्रामाण्यनिश्चयस्यानैकान्तिकतां दर्शयन्नवस्थामेव समर्थयते।
ननु चार्थक्रियाभासि ज्ञानं स्वप्नेऽपि विद्यते।
नच तस्य प्रमाणत्वं तद्धेतोः प्रथमस्य च॥ २९८०॥
“तद्धेतोः प्रथमस्ये”ति। अर्थक्रियाज्ञानहेतोः। न प्रमाणत्वमिति सम्बन्धः २९८०
“नैव”मित्यादिना प्रतिविधत्ते।
नैवं भ्रान्ता हि साऽवस्था सर्वा बाह्यानिबन्धना।
न बाह्यवस्तुसंवास्तास्ववस्थासु विद्यते॥ २९८१॥
स्वसंविदितरूपाश्च चित्तचैत्ताविलक्षणाः।
अवस्याद्वयभेदोऽपि स्पष्टं तेन प्रतीयते॥ २९८२॥
यदि तावद्बाह्यार्थ(वादिनं)बौद्धं प्रति चोद्यते तदाऽसिद्धमिति प्रथमेन श्लोकेन दर्शितम्। तथाहि तेन बाह्यार्थवादिनाऽर्थसंवादात्प्रामाण्यमिष्टं नार्थक्रियाज्ञानसंवादात्, नच स्वप्नेऽर्थसंवादोऽस्ति सर्वस्या एव स्वप्नावस्थाया भ्रान्तत्वेन सर्वेषामविसंवादात्, तत्र सर्वविज्ञानानामर्थमन्तरेणैवोत्पत्तेर्निर्विषयत्वम्, तेन जाग्रदवस्थायां भाविन एव ज्ञानस्य प्रामाण्यलक्षणावतारान्नानेन व्यभिचारो युक्त इति भावः। किञ्च—अप्रवृत्ति(त्त ?)मपूर्वकमस्थिरं व्याकुलं च स्वप्नेऽर्थक्रियाज्ञानम्, तद्विपरीतञ्जाग्रदवस्थायामिति तथाविधस्य प्रामाण्ये कुतः स्वप्नेनानैकान्तः। अथ योगाचारं प्रति चोद्यते, तत्रापीदं प्रकृतानुपयोगि। तथाहि—सांव्यवहारिकस्येदं प्रमाणस्य लक्षणं “प्रमाणमविसंवादि ज्ञान”मिति। तत्र चार्थक्रियानिर्भासिज्ञानसंवेदनमेवाविसंवादः, तदाविर्भावे लोकस्य तथा व्यवहारात्। तदर्थत्वाच्चार्थप्रवृत्तेः। तच्च सांव्यवहारिकं ज्ञानं जाग्रदवस्थाभाव्येव। तत्रैव लोके सर्वव्यवहाराणां पारमार्थिकत्वाभिनिवेशात्। नतु स्वप्नावस्थायाम्। ततश्च जाग्रत्प्रत्ययत्वे सतीति विशेषणस्याश्रवणान्नेतरेण व्यभिचारः॥ २९८१॥ २९८२॥
स्यान्मतं परतस्तस्य प्रामाण्यस्य विनिश्चये।
प्रसज्यते प्रमेयत्वमिति नन्वविरोध्यदः॥ २९८३॥
स्यादेतत्—तुल्ये सर्वाकारतः (सर्वस्य परतः ?) प्रतिभासे कथमयं भेदो निश्चीयते, तदा प्रमाणान्तरेण मीयमानत्वात्तत्प्रमेयं प्राप्नोति, न च प्रमाणमेव प्रमेयं युक्तं विरोधादिति चोद्यम्। “नन्वविरोध्यद” इति परिहारः। “अद” इति। एतत्।अपेक्षाभेदात्कार्यकारणपितृपुत्रव्यपदेशवदविरोधि॥ २९८३॥
एतदेव दर्शयति—“तद्ग्राह्ये”त्यादि।
तद्ग्राह्यवस्त्वपेक्षं हि प्रामाण्यं तस्य गीयते।
परतोऽवगतेस्तस्य प्रमेयत्वव्यवस्थितिः॥ २९८४॥
अपेक्षाभेदतश्चैवं कार्यकारणतादिवत्।
प्रमाणत्वप्रमेयत्वव्यवस्था न विरुध्यते॥ २९८५॥
तेन ज्ञानेन यद्ग्राह्यं वस्तु तदपेक्षता तत्प्रमाणमेव न प्रमेयमं, व्यवस्थापकप्रमाणान्तरापेक्षया तु प्रमेयमेव न प्रमाणमिति न साङ्कर्यदोषः। यथा कार्यं कारणमिति व्यपेक्षाभेदान्न सङ्कीर्यते॥ २९८४॥ २९८५॥
“एव”मित्यादिनोपसंहरति—
एवमर्थक्रियाज्ञानात्प्रमाणत्वविनिश्चये।
नानवस्था पराकाङ्क्षाविनिवृत्तेरिति स्थितम्॥ २९८६॥
पराकाङ्क्षाविनिवृत्तेरिति। परा—अन्या चासावाकाङ्क्षा चेति विग्रहः। परस्मिन्वा —संवादादन्यस्मिन् आकाङ्क्षा पराकाङक्षा, तस्या विनिवृत्तेरिति समासः। किञ्च—प्रमाणमविसंवादिज्ञानमित्यनेनार्थक्रियाधिगमलक्षणफलप्रापकहेतोर्ज्ञानस्येदं लक्षणमुच्यते। ततश्च फल(ला ?)ज्ञाने लक्षणानवतारात्, कथं तस्यापि प्रामाण्यमवसीयतइत्यस्य चोद्यस्यावकाशः कथं भवेत्। तथाह्यङ्कुरस्य हेतुर्बीजमिति लक्षणे सति अङ्कुरस्यापि कथं बीजत्वमिति किं विदुषां प्रश्नो जायते। यथा च बीजस्य तद्भावोऽङ्कुरदर्शनादवगम्यते तथा प्रमाणस्यपि तद्भावोऽर्थक्रियालक्षणफलदर्शनात्। न च तत्र फलमन्येन प्रमाणेनावगम्यते यतोऽनवस्था प्रसज्यते। ज्ञानात्मनः फलस्य स्वत एवसंवेदनात्सिद्धेः। न च स्वरूपे ज्ञानस्य भ्रान्तिः सम्भवति। तदनिश्चये स्वसंवेदनस्यैवाभावप्रसङ्गादिति यत्किञ्चिदेतत्॥ २९८६॥
इदानीं कारणविशुद्धिद्वारेण प्रामाण्यनिश्चयेऽनवस्थादोषं “समुत्पन्नेऽपी”त्यादिना श्लोकेन पूर्वपक्षमुत्क्षिप्य “अत्रापी”त्यादिना परिहरति।
समुत्पन्नेऽपि विज्ञाने न तावदवधार्यते।
यावत्कारणशुद्धत्वं न प्रमाणान्तराद्गतम्॥ २९८७॥
अत्रापि सुधियः प्राहुर्नानवस्थेति येन सा।
शुद्धिः संवादिनो ज्ञनादनपेक्षात्प्रतीयते॥ २९८८॥
सन्निकृष्टे हि विषये कार्यसंवाददृष्टितः।
कारणानां विशुद्धत्वमयत्नेनैव गम्यते॥ २९८९॥
विप्रकृष्टे हि विषये तदुद्भूता मतिः प्रमा।
तज्जन्यत्वाद्यथैवेयं सन्निकृष्टार्थगोचरम्॥ २९९०॥
द्विविधं हि ज्ञानं सन्निकृष्टविषयं विप्रकृष्टविषयं च। तत्र यत्तावत्सन्निकृष्टविषयं तस्य न कारणगुणावधारणात्प्रामाण्यनिश्चयः। किं तर्हि ?। अर्थक्रियासंवादिविज्ञानात्। तथाहि न तत्र गुणावधारणं सम्भवति यावदर्थक्रियासंवादात्सम्यक्त्व नावसीयते, ततश्चावस्थिते सम्यक्त्वे पश्चात्कालभाविकारणगुणावधारणमकिञ्चित्करमेव।यत्पुनर्विप्रकृष्टार्थविषयं ज्ञानं तस्य कारणगुणनिश्चयात्प्रामाण्यनिश्चय इति दर्शयन्नाह —“विप्रकृष्टे ही”त्यादि। यद्विप्रकृष्टविषयं सौवर्णशङ्खग्राहिज्ञानं तस्य तज्जन्यत्वात्— विशुद्धकारणजन्यत्वात्, सन्निकृष्टविषयशुक्लशङ्खग्राहिज्ञानवत्प्रामाण्यनिश्चयः। प्रयोगः —यद्विशुद्धकारणजनितं तत्प्रमाणं, यथा सन्निकृष्टार्थविषयं शुक्लशङ्खग्राहिविज्ञानं,विशुद्धकारणजनितं चेदं विप्रकृष्टार्थविषयं पीताकारशङ्खावभासि विज्ञानमिति स्वभावहेतुः॥ २९८७॥ २९८८॥ २९८९॥ २९९०॥
ननु चासिद्धो हेतुः। तथाहि—कारणशुद्धिर्नार्थसंवादमन्तरेणावधारयितुं शक्यते, अतीन्द्रियत्वादिन्द्रियाणाम्। अर्थसंवादापेक्षायां च तदेव प्रामाण्यं निश्चितमिति कारणगुणावधारणमनर्थकमेव स्यात्। तस्य प्रामाण्यनिश्चयोत्तरकालभावित्वात्। अथापि स्यादेकदा सन्निकृष्टविषयाद्विज्ञानादर्थक्रियासंवादतो गुणवत्तां निश्चित्यान्यदा विप्रकृष्टविषयस्यापि ज्ञानस्य संवादमन्तरेणैव कालान्तरेण गुणवत्ताया निश्चितत्त्वात्ततः प्रामाण्यनिश्चयो भविष्यतीति। तदेतदसम्यक्। नहि क्षणक्षयिणां भावानामेकरूपैव प्रवृत्तिः सम्भवति। अपरापरप्रत्ययोपयोगेन प्रतिक्षणम्भिन्नशक्तित्वादित्येतत्सर्वमाशङ्क्याह—“सितसाध्यक्रियावाप्त्ये”त्यादि।
सितसाध्यक्रियावाप्त्या यथा शङ्खे पुरःस्थिते।
कामलाक्रान्तनेत्रोत्थविज्ञानं नेति गम्यते॥ २९९१॥
इत्थं कारणसंशुद्धौ प्रणीतायां तदेव या।
शातकुम्भमये शङ्खे पीताकारमतिर्भवेत्॥ २९९२॥
विशुद्धकारणोत्पादात्त्वस्याः प्रामाण्यनिश्चयः।
निष्पादितक्रिये कम्बौ सिताकारमतेरिव॥ २९९३॥
अनेनैतदाह—नह्यस्माभिः कालान्तरभाविनो विप्रकृष्टविषयस्य ज्ञानस्य कारणपरिशुद्ध्या प्रामाण्यं निश्चीयते, येनासिद्धता हेतोर्भवेत्, प्रतिक्षणमपरापरप्रत्ययोपयोगेन भिन्नशक्तिसम्भवादिति। किं तर्हि ?। यदैव सन्निकृष्टविषयस्य ज्ञानस्य शुक्लशङ्खग्राहिणः सितसाध्यार्थक्रियाप्राप्त्या कारणशुद्धिनिश्चयस्तदैव या विप्रकृष्टेदेशवर्त्तिनि शातकुम्भमये शङ्खे पीताकारा धीरुपजायते तस्याः कारणपरिशुद्धितः प्रामाण्यमवसीयते। न वा तस्यामेवावस्थायां कारणान्यथात्वं सम्भवति—माभूत्सन्निकृष्टार्थविषयज्ञानस्यार्थक्रियाविसंवाद इति॥ २९९१॥ २९९२॥ २९९३॥
एतच्च भवद्भिर्भीमांसकैरिष्टमेवेति दर्शयन्नाह—“क्षुदाद्यनुपघातादी”त्यादि।
क्षुदाद्यनुपघातादिवचनादिदमुक्तवान्।
भाष्यकारोऽप्यतो मोहादनवस्थेह चोद्यते॥ २९९४॥
अनेन प्रतिज्ञायाः स्ववचनविरोधोऽपि प्रतिपादितः। तथाहि भाष्यकारेणोक्तम् — यदा क्षुदादिभिरुपहतं मनो भवतीन्द्रियं वा, सौक्ष्म्यादिभिर्वा बाह्यो विषयः, ततो मिथ्याज्ञानम्, अनुपहतेषु सम्यग्ज्ञानम्। इन्द्रियमनोऽर्थसन्निकर्षो हि ज्ञानस्य हेतुः, असति तस्मिन्नज्ञानात्तद्गतो हि दोषो मिथ्याज्ञानस्य हेतुः, दुष्टेषु हि ज्ञानं मिथ्या भवति, दोषापगमे सम्प्रतिपत्तिदर्शनात्। कथं दुष्टावगम इति चेत्प्रयत्नेनान्विच्छन्तो च चेद्दोषमवगच्छेम प्रमाणाभावाददुष्टमिति मन्येमहीति। अनेन हि ग्रन्थेन भाष्यकृता कारणशुद्धिज्ञानात्प्रामाण्यनिश्चयः स्पष्टमाख्यातः। अन्यथा (प्र)यत्नेनान्विच्छन्त इत्यनेन किं दर्शितं भवेत्। ततश्च स्वतःप्रामाण्यप्रतिज्ञाव्याघातः॥ २९९४॥
यदुक्तम्— संवादगुणविज्ञाने केन वाभ्यधिके मते इति। तत्र संवादं प्रति पूर्वमुक्तम्, गुणज्ञानं प्रत्याह—“दुष्टे”त्यादि।
दुष्टकारणजन्यत्वशङ्क्या नाधिगम्यते।
मानताऽऽद्यस्य तच्छुद्धिज्ञानमभ्यधिकं मतम्॥ २९९५॥
