स्वतन्त्रश्रुतिनिःसङ्ग इत्येतत्समर्थनार्थमाह—अन्य इत्यादि।
अन्ये पुनरिहाज्ञानमलीमसधियो जगुः।
चित्तमात्रतया नायं युज्यते श्रुतिबाधनात्॥ २०८५॥
“अन्य” इति। जैमिनीयाः। त एवमाहुः—चोदनैव धर्माधर्मादिव्यवस्थानिबन्धनमालोकभूता सर्वप्राणभृतां साधारणं चक्षुरिव व्यवस्थिता। अवश्यं सैव धर्मार्थिभिः पुरुषैः प्रेक्षावद्भिः प्रमाणत्वेनाश्रयणीया नान्यत्पुरुषप्रणीतवचनादिकम्। तथाहि—पुरुषस्य रागादिभिरविद्यया च परीतचेतसो वचनं नालमतीन्द्रियमर्थमविपरीतमवगमयितुम्। अतस्तद्वचनसमधिगम्यो न धर्मादिः। नाप्यर्वाग्दर्शिनः प्रत्यक्षसमधिगम्यः, तस्यातीनिद्रियत्वेनात्यन्तपरोक्षत्वात्। तथाहि—इष्टानिष्टार्थसाधनयोग्यतालक्षणौ धर्माधर्मौ। यथोक्तं शाबरे भाष्ये— य एव श्रेयस्करः स एव धर्मशब्देनोच्यते। कथमवगम्यते ?। यो यागमनुतिष्ठति तं जना धार्मिक इति समाचक्षते। यश्च यस्य कर्त्ता स तेनाख्यायते, यथा पाचको लावक इति। तेन यःपुरुषं निःश्रेयसेन संयुनक्ति स एव धर्मशब्देनोच्यत इति। तदनेन द्रव्यादीनामिष्टार्थसाधनयोग्यता धर्म इति प्रतिपादितं भवति। तथाहि—यागशब्देन द्रव्यगुणकर्माणि श्रेयसः साधनानि विशिष्टान्युच्यन्ते। तत्र च धर्मशब्दप्रवृत्तिर्दर्शिता। यद्यपि तानि द्रव्यादीनि प्रत्यक्षाणि स्वरूपतो, नच श्रेयःसाधनत्वेन, ताद्रूप्येण च तेषां धर्मत्वमिष्यते न स्वरूपमात्रेण। यथोक्तम्— श्रेयो हि पुरुषप्रीतिः सा द्रव्यगुणकर्मभिः। चोदनालक्षणैः साध्या तस्मादेष्वेव धर्मता॥ एषामैन्द्रियकत्वेऽपि न ताद्रूप्येण धर्मता। श्रेयःसाधनता ह्येषां नित्यं वेदात्प्रतीयते॥ ताद्रूप्येण च धर्मत्वं तस्मान्नेन्द्रियगोचरः॥ इति। ताद्रूप्येण चेति। श्रेयःसाधनरूपेण। तस्माद्योग्यता धर्म इति स्थितम्। धर्मवैपरीत्येनाधर्मोऽपि सामर्थ्यादनिष्टार्थसाधनयोग्यतेति स्पष्टमवसीयते। नच योग्यतामर्वाग्दर्शनः प्रत्यक्षीकर्तुमीशः। तस्याः सदैव कार्यानुमेयत्वात्। यदाह—शक्तयः सर्वभावानां कार्यार्थापत्तिसाधना इति। अन्यथा ह्यर्वाग्दर्शनत्वमेव हीयते। नापि योगिप्रत्यक्षमतीन्द्रियविषयं प्रत्यक्षत्वादितरप्रत्यक्षवत्। नाप्यनुमानं धर्माधर्माधिगमाय युक्तम्, प्रतीतसम्बन्धस्यैव वस्तुनस्तेन परिच्छेदात्। धर्मस्य चातथाभतत्वात्। नाप्युपमानं समर्थं धर्मप्रत्यायने, तथा ह्युपमानं सादृश्य मसन्निकृष्टे बुद्धिमुत्पादयति। यथा गवयदर्शनं गोस्मरणस्य, नच धर्मेण सदृशः कश्चित्प्रतीतः सम्भवति। यत्सादृश्यात्तस्यावकल्पना भवेत्। नाप्यर्थापत्तिः क्षमा धर्माधर्मावबोधने। तथाहि—दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यत इत्यदृष्टार्थकल्पनाऽर्थापत्तिः। नच धर्मेण विना कश्चिदर्थो नोपपद्यते, यतोऽस्य कल्पना भविष्यति। अभावोऽपि प्रमाणाभावो नास्तीत्यस्यार्थस्य प्रसिद्धये प्रभवति, न विधौ। तस्मादभाववत्र्कस्थौ धर्माधर्मौ यदि चोदना न शक्नुयादुद्धर्त्तुं तेनैव ग्रस्तौ स्यातामिति चोदनालक्षणोऽर्थो धर्मादिर्नेन्द्रियादिलक्षणः। चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवञ्जातीयकमर्थं शक्तोऽभ्यवगमयितुं नान्यत्किञ्चनेन्द्रियम्। अतोऽवश्यं चोदना प्रमाणयितव्या। चोदनेति च क्रियायाः प्रवर्त्तकं निवर्त्तकं च वाक्यमाहुः। तथा—स्वर्गकामोऽग्निष्टोमेन यजेतेति प्रवर्त्तकम्, न हिंस्याद्भूतानीति निवर्त्तकम्। तस्याश्च प्रामाण्योपायं भवतां विज्ञप्तिमात्रं त्रैधातुकमिति प्रतिज्ञार्थः। स न युज्यते। कुतः ?। श्रुतिबाधनात्। श्रुत्या वेदेन बाधनात्। चित्तव्यतिरिक्ताग्रिहोत्रादिप्रकाशनात्। स्वयं च चित्तव्यतिरेकेणावस्थानात्। चित्तमात्रतयेत्युपलक्षणम्। तथा क्षणिकत्वनैरात्म्यसर्वज्ञवैराग्यादिप्रतिज्ञाऽपि बाध्यत एव। तद्विरुद्धार्थपरिदीपनेनावस्थानात्॥ २०८५॥
स्यादेतत्—बाध्येत सर्वमेतत्, यदि तस्यां प्रामाण्यं सिद्धं भवतीत्याह—“सा” हि“प्रमाण”मिति।
सा हि प्रमाणं सर्वेषां नराकृततया स्थिता।
वैतथ्यं प्रतिपद्यन्ते पौरुषेय्यो गिरो यतः॥ २०८६॥
अवितथं ज्ञानं प्रमाणं तद्धेतुत्वात्सापि प्रमाणमुच्यते। कथमित्याह—“नराकृततये”ति। अपौरुषेयत्वात्। अनेनावितथज्ञानहेतुत्वं वैतथ्यकारणरागादिदोषगणाभावेन प्रतिपादयति। प्रयोगः—यन्मिथ्यात्वहेतुदोषसंसर्गरहितं तदवितथज्ञानकारणं, यथा तिमिरादिदोषानुपप्लुतं चक्षुः, मिथ्यात्वहेतुरागादिदोषसंसर्गरहितश्चापौरुषेयत्वाद्वेद इति स्वभावहेतुः। वैधर्म्यदृष्टान्तेनानैकान्तिकतां परिहरन्नाह—“वैतथ्य”मिति। अनेन हि साधनाभावेन साध्याभावस्य व्याप्तिमादर्शयति। तथाहि—दोषा मिथ्यात्वहेतवः यत्रैव सन्निदधति तत्रैव स्वकार्यमिथ्यात्वमुपस्थापयन्ति, नान्यत्र। कारणमन्तरेण कार्यस्यासम्भवात्। सम्भवे वाऽहेतुकत्वप्रसङ्गात्। नापि तमन्तरेण भवतस्तत्कार्यत्वं युक्तमतिप्रसङ्गादित्यतो मिथ्यात्वदोषयोः कार्यकारणभावानुपपत्तिरहेतुक त्वप्रसङ्गश्च मिथ्यात्वस्येति विपर्यये बाधकं प्रमाणमिति नानैकान्तिकता। प्रयोगः —यत्र हि यत्कारणं नास्ति तत्तत्र न भवति, यथा(प)यस्यविद्यमानकारणो धूमः। नास्ति च वैतथ्यहेतुमोहादिदोषगणः श्रुताविति कारणानुपलब्धिः॥ २०८६॥
नाप्यसिद्धतेति प्रतिपादयन्नाह “दोषाः सन्ती”त्यादि।
दोषाः सन्ति न सन्तीति पुंवाच्येषु हि शङ्क्यते।
श्रुतौ कर्तुरभावान्नु दोषाशङ्कैव नास्ति नः॥ २०८७॥
दोषा हि पुरुषाश्रितास्तद्धर्मत्वात्, तत्कथं ते स्वाश्रयमन्तरेण भवेयुः, सम्भवे वाऽनाश्रितत्वप्रसङ्गात्। एष ह्याश्रितधर्मो यदाश्रयानुविधायित्वम्। दोषाश्रयश्च पुरुषः कर्त्ता, स च निवृत्तो वेद इति कुतो दोषाशङ्का। ये नष्टाः (एतेन नष्टा ?) सन्दिग्धासिद्धतापि॥ २०८७॥
स्यादेतत्—दोषाश्रयस्य कर्तुरभावोऽपि कथं सिद्ध इत्यतस्तदभावस्तद्ग्राहकप्रमाणपञ्चकनिवृत्त्या प्रतिपादयति—“कर्त्ता ताव”दित्यादि।
कर्त्ता तावददृष्टः स कदाऽऽप्यासीदितीष्यते।
अदृष्टपूर्वसम्बन्धः सम्प्रत्यज्ञानहेतुकः॥ २०८८॥
अनुमानविहीनोऽपि सोऽस्तीति परिकल्प्यते।
आगमोऽपि न तत्सिद्ध्यै कृतकाकृतकोऽस्ति न॥ २०८९॥
स्वयमेवाप्रमाणत्वात्कृतकोऽस्य न बोधकः।
मन्वादिवचनस्यापि तत्कृतैव हि सत्यता॥ २०९०॥
असम्बद्धस्तु विद्विष्टः सत्यवादी कथं भवेत्।
अतोऽन्यकर्तृकोऽप्यस्ति वेदकारागमो न नः॥ २०९१॥
वेदकारसदृक्कश्चिद्यदि दृश्येत सम्प्रति।
ततस्तेनोपमानेन कर्तुरप्युपमा भवेत्॥ २०९२॥
वेदकारादृते किञ्चिन्न सिद्ध्येत्प्रमितं यदि।
अर्थापत्त्या प्रतीयेत वेदकारस्ततो ध्रुवम्॥ २०९३॥
ननु तेन विना किञ्चिद्वेदे यन्नोपपद्यते।
अस्मिन्सति हि बह्वेव प्रामाण्यादि न सिद्ध्यति॥ २०९४॥
स पञ्चभिरगम्यत्वादभावेनैव गम्यते।
तेन दुर्लभभावोऽसौ प्रमाणाभावबाधनात्॥ २०९५॥
न तावत्प्रत्यक्षतः कर्त्ता वेदस्य सिद्धः—तथाहि—अयमसाविति न शक्यते शृङ्गग्राहिकया प्रतिपादयितुमिदानीमनुपलभ्यमानत्वात्। आसीत्कर्त्तेत्येवं तु कल्पनीयं, स चादृष्टः सन् कदाप्यासीदितीष्यते, यत्तदप्रमाणकमिति शेषः। नाप्यनुमानतः सिद्ध इत्याह—“अदृष्टपूर्वे”त्यादि। अदृष्टपूर्वेण कर्त्रा सम्बन्धो जन्यजनकभावलक्षणो यः क्रियते सम्प्रति वेदस्य वेदनिन्दकैः सोऽज्ञानहेतुकः, ज्ञापकप्रमाणाभावात्। न ह्यदृष्टेन वह्निना सह कश्चिद्धूमस्य सम्बन्धं ग्रहीतुं प्रभुः। तस्मादनुमानविहीनोऽपि स कर्त्ता कल्प्यते। अपिशब्दान्न केवलं प्रत्यक्षविहीनः। शाब्दप्रमाणनिवृत्तिमाह—“आगमोऽपी”त्यादि। वेदस्य व्यतिरेकेणाकृतकस्याभावान्न तावदकृतकः। नापि कृतकस्तस्य स्वयमेवाप्रमाणत्वात्। तथाहि—कृतको भवन्नागमो वेदसम्बद्धमनुप्रभृतिपुरुषकर्तृको भवेत्। तदसम्बद्धसाध्यमुनिप्रभृतिप्रणीतो वा, प्रथमपक्षमधिकृत्याह—“मन्वादिवचनस्ये”त्यादि। “तत्कृतैवे”ति। वेदकृतैव। अनेन स्वतः प्रामाण्याभावमाह। द्वितीये पक्षे दोषमाह—“असम्बद्ध”स्त्विति। असम्बद्धो वेदेन, तत्रानधिकृतत्वात्। “अन्यकर्तृक” इति। असम्बद्धपुरुषकर्तृकः। वेदकारागमो—वेदकारप्रतिपादकः। उपमानाभावमाह—“वेदकारसदृ”गित्यादि। अर्थापत्तेरभावमाह—“वेदकारादृत” इति। “प्रमित”मिति। प्रमितिप्रमाणषटकपरिच्छिन्नं। “तेन विने”ति। कर्त्रा।“किञ्चि”दिति। प्रमितम्। “अस्मि”न्निति। कर्त्तरि। प्रामाण्यादीत्यादिशब्देन धर्मादिव्यवस्था। “अभावेनैवे”ति। अभावेन प्रमाणेन नास्तीत्येवं गम्यते। तस्य प्रतिषेधविषयत्वात्। अथवा अभावेन रूपेण नास्तीत्येवं गम्यत इति यावत्। प्रमाणाभावात्।“प्रमाणाभावबाधना”दिति। प्रमाणानामभावो निवृत्तिः। अभावप्रमाणमिति यावत्। तेन बाधनात्। नास्ति वेदस्य कर्त्तेति सिद्धम्॥ २०८८॥ २०८९॥ २०९०॥॥ २०९१॥ २०९२॥ २०९३॥ २०९४॥ २०९५॥
स्यादेतत्—यदि वेदस्यापौरुषेयत्वमेवं प्रसाध्य प्रामाण्यं प्रसाध्यते, हन्त तर्हि परतः प्रामाण्यं प्रयुक्तं वेदस्य, तथाहि न तावद्वेदस्य प्रामाण्यं प्रतीयते यावदपौरुषेयता न साध्यत इत्याशङ्क्याह—“अप्रामाण्ये”त्यादि।
अप्रामाण्यनिवृत्त्यर्था वेदस्यापौरुषेयता।
येष्टा साऽपि त्ववस्तुत्वात्साधनीया न साधनैः॥ २०९६॥
अनेनैतदाह—न ह्यस्माभिरसिद्धं प्रामाण्यं विधिरूपेण प्रसाध्यते। किं तर्हि ?। परेण यदप्रामाण्यमासक्तं तन्निवृत्तिः क्रियते। अपवादे च निरस्ते स्वयमेवोत्सर्गोऽनपोदितः सिद्धोऽवतिष्ठते। नाप्यपौरुषेयत्वं प्रसाध्यते, यतस्तत्साधनद्वारेण सामर्थ्यात्परतः प्रामाण्यप्रसङ्गः स्यात्। किं तर्हि ?। तस्यापौरुषेयतानिवृत्तिमात्रलक्षणत्वेनावस्तुत्वात्॥ २०९६॥
यदि न साध्यते कथं तर्हि स्वयं सिध्यतीत्याह—“यन्नामे”त्यादि।
यन्नाम तार्किको ब्रूयात्पौरुषेयत्वसाधनम्।
तन्निराकरणात्सिद्धा वेदस्यापौरुषेयता॥ २०९७॥
ननु निराकृतेऽपि परपक्षे स्वपक्षमसाधयतः प्रमाणेन कथं तत्सिद्धिर्येन कृतार्था वेदवादिनो भवन्तीत्याह—“वस्तुभूता”वित्यादि।
वस्तुभूतौ हि यौ पक्षौ प्रधानपरमाणुवत्।
तयोरन्यतरासिद्ध्या नेतरः सिद्ध्यति स्वयम्॥ २०९८॥
प्रधानपरमाणुदित्येतद्व्याचष्टे—“प्रधानकारणत्वस्ये”त्यादि।
प्रधानकारणत्वस्य निराकृत्यापि साधनम्।
साध्यं हेत्वन्तरेणैव परमाणुकृतं जगत्॥ २०९९॥
वैशेषिकेण यद्यपि साङ्ख्योपन्यस्तप्रधानकारणजगत्साधनं निराकृतम्, तथाऽपि हेत्वन्तरेणैव परमाणुकृतं जगत्साधनीयम्, इहाऽप्येवं भविष्यतीति॥ २०९९॥
अत्राह—“भावपक्षे”त्यादि।
भावपक्षप्रसिद्ध्यर्थमुच्यते यत्तु साधनम्।
तस्मिन्निराकृते सम्यगभावः सिद्ध्यति स्वयम्॥ २१००॥
यत्पूर्वापरयोः कोट्योः परैः साधनमुच्यते।
तन्निराकरणं कृत्वा कृतार्था वेदवादिनः॥ २१०१॥
भावपक्षः पौरुषेयता, तन्निवृत्तिरभावपक्षः। अन्योन्यपरिहारस्थितलक्षणयोश्चैकप्रतिषेधस्यापरविधिनान्तरीयकत्वादित्यभावः स्वयं सिद्ध्यतीति भावः। तथाहि —वेदस्य पूर्वापरयोः कोट्योरुत्पादविनाशलक्षणयोः सिद्धये यद्बौद्धैः साधनमुच्यते तन्निराकरणमात्रेणैव वेदापौरुषेयत्वस्य कोटिद्वयशून्यतालक्षणस्य सिद्धाविष्टसिद्ध्याकृतार्था वेदवादिनः॥ २१००॥ २१०१॥
ननु निराकृतेऽपि तत्साधने वेदस्य नित्यत्वं विधिरूपं यत्नान्तरेण साधनीयम्, तत्कथमसाधयन्तो वेदस्य नित्यत्वं कृतार्था भवेयुर्वेदविद इत्याह—“नित्यत्वं वस्तुरूपमि”त्यादि।
नित्यत्वं वस्तुरूपं यत्तदसाधयतामपि।
स्वयं भवति तत्सिद्धिः पूर्वपक्षद्वये हते॥ २१०२॥
पूर्वपक्षद्वयम्—पूर्वापरयोः कोट्योः साधनम्॥ २१०२॥
य़था पूर्वपक्षद्वये हते नित्यत्वस्य स्वयं सिद्धिर्भवति तद्दर्शयति—“पूर्वा वेदस्येत्यादि”।
पूर्वा वेदस्य या कोटिः पौरुषेयत्वलक्षणा।
परा विनाशरूपा च तदभावो हि नित्यता॥ २१०३॥
पूर्वापरकोटिद्वयपरिहारस्थितलक्षणत्वान्नित्यत्वस्य, परस्परपरिहारस्थितलक्षणयोश्चैकनिराकरणस्यापरसद्भावनान्तरीयकत्वादित्युक्तम्॥ २१०३॥
यद्येवं, यदि तदभावो नित्यता, न तर्हि वस्तुधर्मो नित्यता प्राप्नोतीत्याह—“यन्नादौ क्रियत” इति।
यन्नादौ क्रियते वेदः पश्चान्नैव विनश्यति।
तदेव तस्य नित्यत्वं ज्ञेयं तदपि चेन्मतम्॥ २१०४॥
अकृतत्वाविनाशाभ्यां नित्यत्वं हि विवक्षितम्।
तौ चाभावात्मकत्वेन नापेक्षेते स्वसाधनम्॥ २१०५॥
अनेन वस्तुभूतस्य वेदस्यात्मगत एवासौ धर्म इति प्रतिपादयति। यद्येवं वस्तुभूतत्वात्साध्यं तर्हि नित्यत्वं प्राप्तमिति परवचनावकाशमाशङ्कते—“ज्ञेय”मित्यादि। ज्ञेयम्—प्रमाणेन ज्ञातव्यम्, साध्यमिति यावत्। “तौ चे”ति। अकृतत्वाविनाशौ। स्वरूपस्य साधनं स्वसाधनम्। अभावस्यापि वस्तुत्वाविरोधात्सत्यप्यकृताविनाशित्वलक्षणत्वे नित्यत्वस्य नावस्तुत्वमिति भावः॥ २१०४॥ २१०५॥
एवं तावत्प्रमाणपञ्चकनिवृत्त्या वेदे कर्तुरभावसिद्ध्या यन्मिथ्यात्वहेतुदोषसंसर्गरहितमित्यस्य हेतोर्नासिद्धिः, नापि विरुद्धता सपक्षे भावात्, विपक्षे चाभावान्नाप्यनैकान्तिकत्वमिति सिद्धं वेदस्य प्रामाण्यम्॥ साम्प्रतं परप्रयुक्तस्य वेदाप्रामाण्यसाधनद्वयस्य विस्तरेण दूषणमारभते। तत्रेदं साधनद्वयं यदैन्द्रियकं प्रयत्नानन्तरीयकं च, तदनित्यं, यथा घटः, तथा च शब्दः, इति स्वभावहेतुसामान्येन शब्दस्यानित्यत्वे सिद्धे वेदस्याप्यनित्यत्वसिद्ध्या सामर्थ्यादस्याः पुरुषवाक्यवन्मिथ्यात्वं सेत्स्य तीति परस्य बौद्धादेरभिप्रायः। अत्र शाब्दादिप्रमाणैः प्रतिज्ञाबाधां विस्तरेण प्रतिपादयति। तत्र शाब्दप्रमाणबाधां तावदाह—“वेदवाक्यार्थ”मित्यादि।
वेदवाक्यार्थमिथ्यात्वं यो वदत्यनुमानतः।
तस्य वैदिकविज्ञानबलात्पक्षो निवर्त्तते॥ २१०६॥
वेदादागतं वेदिकम्—अग्निहोत्रात्स्वर्गो भवतीत्यादि। तद्बलात्पक्षो निवर्त्तते, तेन बाध्यमानत्वात्। यथोक्तम्— न चास्य चोदना स्याद्वा नवेति संशयितं प्रत्ययमुत्पादयति, नच मिथ्यैतदिति कालान्तरे पुरुषान्तरे देशान्तरेऽवस्थान्तरे वा पुनरव्यपदेश्यप्रत्ययो भवति। योऽप्यन्यप्रत्ययविपर्यासं दृष्ट्वाऽत्रापि विपर्ययः सिद्ध्यतीत्यानुमानिकः प्रत्यय उत्पद्यते, सोऽप्यनेन प्रत्यक्षेण विरुध्यमानो बाध्येतेति॥ २१०६॥
ननु च तुल्यबलयोः कथमेकेनेतरस्य बाधा। अथ तुल्यबलत्वेऽपि बाधा, अनुमानेन तर्हि तस्य किं न बाधा स्यादित्याह—“तच्च प्रत्यक्षतुल्यत्वा”दिति।
तच्च प्रत्यक्षतुल्यत्वाद्वैदिकं बलवत्तरम्।
न शक्यमनुमानेन कथञ्चिदपि बाधितुम्॥ २१०७॥
अनुमानं कथं तर्हि तेन बाध्यत इत्याह—“प्रत्यक्षे”त्यादि।
प्रत्यक्षपक्षनिक्षिप्तं शास्त्रमेव यतः स्थितम्।
बलवत्तरमित्येतदनुमानस्य बाधकम्॥ २१०८॥
यथोक्तम्— प्रत्यक्षस्तु वेदवचनप्रत्ययः, न चानुमानं प्रत्यक्षविरोधि प्रमाणं भवतीति॥ २१०८॥
कथमनुमानादागमस्य बलीयस्त्वं येन प्रत्यक्षतुल्यत्वं तस्येत्याह—“दृष्टान्तनिरपेक्षत्वा”दिति।
दृष्टान्तनिरपेक्षत्वाद्दोषाभावाच्च लाघवम्।
आगमस्य प्रमाणत्वे नानुमानस्य तादृशम्॥ २१०९॥
तेनागमानुमानाभ्यां यत्रार्थे संशयो भवेत्।
तत्रागमबलीयस्त्वात्कार्यस्तेनैव निर्णयः॥ २११०॥
“प्रमाणत्व” इति। लाघवापेक्षा विषयसप्तमी। “नानुमानस्य तादृश”मिति। तस्य दृष्टान्तापेक्षत्वाद्दोषसद्भावाच्च। दोषस्तु प्रत्यक्षतुल्येन वैदिकेन ज्ञानेन बाध्यमानत्वात् ॥ २१०९॥ २११०॥
ननु च यदेवोभयसिद्धं तदेव दूषणं भवति, नच बौद्धस्यागमः प्रमाणम्, द्वे एव प्रमाणे इत्यवधारणात्, तत्कथमसिद्धेनागमप्रामाण्येन बाधा क्रियते बौद्धं प्रतीत्याशङ्क्याह—“ममाप्रमाण”मित्यादि।
ममाप्रमाणमित्येवं वेदोऽर्थं बोधयन्नपि।
वक्तुं न द्वेषमात्रेण शक्यतेऽसत्यवादिना॥ २१११॥
द्वेषादसम्मतत्वाद्वा नच स्यादप्रमाणता।
नच प्रीत्यभ्यनुज्ञाभ्यां प्रमाणमवकल्प्यते॥ २११२॥
द्विषन्तोऽपि च वेदस्य नैवाप्रामाण्यकारणम्।
किञ्चिज्जल्पन्ति ये नैते भवेयुः सत्यवादिनः॥ २११३॥
धारणाध्ययनव्याख्याकर्मनित्याभियोगिभिः।
मिथ्यात्वहेतुरज्ञातो दूरस्थैर्ज्ञायते कथम्॥ २११४॥
अभियुक्ता हि ये यत्र तन्निबद्धप्रयोजनाः।
तत्रत्यगुणदोषाणां ज्ञाने तेऽधिकृता यतः॥ २११५॥
ये तु ब्रह्मद्विषं पापा वेदाद्दूरं बहिष्कृताः।
ते वेदगुणदोषोक्तीः कथं जल्पन्त्यलज्जिताः॥ २११६॥
एवं मन्यते—नहीच्छामात्रेण वस्तुनः सिद्ध्यसिद्धी भवतः, येनाभ्युपगममात्रेण न सिद्धमागमप्रामाण्यं भवेत्, किं तर्हि ?, प्रमाणबलेन यत्सिद्धं तद्दूयोरपि सिद्धम्, दृढतरश्चाग्निहोत्रादिवाक्यात्प्रत्यय इति प्रतिपादितम्, तत्कथमप्रमाणमिति शक्यं वक्तुम्। केवलं वाङ्मात्रमेतद्भवताम्, निर्युक्तिकमिति सङ्क्षेपार्थः। “असम्मतत्वा”दिति।लोकस्याभ्यनुज्ञा—लोकसम्मतत्वम्। “दूरस्था” इति। शाक्यादयो वेदात्। तद्धारणादिकर्मबहिष्कृतत्वात्। “तन्निबद्धप्रयोजना” इति। तत्र—वेदे, निबद्धम्—उक्तम्,प्रयोजनम्—पुरुषार्थो यागादिलक्षणो येषां ते। “ब्रह्मद्विष” इति। वेदद्विषः। तदुद्भूतं वा ज्ञानं ब्रह्म॥ २१११॥ २११२॥ २११३॥ २११४॥ २११५॥ २११६॥
अथवा—माभूदागमतो बाधा, तथाऽपि दुष्ट एव प्रतिज्ञार्थः, प्रत्यक्षादिभिर्मानैर्बाध्यमानत्वादिति प्रतिपादयन्नाह—“किञ्चे”त्यादि।
किञ्च शब्दस्य नित्यत्वं श्रोत्रजप्रत्यभिज्ञया।
विभुत्वं च स्थितं तस्य कोऽध्यवस्येद्विपर्ययम्॥ २११७॥
अनेन प्रत्यक्षतो बाधामाह। तथाहि—सर्वकालं स एवायमिति प्रत्यक्षाभिज्ञायमानत्वान्नित्यत्वं प्रत्यभिज्ञाख्यात्प्रत्यक्षसिद्धम्। सर्वत्र देशे प्रत्यभिज्ञानाद्विभुत्वं च सिद्धमिति को विपर्ययं नित्यविभुत्वयोरध्यवस्येत्, नैव कश्चित्। नित्यत्वव्यापित्वविपर्ययोऽनित्यत्वमविभुत्वं च॥ २११७॥
“तस्मा”दित्युपसंहरति—
तस्माद्वा सर्वकालेषु सर्वदेशेषु चैकता।
प्रत्यक्षप्रत्यभिज्ञानप्रसिद्धा साऽस्य बाधिका॥ २११८॥
“सर्वकालेष्वि”ति। अतीतानागतवर्त्तमानेषु। “अस्ये”ति। विपर्ययस्य॥ २११८॥
“ज्वालादे”रित्यादिना प्रत्यभिज्ञाया व्यभिचारमाशङ्कते।
ज्वालादेः क्षणिकत्वेऽपि प्रत्यभिज्ञेति चेन्न तत्।
तत्र हि प्रत्यभिज्ञेयं सामान्यं नित्यमेव नः॥ २११९॥
भेदबुद्धिस्तु यत्रांशे स्यात्केनचिदुपाधिना।
न तत्र प्रत्यभिज्ञानं भेदबुद्ध्याऽवधारितम्॥ २१२०॥
आदिशब्देन लूनपुनर्जातानां केशनखतृणादीनां निर्झरादीनां ग्रहणम्, यतस्तत्रापि प्रत्यभिज्ञाऽस्ति, त एवामी केशास्तान्येव तृणानि सैव निर्झरधारा तदेव सरितो जलमिति। नैतदस्ति। तत्र हि सामान्यं तेजस्त्वादि प्रत्यभिज्ञायते। तच्च नित्यमिष्टमेवेति कुतो व्यभिचारः। यदपि व्यक्तिरूपमनित्यं तत्तु नैव प्रत्यभिज्ञायत इति कुतो व्यभिचारः। “यत्रांश” इति। मन्दतरतमादौ। “केनचिदुपाधिने”ति। मन्दत्वोर्द्ध्वगमनादिना। कथमवगतमित्याह—“भेदबुद्ध्याऽवधारित”मिति। भिन्नबुद्धेरेतदवगतमित्यर्थः॥ २११९॥ २१२०॥
अनुमानैर्बाधामाह—“देशकालादी”त्यादि।
देशकालादिभिन्नाश्च गोशब्दव्यक्तिबुद्धयः।
समानविषयाः सर्वा नवा नानार्थगोचराः॥ २१२१॥
गौरित्युत्पद्यमानत्वात्सम्प्रत्युत्पन्नबुद्धिवत्।
गोशब्दबुद्ध्या ह्यस्तन्या गोशब्दोऽयं प्रकाशितः॥ २१२२॥
गोशब्दविषयत्वेन यथैवाद्य प्रसूतया।
इयं वा तं विजानाति तद्धेतोः पूर्वबुद्धिवत्॥ २१२३॥
उभे वाऽप्येकविषये भवेतामेकबुद्धिवत्।
देशकालादिभिन्ना वा समस्ता गोत्वबुद्धयः॥ २१२४॥
एकगोशब्दजन्याः स्युर्गोधीत्वादेकबुद्धिवत्।
ह्यस्तनोच्चारणो वाऽपि गोशब्दोऽद्यापि विद्यते॥ २१२५॥
गोशब्दज्ञानगम्यत्वादद्योच्चारितशब्दवत्।
गौरिति श्रूयमाणोऽद्य ह्योऽपि शब्दो मया श्रुतः॥ २१२६॥
हेतोः पूर्वोदितादेव ह्य उच्चारितशब्दवत्।
शब्दो वा वाचको यावान्स्थिरोऽसौ दीर्घकालभाक् २१२७॥
सम्बन्धानुभवापेक्षज्ञेयज्ञानप्रवर्त्तनात्।
य ईदृक्स स्थिरो दृष्टो धूमसामान्यभागवत्॥ २१२८॥
अस्थिरस्तु न सम्बन्धज्ञानापेक्षोऽवबोधकः।
तादात्विकनिमित्तत्वाद्दीपविद्युत्प्रकाशवत्॥ २१२९॥
शब्दानित्यत्वपक्षोऽतः सर्वैरेभिर्विरुध्यते।
अनुमानैर्दृढैः सिद्धैर्नित्याः शब्दास्ततः स्थिताः॥ २१३०॥
गोशब्दव्यक्तिषु या बुद्धयो देशकालद्रुतमध्यविलम्बितादिप्रतिभेदभासभिन्नास्ता एकार्थविषयाः, नानार्थविषया नवा भवन्ति, गौरित्याकारोपग्रहणोत्पद्यमानत्वात्।सम्प्रत्युत्पन्नगोबुद्धिवत्। अथवा—या या गोशब्दविषया बुद्धिः साऽद्यतनगोशब्दविषया, गोशब्दविषयत्वात्। अद्य प्रसूतगोशब्दबुद्धिवत्। गोशब्दविषया चह्यस्तनी गोशब्दबुद्धिरिति स्वभावहेतुः। अथवा—अह्यस्तनी गोशब्दबुद्धिर्धर्मिणी,ह्यस्तनगोशब्दविषयत्वं साध्यधर्मः, गोशब्दविषयत्वादिति हेतुः, ह्यस्तनी गोशब्दबुद्धिर्दृष्टान्तः। एतदेवाह—“इय”मित्यादि। इयमित्यद्यतनी। “त”मिति। ह्यस्तनगोशब्दज्ञानोपलब्धं गोशब्दम्। “तद्धेतो”रिति। गोशब्दविषयत्वात्। अथवा—उभे ह्यस्तन्यद्यतन्यौ बुद्धी एकविषये गोशब्दविषयत्वादेकगोशब्दबुद्धिवत्। “उभे चे”त्येतदेव दर्शयति। हेतुः प्रकृतत्वात्सुज्ञात इति नोक्तः। अथवा—समस्ता गोत्वबुद्धयो देशा दिभेदभिन्ना एकगोशब्दजन्या गोधीत्वादेकगोबुद्धिवत्। पूर्वं गोशब्दविषया बुद्धयो धर्मिण्यः, एकविषयत्वं च साध्यम्, इदानीं च गोत्वजातिविषया बुद्धयो धर्मिण्यः, एकगोशब्दजन्यत्वं साध्यमिति विशेषः। ह्यस्तनमुच्चारणमस्येति ह्यस्तनोच्चारणः। अयं च धर्मिनिर्देशः। अद्यापि वर्त्तनं साध्यधर्मः शेषं सुबोधम्। गौरिति श्रूयमाणोऽद्येति धर्मिनिर्देशः। तस्य ह्योऽपि श्रवणं साध्यधर्मः। “पूर्वोदिता”दिति। गोशब्दज्ञानगम्यत्वात्। अथवा—यावान्वाचकशब्द इत्ययं धर्मिनिर्देशः। तस्य दीर्घकालभाक्त्वं साध्यधर्मः। सम्बन्धानुभवापेक्षज्ञेयज्ञानप्रवर्त्तनादिति हेतुः। सम्बन्धानुभवमपेक्षत इति सम्बन्धानुभवापेक्षं तच्च तत् ज्ञेयज्ञानप्रवर्त्तनं चेति तथोक्तम्।तस्मात्स्थिरो ज्ञेयः स्थिरस्यैव विशेषणं “दीर्घकालभागि”ति। कालस्थैर्येण स्थिरत्वमत्राभिप्रेतं नतु देशस्थैर्येण पर्वतादेरिवेति विशेषणेन दर्शयति। धूमसामान्यभागवदिति दृष्टान्तः। स्वलक्षणस्यानन्वयान्न लिङ्गत्वमिति सामान्यभाग एव दृष्टान्तः।“अस्थिरस्त्वि”त्यादि व्यतिरेककथनम्। “तादात्विकनिमित्तत्वा”दिति। तादात्विकम् —तावत्कालिकं व्यवहारकालानुयायि निमित्तं सम्बन्धो यस्य स तथोक्तः तद्भावस्तत्त्वम्॥ २१२१॥ २१२२॥ २१२३॥ २१२४॥ २१२५॥ २१२६॥ ॥ २१२७॥ २१२८॥ २१२९॥ २१३०॥
ननु चानया दिशा घटादीनामप्येकत्वं शक्यते वक्तुम्। तथाहि—सर्वा देशकालादिभिन्ना घटादिव्यक्तिबुद्धयः समानविषया नवा नानार्थगोचराः। घट इत्युत्पद्यमानत्वात्सम्प्रत्युत्पन्नघटबुद्धिवदित्येवमादि। नचैकत्वं घटादीनामिष्टं दृष्टं वा। तस्मादेते सर्व एव हेतवो व्यभिचारिण इत्याशङ्क्याह—“घटादेरि”त्यादि।
घटादेरेकतापत्तौ जात्येष्टं सिद्धसाधनम्।
व्यक्तीनामेकतापत्तिं कुर्याच्चेदनया दिशा॥ २१३१॥
तथा दृष्टविरुद्धत्वं वाच्यं शब्दप्रमाणकम्।
यतोऽध्यक्षादिभिर्मानैर्व्यक्तिभेदः सुनिश्चितः॥ २१३२॥
यदि जात्या—जातिरूपेण, घटादीनामेकत्वं साध्यते प्रसङ्गेन तदा सिद्धसाधनम्। तदुक्तम्— अंशा ह्येतस्य जात्याख्यो नित्यो ध्वंसीतरो मत इति। अथ— व्यक्तिरूपाणामेकत्वं प्रसङ्गेन साध्यते, तदापि न व्यभिचारः। प्रत्यक्षादिभिर्बाधितत्वादस्याः प्रतिज्ञायाः। यस्मादबाधितविषयत्वेन सतीति सर्वे हेतवः सविशेषणा इहाभिप्रेताः। तत्कुतो व्यभिचार इत्यभिप्रायः। “दृष्टविरुद्धत्व”मिति। प्रतिज्ञाया इति शेषः। शेषं सुगमम्॥ २१३१॥ २१३२॥
पुनरपि शब्दानित्यत्वप्रतिज्ञाया अनुमानार्थापत्तिभ्यां बाधामाह—“तत्रेदमनुमा” “नम्”—ययोरकृत्रिमः सम्बन्धस्तावकृत्रिमौ, यथाऽऽकाशपरमाणू, अकृत्रिमश्च सम्बन्धः शब्दस्य जातिसञ्ज्ञकेनार्थेन वाच्यवाचकभावलक्षण इति स्वभावहेतुः। असिद्धिं परिहरन्नाह—“कृत्रिमत्वे चे”त्यादि।
कृत्रिमत्वे च सम्बन्धस्तत्प्रयोगापवर्जनात्।
तदेकव्यक्तिनिष्ठत्वान्नैव सार्वत्रिको भवेत्॥ २१३३॥
पार्थिवद्रव्यसत्त्वादिलाङ्गूलत्वादिसङ्करात्।
विना प्रयोगभूयस्त्वं न स्याद्गोत्वावधारणा॥ २१३४॥
तस्मादकृत्रिमः शब्दो न कदाचिद्विनश्यति।
नित्येन नित्यसम्बन्धादाकाशपरमाणुवत्॥ २१३५॥
कृत्रिमत्वे च सम्बन्धस्येत्यपेक्षणीयम्। यदि सम्बन्धः कृत्रिमो भवेत्तदा तत्प्रयोगापवर्जनात—शब्दप्रयोगविनाशात्, शब्दस्यापि विनाश इति सार्वत्रिकः—सर्वप्रयोगानुयायी, न स्यात्। कुतः ?, तदेकव्यक्तिनिष्ठत्वात्—एकगोव्यक्तिनिष्ठत्वात्। तत्रार्थापत्तिः—येयं सम्मुखेऽनेकस्मिन्नेकस्यामपि गोव्यक्तौ सामान्यस्थिते सति गोशब्दान्निष्कृष्टस्य गोत्वस्यैव प्रतिपत्तिः, सा शब्दमन्तरेणानुपपन्ना। कथमित्याह—“पार्थिवे”त्यादि। शाब्दप्रमाणपूर्वकेयमर्थापत्तिः। “तस्मादकृत्रिमः शब्द” इत्यनुमानमुपसंहरति। “नित्येने”ति। जातिसञ्ज्ञाकेनार्थेन। नित्यं सर्वकालं “सम्बन्धात्”। यथा परमाणूनां नित्येनाकाशेनेति॥ २१३३॥ २१३४॥ २१३५॥
अर्थापत्तेरनैकान्तिकत्वं परिहरन्नाह—“सम्मुखानेकसामान्ये”त्यादि।
सम्मुखानेकसामान्यविषयश्च सकृच्छ्रुतः।
निष्कृष्टं स्वार्थवाचित्वं गोशब्दो न प्रपद्यते॥ २१३६॥
बहुभिः श्रवणैरेष प्राणित्वादीनि वर्जयन्।
शुक्लादिगमनादीनि सास्नालाङ्गूलतादि च॥ २१३७॥
शावलेयादिखण्डादिव्यक्तीः स्वस्वनिबन्धनाः।
निष्कृष्टगोत्ववाचित्वं चिरेण प्रतिपद्यते॥ २१३८॥
यथोक्तं भाष्ये— नित्ये तु खलु वै शब्दे बहुकृत्व उच्चारितः श्रुतपूर्वस्त्वन्यान्यासु गोष्वन्वयव्यतिरेकाभ्यामाकृतिवचनत्वमवगमयति तस्मादपि नित्य इति।“व्यक्तीः स्वस्वनिबन्धना” इति। यथास्वं भेदभिन्ना इत्यर्थः। भिन्नत्वं हि तासां भेद प्रतिपत्तिनिबन्धनम्। तेन स्वं भिन्नत्वं भेदप्रतिपत्तिनिबन्धनं यासां ताः स्वनिबन्धनाः। वर्जयन्निति सम्बन्धः॥ २१३६॥ २१३७॥ २१३८॥
स्यादेतत्—यदि नाम चिरेण प्रतिपद्यते, तथापि कथं सर्वकालभावित्वं सिध्यति शब्दस्येत्याह—“तावत्काल”मित्यादि।
तावत्कालं स्थिरं चैनं कः पश्चान्नाशयिष्यति।
सम्भाव्यतेऽस्य नाशित्वं न भूयोऽन्येन हेतुना॥ २१३९॥
यथा शस्त्रादिभिश्छेदाज्जरया वा घटादयः।
नङ्क्ष्यन्तीत्यवगम्यन्ते नैवं शब्देऽस्ति कारणम्॥ २१४०॥
तावत्कालम्—निष्कृष्टस्वार्थप्रतिपादनकालम्। ननु यथा घटादीनां तावत्कालं स्थिराणामपि मुद्गरादिभ्यः पश्चाद्विनाशस्तथा शब्दस्यापि भविष्यतीत्याह—“सम्भाव्यतेऽस्ये”त्यादि। “भूय” इति। पुनः। यथा शस्त्रादिभिश्छेदाद्विनाशं प्रतिपद्यन्ते घटादयो जरया वा, नैवं शब्देऽस्ति कारणम्। कथम् ?, अमूर्त्तत्वात्, घटादीनां च मूर्त्तत्वादिति भावः॥ २१३९॥ २१४०॥
यदुक्तम्— घटादेरेकतापत्तौ जात्येष्टं सिद्धसाधनम्। व्यक्तीनामेकतापत्तिं कुर्याच्चेदनया दिशा॥ तदा दृष्टविरुद्धत्वं वाच्यं सर्वप्रमाणकम्॥ इति तदिहापि समानम्—गादीनामेकतापत्तौ जात्येष्टं सिद्धसाधनमिति सर्वं वाच्यम्। तथाहि—देशकालप्रयोक्तृभेदाद्गवादिव्यक्तिवद्गादिवर्णव्यक्तयो बह्व्यः, तदाधारं च गोत्वादि, त(द्व)द्गत्वाद्यपि सामान्यमिष्टमिति सर्वं समानमित्याशङ्क्याह—“देशकालप्रयोक्तॄणा”मित्यादि।
देशकालप्रयोक्तॄणां भेदेऽपि च न भेदवान्।
गादिवर्णो यतस्तत्र प्रत्यभिज्ञा परिस्फुटा॥ २१४१॥
प्रत्यभिज्ञाख्यात्तु प्रत्यक्षाद्व्यक्तीनामेकत्वं सिद्धम्, नानुमानं प्रत्यक्षविरोधे प्रमाणीभवति, प्रत्यक्षस्य सर्वप्रमाणज्येष्ठत्वादित्यभिप्रायः॥ २१४१॥
ननु द्रुतमध्यविलम्बितादिप्रतीतिभेदाद्भेदः सिद्ध एव व्यक्तीनाम्, तत्कथमुच्यते प्रत्यभिज्ञा परिस्फुटेत्याह—“नहि द्रुतादिभेदेऽपी”ति।
न हि द्रुतादिभेदेऽपि निष्पन्ना सम्प्रतीयते।
गव्यक्त्यन्तरविच्छिन्ना गव्यक्तिरपरा स्फुटा॥ २१४२॥
“निष्पन्ने”ति। अकल्पिता। “विच्छिन्ने”ति। भिन्ना। गव्यक्तिर्गकारव्यक्तिः। प्रत्यभिज्ञयैकीकृतत्वान्न गव्यक्तिरपराऽस्तीति भावः॥ २१४२॥
ननु च गत्वादिजातिरेवात्र प्रत्यभिज्ञायते न व्यक्तिस्तत्कथं व्यक्तेः प्रत्यभिज्ञेत्याह—“गकार” इत्यादि।
गकारोऽत्यन्तनिष्कृष्टगत्वाधारो न विद्यते।
गान्यबुद्ध्यनिरूप्यत्वात्परकल्पितगत्ववत्॥ २१४३॥
“गान्यबुद्ध्यनिरूप्य”त्वादिति। गकारादन्यो गान्यः, तस्मिन्बुद्धिस्तयाऽनिरूप्यत्वादग्राह्यत्वात्। “परकल्पितगत्वव”दिति। निःसामान्यानि सामान्यानीति परेषां सिद्धान्तात्॥ २१४३॥
“वर्णत्वाच्चापि साध्योऽय”मिति।
वर्णत्वाच्चापि साध्योऽयं खकारादिवदेव च।
व्यतिरेकस्य चादृष्टेर्नात्र दृष्टं निवर्त्तकम्॥ २१४४॥
गत्वनिषेध इति शेषः। तत्र प्रयोगः—यो गवर्णस्सोऽत्यन्तनिष्कृष्टगत्वाधारो न भवति, यथा खकारादिवर्णः, वर्णश्चायं गकार इति विरुद्धव्याप्तोपलब्धिः। गत्वाधारत्वविरुद्धेन किल वर्णत्वस्य व्याप्तत्वात्। न चात्र प्रतिज्ञाया दृष्टविरोधइत्याह—“व्यतिरेकस्ये”त्यादि। व्यतिरेको—भेदः। दृष्टम—प्रत्यक्षम्॥ २१४४॥
स्यादेतत्—बौद्धं प्रति सिद्धसाध्यता, तथाहि—एकत्वबुद्धिरन्यापोहनिबन्धनैवेष्टा नव्यतिरिक्तगत्वनिबन्धना, ततश्च प्रतिषिद्धेऽपि व्यतिरिक्ते गत्वे नैकत्वबुद्धिवशादेकत्वं वर्णस्य सिद्ध्यति, अन्यापोहनिबन्धनत्वात्तस्येत्याशङ्क्याह—“द्वयसिद्धस्त्वि”ति।
द्वयसिद्धस्तु वर्णात्मा नित्यत्वादि यथैव च।
कल्पितस्येष्यते तद्वत्सिद्धस्यैवाभ्युपेयताम्॥ २१४५॥
तेनैकत्वेन वर्णस्य बुद्धिरेकोपजायते।
विशेषबुद्धिसद्भावो भवेद्व्यञ्जकभेदतः॥ २१४६॥
किमित्युभयसिद्धं वर्णात्मानं परित्यज्य कल्पितस्यैवान्यापोहस्य नित्यत्वानेकत्वव्यापित्वादयो वर्ण्यन्ते, जातिधर्मव्यवस्थितेरिति वचनात्। युक्तं यदेवोभयसिद्धं तस्यैव कल्पयितुम्, अन्यथा ह्यदृष्टकल्पनाप्रसङ्गः स्यात्। तस्मादेकत्वादेव वर्णस्यैकाप्रत्यभिज्ञाबुद्धिरुपजायते। यद्येवं द्रुतमध्यविलम्बितादिविशेषबुद्धिः कथं भवेदित्याह —“विशेषबुद्धी”त्यादि। व्यञ्जका वायवीयाः संयोगविभागाः॥ २१४५॥ २१४६॥
ननु वायोरश्रोत्रविषयत्वात्तदीया अपि संयोगविभागा अश्रौत्रा एव। तत्कथमगृ हीते व्यञ्जके व्यङ्ग्यस्य ग्रहणं भवति नह्यालोकाग्रहणे तद्व्यङ्ग्यस्य घटादेर्ग्रहणं युक्तमिति मन्यमानश्चोदयति—“नन्वि”त्यादि।
ननु यस्य द्वयं श्रौत्रं तस्य बुद्धिद्वयं भवेत्।
भवतोऽतीन्द्रियत्वात्तु कथं नादैर्विशेषधीः॥ २१४७॥
“यस्ये”ति। यस्य—वैयाकरणादेर्घोषात्मको ध्वनिर्व्यञ्जको नतु वायवीयसंयोगविभागात्मकः, तस्य द्वयम्—व्यङ्ग्यं व्यञ्जकं च श्रोत्रग्राह्यमिति बुद्धिद्वयम्—एकबुद्धिर्विशेषबुद्धिश्च भवति। भवतस्तु मीमांसकस्य कथं नादैर्वायवीयसंयोगविभागात्मकैर्विशेषधीर्भवेत्, कुतः ?, अतीन्द्रियत्वात्। नादानामिति शेषः॥ २१४७॥
“नादेने”त्यादिना प्रतिविधत्ते।
नादेन संस्कृताच्छ्रोत्राद्यदा शब्दः प्रतीयते।
तदुपश्लेषतस्तस्य बोधं केचित्प्रचक्षते॥ २१४८॥
“तदुपश्लेषत” इति। शब्दोपश्लेषतः। तस्य—नादस्य। बोधं—ग्रहणम्। केचित्प्रचक्षते—यद्यपि केवलस्य नादस्य श्रोत्रेणाग्रहणम्, तथापि शब्दोपश्लिष्टस्य तु ग्रहणमस्त्येवेति बुद्धिद्वयं भवेदेवेति तेषां भावः॥ २१४८॥
“नैव वे”त्यनेनाग्रहणपक्षेऽपि बुद्धिद्वयं समर्थयते।
नैव वा ग्रहणे तेषां शब्दे बुद्धिस्तु तद्वशात्।
संस्कारानुकृतेश्चाऽपि महत्त्वाद्यवबुध्यते॥ २१४९॥
“तेषा”मिति। नादानां। वायवीयसंयोगविभागात्मनाम्। कथमगृहीतव्यव्यञ्जके व्यङ्ग्ये बुद्धिर्भवेदित्याह—“शब्दे बुद्धिस्तु तद्वशा”दिति। नादवशात्। तत्सत्तामात्रेणैवेति यावत्। भवतु नाम स्वरूपमात्रग्रहणं महत्त्वादिविशेषग्रहणं तु कथं भवतीत्याह—“संस्कारानुकृतेरि”त्यादि। यदा महद्भिर्नादैर्महान्संस्कार आधीयते श्रोत्रे, तदा महत्त्वं प्रतीयते शब्दे। यदा त्वल्पैरल्पत्वमित्येवं संस्कारानुकारात्तरतमभेदोऽपि योज्यः॥ २१४९॥
ननु च यदेतन्महत्त्वादि गृह्यते तद्व्यञ्जकस्थमेव भवन्मते न व्यङ्ग्यस्थम्, तच्च व्यञ्जकाग्रहणादगृहीतमेवेति तत्कथमगृहीत्वा व्यञ्जकस्थं महत्त्वादि शब्दे समारोपयेत्। न ह्यविषयीकृतस्य जलादेर्मरीचिकादावारोपो भवेदित्याह—“मधुरं तिक्तरूपेणे”त्यादि।
मधुरं तिक्तरूपेण श्वेतं पीततया यथा।
गृह्णन्ति पित्तदोषेण विषयं भ्रान्तचेतसः॥ २१५०॥
यथा वेगेन धावन्तो नावारूढाश्च गच्छतः।
पर्वतादीन्प्रजानन्ति भ्रमेण भ्रमतश्च तान्॥ २१५१॥
मण्डूकवसयाऽक्ताक्षा वंशानुरगबुद्धिभिः।
व्यक्त्यल्पत्वमहत्त्वाभ्यां सामान्यं च तदाश्रयम्॥ २१५२॥
गृह्णन्ति यद्वदेतानि निमित्तग्रहणाद्विना।
व्यञ्जकस्थमबुद्ध्वैवं व्यङ्ग्ये भ्रान्तिर्भविष्यति॥ २१५३॥
यथा पित्तदोषेण मधुरादिकं विषयं तिक्तादिरूपेण गृह्णन्त्यगृहीत्वैव पित्तस्वरूपम्।यथावाऽऽशुगमननौयानभ्रमणैराहितविभ्रमाः पर्वतादीन्गच्छतो भ्रमतश्च पश्यन्ति। यथाच मण्डूकवसयाऽक्तचक्षुषो वंशानुरगरूपेण वीक्षन्ते। यथा च व्यक्तेरल्पत्वमहत्त्वाभ्यां सामान्यं तदाश्रयम्—अल्पत्वाद्याश्रयम्, प्रतिपद्यन्ते, सत्ताख्यं महासामान्यमल्पं तु गोत्वादीति। अन्यथा हि नित्यसर्वगतत्वेन सर्वस्य तुल्यत्वात्किङ्कृतं सामान्यस्याल्पत्वं महत्त्वं स्यात्। तस्माद्यद्वदेतानि मधुरादीनि तिक्तादिरूपेण गृह्णन्ति निमित्तस्य पित्तादेर्ग्रहणमन्तरेण, तथा व्यञ्जकस्थं महत्त्वादिकमगृहीत्वैव शब्दे महत्त्वादिभ्रान्तिर्भविष्यति। “अबुद्ध्वे”ति। भ्रान्तिक्रियापेक्षया समानकर्तृत्वम्, अन्यथा त्वाप्रत्ययो न स्यात्॥ २१५०॥ २१५१॥ २१५२॥ २१५३॥
अथ कथमवगतं येयं ह्रस्वमहत्त्वादिधीः शब्दे भवति सा परोपाधिका, नतु स्वत एव महत्त्वादिभेदसद्भावादित्याह—“स्वतो ह्रस्वादिभेद” इत्यादि।
स्वतो ह्रस्वादिभेदस्तु नित्यत्वादेर्विरुध्यते।
सर्वदा यस्य सद्भावः स कथं मात्रिकः स्वयम्॥ २१५४॥
तस्मादुच्चारणं तस्य मात्राकालं प्रतीयताम्।
द्विमात्रं वा त्रिमात्रं वा न वर्णो मात्रिकः स्वयम्॥ २१५५॥
आदिशब्देन दीर्घप्लुतोदात्तानुदात्तस्वरितषडाजदिभेदपरिग्रहः। “नित्यत्वादेर्विरुध्यत” इति। प्रत्यभिज्ञया नित्यत्वस्य सिद्धत्वादिति भावः॥ २१५४॥ २१५५॥
“नन्वि”त्यादिना परमतेनाभिव्यक्तेरसिद्धिमाशङ्कते।
ननु नादैरभिव्यक्तिर्न शब्दस्योपपद्यते।
सा हि स्याच्छब्दसंस्कारादिन्द्रियस्योभयस्य वा॥ २१५६॥
ततः सर्वैः प्रतीयेत शब्दः संस्क्रियते यदि।
निर्भागस्य विभोर्न स्यादेकदेशे हि संस्क्रिया॥ २१५७॥
साऽभिव्यक्तिः शब्दस्य भवन्ती वायवीयैः संयोगविभागैः शब्दसंस्काराद्वा भवेत्, इन्द्रियसंस्काराद्वा, उभयस्य वा—शब्दस्येन्द्रियस्य च संस्कारात्। तत्र यदि शब्दः संस्क्रियते तदा पाटलिपुत्रादावेकत्र देशे संस्कृतः सर्वदेशस्थैर्गृह्येत, युगपत्तस्य सर्वगतत्वात्। अथापि स्यादेकांशस्तस्य संस्कृतो नतु सर्व इत्याह—“निर्भागस्ये”ति। निरवयवो हि शब्दोऽमूर्त्तत्वात्, कथं विभुत्वेऽपि निरवयवस्यैकदेशेन संस्कारः स्यात् ॥ २१५६॥ २१५७॥
अथापि स्यादाधारभेदान्निरवयवस्यापि सतो भेदेन संस्कारो भविष्यतीत्याह—“नचापी”ति।
नचाप्याधारभेदेन संस्कारनियमो भवेत्।
यतः शब्दो निराधारो व्योमात्मादिवदेव च॥ २१५८॥
विभुत्वादाकाशात्मादिवन्निराधारः शब्दः॥ २१५८॥
नन्वाकाशगुणत्वाच्छब्दस्य गुणाश्च गुणिनमाश्रिता इत्याकाशमाधारोऽस्ति शब्दस्येत्याह—“अथाप्याकाश”मित्यादि।
अथाप्याकाशमाधारस्तत्रानवयवे सति।
न स्यात्प्रदेशसंस्कारः कृत्स्नशब्दगतेरपि॥ २१५९॥
तस्याप्याकाशस्यानवयवत्वान्नाधारप्रदेशभेदेन संस्कारभेदोऽस्ति। ननु च यद्यप्याकाशमनवयवं तथाऽपि संयोगिभेदात् घटाकाशादिवत्कर्णशष्कुलीपर्यन्तपरिच्छिन्नमाकाशं भिन्नं भविष्यतीत्याह—“कृत्स्नशब्दगतेरपी”ति। न स्यात्प्रदेशसंस्कार इति सम्बन्धः। अखण्ड एव हि शब्दः प्रतीयते सा च प्रतीतिर्व्योमैकदेशसंस्कृतौ न स्यात् ॥ २१५९॥
कथमित्येतदेव निगमयन्नाह—“नही”त्यादि।
नहि सामस्त्यरूपेण यावद्व्योम व्यवस्थितः।
शक्यते सकलो बोद्धुमेकदेशेन संस्कृतः॥ २१६०॥
नह्याकाशं व्याप्य व्यवस्थितः शब्दस्तदेकदेशेन संस्कृतः शक्यते सकलो ज्ञातुम् ॥ २१६०॥
इन्द्रियसंस्कारपक्षे दूषणमाह—“आकाशश्रोत्रपक्ष” इत्यादि।
आकाशश्रोत्रपक्षे च विभुत्वात्प्राप्तितुल्यता।
दूरभावेऽपि शब्दानामिह ज्ञानं प्रसज्यते॥ २१६१॥
श्रोत्रस्य चैवमेकत्वं सर्वप्राणभृतां भवेत्।
तेनैकश्रुतिवेलायां शृणुयुः सर्व एव ते॥ २१६२॥
येषां खं श्रोत्रमिति पक्षस्तेषामेकत्वाद्विभुत्वाच्च नभसः सर्वशब्दैस्तुल्या प्राप्तिरिति दूरस्थस्यापि शब्दस्य ग्रहणं प्राप्नोति। श्रोत्रस्य च सर्वप्राणभृतामेकत्वं स्यात्। ततश्चैको यदा शृणोति तदैव सर्वैरपि श्रूयेत, अभिन्नत्वाच्छ्रोत्रस्य। एकाश्रवणे सर्वेषामश्रवणदोषश्च वक्तव्यः॥ २१६१॥ २१६२॥
स्यादेतत्—धर्माधर्माभिसंस्कृतया कर्णशष्कुल्या परिच्छिन्नमाकाशं श्रोत्रम्, अतः कर्णशष्कुलिमत्याकाशदेशे श्रोत्रव्यवस्थितेर्दोषद्वयमपीदमनास्पदं यद्विभुत्वात्प्राप्तितुल्यता श्रोत्रस्य चैकत्वं सर्वप्राणभृतां भवेदिति। अत्राह—“तस्यानवयवत्वा”दिति।
तस्यानवयवत्वाच्च न धर्माधर्मसंस्कृतः।
नभोदेशो भवेच्छ्रोत्रं व्यवस्थाद्वयसिद्धये॥ २१६३॥
नह्यनवयवस्य परमार्थतः एकदेशाः सन्ति। येन कश्चिदेव नभोदेशः श्रोत्रं भवेत्। व्यवस्थाद्वयम्—प्राप्तेरतुल्यत्वव्यवस्था, श्रोत्रानेकत्वव्यवस्था च। यद्वा—शब्दस्यग्रहणाग्रहणे व्यवस्थाद्वयम्॥ २१६३॥
सकृच्च संस्कृतं श्रोत्रं सर्वशब्दान्प्रबोधयेत्।
घटायोन्मीलितं चक्षुः पटं नहि न बुद्ध्यते॥ २१६४॥
एतदेव प्रसक्तव्यं विषयस्यापि संस्मृतौ।
समानदेशवृत्तित्वात्संस्कारस्याविशेषतः॥ २१६५॥
किञ्च—सकृत्—एकवारं संस्कृतं श्रोत्रं सर्वशब्दान्प्रबोधयेत्—ग्राहयेत्। तस्य सर्वशब्दसाधारणत्वात्। तेषां च शब्दानां विभुत्वेनाभिन्नयोग्यदेशत्वात्। स्यादेतत्प्रतिपत्त्यर्थमेव वक्रा श्रोतुः श्रोत्रमभिसंस्कृतं तमेव शब्दं तच्छ्रोत्रं ग्राहयेन्नान्यमित्याह—“घटाये”त्यादि। नहि न बुध्यते, अपि तु बुध्यत एव, तुल्यत्वाद्देशयोग्यताया इति भावः। सर्वशब्दग्रहणं कथमित्याह—“समानदेशवृत्तित्वात्संस्कारस्याविशेषत” इति। सर्वेऽपि हि शब्दा विभुत्वेन समानाकाशदेशवृत्तयः, ततश्चैषां संस्कारोऽ— प्यविशिष्ट एवेति सर्वग्रहणप्रसङ्गः। क्वचित्पाठः—“संस्कारो ह्यविशेषतः” इति, तत्र हिशब्दो हेतौ। अविशेषत इति। आद्यादित्वात्तृतीयान्तात्तसिः। ततश्चायमर्थो भवति—अविशेषेण यस्माच्छब्दानां संस्कारः कृतः, समानदेशवृत्तित्वात्, ततःसर्वशब्दग्रहः प्राप्नोतीति॥ २१६४॥ २१६५॥
स्यादेतत्—यद्यप्यविशेषेण संस्कारः, तथापि य एव जिघृक्षितः श्रोत्रा शब्दः स एव गृह्यते नान्य इति, अत्राह—“स्थिरवाय्वि”त्यादि।
स्थिरवायूपनीत्या च संस्कारोऽस्य भवन् भवेत्।
दृष्टमावरणापाये तद्देशेऽस्यो(शस्थो ?)पलम्भनम्॥ २१६६॥
द्विविधो हि वायुः स्थिरोऽस्थिरश्च, तत्र यः स्थिरः सद्यनाव(घनान्ध ?) कारवत् शब्दमावृत्यास्ते। तस्य च वक्तृप्रयत्नसमुत्थेन वायुना संयोगविभागा उत्पद्यन्ते। तैश्च संयोगविभागैस्तस्य स्थिरस्य वायोरपनयः क्रियते स एव च शब्दस्य संस्कारो नान्यः स्वलक्षणपुष्ट्यादिः, तस्य नित्यत्वेनैकरूपत्वात्। ततः किमित्याह—“दृष्ट”मित्यादि। “दृष्ट”मिति। लोकशास्त्रयोः। यथा घटादेरन्धकारापगमे सति पुरोऽवस्थितस्यानभीष्टस्याप्युपलब्धिर्भवत्येव योग्यदेशावस्थानात्॥ २१६६॥
यदुक्तम्— तत्र सर्वैः प्रतीयेत शब्दः संस्क्रियते यदि॥ इति, तत्र न दोषो यस्मादेकोऽपि शब्दः कञ्चित्पुरुषं प्रत्यसंस्कृतः कञ्चित्प्रति संस्कृतः। यथा एका स्त्री व्यपेक्षाभेदान्माता च दुहिता चेत्याह—“संस्कृतासंस्कृतत्वे” इति।
संस्कृतासंस्कृतत्वे न शब्दैकत्वेन सिद्ध्यतः।
एकावस्थाभ्युपेतौ च सर्वैर्ज्ञायेत वा नवा॥ २१६७॥
शब्दस्यैकत्वे सति संस्कृतासंस्कृतत्वे द्वे अवस्थे निष्पर्यायेण न प्राप्नुतः,अवस्थाया अवस्थातुरभेदात् अवस्थातृस्वरूपवदवस्थयोरप्येकत्वमेव प्राप्नोति। यत्पुनरेका स्त्री माता चोच्यते दुहिता चेति। तत्र शब्द एव केवलं भिन्नो न वस्तु। इह तु न व्यपदेशमात्रं भिन्नम्, शब्दस्य सर्वपुरुषग्रहणयोग्यत्वाविशेषेणावस्थानात्। ततश्च ग्रहणाग्रहणे न स्याताम्। नहि व्यपदेशान्यथात्वमात्रेणार्थक्रियानियतस्वभावहानिर्युक्ता। अथ प्रतिनियतपुरुषग्राह्य एव तस्य स्वभावस्तेन ग्रहणाग्रहणे पुरुषशक्तिभेदादविरुद्धे इति चेन्न। येन ह्येकदा न गृहीतः पुरुषेण, तेन न कदाचिदपि गृह्यते। न चैवम्। तस्मान्माभूदेकत्वहानिरिति। एकैवाऽवस्था संस्कृतासंस्कृतयोरन्यतराऽभ्युपगन्तव्या शब्दस्य, ततः किमित्याह—“एकावस्थाभ्युपेता”वित्यादि॥ २१६७॥
उभयसंस्कारपक्षे दोषमाह—“प्रत्येक”मित्यादि।
प्रत्येकाभिहिता दोषाः स्युर्द्वयोरपि संस्कृतौ।
अतो न व्यञ्जकः शब्दे कथञ्चिदपि युज्यते॥ २१६८॥
प्रत्येकं शब्दस्येन्द्रियस्य च संस्कारे येऽभिहिता दोषास्ते द्वयोरपि संस्कारे भवेयुः। अत इत्युपसंहरति॥ २१६८॥
“उत्तर”मित्यादिना प्रतिविधत्ते।
उत्तरं श्रोत्रसंस्काराद्भाष्यकारेण वर्णितम्।
तद्भेदाच्छ्रुतिभेदश्च प्रतिश्रोतृव्यवस्थितः॥ २१६९॥
“भाष्यकारेणे”ति। यथोक्तम्— यस्याप्यभिव्यञ्जन्ति तस्याप्येष न दोषो दूरे सत्याः कर्णशष्कुल्या अनुपकारकाः संयोगविभागास्तेन दूरे यच्छ्रोत्रं तेन नोपलभ्यन्त इति। तद्भेदादिति—कर्णशष्कुलीश्रोत्रभेदात्। श्रुतिभेदः—प्रतीतिभेदः ॥ २१६९॥
ननु च कथमन्यस्य संस्कारेऽन्यस्याभिव्यक्तिर्भवतीत्याह—“यथा घटादे”रित्यादि।
यथा घटादेर्दीपादिरभिव्यञ्जक इष्यते।
चक्षुषोऽनुग्रहादेव ध्वनिः स्याच्छ्रोत्रसंस्कृतेः॥ २१७०॥
यथा हि दीपादिश्चक्षुषोऽनुग्रहेण घटादेरभिव्यञ्जको भवति, तथा ध्वनिरपि श्रोत्रसंस्कृतेः—श्रोत्रसंस्करणात्, शब्दस्याभिव्यञ्जको भविष्यति॥ २१७०॥
ननु च वक्तव्यमेतत्केन प्रकारेण ध्वनिना श्रोत्रस्य संस्कारः क्रियते निष्पन्नस्येत्यत आह—“नच पर्यनुयोगोऽत्रे”ति।
नच पर्यनुयोगोऽत्र केनाकारेण संस्कृतिः।
उत्पत्तावपि तुल्यत्वाच्छक्तिस्तत्राप्यतीन्द्रिया॥ २१७१॥
उत्पत्तावपि तुल्यत्वात्—पर्यनुयोगस्येति शेषः। उत्पत्तावपि हि शब्दस्य कारणेभ्यः सत्यां तुल्यः पर्यनुयोगस्तत्रापि शक्यत एवैतद्वक्तुम्—केनाकारेण ध्वनिनावायवीयसंयोगदविभागात्मकेनाऽन्येन वा कारणेन कथं शब्दः क्रियत इति। यतः शक्तिस्तत्राप्यतीन्द्रिया। तत्रापि—शब्दानामुत्पत्तौ क्रियमाणायां—शब्दकारणानां यथोत्पादकशक्तिरतीन्द्रिया तथाऽभिव्यक्तावपीति तुल्यः पर्यनुयोगः॥ २१७१॥
यद्यतीन्द्रिया शक्तिः सा कथमनुमन्तव्येत्याह—“नित्य”मित्यादि।
नित्यं कार्यानुमेया च शक्तिः किमनुयुज्यते।
तद्भावभावितामात्रं प्रमाणं तत्र गम्यते॥ २१७२॥
उत्पादकशक्तिर्वाऽभिसंस्कारकशक्तिर्वा भवतु, सर्वथा यावती काचिच्छक्तिः सा सर्वा सदैव कार्यानुमेया। तस्मात्सा नानुयोगमर्हति। किं तत्कार्यं यतः सा गम्यतइत्याह—“तद्भावे”त्यादि। तद्भावे—ध्वनिभावे सति, तद्भाविता—शब्दग्रहणस्य भाविता या, तदेव तत्र शब्दस्य(ञ्जकश)क्तौ प्रमाणम्। शब्दग्रहणकार्येण शक्तिर्गम्यत इति यावत्। (मात्र)ग्रहणेनोत्पत्तेर्निरासः॥ २१७२॥
“अत” इत्युपसंहरति।
अतोऽतीन्द्रिययैवैते शक्त्या शक्तिमतीन्द्रियाम्।
इन्द्रियस्यादधाना हि स्फुरन्ति व्यक्तिहेतवः॥ २१७३॥
तस्मादेते ध्वनयोऽतीन्द्रियया शक्त्या श्रोत्रेन्द्रियस्य शक्तिमतीन्द्रियामुत्पादयन्तः स्फुरन्ति व्यक्तिहेतवः। शब्दानामित्यपेक्षणीयम्॥ २१७३॥
अथोत्पत्तिहेतव एव कस्माद्ध्वनयो न विज्ञायन्त इत्याह—“येषा”मित्यादि।
येषां त्वप्राप्तजातोऽयं शब्दः श्रोत्रेण गृह्यते।
तेषामप्राप्तितुल्यत्वाद्दूरव्यवहितादिषु॥ २१७४॥
तत्र दूरसमीपस्थग्रहणाग्रहणे समे।
स्यातां नच क्रमो नापि तीव्रमन्दादिसम्भवः॥ २१७५॥
येषां बौद्धानां शब्दोऽप्राप्तजातो गृह्यते श्रोत्रेण। अप्राप्तश्चासौ जातश्चेत्यप्राप्तजातः।चक्षुःश्रोत्रमनोऽप्राप्तविषयम्, उपात्तानुपात्तमहाभूतहेतुः शब्द इति सिद्धान्तात्। तेषां मतेन शब्दानां दूरव्यवहितसमीपस्थानां श्रोत्रेणाप्राप्तेस्तुल्यत्वाद्दूरसमीपस्थैः पुरुषैर्ग्रहणाग्रहणे तुल्ये स्याताम्, समीपस्थस्य यादृशं ग्रहणं तादृशं दूरस्थस्यापिस्यादविशेषात्। क्रमेण च ग्रहणं न स्यात्, यत्पूर्वं समीपस्थैर्ग्रहणं पश्चाद्दूरस्थैरिति। नापि तीव्रमन्दतरतमादिश्रुतिभेदः स्यात्, यत्समीपस्थैस्तीव्रः श्रूयते मन्दो दूरस्थैरिति। एवं तरतमभेदोऽपि योज्यः॥ २१७४॥ २१७५॥
ननु यस्यापि मीमांसकस्य प्राप्ताजातः शब्दो गृह्यते श्रोत्रेण तस्यापि कस्मादेष सर्वप्रसङ्गो न भवतीत्यतः प्रतिपादयितुं विशेषमुपक्रमते—“तस्मा”दित्यादि।
तस्माच्छ्रोत्रियदृष्ट्याऽपि कल्पनेयं निरीक्ष्यताम्।
प्रयत्नाभिहतो वायुः कोष्ठ्यो जातीत्यसंशयः (?)॥ २१७६॥
स संयोगविभागौ च ताल्वादेरनुरुध्यते।
वेगवत्त्वाच्च सोऽवश्यं यावद्वेगं प्रतिष्ठते॥ २१७७॥