“मानते”ति। प्रामाण्यम्। आद्यस्येति। अर्थज्ञानस्य। तद्धि कारणशुद्धिज्ञानात्प्रथमभावित्वादाद्यम्। “त”दिति। तस्मात्॥ २९९५॥
“एव”मित्यादिना प्रवृत्तेरदृ(दु?)ष्टतां दर्शयति—
एवं चार्थक्रियाज्ञानाद्धेतुशुद्धिविनिश्चितौ।
अकृतार्थक्रिये वृत्तेरर्थ(रेषाऽ?)वाच्योपपद्यते॥ २९९६॥
“अकृतार्थक्रिय” इति। अकृता अर्थक्रिया येन स तथोक्तः। “अवाच्ये”ति। अवचनीया अनिन्द्येत्यर्थः। प्रामाण्यनिश्चयपूर्वत्वादस्या इति मन्यते॥ २९९६॥
तस्मात्स्वतःप्रमाणत्वं सर्वत्रौत्सर्गिकं स्थितमित्यादावाह—“यदि स्वत” इत्यादि।
यदि स्वतःप्रमाणत्वं सर्वत्रौत्सर्गिकं स्थितम्।
बाधकारणदुष्टत्वज्ञानाभ्यां तदपोद्यते॥ २९९७॥
बाधकारणदुष्टत्वज्ञानाभावात्प्रमाणता।
प्राप्तैवं च परस्मात्ते भवेत्प्रामाण्यनिश्चयः॥ २९९८॥
तथाहि तदभावोऽयमभावाख्यं प्रमान्तरम्।
त्वत्पक्षेऽनुपलम्भाख्यमनुमानं तु मन्मते॥ २९९९॥
अत्र प्रथमेन श्र्लोकेन परपक्षानुवादः, द्वितीयादिना दूषणम्। यदि हि बाधकादिप्रत्ययेन प्रामाण्यमपोद्यते, एवं सति बाधकादिप्रत्ययाभावात्प्रामाण्यनिश्चयोऽभ्युपगतः स्यात्। ततश्च परत एव प्रामाण्यमुक्तं भवेत्। अभावस्यापि प्रमाणान्तरत्वेनेष्टत्वात्। अस्मत्पक्षे त्वनुपलब्धिसञ्ज्ञकेऽनुमानेऽन्तर्भावान्न प्रमाणान्तरम् ॥ २९९७॥ २९९८॥ २९९९॥
किञ्चोत्सर्गापवादयोः कल्पिते(न) शब्दार्थविषयत्वेनानवस्थितत्वाद्वस्तुचिन्तायामनधिकार एव, सर्ववस्तूनां स्वस्वभावव्यवस्थितत्वेन स्वभावान्तरानुगमाभावात्, केवलं तदुपन्यासो भवत उत्सर्गापवादविषयानभिज्ञतामेव प्रकटयति। तथाहि— त्वदुपवर्णितयैवोपपत्त्या विपरीतोऽप्युत्सर्गापवादः शक्यते कल्पयितुमिति दर्शयति —“अनयैवे”त्यादि।
अनयैवोपपत्त्या स्यादप्रामाण्यमपि स्वतः।
तत्रापि शक्यते वक्तुं यस्मान्न्यायोऽयमीदृशः॥ ३०००॥
तस्मात्स्वतोऽप्रमाणत्वं सर्वत्रौत्सर्गिकं स्थितम्।
बाधकारणदुष्टत्वज्ञानाभावादपोद्यते॥ ३००१॥
यदप्युक्तं कुमारिलेन— तस्माद्बोधात्मकत्वेन प्राप्ता बुद्धेः प्रमाणता। अर्थान्यथात्वहेतूत्वदोषज्ञानादपोद्यते॥ इति, अनयापि हि दिशा शक्यमपि वक्तुमिति दर्शयन्नाह—“तथा बोधात्मकत्वेने”त्यादि।
तथा बोधात्मकत्वेन बुद्धेः प्राप्ताऽप्रमाणता।
यथार्थज्ञानहेतूत्थगुणज्ञानादपोद्यते॥ ३००२॥
अप्रामाण्ये परायत्ते भवत्येवानवस्थितिः।
प्रमाणाधीनमेतद्धि स्वतस्तच्चाप्रतिष्ठितम्॥ ३००३॥
अप्रमाणतेत्यकारप्रश्लेषः। यथार्थज्ञानं च—अर्थसंवादज्ञानं, हेतूत्थगुणज्ञानं च—कारणसमुत्थगुणज्ञानमिति समाहारद्वन्द्वः। परायत्तेऽपि तस्मिन्नित्यादावाह—“अप्रामाण्य” इत्यादि। “एतद्धी”ति। अप्रामाण्यम्। “तच्चे”ति। प्रमाणम्॥ ३००२॥ ॥३००३॥
कथमप्रतिष्ठितमित्याह—“तथाही”त्यादि।
तथाहि बाधकाभावात्प्रामाण्यं भवतोचयते।
बाधाभावोऽप्यभावाख्यं प्रमाणान्तरमिष्यते॥ ३००४॥
तस्यापि बाधकाभावात्प्रामाण्यमभिधीयते।
तत्र तत्रैवमिच्छायां व्यवस्था नोपलभ्यते॥ ३००५॥
यदुक्तम्—बाधकः प्रत्यय इत्यादि तत्राह—“अनपेक्षप्रमाणत्व”मित्यादि।
अनपेक्षप्रमाणत्वं बाधकप्रत्यये यतः।
न सिद्धं तेन नैवायं पूर्वज्ञानमपोहते॥ ३००६॥
अभावाख्यस्य प्रमाणस्यापेक्ष(त)त्वादनपेक्षप्रमाणत्वमस्यासिद्धम्॥ ३००६॥
“अथापी”त्यादिना। अनवस्थामेव समर्थयते।
अथापि बाधकाभावं विना प्रामाण्यमिष्यते।
क्वचिदाद्ये तथाभावे प्रद्वेषः किन्निमित्तकः॥ ३००७॥
यद्यनवस्थाभयात्क्वचिद्विनैव बाधकाभावं प्रामाण्यमिष्यते तदा प्रथमेऽपि ज्ञाने बाधकाभावो नापेक्षणीयः स्यात्। ततश्च सर्वज्ञानानां प्रामाण्यप्रसङ्गः॥ ३००७॥
यदुक्तम्—तत्रापि त्वपवादस्य स्यादपेक्षेत्यादि। तत्राह—“बाधकः प्रत्ययश्चाय”मित्यादि।
बाधकः प्रत्ययश्चायं पूर्वज्ञानमपोहते।
अनपेक्षप्रमाणत्वाद्यदि शङ्काऽत्र किं भवेत्॥ ३००८॥
अनपेक्ष्यप्रमाणत्वं शङ्क्यते चात्र बाधकम्।
विरुद्धमेतदाशङ्का निश्चिते न हि जायते॥ ३००९॥
यदि बाधकः प्रत्ययोऽनपेक्ष्यप्रमाणभावस्तत्कथं तत्रापवादाशङ्का, येनोच्यते तत्रापि त्वपवादस्य स्यादपेक्षेति, ततश्च परस्परव्याहतमेतदुक्तम्—अनपेक्षप्रमाणत्वम्, तत्र चाशङ्क्यते बाधकमिति। तथाह्यनपेक्षमित्यनेन निश्चयेन विषयीकृतमु च्यते, यत्र च निश्चयस्तत्राशङ्काया असम्भवः, निश्चयारोपमनसोर्बाध्यबाधकभावात्, आशङ्कायाश्चोभयांशावलम्बित्वेनारोपाकारप्रवृत्तत्वात्॥ ३००८॥ ३००९॥
अथानुरूपयत्नेनेत्यादावाह—“स्वतःप्रामाण्यपक्ष” इत्यादि।
स्वतःप्रामाण्यपक्षेऽपि स्वरसेनैव निश्चयात्।
कस्माद्बाधकसद्भावसिद्धौ यत्नो विधीयते॥ ३०१०॥
तथाहि स्वरसेनैव न यस्मिन्माननिश्चयः।
निश्चीयतेऽत्र(प्य?)यत्नेन सामर्थ्यात्तत्र बाधकः॥ ३०११॥
अतः परीक्षकज्ञानत्रयमत्र किमुच्यते।
नैकस्याप्यवकाशोऽस्ति तस्मिन्निश्चयतः स्वतः॥ ३०१२॥
यदि चोत्पद्यते शङ्काऽनुपलम्भेऽपि संशयात्।
बाधाभावाविनाभूतं य्मान्नानुपलम्भनम्॥ ३०१३॥
एवं सति त्रये कस्मात्परितोषस्त्वया कृतः।
अदृष्टावपि शङ्क्येत बाधा पूर्ववदत्र हि॥ ३०१४॥
यावन्न कार्यसंवादस्तावन्न विनिवर्त्तते।
बाधाशङ्का यतस्तस्मिन्नियमस्त्रितयेऽफलः॥ ३०१५॥
ततश्चाजातबाधेनाप्याशङ्क्यं बाधकं पुनः।
छलेन वस्तुनस्तत्त्वं नहि जात्ववतिष्ठते॥ ३०१६॥
आजीवितात्समुत्पन्नं बाधप्रत्ययवर्जितम्।
शङ्खे पीतनिभं ज्ञानं प्रमाणं नहि जायते॥ ३०१७॥
यदि स्वत एव प्रामाण्यनिश्चयस्तदा निश्चयेन प्रामाण्यस्य व्याप्तत्वाद्यत्रानिश्चयस्तत्र सामर्थ्यादप्रामाण्यस्यावस्थानाद्बाधकसद्भावो यत्नमन्तरेणैव निश्चित इति तद्भावसिद्ध्यर्थो व्यर्थो यत्नः, तत्र चैकस्यापि परीक्षकज्ञानस्यापेक्षावकाशो नैव सम्भवतीति, किं पुनस्त्रयाणामित्यत इदमप्यसङ्गतमुक्तम्—इदं च परीक्षकज्ञानत्रितयं नातीवर्त्तत इति दर्शयति—“अत” इत्यादि। स्यादेतत्—अनुपलम्भमात्रेण बाधकाभावो न शक्यते निश्चेतुम्, सतोऽपि कस्यचिद्दूरसूक्ष्मव्यवहितस्यानुपलब्धेर्बाधकाभावेनानुपलम्भस्याव्याप्तत्वात्, तेन बाधकाभावसिद्धये यत्नो विधीयत इति। यद्येवं परीक्षकज्ञानत्रयनियमं जहीहि, प्रथमज्ञानवदन्यत्रापि बाधकस्याशङ्क्यमानत्वात्, यावद्वि(द्धि?) फलज्ञानं नोदेति तावद्बाधाशङ्का केन निवर्त्तताम्, येन त्रयनियमः स्यात्, न ह्याक्रोशमात्रेणैव विना प्रमाणं प्रेक्षावतामाशङ्कानिवृत्तिर्युक्ता। तथाहि वस्तुस्थित्या प्रमाणचिन्ता, नायं छलव्यवहारः प्रस्तुतो येन कतिपयप्रत्ययमात्रं निरूप्यते। यदि पुरर्ज्ञानत्रयोदयावधिमात्रेण प्रामाण्यमवतिष्ठते हन्त तर्हि “येषामाजी”वितं कामलोपहतचक्षुषां पीतशङ्खाकारमेव ज्ञानमुपजायते तेषां तद्विज्ञानं प्रमाणं स्यात्॥ ३०१०॥ ३०११॥ ३०१२॥ ३०१३॥ ३०१४॥ ३०१५॥ ॥ ३०१६॥ ३०१७॥
स्यादेतद्यद्यप्रमाणं तस्य किमिति ज्ञानत्रयपरीक्षाया ऊर्ध्वं बाधकं नोपजायते, अनुत्पत्तेर्नास्तीत्यवसीयत इत्याशङ्क्याह—“विशुद्धी”त्यादि।
विशुद्धिकारणाभावान्नोपजायेत बाधकम्।
अन्येन वा निमित्तेन नातः शङ्का निवर्त्तते॥ ३०१८॥
विशुद्धेः कारणं द्रोणकुसुमरसनिषेकादि। तस्याभावान्नोपजायते बाधकम्। “अन्येन वा निमित्तेने”ति। यथा मरुमरीचिकानिचये समुपजातसलिलविभ्रमस्य पुंसोऽनुपसर्पणात्सलिलस्वभावविविक्तमरुस्थलीनिर्भासि ज्ञानं नोपजायते॥ ३०१८॥
उत्प्रेक्षेत हीत्यादावाह—“सनिमित्तैवे”त्यादि।
सनिमित्तैव तेनेयमाशङ्का यत्र मोहतः।
शुद्धिसंवाददृष्टौ तु नाशङ्का सुधियो भवेत्॥ ३०१९॥
स सर्वव्यवहारेषु संशयात्मा न जायते।
निःसंशया हि धीस्तस्य शुद्धिसंवाददर्शने॥ ३०२०॥
अत्रापि यः पुनः शङ्कां कश्चित्प्रकुरुते जडः।
संशयात्मकता ये(ऽजे?)न मन्ये तं प्रति निन्दिता॥ ३०२१॥
प्रतिपादितमेतद्यथा कारणशुद्धिसंवादज्ञानाभ्यां शङ्का निवर्त्तते। यत्पुनरुक्तं तथाच वासुदेवेनेत्यादि, तत्केवलमात्मनो भक्तिवादावलम्बनं प्रकटितं न वस्तुस्थितिः। नहि वचनमात्रान्निर्युक्तिकात्परस्य प्रेक्षावतो व्युत्थितचेतसस्तत्स्वभावनिर्णयो ज्ञायते। तथाहि वासुदेववचनमन्येनाभिसम्बन्धिना व्यवस्थितत्वादविरोधीति दर्शयन्नाह—“अत्रापी”त्यादि। अत्र—शुद्धिसंवाददर्शने, यो भवद्विधः शङ्कां कुरुते संवादेनापि संवादः पुनर्मृग्यस्तथैव हीत्येवम्, तं प्रति, अजेन—विष्णुना, संशयात्मकता निन्दितेति सम्भाव्यते॥ ३०१९॥ ३०२०॥ ३०२१॥
यावानेवापवादोऽतो यत्र सम्भाव्यते मतावित्यादावाह—“देशे”त्यादि।
देशकालानरावस्थाभेदापेक्षाप्रकल्पिते।