तस्यात्मावयवानां च स्तिमितेन च वायुना।
संयोगा विप्रयोगाश्च जायन्ते गमनाद्धुवम्॥ २१७८॥
कर्णव्योमनि सम्प्राप्तः शाक्तिं श्रोत्रे नियच्छति।
तद्भावे शब्दबोधाच्च संस्कारोऽदृष्ट इष्यते॥ २१७९॥
उत्पत्तिशक्तिवत्सोऽपीत्यधिकं नो न किञ्चन।
तथैव तद्विशेषोपि विशेषग्रहणाद्भवेत्॥ २१८०॥
श्रोत्रियग्रहणमतार्किकत्वप्रतिपादनपरम्। अनेन च स्वपक्षोत्कर्षं वक्रोक्त्या कथयति। काऽसौ कल्पनेत्याह—“प्रयत्नाभिहत” इत्यादि। प्रयत्नस्ताल्वादिकरणव्यापारस्तेनाभिहतः प्रेरितः कोष्ठभवो वायुर्नाभिप्रदेशादुत्थित उरसि विस्तीर्णः कण्ठे वर्त्तितो मूर्द्धानमाहत्य वक्रे सञ्चरन्निर्गच्छति। एतदेव दर्शयति(॰ ॰ ॰)“स” इत्यादि। स वायुर्निष्क्रामंस्ताल्वादेः संयोगविभागावनुभवति। गच्छंश्च न स यावदाकाशमभिगच्छति। किं तर्हि ?। यावद्वेगम्—यावांस्तस्य वेगस्तदनुरूपमेव गच्छतीति यावत्। कुतः— वेगवत्त्वात्। तस्य च वायोर्गच्छत आत्मीयावयवानां स्तिमितेन स्थिरेण वायुना संयोगविभागाः समुपजायन्ते। अवश्यं सच कर्णरन्ध्रं प्राप्य श्रोत्रे शक्तिमाधत्ते।तद्भावे—वायवीयसंयोगविभागसद्भावे सति, शब्दस्यावगमाददृष्टः संस्कारः श्रोत्रस्येष्यते। यथा शब्दस्य शब्दान्तरैर्ध्वनिभिर्वोत्पत्तिर्दृ(त्तेरदृ?)ष्टाऽपीष्यते भवद्भि(श्शक्ति)स्तथा संस्कारोऽपीति। यथोक्तं भाष्ये—अभिघातेन प्रेरितावयवः स्तिमितानि वस्त्वन्तराणि प्रबाधमानाः सर्वतोदिक्काः संयोगविभागानुत्पादयन्तो यावद्वेगमभिप्रतिष्ठन्ते, ते च वायोरप्रत्यक्षत्वात्संयोगविभागा नोपलभ्यन्ते। अनुपरतेष्वेव च तेषु शब्द उपलभ्यते नोपरतेष्विति। यद्येवं न तर्हि संस्कारपक्षस्योत्पत्तिपक्षाद्विशेषः कथितोभवतीत्याह—“तथैवे”त्यादि। तद्विशेषः—संस्कारविशेषः, शब्दग्रहणविशेषादुपपद्यते। तेन दूरसमीपस्थानां ग्रहणाग्रहणे न समे भवतः, पुरुषभेदेन संस्कारस्य भिन्नत्वात्॥ २१७६॥ २१७७॥ २१७८॥ २१७९॥ २१८०॥
कुड्याद्यावरणे कथमग्रहणं शब्दस्येत्याह—“कुड्यादी”त्यादि।
कुड्यादिप्रतिबन्धोऽपि युज्यते मातरिश्वनः।
श्रोत्रदेशाभिघातोऽपि तेन तीव्रप्रवृत्तिना॥ २१८१॥
तस्य च क्रमवृत्तित्वात्क्षयिवेगित्वसम्पदः।
संस्कारक्रमतीव्रत्वमन्दतादिनिमित्तता॥ २१८२॥
यद्यपि शब्दो न प्रतिघाती तथापि मातरिश्वनो वायोः कुड्यस्य च मूर्त्तत्वे प्रतिघातित्वान्न कर्णदेशागमनमिति श्रोत्रसंस्कारो न जायते,तेनावृतस्याश्रवणं भवति। येषां त्वप्राप्तस्य ग्रहणं तेषामेष दोष एव। तीव्रतरतमश्रुतिभेदस्तर्हि कथं भवतीत्याह —“श्रोत्रदेशाभिघातोऽपी”ति। युज्यत इति प्रकृतं सर्वत्र योजनीयम्। “क्षयिवेगित्वसम्पद” इति। क्षयित्वसम्पदो वेगित्वसम्पदो युज्यन्त इति विभक्तिविपरिणामेन सम्बन्धः। अथवा—क्षयिण्यश्च ता वेगित्वसम्पदश्चेति विग्रहः। यद्वा—क्षयिणीवेगित्वसम्पद्यस्य वायोरिति बहुव्रीहिः। ततश्च संस्कारक्रमतीव्रमन्दतानिमित्तता युज्यत इति सम्बन्धः। संस्कारक्रमो युज्यते तस्य वायोः क्रमवृत्तित्वात्। तीव्रता च युज्यते वेगित्वसम्पदा युक्तत्वात्। मन्दताऽपि च क्षयित्वात्। आदिशब्देन तरतमादिभेदो योज्यः॥ २१८१॥ २१८२॥
ननु चाकाशश्रोत्रपक्षे—“विभुत्वात्प्राप्तितुल्यते”त्यादिना श्रोत्रसंस्कारे दोषा बहवः पूर्वमुक्तास्तत्कथमुत्तरं श्रोत्रसंस्काराद्भाष्यकारेण वर्णितमित्याह—“नावश्यं श्रोत्रमाकाश”मित्यादि।
नावश्यं श्रोत्रमाकाशमस्माभिश्चाभ्युपेयते।
नचानवयवं व्योम जैनसाङ्ख्यनिषेधतः॥ २१८३॥
तेनाकाशैकदेशो वा यद्वा वस्त्वन्तरं भवेत्।
कार्यार्थापत्तिगम्यं तच्छ्रोत्रं प्रतिनरं स्थितम्॥ २१८४॥
तेन तत्पक्षभाविनो दोषास्तदनङ्गीकारादेव नापतन्तीत्युक्तम्। “नचानवयवं व्योमे”ति। अभ्युपेयत इति सम्बन्धः। कुतः ?। जैनसाङ्ख्यनिषेधतः—जैनैरार्हतैः साङ्ख्यैश्च निरवयवस्य व्योम्नो निषिद्धत्वात्। नहि मीमांसकैः परसिद्धान्तप्रसिद्धेर्नव्यवह्रियते। यदेव हि युक्त्या समापतति तदेव तैरङ्गीक्रियते, अन्यथा मीमांसकत्वमेव हीयेत। ततश्च जैनासाङ्ख्यप्रसिद्धव्योमात्मकश्रोत्रङ्गीकरणान्न दोषः। “यद्वा वस्त्वन्तर”मिति। कर्णशष्कुलीसञ्ज्ञकम्। “कार्यार्थापत्तिगम्य”मिति। शब्दग्रहणान्यथानुपपत्तिगम्यम्॥ २१८३॥ २१८४॥
अथवा—अनवयवाकाशश्रोत्रपक्षेऽपि न दोष इति प्रतिपादयन्नाह—“यद्यपी”त्यादि।
यद्यपि व्यापि चैकं च तथापि ध्वनिसंस्कृतिः।
अधिष्ठाने तु सा यस्य स शब्दं प्रतिपद्यते॥ २१८५॥
“यद्यपि व्यापि चैकं चे”ति। श्रोत्रमिति शेषः। तथापि सा ध्वनिभिः संस्कृतिर्यस्य पुरुषस्याधिष्ठाने—कर्णशष्कुल्यां भवति, स एव शब्दं प्रतिपद्यते नान्यः। अनेनाधिष्ठानसंस्कार एवोक्तो न श्रोत्रस्य। तस्य चाधिष्ठानस्य प्रतिपुरुषं भिन्नत्वान्नयथोक्तदोषप्रसङ्ग इति भावः॥ २१८५॥
श्रोत्रसंस्कारेऽपि न दोष इति प्रतिपादयति—“अथापी”ति।
अथापीन्द्रियसंस्कारः सोऽप्यधिष्ठानदेशतः।
शब्दं न श्रोष्यति श्रोत्रं तेनासंस्कृतशष्कुलि॥ २१८६॥
अधिष्ठानम्—कर्णशष्कुली। तत्संस्कारद्वारेण श्रोत्रस्य संस्कारो न केवलस्य। तेनासंस्कृताधिष्ठानत्वाच्च विदूरस्थान्यचित्तसुप्तमूर्छितानां श्रोत्रं न शृणोति। असंस्कृता कर्णशष्कुली यस्य तत्तथोक्तम्। अधिष्ठानदेशत इति सप्तम्यर्थे तसिः॥ २१८६॥
ननु यदि ध्वनयोऽधिष्ठानं तद्देशं वेन्द्रियं संस्कुर्वन्ति, कस्माद्यत्र क्वचनोपलब्धसद्भावाः सकलप्राणिजातेन्द्रियाधिष्ठानसंस्कारकारिणो न भवन्तीत्याह—“अप्राप्तकर्णदेशत्वा”दित्यादि।
अप्राप्तकर्णदेशत्वाद्ध्वनेर्न श्रोत्रसंस्क्रिया।
अतोऽधिष्ठानभेदेन संस्कारनियमः स्थितः॥ २१८७॥
यद्यप्यधिष्ठानसंस्कारकारिणो नादास्तद्देशेन्द्रियसंस्कारका वा। तथापि प्राप्ता एव सन्तः संस्कारभाजि पदार्थे संस्कारं कुर्वन्ति, नाप्राप्ता इत्यतो न सर्वपुरुषाधिष्ठानादिसंस्कारः। श्रोत्रग्रहणमुपलक्षणम्। अधिष्ठानसंस्कारोऽपि न भवत्येव। क्वचित्— अप्राप्तकर्णदेशाद्वेति पाठः। तत्र पूर्वमधिष्ठानसंस्कारमुखेन श्रोत्रसंस्कारमाश्रित्य परिहार उक्तः। साम्प्रतं माभूदधिष्ठानसंस्कारद्वारेण श्रोत्रसंस्कारस्तथाऽप्यदोषो यतः प्राप्तकर्णशष्कुलीमूला एव वायवः श्रोत्रसंस्कारायालम्, नाप्राप्ता इत्यतः पक्षान्तरमुक्तम्। अत इत्युपसंहारः॥ २१८७॥
“नन्वि”त्यादिना पक्षत्रयेऽप्यनन्तरोदिते परस्य चोद्यमाशङ्कते।
नन्वेकस्मिन्नधिष्ठाने लब्धसंस्कारमिन्द्रियम्।
बोधकं सर्वदेहेषु स्यादेकेन्द्रियवादिनः॥ २१८८॥
एकस्य श्रोत्रस्य संस्कृतासंस्कृतपरस्परविरुद्धधर्मद्वयायोगादेकत्र संस्कारात्सर्वदेहेष्वभिन्नत्वात्संस्कृतमेवेति बधिरादेरपि बोधकं प्राप्नोति श्रोत्रमेकेन्द्रियवादिनः। ततश्चबाधिर्यादिव्यवस्थानं न स्यात्॥ २१८८॥
“पुंसा”मित्यादिना प्रतिविधत्ते।
पुंसां देहप्रदेशेषु विज्ञानोत्पत्तिरिष्यते।
तेन प्रधानवैदेश्याद्विगुणा श्रोत्रसंस्कृतिः॥ २१८९॥
पुंसामात्मनां सर्वगतत्वेऽपि शरीरेष्वेव धर्माधर्मपरिगृहीतेषु विज्ञानोत्पत्तिर्मीमांसकादिभिरिष्यते। तेन प्रधानस्य देहस्य वैदेश्यात्—भिन्नदेशत्वात्। श्रोत्रस्यैवं सर्वगतस्यापि संस्कृतिर्विगुणा तेन यथोक्तदोषानवसरः। क्वचित्—सात्र संस्कृतिरिति पाठः। तत्र सा संस्कृतिः श्रोत्रस्येति सम्बन्धः॥ २१८९॥
ननु च सर्वगतत्वादात्मनः सर्वत्र ग्रहणप्रसङ्गः शब्दस्यानिवारित एवेत्याह—“निष्प्रदेशोऽपि चे”ति।
निष्प्रदेशोऽपि चात्मा नः कार्त्स्न्येन च विदन्नपि।
शरीर एव गृह्णातीत्येवमुक्तिर्न दुष्यति॥ २१९०॥
बाधिर्यादिव्यवस्थानमेतेनैव च हेतुना।
तदेवाभोग्यमन्यस्य धर्माधर्मावशीकृतम्॥ २१९१॥
यथा तत्र भवन्नेव स्वामित्वादवरोपितः।
न भोगं लभते तद्वद्बधिरोऽन्यत्र शृण्वति॥ २१९२॥
एतदुक्तं भवति। यद्यप्येवम्, तथापि धर्मादिवशीकृतशरीरावधिकमेवात्मनः शाब्दग्रहणमतो न दोषः। कथं पुनरभिन्नस्यात्मनः श्रोत्रस्य ग्रहणाग्रहणसंस्कारासंस्कारविभाग इति चेत्। न। यथाऽऽकाशस्यानवयवस्यापि संयोगिपदार्थभेदाद्धटाकाशं पिठराकाशमिति भेदो भवति तथेहापि भविष्यति। अत एव च व्यापिनिर वयवस्य श्रोत्रस्य संसर्गिभेदाद्बाधिर्यादिव्यवस्थितिरिति दर्शयति। ( बाधिर्यादीति )।“एतेने”ति। संयोगिभेदेन हेतुना। यदि नाम संयोगिनो भिन्नास्तथापि किमिति क श्चिदेव बधिरो भवतीत्याह—“तदेवाभोग्य”मिति। तदेव श्रोत्रमन्यस्य पुरुषस्य न भोग्यं भवति, कुतः ?, धर्माधर्माभ्यामवशीकृतत्वात्। एतदेव दृष्टान्ते स्फुटयन्नाह —“यथा तत्रे”त्यादि। यथा कश्चिद्ग्रामादेः स्वामी तत्र ग्रामादौ भवन्नेव विद्यमान एव राज्ञा स्वामित्वादवरोपितस्तस्मिन्नेव ग्रामे भोगं न लभते, तद्वद्बधिरोऽन्यत्रान्यस्मिन्पुरुषे शृण्वत्यपि सति न शृणोति॥ २१९०॥ २१९१॥ २१९२॥
ननु च—श्रोत्रशब्दाकाशानां त्रयाणामपि निरवयवत्वाद्विभुत्वाच्च (न) प्रदेशवृत्तिरस्ति। तत्कथमेकदेशवृत्तित्वनियतग्रहणाग्रहणादिविभागो लभ्यत इत्याह—“श्रोत्रशब्दाश्रयाणा”मित्यादि।
श्रोत्रशब्दाश्रयाणां च न नामावयवाः स्वयम्।
नचैकदेशवृत्तित्वं तथाऽप्येतन्न दुष्यति॥ २१९३॥
श्रोत्रं च शब्दश्चाश्रयश्च—शब्दस्याकाशमिति, श्रोत्रशब्दाश्रयाः। “न नामावयवाः स्वय”मिति। संयोगिभेदादुपचारितास्तु विद्यन्त एवेति स्वयमित्याह—“तथाऽप्येत”दिति। प्रदेशवृत्तित्वनियतग्रहणादिकम्॥ २१९३॥
कथमित्याह—“व्यञ्जकाना”मित्यादि।
व्यञ्जकानां हि वायूनां भिन्नावयवदेशता।
जातिभेदश्च तेनैव संस्कारो व्यवतिष्ठते॥ २१९४॥
भिन्नाः—अवयवदेशाः—कर्णशष्कुल्यधिष्ठानसञ्ज्ञिता येषां ते तथोक्ताः। तद्भावो —भिन्नावयवदेशता। “जातिभेद”श्चेति। भिन्नताल्वादिकारणसामग्रीभेदात्॥ २१९४॥
ननु चोक्तं सकृच्च संस्कृतं श्रोत्रं सर्वशब्दान्प्रबोधयेदित्यत्रोत्तरमाह—“अन्यार्थं प्रेरित” इत्यादि।
अन्यार्थं प्रेरितो वायुर्यथा नान्यं करोति सः।
तथाऽन्यवर्णसंस्कारशक्तो नान्यं करिष्यति॥ २१९५॥
“अन्यार्थ”मिति। अन्यवर्णनिष्पत्त्यर्थम्। “अन्यवर्णसंस्कारशक्त” इति। अन्यवर्णप्रतीत्यर्थः संस्कारो यः श्रोत्रस्य सोऽन्यवर्णसङ्कारशब्देनोक्तः। नतु वर्णसंस्कार एव, श्रोत्रसंस्कारस्य प्रकृतत्वात्। “नान्यं करिष्यती”ति। नान्यं वर्णं श्रोत्रसंस्कारद्वारेण संस्करिष्यतीत्यर्थः॥ २१९५॥
अथ वायूनामेव कस्मादेष प्रतिनियम इत्याह—“अन्यैरि”त्यादि।
अन्यैस्ताल्वादिसंयोगैर्वर्णो नान्यो यथैव च।
तथा ध्वन्यन्तरक्षेपो न ध्वन्यन्तरसारिभिः॥ २१९६॥
ताल्वादिसंयोगभेदाद्व्यञ्जका वायवो ध्वनयो भिन्ना इत्यभिप्रायः। “वर्णो नान्य” इति। क्रियते इत्यध्याहारः। ध्वन्यन्तराणां क्षेपः—प्रेरणम्। ध्वन्यन्तरसारिभिस्ताल्वादिसंयोगैरिति सामानाधिकरण्यम्॥ २१९६॥
“तस्मा”दित्युपसंहरति।
तस्मादुत्पत्त्यभिव्यक्त्योः कार्यार्थापत्तितः समः।
सामर्थ्यभेदः सर्वत्र स्यात्प्रयत्नविवक्षयोः॥ २१९७॥
उत्पत्त्यभिव्यक्त्योरिति सप्तम्यन्तम्। शब्दस्योत्पत्तावभिव्यक्तौ च प्रयत्नस्य विवक्षायाश्च तुल्यः सामर्थ्यभेदः। कुतः ?। कार्यान्यथानुपपत्तिगम्यत्वात्। उभयत्रापि कार्यार्थापत्तेर्व्याप्रियमाणत्वादिति यावत्॥ २१९७॥
एवं तावत्सिद्धान्तान्तरप्रतीतं लोकप्रतीतं च यथाक्रममाकाशकर्णशष्कुलीलक्षणंश्रोत्रमभ्युपगम्य तत्संस्कारद्वारेण शब्दाभिव्यक्तौ न दोष इति प्रतिचोदितम्। साम्प्रतं वेदप्रसिद्धं दिग्लक्षणं श्रोत्रमाश्रित्य तत्संस्कारभेदाच्छब्दाभिव्यक्तावदोषं प्रतिपादयन्नाह—“यद्वे”त्यादि।
यद्वा वेदानुसारेण कार्या दिक्श्रोत्रतामतिः।
नाकाशाद्यात्मकं ह्युक्तं वेदे श्रोत्रं कथञ्चन॥ २१९८॥
दिशः श्रोत्रमिति ह्येतत्प्रलयेष्वभिधीयते।
तच्च प्रकृतिगामित्ववचनं चक्षुरादिवत्॥ २१९९॥
“दिक्श्रोत्रतामति”रिति। दिगेव श्रोत्रमित्येवं दिशः श्रोत्रत्वनिश्चयः कार्य इत्यर्थः। कथमित्याह—“नाकाशात्मक”मिति। यद्येवं दिक्श्रोत्रमित्येवमपि वेदे नोक्तम्, तत्कथं लभ्यत इत्याह—“दिशः श्रोत्र”मित्यादि। प्रकृतिषु स्वभावेषु लयाः प्रलयाः। नाशकाले प्राणिनां चक्षुरादयः स्वस्यां स्वस्यां प्रकृतौ लीयन्ते। तत्र च प्रलये पशुमधिकृत्योक्तं वेदे— सूर्यमस्य चक्षुर्गमयतात्, दिशः श्रोत्रमिति। अत्रापि गमयतादिति सम्बन्धः। गमयतादिति। यद्यत आगतं तत्तत्र गच्छत्वित्यर्थः। तेन यद्यपि वेदे दिक् श्रोत्रमित्याहत्य नोक्तम्। तथापि दिशः श्रोत्रं गमयतादित्यनेन वाक्येन सामर्थ्यादुक्तमेव। कथमित्याह—“तच्चे”त्यादि। तच्च दिशः श्रोत्रमिति वचनं श्रोत्रस्य प्रकृतिगामित्वप्रतिपादनपरम्। श्रोत्रं कर्तृ दिशो गच्छतु प्रकृतिभूता इत्यर्थः। कथमिवेत्याह—“चक्षुरादिव”दिति॥ २१९८॥ २१९९॥
एतदेव विवृणोति—“सूर्यमस्ये”त्यादि।
सूर्यमस्य यथा चक्षुर्भ(रु ?) क्तं गमयतादिति।
तेजःप्रकृतिविज्ञानं तथा श्रोत्रं दिगात्मकम्॥ २२००॥
यथा सूर्यमस्य चक्षुर्गमयतादिति वाक्येन तेजःप्रकृतिविज्ञानमुक्तम्, चक्षुषइत्यध्याहारः, तथा श्रोत्रं दिगात्मकमुक्तं दिशः श्रोत्रमित्यनेन वाक्येनेत्येवं पदानां सम्बन्धः कार्यः। तेजःप्रकृतिविज्ञानं तेजोमयत्वमित्यर्थः॥ २२००॥
अथ कीदृशी सा दिगित्याह—“दिक्चे”त्यादि।
दिक्च सर्वगतैकैव यावद्व्योम व्यवस्थिता।
कर्णरन्ध्रपरिच्छिन्ना श्रोत्रमाकाशदेशवत्॥ २२०१॥
सर्वगतस्यैव विवरणम्—“यावद्व्योम व्यवस्थिते”ति। यद्येवं बधिरादिव्यवस्था न प्राप्नोति, एकत्वाद्दिश इत्याह—“कर्णरन्ध्रे”त्यादि। न सर्वात्मना दिक् श्रोतम्, किं तर्हि ?, कर्णशष्कुलीपर्यन्तपरिच्छिन्ना॥ २२०१॥
ननु निरवयवत्वात्तस्य कथमवयवविभागो लभ्यत इत्याह—“यावा”निति।
यावांश्च कश्चन न्यायो नभोभागत्वकल्पने।
दिग्भागेऽपि समश्चासावागमात्तु विशिष्यते॥ २२०२॥
यथाऽऽकाशस्य संयोगिभेदेनावयवकल्पना तथा दिशोऽपि भविष्यति। कस्तर्ह्याकाशश्रोत्रपक्षादस्य विशेष इत्याह—“आगमा”दिति॥ २२०२॥
“तस्मा”दित्युपसंहारेण बधिरादिव्यवस्थानं सूचयति।
तस्माद्दिग्द्रव्यभागो यः पुण्यापुण्यवशीकृतः।
कर्णरन्ध्रपरिच्छिन्नः श्रोत्रं संस्क्रियते च सः॥ २२०३॥
विषयसंस्कारपक्षेऽपि न दोष इति प्रतिपादयन्नाह—“विषयस्यापी”ति।
विषयस्यापि संस्कारे तेनैकस्यैव संस्कृतिः।
नरैः सामर्थ्यभेदाच्च न सर्वैरवगम्यते॥ २२०४॥
यदुक्तम्— तत्र सर्वैः प्रतीयेत शब्दः संस्क्रियते यदीति, तत्र न दोषः। कुतः ?, नराणां सामर्थ्यभेदात्—वायोः श्रोत्रसंस्कारकस्य सन्निधानासन्निधानाभ्यां श्रोत्रसंस्कारस्य भिन्नत्वात्सामर्थ्यभेदः॥ २२०४॥
ननु च नित्यसर्वगतत्वेन सर्वान्पुरुषान्प्रत्यविशिष्टत्वाच्छब्दस्य कथं ग्रहणाग्रहणे स्यातामित्याह—“यथैवे”त्यादि।
यथैवोत्पद्यमानोऽयं न सर्वैरवगम्यते।
दिग्देशादिविभागेन सर्वान्प्रति भवन्नपि॥ २२०५॥
तथैव यत्समीपस्थैर्नादैः स्याद्यस्य संस्कृतिः।
तेनैव श्रूयते शब्दो न दूरस्थैः कथञ्चन॥ २२०६॥
अथ कथमिदमवसीयते बायुभ्यो विषयस्य संस्कारो भवति। नतु विषय एवेत्याह—“शब्दोत्पत्ते”रित्यादि।
शब्दोत्पत्तेर्निषिद्धत्वादन्यथाऽनुपपत्तितः।
विशिष्टसंस्कृतेर्जन्म ध्वनिभ्योऽध्यवसीयते॥ २२०७॥
प्रत्यभिज्ञया शब्दस्य विभुत्वैकत्वयोः सिद्धत्वान्न शब्दोत्पत्तिः। तस्मात्सामर्थ्यात्संस्कारोत्पत्तिर्ध्वनिभ्यो भवति न शब्दस्येति गम्यते॥ २२०७॥
ननु च बीजाङ्कुरादाविव तद्भावभावितया ध्वनिकार्यत्वं शब्दानां सिद्धम्। यथाहिबीजादिभावेऽङ्कुरादीनामुपलम्भात्तत्कार्यत्वं तेषाम्। एवं ध्वनिभावे शब्दानामुपलम्भोऽस्ति, किमिति तत्कार्यत्वं न भवेत्, एतावन्मात्रनिबन्धनात्वात्कार्यव्यवहारस्येत्याह—“तद्भावभाविते”त्यादि।
तद्भावभाविता चात्र शक्त्यस्तित्वावबोधिनी।
श्रोत्रशक्तिवदेवेष्टा बुद्धिस्तत्र हि संहृता॥ २२०८॥
यथाहि श्रोत्रभावे शब्दोपलम्भोऽस्ति, न च ततस्तद्भावभावित्वाच्छ्रोत्रस्य शब्दं प्रति जननशक्तिरनुमीयते, किं तर्हि ?, ग्रहणशक्तिः, एवमिहापि ध्वनीनां शक्तिसद्भावमात्रावबोधिनी भवेत्तद्भावभाविता, नतूत्पादकशक्त्यवबोधिनी, शक्तिमात्रे तस्याः प्रतिबन्धो नतु शक्तिविशेष इति यावत्। अतः शक्तिविशेषे साध्ये व्यभिचारित्वमस्या इति प्रतिपादितं भवति। कथमिदानीं संस्कारशक्तिविशेषावगतिरित्याह—“बुद्धिस्तत्र हि संहृते”ति। प्रत्यभिज्ञया नित्यत्वस्य सिद्धत्वात्। अन्यथानुपपत्त्या तत्रसंस्कारविशेषे तु बुद्धिरुपसंहृता भाष्यकारेण नतु तद्भावभावितामात्रतः संस्कारशक्तिरनुमीयत इत्यर्थः॥ २२०८॥
उभयसंस्कारपक्षे यदुक्तम्—प्रत्येकाभिहिता दोषाः स्युर्द्वयोरपि संस्कृताविति, अत्राह—“संस्कारद्वयपक्षे तु वृथा दोषद्वयं हि त”दिति।
संस्कारद्वयपक्षे तु वृथा दोषद्वयं हि तत्।
येनान्यतरवैकल्यात्सर्वैः शब्दो न गम्यते॥ २२०९॥
दोषद्वयमुभयोरपि पक्षयोर्यत्प्रागुक्तं तत्तु वृथा—अनर्थकम्। कथमित्याह—“येने”त्यादि। “येने”ति। यस्मात्। अन्यतरस्य—श्रोत्रसंस्कारस्य (अर्थसंस्कारस्य) वा वैकल्यात्। न शब्दो गम्यते। तथाहि—सत्यपि शब्दसंस्कारे बधिरस्य श्रोत्रसंस्कारवैकल्यान्न शब्दग्रहणम्। अबधिरस्याप्यनभिव्यक्तेःशब्द(स्या)ग्रहणम्। क्वचित्पाठो मृषा दोषद्वये वच इति। स च सुबोधः॥ २२०९॥
ननु च यदि सर्वगतः शब्दः कथमस्य घटादेरिव देशविच्छेदे नानात्वमुपलभ्यते। यावता सर्वत्र सद्भावादविच्छिन्नरूपेण सर्वत्रावगतिर्युक्ता। नच सर्वगतस्य दूरासन्नादिभेदा युक्तः। नाप्यागमः कुतश्चिद्देशात्,तस्य सर्वत्र स्थितत्वात्। नापि नित्यस्य दीर्घहरस्वमन्दतरतमादिस्वभावभेदो युक्तः। कालभेदश्च न युक्तः। तस्माद्देशकालस्वभावभेदेन वेद्यमानत्वाद्भटादिवद्भिन्नोऽनित्यश्च सिद्धः शब्द इति तत्कथमुच्यते—शब्दोत्पत्तेर्निषिद्धत्वादन्यथाऽनुपपत्तितः। विशिष्टसंस्कृतेर्जन्म ध्वनिभ्योऽध्यवसीयते॥ इति। अत्राह—“जलादिष्वि”त्यादि।
जलादिषु यथैकोऽपि नानात्मा सवितेक्ष्यते।
युगपन्नच भेदोऽस्य तथा शब्दोऽपि गम्यताम्॥ २२१०॥
अनेन देशभेदेन वेद्यमानत्वस्यानैकान्तिकत्वमह॥ २२१०॥
ननु जलाद्याधारभेदः सवितर्यनेकत्वव्यामोहकारणमस्ति, इह तु न किञ्चिद्भान्तिकारणं विद्यते, यतः सविशेषणो हेतुरसति भ्रान्तिकारणे इत्यत्राभिप्रेतः, तत्कथंव्यभिचारिता हेतोरित्याह—“व्यञ्जकध्वन्यधीनत्वा”दिति।
व्यञ्जकध्वन्यधीनत्वात्तद्देशे हि स गृह्यते।
नच ध्वनीनां सामर्थ्यं व्याप्तुं व्योम निरन्तरम्॥ २२११॥
तेन विच्छिन्नरूपेण नासौ सर्वत्र गम्यते।
ध्वनीनां भिन्नदेशत्वाच्छ्रुतिस्तत्रानु(व?)रुध्यते॥ २२१२॥
अपूरितान्तरालत्वाद्विच्छेदश्चावसीयते।
तेषां चाल्पकदेशात्वाच्छब्देऽप्यविभुतामतिः॥ २२१३॥
गतिमद्वेगवत्त्वाभ्यां ते चायान्ति यतो यतः।
श्रोता ततस्ततः शब्दमायान्तमिव मन्यते॥ २२१४॥
अत्रापि व्यञ्जकध्वनिभेदो भ्रान्तिनिमित्तमस्तीति समानम्। “व्यञ्जकध्वन्यधी” “नत्वा”दिति। शब्दग्रहणस्येति शेषः। “तद्देश” इति। ध्वनिदेशः। “स” इति। शब्दः।“यथा” च व्यञ्जको ध्वनिः शब्दस्य विच्छिन्नादिविभ्रमकारणं भवति तथा योजयन्नाह—“न चे”त्यादि। “असा”विति। शब्दः। श्रुतिः—शब्दस्येति शेषः। “तत्रे”ति— आकाशदेशे। अपूरितान्तरालत्वम्—ध्वनिभिरित्यपेक्षणीयम्। “तेषां” चेति। ध्वनीनाम्। “तेचायान्ती”ति। ध्वनयः॥ २२११॥ २२१२॥ २२१३॥ २२१४॥
ननु चादित्यस्याप्येकस्य सतो देशविच्छेदेन ग्रहणमसिद्धम्। तथाहि—चक्षुषा प्रतिपात्रं पृथक्पृथग्भिन्नान्येव सूर्यादिप्रतिबिम्बानि परिच्छिद्यन्ते। न पुनरादित्यः। भवतस्तु प्रतिबिम्बमर्थान्तरमनिच्छतोऽनेकप्रतिबिम्बग्रहणे न किञ्चित्कारणमुत्पश्याम इत्येवं मन्यमानस्य परस्य प्रत्यवस्थानमाशङ्कमान आह। “आहे”त्यादि।
आह केन निमित्तेन प्रतिपात्रं पृथक्पृथक्।
भिन्नानि प्रतिबिम्बानि गृह्यन्ते युगपत्तया॥ २२१५॥
“आहे”ति। परः। “यगुपत्तये”ति। यौगपद्येन॥ २२१५॥
अत्रोत्तरमाह—“अत्र ब्रूम” इत्यादि।
अत्र ब्रूमो यदा तावज्जले सौरेण तेजसा।
स्फुरता चाक्षुषं तेजः प्रतिस्रोतः प्रवर्त्तितम्॥ २२१६॥
स्वदेशमेव गृह्णाति सवितारमनेकधा।
भिन्नमूर्त्तिर्यथापात्रं तदाऽस्यानेकता कुतः॥ २२१७॥
जलदेशस्थेन भानवीयेन तेजसा प्रस्यन्दनधर्मणा चाक्षुषं तेजः प्रतिस्रोतः प्रवर्त्तितम्—प्रत्यग्नीतं सत्सवितारमादित्यं स्वदेशस्थमेव गृह्णाति। यथापात्रम्—यावत्पात्रम्। अतो भिन्नमूर्त्तिः प्रतिभातीति तदाऽस्यानेकता कुतः, नैव, भिन्नत्वाच्चक्षुर्वृत्तेरिति भावः ॥ २२१६॥ २२१७॥
चक्षुर्वृत्तिवशादेवाभिन्नोऽपि भिन्न इव गृह्यत इति दर्शयन्नाह। “ईष”दित्यादि।
ईषत्सम्मीलितेऽङ्गल्या यथा चक्षुषि गृह्यते।
पृथगेकोऽपि भिन्नत्वाच्चक्षुर्वृत्तेस्तथैव नः॥ २२१८॥
ईषत्—मनाक्। अङ्गुल्या चक्षुषि निमीलिते—अवष्टब्धे सति यथैकोऽपि पदार्थः पृथक्—नाना दृश्यते। कुतः ?, चक्षुर्वृत्तेर्भिन्नत्वात्। तथैव नोऽस्माकमेकोऽपि शब्दो भिन्नो गृहीष्यत इत्यदोषः॥ २२१८॥
“अन्ये” त्विति।
अन्ये तु चोदयन्त्यत्र प्रतिबिम्बोदयैषिणः।
स एवचेत्प्रतीयेत कस्मान्नोपरि दृश्यते॥ २२१९॥
कूपादिषु कुतोऽधस्तात्प्रतिबिम्बाद्विनेक्षणम्।
प्राङ्मुखो दर्पणं पश्यन् स्याच्च प्रत्यङ्मुखः कथम्॥ २२२०॥
जलादिषु यथैकोऽपि नानात्मा सवितेक्ष्यते—इत्यस्य हेतुव्यभिचारविषयत्वेनोक्तस्यासिद्धिं मन्यमानाः प्रतिबिम्बमर्थान्तरमिच्छन्तश्चोदयन्ति। यदि स एवादित्यो दृश्यते न प्रतिबिम्बं, तत्किमित्युपरिष्टादस्य न दर्शनं भवति। एवं हि तस्य दर्शनं भवेत्, यदि देशावस्थितस्वरूपं गृह्णीयात्। नान्यथा। अन्यथा ह्यतिप्रसङ्गः स्यात्। किञ्च—कूपादिषु च दूराधः संविष्टस्यार्कादेः कथं ग्रहणं भवेत्। यदि तत्र प्रतिबिम्बं नोत्पन्नं स्यात्। नहि तत्र तथाऽर्कादिर्व्यवस्थितः। अपि च प्राङ्मुखो दर्पणमवलोकयन्कथमिव प्रत्यङ्मुखो भवति। नहि तस्य तदा पृष्ठाभिमुखं मुखमुपजातं दृश्यते। ॥ २२१९॥ २२२०॥
“अप्सूर्ये”त्यादिना प्रतिविधत्ते।
अप्सूर्यदर्शिनां नित्यं द्वेधा चक्षुः प्रवर्त्तते।
एकमूर्ध्वमधस्ताच्च तत्रोर्ध्वांशुप्रकाशितम्॥ २२२१॥
अधिष्ठानानृजुस्थत्वान्नात्मा सूर्यं प्रपद्यते।
पारम्पर्यार्पितं सन्तमवाग्वृत्त्याऽवबुध्यते॥ २२२२॥
उर्ध्ववृत्तिं तदेकत्वादवागिव च मन्यते।
अधस्तादेव तेनार्कः सान्तरालः प्रतीयते॥ २२२३॥
एवं मन्यते—यदि बहिर्निर्गतमिन्द्रियमादित्यं बोधयेत्तत एतत्स्यादुपरिस्थितमेव पश्येन्नाधस्तादिति। यावता धर्माधर्मवशीकृते शरीरे एव तदिन्द्रियं ग्राहकमिष्यते, नोपरिस्थम्। यथोक्तम्— तत्रैव बोधयेदर्थं बहिर्यातं यदीन्द्रियम्। तत एतद्भवेदेवं शरीरे तत्व(च्च ?)बोधकम्॥ इति तथा ह्ययं क्रमः। ये हि जलपात्रे जलं सूर्यं च पश्यन्ति तेषामप्सूर्यदर्शिनामेकमेव चक्षुरूर्ध्वमधश्च द्विधा भागशः प्रवर्त्तते। तत्रोर्ध्वभागप्रकाशितमादित्यमात्मा पुरुषो न गृह्णाति, कुतः ?, अधिष्ठानानृजुत्थत्वात—चक्षुरिन्द्रियाधिष्ठानस्यार्जवेन तदाऽवस्थितत्वात्। पारम्पर्येण तु सौरेण तेजसा वृत्तेरर्पितमादित्यमवाग्वृत्त्या कारणभूतया बुध्यते। तथाहि किल सौरं तेजस्तेजस्विनंवृत्तेरर्पयति,वृत्तिश्चक्षुषश्चक्षुरात्मन इत्येतत्पारम्पर्यार्पणं सूर्यस्य तेजस्विन इत्यादित्यमूर्ध्ववृत्तिम—उपरिस्थं तमादित्यमवागिव—अधःस्थितमिव मन्यते। कः ?। आत्मा। न पुनरधस्थादन्य एवादित्यः, कुतः ?, तदेकत्वात्—तस्यादित्यस्याभिन्नत्वात्। चक्षुष इत्यपरे। तस्मादनन्तरोदितेनैव चक्षुषो वृत्तिवशेन सान्तरालोऽधस्तात्कूपादिषु सूर्यो दृश्यते। जलादि पात्रभेदाच्च। अन्यथा कथमभेदेन ग्रहणं स्यात्॥ २२२१॥ ॥ २२२२॥ २२२३॥
यदुक्तं प्राङ्मुखो दर्पणं पश्यन्नित्यादि। तत्राह—“एव”मित्यादि।
एवं प्राग्नतया वृत्त्या प्रत्यग्वृत्तिसमर्पितम्।
बुद्ध्यमानो मुखं भ्रान्त्या प्रत्यगित्यवगच्छति॥ २२२४॥
प्रथमं किल चक्षुरश्मयो मुखमादाय निर्गच्छन्ति यावदादर्शादिदेशम्, सा प्राङ्न्तावृत्तिरुच्यते। तेच तत्रादर्शादौ प्रतिहता निवर्त्तनावाः स्वमुखमेव यथावस्थितमागच्छन्ति। सा च प्रत्यग्वृत्तिः। तत्र प्राङ्न्ता वृत्तिर्मुखं प्रत्यग्वृत्तेरर्पयति, प्रत्यग्वृत्तिश्चात्मनः, तत आत्मा प्रत्यग्वृत्तिसमर्पितमवगच्छन्मुखं भ्रान्त्या प्रत्यङ्मुखं यास्यामीति मन्यते। चक्षुर्वृत्तेर्वैचित्र्यमेव भ्रान्तेर्बीजमिति भावः॥ २२२४॥
अभ्युपगम्य प्रतिबिम्बोदयं परिहारमाह—“अनेकदेशवृत्तौ चे”त्यादि।
अनेकदेशवृत्तौ वा सत्यपि प्रतिबिम्बके।
समानबुद्धिगम्यत्वान्नानात्वं नैव विद्यते॥ २२२५॥
सत्यपि प्रतिबिम्बेऽर्थान्तरभूते नैव तेषां प्रतिबिम्बनां नानात्वमस्ति। कुतः ?।समानबुद्धिगम्यत्वात्—एकबुद्धिपरिछेद्यत्वात्। तथा शब्दस्याप्येकबुद्धिगम्यत्वादेकत्वं सिद्धम्॥ २२२५॥
ननु कुतो देशभेदेन वेद्यमानस्यापि नानात्वं भविष्यति। ननु यद्देशभेदेन वेद्यमानत्वाद्भिन्नत्वं सिद्धं तत्कथमेकबुध्या बाध्यत इत्याह—“देशभेदेने”त्यादि।
देशभेदेन भिन्नत्वमित्येतच्चानुमानिकम्।
प्रत्यक्षस्तु स एवेति प्रत्ययस्तेन बाधकः॥ २२२६॥
“बाधक” इति। प्रत्यक्षस्य सर्वप्रमाणज्येष्ठत्वादिति भावः॥ २२२६॥
देशकालभेदेन वेद्यमानत्वस्य व्यभिचारित्वादप्रामाण्यमेवेति प्रतिपादयन्नाह—“पर्यायेणे”त्यादि।
पर्यायेण यथाचैको भिन्नदेशान्व्रजन्नपि।
देवदत्तो न भिद्येत तथा शब्दो न भिद्यते॥ २२२७॥
“तथा शब्दो न भिद्यत” इति। देशतः कालतश्चेत्यपेक्षणीयम्॥ २२२७॥
एवं देशव्यभिचारमुखेनोभयोरपि व्यभिचार उक्तः। इदानीं कालभेदव्यभिचारद्वारेण चोभयोरपि देशकालभेदेनोपलम्भयोर्व्यभिचारमाह। “ज्ञातैकत्व” इत्यादि
ज्ञातैकत्वो यथाचैको दृश्यमानः पुनः पुनः।
न भिन्नकालभेदेन तथा शब्दो न देशतः॥ २२२८॥
ज्ञातमेकत्वं प्रत्यभिज्ञानाद्यस्य स तथा। “न देशत” इत्युपलक्षणम्, तथा कालतोऽपि न भिन्नः। अविरोधादेकव्यभिचारमुखेनान्यत्रापि व्यभिचारोद्भावनम् ॥ २२२८॥
“पर्याये”त्यादिना दृष्टान्तस्य वैषम्यमाशङ्कते।
पर्यायादविरोधश्चेद्व्यापित्वादपि दृश्यताम्।
दृष्टसिद्ध्यै हि यो धर्मः सर्वेषां सोऽभ्युपेयते॥ २२२९॥
तथाहि—देवदत्तस्य यद्देशकालभेदेनोपलम्भेऽपि न भेदस्तत्र पर्यायोऽस्त्यविरोधकारणम्, शब्दे तु न किञ्चिदपीत्यतो वैषम्यं दृष्टान्तदार्ष्टान्तिकयोः। अत्राप्यविरोधकारणमाह—“व्यापित्वादपि दृश्यता”मिति। अविरोध इति सम्बन्धः। ध्वनीनां चापूरितान्तरालत्वादित्येतपिशब्देन पूर्वोक्तं च निर्दिशति। कस्माद्व्यपित्वमङ्गीक्रियत इत्याह—“दृष्टसिद्ध्यै ही”ति। भिन्नेषु दिग्देशेष्वभिन्नस्य शब्दस्य ग्रहणसिद्ध्यर्थं यो धर्मो युज्यते स एवान्यथानुपपत्त्याऽङ्गीक्रियते। अत्र च शब्दस्य नित्यव्यापित्वमन्तरेण सर्वस्मिन्काले देशे च न ग्रहणं सिद्ध्यतीत्यतो नित्यविभुत्वे शब्दस्यान्यथानुपपत्त्या सिद्धे॥ २२२९॥
स्वभावभेदेन वेद्यमानत्वस्यापि व्यभिचारितां प्रतिपादयन्नाह—“यथा महत्या”मित्यादि।
यथा महत्यां स्वातायां मृदि व्योम्नि महत्त्वधीः।
अल्पायां वाऽल्पधीरेवमत्यन्ताकृतके मतिः॥ २२३०॥
तेनात्रैव परोपाधिशब्दवृत्तौ मतिभ्रमः।
नच स्थूलत्वसूक्ष्मत्वे लक्ष्येते शब्दवर्तिनी॥ २२३१॥
बुद्धितीव्रत्वमन्दत्वे महत्त्वाल्पत्वकल्पना।
सा चे पटीव भवत्येव महातेजःप्रकाशिते॥ २२३२॥
मन्दप्रकाशिते मन्दा घटादावपि सर्वदा।
एवं दीर्घादयः सर्वे ध्वनिधर्मा इति स्थितम्॥ २२३३॥
अत्रायमभिप्रायः—यदि शब्दगतास्तीव्रमन्दादयो भेदा हेतुत्वेनोपादीयन्ते तदा न सिद्धो हेतुः। यो हि नित्यं शब्दमिच्छति स कथमपरोपाधिकांस्तस्ये स्वभावभेदान् ब्रूयात्। अथ तीव्रमन्दाद्याकारे तद्विषया बुद्धिर्हेतुत्वेनोच्यते, सा हि न स्वभावे भेदमन्तरेण सम्भवतीति। तदाऽनैकान्तिकता हेतोः। यथाहि महत्यां मृदि पृथिव्यां स्वातायां सत्यां व्योम्नि—आकाशे तदाश्रयं महत्त्वादिज्ञानमुत्पद्यते स्वतो महत्त्वादेरभावेऽपि, तथा शब्देऽप्यत्यन्ताकृत्रिमेऽयं व्यञ्जकध्वनिभेदाद्बुद्धिभेदो भविष्यति तथाविधस्वभावभेदमन्तरेणापि। तदेवाह—“तेनात्रैव”मित्यादि। अथ परोपाधिरयम्, नतु स्वत एवेति कथमवगतमिति चेदाह—“नचे”त्यादि। अनेनैतदाह—बुद्धिगते एव तीव्रमन्दत्वे शब्दे समारोप्य भ्राम्यति, नतु पुनः शब्दस्य स्वतः स्थूलादिसम्भवः, तस्य प्रत्यभिज्ञयैकत्वस्य सिद्धत्वात्। अथापि स्याद्यदि विषयस्य तथास्वभावभेदो न भवेद्बुद्धेरपि कुतो भवेदित्याह—“सा च पट्वी”त्यादि। यथैव हि घटादावसत्यपि स्वभावभेदे प्रकाशभेदाद्बुद्धेः पटुमन्दतादिभेदो भवति, तथा शब्देऽपि दीर्घादिभेदो व्यञ्जकध्वनिभेदाद्भविष्यति, असत्यपि स्वतः स्वभावभेद इत्यदोषः ॥ २२३०॥ २२३१॥ २२३२॥ २२३३॥
पुनरपि शब्दानित्यत्वप्रतिज्ञाया बाधां शब्दस्य वाचकसामर्थ्यान्यथानुपपत्त्याप्रतिपादयन्नाह—“नचादृष्टार्थसम्बन्ध” इत्यादि।
नचादृष्टार्थसम्बन्धः शब्दो भवति वाचकः।
तथाचेत्स्यादपूर्वोऽपि सर्वः स्वार्थं प्रबोधयेत्॥ २२३४॥
अर्थापत्तिपूर्विकेयमर्थापत्तिस्तथाहि—शब्दस्य वाचकसामर्थ्यं शाब्दज्ञानान्यथानुपपत्त्या सिद्धम्, तदपि सामर्थ्यं शब्दनित्यत्वमन्तरेणानुपपन्नमित्यर्थापत्तिपूर्विकेयमर्थापत्तिः। तामेव विस्तरेण प्रतिपादयति—नहि तावदगृहीतसम्बन्धः शब्दः सत्तामात्रेण वाचको भवति। “तथाचेत्स्या”दिति। यद्यदृष्टार्थसम्बन्धोऽपि वाचको भवेत्तदाऽपूर्वोऽपि प्रथममश्रुतोऽपि नालिकेरद्वीपनिवासिनां गवादिशब्दः स्वार्थं प्रकाशयेत्॥ २२३४॥
ननु चात्र सर्वेषामविवादात्सिद्धसाध्यता, नहि कश्चिदज्ञातसम्बन्धं शब्दं वाचकमिच्छति। नित्यस्तु स कथमनेन ज्ञातसम्बन्धेन प्रतिपादितो भवतीत्याह—“सम्बन्धदर्शन”मित्यादि।
सम्बन्धदर्शनं चास्य नानित्यस्योपपद्यते।
सम्बन्धज्ञानसिद्धिश्चेद्ध्रुवं कालान्तरस्थितिः॥ २२३५॥
शब्दमर्थं च पुरोऽवस्थाप्य तयोः सम्बन्धः क्रियते, कृतश्चोत्तरकालं ज्ञायेत। उच्चरितप्रध्वंसित्वात्तु शब्दस्यैतदयुक्तम्। तदाह—“नानित्यस्योपपद्यत” इति। अथ तावत्कालमवतिष्ठेम्, हन्त तर्हि कालान्तरमप्यवस्थानमनिवार्यमेवाविरोधात्। यथोक्तम्— तावत्कालं स्थिरं चैनं कः पश्चान्नाशयिष्यतीति॥ २२३५॥
अथापि स्यात्सम्बन्धकालं यावदवतिष्ठेत्, पश्चात्स्वयमेव नश्यतीत्याह—“अन्यस्मिन्नि”त्यादि।
अन्यस्मिन् ज्ञातसम्बन्धे नचान्यो बोधको भवेत्।
गोशब्दे ज्ञातसम्बन्धे नाश्वशब्दो हि वाचकः॥ २२३६॥
अन्यस्मिन्—सङ्केतकालभाविनि। शेषं सुबोधम्॥ २२३६॥
“अथे”ति पराभिप्रायमाशङ्कते।
अथान्योऽपि स्वभावेन कश्चिदेवावबोधकः।
तत्रानिबन्धने न स्यात्कोसाविति विनिश्चयः॥ २२३७॥
“अथान्योऽपी”ति। प्रयोगकालभावी प्रकृत्यैव सङ्केतकालभाविशब्दवद्वाचकः स्यादिति चेत्तदसम्यक्। निबन्धनमन्तरेणासौ शब्दोऽस्यार्थस्य वाचक इति निश्चयाभावात्॥ २२३७॥
ननु च कथमुच्यते निश्चयो नास्तीति,यावता यतोऽर्थप्रत्ययो भवति स एव स्वभावतोऽर्थस्य बोधक इति स्पष्टमेव निश्चीयत इत्याह—“यत” इत्यादि।
यतः प्रत्यय इत्येव व्यवहारे प्रकल्पिते।
श्रोतॄणां स्यादपीत्थं तु वक्तृणां नावकल्पते॥ २२३८॥
सत्यं श्रोतॄणां सम्भवेदयं निश्चयोऽयमर्थस्य प्रत्यायक इति। तेषां ततोऽर्थप्रत्ययोत्पत्तेः। प्रयोक्तॄणां त्वयं दुर्लभः, नहि ते ततः शब्दादर्थं प्रतिपद्यन्ते, परप्रत्यायनार्थमेव शब्दं ते प्रयुञ्जते। तत्कुतो वक्तॄणामवकल्पते निश्चयः॥ २२३८॥
एतदेव दर्शयति—“अज्ञात्वे”त्यादि।
अज्ञात्वा कमसौ शब्दमादावेव विवक्षतु।
जानाति चेदवश्यं स पूर्वमेवावधारितः॥ २२३९॥
तदेवमज्ञानपक्षेऽयं दोषः, ज्ञानपक्षेऽपि नियतमसौ प्राक्तेन ज्ञान इति स्थिरत्वमस्य बलादापततीति दर्शयन्नाह—“जानाति चे”दित्यादि॥ २२३९॥
ननु यथा दीपादितेजोऽभिनवमपि प्रकाशयत्यर्थं तथा शब्दोऽपि प्रतिपादयिष्यतीत्याह—“तेजः प्रत्यक्षशेषत्वा”दिति।
तेजः प्रत्यक्षशेषत्वान्नवत्वेऽपि प्रकाशकम्।
सदृशत्वाप्रतीतेश्च तद्द्वाकेणाप्यवाचकः॥ २२४०॥
प्रत्यक्षशेषत्वम्—( प्रत्यक्षे ) अङ्गभावः। तद्विषयसंस्कारादिन्द्रियसंस्काराद्वाप्रत्यक्ष ज्ञानेऽङ्गतामुपगच्छदभिनवमपि प्रकाशकं भवति। शब्दस्य साक्षादतीन्द्रियार्थप्रतिपादकत्वान्न प्रत्यक्षाङ्गमतो वैषम्यम्। अथवा—यत्प्रत्यक्षाङ्गं तत्सम्बन्धपरिज्ञाननिरपेक्षमपि प्रकाशयति। यथा चक्षुस्तेजश्च प्रत्यक्षाङ्गम्। तस्मादभिनवमपि प्रकाशयति। शब्दस्तु परोक्षविषयत्वान्न प्रत्यक्षाङ्गमिति वैषम्यम्। ननु चाभिनवमपि शब्दान्तरं पूर्वसादृश्यानुसारेण वाचकं भविष्यतीत्याह—“सदृशत्वाप्रतीते”रित्यादि। न ह्यप्रतीते सादृश्ये तद्द्वारेण वाचकत्वं युक्तमतिप्रसङ्गात्॥ २२४०॥
किञ्च—आस्तां तावत्सादृश्यप्रतीतिः, सादृश्यमेव न सम्भवतीति प्रतिपादयन्नाह—“कस्य चैकस्ये”त्यादि।
कस्य चैकस्य सादृश्यात्कल्प्यतां वाचकोऽपरः।
अदृष्टसङ्गतित्वेन पूर्वेषां तुल्यता यदा॥ २२४१॥
अर्थवान्पूर्वदृष्टश्चेत्तस्यैतावान् क्षणः कुतः।
द्विस्त्रिर्वाऽनुपलब्धो हि नार्थवान्सम्प्रतीयते॥ २२४२॥
एकस्मिन् हि वाचके सिद्धे तत्सादृश्यादितरस्तथैवेति कल्प्येत तच्च न सम्भवति, सर्वेषामेव शब्दानामर्थसम्बन्धित्वेन प्रतीतत्वात्। अथापि स्याद्यः प्राक् सङ्केतकाले द्दष्टः सोऽर्थवानेव, सादृश्यमितरेषां भविष्यतीत्याह—“तस्यैतावान् क्षणः कुत” इति। तस्य—पूर्वदृष्टस्य शब्दस्य—एतावतः क्षणान्कुतोऽवस्थानमुच्चरितप्रध्वंसित्वात्तस्य। यदि नामोच्चरितप्रध्वंसी, तथाऽप्यर्थवान्किं न भवतीति चेदाह—“द्विस्त्रिर्वे”त्यादि। भूयोदर्शनभावि हि शब्दार्थसम्बन्धज्ञानम्॥ २२४१॥ २२४२॥
अथ सजातीयान्यग्रहणे सति स एव सार्थको भवतीत्युच्यते, तदयुक्तमित्याह—“अप्रतीतान्यशब्दाना”मित्यादि।
अप्रतीतान्यशब्दानां तत्कालेऽसावनर्थकः।
स एवान्यश्रुतीनां स्यादर्थवानिति विस्मयः॥ २२४३॥
येषां हि प्रतिपत्तॄणां शब्दान्तरमप्रतीतं तेषां हि श्रवणकाले नासावर्थस्य प्रत्यायकः। भेदाधिष्ठानस्य सादृश्यस्य तदानीमभावात्। पुनः स एव तेषामेव प्रतिपत्तॄणां प्रतीतशब्दान्तराणामर्थप्रत्यायक इत्यलौकिकम्। कथं हि नामैकस्य क्रियाक्रिये परस्परविरुद्धे स्याताम्। “अन्यश्रुतीना”मिति। अन्या—सजातीयशब्दविषया श्रुतिर्यषां प्रतिपत्तॄणां ते तथा॥ २२४३॥
एवं तावद्वाचकत्वान्यथानुपपत्त्या शब्दनित्यत्वं प्रतिपाद्यं, इदानीं सम्बन्धकरणान्यथानुपपत्त्या प्रतिपादयन्नाह—“शब्दं ताव”दित्यादि।
शब्दं तावदनुच्चार्य सम्बन्धकरणं नच।
नचोच्चारितनष्टस्य सम्बन्धेन प्रयोजनम्॥ २२४४॥
तेनासम्बन्धनष्टत्वात्पूर्वस्तावदनर्थकः।
उत्तरोऽकृतसम्बन्धो विज्ञायेतार्थवान्कथम्॥ २२४५॥
पू्र्वमुच्चारणं ततः सम्बन्धकरणं ततो व्यवहार इत्ययं क्रमेण व्यवहार उच्चारितप्रध्वंसिनोऽक्रमस्य कथं स्यात्। न केवलं नष्टस्य सम्बन्धोऽशक्यक्रियः, नापि तेनप्रयोजनम्, व्यवहाराकालाननुयायित्वात्। व्यवहारार्थत्वाच्च सङ्केतस्य। तेनेत्यादिना निगमयति। अविद्यमानाः सम्बन्धो यस्यासावसम्बन्धः, तत्त्वान्नष्टत्वाच्च पूर्वस्तावत्सङ्केतकालभावी शब्दोऽनर्थकः। व्यवहारकालभावी तर्हि सार्थको भविष्यतीत्याह—“उत्तर” इत्यादि॥ २२४४॥ २२४५॥
यदि तर्ह्यक्रमस्य क्रमेणोच्चारणादयोऽनुपपन्ना युगपत्तर्हि भवन्त्वित्याह—“शब्दोच्चारणे”त्यादि।
शब्दोच्चारणसम्बन्धकरणव्यावहारिकीः।
क्रियाः क्रमस्वभावत्वात्कः कुर्याद्युगपत्क्वचित्॥ २२४६॥
शब्दोच्चारणं सम्बन्धकरणं लोकव्यवहारश्चेत्येतास्तिस्रः क्रियाः स्वभाव एव क्रमवत्यः, ता युगपत्कर्तुमशक्याः। असति च यौगपद्ये सम्बन्धकरणानुपपत्तिः। क्रमप्रतीक्षायां कालान्तरस्थायी शब्दोऽभ्युपगतः स्यात्॥ २२४६॥
“देशकालादिभिन्नाना”मिति निगमनम्।
देशकालादिभिन्नानां पुंसां शब्दान्तराश्रुतेः।
पूर्वं कृत्रिमसम्बन्धोऽप्येकः शब्दो न सिद्ध्यति॥ २२४७॥
सम्बन्धकथनेऽप्यस्य स्यादेषैव प्रतिक्रिया।
नष्टासद्वर्त्तमानेषु नाख्यानस्य हि सम्भवः॥ २२४८॥
आदिशब्देन बालकुमाराद्यवस्थापरिग्रहः। “पूर्व”मिति। शब्दान्तरश्रुतेरिति सम्बन्धनीयम्। “नष्टे”त्यादि। नष्टः—अतीतः, असन्—अनागतः, तयोरसत्त्वादेव न सम्बन्धाख्यानसम्भवः। वर्त्तमानोऽप्युच्चार्यमाणस्तस्य समनन्तरध्वंसित्वेन कुतस्तावान्कालः॥ २२४७॥ २२४८॥
एतदेव दर्शयति—“अर्थवा”नित्यादि।
अर्थवान्क(तरः) शब्दः श्रोतुर्वक्रा च कथ्यताम्।
यदा पूर्वश्रुतः शब्दो नासौ शक्नोति भाषितुम्॥ २२४९॥
न तावदर्थवन्तं स ब्रवीति सदृशं वदेत्।
नार्थवत्सदृशः शब्दः श्रोतुस्तत्रोपपद्यते॥ २२५०॥
अर्थवद्ग्रहणाभावान्न चासावर्थवान्स्वयम्।
वक्तुः श्रोतृत्ववेलायामेतदेव प्रसज्येत॥ २२५१॥
न हि वक्ता पूर्वश्रुतं शब्दं श्रोतुः कथयितुं शक्तः, तस्य पूर्वनिरूद्धत्वात्। यमपि प्रतिपादयति न तमर्थवन्तं शक्नुयात्प्रतिपादयितुम्। तस्य पूर्वमकृतसम्बन्धत्वात्। एतावत्सम्भाव्यते—सदृशं ब्रूयादिति। तदपि न सम्भवतीत्याह—“नार्थवत्सदृश” इत्यादि। नह्यत्र केनचित्सादृश्यमिष्टम्, किं तर्हि ?, अर्थवता, तच्चानुपपन्नम्। यदि हि श्रोत्रा कश्चिच्छब्दोऽर्थवानुपलब्धः स्यात्तदाऽनेन सादृश्यमुपपद्येत, यावता पूर्वसङ्केतकालेऽर्थवतो ग्रहणाभावान्न युक्तमेतत्। कथ्यमानो यः सोऽर्थवांस्तर्हि भविष्यतीत्याह—“न चासा”वित्यादि। न चासावुच्चार्यमाणोऽर्थवान्, तस्य पूर्वमकृतसम्बन्धत्वादित्युक्तम्। “वक्तु”रित्यादिना यथा वक्ताऽपि पर्यायेण श्रोता भवति तदा तस्याप्येतदेव सर्वं दोषजातं—न तावदर्थवन्तं स ब्रवीतीत्यादिकमापततीति दर्शयति। तदनेन सर्वेषामेव वक्तॄणां न कश्चिदर्थवान् शब्दः सम्भवतीत्युक्तं भवति॥ २२४९॥ ॥ २२५०॥ २२५१॥
“तस्मा”दित्युपसंहरति।
तस्माच्छब्दार्थसम्बन्धो नित्य एवाभ्युपेयताम्।
नतु सामयिको युक्तः सर्वथा तदसम्भवात्॥ २२५२॥
“स्वत” इत्यादिना परस्य पूर्वपक्षमाशङ्कते।
स्वतो नैवास्ति शक्तत्वं वाच्यवाचकयोर्मिथः।
प्रतीतिः समयात्पुंसां स्याच्चेदक्षिणिकोचवत्॥ २२५३॥
वाच्यवाचकयोः परस्परं नैव स्वभाविकी यथाक्रमं वाच्यवाचकशक्तिः। कथं तर्हि प्रतीतिः शब्दादुदेतीत्याह—“प्रतीतिः समया”दित्यादि। यस्य यत्र सङ्केतापेक्षः कारणभावो न स तस्य स्वाभाविकः, यथाऽक्षिनिकोचस्य प्रतिपत्तौ, सङ्केतसापेक्षश्च प्रतिपत्तौ कारणभावः शब्दस्येति व्यापकविरुद्धोपलब्धिः। अनेन चानित्यत्वप्रतिज्ञाबाधां विस्तरेणोक्तां विघटयति॥ २२५३॥
“समय” इत्यादिना प्रतिविधत्ते।
समयः प्रतिमर्त्यं वा प्रत्युच्चारणमेव वा।
क्रियते जगदादौ वा सकृदेकेन केनचित्॥ २२५४॥
प्रत्येकं वाऽपि सम्बन्धो भिद्येतैकोऽथवा भवेत्।
एकत्वे कृतको न स्याद्भिन्नश्चेद्भेदधीर्भवेत्॥ २२५५॥
इयमस्य सञ्ज्ञेति समयः सा प्रतिपत्त्यर्थं प्रतिपुरुषं वा क्रियेत, प्रतिपुरुषमेव प्रत्युच्चारणं प्रतिप्रयोगं वा। अथवा—जगदादौ—जगतः सृष्टिकाले केनचित्—ईश्वरादिना धात्रा, सकृत्—एकयैव हेलया, क्रियेतेति त्रयो विकल्पाः। “प्रत्येकं वाऽपी”ति। सम्बन्धोऽपि शब्दार्थयोः क्रियमाणः कदाचित्प्रतिसत्त्वं भिद्येत्, यद्वैक एवेति द्वितीयकल्पना। एकत्वपक्षे जातिवद्देशकालभेदानुयायित्वात्कृतको न स्यात्। नित्य एव स्यादिति यावत्। अथ प्रतिसत्त्वं भिन्नस्वभावस्तदा प्रतिसत्त्वं भेदबुद्धिः प्राप्नोति, ज्ञेयभेदनिबन्धनत्वाज्ज्ञानभेदस्य। न च गवादिशब्दानां शतकृत्वोऽपि प्रयोगे व्यवहर्तॄणां भेदबुद्धिर्भवत्यभेदाध्यवसायेनैव व्यवहारात्॥ २२५४॥ ॥ २२५५॥
किञ्च—यदि प्रतिसत्त्वं भिन्नः सम्बन्धस्तदाऽवश्यं भेदधिया भाव्यम्, ततश्च व्यवहारोच्छेदः प्राप्नोतीति दर्शयन्नाह—“वक्तृश्रोतृधियो”रिति।
वक्तृश्रोतृधियोर्भेदाद्व्यवहारश्च दुष्यति।
वक्तुरन्यो हि सम्बन्धो बुद्धौ श्रोतुस्तथाऽपरः॥ २२५६॥
“भेदा”दिति। विषयस्येत्यहार्यम्। तेनायमर्थो भवति—वक्तृश्रोतृधियोर्योऽर्थो विषयस्तस्य भेदादेकार्थाध्यवसायेन व्यवहारो न स्यात्। कथमित्याह—“वक्तुरन्यो” हीति ॥ २२५६॥
यदुक्तं समयः प्रतिमर्त्यं वेति। अत्र दूषणमाह—“श्रोतुः कर्तुं चे”त्यादि।
श्रोतुः कर्तुं च सम्बन्धं वक्ता कं प्रतिपद्यताम्।
पूर्वं दृष्टो हि यस्तेन तं श्रोतुर्न करोत्यसौ॥ २२५७॥
यं करोति नवं सोऽपि न दृष्टप्रतिपादकः।
घटादावपि तुल्यं चेन्न सामान्यप्रसिद्धितः॥ २२५८॥
यद्यपि ज्ञातसामर्थ्या व्यक्तिः कर्तुं न शक्यते।
क्रियते या न तस्याश्च शक्तिः कार्येऽवधारिता॥ २२५९॥
तथाऽप्याकृतितः सिद्धा शक्तिरुच्चारणादिषु।
तस्या न चादिमत्ताऽस्ति सम्बन्धस्त्वादिमांस्ततः॥ २२६०॥
यदि तस्यापि सामान्यं नित्यमभ्युपगम्यते।
तथाऽप्यस्मन्मतं सिद्धं नतु द्व्याकारसम्भवः॥ २२६१॥
शक्तिरेव हि सम्बन्धो भेदश्चास्या न दृश्यते।
सा हि कार्यानुमेयत्वात्तद्भेदमनुवर्तते॥ २२६२॥
अन्यथाऽनुपपत्त्या च शक्तिसद्भावकल्पनम्।
नचैकयैव सिद्धेऽर्थे बह्वीनां कल्पनेष्यते॥ २२६३॥
“तं श्रोतुर्न करोती”ति। तस्य नष्टत्वात्। “न दृष्टप्रतिपादक” इति। तस्य पूर्वमदृष्टत्वात्। “घटादावपी”ति। अतिप्रसङ्गोद्भावनया दूषणस्यानैकान्तिकत्वमाशङ्कते। घटादावपि तुल्यः प्रसङ्गः, तथाहि—यो घटोऽर्थक्रियासमर्थो दृष्टो नासौ कर्तुं शक्यः, तस्य निष्पन्नविनष्टत्वात्। यश्चाधुना क्रियते नासावर्थक्रियासमर्थो दृष्टस्तस्यानिष्पन्नत्वात्। उत्तरमाह—“न सामान्यप्रसिद्धित” इति। नेति पूर्वपक्षप्रतिक्षेपः। कुतः ?। सामान्यस्य प्रसाधितत्वात्। तद्द्वारेण सामर्थ्यसिद्धेरिति भावः। एतदेवस्पष्टयन्नाह—“यद्यपी”त्यादि। यद्यप्युदकाहरणादिषु दृष्टसामर्थ्या घटव्यक्तिः कर्तुं न पार्यते, निष्पन्नविनष्टत्वात्। याऽप्यधुनातनी न तस्या अर्थक्रियासामर्थ्यमवधारितम्। तथाप्याकृतिद्वारेणैवार्थक्रियासामर्थ्यं सर्वस्यां व्यक्तौ सिद्ध्यति। कथमित्याह —“तस्या” इत्यादि। “तस्या” इति। आकृतेः। क्वचित्—नच तस्यादिमत्तेति पाठः। तस्यायमर्थः—नच तस्योदकाहरणादिसामर्थ्यस्यादिमत्तास्ति, आकृतेर्नित्यत्वात्। तस्याश्चाश्रयतोऽत्यन्तमभिन्नत्वात्। यथोक्तम्— स्थितं नैव च जात्यादेः परत्वंव्यक्तितो हित(त्) इति। सम्बन्धोऽपि तर्ह्याकृतिद्वारेणानादिर्भवत्विति चेत्तदेतदयुक्तमित्याह—“सम्बन्ध”स्त्वित्यादि। किञ्च—यदि भवता तस्यापि शब्दार्थसम्बन्धस्य नित्यं सामान्यमभ्युपगम्यते तथाऽपि नित्यं नाम वस्त्वस्तीत्यस्मन्मतं सिद्धम्। शब्दस्तु प्रकृत एव न सिद्ध्यतीति चेदाह—(?) न तु द्व्याकारसम्भव इति। द्वावाकारौ—सम्बन्धस्तत्सामान्यं च। एकस्यैवाकारस्य सम्भवो नतु सामान्यस्य,तस्यानेकव्यक्तिनिष्ठत्वात्। सम्बन्धस्य चैकत्वात्। कथमेकत्वं सम्बन्धस्येत्याह—“शक्तिरेव ही”त्यादि। नहि शक्तिव्यतिरिक्तः सम्बन्धोऽस्ति। यदि नामैवं ततः किमित्याह—“भेद”श्चेत्यादि। भेदो—नैकत्वम्। किमिति न दृश्यत इत्यत्र कारणमाह—“सा ही”ति। सा हि नित्यं कार्यानुमेया। यथोक्तम्—शक्तयः सर्वभावानां कार्यार्थापत्तिसाधना इति। ततोऽसौ कार्यभेदमनुधत्ते—अनुधावति,आत्मगतभेदप्रत्यायने। कार्यभेददर्शनं विना न शक्यः शक्तिभेदो ज्ञातुमिति यावत्। नचात्र कार्यभेदोऽस्ति। तथाहि—कार्यं तस्याः प्रतीतिरेव, सा च शब्दालम्बना वास्यादर्थावलम्बना वा। न तावदाद्याया भेदः, शब्दस्य नित्यं प्रत्यभिज्ञायमानत्वात्। नाप्यर्थावलम्बनायाः, नहि शतकृत्वोऽप्युच्चार्यमाणो(णे ?) गोशब्दादेरन्यादृशी प्रतीतिरुपजायते। उपचयमाह—“अन्यथे”त्यादि। अर्थप्रतीत्यनुपपत्त्या हि वाच्यवाचकशक्तिः कल्प्यते। एकयैव च शक्त्या विवक्षितार्थस्य सिद्धत्वादपार्थकमनेकशक्तिपरिकल्पनम्। न चान्यथानुपपत्त्या शक्तिभेदोऽनुमातुं शक्यः। शक्तिमात्र एव तस्याः सामर्थ्यात्॥ २२५७॥ २२५८॥ २२५९॥ २२६०॥ ॥ २२६१॥ २२६२॥ २२६३॥
इतश्च सम्बन्धस्य करणमयुक्तमतो नित्य एव सम्बन्ध इति प्रतिपादयन्नाह—“सम्बन्धाख्याने”त्यादि।
सम्बन्धाख्यानकाले च गोशब्दादावुदीरिते।
केचित्सम्बन्धबुद्ध्याऽर्थं बुद्ध्यन्ते नापरे तथा॥ २२६४॥
तत्र सम्बन्धनास्तित्वे सर्वोऽर्थं नावधारयेत्।
अस्तित्वे सर्वबोधश्चेन्न कैश्चिदनुपग्रहात्॥ २२६५॥
तथा ह्येष गौः पदा न स्प्रष्टव्य इत्युक्ते केचित्पुरुषा वाच्यवाचकसम्बन्धमवधार्यसम्बन्धपुरःसरमेवार्थमवबुध्यन्ते। अन्ये त्वज्ञातसम्बन्धाः स्वरूपमेवावयन्ति नार्थम्। तत्र यदि वस्तुभूतः सम्बन्धो न स्यात्तदा सर्व एव पुरुषो व्युत्पन्नव्यवहारो नार्थमवधारयेत्। नह्येकस्य सदसत्त्वे परस्परविरुद्धे युक्ते। तस्मान्नित्यावस्थित एव सम्बन्ध इति। ननु यदि नित्यावस्थितः सम्बन्धः किमिति सर्वदा सर्वेषामर्थप्रतिपत्तिर्न भवेदित्येतच्चोद्यमाशङ्क्य विस्तरेण परिहरन्नाह—“अस्तित्व” इत्यादि। “ने”ति प्रसङ्गं निवर्त्तयति। कुतः ?। कैश्चित्तस्याग्रहणात्॥ २२६४॥ २२६५॥