प्रामाण्यनिश्चयेऽन्यस्माद्व्यक्तं प्रामाण्यनिश्चितिः॥ ३०२२॥
तथाहि देशकालादौ बाधाभावात्सुनिश्चितौ।
प्रमाणान्तरतः प्राञ्चे ज्ञाने प्रामाण्यनिश्चयः॥ ३०२३॥
अनेन स्ववचनविरोधं प्रतिपादयति। तथाहि—देशकालनरावस्थापेक्षया प्रामाण्यनिश्चये प्रकल्प्यमाने परत एवेति स्पष्टमुक्तं भवति। यतो देशकालादौ प्रमाणान्तरतो बाधाया अभावे निश्चिते सति प्राच्ये—प्रथमे ज्ञाने प्रामाण्यनिश्चयोऽभ्युपगम्यमानः कथं परतो नाभ्युपगतः स्यात्। अवश्यं हि प्रमाणान्तरतो बाधाया अभावो निश्च(श्चे?)यः, तथाहि—स्वतःप्रामाण्येऽभ्युपगम्यमाने सर्वज्ञानानां प्रामाण्यप्रसङ्गो माभूदित्यवश्यं त्वया वक्तव्यं यत्र बाधा नास्ति तस्यैव स्वतःप्रामाण्यं नान्यस्येति, स च बाधाया अभावोऽनुपलम्भमात्रान्न शक्यते निश्चेतुं व्यभिचारादिति सामर्थ्यानुपलब्धिलक्षणप्राप्तानुपलम्भतो निश्चेयः, तस्यैव बाधाभावेन व्याप्तत्वात्। स चोपलब्धिलक्षणप्राप्तानुपलम्भः संवादविज्ञानतो नान्यो युक्त इति प्रमाणान्तरत एव प्रामाण्यनिश्चयोऽभ्युपगतः स्यात्॥ ३०२२॥ ३०२३॥
“ऋणादी”त्यादावाह—“ऋणादी”त्यादि।
ऋणादिव्यवहारस्तु यो वाक्यत्रययोग्यवान्।
स तादृशस्थलात्मैव नोदाहार्यः प्रमास्थितौ॥ ३०२४॥
अर्थिप्रत्यर्थिनौ तत्र स्मृत्वा स्मृत्वा परिस्फुटम्।
नहि सूक्ष्मेक्षिकां कर्त्तुं लभेते तत्र वस्तुनि॥ ३०२५॥
वस्तुस्थित्या प्रमाणं तु व्यवस्थाप्यं छलान्ननु।
प्रकृताप्रतिरूपोऽतो व्यवहार उदाहृतः॥ ३०२६॥
वस्तुस्वभावप्रतिबद्धायां प्रमास्थितौ प्रकृतायां इच्छामात्रविरचितसङ्केतप्रतिबद्धस्य छलात्मनो यदृणादिव्यवहारस्योदाहरणं तत्केवलं भवतः प्रकृतानभिज्ञतां प्रकटयति ॥ ३०२४॥ ३०२५॥ ३०२६॥
त्रिसत्यतापि देवानामित्यादावाह—“त्रिसत्ये”त्यादि।
त्रिसत्यताऽपि देवानां नैव निश्चितिकारणम्।
आद्यान्निश्चित्य सद्भावे नैव स्यात्परतोऽप्यसौ॥ ३०२७॥
“आद्या”दिति। प्रथमाद्वचनान्निश्चितेरसद्भावे सति परतः—उत्तरकालभाविनो वचनद्वयात् असौ—निश्चितिर्नैव स्याद्विशेषाभावात्॥ ३०२७॥
एतदेव दर्शयति—“तदीय”मित्यादि।
तदीयमेव येनेदं वचनद्वयमुत्तरम्।
तदाद्ये प्रत्ययाभावे को विशेषस्तदन्ययोः॥ ३०२८॥
“उत्तर”मिति। पश्चात्कालभावि। “प्रत्ययाभाव” इति। निश्चयाभावे। “तदन्ययो”रिति। तस्मादन्ययोरुत्तरकालभाविनोरित्यर्थः। यो ह्येकं वचनं द्वितीयं च मिथ्या वदेत् स तृतीयमपि किं न वदेत्, कस्तदानीं तस्य प्रतिरोद्धा, येन तृतीयात्सम्प्रत्ययो जायते॥ ३०२८॥
तेन स्वतःप्रमाणत्व इत्यादावाह—“अत” इत्यादि।
अतः पूर्वोक्तया युक्त्या त्वत्पक्षेऽप्यनवस्थितिः।
प्रमाणत्वाप्रमाणत्वे यथायोगमतः स्थितेः॥ ३०२९॥
पूर्वोक्ता युक्तिः— तथाहि बाधकाभावात्प्रमाणं भवतोच्यते। बाधाभावोऽप्यभावाख्यं प्रमाणान्तरमिष्यत इत्यादिनोक्ता॥ ३०२९॥
नित्यमाप्तप्रणीतं चेत्यादावाह—“वाक्य”मित्यादि।
वाक्यं नित्यं पुराऽस्माभिर्विस्तरेण निराकृतम्।
क्षीणनिःशेषदोषश्च नाप्तोस्ति भवतः स्मृतौ॥ ३०३०॥
अक्षीणावृत्तिराशिस्तु कीदृगाप्तो भविष्यति।
तस्य सम्भाव्यते दोषादन्यथाऽपि वचो यतः॥ ३०३१॥
पुरा—श्रुतिपरीक्षायाम् नित्यं वाक्यं विस्तरेण निरस्तमित्यसिद्धत्वात्कुतस्तस्यस्वतःप्रामाण्यचिन्तावतारो भवेत्। आप्तस्य स्वयमनभ्युपगमात्प्रणीतमपि वाक्यमसिद्धमेव। तथाहि—यस्यानृतहेतवो रागादयो दोषाः निःशेषं प्रहीणाः स एवाप्तोयुक्तः, अन्यथा रागादिभिर्दोषैरनृतहेतुभिः परीतचेतसः कथमाप्तत्वं सेत्स्यति। नच भवद्भिः प्रहीणाशेषक्लेशजालः कश्चिन्नरोऽभ्युपगम्यते, येनाप्तवचनं प्रमाणं भवेद्भवताम्॥ ३०३०॥ ३०३१॥
किञ्च भवतु नामाप्तस्तथापि तस्य वचनमसिद्धमेवेति दर्शयति—“जातेऽपी”त्यादि।
जातेऽप्याप्ते तदीयोऽसौ गुणौघः केन शक्यते।
ज्ञातुमाप्तप्रणीते स्याद्यतो वाक्येऽवधारणम्॥ ३०३२॥
योऽप्यतीन्द्रियदृक्पश्येत्तदीयगुणसम्पदम्।
तस्याप्याप्तप्रणीतेन वचसा किं प्रयोजनम्॥ ३०३३॥
स हि वाक्यनिराशंसः स्वयमर्थं प्रपद्यते।
अन्योऽप्याप्तापरिज्ञानात्ततोऽर्थं नावगच्छति॥ ३०३४॥
नह्याप्तमनवधार्य तदीयमेतद्वचनमित्येवमवधारयितुं शक्यम्, न चाप्तावधारणं सम्भवति, तथाहि—यस्तावत्क्षीणनिःशेषदोषोऽतीन्द्रियार्थदर्शी स यद्यप्याप्तमवधारयति, तथाऽपि तद्वचनमकिञ्चित्करमेव, स्वयं सर्वार्थप्रत्यक्षदर्शित्वेन तद्वचनादप्रवृत्तेरतस्तस्य तदवधारणमनर्थकम्। यश्चान्योऽर्वाग्दर्शीं स नैवाप्तावधारणपटुरिति नासौ स्वतस्तद्वचनादर्थमवगच्छति, अनिश्चितत्वात्॥ ३०३२॥ ३०३३॥ ३०३४॥
ये विद्यागुरव इत्यादावाह—“स्वतःप्रामाण्ये”त्यादि।
स्वतःप्रामाण्यवादे च स्वतो निश्चयजातितः।
विनाशसम्भवायोगात्किमर्थं विनिवारणम्॥ ३०३५॥
निश्चयजातितः—निश्चयोत्पत्तेः। अन्यथा यदि स्वतो निश्चेयो नोत्पद्यते तदा स्वतःप्रामाण्यवादो हीयेत॥ ३०३५॥
अतो गुणनिषिद्धैर्वेत्यादावाह—“न नामे”त्यादि।
न नाम दूष्यते वाक्यं दोषैर्गुणनिराकृतैः।
गुणानिश्चयतस्तत्तु विनिश्चेतुं न शक्यते॥ ३०३६॥
यदि नाम दोषौर्न दूष्यते गुणवद्वाक्यं गुणैर्दोषाणां निराकृतत्वात्, तथाऽपि परसन्तानवर्त्तिनां गुणानामतीन्द्रियत्वात्तदनिश्चये गुणवद्वाक्यं निश्चेतुं न शक्यते, नचापि (वि?) निश्चितं स्वतःप्रमाणं भवितुमर्हति॥ ३०३६॥
यद्वा कर्तुरभावेन न स्युर्दोषा इत्यत्राह—“वाक्यस्ये”त्यादि।
वाक्यस्याकर्तृकत्वं च प्रागेव विनिवारितम्।
नातः कर्तुरभावे ते(न?) न स्युर्दोषा निराश्रयाः॥ ३०३७॥
“प्रागेवे”ति। श्रुतिपरीक्षायाम्॥ ३०३७॥
तत्रोप्तोक्तेर्द्वयं दृष्टमित्यादावाह—
गुणेभ्यश्च प्रमाणत्वं यथा युक्तं तथोदितम्।
गुणानां चापरिज्ञाने दोषाभावो न लक्ष्यते॥ ३०३८॥
स्वतो वाक्यं प्रमाणं तद्दोषाभावोपलक्षितम्।
न युक्तमपरिज्ञानाद्दोषाभावो ह्यलक्षणम्॥ ३०३९॥
“तथोदित”मिति। तत्रापि सुधियः प्राहुरित्यादिना। यच्चोक्तम्—स्वतो वाक्यं प्रमाणं च दोषाभावोपलक्षितमिति, तदप्ययुक्तम्, गुणानामतीन्द्रियत्वात्तदपरिज्ञाने दोषाभावस्य गुणभावात्मकस्य लक्षयितुमशक्यत्वात्। एतदेवाह—“दोषाभावो ह्यलक्षण”मिति। लक्ष्यतेऽनेनेति लक्षणम्, न लक्षणमलक्षणम्, उपलक्षणं न भवतीत्यर्थः। अपरिज्ञातत्वादिति भावः॥ ३०३८॥ ३०३९॥
नचापरिज्ञातं लक्षणं भवतीति दर्शयति—“न ही”त्यादि।
नहि दण्डापरिज्ञाने पुंसां दण्डीति लक्ष्यते।
तल्लक्षितं स्वतो मानमित्येतच्च पराहतम्॥ ३०४०॥
दोषाभावः प्रमाभावात्प्रमाणान्निश्चितात्मकः।
वाक्यस्य लक्षणं युक्तं परतोऽतः प्रमास्थितिः॥ ३०४१॥
किञ्च भवतु नाम दोषाभावो लक्षणं तथापि दोष एव, स्ववचनव्याघातप्रसङ्गात्। तथाहि—यदि दोषाभावेन प्रामाण्यमुपलक्ष्यते तदा स्पष्टमेव परतःप्रामाण्यमुक्तं स्यात्, ततश्च स्वतःप्रामाण्यमित्येतद्वचनं पराहतं स्यात्। एतदेव स्पष्टयति —दोषाभावो यद्यभावाख्येन प्रामाण्येन निश्चितो भवेत्तदाऽसौ लक्षणं भवेत्,अनिश्चितस्य लक्षणत्वायोगात्, अन्यस्य चाभावनिश्चायकस्य प्रमाणस्याभावात्, ततश्च परतोऽभावाख्यात्प्रामाण्यं स्फुटतरमेवोक्तं स्यात्॥ ३०४०॥ ३०४१॥
यदुक्तम्—नृदोषविषयं ज्ञानं तेषु सत्सु न जायते। इति तत्राह—“नृदेषे”त्यादि।
नृदोषविषयं ज्ञानं तेषु सत्सूपजायते।
न नाम दोषाभावे तु गुणाज्ञाने कथं मतिः॥ ३०४२॥
यदि नाम गुणेषु सत्सु दोषविषयं ज्ञानं नोत्पद्यते, गुणानां परसन्तानवर्त्तिनामतीन्द्रियत्वात्तदपरिज्ञाने सति दोषाभावनिश्चयो न प्राप्नोति गुणभावात्मकत्वाद्दोषाभावस्य, नहि घटविविक्तप्रदेशापरिज्ञाने घटाभावो ज्ञातुं शक्यते॥ ३०४२॥
एतदेव दर्शयति—“द्वेषे”त्यादि।
द्वेषमोहादयो दोषाः कृपाप्रज्ञादिबाधिताः।
दयाद्यनिश्चये तेषामसत्त्वं हि कथं गतम्॥ ३०४३॥
“तेषा”मिति। दोषाणाम्॥ ३०४३॥
अत्र कुमारिलेनोक्तम्— तदा न व्याप्रियन्ते तु ज्ञायमानतया गुणाः। दोषाभावे तु विज्ञेये सत्तामात्रोपकारिणः॥ इति, एत“त्तदे”त्यादिनाशङ्कते।
तदा न व्याप्रियन्ते तु ज्ञायमानतया गुणाः।
दोषाभावे तु विज्ञेये सत्तामात्रोपकारिणः ३०४४॥
“उपकारिण” इति। दोषाभावनिश्चयं प्रत्युपकारिणः॥ ३०४४॥
“यद्येव”मित्यादिना प्रतिविधत्ते।
यद्येवं संशयो न स्याद्विपर्यस्ता मतिस्तथा।
दोषाः सन्त्यस्य नो वेति सन्त्येवेत्याप्तसम्मते॥ ३०४५॥
तत्सन्देहविपर्यासौ भवतश्चात्र कस्यचित्।
यावद्गुणगणाधार इत्यसौ नावगम्यते॥ ३०४६॥