यदि नाम न गृहीतस्तथाऽपि किमिति स्वकार्यं न जनयेत्। नहि खलबिलाद्यन्तर्गतत्वादात्मकार्यं बीजादयो विजहतीत्याह—“ज्ञापकत्वाद्धी”त्यादि।
ज्ञापकत्वाद्धि सम्बन्धः स्वात्मज्ञानमपेक्षते।
तेनासौ विद्यमानोऽपि नागृहीतः प्रकाशकः॥ २२६६॥
अन्यो हि ज्ञापकधर्मोऽन्यश्चोत्पादकस्य, शब्दस्तु धूमवदर्थस्य ज्ञापको न तु बीजादिवदुत्पादक इत्यदोषः॥ २२६६॥
ननु चैकस्य सदसत्त्वे परस्परविरुद्धत्वादयुक्ते, तथा ग्रहणाग्रहणे अपि। अथानयोरविरोधः, क इदानीं प्रद्वेषः सदसत्त्वयोरित्याह—“विद्यमानस्ये”त्यादि।
विद्यमानस्य चार्थस्य दृष्टं न ग्रहणं क्वचित्।
न त्वत्यन्तासतोऽस्तित्वं कांश्चित्प्रत्युपपद्यते॥ २२६७॥
विरुद्धौ सदसद्भावौ न स्यातामेकवस्तुनि।
नच तुल्यं विरोधित्वं ज्ञाताज्ञातत्वयोरपि॥ २२६८॥
ज्ञानं हि पुरुषाधारं तद्भेदान्न विरुध्यते।
पुरुषान्तरसंस्थं च न (ना ?) ज्ञानं तेन वार्यते॥ २२६९॥
एकत्र हि धर्मिणि परस्परविरुद्धधर्माध्यासो विरुद्धः, नतु धर्म्यन्तरे, ग्रहणाग्रहणे च पुरुषभेदेन भिन्नधर्म्याधारत्वादविरुद्धे, न तु सदसत्त्वे, तयोरेकधर्म्याधारत्वेनेष्टत्वादिति समासार्थः॥ २२६७॥ २२६८॥ २२६९॥
ननु च ग्रहणाग्रहणपक्षेऽपि सामर्थ्यादेकाधिकरणे सदसत्त्वे परस्परविरुद्धे तथा (त्रा ?)पि समापतत एव। तथाहि—पदार्थसदसत्त्वाभ्यां ग्रहणाग्रहणे व्याप्ते तन्निबन्धनत्वात्तयोः। अन्यथा तुल्ययोग्यदेशयोः पुरुषयोरेक एव पश्येन्नापर इत्यत्र कारणं वक्तव्यमित्याशङ्क्याह—“अन्धानन्धे”त्यादि।
अन्धानन्धसमीपस्थः शुक्लोन्धैर्नावगम्यते।
गम्यते चेतरैस्तस्य सदसत्त्वे न तान्प्रति॥ २२७०॥
यथा ह्यन्धेतरयोः समीपस्थं रूपमविकलचक्षुष एवोपलभन्ते, नेतरे, न च तान्प्रति तस्य शुक्लरूपस्य सदसत्त्वे स्तः, तद्वत्सम्बन्धेऽपीति॥ २२७०॥
किमत्र कारणमित्यपेक्षानिवृत्त्यर्थमुपपत्तिमाह—“शक्त्यशक्त्यो”रित्यादि।
शक्त्यशक्त्योर्नराणां तु भेदात्तत्राविरोधिता।
न ह्यन्यो दर्शनस्यास्ति सम्बन्धाद्धेतुरत्र हि॥ २२७१॥
एतदाचष्टे—नह्यर्थसत्तैवोपलम्भकारणम्, किं तर्हि ?, पुरुषगता च शक्तिः, तेन सत्यप्यर्थे कस्यचित्पुरुषस्य शक्त्यभावादग्रहणमविरुद्धमिति नाग्रहणमर्थासत्त्वेन व्याप्तम्। यद्येवमसत्यपि सम्बन्धे पुरुषाणां शक्त्यशक्तिभेदादर्थस्य ग्रहणाग्रहणे भविष्यत इति सर्वं समानमित्याह—“न ह्यन्य” इत्यादि। सम्बन्धग्रहणपुरस्सरत्वादर्थप्रत्ययस्येति भावः। अन्य इति हेतुः सम्बन्ध्यते। “दर्शनस्ये”ति। शब्दार्थप्रतीतेः। हेतुरित्येतदपेक्षा चेयं षष्ठी। सम्बन्धादित्यन्यापेक्षा पञ्चमी। “अत्रे”ति। शब्दार्थव्यवहारे। अन्ये तु—शक्त्यशक्त्योर्नराणां तु भेदात्तत्राविरोधितेत्यत्रैवोपपत्तिरूपेण वर्णयन्तो व्याचक्षते—“सम्बन्धा”दिति। पुरुषशक्तेरित्यर्थः। “अत्रे”ति शुक्ले॥ २२७१॥
दार्ष्टान्तिकमुपसंहरन्नाह—“एवमेवे”त्यादि।
एवमेवेन्द्रियैस्तुल्यं व्यवहारोपलम्भनम्।
येषां स्यात्तेऽवबुध्यन्ते ततोऽर्थं नेतरेऽन्धवत्॥ २२७२॥
व्यवह्रियते अस्मादिति व्यवहारः शब्दार्थसम्बन्धः। तस्योपलम्भनम्—परिज्ञानम्। तदिन्द्रियैस्तुल्यम्। तथाहि। येषामेवेन्द्रियमस्ति, तेऽर्थमुपलभन्ते। येषां तु नास्ति, ते सत्यप्यर्थे नोपलभन्ते। एवं येषां सम्बन्धपरिज्ञानमस्ति, ते शब्दादर्थमवबुध्यन्ते। येषां तु नास्ति, ते सत्यपि सम्बन्धे नोपलभन्त इति सर्वं समानं किल॥ २२७२॥
योऽयं प्रथमं सम्बन्धस्य कर्त्ता केन तस्मै सम्बन्धः प्रतिपादित इति वक्तव्यम्, स्वयमेवेति चेन्न, तथैवाऽन्येषामपि प्रसङ्गात्। अथान्यतस्तस्याप्यन्यत इति चेत्, एवं तर्ह्यनादित्वान्न केनचित्क्रियत इति दर्शयति—“सर्वेषा”मित्यादि।
सर्वेषामनभिज्ञानां पूर्वपूर्वप्रसिद्धितः।
सिद्धः सम्बन्ध इत्येवं सम्बन्धादिर्न विद्यते॥ २२७३॥
(यः) शब्दार्थसम्बन्धः स वृद्धव्यवहारपूर्वकः, सम्बन्धत्वादिदानीन्तनसम्बन्धवत्। सम्बन्धश्च विवादास्पदीभूतः सम्बन्ध इति स्वभावहेतुः॥ २२७३॥
एवं तावत्प्रतिमर्त्त्यं न समयः सम्भवतीति प्रतिपादितम्, अधुना प्रत्युच्चारणमेवेति यदुक्तं तत्प्रत्युद्धरन्नाह—“प्रत्युच्चारणे”त्यादि।
प्रत्युच्चारणनिर्वृत्तिर्न युक्ता व्यवहारतः।
सर्गादौ न क्रिया नास्ति तादृक्कालो हि नेष्यते॥ २२७४॥
इष्यते हि जगत्सर्वं न कदाचिदनीदृशम्।
न महाप्रलये नाम ज्ञायते पारमार्थिकः॥ २२७५॥
रात्रिर्वा प्रलयो नाम लीनत्वात्सर्वकर्मणाम्।
दिवसः सृष्टिसञ्ज्ञश्च सर्वचेष्टाऽतिसर्जनात्॥ २२७६॥
देशोत्सादकुलोत्सादरूपो वा प्रलयो भवेत्।
प्रलये तु प्रमाणं नः सर्वोच्छेदात्मके नहि॥ २२७७॥
“व्यवहारत” इति। व्यवहारप्रवृत्तेः। अन्यथा हि पूर्वमकृतसम्बन्धाद्व्यवहारप्रवृत्तिर्न स्यादिति यावत्। साम्प्रतं जगदादौ चेति यदुक्तं तस्य प्रतिविधानमाह—“सर्गादौ चे”ति। “तादृगि”ति। शब्दार्थसम्बन्धशू्न्यः सृष्टिसंहारात्मकः। “अनीदृश”मिति। सर्वोच्छेदात्मकम्। तत्र प्रमाणाभावात्। कथं तर्हि लोके प्रलयादिव्यवहारप्रसिद्धिरित्याह—“न महाप्रलय” इत्यादि। “ज्ञायत” इति। लोकेन। “पारमार्थिक” इति। सर्वोच्छेदात्मकः परिकल्पितस्तु न वार्यत इत्यभिप्रायः। तमेव दर्शयति—“रात्रि”र्वेत्यादि। अथ पारमार्थिकः कस्मान्नेष्यत इत्याह—“प्रलये” त्वित्यादि॥ ॥ २२७४॥ २२७५॥ २२७६॥ २२७७॥
भवतु नाम पारमार्थिकः प्रलयः, तथापि तदानीमभ्रष्टस्मृतिप्रज्ञादिसंस्कारकस्यकस्यचिदीश्वरादेः कर्तुरभावान्न सम्बन्धकरणं युक्तमिति दर्शयन्नाह—“नचालुप्ते”त्यादि।
नचालुप्तस्मृतिः कश्चित्सृष्टिसंहारकारकः।
ईश्वरादिः स्थिरो युक्तो यः सम्बन्धं प्रकल्पयेत्॥ २२७८॥
“न युक्त” इति। तस्य विस्तरेण प्रतिषिद्धत्वात्॥ २२७८॥
“नन्वि”त्यादिना परस्य प्रत्यवस्थानमाशङ्कते।
नन्वानुपूर्व्यनित्यत्वादनित्यो वाचको भवेत्।
पदं वाचकमिष्टं हि क्रमाधीना च तन्मतिः॥ २२७९॥
वर्णानुपूर्वी हि पदमिष्टं न स्फोटस्तस्याश्च पुरुषेच्छाधीनत्वादनित्यत्वमतो वर्णानामप्यनित्यत्वं प्राप्नोति। वर्णेभ्योऽनर्थान्तरत्वादानुपूर्व्याः। कथमित्याह—“पद”मित्यादि। तथाहि—वर्णात्मकं पदमेव वाचकमिष्यते, यतो वर्णक्रमकृता पदबुद्धिर्नस्फोटकृता, स च क्रमः पौरुषेयः॥ २२७९॥
एतदेव विवृणोति—“वर्णाः सर्वगतत्वाद्व” इति।
वर्णाः सर्वगतत्वाद्वो न स्वतः क्रमवृत्तयः।
अनित्यध्वनिकार्यत्वात्क्रमस्यातो विनाशिता॥ २२८०॥
पुरुषाधीनता चास्य तद्विवक्षावशाद्भवेत्।
वर्णानां नित्यता तेन भवतां निष्फला भवेत॥ २२८१॥
वो युष्माकं मीमांसकानां वर्णानां सर्वगतत्वान्न देशकृतः क्रमः, नापि कालकृतो नित्यत्वात्तेषाम्, तस्मादभिव्यञ्जकध्वनिकृतः। तस्य चानित्यत्वात्तत्कृतस्याप्यनित्यत्वमिति भावः। प्रयोगः—यदनित्यकृतं तदनित्यं यथा घटादि, अनित्यकृतश्च वर्णक्रम इति स्वभावहेतुः। यत्पुरुषविवक्षावशाद्भवति तत्पौरुषेयत्वेन प्रेक्षावता व्यवहर्त्तव्यम्, यथा पाणिकम्पाक्षिनिकोचादयः, पुरुषेच्छावशाच्च वर्णानां भवति क्रम इति स्वभावहेतुः॥ २२८०॥ २२८१॥
अथापि स्याद्विनैव क्रमेण वर्णा एव श्रोत्रपरिच्छिन्ना अर्थप्रत्यायका भविष्यन्तीत्यत आह—“नचे”त्यादि।
नच क्रमाद्विना वर्णा निर्ज्ञाताः प्रतिपादकाः।
क्रमस्यैवं पदत्वं च तस्मादेवं प्रसज्यते॥ २२८२॥
पदं वर्णातिरिक्तं तु येषां स्यात्क्रमवर्जितम्।
तेषामेवार्थवत्येषा शब्दनित्यत्वकल्पना॥ २२८३॥
नहि क्रमं विना वर्णा एवार्थप्रतिपत्तिहेतवो दृष्टास्तस्मादेषामवश्यं क्रमोऽभ्युपगन्तव्यः। एवं सति क्रमस्यैव पदत्वं वाचकत्वं भवतां मीमांसकानां प्रसज्यते, नतु केवलानां वर्णानाम्। तस्य च क्रमस्यानित्यत्वाद्वाचकस्याप्यनित्यत्वं स्यात्। ततश्च व्यर्था शब्दनित्यत्वकल्पना। तथाहि—वाचकस्य शब्दस्य नित्यत्वं साधयितुमिष्टं नान्यस्य, ततश्च यत्केवलवर्णनित्यसाधनं भवतां तत्प्रस्तुतानुपयोगि। तस्यावाचकत्वात्। यच्च बाध(वाच ?)कं क्रमरूपं न तन्नित्यमभ्युपगतमिति सर्वो विफल एव प्रयासः। येषां पुनस्त्व(र्वै ?)याकरणानां वर्णव्यतिरिक्तं स्फोटाख्यमनवयवं पदं वाचकमितीष्टं तेषामर्थवत्येषा शब्दनित्यत्वकल्पना। तस्य स्फोटाख्यस्य वस्तुनो नित्यत्वात् ॥ २२८२॥ २२८३॥
अत्र परिहारमाह—“न ताव”दित्यादि।
न तावदानुपूर्वस्य पदत्वं नः प्रसज्यते।
नहि वस्त्वन्तराधारमेतद्दृष्टं प्रकाशकम्॥ २२८४॥
अनुपूर्वस्वभाव आनुपूर्वं, तस्यानुपूर्वमात्रस्य नास्माकं वाचकत्वं प्रसज्यते व्यभिचारित्वादिति भावः। तदेव दर्शयन्नाह—“नही”त्यादि। वस्त्वन्तराधारमिति। मणिमुक्ताद्याधारम्॥ २२८४॥
नापि वर्णाधारमानपूर्वमेव केवलं वाचकमिष्टम्, कथमित्याह—“धर्ममात्रमिद”मिति।
धर्ममात्रमिदं तेषां न वस्त्वन्तरमिष्यते।
इत्थं प्रतीयमानाः स्युर्वर्णाश्चैवावबोधकाः॥ २२८५॥
“न वस्त्वन्तर”मिति। स्वतन्त्रवाचकत्वेनेत्यभिप्रायः। अन्यथा हि पारमार्थिको धर्मधर्मिणोर्भेदः स्यात्। स च नाभीष्टः। किं तर्हि वाचकमित्याह—“इत्थ”मित्यादि। इत्थम्—विशिष्टेन क्रमेण। एतदुक्तं भवति—न क्रममात्रं वाचकं, नापि वर्णाधारं, नापि वर्णमात्रं, किं तर्हि ?, वर्णा एव क्रमोपसृष्टा वाचका इति। तेन न क्रमस्य वाचकत्वं प्रति प्राधान्यं तस्य तद्वत्तया प्रतीयमानस्य गुणीभूतत्वात्। किं तर्हि ? वर्णानां तेषां धर्मितया प्रतीतेरिति दर्शितं भवति॥ २२८५॥
यदुक्तमनित्यध्वनिकार्यत्वादिति हेतुद्वयं तस्यासिद्धतामाह—“नच क्रमस्ये”त्यादि।
नच क्रमस्य कार्यत्वं पूर्वसिद्धपरिग्रहात्।
वक्ता नहि क्रमं कश्चित्स्वातन्त्र्येण प्रपद्यते॥ २२८६॥
यथैवास्य परैरुक्तस्तथैवैनं विवक्षति।
परोऽप्येवमतश्चास्य सम्बन्धवदनादिता॥ २२८७॥
“पूर्वसिद्धपरिग्रहा”दिति। व्यवस्थितस्यैव क्रमस्योपादानात्। एतदेव स्पष्टयति —“वक्ता नही”त्यादि। सम्बन्धवदेव हि क्रमोऽप्यनादिः॥ २२८६॥ २२८७॥“तेने”त्यादिनोपसंहरति।
तेनेयं व्यवहारात्स्यादकौटस्थ्येपि नित्यता।
यत्नतः (यत्क्रमे ?) प्रतिषेध्या नः पुरुषाणां स्वतन्त्रता २२८८॥
न इति कृत्यप्रयोगे कर्त्तरि षष्ठी। कृत्वा न सा दोषो (यत् क्रमेस्वतन्त्रताप्रतिषेधो ?) विहितः। तस्मादसत्यपि पर्वतादिवदस्य क्रमस्य कूटस्थत्वे वृद्धव्यवहारादेव नित्यत्वमवसेयम्। तदनेन व्यवहारनित्यता कथिता भवति क्रमस्य, न कूटस्थनित्यता यथापर्वतादीनामिति॥ २२८८॥
यद्येवं वर्णानामपि क्रमस्यैव व्यवहारनित्यत्वं कस्मान्नेष्यत इत्याह—“वर्णानामपी”ति।
वर्णानामपि न त्वेवमकौटस्थ्येऽपि सेत्स्यति।
नित्येषु सत्सु वर्णेषु व्यवहारात्क्रमोदयः॥ २२८९॥
घटादिरचना यद्वन्नित्येषु परमाणुषु।
तदभावे हि निर्मूला रचना नावधार्यते॥ २२९०॥
नहि वर्णानां क्रमवदकौटस्थ्यनित्यत्वेऽपि व्यवहारनित्यतयाऽर्थप्रतिपत्तिव्यवहारःसिद्ध्यति। कथं न सिद्ध्यतीत्याह—“नित्येष्वि”त्यादि। यदि हि कूटस्थनित्यतया वर्णा नित्या भवेयुरेवं सति पुरुषपरम्परया व्यवहारसम्भवात्क्रमोदयः—क्रमस्यात्मलाभो भवेत्, यथा घटादिरचना परमाणुमूलात्। क्वचित्क्रमादय इति पाठः। तत्रादिशब्देन सम्बन्धप्रत्यभिज्ञानादयो गृह्यन्ते। अथोभयोरपि वर्णपरमाण्वोर्नित्यत्वमन्तरेण कस्माद्रचना न सम्भवतीत्याह—“तदभाव” इत्यादि। “तदभाव” इति। वर्णपरमाण्वोर्द्वयोरपि कूटस्थनित्य(भावा)भावे। ननु च घटाद्यारम्भका इव परमाणवो वर्णानामपि सूक्ष्मभागाः सन्ति, यथाहुः— वर्णानामपि वर्णतुरीया भागा इति। तत्कथं वर्णानां कूटस्थनित्यता वर्ण्यते। नैष दोषः। स्फोटदूषणेन प्रतिपादितमेतत्, यथा न वर्णभागाः सन्तीति॥ २२८९॥ २२९०॥
किञ्च—यदि कूटस्थनित्यतया वर्णा नित्या न भवेयुस्तदा सर्वेषां प्रयोक्तॄणां परप्रयुक्तानेव शब्दान्ब्रूमह इत्येषा विवक्षा न स्यात्, अथ च भवति, तस्मात्सा वर्णनित्यत्वमन्तरेण न युक्तेति दर्शयन्नाह—“परेणोक्ता”नित्यादि।
परेणोक्तान्ब्रवीमीति विवक्षा चेदृशी ध्रुवम्।
तथा च नित्यतापत्तिर्नचान्यच्चिह्नमस्ति वः॥ २२९१॥
ननु च यदि गकारादिक्रमः परमार्थतो न नित्यः, नापि व्यञ्जका ध्वनयो नापि तेषां प्रेरकास्ताल्वादिसंयोगविभागाः, ध्वनीनां प्रेरकांस्तान्न शक्नोति कर्तुम्, यांश्चाभिनवान्करोति न ते दृष्टाः प्रेरकाः, ततश्च कथं वर्णाः क्रमेणाभिव्यक्ता अर्थभेदप्रतीतिहेतवो भवन्तीति सर्वमेतदाशङ्क्य परिहरन्नाह—“जात्या यथे”त्यादि।
जात्या यथा घटादीनां व्यवहारोपलक्षणम्।
तथैव चानुपूर्व्यादेर्जातिद्वारेण सेत्स्यति॥ २२९२॥
यथा घटादेः सत्यप्यनित्यत्वे जात्याश्रयेण व्यवहारः सिद्ध्यति तथा आनुपूर्व्यादेरनित्यत्वेऽपि सेत्स्यति॥ २२९२॥
व्यवहारोपलक्षणं कथमित्याह—“ताल्वादिजातय” इत्यादि।
ताल्वादिजातयस्तावत्सर्वपुंसु व्यवस्थिताः।
वक्ता तांश्च ध्वनींस्ताभिरुपलक्ष्य निरस्यति॥ २२९३॥
तेषां च जातयो भिन्नाः शब्दाभिव्यक्तिहेतवः।
यावद्वर्णं प्रवर्तन्ते व्यक्तयो वा तदन्विताः॥ २२९४॥
तथाहि—ताल्वादिस्थानजातयः सर्वपूरुषसमवायिताल्वादिसमवायात्सर्वपुरुषेषु व्यवस्थिताः। प्रयोक्ता च ताभिरेव ताल्वादिजातिभिस्ताल्वादीन्युपलक्ष्यावधार्यपश्चाद्ध्वनीन्व्यञ्जकान्वायून्निरस्यति—प्रेरयति। नागृहीतविशेषणा विशेषे बुद्धिरिति न्यायात्। तेषां ध्वनीनां यद्यप्यनित्यत्वम्, तथापि गवाश्वादिजातिवद्यावद्वर्णं यावन्तो वर्णास्तावत्यो जातयः सन्ति, ता एव व्यक्तिसहायिन्यः शब्दाभिव्यक्तिहेतवो भवन्ति। यद्वा—ध्वनिव्यक्तय एव जातिसहायिन्यो वर्णानुरूपेण व्यञ्जनाय प्रवर्त्तत इति पक्षान्तरम्॥ २२९३॥ २२९४॥
ननु च यद्यपि ध्वनीनां जातयो भिन्नाः सन्ति, तथापि ते ध्वनयो जात्युपलक्षिता अपि न क्रममन्तरेण वर्णाभिव्यक्तिक्रमं सम्पादयितुमलम्। तथाहि—तेषां जातिभेदेन भिन्नानामपि न स्वतः क्रमोऽस्ति, निरवयवत्वात्। तत्कथं व्यञ्जकक्रमकृतो वर्णानां क्रमावसाय इत्याशङ्क्याह—“तत्रे”त्यादि।
तत्र ताल्वादिसंयोगविभागक्रमपूर्वकम्।
ध्वनीनामानुपूर्व्यं स्याज्जात्या चोभयनित्यता॥ २२९५॥
यद्यपि ध्वनीनामानुपूर्व्यं न स्वतः, तथापि तेषां ताल्वादिसंयोगविभागा एवानुपूर्व्यं सम्पादयन्ति। उभयल्य च ताल्वादिसंयोगादिक्रमस्य ध्वनिक्रमस्य च स्वाश्रयसमवेतजातिद्वारेण नित्यतेति सर्वमनाकुलम्॥ २२९५॥
कथं पुनर्जात्या क्रमस्यानित्यस्यापि सतो नित्यत्वं लक्षयितुं शक्यम्। येन तथोपलक्षितो व्यवहाराङ्गतां यास्यतीत्याह—“यथैवे”त्यादि।
यथैव भ्रमणादीनां भागा जात्यादिलक्षिताः।
क्रमानुवृत्तिरेवं स्यात्ताल्वादिध्वनिवर्णभाक्॥ २२९६॥
यथा भ्रमणरेचनादीनां क्रियाविशेषाणाम्—आदिशब्दात्पिपीलिकादीनां ग्रहणम्, तेषां क्रमानुवृत्तिर्यथा भावा(व ?)जात्यादिना लक्षिता व्यवहाराङ्गम्। अत्राप्यादिशब्देन पिपीलिकादिजातिपरिग्रहः। तथा ताल्वादिध्वनिवर्णभाक्क्रामानुवृत्तिस्ताल्वादिजातिभिर्लक्षिता व्यवहाराय सम्पद्यत इति सम्बन्धः। “ताल्वादिध्वनिवर्णभागि”ति। ताल्वादयश्च ध्वनयश्च वर्णाश्चेति विगृह्य समासः, तान्भजत इति तथोक्ता। अनेन ताल्वादिसंयोगादिक्रमः स्वजात्युपलक्षितो ध्वनिनिरासहेतुः, ध्वनिक्रमोऽपि ताल्वादिसंयोगविभागक्रमपूर्वकः स्वजात्युपलक्षितो वर्णाभिव्यक्तिक्रमः निबन्धनम्, सोऽप्यर्थप्रतीतेरित्युक्तं भवति। क्वचिद्भागा इति पाठः। तत्रैवं सम्बन्धः। यथा भ्रमणादीनां कर्मणां भागा अंशाः क्रमवन्तो जात्या तदन्येन वा केनचिद्धर्मेणोपलक्षिता व्यवहारहेतवो भवन्ति। यथा ताल्वादिभाक्क्रमानुवृत्तिर्व्यवहाराङ्गमिति। केचित्—क्रमानुस्मृतिरेवं स्यादिति पठन्ति। तत्रैवं योजना—यथा (भ्रमण) रेचनादीनां भागा जात्यादिलक्षिताः स्मर्यन्ते। एवं ताल्वादिध्वनिवर्णभाक्ताल्वादिविषया ताल्वादिजात्युपलक्षिताः क्रमानुस्मृतिर्भविष्यति॥ २२९६॥
अथवा न ध्वनीनां ताल्वादिसंयोगविभागक्रमकृतमानुपूर्व्यम्, अपि तु स्वत एव, सावयवत्वादिति दर्शयन्नाह—“व्यक्तीना”मिति।
व्यक्तीनामेव वा सौक्ष्म्याज्जातिधर्मावधारणम्।
तद्वशेन च वर्णानां व्यापित्वेऽपि क्रमग्रहः॥ २२९७॥
ध्वनीनाम्। तेषां हि ये भागा आरम्भकाः क्रमवन्तस्ते सूक्ष्मा न तैर्व्यवहारसिद्धिः। अतस्तेषु जातिस्वभावा धर्मा नित्यत्वादयः प्रतिनियतशब्दाभिव्यक्तिहेतवोनिरूप्यन्ते। निश्चीयन्त इति यावत्। ततः किं सिद्धं स्यादित्याह—“तद्वशेने”त्यादि। सत्यपि हि व्यापित्वे वर्णाः क्रमवद्ध्वनिवशात्क्रमवन्त इव भासन्ते॥ २२९७॥
“एव”मित्यादिना प्रकृतमुपसंहरति।
एवं ध्वनिगुणात्सर्वान्नित्यत्वेन व्यवस्थितान्।
वर्णा अनुपतन्तः स्युरर्थभेदावबोधिनः॥ २२९८॥
ध्वनिगुणाः—क्रमतीव्र(त्व)मन्दत्वप्रदेशवृत्तित्वादयः। “नित्यत्वेन व्यवस्थिता”निति। जातिद्वारेण। अनुपतन्तः—अनुवर्त्तमानाः॥ २२९८॥
एवं यदि नाम नित्यत्वसर्वगतत्वाभ्यां वर्णानां स्वतःक्रमादयो न सम्भवन्ति, तथापि व्यञ्जकध्वनिगता एते वर्णेष्वर्थप्रतिपत्त्यङ्गमिति विस्तरेण प्रतिपादितम्। साम्प्रतम्—यद्वा कालगता एवैते ध्वन्युपाधिकाः प्रविभागा वर्णेषु गृह्यमाणाः प्रतिपत्त्यङ्गमिति पक्षान्तरं दर्शयन्नाह—“आनुपूर्वी”त्यादि।
आनुपूर्वी च वर्णानां ह्रस्वदीर्घप्लुताश्च ये।
कालस्य प्रविभागास्ते ज्ञायन्ते ध्वन्युपाधयः॥ २२९९॥
ध्वनयो व्यञ्जका वायव उपाधयो विशेषणभूता येषां कालविभागानां ते तथोक्ताः॥ २२९९॥
ननु च काल एको व्यापी नित्यश्चेतीष्टं कालवादिनाम्। यथोक्तम्—व्यापारव्यतिरेकेण परिमाणक्रियावताम्। नित्यमेकं विभुद्रव्यं कालमेके प्रचक्षते॥ इति, तत्कथं तस्य प्रविभागो युज्यत इत्याह—“कालश्चैक” इत्यादि।
कालश्चैको विभुर्नित्यः प्रविभक्तोऽपि गम्यते।
वर्णवत्सर्वभावेषु व्यज्यते केनचित्क्वचित्॥ २३००॥
वर्णेषु व्यज्यमानस्य तस्य प्रत्यायनाङ्गता।
अन्यत्रापि तु सद्भावात्तत्स्वरूपस्य नित्यता॥ २३०१॥
प्रविभक्तोऽपीत्यपिशब्द एकोऽपि नित्योऽपि विभुरपीति सम्बन्धनीयो भिन्नकमत्वात्। कथं प्रविभक्त इत्याह—“वर्णवत्सर्वभावे”ष्विति। एतदुक्तं भवति—यथैकोऽपि नित्यो गकारादिवर्णो यदा केनचिद्ध्वनिविशेषेण क्वचित्प्रदेशे वा व्यज्यते, तदा देशादिविभागेन प्रविभक्तो गम्यते, तथा कालोऽपि। यद्यपि चासौ सर्वपदार्थव्यापी, तथापि यदा केनचित्क्रियाविशेषेण क्वचित्पदार्थ व्यज्यते, तदा प्रविभक्तो गृह्यते, यदा तु वर्णेषु व्यज्यते तदाऽर्थप्रत्ययाङ्गं भवति। यदि तर्हि प्रविभक्तो नित्यविभुत्वं कथं तस्यावगतमित्याह—“अन्यत्रापी”त्यादि। अन्यत्रापि लताकिसलयादौ सद्भावात्सत्तावत्तस्य नित्यत्वं विभुत्वं च सिद्धम्। नित्यताग्रहणमुपलक्षम्॥ २३००॥ ॥ २३०१॥
तस्मान्न पदधर्मोऽस्ति विनाशी कश्चिदीदृशः।
तेन नित्यं पदं सिद्धं वर्णनित्यत्ववादिनाम्॥ २३०२॥
“तस्मा”दित्यादिना स्वपक्षसिद्धेरुपसंहारः। “कश्चिदीदृश” इति। क्रमादिरूपः २३०२
यदि तर्हि कालधर्मो व्यञ्जकध्वनिधर्मो वा क्रमः, नतु परमार्थतो वर्णधर्मस्तत्कथमस्य प्रत्यायनाङ्गत्वम्। न ह्यन्यधर्मोऽन्यस्य भवतीत्याह—“परधर्मेऽपी”त्यादि।
परधर्मेऽपि चाङ्गत्वमुक्तमश्वजवादिवत्।
नित्यतायां च सर्वेषामर्थापत्तिप्रमाणता॥ २३०३॥
“उक्त”मिति। नावारूढाश्च गच्छन्त इत्यादिना। नावारूढवचनं हि सकलयानारूढोपलक्षणम्। “अश्वजवादिव”दिति। यथा—अश्वादिगतो जवस्तदारूढानां पुंसां देशान्तरप्राप्तेर्वृक्षादेश्च गमनप्रतिपत्तेरङ्गं भवति, तथा ध्वनिगतोऽपि क्रमो वर्णस्यार्थप्रत्यायनाङ्गमिति। एवं विस्तरेण शब्दानित्यत्वप्रतिज्ञाया अर्थापत्तिप्रमाणबाधितत्वं समर्थ्य, उपसंहरन्नाह—“नित्यताया”मित्यादि। तस्मादित्युपसंहारोऽत्र द्रष्टव्यः।“सर्वषा”मिति। न केवलं वर्णस्यार्थप्रतीत्यन्यथानुपपत्त्या नित्यत्वं सिद्धम्, किं तर्हि ?, ताल्वादीनां ध्वनीनां च। यथोक्तं भाष्ये— उच्चरितमात्रे हि विनष्टे शब्दे नचान्योऽन्यानर्थं प्रत्याययितुं शक्नुयादतो न परमार्थमुच्चार्येत। अथ न विनष्टस्ततो बहुश उपलब्धत्वादर्थावगम इति युक्तमिति॥ २३०३॥
स्ववचनाभ्युपेतागमप्रतीतिबाधामपि प्रतिज्ञायाः प्रतिपादयन्नाह—“स्ववाक्यादी”त्यादि।
स्ववाक्यादिविरोधश्च शब्दानित्यत्वसाधने।
प्रतिज्ञोच्चार्यते सर्वा साध्यार्थप्रतिपत्तये॥ २३०४॥
नचानित्या ब्रवीत्येषा स्वार्थमित्युपपादितम्।
तेनार्थप्रत्ययापन्नान्नित्यत्वान्नाशबाधनम्॥ २३०५॥
आदिशब्देनाभ्युपेतादिविरोधग्रहणम्। “उपपादित”मिति। नचादृष्टार्थसम्बन्धः शब्दो भवति वाचक इत्यादिना। “तेनार्थप्रत्ययापन्ना”दिति। अर्थप्रत्ययात्—अर्थप्रतीतेः, आपन्नं—सिद्धम्, अर्थप्रत्ययापन्नम्। अर्थप्रतीत्यन्यथानुपपत्तिसिद्धान्नित्यत्वादिति यावत्॥ २३०४॥ २३०५॥
अभ्युपेतबाधामाह—(“अर्थाभिधाने”ति)
अर्थाभिधानसामर्थ्यमभ्युपेत्य च साधयन्।
पूर्वाभ्युपगतेनापि नाशित्वं बाधते नरः॥ २३०६॥
अर्थप्रतीतिसामर्थ्यैः प्रतिशास्त्रमुपाश्रितैः।
आगमेनापि नाशित्वं बाध्यते सर्ववादिनाम्॥ २३०७॥
(आगमबाधामाह—) “अर्थप्रतीतिसामर्थ्यै”रित्यादि। अर्थप्रतीतौ सामर्थ्यानि यानि शब्दानां तैः। प्रतिज्ञार्थस्य बाधनादित्युपस्कारः॥ २३०६॥ २३०७॥
प्रतीतिबाधामाह—“सर्वलोके”त्यादि।
सर्वलोकप्रसिद्ध्या च बाधः पूर्वोक्तया दिशा।
अनुमानविरोधोऽपि प्रागुक्तेनैव हेतुना॥ २३०८॥
श्रोत्रजप्रत्यभिज्ञानाच्छब्दाभेदावसायतः।
प्रत्यक्षेण विरुद्धत्वं प्रागेव प्रतिपादितम्॥ २३०९॥
पूर्वोक्ता दिक्—समनन्तरश्लोकाक्ता। एवं तु पठितव्यम्। —अर्थप्रतीतिसामर्थ्यैः सर्वलोकावधारितैः। लोकप्रसिद्ध्या नाशित्वं बाधते सर्ववादिनाम्॥ इति। पूर्वोक्तमनुमानादिविरोधं स्मारयन्नाह—“अनुमानविरोधोऽपी”त्यादि। प्रागुक्तोहेतुर्नानाप्रकारः— देशकालादिभिन्नाश्च गोशब्दव्यक्तिबुद्ध्यः। समानविषयाः सर्वा नवा नानार्थगोचराः॥ गौरित्युत्पद्यमानत्वात्सम्प्रत्पन्नबुद्धिवदित्यादिना। “प्रागेवे”ति। किञ्च शब्दस्य नित्यत्वं श्रोत्रजप्रत्यभिज्ञया। विभुत्वं च स्थितं तस्य कोऽध्यवस्येद्विपर्ययम्॥ इत्यनेन॥ २३०८॥ २३०९॥
शिष्टानपि पक्षदोषान्हेतुदोषांश्च कांश्चित्प्रतिपिपादयिषुराह—“वक्तव्य”मित्यादि।
वक्तव्यं चैष कः शब्दो विनाशित्वेन साध्यते।
त्रिगुणः पौद्गलो वाऽयमाकाशस्याथवा गुणः॥ २३१०॥
वर्णादन्योऽथ नादात्मा वायुरूपमवाचतम्।
पदवाक्यात्मकः स्फोटः सारूप्यान्यनिवर्त्तने॥ २३११॥
एतेषामस्त्वनित्यत्वं नास्माकं तेषु नित्यता।
अप्रसिद्धविशेषत्वमाश्रयासिद्धहेतुता॥ २३१२॥
सिद्धान्तभेदेन शब्दगतान्विकल्पानाह। तत्र सत्वरजस्तमःस्वभावत्वात्रिगुणः साङ्ख्यैरिष्टः शब्दः। पौद्गलो दिगम्बरैः। पुद्गलाः परमाणव उच्यन्ते। तेषामयं पौद्गलः। तदात्मक इति यावत्। आकाशगुणः काणादैरिष्टः। वर्णव्यतिरिक्तो नादात्मा लैकिकैः। यथोक्तं पातञ्जले भाष्ये— अथवा प्रतीतपदार्थको लोके ध्वनिः शब्द इति। वायुरूपमवाचकं शिक्षाकारैः। यथाहुः—वायुरापद्य(ते) शब्दमा(वा ?)निति। पदस्फोटात्मको वाक्यस्फोटात्मकश्च वैयाकरणैरिष्टः। तद्यथाहुः—नादैराहितबीजायामन्त्येन ध्वनिना सह। आवृत्तिपरिपाकायां बुद्धौ शब्दोऽवधार्यते॥ इति। सारूप्यं—सादृश्यं विन्ध्यवासीष्टम्। बौद्धैरन्यनिवर्त्तनमन्यापोहो वाचकत्वेन य इष्टः। तत्र यद्येवं साङ्ख्यादीष्टानामनित्यत्वं साध्यते तदा सिद्धसाध्यता पक्षदोषः। स्वरूपेणैव निर्दिश्यत इत्यनेन सिद्धरूपस्य निरस्तत्वात्। नच मीमांसकैरीदृशे शब्दे नित्यत्वं साधयितुमिष्टम्। किञ्चास्मान्प्रति त्रिगुणाद्यात्मकस्य शब्दस्य धर्मिणो विशेषस्यासिद्धत्वादप्रसिद्धविशेषत्वं पक्षदोषः। हेतोश्चाश्रयासिद्धतादोषः। तथाविधस्य धर्मिणोऽसिद्धत्वात्॥ २३१०॥ २३११॥ २३१२॥
“अथे”ति।
अथास्मदिष्टः पक्षः स्यात्स्वयमेतद्द्वयं तव।
शब्दमात्रमथोच्येत शब्दत्वं वस्तथासति॥ २३१३॥
अनित्यं तच्च सर्वेषां नित्यमिष्टं विरुध्यते।
यत्किञ्चिदिह सामान्यं नित्यं सर्वेण कल्प्यते॥ २३१४॥
अथास्माभिर्मीमांसकैर्योऽभिमतो वर्णा एव गकारादयः शब्दो न व्यतिरिक्तः इत्येष पक्षः स्यात्। तथासति बौद्धादेरेतद्द्वयम्—अप्रसिद्धविशेषत्वं प्रतिज्ञादोष आश्रयासिद्धता च हेतुदोष आपद्यते। शब्दमात्रमथोच्येत, साध्यधर्मित्वेनेति शेषः। ततश्च शब्दत्वसामान्यं वो युष्माकमनित्यम्, प्राप्नोतीत्यध्याहार्यम्। तथाहि—मात्रशब्देन सर्वविशेषत्यागे कृते किमपरमन्यत्सामान्याच्छब्दमात्रं भवेत्। तस्मात्सामर्थ्याद्भवद्भिः शब्दत्वमेवानित्यं प्रतिज्ञानं स्यात्। भवत्वेवमिति चेत्, नेत्याह—“तच्च सर्वेषां नित्यमिष्ट”मित्यादि। तथाहि बौद्धैरप्यन्यापोहवादिभिरुक्तम्— जातिधर्मव्यवस्थितेरिति। अनेनाभ्युपेतबाधादोष उक्तः। तदेव दर्शयति—“यत्किञ्चिदिहे”त्यादि। यत्किञ्चित्स्वसिद्धान्तानुसारेण सामान्यं व्यवस्थापितं तत्सर्वं सर्ववादिभिर्नित्यमिष्यते। अन्यथा व्यक्तिवदपरापरोत्पत्तेर्व्यक्तयन्तर्गत्यापना (पाता ?) त्तस्य सामान्यरूपतैव हीयते॥ २३१३॥ २३१४॥
एवं तावत्साध्यधर्मिविकल्पेन पक्षदोषमुद्भाव्येदानीं साध्यधर्मविकल्पेनोद्विभावयिषुराह—“अनित्यत्वं चे”त्यादि।
अनित्यत्वं च नाशित्वं यद्यात्यन्तिकमुच्यते।
ततोऽस्मान्प्रति पक्षः स्यादप्रसिद्धविशेषणः॥ २३१५॥
यथाकथञ्चिदिष्टा चेदनित्यव्यपदेश्यता।
अनभिव्यक्त्यवस्थातः सा हि व्यक्त्यात्मतेष्यते॥ २३१६॥
यद्यात्यन्तिकं निरन्वयप्रध्वंसलक्षणं नाशित्वं यत्तदनित्यत्वमिष्टं साध्यत्वेन तदाअस्मात्—मीमांसकान्प्रत्यप्रसिद्धविशेषणः पक्षदोषः। तथाहि मीमांसकानां कापिलानामिव निरन्वयविनाशित्वविशेषणमसिद्धम्। तिरोभावेऽपि घटादीनां शक्तिरूपेणावस्थानात्। प्रदीपादावपि लघवो ह्यवयवास्तदा देशान्तरं लघु लघु प्रयान्तीति मतत्वात्। अथ यथाकथञ्चिदनित्यव्यपदेशत्वं साधयितुमिष्टं तदा सिद्धसाध्यतादोषः। तथाहि—नित्येष्वप्यभिव्यक्त्यनभिव्यक्त्यवस्थाश्रयेणानित्यव्यपदेश इष्ट एव ॥ २३१५॥ २३१६॥
एवं तावदनित्यः शब्द इत्येषा प्रतिज्ञा विस्तरेण दूषिता, इदानीमैन्द्रियकत्वादित्यस्य हेतोर्दोषमुद्भावयन्नाह—“केवलैन्द्रिये”त्यादि।
केवलैन्द्रियकत्वे च हेतावत्र प्रकल्पिते।
जात्या साधितयेदानीं व्यभिचारः प्रतीयते॥ २३१७॥
केवलमैन्द्रियकत्वम्—कार्यत्वे सतीत्यादि विशेषणरहितम्, तस्मिन्निर्विशेषणहेतौ सति, जात्या—सामान्येन, प्राक् प्रसाधितयाऽनैकान्तिको हेतुः। व्यतिरेकासिद्धेः॥ २३१७॥
स्यादेतत्—यदि नाम प्रतिवादिनो जातेरभ्युपगमाव्द्यतिरेको न सिद्धस्तथापि बौद्धादेः स्ववादिनो जातेरनभ्युपगमात्सिद्ध एव तत्कथनमनैकान्किकतेत्याह—“असिद्ध” इत्यादि।
असिद्धे पक्षधर्मत्वे यथैव प्रतिवादिनः।
न हेतुर्लभ्यते तद्वदन्वयव्यतिरेकयोः॥ २३१८॥
य एव तूभयनिश्चितवाची स एव साधनं दूषणं वेति न्यायात् यथा पक्षधर्मस्यान्यतरासिद्धौ हेतुर्दुष्टो भवति तथाऽन्वयव्यतिरेकयोरन्यतरासिद्धौ दुष्ट एव। अन्वयव्यतिरेकयोरसिद्धयोरिति वचनविपरिणामेन सम्बन्धः॥ २३१८॥
यद्युभयसिद्धमेव साधनं दूषणं वा तत्कथं बौद्धं प्रत्यसिद्धया जात्या व्यभिचारोऽभ्यधायि भवतेत्याह—“तत्रे”त्यादि।
तत्र यद्यप्यसिद्धा स्याज्जातिः साधनवादिनः।
तावत्तथाऽप्यहेतुत्वं यावत्सा न निराकृता॥ २३१९॥
यद्यपि बौद्धादेः साधनवादिनो न जातिर्विपक्षत्वेन सिद्धा, तथाप्याशङ्का न निवर्त्तते। तस्याः प्रतिषेद्धुमशक्यत्वात्। ततश्च सन्दिग्धविपक्षव्यावृत्तिकतेति भावः ॥ २३१९॥
अपरमपि साध्यसाधनयोर्विकल्पान्तरेण दूषणमाह—“कार्या चैन्द्रियकत्वादा”विति।
कार्या चैन्द्रियकत्वादौ किंवस्त्विति निरूपणा।
व्यक्तिभ्योऽनन्यनानात्वभेदाभेदेषु च स्फुटा॥ २३२०॥
तत्रासाधारणासिद्धसाध्यहीनसपक्षता।
विकल्पितानुसारेण वक्तव्या चाद्यपेक्षया॥ २३२१॥
आदिशब्देनानित्यत्वपरिग्रहः। तत्र किमात्मकमैन्द्रियकत्वादीति निरूपणा कार्या, किं व्यक्तिभ्योऽनन्यदाहोस्विद्व्यतिरिक्तम्, तथा व्यतिरेकपक्षे तदा भेदेषु च विचारणा कार्या, किं तद्व्यतिरिक्तं भिन्नभिन्नमाहोस्विदभिन्नमेकमेवेति यावत्। तत्राव्यतिरेकपक्षे ऐन्द्रियकत्वस्य हेतोरसाधारणता, व्यक्तेरव्यतिरेकात्, तत्स्वरूपवत्तस्यव्यक्त्यन्तरानुगमाभावात्। व्यतिरेकपक्षेऽपि मीमांसकस्य व्यतिरेकानिष्टेः प्रतिव्यक्तिभिन्नमभिन्नं वा असिद्धमित्यसिद्धता हेतोः। अतएव भेदाभेदपक्षे दोषो नोक्तः। सिद्धे हि व्यतिरेके तस्यावकाशात्। अनित्यत्वस्यापि व्यतिरेकपक्षे साध्यहीनसपक्षता। दृष्टान्तस्य साध्यविकलतेति यावत्। अव्यतिरेकपक्षेऽपि साध्यहीनतैव दृष्टान्तस्य, व्यक्तेर्व्यक्तयन्तरानुगमाभावात्॥ २३२०॥ २३२१॥
इदानीं प्रयत्नानन्तरीयत्वादित्यस्य हेतोरनैकान्तिकत्वमाह—“प्रयत्नानन्तर”मित्यादि।
प्रयत्नानन्तरं ज्ञानं कृतकानित्यसाधनम्।
यत्तत्राप्यस्त्यनेकान्तः क्षणिकव्यतिरेकिणः(भिः ?)॥ २३२२॥
प्रतिसङ्ख्याऽप्रतिसङ्ख्यनिरोधव्योमभिस्त्रिभिः।
बुद्धिपूर्वविनाशे हि प्रतिसङ्ख्यानिरोधधीः॥ २३२३॥
अबुद्धिपूर्वकस्तेषां निरोधोऽप्रतिसङ्ख्यया।
तौ च द्वावप्यनाशित्वादिष्टावकृतकावपि॥ २३२४॥
प्रयत्नानन्तरमुपलभ्यमानत्वं हि प्रयत्नानन्तरीयत्वमुच्यते। तच्च विपक्षेऽपि हेतोरनैकान्तिकत्वान्न कृतकानित्यत्वसाधनम्। तथाहि बौद्धैः प्रतिसङ्ख्यानिरोधोऽप्रतिसङ्ख्यानिरोध आकाशं चेति त्रिविधमसंस्कृतं वस्तु क्षणिकव्यतिरिक्तमक्षणिकं नित्यं चेष्टम्। तत्र चास्य हेतोर्वृत्तिरिति दर्शयन्नाह—“बुद्धिपूर्वे”त्यादि। यो बुद्धिपूर्वो घटादीनां विनाशः स प्रतिसङ्ख्यानिरोधः, यत्स्वबुद्धिपू्र्वः सोऽप्रतिसङ्ख्यानिरोध इत्येषा किल बौद्धप्रक्रिया। “तेषा”मिति। घटादीनाम्। “तौ चे”ति। प्रतिसङ्ख्याऽप्रतिसङ्ख्यानिरोधौ। “अकृतकावपी”ति। अपिशब्दान्नित्यावपि॥ २३२२॥ २३२३॥ २३२४॥
यथा चानयोरकृतकत्वनित्यत्वे। यथा न तत्र हेतौ वृत्तिस्तथा परमतेनैवोपपादयन्नाह—“आहु”रित्यादि।
आहुः स्वभावसिद्धं हि ते विनाशमहेतुकम्।
भवति ह्यग्निसम्बन्धात्काष्ठादङ्गारसन्ततिः॥ २३२५॥
स्वाभाविको विनाशस्तु जातिमात्रप्रतिष्ठितः।
सूक्ष्मः सदृशसन्तानवृत्तेरनुपलक्षितः॥ २३२६॥
यदा विलक्षणो हेतुः पतेत्सदृशसन्ततौ।
विलक्षणेन कार्येण स्थूलोऽभिव्यज्यते तदा॥ २३२७॥
तेनासदृशसन्तानो हेतोः सञ्जायते यतः।
तेनैवाक्रियमाणोऽपि(नाशोऽ)भिव्यज्यते स्फुटः॥ २३२८॥
“त” इति बौद्धाः। ननु च (नाश्यते) अग्निना काष्ठं दण्डेन घट इति नाशहेतवो दृश्यन्ते, तत्कथमहेतुकत्वमस्येत्याह—“भवति ही”त्यादि। वह्न्यादयो हि तत्राङ्गारादिपदार्थान्तरहेतुत्वेनान्वयव्यतिरेकाभ्यां निश्चिता न विनाशस्य। तस्य निसर्गसिद्धत्वात्। यदि तर्हि स्वाभाविको नाशः किमिति वह्न्यादिसम्पातात्प्रागपि नोपलक्ष्यत इत्याह—“सूक्ष्म” इत्यादि। सदृशापरापरोत्पत्तेर्विप्रलब्धा हि मन्दा नावस्यन्ति (सूक्ष्मं नाशम्)। सदृशसन्तानोत्पत्त्या तूत्प्रेक्षन्ते (अविनष्टमेव।) विलक्षणो हेतुर्मुद्गरादिः। विलक्षणं कार्यं कपालादि। अस्यां किलावस्थायां विनाशस्य स्थूलत्वं व्यक्तीभवति। तेनेत्यादिनोपसंहारः। “असदृशसन्तान” इति। विलक्षणः। “हेतो” “र्यत” इति सामानाधिकरण्यम्। “तेनैवे”ति। हेतुना। यत इति यो निर्दिष्टः। तस्याभिव्यज्यत इति परेणाभिसम्बन्धः॥ २३२५॥ २३२६॥ २३२७॥ २३२८॥
विपक्षवृत्तितां हेतोरुपदर्शयन्नाह—“स मुद्गरे”त्यादि।
स मुद्गरप्रहारादिप्रयत्नानन्तरीयकः।
यस्मादकृतको दृष्टो हेतुः स्याद्व्यभिचार्यतः॥ २३२९॥
“स” इति। द्विविधोऽपि निरोधः, मुद्गरप्रहारादिप्रयत्नानन्तरज्ञानो मुद्गरप्रहारादिप्रयत्नानन्तरीयक उच्यते॥ २३२९॥
त्रिभिरित्युक्तम्। तत्र द्वाभ्यां व्यभिचारमुपदर्श्य तृतीयेनाप्याकाशेन व्यभिचारमुपदर्शयन्नाह—“आकाशमपी”त्यादि।
आकाशमपि नित्यं सद्यदा भूमिजलावृतम्।
व्यज्यते तदपोहेन स्वननोत्सेच(च्छेद ?) नादिभिः॥ २३३०॥
प्रयत्नानन्तरं ज्ञानं यदा तत्रापि दृश्यते।
तेनानैकान्तिको हेतुर्यदुक्तं तत्र दर्शनम्॥ २३३१॥
“तदपोहेने”ति। तस्य भूम्यादेः स्वननादिकरणभूतैरपनयेन। “तत्रे”ति। शब्दे।दर्शनम्—प्रयत्नानन्तरज्ञानम्॥ २३३०॥ २३३१॥
एवं हेतुदोषानभिधाय दृष्टान्तदोषान्वक्तुकाम आह—“सपक्षोऽपी”त्यादि।
सपक्षोऽपि विकल्पोऽत्र श्रुत्यर्थे साध्यहीनता।
व्यक्तिलक्षणपक्षेऽपि जात्यन्यानन्यकल्पना॥ २३३२॥
अन्यत्वे धर्म्यसिद्धेर्नोऽनन्यत्वेपि परान्प्रति।
अविशेषेऽपि नानित्यं न नित्यं वस्तु तन्मम॥ २३३३॥
अंशो ह्येतस्य जात्याख्यो नित्यो ध्वंसीतरो मतः।
शबलाकारमेकं हि वस्तु प्राक्प्रतिपादितम्॥ २३३४॥
सपक्षो दृष्टान्तः। स किं श्रुत्यऽर्थोऽभिप्रेतः आहोस्विद्व्यक्तिः। यदि श्रुत्यर्थस्तदा साध्यविकलता दृष्टान्तदोषः। तथाहि—श्रुतिः शब्दः। तस्यार्थोऽभिधेयः। स पुनः सामान्यं घटत्वादि, नच (तच्च ?) सर्ववादिनां नित्यमेवेष्टमिति न तत्रानित्यत्वस्य साध्यधर्मस्यानुगमः। क्वचिज्जात्यर्थ इति पाठः। तत्र कर्मधारयः समासःकार्यः। अर्थस्तुल्य एव। अथ द्वितीयः पक्षस्तदाऽपि तस्या व्यक्तेर्दृष्टान्तत्वेनेष्टाया जात्यन्यानन्यकल्पना कार्या। किं सा व्यक्तिर्जातेरन्या, आहोस्विदनन्या। य(दाऽन्या) तदा दृष्टान्तधर्मिणो मीमांसकं प्रत्यसिद्धिः। नहि मीमांसको वैशेषिकादिव(दे)कान्तेन व्यक्तेरन्यां जातिमिच्छति। यथोक्तम्— स्थितं नैव तु जात्यादेः परत्वं व्यक्तितो हि न इति। अथानन्यपक्षस्तदा परान् बौद्धादीन्प्रति दृष्टान्तधर्म(र्म्य?)सिद्धिः। नहि परे व्यक्तेरनन्यां जातिं मन्यन्ते। अथ भेदाभेदविकल्पमवधूय घटोनिदर्शनत्वेनोपादीयते, तदाऽप्यस्मान्प्रति साध्यविकलता दृष्टान्तस्ये(ति) निदर्शयत्राह—“अविशेषेऽपी”त्यादि। “त”दिति। घटवस्तु। कथमित्याह—“अंश” इत्यादि। एतस्य हि घटवस्तुनो जातिसञ्ज्ञको भागो नित्यः। इतरस्तु व्यक्तिसञ्ज्ञको ध्वंसी— विनाशी। स्यादेतत्कथमेकस्य परस्परविरुद्धं स्वभावद्वयं युक्तमित्याह—“शबलाकार”मित्यादि॥ २३३२॥ २३३३॥ २३३४॥
पुनरपि साध्यधर्मविकल्पमुखेन दृष्टान्तदोषान्वक्तुकाम आह—“अनित्यते”त्यादि।
अनित्यता विकल्प्यैवं नाशश्चेत्साध्यहीनता।
ममान्यस्यां तु भवतामित्येषा दूषणोक्तिदिक्॥ २३३५॥
यद्यनित्यता निरन्वयविनाशलक्षणा साध्यत्वेनेष्टा तदा मम मीमांसकस्य दृष्टान्ते साध्यविकलता। न ह्यस्माभिरत्यन्तसमुच्छेदो भावानामिष्टः, शक्तिरूपेणावस्थानात्। यद्यपि नाश इति सामान्यशब्दस्तथापि प्रकरणान्निरन्वयविनाशात्मकेऽर्थविशेषेऽस्यवृत्तिर्विज्ञायते। अन्यथा कथं साध्यविकलताप्रसङ्गो दृष्टान्तस्य योक्ष्यते। ननु चानित्यत्वं नाशित्वं यद्यात्यन्तिकमुच्येतेत्यादिना अनित्यता विकल्पितैव, तत्किमिति भूयोऽपि विकल्प्यते। सत्यम्, सा हि पक्षस्य दोषोद्भावनार्थमिदानीं तु दृष्टान्तस्येति विशेषः। अथ न निरन्वयविनाशलक्षणाऽनित्यताऽभिप्रेता किं त्वन्यैवाविर्भा वतिरोभावलक्षणा, अत्राह—“अन्यस्या”मिति। अनित्यतायामिति सम्बन्धः। “भवता”मिति। साध्यहीनतेति योजनीयम्। तत्रापि दृष्टान्तस्येति शेषः। नहि भवद्भिर्बौद्धैः साङ्ख्यैरिव सान्वयो विनाश इष्यते। तस्मादृष्टान्तस्य साध्यविकलता भवत्पक्षे स्यादित्येष शब्दानित्यत्वसाधनदूषणमार्गो विदुषामाख्यातः, अन्यदपि प्राज्ञैः स्वयमभ्यूह्य कर्त्तव्यम्॥ २३३५॥
“पदार्थे”त्यादिना परस्य चोद्यमाशङ्कते।
पदार्थपदसम्बन्धनित्यत्वे साधितेऽपि वा।
नैव चेह प्रमाणत्वं वाक्यार्थं प्रति सिध्यति॥ २३३६॥
समयात्पुरुषाणां हि गुणवृद्ध्यादिवन्मतिः।
निष्कारणोऽपि सन्नर्थो याज्ञिकैः परिकल्पितः॥ २३३७॥
अपिचास्य कथावत्तु सङ्घातात्पौरुषेयता।
नचाप्तः पुरुषो वास्ति तेन वेदाप्रमाणता॥ २३३८॥
विशिष्टसाधनावच्छिन्नक्रियाविशेषविधिप्रतिषेधलक्षणो हि वाक्यार्थः। तत्रैव चोदनायाः प्रमाण्यं न पदार्थे। ततश्च वेदस्य प्रामाण्ये साध्ये यत्पदपदार्थतत्सम्बन्धानां त्रयाणामपि नित्यत्वप्रतिपादनं तत्प्रकृतानुपयोगि। किं च—या या वाक्यार्थप्रतिपत्तिः सा सङ्केतप्रभवा, यथा—आद्गुणइत्यादेर्वाक्यात् गुणवृद्ध्यादिमतिः,वाक्यार्थप्रतिपत्तिश्च चोदनावाक्यसमुद्भवेति स्वभावहेतुः। एतदेव दर्शयति—“समया”दित्यादि। “गुणवृद्ध्यादिवदि”ति। सप्तम्यर्थे वतिः। अस्यैव समर्थनमाह—“निष्कारणोऽपी”त्यादि। निष्कारणोऽपि निर्निबन्धनोऽपि सन् स्वोत्प्रेक्षया निरङ्कुशया याज्ञिकैराजीविकार्थमेवाग्निहोत्रं जुहुयात्स्वर्गकाम इत्यादिवेदवाक्यार्थः परिकल्पित इति सम्भाव्यम्। किं च यत्सङ्घातरूपं तत्पौरुषेयं, यथा नाटकाख्यायिकादिकथा, पदसङ्घातश्च वेद इति स्वभावहेतुः। ततश्च पौरुषेयत्वाद्रथ्यापुरुषवाक्यवदप्रमाणं वेदः स्यात्। आप्तप्रणीतत्वात्पौरुषेयोऽपि प्रमाणं भविष्यतीति चेदाह—“न चाप्त” इत्यादि॥ २३३६॥ २३३७॥ २३३८॥
“सम्बन्धे”त्यादिना प्रतिविधत्ते।
सम्बन्धाकरणन्यायाद्वक्तव्या वाक्यनित्यता।
दृष्टार्थव्यवहारत्वाद्वृद्ध्यादौ सम्भवेदपि॥ २३३९॥
मतिः सामयिकी वेदे न त्वेषा युज्यते यतः।
स्वर्गयागादिसम्बन्धः केन दृष्टो ह्यतीन्द्रियः॥ २३४०॥
पदपदार्थयोः सम्बन्धाकरणे यो न्याय उक्तः— श्रोतुः कर्तुश्च सम्बन्धं वक्ता कं प्रतिपद्यतामित्यादिना, तत एव वैदिकवाक्यस्यापि नित्यता वक्तव्या। “समयात्पुरुषाणां हि गुणवृद्ध्यादिवन्मति”रित्यत्रानैकान्तिकतामाह—“दृष्टार्थव्यवहारत्वा”दित्यादि। अदेङादौ दृष्टेऽर्थे गुणादिव्यवहारात्समयात्तत्र सम्भाव्यत एव प्रतीतिः, नतु वेदे, स्वर्गादेरतीन्द्रियत्वेन समयस्य कर्तुमशक्यत्वात्॥ २३३९॥ २३४०॥
यद्येवमानर्थक्यं तर्हि प्राप्तमस्येत्याह—“नचानर्थकता तस्ये”ति।
नचानर्थकता तस्य तदर्थप्रत्ययोदयात्।
सङ्घातत्वस्य वक्तव्यमीदृशं प्रतिसाधनम्॥ २३४१॥
वेदस्याध्ययनं सर्वं गुर्वध्ययनपूर्वकम्।
वेदाध्ययनवाच्यत्वादधुनाध्ययनं यथा॥ २३४२॥
“तस्ये”ति। वेदस्य। सङ्घातत्वादित्यत्रापि साधने प्रतिसाधनेनानैकान्तिकतामेव दर्शयन्नाह—“सङ्घातत्वस्ये”त्यादि॥ २३४१॥ २३४२॥
ननु च भारताध्ययनेऽपि शक्यमेवं वक्तुम्, यद्भारताध्ययनं तत्सर्वं गुर्वध्ययनपूर्वकं यथेदानीन्तनमिति। न चैवं शक्यते कर्त्तुम्। तस्मात्तद्वदनैकान्तिकता प्रतिसाधनस्येत्याशङ्क्याह—“भारतेऽपी”त्यादि।
भारतेऽपि भवेदेवं कर्तृस्मृत्या तु बाध्यते।
वेदे तु न स्मृतिर्यापि साऽर्थवादनिबन्धना॥ २३४३॥
भारतेऽपि भवेदेवं प्रसञ्जनं, तत्र कर्त्ता व्यासः स्मर्यत इति तया कर्तृस्मृत्या प्रतिज्ञार्थस्य बाधितत्वादप्रसङ्गः। वेदे तु न स्मृतिः। कर्तुरिति शेषः। ननु च वेदेऽपि कर्त्ता स्मर्यत एव। यथा— अग्निरावश्चक्रुः सामानि सामगिरौ भगवति कपोतके अधर्वानाङ्गिरस इत्यत आह—“यापि साऽर्थवादनिबन्धने”ति। यापि वेदेकर्तुः स्मृतिः साऽर्थवादनिबन्धना—अर्थपरं वचनमर्थवादः, तन्निबन्धनं यस्याः सा तथोक्ता। तथाहि चक्रुरिति न करणार्थपरः करोतिः। किं तर्हि स्मरणार्थः।चक्रुः—स्मृतवन्म इत्यर्थः॥ २३४३॥
कथमयमर्थोऽवसित इत्याह—“अतीतानागता”वित्यादि।
अतीतानागतौ कालौ वेदकारवियोगिनौ।
कालत्वात्तद्यथा लोके (कालो ?) वर्त्तमानः समीक्ष्यते २३४४
ब्रह्मादयो न विद्यानां कर्त्तार इति गम्यताम्।
पुरुषत्वादिहेतुभ्यस्तद्यथा प्रकृता नराः॥ २३४५॥
प्रमाणद्वयं सुगमम्॥ २३४४॥ २३४५॥
“ततश्चे”त्यादिना प्रकृतं सकलमुपसंहृत्य प्रमाणयति।
ततश्च गम्यतां व्यक्तममृषा वैदिकं वचः।
स्वार्थे वक्रनपेक्षत्वात्पदार्थे पदबुद्धिवत्॥ २३४६॥
तत्कृतः प्रत्य(यः सम्यग्यदयं नित्यवाक्यजः।
वाक्यस्वरूपविषयप्रत्ययस्तद्भवो यथा॥ २३४७॥
चोदनावाक्यजनितप्रत्ययस्य प्रमाणता।
आप्तवाक्यसमुद्भूतप्रत्ययस्येव सिद्ध्यति॥ २३४८॥
यतोऽयं प्रत्ययस्तावदनाप्ताकृतवाक्यजः।
कालावस्थादिभेदेऽपि विसंवादोऽस्य नास्ति यत् )॥ २३४९॥
प्रमाणे च स्थिते वेदे शिष्याचार्यपरम्परा।
(अनादिः कल्प्यमानाऽपि) निर्दोषत्वाय कल्पते॥ २३५०॥
यद्यत्र कर्तृभूतवक्रनपेक्षं ज्ञानमुत्पादयति, तत्तत्र मृषा न भवति, यथा पदार्थे पदं, कर्तृभूतपुरुषवक्रनपेक्षं स्वार्थे प्रत्ययमुत्पादयति वेदवाक्यमिति व्यापकविरुद्धोपलब्धिः। कर्तृभूतपुरुषसापेक्षज्ञानोत्पादकत्वेन मृषात्वस्य व्याप्तत्वात्। तद्विरुद्धं च स्वार्थे वक्रनपेक्षत्वम्। “पदबुद्धिव”दिति। पदानामविसंवादिप्रत्ययनिमित्तत्वप्रदर्शनपरमेतत्। नतु पदबुद्धिर्दृष्टान्तत्वेनाभिप्रेता। किं तर्हि ?। पदान्येव। तथाह्यत्र शब्दात्मकः साध्यधर्मी, तस्य चाविसंवादिज्ञानोत्पत्तिनिमित्तत्वेनामृषात्वे साध्ये तथाभूत एव दृष्टान्तधर्मी न्याय्यः। अन्यथा साध्यविकलता दृष्टान्तस्य स्यात्। तथाऽपरः प्रयोगः—यो नित्यवाक्यजनितः प्रत्ययः स यथार्थत्वेन सम्यक्, यथा वाक्यस्वरूपविषयः, नित्यवाक्यजनितश्चाग्निहोत्रादेः स्वर्गादिसंसिद्धिनिश्चय इति स्वभावहेतुः। पूर्वं विस्तरेण नित्यत्वस्य प्रतिपादितत्वान्नासिद्धो हेतुः। चोदनेत्यादि पूर्वमेव व्याख्यातम्। तथाऽपरौ प्रयोगौ—योऽनाप्तप्रणीतवाक्यजनितः प्रत्ययो(य)श्चदेशकालनरावस्थाभेदादौ विसंवादरहितः स प्रमाणम्, यथाऽऽप्तवाक्यजनितः प्रत्ययः, तथा चायं चोदनावाक्यजनितः प्रत्यय इति स्वभावहेतुः। प्रथमस्य हेतोर्नासिद्धिः। विस्तरेणापौरुषेयत्वस्य प्रसाधितत्वात्। नापि द्वितीयस्य। यथोक्तम्—नच स्वर्गकामो यजेतेत्यतो वचनात्सन्दिग्धमवगम्यते, भवति वा स्वर्गो न वा भवतीति। नचासन्दिग्धमवगम्यमानमिदं मिथ्या स्यात्। यो हि जनित्वा प्रध्वंसतेनैतदेवमिति स मिथ्याप्रत्ययो न चैष कालान्तरे अवस्थान्तरे पुरुषान्तरे वा विपर्येति तस्मादवितथ इति। तस्मात्सिद्धमालोकवत्सर्वलोकसाधारणो धर्मादिव्यवस्थाहेतुः स्वत एव प्रमाणं वेद इति। ततश्च चित्तमात्रतादिनयो यो बौद्धादिभिर्वर्ण्यते सोऽयुक्त इति स्थितम्॥ २३४६॥ २३४७॥ २३४८॥ २३४९॥ २३५०॥
ननु यदि स्वत एव प्रमाणमालोकवत्सर्वसाधारणो वेदः किमिति केचित्तत्र बौद्धादयो विप्रतिपद्यन्ते। नहि तान्प्रति तस्याप्रामाण्यं युक्तमित्याशङ्क्याह—“तस्मा”दित्यादि।
तस्मादालोकवद्वेदे सर्वलौकिकचक्षुषि।
उलूकवत्प्रतीघातः किलान्येषामधर्मजः॥ २३५१॥
यथा किल पटुतरकिरणनिकरप्रोत्सारितसकलतिमिरप्रसरे सवितरि सकलजनसाधारणचक्षुषि च समन्ताद्भात्यपि स्वकर्मापरावा(धा?)नुरूपासञ्ज्ञापटुतरलोचनस्योलूकादेर्न रूपमवतरति दर्शनपथम्, एवमधर्मतिमिरोपहतबुद्धिलोचनाः प्रतिहतिमेवासादयन्ति स्थितेऽपि सकललोकैकचक्षुषि वेदे शाक्यादय इति। किलशब्दोऽरुचिसूचकः॥ २३५१॥
तामेवाभिव्यनक्ति—“सर्वमेत”दित्यादि।
सर्वमेतद्द्विजातीनां मिथ्यामानविजृम्भितम्।
घुणाक्षरवदापन्नं सूक्तं नैषां हि किञ्चन॥ २३५२॥
“घुणाक्षरव”दिति। काकतालीयन्यायेनापीत्यर्थः॥ २३५२॥
तत्र यदुक्तं यन्मिथ्यात्वहेतुदोषसंसर्गरहितं तदवितथज्ञानकारणमित्यादि। तदत्रहेतोस्तावत्सिद्धत्वमभ्युपगम्यानैकान्तिकतामुद्भावयन्नाह—“कर्तर्यसत्यपी”त्यादि।
कर्तर्यसत्यपि ह्येषा नैव सत्यार्थतां व्रजेत्।
तद्धेतुगुणवैकल्याद्दोषाभावे मृषार्थवत्॥ २३५३॥
“एषे”ति।श्रुतिः। यथा रागादियुक्तो मृषावादी दृष्ट इत्यन्वयव्यतिरेकाभ्यां गिरा मिथ्यात्वहेतवो दोषा निश्चितास्तथा कृपादिगुणयुक्तः सत्यवाक् दृष्ट इति कृपादयो गुणाः सत्यत्वहेतव इति। ततश्च कारणनिवृत्त्या मिथ्यात्ववत्सत्यत्वमपि निवर्त्तेत।सत्यप्यपौरुषेयत्वे सत्यत्वं न सिद्ध्यत्य(तोऽ)नैकान्तिकता हेतोः॥ २३५३॥
अथ गुणनिवृत्तिः कथं निश्चितेत्याह—“गुणाः सन्ती”त्यादि।
गुणाः सन्ति न सन्तीति पौरुषेयेषु शङ्क्यते।
आनर्थक्यमतः प्राप्तं गुणाशङ्कैव नास्ति नः॥ २३५४॥
यदेव दोषाभावे कारणं भवताऽभ्यधायि तदेव सत्यत्वहेतुगुणाभावेऽपीति दर्शयति॥ २३५४॥
“अत” इत्यादिनोपसंहृत्य, कारणानुपलब्ध्या सत्यत्वमिथ्यात्वयोरभावप्रसङ्गं दर्शयति।
अतः सत्यत्वमिथ्यात्वहेतूनां नच संश्रयात्।
प्रज्ञादयाऽकृपादीनामभावान्नास्ति तद्द्वयम्॥ २३५५॥
तत्र प्रज्ञादयः सत्यत्वहेतवो मिथ्यात्वहेतवस्त्वकृपादय इति यथाक्रमं सम्बन्धः।“द्वय”मिति। सत्यत्वमिथ्यात्वे॥ २३५५॥
द्वयाभावे सति यत्प्रसज्यते तद्दर्शयति—“आनर्थक्य”मित्यादि।
आनर्थ्यक्यमतः प्राप्तं षडपूपादिवाक्यवत्।
अर्थाश्चेत्सम्प्रतीयन्ते क्रियाकारकयोगिनः॥ २३५६॥
एषा स्यात्पुरुषाख्यानादुर्वशीचरितादिवत्।
प्रतिपत्तिरतादर्थ्येऽप्यस्य प्रकृतितस्तव॥ २३५७॥