यदि सत्तमात्रेण गुणा दोषाभावनिश्चयाय व्याप्रियेरंस्तदाऽऽप्तसम्मते पुंसि न कस्यचिद्दोषाभावं प्रति संशयविपर्यासौ प्राप्नुतः, निश्चयेन तयोर्बाधितत्वात्, नचैवम्भवति, तत्तस्माद्यावद्गुणवत्तानिश्चयो न जायते तावद्दोषाभावविषयौ संशयविपर्यासौ भवत एवेति न सत्तामात्रेण व्याप्रियन्ते गुणाः॥ ३०४५॥ ३०४६॥
दोषाभावेऽप्यथाज्ञाने स्वतःप्रामाण्यनिश्चयः।
तथाऽपि विमतिर्न स्यात्पूर्ववत्तत्र वक्तरि॥ ३०४७॥
अथापि स्यान्माभूद्गुणानां व्यापारो दोषाभावनिश्चयाय, तथाऽप्यनिश्चितादेव दोषाभावात्प्रामाण्यनिश्चयो भविष्यतीति, एतदप्ययुक्तम्, पूर्ववत्तत्राप्तसन्मते वक्तरिविमत्यभावप्रसङ्गात्। नहि तद्वाक्यस्य स्वतःप्रामाण्यनिश्चये सति तस्मिन्वक्तरि किमयं सत्यवादी न वा, नैव वेति मतिर्युक्ता। विमतिशब्देनात्र संशयविपर्यासौ विवक्षितौ। विपरीताकारा मतिर्विमतिरिति कृत्वा संशयस्योभयांशावलम्बित्वेन विपरीताकारसम्भवात्॥ ३०४७॥
यच्चापरमिदमुक्तं कुमारिलेन— तस्माद्गुणेभ्यो दोषाणामभावात्तदभावतः। अप्रमाणद्वयासत्त्वं तेनोत्सर्गोऽनपोदितः॥ इत्यादि, तदपि दोषाभावनिश्चये सत्ययुक्तमेवेति दर्शयति—“दोषाभावस्ये”त्यादि।
दोषाभावस्य चाज्ञानादप्रमाद्वयनास्तिता।
कथं प्रतीयते येन भवेत्प्रामाण्यनिश्चयः॥ ३०४८॥
अथाप्रमाद्वयासत्ताऽप्रतीतावपि गम्यते।
प्रामाण्यं स्वत एवैवं विमतिः स्यान्न पूर्ववत्॥ ३०४९॥
यदि हि संशयविपर्यासाभ्यामपवादभूताभ्यां रहितं ज्ञानं सिद्ध्येत्तदा तत्प्रमाणं भवेत्। अन्यथाऽपवादसमाक्रान्ते विषये कथमुत्सर्गो निविशेत। तयोश्च संशयविपर्यासयोर्दोषहेतुकत्वाद्दोषाभावानिश्चये तयोरभावनिश्चयो न युज्यते। “अप्रमाद्व”“यनास्ति”तेति। संशयविपर्ययनास्तिता॥ ३०४८॥ ३०४९॥
तामेव विमतिं दर्शयति—“किमस्य वचनं मान”मित्यादि।
किमस्य वचनं मानं किंवाऽमानमथाप्यदः।
अमानमेव सर्वेषां स्वतःप्रामाण्यनिश्चयात्॥ ३०५०॥
एवं दोषाभावादीनां सत्तामात्रेण प्रामाण्यनिश्चयं प्रत्यङ्गभावो न युक्त इति प्रतिपादितम्, इदानीं तेषु निश्चयापेक्षणे परतःप्रामाण्यमनवस्था न प्रसज्यत इत्येतद्द्वयं विस्तरेण प्रतिपादयन्नाह—“दोषाभावे”त्यादि।
दोषाभावाप्रमाभावगुणभावेषु त्रिष्वपि।
अवश्याभ्युपगन्तव्या प्रतीतिर्नियमादतः॥ ३०५१॥
दोषाभावे अप्रमाणद्वयाभावे गुणेषु चावश्यं प्रतीतिः—निश्चयाख्याऽभ्युपगन्तव्या। अन्यथा प्रामाण्यनिश्चयायोगादिति प्रतिपादितत्वात्॥ ३०५१॥
यदि नामाऽभ्युपगता ततः किमित्याह—“से”त्यादि।
साऽप्रमाणं प्रमाणं वेत्येषामेवं विकल्प्यते।
यथार्थनिश्चयायाङ्गमप्रमाणं कथं भवेत्॥ ३०५२॥
सैषा त्रिष्वपि यथोक्तेषु प्रतीतिः प्रामाण्याङ्गत्वेनेष्टा किमप्रमाणमाहोस्वित्प्रमाणमिति कल्पनाद्वयम्। यद्याद्यः कल्पस्तदा प्रामाण्यनिश्चयाङ्गं न प्राप्नोति स्वयमप्रमाणत्वात्। नह्यप्रमाणत्वेन गृहीतः साक्षी व्यवहारे निश्चयाङ्गं भवति॥ ३०५२॥
प्रामाण्ये परतः प्राप्ते तत्प्रामाण्यविनिश्चयः।
कथं वा गम्यते तस्याः प्रतीतेः सा प्रमात्मता॥ ३०५३॥
बाधकप्रत्ययाभावादिति चेत्सोऽपि किं प्रमा।
न वेति दोषः सर्वोऽपि पुनरत्रानुवर्त्तते॥ ३०५४॥
अथ द्वितीयः पक्षस्तदा परतस्तस्य विवक्षितस्य ज्ञानस्य प्रामाण्यप्रसङ्गोऽनव स्यादोषश्च। तामेवानवस्थां प्रतिपिपादयिषुः सन्पृच्छति—“कथं वे”त्यादि। “सोऽ”“पी”ति। बाधकप्रत्ययाभावः॥ ३०५३॥ ३०५४॥
कथमसौ दोषोऽत्राप्यनुवर्त्तत इत्याह—“प्रामाण्य” इत्यादि।
प्रामाण्ये परतःप्राप्ता प्रस्तुतस्य प्रमाणता।
यथार्थज्ञानहेतुत्वमप्रमाणस्य वा कुतः॥ ३०५५॥
अस्यापि गम्यते केन प्रामाण्यमिति चिन्त्यते।
बाधकप्रत्ययासत्त्वादित्यनिष्टा प्रसज्यते॥ ३०५६॥
सुबोधम्। “अस्यापी”ति। बाधकप्रत्ययाभावस्य॥ ३०५५॥ ३०५६॥
किञ्च—तस्माद्गुणेभ्यो दोषाणामभाव इत्यादिना प्रदर्शितेन न्यायेन यदि सर्वत्र प्रामाण्यं निश्चीयते तदा पूर्वमेव प्रमाणं परतोऽभ्युपगतं स्यादनवस्था च। तद्दर्शयति —“तस्मा”दित्यादि।
तस्माद्गुणेभ्यो दोषाणामभावस्तदभावतः।
अप्रमाणद्वयासत्त्वं तेनोत्सर्गोऽनपोदितः॥ ३०५७॥
सर्वत्रैवं प्रमाणत्वं निश्चितं चेदिहाप्यसौ।
पूर्वोदितो दोषगणः प्रसक्ता चानवस्थितिः॥ ३०५८॥
“पूर्वोदित” इति। गुणादीनां परसन्तानवर्त्तिनामर्वाग्दर्शनस्यातीन्द्रियत्वात्तदनिश्चये दोषाभावस्याप्यनिश्चयादप्रमाणद्वयासत्त्वमप्यनिश्चितमिति न गुणादिभ्यः प्रामाण्यं सिद्ध्येत्, अथ ते सत्तामात्रेणोपकारकास्तदा विमतिर्न स्यादित्येवमादिर्दोषगणः सर्वत्र प्रसज्यते॥ ३०५७॥ ३०५८॥
अपि च—तस्माद्गुणेभ्यो दोषाणामभाव इत्यादिना यत्प्रामाण्यं निश्चयाङ्गत्वेनोक्तमप्रमाणद्वयासत्त्वं दोषाभावश्चेत्येतद्द्वयं तत्किं प्रसज्यप्रतिषेधमात्रमिष्टमाहोस्वित्पर्युदासात्मकमिति कल्पनाद्वयम्। प्रथमपक्षे दोषमाह—“दोषाभाव” इत्यादि।
दोषाभावे प्रमासत्त्वमितीदं च निषेधनम्।
केवलं यदि कल्प्येत तत्सिद्धिर्नैव सम्भवेत्॥ ३०५९॥
अभावानु(दु?)पलम्भेन तत्सिद्धिर्नावकल्पते।
अनवस्थितिदोषाच्च न युक्तानुपलम्भतः॥ ३०६०॥
यदि प्रसज्यप्रतिषेधमात्रमिष्टं तदा तस्य सिद्धिर्नैव सम्भवेत्। तथाहि—तस्य स्वतो वा सिद्धिर्भवेत्परतो वा। स्वतोऽपि सिद्धिर्भवन्ती स्वयं प्रकाशात्मतया वा भवेन्निश्चयजननाद्वा। परतोऽपि कदाचिदुपलम्भाद्वा भवेदनुपलम्भाद्वेति पक्षाः। न तावत्स्वतःप्रकाशात्मतया सिद्धिर्युक्ता, तस्याऽवस्तुत्वात्प्रकाशात्मतायाश्च वस्तुधर्मत्वात्। ज्ञानमेव हि प्रकाशात्मतया स्वसंवित्त्या सिद्ध्यति। नतु वस्तुस्वभावनिषेधमात्रलक्षणोऽभावः। नापि निश्चयजननात्स्वतस्तस्य सिद्धिः। सर्वसामर्थ्यविरहलक्षणत्वादभावस्य जनकत्वानुपपत्तेः। जनकत्वे वा वस्तुरूपत्वप्रसङ्गात्। तस्यानाधेयातिशयत्वेन सहकारिनिरपेक्षत्वात्तन्मात्रभाविनः कार्यस्याविरामप्रसङ्गाच्च। परतोऽप्युपलम्भात्तस्य सिद्धिर्नावकल्पते, कुतः, अभावात्—अभावात्मकत्वात्, उपलम्भस्य भावविषयत्वात्। नाप्यनुपलम्भतस्तस्य सिद्धिरनवस्थाप्रसङ्गात्। तथाह्यनुपलम्भोऽप्यभावात्मकत्वात्कथं सिद्ध इति तत्रापीयं स्वतः परत इति चिन्ताऽवतरत्येव। न तावत्स्वतो यथोक्तदोषप्रसङ्गात्। नापि परतोऽनवस्थादोषात्॥ ३०५९॥ ॥ ३०६०॥
तामेवानवस्थां दर्शयति—“दोषाप्रमाद्वयासत्ते”त्यादि।
दोषाप्रमाद्वयासत्ता गम्यतेऽनुपलम्भतः।
उपलम्भस्य नास्तित्वमन्येनेत्यनवस्थितिः॥ ३०६१॥
दोषाश्च अप्रमाद्वयं च तयोरसत्तेति समासः॥ ३०६१॥
द्वितीयेऽपि पर्युदासात्मके दोषमाह—“पर्युदासात्मकं तच्चे”दित्यादि।
पर्युदासात्मकं तच्चेत्तद्विविक्तान्यदर्शनात्।
दोषाभावापरिज्ञानं गुणज्ञानात्मकं भवेत्॥ ३०६२॥
विवक्षितप्रमाज्ञानस्वरूपं च प्रसज्यते।
अप्रमाणद्वयासत्त्वज्ञानं तद्व्यतिरेकि च॥ ३०६३॥
अप्रमाद्वितयासत्त्वे ज्ञाते स्वातन्त्र्यतोऽथवा।
परिशिष्टः प्रमात्मेति भवतो निश्चयः कुतः॥ ३०६४॥
अन्यथानुपपत्त्या चेन्नन्वर्थापत्तितो भवेत्।
अनुमातोऽन्यतो वापि स्यादेवं निश्चयोऽन्यतः॥ ३०६५॥
दोषाभावो हि पर्युदासवृत्त्या गुणात्मक एव भवेत्, ततश्च तत्परिज्ञानमपि गुणज्ञानात्मकं प्राप्नोति, तच्च नेष्टम्, “तदा न व्याप्रियन्ते च ज्ञायमानतया गुणाः” इति वचनात्। अप्रमाणद्वयासत्त्वमपि पर्युदासपक्षे प्रमाणात्मकमेवावतिष्ठते, ततश्चाप्रमाणद्वयासत्ताज्ञानमपि विवक्षितप्रमाज्ञानस्वरूपं प्रसज्यते, ततश्च अप्रमाणद्वयासत्त्वन्तेनोत्सर्गोऽनपोदितः इति न युज्यते, दुःश्लिष्टत्वात्। तथाहि—तस्यैव प्रमाणत्वेन निश्चितत्त्वात्तस्य प्रमाणत्वं निश्चीयत इति हेतुहेतुमद्भावेन वाक्यार्थो दुःश्लिष्टःस्यादव्यतिरेकात्। किञ्च हेतुहेतुमतोर्भेदात्तद्व्यतिरेकि—प्रमाणपरिज्ञानव्यतिरेकि अप्रमाणद्वयासत्ताज्ञानं प्रसज्यते। नच पर्युदासात्मकस्य तद्वयतिरेकिता युक्ता। “अप्रमाद्वि”“तयासत्त्वे ज्ञात” इत्यादिनाऽभ्युपगम्याप्रमाद्वयासत्तासिद्धिं परमतेनैव परतःप्रामाण्यं प्रतिपादयति—“अन्यथानुपपत्त्ये”ति। संशयविपर्यासाभ्यामन्यस्य ज्ञानस्य स्वतःप्रामाण्यं मुक्त्वा गत्यन्तरासम्भवात्॥ ३०६२॥ ३०६३॥ ३०६४॥ ३०६५॥
तस्माद्गुणेभ्य इत्यादिनोक्तस्य न्यायस्यानैकान्तिकत्वं प्रतिपादयन्नाह—“तस्मादेव चे”त्यादि।
तस्मादेव च ते न्यायादप्रामाण्यमपि स्वतः।
प्रसक्तं शक्यते वक्तुं यस्मात्तत्राप्यदः स्फुटम्॥ ३०६६॥
तस्माद्दोषेभ्यो गुणानामभावस्तदभावतः।
प्रमाणरूपनास्तित्वं तेनोत्सर्गोऽनपोदितः॥ ३०६७॥
यस्मादुत्सर्गभावोऽयं विवक्षामात्रनिर्मितः।