षडपूपा दश दाडिमानीत्याद्युन्मत्तकवाक्यवदानर्थक्यं वेदस्य प्राप्तम्। ननु चानर्थक्यं वेदस्य साधयतो बौद्धस्य दृष्टबाधा प्रतिज्ञाया भवेत्। तथा ह्यग्निहोत्रात्स्वर्गो भवतीत्यतो वाक्यादर्थप्रतीतिः प्रत्यक्षमनुभूयते। सा कथमपोह्यत इत्याशङ्क्य परस्य वचनावकाशं परिहरति—“एषे”त्यादि। एवं मन्यते—यदि हि स्वातन्त्रेणानर्थक्यं वेदस्य साध्येत तदा स्यात्प्रतिज्ञाबाधा, यावता प्रसङ्गापादनमेतत्क्रियते। न च तत्र प्रसङ्गेन प्रतिज्ञाबाधासम्भवः, तत्र प्रतिज्ञायमानस्याभावात्। केवलं परस्यैव व्यापकधर्मनिवृत्त्यापि व्याप्यनिवृत्तिमनिच्छतोऽनिष्टापत्त्या वचनव्याघातः प्रतिपाद्यते। नापि दृष्टबाधा। तथाहि—पुरुषव्याख्यानवशादेषा प्रतीतिर्भवेदनर्थकादपि वेदात्। यथा केनचिदग्निहोत्रात्स्वर्गो भवतीत्यादिवेदवाक्यस्य भरतोर्वश्यादिचरितमनेनाभिधीयत इत्यस्मिन्नर्थेऽनभिज्ञाय व्याख्याते पश्चात्तस्य ततो वाक्यात्तदर्थप्रतीतिर्भवत्येव। नच तत्तेनार्थेनार्थवत्। तद्वदियमर्थप्रतीतिः प्रकृत्या निरर्थकादपि वेदाद्भवेदिति कुतो दृष्टबाधा प्रतिज्ञायाः॥ २३५६॥ २३५७॥
किञ्च—भवतु नाम मिथ्यात्वहेतोर्दोषस्यैव निवृत्तिर्न गुणस्य, तथापि हेतोरनैकान्तिकत्वमनिवार्यमेवेति दर्शयन्नाह—“दोषाभावेऽपी”त्यादि।
दोषाभावेऽपि सत्यत्वं न सिद्ध्यत्यन्यभावतः।
आनर्थक्याख्यमप्यस्ति तस्माद्राश्यन्तरं परम्॥ २३५८॥
यदि हि सत्यत्वमिथ्यात्वव्यतिरेकेण शब्दानां राश्यन्तरं न स्यात्, तदैकराश्यभावे द्वितीयराशिसद्भावो नान्तरीयकः स्यात्। यदा त्वानर्थक्यमपि तृतीयं राश्यन्तरमस्ति, तदा न मिथ्यात्वनिवृत्त्या सत्यत्वनिश्चयोऽपरस्यापि तृतीयस्यानर्थकस्याविनिवृत्तेः॥ २३५८॥
अथ सत्यार्थविज्ञानजन्मशक्तः स्वतः स्थितः।
वेदो नरः(वा?)निराशंसः सत्यार्थोयमतो मतः॥ २३५९॥
यद्येवं सर्वदा ज्ञानं नैरन्तर्येण तद्भवेत्।
सदाऽवस्थितहेतुत्वात्तद्यथाभिमते क्षणे॥ २३६०॥
एकविज्ञानकाले वा तज्जन्यं सकलं भवेत्।
शक्तं हेतुतया यद्वत्तद्विज्ञानं विवक्षितम्॥ २३६१॥
स्यादेतत्—यदि वेदे कृपादिगुणहेतुकं सत्यत्वमभ्युपगतं स्यात्तदा गुणानां पुरुषाश्रितत्वेन पुरुषनिवृत्त्या निवृत्तौ सत्यां मिथ्यात्ववत्सत्यत्वमपि निवर्त्तेत। यावता स्वतःप्रामाण्याद्वेदस्य प्रकृत्यैव सत्यार्थज्ञानहेतुत्वं नतु पुनर्गुणकृतं तेन नानैकान्तिकता हेतोः, नाप्यानर्थक्यप्रसङ्गो वेदस्येत्येतत्। परस्योत्तरमाशङ्क्य परिहरन्नाह—“यद्येव”मित्यादि। यथैव हि प्रकृत्याऽर्थवत्त्वमस्य वेदस्य तथा मिथ्यात्वमपि सम्भाव्यत इत्यनैकान्तिकतैव हेतोरित्यभिप्रायः। एतच्च पश्चादभिधास्यति। प्रकृत्या च ज्ञानहेतुत्वे सर्वदा युगपच्च तद्भाविज्ञानं प्राप्नोत्यविकलकारणत्वादिति कथमानर्थक्याप्रसङ्गः। प्रयोगः—यदा यदविकलकारणं तत्तदा भवत्येव, यथा—अभिमतक्षणावस्थायां अग्निहोत्रादिवाक्यसम्भूतं ज्ञानम्, अविकलकारणं च वेदवाक्यहेतुकं सर्वज्ञानं सर्वस्यामवस्थायामिति स्वभावहेतुः॥ २३५९॥ २३६०॥ २३६१॥
युगपज्ज्ञानप्रसङ्गपक्षे च दोषान्तरमाह—“ततः पर”मित्यादि।
ततः परमतो ज्ञानजन्मशक्तिपरिक्षयात्।
न नित्यः स्यादयं वेदः शक्तौ वा धीः पुनर्भवेत्॥ २३६२॥
तथाहि—यदि युगपदशेषज्ञानान्युत्पाद्योत्तरकालं ततो ज्ञानोत्पादनशक्तेः परिहीयते वेदस्तदा शक्तेरात्मभूतायाः परिक्षयात् क्षयी प्राप्नोति। अथ न परिहीयतेतदोत्तरकालं पुनरपि ज्ञानोत्पत्तिप्रसङ्ग इति न कथञ्चिन्नित्यस्यार्थक्रियासामर्थ्यम् ॥ २३६२॥
“अथापी”त्यादिना यदविकलकारणमित्यस्य हेतोरसिद्धतामाशङ्कते।
अथापि सहकारीणि व्याख्यादीनि व्यपेक्षते।
तेषां च क्रमसद्भावात्तद्विज्ञानं क्रमीष्यते॥ २३६३॥
व्याख्यादीनीत्यादिशब्देन सङ्केतादिपरिग्रहः। “तेषां चे”ति। व्याख्यादीनाम् ॥ २३६३॥
“नैव”मित्यादिना परिहरति।
नैवं तस्य हि शक्तस्य व्यपेक्षा कीदृशी भवेत्।
तद्योगात्स समर्थश्चेन्नित्यताशेह का तव॥ २३६४॥
असमर्थो हि परमपेक्षेत ततः समर्थस्वभावोत्पादलिप्सायाम्। यस्तु समर्थस्तस्य न किञ्चित्स्वभाववैकल्यमस्तीति कीदृशी तस्य व्यपेक्षा। अथ प्रागसमर्थः सहकारिकारणयोगात्पश्चात्समर्थो भवतीत्यभ्युपेयते, तदा जहतु भवन्तो वेदे नित्यताशाम् ॥ २३६४॥
कथमित्याह—“प्रागशक्त” इत्यादि।
प्रागशक्तः समर्थश्च यदि तैः क्रियते पुनः।
प्रसक्तः पौरुषेयोऽयं ज्ञानाङ्गं हि नराश्रयात्॥ २३६५॥
शक्तेरव्यतिरेकादिति भावः। व्यतिरेके तु सम्बन्धासिद्धेर्वेदस्याकारकत्वप्रसङ्गः,शक्तेरेव कार्योत्पत्तेरिति वाच्यम्। “ज्ञानाङ्ग”मिति। ज्ञानस्याङ्गं यो भवति वेदः स नराश्रयाज्जातः, वेदस्वरूपं च नराश्रयाज्जातं, तच्च वेदाव्यतिरेकात्, सोऽपि जात एव॥ २३६५॥
किञ्च—न केवलं परापेक्षायामनित्यत्वप्रसङ्गः, अपौरुषेयत्वकल्पना च व्यर्था प्राप्नोतीति दर्शयन्नाह—“नही”त्यादि।
नहि तावत्स्थितोऽप्येष ज्ञानं वेदः करोति नः।
यावन्न पुरुषैरेव दीपभूतैः प्रकाशितः॥ २३६६॥
ततश्चापौरुषेयत्वं भूतार्थज्ञानकारणम्।
न कल्प्यं ज्ञानमेतद्धि पुंव्याख्यानात्प्रवर्त्तते॥ २३६७॥
सत्यप्येषा निरर्थाऽतो वेदस्यापौरुषेयता।
यदिष्टं फलमस्या हि ज्ञानं तत्पुरुषाश्रितम्॥ २३६८॥
यथार्थज्ञानार्थमस्यापौरुषेयता कल्प्यते। सा च कल्पनाऽपि न पुरुषनिरपेक्षा तज्ज्ञानोत्पादने समर्थेति व्यर्था तत्कल्पना। पुरुषा एव प्रमाणभूताः प्रणेतारो यथार्थज्ञानकारणं सन्तु। किमिदानीमपौरुषेयतया सिद्धोपस्थायिन्या॥ २३६६॥ ॥ २३६७॥ २३६८॥
अथ माभूदनित्यत्वप्रसङ्गोऽपौरुषेयत्वकल्पनायाश्च व्यर्थतेति सर्वदैव शक्तो वेदोऽभ्युपगम्यते तदा पूर्ववद्दोषप्रसङ्ग इति दर्शयति—“शक्तश्चे”दित्यादि।
शक्तश्चेत्सर्वदैवायं तत्किमन्यदपेक्षते।
शक्तैकहेतुभावे तु ज्ञानं स्यादेव तेन वः॥ २३६९॥
स्यादेतत्—पुरुषापेक्षायां नापौरुषेयता व्यर्थायते। यथावस्थित एवार्थः पुरुषैः प्रकाश्यते नापूंर्वः क्रियते। अपूर्वकरणे हि स्वातन्त्र्यमेषामभ्युपगतं स्यात्। ततश्च रागादिभिरुपप्लुता विपरीतार्थां श्रुतिमारचयन्तः केन प्रतिबध्येरन्। तदेतद्व्याख्यायामपि पुरुषैः क्रियमाणायां दोषजातं समानमिति दर्शयन्नाह—“स्वतन्त्रा” इत्यादि।
स्वतन्त्राः पुरुषाश्चेह वेदे व्याख्यां यथारुचि।
कुर्वाणाः प्रतिबद्धुं ते शक्यन्ते नैव केनचित्॥ २३७०॥
मोहमानादिभिर्दोषैरतोऽमी विप्लुताः श्रुतेः।
विपरीतामपि व्याख्यां कुर्युरित्यभिशङ्क्यते॥ २३७१॥
अपि च न वेदार्थस्यातीन्द्रियार्थस्य कश्चित्स्वातन्त्र्येण परिज्ञाता नरोऽभ्युपगतो यो वेदार्थमाख्यास्यति। तथाहि वेदार्थपरिज्ञानद्वारेणातीन्द्रियार्थदर्शित्वमस्य न स्वातन्त्र्येण, वेदार्थपरिज्ञानं तनो(तु ना ?)तीन्द्रियार्थदर्शित्वमन्तरेणेति व्यक्तमवतरतिनितरामितरेतराश्रयत्वमिति दर्शयन्नाह—“नचातीन्द्रियदृगि”त्यादि।
नचान्तीन्द्रियदृक्तेषामिष्ट एकोऽपि मानवः।
स्वर्गयागादिसम्बन्धज्ञानं नैव ह्यचोदनम्॥ २३७२॥
यस्मादतीन्द्रियार्थानां द्रष्टा साक्षान्न चास्ति वः।
वचनेन हि नित्येन यः पश्यति स पश्यति॥ २३७३॥
अविद्यमाना चोदना अस्येत्यचोदनं ज्ञानम्। चोदनानिरपेक्षमिति यावत्। अत्र कारणमाह—“यस्मा”दिति। एतदपि कथमित्याह—“वचनेने”त्यादि। तदुक्तम् “तस्मा दतीन्द्रियार्थानां साक्षात् द्रष्टा न विद्यते। वचनेन तु नित्येन यः पश्यति स पश्यतीति”॥ २३७२॥ २३७३॥
स्यादेतद्वेद एव स्वयं पुरुषव्यापारमनपेक्ष्यास्मै पुरुषाय स(स्व?)मर्थमावेदयिष्यते। तेनेतरेतराश्रयत्वप्रसङ्गो नावतरतीत्याह—“वेद” इत्यादि।
वेदो नरं निराशंसो ब्रूतेऽर्थं न सदा स्वतः।
अन्धात्तयष्टितुल्यां तु पुंव्याख्यां समपेक्षते॥ २३७४॥
नहि प्रथमश्रुतोऽसमयज्ञस्य स्वयं स(स्व?)मर्थमावेदयते वेदः। किन्नाम कुरुत इत्याह—“अन्धात्ते”त्यादि। अन्धैरात्ता गृहीता (यष्टिः) तया तुल्येति विग्रहः ॥ २३७४॥
अपेक्षतां को दोष इत्याह—“स तये”त्यादि।
स तया कृष्यमाणश्च कुवर्त्मन्यपि सम्पतेत्।
ततो नालोकवद्वेदश्चक्षुर्भूतश्च युज्यते॥ २३७५॥
“स इति”। वेदः। “तये”ति। पुंव्याख्यया। “कुवर्त्मन्यपि सम्पते”दिति। विपरीतार्थप्रकाशनात्। ततश्च यदुक्तम्—“तस्मादालोकवद्वेदे सर्वलोकैकचक्षुषि। नैव विप्रतिपत्तव्यमिति” तदनुपपन्नम्॥ २३७५॥
“स्वतन्त्रस्ये”इत्यादिना प्रकृतमुपसंहरति।
स्वतन्त्रस्य च विज्ञानजनकत्वे सति स्फुटम्।
प्रामाण्यमपि नैवास्य सम्भाव्यं पुरुषेक्षणात्॥ २३७६॥
शक्तस्य हि न पुरुषापेक्षया ज्ञानजनकत्वं युक्तमिति प्रतिपादितम्। भवतु नाम पुरुषापेक्षया शक्तस्यापि ज्ञानजनकत्वं तथापि—पुरुषापेक्षया ज्ञानजनकत्वेऽपि,प्रामाण्यमस्य स्फुटं न सम्भाव्यमिति पदार्थयोजना। अपिशब्दो भिन्नक्रमः ज्ञानजनकत्वेसतीत्यस्यानन्तरं द्रष्टव्यः॥ २३७६॥
अस्यैवार्थं व्यक्तीकुर्वन्नाह—“यथार्थबोधे”त्यादि।
यथार्थबोधहेतुत्वात्प्रामाण्यं ह्यवकल्पते।
पुंव्याख्यापेक्षणे चास्य न साध्वी मानकल्पना॥ २३७७॥
“न साध्वी मानकल्पने”ति। “स तया कृष्यमाणश्च कुवर्त्मन्यपि सम्पते”दित्यनेन पूर्वमसाधुत्वस्य प्रतिपादितत्वात्॥ २३७७॥
ततश्च, यदुक्तम्—“प्रमाणेऽवस्थिते वेदे शिष्याचार्यपरम्परा। अनादिः कल्प्यमानापि निर्दोषत्वाय कल्पते” इति तदयुक्तमिति दर्शयन्नाह—“इत्थ”मित्यादि।
इत्थं मानेऽस्थिते वेदे शिष्याचार्यपरम्परा।
अनादिः कल्प्यमानाऽपि नादोषत्वाय युज्यते॥ २३७८॥
अस्थित इत्यकारप्रश्लोषोऽनुद्रष्टव्यः॥ २३७८॥
कथं न युज्यत इत्याह—“यस्मादेकोऽपी”त्।
यस्मादेकोऽपि तन्मध्ये नैवातीन्द्रियदृग्मतः।
अनादिः कल्पिताऽप्येषा तस्मादन्धपरम्परा॥ २३७९॥
यदि नामान्धपरम्परा जाता, ततः किमित्याह—“अन्धेनान्ध” इत्यादि।
अन्धेनान्धः समाकृष्टः सम्यग्वर्त्म प्रपद्यते।
ध्रुवं नैव तथाऽप्यस्या विफलाऽनादिकल्पना॥ २३८०॥
यथोक्तं शाबरे भाष्ये— नैवञ्जातीकेष्वर्थेषु पुरुषवचनं प्रामाण्यमुपैति, अन्धानामिव वचनं रूपविशेषेष्विति॥ २३८०॥
एवमनादित्वं शिष्यपरम्परया सिद्धमभ्युपगम्य दोष उक्तस्तदपि न सिद्धमिति दर्शयन्नाह—“परत” इत्यादि।
परतो वेदतत्त्वज्ञा मनुव्यासादयोऽपि च।
तैरेवारचितो नायमर्थ इत्यत्र न प्रमा॥ २३८१॥
“न प्रमे”ति। अत्यन्तपरोक्षत्वात्॥ २३८१॥
स्यादेतत्—नावितथज्ञानहेतुत्वादपौरुषेयत्वेन प्रामाण्यमिष्टम्, किं तर्हि ? सत्यार्थान्नित्याच्छब्दार्थसम्बन्धमात्रत्। नवा (स चा ?) पौरुषेयतायां सत्यां भवतीतितदत्राप्यनैकान्तिकमेव। को ह्यत्र नियमे हेतुर्यदपौरुषेयेण सत्यार्थेन भवितव्यमिति। भवन्तु नाम तथाऽपि दोष एवेति दर्शयन्नाह—
सत्यार्थनित्यसम्बन्धमात्रात्प्रामाण्यमस्तु वा।
अतीन्द्रियं तु तं योगं नैव कश्चिद्व्यवस्यति॥ २३८२॥
अतीन्द्रिया यतस्तेऽर्थास्तत्स्थो योगोऽप्यतीन्द्रियः।
अनत्यक्षदृशः सर्वे नराश्चैते स्वतस्सदा॥ २३८३॥
सत्यार्थश्चासौ नित्यसम्बन्धश्चेति विग्रहः। कल्पितो हि नित्यः सम्बन्धः, यद्य सावर्थप्रतीतिहेतुर्न भवेत्तदा व्यर्था तत्कल्पना। नचान्यत्तस्य रूपमन्यत्रार्थप्रतीतिजनकत्वात्। इयानेव हि सम्बन्धस्य व्यापारो यदर्थप्रतीतिजननम्,तदकुर्वाणः कथं सम्बन्धः स्यात्। नाप्यसौ सत्तामात्रेणार्थप्रतीतिहेतुः किं तर्हि ?, ज्ञातः सन, अन्यथा ह्यगृहीतसमयस्यापि ततः प्रतीतिर्भवेत्, न चासौ ज्ञातुं केनचिच्छक्यते, सम्बन्धिनः स्वर्गादेरतीन्द्रियत्वेन तस्याप्यतीन्द्रियत्वात्। अतीन्द्रियार्थदर्शिनस्तर्हि तं ज्ञास्यन्तीति चेदित्याह—“अनत्यक्षदृश” इत्यादि। तदुक्तम्— तस्मादतीन्द्रियार्थानां साक्षाद्द्रष्टा न विद्यते। वचनेन तु नित्येन यः पश्यति स पश्यति॥ इतिअनत्यक्षदृशः—अतीन्द्रियार्थादर्शितः॥ २३८२॥ २३८३॥
श्रुतिरेव स्वयमावेदयिष्यतीति चेदाह—“अयं ममे”त्यादि।
अयं ममार्थसम्बन्ध इत्याह च न सा श्रुतिः।
नरक्लृप्तोऽर्थयोगस्तु पौरुषेयान्न भिद्यते॥ २३८४॥
न ह्येते भवन्तो ब्राह्मणा ममायमर्थो गृह्यतामित्याहूय प्रवृद्धतरकारुण्यः पुण्यैकप्रवणचेताः परहितनिरतः सन्वदान्य इव ब्राह्मणेभ्यः स्वयं स्वमर्थमर्पयति वेदपुरुषः।तर्हि स्वयमेवोत्प्रेक्षिष्यन्त इत्याह—“नरक्लृप्त” इत्यादि॥ २३८४॥
तमेवाभेदं दर्शयति—“तद्यथे”त्यादि।
तद्यथा पौरुषेयस्य शङ्क्यते विपरीतता।
नरैरुत्प्रेक्षितस्यापि सा शङ्क्यैव न किं भवेत्॥ २३८५॥
अपि नाम सङ्कीर्णमर्थं जानीयामिति सङ्करहेतुः पुरुषोऽपाकीर्णे यथा पुरुषैः स्वयं प्रयुक्ताः शब्दाः सङ्कीर्यन्ते (?) तथा तैरुपकल्पितार्था अपीति कोऽत्र विशेषः।“से”ति। विपरीतता। “शङ्क्ये”ति। शङ्कनीया॥ २३८५॥
पूर्वमप्रामाण्याद्वेदस्य शिष्याचार्यपरम्पराकल्पना व्यर्थेति प्रतिपादितम्, इदानीं भवतु नाम नित्यसम्बन्धद्वारेण प्रामाण्यम्, उभयथा शिष्याचार्यपरम्परोपकल्पनाव्यर्थेत्युपदर्शयति—“माने स्थितेऽपी”त्यादि।
माने स्थितेऽपि वेदेऽतः शिष्याचार्यपरम्परा।
अनादिः कल्पिताऽप्येषा सञ्जाताऽन्धपरम्परा॥ २३८६॥
यदुक्तम्—“नरैरुत्प्रेक्षितस्यापि सा शङ्कैव न किं भवेत्” इति, अत्र परोऽसम्भवमाशङ्काया दर्शयति—“नन्वि”त्यादि।
नन्वारेकादिनिर्मुक्ता स्वर्गादौ जायते मतिः।
अग्निहोत्रादिवचसो निष्कम्पाध्यक्षबुद्धिवत्॥ २३८७॥
नावलम्बेत तां कुर्वन्कथं वेदः प्रमाणताम्।
न ह्यतो वचनादर्थं सन्दिग्धं वेत्ति कश्चन॥ २३८८॥
आरेकः—संशयः। आदिशब्देन विपर्यासो गृह्यते। यथोक्तं भाष्ये शाबरे—न च स्वर्गकामो यजेतेत्यतो वचनात्सन्दिग्धमवगम्यन्ते—भवति वा स्वर्गो न वा भवतीति। न च विनिश्चितमवगम्यमानमिदं मिथ्या स्यात्। यो हि जनित्वा प्रध्वंसते नैतदेवमिति स मिथ्याप्रत्ययः। न चैष देशान्तरे कालान्तरे विपर्येति। तस्मादवितथ इति। अन्यथा हि प्रत्यक्षं स्फुटत्स्फुलिङ्गप्रकरप्रसरोपरुद्धान्तरालमकृशकृशानुराशिमनुभवतोऽपि भवतः किमिति संशयदोलाविलोलं मनो न भवेत्। ततश्च न किञ्चिदपि ते प्रमाणं स्यादिति परस्याभिप्रायः। प्रयोगः—यः संशयविपर्यासरहितः प्रत्ययः स प्रेक्षावतां प्रमाणव्यवहारविषयः, यथा—वह्नावभ्रान्तचेतसो दाहपाकाद्यर्थिनस्तन्निश्चयहेतुः प्रत्ययः, संशयविपर्यासरहितश्चाग्निहोत्रादिवाक्योद्भवः प्रत्यय इति स्वभावहेतुः। “नावलम्बेते”ति। प्रमाणतामित्यनेन सम्बन्धः।“तां कुर्व”न्निति। मतिम्॥ २३८७॥ २३८८॥
“नैव”मित्यादिना प्रतिविधत्ते।
नैवं संशयसञ्जातेर्विपरीतान्यवाक्यवत्।
प्रेक्षावन्तो हि नैतेषां भेदं पश्यन्ति कञ्चन॥ २३८९॥
नातीन्द्रिये हि युज्येते सदसत्ताविनिश्चयौ।
निश्चयो वेदवाक्याच्चेदन्यादृग्न किमन्यतः॥ २३९०॥
यदि तावत्प्रेक्षावतां संशयादिरहितः प्रत्ययो वेदवाक्याद्भवतीति हेत्वर्थस्तदा हेतोरसिद्धता। तथाहि प्रेक्षावतामग्निहोत्रात्स्वर्गो न भवतीत्यतो विपरीतान्यवाक्यादिवाग्निहोत्रात्स्वर्गो भवतीत्यतोऽपि संशयः समान एव, अतीन्द्रियेऽर्थे सदसत्तानिश्चयकारणाभावादर्थसंवादस्योभयत्राप्यनुपलम्भात्। “विपरीतान्यवाक्यव”दिति। सप्तम्यन्ताद्वतिः। अथापि स्याद्वेदवाक्यादेव निश्चयो भवति तत्किमन्येन कारणेन पर्येषितेनेत्यत आह—“अन्यादृगि”त्यादि। वेदार्थविपरीतार्थाध्यवसायी निश्चयः। “अन्यत” इति। पौरुषेयात्। किं न भवति—भवत्येवेति यावत्। ततश्च साऽपि प्रमाणं स्यादुभयोरपि तदानीं बाधाऽनुपलम्भेनाविशेषात्॥ २३८९॥ २३९०॥
अथ प्रेक्षावतां श्रोत्रियाणामकम्प्यो जायते प्रत्यय इत्यतो नासिद्धता हेतोरिति चेत्, जायतां तथापि यदि नामासिद्धता न भवेत्, अनैकान्तिकता तु दुर्वारेति दर्शयति—“श्रोत्रियाणा”मित्यादि।
श्रोत्रियाणां तु निष्कम्पा बुद्धिरेषोपजायते।
श्रद्धाविवशबुद्धीनां साऽन्येषामन्यतः समा॥ २३९१॥
तथाहि सौगतादीनां धीरकम्पोपजायते।
अपायादुःखसम्भूतिर्यागात्प्राणिवधान्वितात्॥ २३९२॥
अस्याश्च न धियः काचिद्बाधा सम्प्रति दृश्यते।
क्वचित्कदाचिच्छङ्क्या चेद्वेदवाक्येऽपि सा समा॥ २३९३॥
“से”ति। अकम्पा बुद्धिः। “अन्येषा”मिति। बौद्धादीनाम्। “अन्यत” इति यागात्प्राणिवधाश्रितापायदुःखसम्भूतिरित्यतो वाक्यात्। एतदेव दर्शयति—“तथा ही”त्यादि। सुबोधम्॥ २३९१॥ २३९२॥ २३९३॥
भूयोऽप्यनैकान्तिकतामपौरुषेयत्वस्य दर्शयति—“नरेच्छे”त्यादि।
नरेच्छाधीनसङ्केतनिरपेक्षो यदि स्वयम्।
वेदः प्रकाशयेत्स्वार्थं प्रमाणं युज्यते तदा॥ २३९४॥
तदा हि मोहमानादिदोषोपप्लुतबुद्धिभिः।
अन्यथाऽऽख्यायमानो हि(पि?)निजमर्थं न मुञ्चति॥ २३९५॥
यस्मात्तद्विषयामेव धियमुत्पादयत्यरम्।
न त्विष्टं पुरुषैरर्थमपरं द्योतयत्ययम्॥ २३९६॥
नरेच्छायास्त्वपेक्षायां पौरुषेयान्न भिद्यते।
द्योतनं हि तदायत्तं विपर्यस्ताऽपि सा भवेत्॥ २३९७॥
इच्छायाः स्वातन्त्र्यात्तदधीनसङ्केतसापेक्षस्य वेदस्य स्वार्थप्रकाशने नेष्टार्थप्रकाशनं स्यान्नियमाभावात्, यदा तु तन्निरपेक्षो वेदोऽर्थ बोधयेत्तदा प्रमाणं युज्येत, पुरुषव्याख्यामनादृत्य क्षिप्रतरं स्वार्थप्रतीतिजननात्, अन्यथा व्याख्यायमानस्यापि चक्षुरादिवत्प्रकृत्यैव स्वार्थप्रकाशनापरित्यागादिति समुदायार्थः। “आख्यायमान” इति। व्याख्यायमानः। “अर”मिति। क्षिप्रम्। झगितीति यावत्। “विपर्यस्ताऽपि से”ति। नरेच्छा॥ २३९४॥ २३९५॥ २३९६॥ २३९७॥
भवतु नाम स्वाभाविकोऽर्थसम्बन्धोऽपौरुषेयत्वेन वेदस्य, तथापि नेष्टसिद्धिरित्यनैकान्तिकतामेव समर्थायमान आह—“अपि चे”त्यादि।
अपिचापौरुषेयस्य यथा प्राकृतमिष्यते।
सत्यार्थत्वमसत्यत्वमेवमाशङ्क्यते न किम्॥ २३९८॥
स्वतः सत्यार्थबोधस्य हेतुत्वात्सत्यताऽस्य हि।
एवं मिथ्यात्वबोधेऽपि हेतुत्वं शङ्क्यते स्वतः॥ २३९९॥
प्रकृतौ भवं प्राकृतम्—स्वाभाविकमित्यर्थः॥ २३९८॥ २३९९॥
प्रमाणभूतपुरुषकृतत्वमेव प्रामाण्यकारणमास्थीयतां वेदस्य किं जाड्यसंसूचकेनाकृतकत्वेनेति दर्शयन्नाह—“किं चे”त्यादि।
किञ्च वेदप्रमाणत्वे निर्बन्धो यदि वो ध्रुवम्।
निर्दोषकर्तृकत्वादौ तदा यत्नो विधीयताम्॥ २४००॥
निर्दोषेण हि कर्त्राऽयं कृतोऽदोषैः प्रकाशकैः।
द्योतमानश्च लोकेऽस्मिन्भूतार्थज्ञानसाधनः॥ २४०१॥
निर्दोषकर्तृकत्वादावित्यादिशब्देन व्याख्यातृत्वं गृह्यते॥ २४००॥ २४०१॥
अथ निर्दोषैः कृतव्याख्यातस्यापि कथं प्रामाण्यं सिद्ध्यतीत्याह—“प्रज्ञाकृपादियुक्ताना”मित्यादि।
प्रज्ञाकृपादियुक्तानां तथाहि सुविनिश्चिताः।
पौरुषेय्योऽपि सद्वाचो यथार्थज्ञानहेतवः॥ २४०२॥
यथोक्तं शबरस्वामिना— यत्तु लौकिकं वचनं तच्चेत्प्रत्यायितात्पुरुषादिन्द्रियविषयं वाऽवितथमेव तदिति। “सद्वाच” इति। शोभनाः॥ २४०२॥
पुनरप्यपौरुषेयत्वस्यानैकान्तिकतां प्रतिपादयन्नाह—“न नराकृत”मित्यादि।
न नराकृतमित्येव यथार्थज्ञानकारि तु।
दृष्टा हि दाववह्न्यादेर्मिथ्याज्ञानेऽपि हेतुता॥ २४०३॥
नहि पुरुषदोषोपधानादेवार्थेषु ज्ञानविभ्रमस्तद्रहितानामपि दाववह्न्यादीनां नीलोत्पलादिषु वितथज्ञानजननात्। दावो वनगतो वह्निः। स पुनर्यः स्वयमेव वेण्वादीनां सङ्घर्षसमुद्भूतः स इह व्यभिचारविषयत्वेन द्रष्टव्यः। यस्त्वरणिनिर्मथनादि पुरुषैर्निवृत्तं तत्रापौरुषेयत्वासम्भवात्ततो न हेतोर्व्यभिचार इति भावः। आदिशब्देन मरीच्यादिपरिग्रहः॥ २४०३॥
तामेव मिथ्याज्ञानहेतुतां दर्शयति—“रक्त”मित्यादि।
रक्तं नीलसरोजं हि वह्न्यालोके सतीष्यते।
वह्न्यादिः कृतकत्वाच्चेन्न हेतुरुपपद्यते॥ २४०४॥
अथापि स्यान्नापौरुषेयत्वमेव केवलमस्माभिर्हेतुत्वेन वर्णितम्। किं तर्हि ?। अकृतकत्वे सतीति विशेषणम्। यद्वा—पौरुषेयग्रहणमकृतकोपलक्षणमतो न दाववह्निना कृतकेन व्यभिचार इति मन्यमानस्य परस्योत्तरमाशङ्कयन्नाह—“वह्न्यादे”रित्यादि। तद्धेतुः—मिथ्याज्ञानहेतुः॥ २४०४॥
“किं वैकृतकते”त्यादिना परिहरति।
किं वैकृतकताऽर्थानां मिथ्याज्ञाननिबन्धनम्।
एवं हि नैव धूमोऽग्नेर्यथावद्द्योतकं भवेत्॥ २४०५॥
तद्विशेषणं भवति यद्विपक्षाद्धेतुं व्यवच्छिनत्ति, अन्यथा हि येन केनचिद्विशेषणेन हेतौ यद्यैकान्तिकता लभ्येत तदा न कश्चिदनैकान्तिको हेतुः स्यात्, इच्छाप्रतिबद्धत्वेन सर्वत्र विशेषणस्य सौकर्यात्। नचाकृतकत्वं विशेषणं वेदस्य मिथ्याज्ञानहेतुतां निवर्त्तयति। तथाहि—यदि कृतकता मिथ्याज्ञानहेतुत्वेन सिद्धा स्यात्तदा सा निवर्त्तमाना तामपि निवर्त्तयेत्। कदाचित्परो ब्रूयात्सिद्धैवेति,आह—“एवं ही”त्यादि। यदि कृतकता मिथ्याज्ञाननिबन्धनं तदा सम्यग्ज्ञानस्याकृतकता हेतुरिति प्राप्तः। सम्यग् मिथ्याज्ञानयोः परस्परविरुद्धयोरेककारणानुपपत्तेः, नहि वह्नेरुष्णस्पर्शहोतोः शीतहेतुता युक्ता। ततश्च कृतकत्वाद्धूमो वह्नौ यथावत्प्रतीतिहेतुर्न स्यात् २४०५
अथापि स्यान्नैवमधारितं मिथ्याज्ञानस्यैव कृतकता हेतुर्नान्यस्येति। किं तर्हि ?। मिथ्याज्ञाने कृतकतैव निबन्धनं नान्यदित्यन्यहेतुकताऽस्य निषिध्यते। न तु सम्यक् ज्ञानस्य कृतकहेतुकत्वनिषेधः। नच सर्वस्य कृतकस्याविशेषेण मिथ्याज्ञानहेतुत्वमिष्टम्। येन परस्परविरुद्धत्वात्सम्यङ्मिथ्याज्ञानयोः सामर्थ्यात्कृतकविपरीतस्य सम्यग्ज्ञानहेतुत्वं स्यात्। किन्तु कृतकस्य बहुभिन्नत्वात्किञ्चिदेव मिथ्याज्ञानकारणं यथाकामलादि, किञ्चित्सम्यग्ज्ञानकारणं यथाऽनुपहेतिन्द्रियादिकलापः। अन्यथा हि शीतस्पर्शं प्रति हिमादेः कृतकस्य कस्यचित्कारणत्वोपलम्भात्सामर्थ्याच्छीतविरुद्धोष्णस्पर्शं प्रत्यकृतको हेतुः कल्पनीयः स्यात्। नचैवम्। तस्मात्कृतकस्य सम्यग्ज्ञानं प्रति हेतुत्वानिषेधाद्भवत्येव धूमः सम्यग्ज्ञाननिबन्धनमित्येतदाशङ्क्याह—“एवं चापौरुषेयोऽपी”त्यादि।
एवञ्चापौरुषेयोऽपि (सम्यग्ज्ञाने)निबन्धनम्।
वेदः सन्तिष्ठते नैव तद्वृथैवास्य कल्पना॥ २४०६॥
यदि हि सम्यङ्मिथ्यात्वयोरुभयोरपि कृतकता निबन्धनं सा निवर्त्तमाना मिथ्यासम्यग्ज्ञाने निवर्त्ततीति न वेदस्याकृतकत्वेन सम्यग्ज्ञानहेतुत्वमवतिष्ठेत, तस्य तत्रानिबन्धनत्वात्, ततश्च व्यर्थं विशेषणमित्यनैकान्तिकतैव हेतोः। अथापि स्यान्नराकृततयेत्यनेन नान्वयिव्यतिरेकी यथोक्तो हेतुः संसूचितः, किं तर्हि ?, व्यतिरेकी प्रयोग एवायम्। यथाहि हेतुविपरीतेन कृतकत्वेन साध्यविपरीतं मिथ्यात्वं व्याप्तम्, पौरुषेयेष्वेव मिथ्यात्वस्य दर्शनात्, ततश्च यत्र मिथ्यात्वव्यापकविरुद्धमकृतकत्वं सन्निधीयते, तत्र विरोधेनाकृतकत्वस्य मिथ्यात्वव्यापकस्य निवृत्तौ व्याप्यस्यापि मिथ्यात्वस्य सामर्थ्यान्निवृत्तिसिद्धिरित्यकृतकं सत्यार्थमिति सामर्थ्याद्भवेद्विनाप्यन्वयेनेति व्यर्थमन्वयप्रदर्शनम्। सत्यमेवमेतत्। यदि विपर्ययस्य यो व्याप्यव्यापकभावः सिद्ध्येत्। स तु न सिद्ध। तथाहि साध्यविपक्षे हेतौ यदि बाधकं प्रमाणं स्यात्, तदा भवेद्विपक्षयोर्व्याप्तिः, तच्च नास्ति। नचानुपलम्भमात्रादभावसिद्धिर्व्यभिचारात्। स्यादेतदकृतकविरुद्धे कृतके मिथ्यात्वस्य दर्शनात्सामर्थ्यादकृतके तस्याभावः सिद्ध्यतीति। तदेतदसम्यक्। न ह्येकत्र दृष्ट्याऽन्यत्राभावनिश्चयः शक्यते कर्तुम्, एकस्यापि हि विरुद्धव्यापकदर्शनात्। तथाह्येकमनित्यत्वं विरुद्धौ प्रयत्नानन्तरीयकेतरौ व्याप्नुवद्दृश्यते। नह्यनीत्यत्वं प्रयत्नानन्तरीयके दृष्टमित्यप्रयत्नानन्तरीयके तस्याभावः स्यात्। किञ्च—तत्र दृष्टमित्येतावन्मात्रेण यदि मिथ्यात्वं कृतकत्वेन व्याप्येत सत्यत्वमपि पौरुषेये क्वचिद्दृष्टमिति तदपि तेन व्याप्येत, ततश्च कृतकत्वनिवृत्तौ मिथ्यात्ववत्सत्यत्वस्यापि निवृत्तेर्नापौरुषेयत्वात्सत्यार्थत्वं सिद्ध्येदित्यलम् ॥ २४०६॥