शक्योऽभिधातुं विस्पष्टमप्रमाणेऽपि मानवत्॥ ३०६८॥
यतो बाधात्मकत्वेन बुद्धेः प्राप्ता प्रमाणता।
यथार्थज्ञानहेतूत्थगुणज्ञानादपोद्यते॥ ३०६९॥
गुणैश्चाज्ञायमानत्वान्नाप्रामाण्यमपोद्यते।
अनपोदितसिद्धं च स्वतस्तदपि संस्थितम्॥ ३०७०॥
“अद” इति। एतत्। किं तच्छक्यते वक्तुमित्याह—“तस्मा”दित्यादि। “मानव”दिति। सप्तम्यन्ताद्वतिः। “तदपी”ति। अप्रामाण्यम्। शेषं सुबोधम्॥ ३०६६॥ ॥ ३०६७॥ ३०६८॥ ३०६९॥ ३०७०॥
दोषाः सन्ति न सन्तीत्यादावाह—“दोषा” इत्यादि।
दोषाः सन्ति न सन्तीति पौरुषेयेषु शङ्क्यते।
कर्तुर्वेदेपि सिद्धत्वाद्दोषाशङ्का न नास्तिनः॥ ३०७१॥
श्रुतिपरीक्षायां वेदस्य कर्तुः प्रसाधितत्वात्कर्तुरभावादित्यसिद्धम्, तेन प्रेक्षावतामस्माकं वेदे दोषाशङ्का न नास्ति, अपित्वस्त्येव॥ ३०७१॥
अतो यदनपेक्षत्वादित्यत्राह—“अत” इत्यादि।
अतो यदनपेक्षत्वाद्वेदे प्रामाण्यमुच्यते।
तदसिद्धं यतः सोऽपि कर्त्तारं समपेक्षते॥ ३०७२॥
“सोऽपी”ति। वेदः॥ ३०७२॥
वेदार्थे अन्यप्रमाणैरित्यादावाह—“यदि संवादिविज्ञान”मित्यादि—
यदि संवादिविज्ञानं न वा हेतुविशुद्धता।
निश्चिता संशयोत्पत्तेस्तदा वेदे न मानता॥ ३०७३॥
यद्यर्थक्रियासंवादिज्ञानं कारणविशुद्धिज्ञानं च द्वयमप्येतत्प्रामाण्यनिश्चयकारणं वेदे नाङ्गीक्रियते तदा निश्चयहेतुवैकल्याद्वेदे प्रामाण्यनिश्चयो न प्राप्नोति, कारणमन्तरेण कार्यस्यासम्भवात्॥ ३०७३॥
अन्यस्यापि प्रमाणत्व इत्यत्राह—“अन्यस्यापी”त्यादि।
अन्यस्यापि प्रमाणत्वे एवम्भूतैव सङ्गतिः।
कारणं कल्प्यते यस्मान्निश्चयस्तन्निबन्धनः॥ ३०७४॥
“एवम्भूतैवे”ति। संवादगुणपरिज्ञानलक्षणा। अत्र चानवस्थादोषः पूर्वमेव परिहृतः, तस्माद्यत्प्रमाणं न तत्प्रमाणान्तरसङ्गतिमपेक्षत इत्येतदनैकान्तिकम्, निश्चयार्थं प्रमाणान्तरस्यापेक्षणात्॥ ३०७४॥
एतदेव दर्शयति—“स्थिते ही”त्यादि।
स्थिते हि तस्य मानत्वे निश्चयः क्रियतेऽनया।
न त्वपूर्वं प्रमाणत्वमनया तस्य जन्यते॥ ३०७५॥
एतेनैतदपि प्रत्युक्तं भवति—यत्रापि स्यात्परिच्छेदः प्रमाणैरुत्तरोत्तरैरित्यादि। नह्यन्यतो माननिश्चये तस्य पूर्वस्य ज्ञानस्यार्थप्रापणशक्तिलक्षणं मानत्वमपैति॥ ३०७५॥
“सकृज्जातविनष्टे च भवेन्नार्थे प्रमाणता” इत्यत्राह—“सकृदि”त्यादि।
सकृज्जातविनष्टे च स्यादेवार्थे प्रमाणता।
अनिश्चितेऽपि साऽस्त्येव निश्चयोऽप्युदितक्रमात्॥ ३०७६॥
सेति। मानता॥ ३०७६॥
उदितमेव क्रमं दर्शयन्नाह—“यदि कारणशुद्धत्वा”दीत्यादि।
यदि कारणशुद्धत्वादिज्ञानं निश्चयस्ततः।
यदि चार्थक्रिया प्राप्ता साक्षाद्वा(द्गा?)हादिलक्षणा॥ ३०७७॥
यद्वाऽभ्यासवती वृत्तिर्निरपेक्षा फलोदये।
सर्वोपायवियोगे तु न प्रमाणविनिश्चयः॥ ३०७८॥
अतः प्रमाणता तस्मिन्विद्यमानाऽप्यनिश्चिता।
अविद्यमानकल्पेति नैवास्तीत्यपदिश्यते॥ ३०७९॥
“यदि चार्थक्रिया प्राप्तेति”। तदा निश्चयस्तत इति प्रकृतेन सम्बन्धः। ननुचार्थक्रियाज्ञानस्यान्यविषयत्वात्पूर्वप्रत्ययप्रामाण्यस्य सिद्धिस्ततो न युक्ता। तथाहि —अवयविद्रव्यासम्भवाज्जलविषयं लोचनज्ञानं रूपमात्रग्राहि, स्त (स्ना?) नाद्यर्थक्रियाज्ञानं तु स्पर्शमात्रगोचरमिति कथमन्यालम्बनं ज्ञानमन्यविषयस्य ज्ञानस्य प्रामाण्यं शोधयेदतिप्रसङ्गात्। नैष दोषः। एकसन्तानवर्त्तिनो विषयद्वयस्याविनाभावादन्यालम्बनमपि ज्ञानमन्यविषयस्य ज्ञानस्य प्रामाण्यं साधयिष्यति। नहि तौ रूपस्पर्शौ विनिर्भागेन वर्त्तेते, एकसामग्र्यधीनत्वात्। तत्र पूर्वस्य ज्ञानस्यानर्थेऽप्यर्थरूपेण प्रवृत्तिदर्शनादुत्तरकालभाविनस्तद्विषयाविनाभूतस्पर्शग्राहिणो ज्ञानान्न निश्चयोत्पत्तिरपेक्ष्यते। नन्वेवमपि क्षणिकत्वात्सर्वभावानां पूर्वज्ञानपरिगृहीतरूपाविनाभाविस्पर्शो नैवोत्तरज्ञानप्रवृत्त्या विषयीकृत इति कथं ततो विनिश्चयः। नैष दोषः। उत्तरेषां रूपादिक्षणानां पूर्वज्ञानगृहीतै रूपादिक्षणैरविशिष्टार्थक्रियावाञ्छायामभिन्नयोगक्षेमत्वादैक्यमेव व्यवह्रियते। नह्यर्वाग्दर्शनानां क्षणैर्व्यवहारः। अथवा पूर्वज्ञानपरिच्छिन्नरूपाद्यर्थाविनाभावादुत्तरज्ञानविषयस्य तत्कारणतया सत्यपि भेदव्यवहारे ततो निश्चयो न विरुध्यते॥ ३०७७॥ ३०७८॥ ३०७९॥
यदुक्तम्—श्रोत्रधीश्चाप्रमाणं स्यादित्यादि, तत्राह—“श्रोत्रबुद्धे”रित्यादि।
श्रोत्रबुद्धेरपि व्यक्ता नेत्रादिमति(तराभिर?)सङ्गतिः।
एकसामग्र्यधीनं हि रूपशब्दादि वर्त्तते॥ ३०८०॥
परस्पराविनिर्भागात्सन्तत्याऽन्योन्यकारणम्।
तेषामस्त्येव सम्बन्धस्तदेवं सुपरिस्फुटम्॥ ३०८१॥
तद्धियामपि तद्द्वारा धूमेन्धनविकारवत्।
श्रोत्रधीस्तत्प्रमाणं स्यात्तदन्यमतिसङ्गतेः॥ ३०८२॥
इतराभिश्चक्षुरादिधीभिरसङ्गतिर्नैव सिद्धा। तथाहि—वीणादिशब्दस्य तत्सम्बन्धिनश्च रूपादेरेकसामग्र्यधीनत्वात्परस्पराभिर्विभागलक्षणो धूमेन्धनविकारयोरिव सम्बन्धोऽस्त्येव। प्रबन्धवृत्त्यपेक्षायां च पूर्वपूर्वः कलापोऽन्यस्योत्तरोत्तरस्य कारणम्भवतीति साक्षाच्च कार्यकारणभावलक्षणोऽपि सम्बन्धोऽस्त्येव। ततश्च तद्ग्राहिणामपि ज्ञानानां तद्द्वारकपारम्पर्येण सम्बन्धोऽस्ति। तत्तस्माच्छ्रोत्रधीः प्रमाणं भवत्येव,तदन्याभिश्चक्षुरादिमतिभिर्यथोक्तसम्बन्धसद्भावात्। तथाहि दूराद्वीणादिशब्दश्रवणात्तदर्थिनो वेण्वादिशब्दसाधर्म्यादुपजातसंशयस्य पुंसः प्रवृत्तौ वीणारूपदर्शनाद्यः प्रागुपजातः संशयः किमय वीणाध्वनिरुत वेणुगीतादिशब्द इति स व्यावर्त्तते। यत्र च देशे मृदङ्गादिप्रतिशब्दश्रवणात्प्रवृत्तस्य तदर्थाधिगतिर्न भवति तत्र विसंवादादप्रामाण्यं प्रत्येति॥ ३०८०॥ ३०८१॥ ३०८२॥
साधनान्तरजन्या तु बुद्धिर्नास्ति द्वयोरपीत्यादावाह—“साधनान्तरे”त्यादि।
साधनान्तरजन्या तु बुद्धिरेषा विनिश्चिता।
हेत्वन्तरकृतज्ञानसंवादस्तेन वाञ्छ्यते॥ ३०८३॥
“एषे”ति। वीणादिरूपग्राहिणी॥ ३०८३॥
यथा त्वेतेन्द्रियाधीनविज्ञानान्तरसङ्गतिरित्यादावाह—“एव”मित्यादि।
एवं नानेन्द्रियाधीनविज्ञानान्तरसङ्गतिः।
प्रत्यक्षे कारणं क्लृप्ता वेदे त्वेषा न दृश्यते॥ ३०८४॥
“एषा न दृश्यत” इति। नानेन्द्रियाधीना विज्ञानान्तरसङ्गतिः॥ ३०८४॥
कथमसौ प्रत्यक्षे कारणं क्लृप्तेत्याह—“तथाही”त्यादि।
तथाहि सलिलज्ञानमाद्यमुत्पद्यतेऽक्षिजम्।
पानस्नानादिनिर्भासं जिह्वाकायाश्रितं परम्॥ ३०८५॥
“अक्षिज”मिति। रूपविषयं चक्षुर्विज्ञानमित्यर्थः। परमिति। उत्तरकालभावि ३०८५
एकेनैव हि वाक्येनेत्यादावाह—“एकेनापी”त्यादि।
एकेनापि तु वाक्येन देशकालनरादिषु।
लभ्यते नार्थसंवादः सर्वस्मिन्संशयोदयात्॥ ३०८६॥
अग्निहोत्राद्भवेत्स्वर्ग इतीत्थं श्रूयते समम्।
निश्चयाङ्गवियुक्तं हि ग(श?)ब्ददर्द्दुरमात्रकम्॥ ३०८७
अनेनासिद्धतामर्थसंवादस्याह। तथाह्यग्निहोत्रात्स्वर्गो भवतीत्यतो वाक्यात्प्रेक्षावतो निश्चयकारणाभावात्संशयो जायत एवेति न देशकालादौ संवादसिद्धिः ॥ ३०८६॥ ३०८७॥
नापि नरान्तरे सर्वत्र संवादो लभ्यत इति दर्शयन्नाह—“स्वर्गादावि”त्यादि।
स्वर्गादौ मतभेदश्च विप्राणामपि दृश्यते।
लभ्यते नार्थसंवादस्तस्मादिह नरादिषु॥ ३०८८॥
तथाहि—मनुष्यातिशायिपुरुषविशेषनिकेतः सुमेरुगिरिशिखरादिदेशविशेषोऽधिमानुषसुखाधिष्ठानो नानोपकरणसमृद्धः स्वर्ग इति निरुक्तकारादयो वर्णयन्ति। प्रीतिविशेषो मनुष्याणामेव स्वर्ग इति मीमांसकाः। यागेऽपि विप्रतिपत्तिर्दृश्यते। श्रूयते हि पुराकाले पिष्टमयः पशुर्येनायजन्त यज्वान इति। अन्यैस्तु दुरात्मभिर्निष्कृपैः प्राणिविशेष एव पशुरिति वर्णितम्॥ ३०८८॥
तस्माद्दृढं यदुत्पन्नमित्याह—“चोदनाजनित” इत्यादि।
चोदनाजनिते ज्ञाने दार्ढ्यं प्रागपहस्तितम्।
सन्दिग्धो हि तथाभावस्तद्ग्राह्यस्यान्यसाम्यतः॥ ३०८९॥
“प्रा”गिति। श्रुतिपरीक्षायाम्। “अन्यसाम्यत” इति। अग्निहोत्रात्स्वर्गो न भवतीत्यादिपौरुषेयवचनसमुद्भूतप्रतीत्या तुल्यत्वात्॥ ३०८९॥
किञ्च—वाङ्(मात्र)मेतद्भवताम्—यथा चोदनाजनिता बुद्धिर्देशादिषु न विसंवदतीति दर्शयति—“असर्वदर्शिभि”रित्यादि।
असर्वदर्शिभिर्विप्रैः कुत एतद्विनिश्चितम्।
चोदनाजनिता बुद्धिः सर्वसंवादिनीति च॥ ३०९०॥
साध्या न चानुमानेनेत्यादावाह—“निश्चिते”त्यादि।
निश्चितोक्तानुमानेन प्रत्यक्षस्यापि मानता।
शुद्धकारणजन्यत्वात्तत्प्रमाणं तदन्यवत्॥ ३०९१॥
अनिष्टापत्तिर्हि प्रसङ्ग उच्यते, न च प्रत्यक्षस्यानुमानतः प्रामाण्यसिद्धिर्नेष्टा, येन प्रसङ्गापादनं स्यात्। यथा चानुमानेन प्रत्यक्षस्य प्रामाण्यं साध्यते तथा पूर्वमुक्तम्। तदेव स्मारयति—शुद्धकारणजन्यत्वात्प्रमाणमिति। “तदन्यव”दिति। सन्निकृष्टविषयग्राहिप्रत्यक्षवत्॥ ३०९१॥
प्रमाणानां प्रमाणत्वं येन चान्येन साध्यत इत्यादावाह—“सर्वस्ये”त्यादि।
सर्वस्य च न साध्येयं प्रमाणान्तरतः प्रमा।
यस्मादर्थक्रियाज्ञाने भ्रान्तिर्नास्तीति साधितम्॥ ३०९२॥
यथा चार्थक्रियाज्ञाने भ्रान्तिर्नास्ति तथा पूर्वं “उच्यते वस्तुसंवाद” इत्यादिना प्रसाधितम्। तेनार्थक्रियाज्ञानसंवादात्प्रामाण्ये नानवस्था भवति॥ ३०९२॥
अनुमानेनापि साध्ये न भवत्येवेति दर्शयति—“आत्मे”त्यादि।
आत्मकार्याख्यलिङ्गाच्च निश्चिताव्यभिचारतः।
जायमानेऽनुमानेऽपि भ्रान्तिरस्ति न काचन॥ ३०९३॥
आत्मा च स्वभावः कार्यं चेति तथोक्तम्, तदाख्या यस्य लिङ्गस्येति विग्रहः। निश्चितोऽव्यभिचारो यस्य लिङ्गस्य तत्तथोक्तम्। एतदुक्तं भवति—तादात्म्यतदुत्पत्तिसम्बन्धाभ्यां प्रतिबद्धस्वभावकार्याख्यलिङ्गनिश्चयबलेनोपजायमानमनुमानं विभ्रमकारणाभावात्स्वत एव प्रमाणमिति नानवस्था॥ ३०९३॥
अन्येनासाधिता चेदित्यादावाह—“क्वचि”दित्यादि।
क्वचित्तु विविधभ्रान्तिनिमित्तबलभाविनी।
भ्रान्तिरुत्सार्यतेऽनेन यस्मात्तत्र न निश्चयः॥ ३०९४॥
अभ्यासादेर्निश्चयकारणस्याभावात् क्वचिदाद्ये प्रत्यक्षे भ्रान्तिरुत्पद्यत इति न तस्य सिद्ध्येत्स्वत एव प्रमाणता॥ ३०९४॥
“प्रमाणं ग्रहणात्पूर्वं स्वरूपेण प्रतिष्ठितम्” इत्यादावाह—“अव्यक्ते”त्यादि।
अव्यक्तव्यक्तिकत्वेन व्यक्तोऽर्थो न प्रसिद्ध्यति।
परप्रत्यक्षवत्तस्माज्ज्ञानं ज्ञातमितीष्यताम्॥ ३०९५॥
अव्यक्ता व्यक्तिर्यस्यार्थस्य स तथोक्तः। अवश्यं हि ज्ञानं ज्ञातव्यम्। तदज्ञाने सर्वाज्ञानप्रसङ्गात्। तथाह्यर्थाभिव्यक्तिरेव ज्ञानमुच्यते नान्यत्, तस्याश्चाभिव्यक्तेः परोक्षत्वेऽर्थस्यापि परोक्षत्वप्रसङ्गः। यथा परसन्तानवर्त्तिप्रत्ययविषयस्यार्थस्याव्यक्तव्यक्तित्वात्। प्रयोगः—यद्यस्याव्यक्तव्यक्तिकं वस्तु तत्तस्य प्रत्यक्षं न भवति, यथा परसन्तानवर्त्तिनैव प्रत्यक्षेण विषयीकृतमन्यस्य, अव्यक्तव्यक्तिकं च विवादास्पदीभूतं विज्ञानं कस्यचिदिति व्यापकविरुद्धोपलब्धिः। नचानैकान्तिको हेतुः, तस्य वस्तुनो व्यक्त्युत्पादमन्तरेण प्रत्यक्षत्वे सर्वेषां प्रत्यक्षत्वप्रसङ्गात्। नचैवं भवति। तस्माद्विपर्ययः॥ ३०९५॥
यथाचाविदितैरेवेत्यत्राह—“स्वय”मित्यादि।
स्वयं तु जडरूपत्वाच्चक्षुरादिभिरिन्द्रियैः।
गृह्यन्ते विषया नैवं तेषां ज्ञाने तु हेतुता॥ ३०९६॥
विषयवज्जडरूपत्वाच्चक्षुरादीनां न विषयग्रहणं मुख्यतोऽस्ति, केवलं विज्ञानं प्रति हेतुभावमात्रेण तेषां विषयग्रहणं कल्पितमित्यज्ञातैरेव तैर्विषयज्ञानोत्पादकतयाविषया गृह्यन्ते इति स्यात्, नत्वेवं विज्ञानेन विषयस्य किञ्चित्क्रियते, येनाज्ञातमपि चक्षुरादिवद्विषयं गृह्णातीति स्यात्। अभिव्यक्तिः क्रियत इति चेत्। न।ज्ञानपर्यायत्वात्। अभिव्यक्तिरुपलब्धिः परच्छित्तिः संवेदनमित्येवमादयः पर्याया उच्यन्ते, नार्थान्तरम्। न च स्वात्मनः करणं युक्तम्। स्वात्मनि कारित्रविरोधात्। उत्पन्नानुत्पन्नावस्थयोः सदसत्त्वाच्च। तथाहि—उत्पन्नं वा ज्ञानमात्मानं कुर्यादनुत्पन्नं वा। न तावदुत्पन्नं, तदात्मनोऽप्येकयोगक्षेमतयोत्पन्नत्वात्। नच यो येन सहैकयोगक्षेमो न भवति स तत्स्वभावो युक्तोऽतिप्रसङ्गात्। नचोत्पन्नस्य स्वभावस्यकरणं युक्तमतिशयस्याभावात्। करणाविरामप्रसङ्गाच्च। नाप्यनुत्पन्नमिति पक्षोऽसत्त्वात्। नह्यसतो व्यापारो युक्तस्तस्य सर्वसामर्थ्योपाख्याविरहलक्षणत्वात्। व्यापारे सत्यसत्त्वहानिप्रसङ्गात्। इदमेव हि सत्त्वलक्षणं यदर्थक्रियाकारित्वम्। तस्मान्न साम्यं दृष्टान्तस्य दार्ष्टान्तिकेन॥ ३०९६॥
तेनात्र ज्ञायमानत्वमित्यादावाह—“तेनात्रे”त्यादि।
तेनात्र ज्ञायमानत्वं प्रामाण्य उपयुज्यते।
विषयानुभवो यस्मादज्ञातो नैव लभ्यते॥ ३०९७॥
ननु च यदि ज्ञानं स्वसंविदा स्वत एव सिद्धम्, तर्हि स्वत एव ज्ञानं प्रमाणमित्याशङ्क्याह—“एताव”दित्यादि।
एतावत्तु भवेदत्र ग्रहणेऽपि स्वसंविदः।
भ्रान्तिकारणसद्भावात्तथात्वे न विनिश्चयः॥ ३०९८॥
तदा चार्थतया भावोऽप्यस्मान्नैवावसीयते।
सादृश्यादुपलम्भेन तदन्यारोपसम्भवात्॥ ३०९९॥
नह्यनुभूतमित्येव सर्वात्मना निश्चयो जायते कारणान्तरापेक्षत्वान्निश्चयोत्पत्तेरितिबहुधा प्रतिपादितं, तेन गृहीतमपि ज्ञानस्य स्वसंविदोऽर्थप्रमाणसामर्थ्यं भ्रान्तिकार णस्याप्रमाणसारूप्यानभ्यासादेः सद्भावान्निश्चयानुत्पत्तेरनिश्चितमित्युच्यते। निश्चयानुभवयोर्भेदात्। ततश्च समारोपव्यवच्छेदेन परतःप्रामाण्यमिष्टमित्यदोषः।यथोक्तम्—स्वरूपस्य स्वतो गतिः प्रामाण्यं व्यवहारेणेति। “तथा त्व” इति। प्रामाण्ये॥ ३०९८॥ ३०९९॥
अप्रमाणं पुनः स्वार्थे इत्यादावाह—“आभ्यासिक”मित्यादि।
आभ्यासिकं यथा ज्ञानं प्रमाणं गम्यते स्वतः।
मिथ्याज्ञानं तथा किञ्चिदप्रमाणं स्वतः स्थितम्॥ ३१००॥
अभ्यासे भवमाभ्यासिकम्। यथाऽभ्यासबलात्प्रामाण्यं क्वचित्स्वत एव निश्चीयते इत्युक्तम्, तथा मिथ्यात्वमपि कस्यचित्स्वत एवावसीयते। तथा च दृश्यन्त एव तैमिरिकादयः केचिदभ्यासबलात्केशोण्ड्रकादिविज्ञानमुत्पादसमनन्तरमेव मिथ्यात्वेन निश्चिन्वन्तः॥ ३१००॥
तदत्राप्यन्यथाभावे धीर्यथा दुष्टकारण इत्यादावाह—“बाधकारणे”त्यादि।
बाधकारणदुष्टत्वज्ञानेऽप्युक्ताऽनवस्थितिः।
तावता तस्य मिथ्यात्वं ग्रहीतुं तन्न पार्यते॥ ३१०१॥
“उक्ते”ति। तथाहि—“बाधकाभावात्प्रमाणं भवतोच्यते। बाधाभावोऽप्यभावाख्यम्प्रमाणान्तरमिष्यत” इत्यादिना। “त”दिति। तस्मात्॥ ३१०१॥
“उत्पत्त्यवस्थमेवेदं प्रमाणमिति मीयत” इत्यत्राह—“उत्पत्त्यवस्थ”मित्यादि।
उत्पत्त्यवस्थमेवेदं प्रमाणमिति मीयते।
न तावदविकल्पत्वादनिष्टेश्चात्मसंविदः॥ ३१०२॥
नापि ज्ञानान्तरेणैव तत्कालेऽसन्निधानतः।
तस्याप्यव्यक्तभावत्वादनिष्टापत्तितोऽपि वा॥ ३१०३॥
उत्पत्त्यवस्थायां किमात्मनैव प्रमाणमिति निश्चीयते, आहोस्विद्विज्ञानान्तरेण सहकालभाविना, यद्वोत्तरकालभाविनेति पक्षाः। तत्र न तावदात्मनैव सर्वज्ञानानामात्मनि निर्विकल्पत्वात्प्रमाणमित्येव ग्रहणमनुपपन्नम्। नापि परेण संवेदनं ज्ञानस्येष्टम्, नित्यं बुद्धेः परोक्षत्वाभ्युपगमात्। नापि ज्ञानान्तरेण समानकालभाविना, युगपद्विज्ञानद्वयानुत्पत्तेः। नापि भिन्नकालभाविना, तस्यापि ज्ञानान्तरस्यासिद्धौ तद्ग्राह्यस्यासिद्धौ तद्ग्राह्यस्यापि ज्ञानस्याव्यक्तव्यक्तिकत्वेनासिद्धेस्तस्यापि ज्ञानान्तरेण सिद्धाविष्यमाणायामनवस्थाप्रसङ्गात्॥ ३१०२॥ ३१०३॥
अतो यत्रापि मिथ्यात्वमित्यादावाह—“वेदेऽपी”त्यादि।
वेदेपि बाधकं मानमुक्तमेवानुमात्मकम्।
तदुक्तात्माद्यपोहेन तस्मान्मानं न युज्यते॥ ३१०४॥
पौरुषेयत्वसिद्धेश्च शङ्क्या दुष्टनिमित्तता।
वह्नेरिव स्वतः शक्तिर्मिथ्याज्ञानेषु वा भवेत्॥ ३१०५॥
चोदनाप्रभवं ज्ञानमतो दुष्टनिमित्तकम्।
शङ्क्यते दृष्टदोषाच्च शङ्क्यदोषं न भिद्यते॥ ३१०६॥
नहि साधर्म्यमात्रं बौद्धैर्वेदे बाधकं प्रमाणमुच्यते। किं तर्हि ?। तदुक्तस्यात्मसामान्यादेः पदार्थस्य प्रमाणबाधनात्। एतच्चात्मपरीक्षादौ प्रतिपादितम्। किञ्च —श्रुतिपरीक्षायां वेदानां पौरुषेयत्वस्य साधितत्वात्, सत्यपि वाऽपौरुषेयत्वे दाववन्ह्यादिवन्मिथ्यात्वकारणतासम्भवात्, अप्रामाण्यमस्य सम्भाव्यत इत्येवमुच्यते, न साधर्म्यमात्रम्। स्यादेतत्—यदि नाम सम्भाव्यते तथापि सम्भावनामात्रात्कथमप्रामाण्यमस्य सिद्ध्यतीत्याह—“दृष्टदोषाच्च शङ्क्यदोषं न भिद्यत” इति। शङ्क्या दोषा यस्मिन्वाक्ये तत्तथा। “न भिद्यत” इति। उभयस्यापि प्रामाण्यं (ण्य ?) सद्व्यवहारनिषेधयोग्यतया (योः ?) तुल्यत्वात्॥ ३१०४॥ ३१०५॥ ३१०६॥
“तस्मा”दित्यादिनोपसंहरति।
तस्मात्स्वतःप्रमाणत्वं वेदस्यापि न युज्यते।
तेन निश्चितनिर्दोषकृताख्यातत्वमिष्यताम्॥ ३१०७॥
कृतश्चासावाख्यातश्चेति तथोक्तः। आख्यातो व्याख्यातः, निर्दोषैः पुरुषैः कृताख्यात इति तृतीयासमासः, तद्भावस्तत्त्वं, निश्चितं च तन्निर्दोषकृताख्यातत्वं चेति विग्रहः। तदेतदिष्यताम्, वेदस्य प्रामाण्यसिद्धय इति सम्बन्धः। ततश्चैवमिष्यमाणे परतःप्रामाण्यं स्यादनिष्यमाणे त्वप्रामाण्यमेवेति भावः॥ ३१०७॥
निश्चितनिर्दोषकृताख्यातत्वमिष्यतामित्यत्र कुमारिलस्योत्तरमाह—“रागे”त्यादि।
रागद्वेषादियुक्ता हि प्रवक्तारो यथा यथा।
तथा तथाहि रक्षन्ति स्वाध्यायं सुतरां ननु॥ ३१०८॥
कस्य किं दुर्बलं को वा कस्मात्पूर्वं प्रपाठकः।
कः स्वरक्षामतां कुर्यात्को भिन्द्द्यादपदे पदम्॥ ३१०९॥
इति यस्य हि संरब्धाः सन्ति रन्ध्रगवेषिणः।
कथं न नाम निर्दोषं स पठेद्वेदमादृतः॥ ३११०॥
शुद्धाश्चेदभ्युदासीनाः स्युर्वेदाध्यायिनो नराः।
आचक्षीरन्परैरेवं न ते वेदं विनाशितम्॥ ३१११॥
ततः कालेन महता तूपेक्षितविनाशितः।
अन्य एव भवेद्वेदः प्रतिकञ्चुकतां गतः॥ ३११२॥
रागद्वेषादियुक्तांश्च रुन्धद्भिर्वेदनाशिनः।
सर्वदा रक्षितो वेदः स्वरूपं न प्रहास्यति॥ ३११३॥
कस्याध्येतुः किं स्मृतिमेवाति (मेधादि?) दुर्बलम्, को वा कुतोऽधीतवान्, को वा स्वरस्योदात्तादेः क्षामतामन्यथात्वं कुर्वीत, अपदमेव वा कः पदत्वेन भित्त्वापठेदित्येवं यस्य वेदपाठकस्य रन्ध्रं निरूपयन्तो वेदाध्यायिनो नराः संरब्धाः समारब्धवीर्याः सन्ति, स कथं वेदपाठको वेदमादरान्न पठेत्। ततश्चास्य वेदस्याप्रामाण्याशङ्काया अभावात्किमिति निश्चितनिर्दोषकृताख्यातत्वमिष्यतामित्यभिप्रायः। तथाहि—यदि वेदाध्यायिनः शुद्धधियोऽपि परैर्विनाश्यमानान्वेदानौदासीन्यमालम्बमाना नाचक्षीरंस्तदा सम्भाव्यतेऽन्य एवायं वेदः प्रतिच्छायतां यात इति। यावता तैर्विशुद्धधीभिर्वेदविनाशिनो नरान्रागादिपरीतचेतसो रुन्धद्भिर्निवारयद्भिःसदैवायं संरक्षितो वेद इति स कथमात्मस्वरूपं जह्यात्॥ ३१०८॥ ३१०९॥ ॥ ३११०॥ ३१११॥ ३११२॥ ३११३॥
स्यादेतद्यद्यपि सर्वदा रक्षितस्तैर्वेदस्तथापि महाप्रलये समुच्छिन्नस्यास्य पश्चादन्यथात्वमपि सम्भाव्यत इत्याशङ्क्याह—“इष्यत” इत्यादि।
इष्यते च जगत्सर्वं न कदाचिदनीदृशम्।
न महाप्रलयो नाम ज्ञायते पारमार्थिकः॥ ३११४॥
“नैतदेव”मित्यादिना प्रतिविधत्ते।
नैतदेवं भवेन्नाम ह्येवं पाठस्य तुल्यता।
तदर्थतत्त्वबोधस्तु न विनाऽत्यक्षदर्शनम्॥ ३११५॥
एवं हि किल केवलपाठमात्रस्य तुल्यत्वं प्रतिपादितम्। नत्वथवि(र्थाधि?)गमोपायः, ततश्च तदर्थमवश्यं निश्चितनिर्दोषकृताख्यातत्वमस्येष्टव्यमेव॥ ३११५॥
नचापि पाठमात्रस्यादर्शनमात्रेणासर्वविदा सर्वदेशादौ तौल्यं निश्चेतुं शक्यत इति दर्शयति—“सर्वे चे”त्यादि।
सर्वे च यस्य पुरुषा देशकालौ तथाऽखिलौ।
करामलकवद्व्यक्तं वर्त्तन्तेऽध्यक्षचेतसि॥ ३११६॥
स पाठस्यापि तुल्यत्वं बोद्धुं शक्तोऽन्यथा पुनः।
देशकालनरावस्थाभेदेन विमतिः कथम्॥ ३११७॥
अत्रैवोपपत्तिमाह—“अन्यथे”त्यादि। यदि पाठस्य तुल्यत्वं भवेत्तदा क्वचिद्देशादौ पाठं प्रति पुंसां विमतिः—संशयो न प्राप्नोति॥ ३११६॥ ३११७॥
इष्यते च जगत्सर्वमित्यादावाह—“जगत्सदेदृश”मित्यादि।
जगत्सदेदृशं चेति न प्रमाणमिहापि वः।
न युक्ताऽदृष्टिमात्रेण संवर्त्तस्यापि नास्तिता॥ ३११८॥
ईदृशमेव सर्वदा जगदित्यत्र न किञ्चित्साधकं प्रमाणमस्ति। यश्च बौद्धैः संवर्त्तकल्पो नर(नाश?)कासम्भवात्प्रतिभाजनक्षय इति वर्ण्यते। यच्च स्मृतिकारैरुच्यते—आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्। अप्रवर्त्त्यमविज्ञेयं सुषुप्तमिव सर्वतः॥ इति तदेतदस्य द्विविधस्यापि संवर्त्तस्य न किञ्चिद्बाधकं प्रमाणमस्ति, येन सर्वदा जगदीदृशमेव सिद्ध्येत्। नचादर्शनमात्रेण वस्तूनां नास्तिता सिद्ध्यति, सत्यपि वस्तुनिक्वचिददर्शनात्, वस्त्वभावेन दर्शनमात्रस्य व्याप्त्यसिद्धेः॥ ३११८॥
किञ्च—वेदस्य स्वतःप्रामाण्यान्नित्यं स्वार्थस्वरूपविषयनिश्चयोत्पत्तेः सम्मोहाभावात्, नित्यत्वाच्च स्वभावान्यथात्वस्य कर्तुमशक्यत्वात्, उभयथापि न विनाशः सम्भवति भवन्मतेनेत्यतो वेदाध्यायिभिरस्य निष्फलमेव रक्षा क्रियत इत्येतद्दर्शयति —“स्वत” इत्यादि।
स्वतःप्रामाण्यपक्षे तु निश्चयं कुरुते स्वतः।
वेदः स्वार्थस्वरूपे च तन्न मोहादिसम्भवः॥ ३११९॥
अतश्चाज्ञानसन्देहविपर्यासापदे स्थिते।
नोपदेशमपेक्षेत द्विजपोतोऽपि कश्चन॥ ३१२०॥
यथाचाज्ञातमूलस्य न विनाशोऽपि सम्भवी।
को वा विनाशो नित्यस्य भवेद्वज्रातिशायिनः॥ ३१२१॥
अभिव्यक्त्यन्यथात्वं चेन्नित्ये सा नन्वपाकृता।
अतो रक्षामपि प्राज्ञा निष्फलामस्य कुर्वते॥ ३१२२॥
द्विजपोतः—ब्राह्मणशिशुः। एवं तावत्स्वतःप्रामाण्याद्विनाशोऽस्य न सम्भवतीति प्रतिपादितम्। इदानीं नित्यत्वादपि न सम्भवतीत्येतद्दर्शयितुं पृच्छति—“को वे”त्यादि। “अभिव्यक्त्यन्यथात्वं चे”दिति। विनाश इति सम्बन्धः। “से”ति। अभिव्यक्तिः। “अस्ये”ति वेदस्य॥ ३११९॥ ३१२०॥ ३१२१॥ ३१२२॥
अतीन्द्रियेत्यादिनोपसंहरति।
अतीन्द्रियार्थदृक्तस्माद्विधूतान्तस्तमश्चयः।
वेदार्थप्रविभागज्ञः कर्त्ता चाभ्युपगम्यताम्॥ ३१२३॥
इति स्वतःप्रामाण्यवादपरीक्षा।
अन्तस्तमः—क्लिष्टाक्लिष्टमज्ञानम्, तस्य चयः—संहतिः, स विधूतो येन स तथोक्तः। प्रविभागज्ञः—व्याख्याता। “कर्त्ते”ति। वेदस्येति शेषः। तदेवं प्रतिज्ञातार्थस्य सर्वथा प्रमाणबाधितत्वम्, हेतोश्च तद्भावभावित्वादित्येतस्यानैकान्तिकत्वंसाधितम्। सपक्षसिद्ध्यर्थं च प्रमाणं “यः सन्देहविपर्यासविषयै”रित्यादिना प्रदर्शितमिति क्षेपार्थः।
यत्तु पक्षचतुष्टयमुपन्यस्य पक्षत्रये दोषाभिधानं कृतम्, तत्रापि न काचिद्बौद्धस्य कृ(क्ष?)तिः, नहि बौद्धैरेषां चतुर्णामेकतमोऽपि पक्षोऽभीष्टोऽनियमपक्षस्येष्ट त्वात्। तथाहि—उभयमप्येतत्किञ्चित्स्वतः किञ्चित्परत इति पूर्वमुपवर्णितम्। अतएव पक्षचतुष्टयोपन्यासोऽप्ययुक्तः। पञ्चमस्याप्यनियमपक्षस्य सम्भवात्।
“अपरे” त्वन्यथा प्रतिज्ञार्थं वर्णयन्ति—बोधात्मकत्वं नाम प्रामाण्यम्, तच्च ज्ञानानां स्वाभाविकमेव, न गुणकृतं, गुणाभावेऽपि विपर्ययज्ञाने बोधात्मकत्वसम्भवात्। अतः स्वतःप्रामाण्यमित्युच्यते। गुणैस्तु दोषनिराकरणमेव क्रियत इत्यतस्तन्निर्घाताय प्रामाण्यं गुणानपेक्षते नात्मप्रतिलम्भायेति। “तदेतदसम्यक्”। यतो न बोधात्मकत्वमेव प्रामाण्यं युक्तम्। विपर्ययज्ञानेऽपि सम्भवात्। बोधविशेषः प्रामाण्यमिति चेत्, न तर्हि वक्तव्यम्—तच्च ज्ञानानां स्वाभाविकमेव न गुणकृतम्, गुणाभावेऽपि विपर्ययज्ञाने सद्भावादिति। तथाहि—यदि बोधविशेषः प्रामाण्यमिष्टं स्यात्तदा तस्यैव गुणकृतत्वे व्यभिचारोपदर्शनं युक्तं नान्यस्य। नच विप र्ययज्ञानेऽपि सद्भावादित्यनेन बोधविशेषस्य गुणकृतत्वे व्यभिचारो दर्शितः। किं तर्हि ?—बोधसामान्यस्य। नच परेण बोधसामान्यं गुणकृतमिष्यते। किं तर्हि ?।बोधविशेषः। नच तस्य गुणकृतत्वे व्यभिचारः शक्यते प्रतिपादयितुम्। नचाप्यस्माभिर्गुणकृतत्वेन परतःप्रामाण्यमिष्टम्, यतस्तन्निषेधेन भवद्भिः स्वतो व्यवस्थाप्यते। किं तर्हि ?। अनुभूतोऽप्यसौ बोधविशेषः क्वचिद्भ्रान्तिनिमित्तसद्भावाद्यथानुभवं न निश्चयमुत्पादयतीति। अतस्तन्निश्चयोत्पत्तेः परत इति व्यवस्थाप्यते। किं चाप्रामाण्येऽपि शक्यमेवं कल्पयितुम्। बोधात्मकत्वं नामाप्रामाण्यम्, तच्च ज्ञानानांस्वाभाविकं न दोषकृतम्, दोषाभावेऽपि सम्यग्ज्ञाने सम्भवादित्यतः स्वतोऽप्रामाण्यमुच्यते, दोषैस्तु गुणनिराकरणमेव क्रियत इत्यतस्तन्निराकरणायाप्रामाण्यं दोषानपेक्षते नात्मप्रतिलम्भायेति। तस्माद्यत्किञ्चिदेतत्।
“उवेयकस्त्वाह” (?)—न बोधात्मकत्वं नाम ज्ञानानां प्रामाण्यम्, किं तर्हि ?, अर्थाविसंवादित्वम्। तथाहि—सत्यपि बोधात्मकत्वे यत्रार्थाविसंवादित्वं नास्ति तत्राप्रामाण्यम्, यथा शुक्तिकायां रजतज्ञानस्य। विनापि बोध(बोधात्म?)कत्वं यत्रार्थाविसंवादित्वमस्ति तत्र प्रामाण्यं यथाग्नौ धूमस्य, तस्मादन्वयव्यतिरेकाभ्यामविसंवादित्वमेव प्रामाण्यं सिद्धम्। तच्च ज्ञानमात्मीयादेव हेतोरुपजायते। न सामग्र्यन्तरादित्यतः स्वतः सर्वप्रमाणानां प्रामाण्यमित्युच्यते। स्वशब्दस्यात्मीयवचनत्वात्।स्वतः—आत्मीयाद्धेतोरित्यर्थः। नहि स्वतोऽसती शक्तिरित्यादिना पश्चादर्द्धेन सामग्र्यन्तराद्भावनिषेधे हेतुरुक्तः। नहि स्वतोऽसती कर्तुमन्येन विज्ञानसामग्र्यन्तरातिरिक्तेन शक्यत इत्यर्थः। स्यादेतत्—विज्ञानहेतवोऽपि प्रमाणाप्रमाणसाधारणाः, तत्कथं विज्ञानहेतुमात्रप्रतिबद्धं प्रामाण्यं स्यात्, तस्मात्सामग्र्यन्तरजन्यमेव प्रामाण्यं नतु ज्ञानहेतुमात्रजन्यम्। तच्च सामग्र्यन्तरं गुणसहितमेव, इन्द्रियादिगुणाश्चास्य कारणमिति। शाब्दे चाप्तप्रणीतत्वमेव कारणगुणत्वेन व्यवहारान्निश्चितम्। वेदे च त(दस)द्भावादप्रामाण्यं प्रसक्तमिति। नैष दोषः। सामग्र्यन्तरजन्यत्वासिद्धत्वात्। नहि विधिमुखेन गुणानां प्रामाण्याख्यकार्योत्पत्तौ व्यापारः प्रतीतः सम्भवति। इन्द्रियादिस्वरूपमेव ह्यन्यनिरपेक्षमर्थाविसंवादिज्ञानोत्पादकम्। अञ्जनादीनां तु दोषापगमे व्यापारो न गुणाधाने। अथापि स्यादिन्द्रियादिस्वरूपमप्रामाण्येऽप्यस्तीतिसर्वत्र प्रामाण्योत्पत्तिप्रसङ्गोऽविकलकारणत्वात्। नैतदस्ति। दोषसमवधाने तुसामग्र्यन्तराद्विलक्षणकार्योत्पत्तिर्भविष्यति। स्यादेतत्—विपर्ययः कस्मान्न विज्ञा यते—इन्द्रियादिस्वरूपमेवान्यनिरपेक्षं व्यभिचारिज्ञानोत्पादकं, गुणसमवधाने तुसामग्र्यन्तरमर्थाविसंवादिज्ञानोत्पादकमिति। सत्यमेवमेतत्, अन्वयव्यतिरेकाभ्यां तु विज्ञानोत्पादकमेव त्रैरूप्यमनुमानादौ प्रामाण्योत्पादकं दृष्टमिति प्रत्यक्षेऽपि च सम्भवात्तदेवोत्पादकं कल्प्यते। विपर्ययज्ञानरूपं तु कार्यमिन्द्रियादिस्वरूपादनुत्पद्यमानं सामग्र्यन्तरं कल्पयतीत्यनवद्यमिति। “तदेतत्सर्वं नानवद्यम्”। तथाहि—यत्तावदुक्तमर्थाविसंवादित्वमेव ज्ञानस्य प्रामाण्यं तच्चात्मीयादेव हेतोस्तस्योपजायत इति, अत्र सिद्धसाध्यता, यत इष्यत एवास्माभिः प्रमाणमविसंवादिविज्ञानमितिवचनादर्थाविसंवादित्वं ज्ञानस्य प्रामाण्यम्, किन्तु ज्ञानमिति विशेषेणोपादानाद्धूमादेरज्ञानस्वभावस्य मुख्यतः प्रामाण्यं नेष्टमित्यर्थाविसंवादित्वमात्रं प्रामाण्यमसिद्धम्। ज्ञानस्यैव हेयोपादेयवस्तुनि प्रवृत्तौ प्राधान्यात्। तथाहि—सत्यप्यविनाभाविनि धूमादौ न तावत्पुरुषस्यार्थे प्रवृत्तिर्भवति यावद्विज्ञानोत्पादो न भवति, तस्मात्प्रवृत्तौ ज्ञानस्याव्यवहितं कारकत्वमिति तदेव प्रमाणम्। यदाह— धीप्रमाणता। प्रवृत्तेस्तत्प्रधानत्वाद्धेयोपादेयवस्तुनि इति, यच्चाविसंवादित्वं ज्ञानस्यार्थप्रापणशक्तिलक्षणं तत्त्वर्थप्रापणमेव, प्रतिबन्धादिसम्भवात्। शक्तिश्च पदार्थानामात्मभूतैवेति कस्तस्या अर्थान्तरादुत्पत्तिमिच्छेद्येन सा निषिध्येत। नहि तन्निष्पत्तावनिष्पन्नो धर्मस्तत्स्वभावो युक्तोऽतिप्रसङ्गात्। सा च प्रमाणस्यात्मभूताऽपि सती भ्रान्तिकारणसद्भावादनधिगततत्कार्यैरवमातुं न पार्यत इति परतोऽर्थक्रियाज्ञानाख्यात्कार्यं निश्चीयते। अतो निश्चयापेक्षया परतःप्रामाण्यमित्युच्यते नोत्पत्त्यपेक्षया। तेन कारणान्तरादुत्पादप्रतिषेधवैयर्थ्यं विवादाभावात्। निश्चयस्तु शक्तीनां परतो भवद्भिरपीष्यत एव। यथोक्तम्— शक्तयः सर्वभावानां कार्यार्थापत्तिसाधनाः इति। यश्च— नहि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यत इत्येष सामग्र्यन्तराद्भावनिषेधायहेतुरुपवर्ण्यतेऽसावप्रमाणेऽपि समान इति तदपि स्वत एव प्रसज्येत। नवा स हेतुर्व्यभिचारात्। यच्चोक्तम्। नहि विधिमुखेन गुणानामप्रामाण्योत्पत्तौ व्यापारः प्रतीतः सम्भवतीति, एतदप्यन्वयवचनमनुन्मीलितार्थं न ज्ञायते। कोऽयं विधिमुखेन व्यापारो नामेति। यदि तावदिदं चेदं करिष्यामीति कार्योत्पादाय बुद्धिपूर्वाप्रवृत्तिः, सा नेन्द्रियादिष्वपि सम्भवति। नहि भावानां प्रेक्षापूर्वकारिताऽस्ति, सर्वभावानां क्षणिकत्वेन समीहाव्यापारयोरसम्भवात्। ततश्चेन्द्रियादेरपि विधिमुखेन व्यापारासम्भवात्कारणत्वं न स्यात्। अथेन्द्रियादि विनापि क्रियाख्यव्यापारसमा वेशं सत्तामात्रेण कार्योत्पत्तौ व्याप्रियत इति कारणमिष्यते, तदेतद्गुणेष्वपि समानम्। नहि सर्वकारणानां कार्योत्पत्तौ नियतः स्वसत्तासन्निधानव्यतिरेकेणान्यो व्यापारः प्रतीतः सम्भवति। अथ गुणसन्निधाने दोषनिवृत्तौ सत्यां प्रामाण्यमुपजायत इति दोषनिवृत्त्या व्यवहृतत्वात्साक्षाद्विधिमुखेन गुणानां व्यापारो न सम्भवतीत्युच्यते, तदेतद्दोषेष्वपि समानम्। तथाहि—दोषसन्निधानेऽपि गुणनिवृत्तौ सत्यामप्रामाण्यमुपजायत इति दोषाणामपि विधिमुखेनाप्रामाण्योत्पत्तौ व्यापारो न स्यात्। ततश्चाप्रामाण्यमपि स्वतः प्रसज्येत, अविशेषात्। नहि दोषा गुणान्निराकृत्य साक्षादप्रामाण्ये व्याप्रियमाणाः समालक्ष्यन्ते। तस्मात्तद्भावाभावानुविधानव्यतिरेकेण नान्यः कार्यकारणभावः सम्भवतीति दोषवद्गुणानामपि कारणत्वं समानम्। यच्चोक्तम्—इन्द्रियादिरूपमेवान्यनिरपेक्षमर्थाविसंवादिज्ञानोत्पादकमिति, तदप्ययुक्तम्। अविकलकारणत्वेन सर्वज्ञानानां प्रामाण्यप्रसङ्गात्। बोधरूपतावत्। यथा बोधरूपता ज्ञानानां समनन्तरप्रत्ययप्रतिबद्धा सती दोषादिसमवधानेऽप्यविकलकारणतया सर्वत्र ज्ञाने भवति तथाऽर्थाविसंवादित्वमपि स्यात्। स्यादेतत्—दोषैरप्रामाण्यस्योत्पादेसामान्यमविकलकारणमपि नोपजायते, प्रामाण्येतरयोरेकत्र ज्ञाने विरुद्धयोरयोगात्, बोधरूपता तु निष्प्रतिद्वन्द्वा सर्वत्र भवत्येवेति, यद्येवं न तर्हीन्द्रिय(स्व)रूपमेवान्यनिरपेक्षं कारणं सिद्ध्यति, सत्यपि तस्मिन्नविकले प्रामाण्याख्यकार्यानुत्पत्तेः। नह्यन्यनिरपेक्षस्य कदाचिदजनकत्वं युक्तम्। नापि यद्यस्मिन्सत्यपि न भवति तत्तन्मात्रकारणं युक्तमतिप्रसङ्गात्। किञ्चेदं तावच्च भवान्वक्तुमर्हति—यद्यविकलकारणं प्रामाण्यं किमिति दोषसन्निधानेऽपि नोत्पद्यत इति। स्वविरूद्धकारणस्य दोषस्य सन्निहितत्वादिति चेत्। अप्रामाण्येऽपि तुल्यम्। तस्यापि तदानींस्वविरुद्धकारणमिन्द्रियादिसन्निहितमित्युत्पत्तिर्माभूत्। किञ्च—यदि नाम विरुद्धकारणाद्दोषाद्बिभ्युतः प्रामाण्यस्यानुत्पत्तुमिच्छा स्यात्, स्वकारणं त्वप्रतिहतसामर्थ्यं सत्तदानीं किमिति तदुपेक्षेत। एवं हि तेनात्मनोऽप्रतिहतशक्तिता प्रकटिता स्याद्यदि स्वकार्यमुत्पत्तुमनिच्छदपि हठादुत्पादयेत्। दोषैरुपहतशक्तित्वादिन्द्रियं प्रामाण्यं न जनयेत्, विज्ञानमपि नैव जनयेदसामर्थ्यात्। अन्यथा विज्ञानहेतुमात्रजन्यं प्रामाण्यं न सिद्ध्येत्, तदुत्पत्तावप्यनुत्पत्तेः। यो हे यदुत्पत्तावपि नियमेन नोत्पद्यते नासौ तेन सहैककारणः, यथा कोद्रवाङ्कुरोत्पत्तावप्यनुत्पद्यमानः। शाल्यङ्कुरः। नोत्पद्यते च विज्ञानोत्पत्तावपि प्रामाण्यं नियमेनेति व्यापकानुपलम्भः। नापि तत्स्वभावमखण्डयन्नात्मभूतां शक्तिं कश्चिदुपहन्तुं शक्नुयात्। ततश्चैवमपि शक्यते पठितुम—स्वतःसर्वोपलब्धीनां प्रामाण्यमिति गृह्यताम्। नहि स्वतः सती शक्तिर्हन्तुमन्येन पार्यते॥ इति। स्यादेतत्—नेन्द्रियादिमात्रं प्रामाण्यकारणमिष्टम्। किं तर्हि ?। विशिष्टमेव यद्दोषरहितम्, तेन यथोक्तदोषाप्रसङ्ग इति। यद्येवम्,सामग्र्यन्तरमेव गुणसहितमिन्द्रियादिप्रामाण्यकारणमिति प्राप्तम्, गुणसहितस्यैव दोषरहितत्वसम्भवात्। ततश्च न वक्तव्यं सामग्र्यन्तरजन्यत्वासिद्धेरिति। दोषापगमे गुणानां व्यापारो न प्रामाण्योत्पत्ताविति चेत्। तन्न। अपगमस्यावस्तुत्वान्न तत्र कस्यचिद्व्यापारो युक्तः। नह्यवस्तुनि शशविषाणादावनुत्पाद्यस्वभावे कस्यचिद्व्यापारः सम्भवति। यच्चोक्तम्—विज्ञानोत्पादकमेव त्रैरूप्यमनुमानादौ प्रामाण्योत्पादकं दृष्टमिति, एतदप्यसिद्धम्। नहि त्रैरूप्यमेव केवलमनुमानस्योत्पादकम्, किं तर्हि ?, प्रतिपत्तिर्गता (प्रतिपत्तृगता ?) अप्यमूढस्मृतसंस्कारा गुणाः। तथाहि— सत्यपि त्रैरूप्ये प्रभ्रष्टसम्बन्धस्मृतिसंस्कारस्याप्रतीतसम्बन्धस्य च प्रतिपत्ति(त्तु?)र्नोपजायतेऽअनुमानमित्यतोऽन्वयव्यतिरेकाभ्यां विज्ञानोत्पादकमेव प्रामाण्योत्पादकमित्येतदसिद्धम्। अतो विपर्ययो दुर्निवार एव व्यवस्थितः। यच्चोक्तम्—विपर्ययज्ञानरूपं कार्यमिन्द्रियादिस्वरूपान्नोत्पद्यत इति, तदप्यतिसाहसम्। इन्द्रियानपेक्षस्यापि विपर्ययज्ञानस्योत्पत्तिप्रसङ्गात्। नहि यो यतः स्वभावान्नोत्पद्यते, तस्य तदपेक्षा युक्ताऽतिप्रसङ्गात्। नचेन्द्रियनिरपेक्षं तैमिरिकादिद्विचन्द्रादिज्ञानमुत्पद्यते। किञ्च—यद्यर्थाविसंवादित्वं प्रामाण्यमुपवर्ण्यते तदा चोदनाजानिताया बुद्धेः कथमर्थाविसंवादित्वमवगतम्। येन तत्र भवतामर्वाग्दर्शिनां प्रामाण्यव्यवहारः स्यात्। नह्यविदिततत्कार्यैस्तच्छक्तिरवधारयितुं शक्यते, अतिप्रसङ्गात्। ततश्च यस्यैव वेदस्य प्रामाण्यस्थिरीकरणप्रत्याशया सर्वमेतद्वाग्जालमुपरचितं तस्यैव तन्न प्रसिद्धमिति केवलं तन्दुलार्थिना तुषकण्डनमेतत्कृतमित्यलमतिप्रसङ्गेन।
इति स्वतःप्रामाण्यपरीक्षा।