एवं तावद्यन्मिथ्यात्वहेतुदोषसंसर्गरहितमित्यस्य हेतोर्नराकृततयेत्यनेनाक्षिप्तस्याकृतकस्य वा तदुपलक्षितस्यापौरुषेयत्वस्य वा स्वशब्देनोपात्तस्य विस्तरेणानैकान्तिकतां प्रतिपाद्य प्र(अ?)सिद्धतां प्रतिपिपादयिषुरुपसंहरन्नाह—“तत्तश्चे”त्यादि।
ततश्चापौरुषेयत्वव्यक्तिनित्यत्वसाधनम्।
नित्यशब्दार्थयोगश्च व्यर्थ ए(वोपवर्णि)तः॥ २४०७॥
तस्मिन् सत्यपि नैवास्य यथार्थज्ञानहेतुता।
उपगम्यत इत्युक्तं व्यासतः समनन्तरम्॥ २४०८॥
तेनैवैतत्प्रतिक्षेपे नास्माकं गुरु(रादरः)।
(अ)प्रस्तुतोपयोगस्य को हि कुर्यान्निषेधनम्॥ २४०९॥
अपौरुषेयत्वं च व्यक्तिश्च नित्यत्वं चेत्यपौरुषेयत्वव्यक्तिनित्यत्वानि, तेषां साधनमिति समासः। साध्यतेऽनेनेति साधनं हेतुः। तच्च नानाविधं पूर्वमुक्तम्। “तस्मि”न्निति। अपौरुषेयत्वादौ। “अस्ये”ति। वेदस्य। “उपगम्यत” इति। उपपद्यते।“व्यासत” इति। विस्तरेण। “एतत्प्रतिक्षेप” इति। अपौरुषेयत्वादिदूषणे। सत्यपि तस्मिन्नाभिमतार्थासिद्धिरिति प्रतिपादितत्वात्क्रियमाणे तद्दूषणे प्रकृतानुपयोगित्वं स्यात्॥ २४०७॥ २४०८॥ २४०९॥
एतदेव दर्शयति—“यथार्थे”त्यादि।
यथार्थज्ञानहेतुत्वं श्रुतेः प्रकृतमत्र हि।
न नराकरणेऽप्येतत्सिद्ध्यतीति च साधितम्॥ २४१०॥
“आहोपुरुषिका ये”ति।
आ(होपुरु)षिका याऽत्र सङ्क्षिप्तं किञ्चिदुच्यते।
विसरन्ति यथाऽनेन गतयः सूक्ष्मधीदृशाम्॥ २४११॥
अहोपुरुष इति यस्याभिमानोऽस्ति सोऽहोपुरुषस्तद्भाव आहोपुरुषिका। मनोज्ञादित्वाद्वुञ्। अभिमान एवोच्यते। धीरेव दृक्, साधर्म्याद्दृक्सा, सूक्ष्मा धीदृक् येषां ते तथोक्ताः॥ २४११॥
यदुक्तं—च पञ्चभिरगम्यत्वादित्यादि, तत्राह—“प्रमाणाना”मित्यादि।
प्रमाणानां निवृत्त्याऽपि न प्रमेयं निवर्त्तते।
यस्माद्व्यापकहेतुत्वं तेषां तत्र न विद्यते॥ २४१२॥
अनेनासिद्धतां मौले हेतौ प्रतिपादयति। व्यापको हि स्वभावः कारणं वा निवर्त्तमानं व्याप्यं कार्यं वा निवर्त्तयति। तादात्म्यतदुत्पत्तिभ्यां तयोस्तत्र प्रतिबद्धत्वात्। तदभावेऽपि भवतः कार्यव्याप्यत्वानुपपत्तेः। नतु तेषां प्रमाणानां तत्र सर्वस्मिन्वस्तुनि व्यापकहेतुत्वे सम्भवतः। तथाहि—देशकालस्वभावा(त्) विप्रकृष्टस्य वस्तुनो विनापि प्रमाणेन सम्भवान्न तेन व्याप्तिः, नापि कारणं प्रमाणमत एव, प्रमाणस्यैव च प्रमेयकार्यत्वात्। नच कार्यं निवर्त्तमानं कारणमात्रं निवर्त्तयति व्यभिचारदर्शनात्। नचाहेत्वव्यापकयोर्निर्व(व?)र्तकत्वं युक्तमतिप्रसङ्गात्। तस्मात्प्रमाणमात्राभावो व्यभिचारी प्रमेयमात्राभावे साध्य इति स्थितम्॥ २४१२॥
तामेव व्यभिचारितां विपक्षे सम्भवोपदर्शनेन व्यक्तीकुर्वन्नाह—“तत्पञ्चभि”रित्यादि।
तत्पञ्चभिरगम्योऽपि नाभावेनै(वोऽस्या?)व गम्यते।
कर्त्ता श्रुतेरविज्ञातकर्तृकाख्यायिकादिवत्॥ २४१३॥
“तदि”ति। तस्मात्। पञ्चभिरगम्योऽपीति कर्त्ता श्रुतेरिति व्यवहितेन सम्बन्धः। अविज्ञानः कर्त्ता येषामाख्यायिकादीनां ते तथोक्ताः। पश्चादाख्यायिकादिशब्देन कर्मधारयस्ततः षष्ठ्यन्ताद्वतिः कार्यः॥ २४१३॥
“अथापी”त्यादिना हेतोर्व्यभिचारविषयासिद्धिमाशङ्कते।
अथापि सार्थकत्वेन विभक्तार्थतयाऽपि वा।
तेषां कर्त्ताऽनुमीयेत, श्रुतेरपि तथा न किम्॥ २४१४॥
“तेषा”मिति। आख्यायिकादीनाम्। “श्रुतेरपि तथा न कि”मिति। वेदस्यापितथैव सार्थकत्वविभक्तार्थत्वाभ्यां किं न कर्त्ताऽनुमीयते विशेषाभावात्। ततश्च प्रमाणाभावोऽसिद्धः॥ २४१४॥
किञ्च—सर्वसत्त्वप्रमाणनिवृत्ति(:स्वस्य प्रमाणनिवृत्ति)र्वेति पक्षद्वयम्। तत्राद्ये पक्षे सन्दिग्धासिद्धता हेतोः, द्वितीयेऽप्यनैकान्तिकतेति दर्शयन्नाह—“सर्वसत्त्वे”त्यादि।
सर्वसत्त्वैरगम्यत्वं सन्दिग्धं तु कदाचन।
केनचित्कोऽपि मानेन वेत्तीत्यपि हि शङ्क्यते॥ २४१५॥
येन (यन्न ?) त्रिभुवनान्तस्थाः सर्वे प्राणभृतः स्फुटम्।
सर्वात्मनाऽपरिच्छिन्नाः सुनिश्चेतुमिमं क्षमाः॥ २४१६॥
स्वयं त्वगम्यमानत्वं व्यभिचारि तथाहि ते।
पुरुषान्तरसङ्कल्पैस्तदभावो न निश्चितः॥ २४१७॥
“इम”मिति। सर्वसत्त्वैर्न वेदस्य कर्ता ज्ञायत इत्येवम्। “तथाही”त्यादिना पुरुषान्तरभाविमिश्छात्रादिसङ्कल्पैर्व्यभिचारितामेव समर्थयते॥ २४१५॥ २४१६॥ ॥ २४१७॥
यदुक्तं कर्त्ता तावददृष्ट इति, अस्यासिद्धतां प्रतिपादयन्नाह—“अध्येतारश्चे”च्यादि।
अध्येतारश्च वेदानां कर्त्तारोऽध्यक्षतो मताः।
नहि ते व्यञ्जका युक्ता नित्यानां व्यक्त्यसम्भवात्॥ २४१८॥
यदि यः कश्चित्कर्त्ता न दृष्ट इत्यभ्युपगम्यते तदाऽध्येतॄणां दृष्टत्वात्स्फुटतरमवतरत्यसिद्धता। अथादिकर्त्ता न दृष्ट इतीष्टं तदापि सन्दिग्धासिद्धतैव। कदाचित्केनचिद्दृष्टोऽभूदिति सम्भाव्यमानत्वात्। अथापि स्यादध्येतारो न कर्त्तारः सिद्धाः, किं तर्हि ?, व्यक्तार इत्याह—“न ही”त्यादि। “त” इति। अध्येतारः। यथा च नित्यानां व्यक्तेरसम्भवस्तथा पश्चात्प्रतिपादयिष्यति। अनित्यस्यापि घटादेः कथं व्यञ्जक इति चेत्। सत्यम्। तत्रापि न कश्चिद्व्यञ्जकः सम्भवति। कथं तर्हि दीपादयो व्यञ्जकत्वेने प्रतीता इति चेत्। न। तत्र हि विज्ञानजनने योग्यं घटं जनयन्प्रदीपादिर्जनक एव। विशिष्टजनकस्वभावख्यापनाय लोके व्यञ्जक इति प्रतीयते। नतु तथा वेदस्य कश्चिद्व्यञ्जकः सम्भवति, अव्यक्तानुत्पन्नपूर्वापरस्वभावत्वात्तस्य ॥ २४१८॥
भवतु नाम नित्यस्य व्यञ्जकस्तथाप्यसौ कारकान्न विशिष्यत इति दर्शयन्नाह—“उपलभ्ये”त्यादि।
उपलभ्यस्वभावानां तद्व्यापारे समुद्भवः।
तेषां प्रागपि सद्भावे उपलब्धिः प्रसज्यते॥ २४१९॥
नह्यकिञ्चित्करो व्यञ्जको युक्तोऽतिप्रसङ्गात्। किञ्चित्करत्वे जनकत्वमेवास्याभ्युपगतं स्यात्। जन्यमानस्य विशेषस्य स्वभावान्तरोत्पत्तिलक्षणत्वात्। “उपलभ्यस्वभावाना”मिति। वेदनाम्। अथापि स्यात्प्रागप्युपलभ्यस्वभावाः वेदाः स्थिता एव, तत्कथं तद्व्यापारेण सम्भवस्तेषामित्याह—“तेषा”मित्यादि। तेषामिति। उपलभ्यस्वभावानां वेदानाम्॥ २४१९॥
“तत्कार्ये”त्यादिना प्रमाणयति।
तत्कार्यव्यवहारादियोग्यो वेदोऽवसीयते।
तद्व्यापारेऽस्य सद्भावाद्बीजादेरङ्कुरादिवत्॥ २४२०॥
प्रयोगः—यो यद्व्यापारे सति भवति स तत्कार्यव्यवहारादियोग्यः, यथा बीजादिव्यापारे सति भवन्नङ्कुरादिस्तत्कार्यः, अध्येतृव्यापारे सति भवत्युपलभ्यस्वभावो वेद इति स्वभावहेतुः। हानोपादानलक्षणमनुष्ठानं व्यवहारः। आदिशब्देन ज्ञानाभिधानपरिग्रहः। नासिद्धो हेतुः, प्रागप्युपलब्धिप्रसङ्गात्। नाप्यनैकान्तिकः,कार्यव्यवहारस्य निमित्तान्तराभावात्॥ २४२०॥
यदुक्तमदृष्टपूर्वसम्बन्ध इत्यादि, तत्राह—“व्यञ्चने”त्यादि।
व्यञ्जनक्रमरूपत्वान्नाटकाख्यायिकादिवत्।
वेदानां पौरुषेयत्वमनुमाऽप्यवगच्छति॥ २४२१॥
प्रयोगः—यद्व्यञ्जनक्रमरूपं तत्पौरुषेयम्, यथा नाटकाख्यायिकादि, व्यञ्जनक्रमरूपश्च वेद इति स्वभावहेतुः। नासिद्धो हेतुः, क्रमेणैव वर्णानां प्रतिभासनात् ॥ २४२१॥
नाप्यनैकान्तिक इति दर्शयन्नाह—“अन्यथे”त्यादि।
अन्यथा क्रमरूपत्वं नित्यत्वाद्व्याप्तितश्च न।
नाभिव्यक्तिक्रमश्चास्ति नित्यत्वे व्यक्त्ययोगतः॥ २४२२॥
“अन्यथे”ति। यदि पौरुषेयत्वं न स्यादपि तु नित्यत्वं विभूत्वं च वर्ण्येत तदा क्रमो न स्यात्। तथाहि—न तावद्बीजाङ्कुरलतादिवत्कालकृतः क्रमो युज्यते, नित्यत्वेन सर्वेषां समकालत्वात्। नापि पिपीलिकादिपङ्क्तिवद्देशकृतः, व्यापित्वेनसर्वेषामेकनभोदेशावस्थानात्। नाप्यभिव्यक्तिकृतः, अनाधेयातिशयत्वेन नित्यस्य व्यक्तेरयोगात्॥ २४२२॥
यदुक्तमागमोऽपि न तत्सिद्ध्यै कृतकाकृतकोऽस्तीत्यादि, अत्राह—“आगमस्ये”त्यादि।
आगमस्योपमायाश्च सार्थापत्तेः प्रमाणता।
निषिद्धा प्राक्ततस्तासामुपन्यासो न युज्यते॥ २४२३॥
“निषिद्धे”ति। प्रमाणपरीक्षायाम्। “तासा”मिति। आगमोपमानार्थापत्तीनाम् ॥ २४२३॥
यदुक्तमप्रामाण्यनिवृत्त्यर्थेत्यादि। अत्राह—“अप्रामाण्ये”त्यादि।
अप्रामाण्यनिवृत्त्यर्था वेदस्यापौरुषेयता।
येष्टा साऽपिच वस्तुत्वात्साधनीयैव साधनैः॥ २४२४॥
कथं वस्तुत्वं तस्या इत्याह—“श्रुते”रित्यादि।
श्रुतेः स्वतन्त्रतैषादि(तेष्टा हि ?) पुंव्यापारानपेक्षणात्।
सा च वस्तुगतो धर्मो वस्त्वात्मा वा तथाविधः॥ २४२५॥
अपौरुषेयतेत्यनेन श्रुतेः स्वतन्त्रताऽभिधीयते। पुरुषव्यापारनिरपेक्षा तत एव श्रुतिः प्रमाणमित्यभिसम्बन्धेन प्रयोगात्। अन्यथा हि कोऽतिशयः पौरुषेयत्वनिवृत्तिमात्रे प्रतिपादिते प्रतिपादितः स्यात्। सा चापौरुषेयता वस्तुधर्मो येषां धर्मधर्मिभेदः पारमार्थिकः। परमार्थतस्तु स्वभाव एव वस्तुनो भेदान्तरप्रतिक्षेपजिज्ञासायां तथोच्यत इति दर्शयति—“वस्त्वात्मा वे”ति। “तथाविध” इति। स्वतन्त्रः॥ २४२५॥
यदुक्तम्—भावपक्षप्रसिद्ध्यर्थमित्यादि, तत्राह—“भावपक्षे”त्यादि।
भावपक्षप्रसिद्ध्यर्थमुच्यते यच्च साधनम्।
निराकृतेऽपि ते तस्मिन्नाभावः सिद्ध्यति स्वयम्॥ २४२६॥
तद्भावसाधनेऽप्यस्ते न स्यात्तद्भावनिश्चयः।
तद्भावविनिवृत्तेस्तु तन्मात्रान्नास्ति निश्चयः॥ २४२७॥
निवृत्तावपि मानानामर्थाभावाप्रसिद्धितः।
तेनैतावद्भवेन्नास्ति पक्षसिद्धिर्द्वयोरपि॥ २४२८॥
यस्य हि वस्तुनो निश्चयाय साधनमुपादीयते तस्मिन्निराकृते तत्र वस्तुनि ततो निश्चयो न भवतीत्येतावन्मात्रं स्यात्, न वस्तुनोऽपि निवृत्तिः, यतः प्रमाणनिवृत्तावपि प्रमेयस्य न निवृत्तिरिति प्रतिपादितम्। तस्य हेतुत्वव्यापकत्वविकल्पात्। “अस्त” इति। क्षिप्ते। एतावत्तु वक्तुं युक्तं द्वयोरपि पक्षसिद्धिर्नास्तीति। इतिशब्दोऽध्याहार्यः। स च नास्तीत्यस्यानन्तरं द्रष्टव्यः॥ २४२६॥ २४२७॥ २४२८॥
एतदेवोदाहरणेन द्रढयन्नाह—“नामूर्त्तत्वा”दिति।
नामूर्त्तत्वाद्यथा शब्दः सुखादौ व्यभिचारतः।
इत्युक्तेऽपि न शब्दस्य विनाशित्वं प्रसिद्ध्यति॥ २४२९॥
यथाहि नित्यवादिना शब्दस्य वस्तुभूतं नित्यत्वं सिसाधयिषता नित्यः शब्दो अमूर्त्तत्वादाकाशवदिति प्रयोगे कृते, प्रतिवादिना नामूर्त्तत्वान्नित्यः शब्दो युक्तःसुखादिभिरनैकान्तादित्येवं वस्तुभूतनित्यत्वे साधने निराकृतेऽपि नहि शब्दस्यानित्यत्वं सिद्ध्यति, तथेदमपीति शेषः। यथेति भिन्नक्रमः। उक्तेऽपीत्यस्यानन्तरन्द्रष्टव्यः। शब्द इत्यस्यानन्तरं नित्यः सिद्ध्यतीत्येतदध्याहार्यम्। एकदेशप्रयोगो वा भीमादिवद्द्रष्टव्यः॥ २४२९॥
यत्तु पूर्वापरयोरित्यादावाह—“तत्पूर्वापरयो”रित्यादि।
तत्पूर्वापरयोः कोट्योर्यदुक्तं साधनं परैः।
तन्निराकरणेऽप्येतेऽकृतार्था वेदवादिनः॥ २४३०॥
“तदिति”। तस्मात्। “अकृतार्था” इति। स्वपक्षासिद्धेः॥ २४३०॥
यदुक्तम्—अकृतत्वाविनाशाभ्यां नित्यत्वं हि विवक्षितमित्यादि। तत्राह—“अकृतत्वे”त्यादि।
अकृतत्वाविनाशाभ्यां नित्यत्वं चेद्विवक्षितम्।
निषेधमात्ररूपाभ्यां निरुपाख्येऽपि तत्समम्॥ २४३१॥
अतो गगनराजीव नित्यताऽस्ति न वास्तवी।
यथा तथैव वेदेऽपि तत्प्रामाण्यं न सिद्ध्यति॥ २४३२॥
अत्र द्वयीकल्पना, किं प्रसज्यप्रतिषेधरूपाभ्यामकृतकत्वाविनाशाभ्यां नित्यत्वमिष्टम्, पर्युदासरूपाभ्यां वा। तत्राद्ये पक्षे गगनपद्मादिनाऽनैकान्ताद्वेदस्य न वस्तुभूतनित्यत्वसिद्धिः। तथाह्याकाशकुशेशयस्य कृतकत्वविनाशित्वनिषेधेऽपि न वस्तुभूतनित्यत्वसिद्धिः। तथा वेदेऽपीत्यनैकान्तिकता हेतोः। ततश्चाकाशकुसुमवदेव प्रामाण्यमपि न स्यात्॥ २४३१॥ २४३२॥
असिद्धतामपि दर्शयन्नाह—“कृतकत्वे”त्यादि।
कृतकत्वविनाशित्वनिषेधोऽपि न सिद्ध्यति।
साधनेऽस्त इति प्रोक्तं तन्नित्यत्वं न सिद्ध्यति॥ २४३३॥
“अस्त” इति दूषिते। “त”दिति तस्मात्॥ २४३३॥
अथ द्वितीयः पक्षः, न तर्हि वक्तव्यमेतत्—तौ चाभावात्मकत्वेन नापेक्षेते स्वसाधनमिति। तद्दर्शयति—“पर्युदासात्मकाभ्या”मित्यादि।
पर्युदासात्मकाभ्यां चेन्नाभ्यां नित्यत्वमिष्यते।
तौ तद्भावात्मकत्वेन व्यपेक्षेते स्वसाधनम्॥ २४३४॥
नित्यत्वं वस्तुरूपं यत्तदसाधयतां न तत्।
स्वयं भवति तत्सिद्धिः पूर्वपक्षद्वये हते॥ २४३५॥
सुबोधम्॥ २४३४॥ २४३५॥
यदुक्तं वेदवाक्यार्थमिथ्यात्वं यो वदत्यनुमानत इत्यादि। तत्राह—“विनिश्चितत्रिरूप”मित्यादि।
विनिश्चितत्रिरूपं च साधनं यत्प्रकाशितम्।
निषेधः शक्यते तस्य त्वत्पित्राऽपि न जातुचित्॥ २४३६॥
“प्रकाशित”मिति। अनुमानपरीक्षायां स्वभावकार्यानुपलम्भलिङ्गजम्। तन्न शक्यते प्रतिषेद्धुम्, वस्तुप्रतिबद्धत्वादस्य। नच वस्तुनः स्वभावान्यथात्वं केनचित्क्रियेत, स्वभावान्तरोत्पत्तिलक्षणत्वात्तस्य। नच स्वभावान्तरकरणे तस्य किञ्चित्कृतं भवत्यतिप्रसङ्गात्। तस्माद्यत्प्रमाणसिद्धवस्तु न तस्य केनचिद्बाधा। अन्यथा हि प्रमाणलक्षणोपपन्नस्य बाधायां तल्लक्षणमेव दूषितं स्यादिति सर्वत्रानाश्वासान्न क्वचित्तत्प्रमाणं स्यात्॥ २४३६॥
एतदेव दर्शयति—“नहि शीर्यत” इत्यादि।
न हि शीर्यत इत्युक्तो वेदे यः पुरुषोऽस्य च।
बाधाऽनुमानतः स्पष्टा नैरात्म्ये प्रतिपादिता॥ २४३७॥
जात्याद्यन्यदपि प्रोक्तं बाधितं तत्र साधितम्।
ज्ञापितप्रतिबन्धा च साऽनुमा प्राक्प्रबाधिका॥ २४३८॥
तथोक्तं वेदे स एवाय मात्मेति प्रकृत्यामनन्ति—अशीर्यो नहि शीर्यत इति। पुनश्चोक्तम्— अविनाशी वा अरेऽयमात्माऽनुच्छित्तिधर्मेति। न शीर्यत इत्यशीर्यो नित्य इत्यर्थः। अरे इत्यामन्त्रणपदम्। “जात्या”दीत्यादिशब्देन गुणद्रव्यकर्मादिपरिग्रहः। तच्च जात्यादि यथा प्रमाणबाधितं तच्च षट्पदार्थपरीक्षायां साधितम्। या चात्मनो बाधिकाऽनुमा साऽपि ज्ञापितप्रतिबन्धा नैरात्म्याधिकारे ॥ २४३७॥ २४३८॥
ननु च वेदे प्र(मी)यमाणं तत्कथमत्र(नु ?)मया बाध्यते, अथ प्रमाणमपि बाध्येत। अनुमाऽपि कस्मात्तेन न बाध्यत इत्याशङ्क्याह—“तस्या” इत्यादि।
तस्या वस्तुनिबद्धायाः को बाधां मंस्यते जडः।
शब्दमात्रेण तुच्छेन तद्भाविन्याऽथवा धिया॥ २४३९॥
“तस्या” इति। अनुमायाः। शब्दस्येच्छामात्रनिबन्धनत्वान्न प्रमेये वस्तुनि प्रतिबन्धोऽस्तीति न स तत्र प्रमाणम्। अनुमा तु तादात्म्यतदुत्पत्तिप्रतिबद्धलिङ्गबलेनोत्पद्यमाना तत्र वस्तुनि प्रतिबद्धेति सैव प्रमाणमतो बाधिका। “तद्भाविन्येति”।शब्दभाविन्या॥ २४३९॥
अथाप्रतिबद्धोऽपि वस्तुनि शब्दः प्रमाणं स्यात्तदाऽतिप्रसङ्गः स्यादित्यादर्शयति —“पुंवाक्यादपी”ति।
पुंवाक्यादपि विज्ञानं यत्प्रवृत्तमतीन्द्रिये।
तस्याप्यध्यक्षतुल्यत्वं कस्मादभिमतं न वः॥ २४४०॥
अग्निहोत्रात्स्वर्गो न भवतीत्यस्यापि वाक्यस्य किं न प्रामाण्यं स्यात्, उभयत्राप्रतिबद्धत्वेनाविशेषात्॥ २४४०॥
तमेवाविशेषं दर्शन्नाह—“दृष्टान्ते”त्यादि।
दृष्टान्तनिरपेक्षत्वाद्दोषाभावोऽप्यदृष्टितः।
तस्याप्यस्त्येव बाधा चेच्छङ्क्यतेऽस्य नराश्रयात्॥ २४४१॥
यद्येवं वैदिकेऽप्येषा न शङ्का विनिवर्त्तते।
मिथ्यावबोधहेतुत्वं तस्य हि प्राकृतं भवेत्॥ २४४२॥
अथापि स्यात्—यदि नाम तदानीं दोषो नोपलभ्येत तथापि पुरुषाश्रयत्वेन सम्भाव्यत इति, एतद्वेदेऽपि समानम्, यथा हि तस्य प्राकृतं सत्यार्थत्वं तथा मिथ्यार्थत्वमपि सम्भाव्येतेति न कश्चिद्विशेषः॥ २४४१॥ २४४२॥
यदुक्तं ममाप्रमाणमित्यादि, तदेतत्पौरुषेयेऽप्यग्निहोत्रात्स्वर्गो न भवतीत्यादौ वाक्ये शक्यमेव वक्तुमित्यादर्शयति—“ममाप्रमाण”मित्यादि।
ममाप्रमाणमित्येवं शब्दोऽर्थं बोधयन्नपि।
नारोऽसौ द्वेषमात्रेण शक्यो वक्तुं न साधुना॥ २४४३॥
अग्निहोत्रात्स्वर्गो न भवतीत्ययं नारः—पौरुषेयशब्दोऽर्थं बोधयन्नपि मम मीमांसकस्याप्रमाणमित्येवं न साधुना द्वेषमात्रेण शक्यं वक्तुमिति वाक्यार्थः। अनेन(पौरुषा) पौरुषेययोरत्यन्तपरोक्षेऽर्थे तुल्यं प्रतीतिनिबन्धनत्वमाह। ततश्च तुल्ये प्रतीतिनिबन्धनत्वे यदपौरुषेयस्यैव प्रामाण्यं तद(नेतर?)स्येति निर्युक्तिकमेतत्।नच दोषाणां पुरुषाश्रयत्वात्तत्र मिथ्यात्वं शङ्क्यते नापौरुषेयेष्विति शक्यं वक्तुम्। अपौरुषेयेष्वपि मिथ्यार्थप्रत्ययहेतुत्वस्य सम्भाव्यमानत्वात्॥ २४४३॥
एनमेवार्थं दर्शयति—“इत्यत्यक्षेष्वि”ति।
इत्यत्यक्षेषु सर्वोऽपि शब्दस्तुल्यबलाबलः।
एकत्रैवानुरागोऽयं तद्वः केनेह हेतुना॥ २४४४॥
“सर्व” इति। पौरुषेयः। “एकत्रैवे”ति। अपौरुषेये॥ २४४४॥
यदुक्तं द्विषतोऽपीत्यादि, तत्राह—“अनन्तरोदित”मित्यादि।
अनन्तरोदितं न्यायं वेदाप्रामाण्यकारणम्।
प्राज्ञा जल्पन्ति तेनामी भवेयुः सत्यवादिनः॥ २४४५॥
“अनन्तरोदित”मिति। शब्दस्येच्छामात्रवृत्तित्वेन वस्तुनि प्रतिबन्धाभावादित्यादि।“प्राज्ञा” इति। सौगताः। यथो(च्चो?)क्तं भाष्यकारेण—“प्रत्यक्षस्तु वेदवचने प्रत्ययो न चानुमानं प्रत्यक्षविरोधेन प्रमाणीभवती”ति, यच्चेदमुक्तं—“चोदना हि भूतम्भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवञ्जातीयकमर्थं शक्नोत्यवगमयितुन्नान्यत्किञ्चिनेन्द्रिय”मित्येवमादि, तत्सर्वम(मे?)तेनैव प्रत्यक्षं ( स्तं? ) भवति। पौरुषेयेऽपि वाक्ये सर्वस्यैतस्य समानत्वात्॥ २४४५॥
यदुक्तं धारणाध्ययनव्याख्येत्यादि, तत्राह—“मिथ्यानुरागे”त्यादि।
मिथ्यानुरागसञ्जातवेदाध्यानजडीकृतैः।
मिथ्यात्वहेतुरज्ञात इति चित्रं न किञ्चन॥ २४४६॥
नहि मातृविवाहादौ दोषः कश्चिदपीक्ष्यते।
पारसीकादिभिर्धूर्तैस्तदाचारपरैः सदा॥ २४४७॥
मिथ्यानुरागेण सञ्जातं च तद्वेदाध्यानं चेति समस्य तेन जडीकृता इति पश्चात्तृतीयासमासः। आध्यानं चानुपूर्व्येण चिन्ता। मिथ्यानुरागेण हि विद्यमानस्यापि दोषस्यादर्शनात्। यथा पारसीकादिभिर्मातृविवाहादेरिति न किञ्चिदाश्चर्यम् ॥ २४४६॥ २४४७॥
यदुक्तं किञ्च शब्दस्य नित्यत्वमित्यादि, तत्राह—“प्रत्यक्षे”त्यादि।
प्रत्यक्षप्रत्यभिज्ञा तु प्रागेव विनिवारिता।
भ्रान्तेः सकल्पनत्वाच्च नातो नित्यत्वनिश्चयः॥ २४४८॥
कल्पनापोढमभ्रान्तमिति हि प्रत्यक्षलक्षणम्, नच प्रत्यभिज्ञानं कल्पनापोढम्, स एवायमिति शब्दाकारोल्लेखेन प्रवृत्तेः। नाप्यभ्रान्तं पूर्वदृष्टप्रत्युत्पन्नयोरैक्यानुसन्धानात्। नच यदेव पूर्वदृष्टं तदेव पश्चाद्दृश्यते, अक्रमिणः सकाशात् क्रमिज्ञानानुत्पत्तेः। कार्यं हि कुतश्चिद्भवनधर्मि, यत्कदाचिन्न भवति तत्तस्याविकलं चेत्कारणं किमिति कार्याणि परिलम्बन्ते। नचापि नित्यस्यानुपकार्यतया काचिदपेक्षा सम्भविनी। तस्मात्तद्भावीनि ज्ञानानि युगपद्भवेयुः। प्रयोगः—यद्यदाऽविकलकारणं तत्तदा भवत्येव, यथा समवहितसकलचक्षुरादिकारणकलापं चक्षुर्ज्ञानम्। अवि कलकारणानि च सर्वस्यामवस्थायां गवादिशब्दभावीनि विज्ञानानीति स्वभावहेतुः। तस्माद्भ्रान्तेः सविकल्पकत्वाच्च प्रत्यभिज्ञा न प्रत्यक्षत्वेन सिद्धेति प्रागेव स्थिरभावपरीक्षायां प्रतिपादितम्॥ २४४८॥
नचापि स्वरूपतः सर्वन्त्र प्रत्यभिज्ञानं सिद्धमित्यादर्शयन्नाह—“व्यावर्त्तमाने”त्यादि।
व्यावर्त्तमानरूपश्च भूयसा प्रत्ययो ध्वनौ।
शुकस्य व्याहृतं चेदं शारिकाया इतीक्षणात्॥ २४४९॥
सोऽयं व्यञ्जकभेदाच्चेद्वक्ष्यामो व्यक्त्यपाक्रियाम्।
अस्मादेव च ते न्यायात्सर्वमेकमिदं भवेत्॥ २४५०॥
ततो न व्यञ्जकं किञ्चिद्व्य(ङ्ग्यं किञ्चिन्न वा भवेत् )।
एकस्मिन्नविभक्ते हि व्याहता भेदकल्पना॥ २४५१॥
पौरुषेया इमे शब्दा एते चानरकर्तृकाः।
व्यवस्थैषाऽपि वो न स्यात्प्रत्यभिज्ञोपजीविनी॥ २४५२॥
यदाहि शुकसारिकादिभिर्व्याह्रियते शब्दस्तदा—इदं सारिकाया व्याहृतमिदं शुकस्येति परस्पंरभिन्नविषयाध्यवसायाद्व्यावर्त्तमानः प्रत्ययो भवतीति न सर्वत्र सिद्धा प्रत्यभिज्ञा। अथापि स्याद्व्यञ्जकभेदादयं शुकादिव्याहारे परस्परव्यावृत्तः प्रत्ययो जायत इति, एतदपि वार्त्तम्, व्यञ्जकस्य निराकरिष्यमाणत्वात्। एतदेवाह—“सोऽय”मित्यादि। “सोऽय”मिति। व्यावर्त्तमानरूपः प्रत्ययः। किञ्च—यदि सिद्धोऽपि भेदः शब्दानां व्यञ्जककृतो व्यवस्थाप्यते, न स्वतः, तदा सर्वत्रानाश्वास इत्यतिप्रसङ्गमापादयन्नाह—“अस्मादेव चे”त्यादि। “सर्व”मिति। विश्वम्। भवत्वेवमिति चेदाह—“ततो ने”त्यादि। इदं व्यञ्जकमयं व्यङ्ग्य इति भेदनिबन्धनो व्यवहारो न स्या(द)भेदात्। तथा—इमे पौरुषेया एते च शन्नो देवीरित्यादयोऽपौरुषेया इति व्यवस्था प्रत्यभिज्ञानपरायणानां भवतां नैव भवेद्विशेषाभावात्॥ २४४९॥ २४५०॥ ॥ २४५१॥ २४५२॥
“केचिदि”त्यादिना परो वैदिकलौकिकभेदव्यवस्थां दर्शयति।
(केचिदेक)क्रमा एव व्यञ्जकक्रमसंस्थितेः।
इष्टा अपौरुषेयास्ते नियतक्रमयोगिनः॥ २४५३॥
व्यञ्जकक्रमस्य संस्थितेर्नियतत्वात्केचिच्छन्नो देवीरित्यादयो नियतक्रमा एव प्रती यन्ते, अतस्ते नियतक्रमयोगिनोऽपौरुषेया इष्टाः, तद्विपरीताः सामर्थ्यात्पौरुषेया इति सिद्धम्॥ २४५३॥
“नन्वय”मित्यादिना दूषयति।
नन्वयं पौरुषो धर्मस्ताल्वा(दिव्यञ्जकक्रमः)।
(तस्मात्कदाचित्तस्यापि सम्भाव्येत)विपर्ययः॥ २४५४॥
नियतक्रमयोगित्वमसिद्धम्। तथाहि—व्यञ्जकक्रमनियमात्तदिष्टं, स च व्यञ्जकानां ताल्वादीनां क्रमः पुरुषेच्छायत्तवृत्तित्वादनियतः, पुरुषेच्छायाः स्वातन्त्र्यात्। यदाह—“यत्र स्वातन्त्र्यमिच्छाया नियमो नाम तत्र क” इति। ततश्च शन्नो देवीरित्यादेः सर्वकालमयमेव क्रमोऽभूद्भविष्यतीत्यत्र नियामकप्रमाणाभावात्कदाचिदन्यथाऽपि सम्भाव्येत क्रमः॥ २४५४॥
यदुक्तं ज्वालादेः क्षणिकत्वेऽपि प्रत्यभिज्ञेत्यादि, तत्राह—“तेजस्त्वा”दीत्यादि।
तेजस्त्वादि च सामान्यं विस्तरेण निराकृतम्।
तत्रातः प्रत्यभिज्ञेयं सामान्यं नित्यमेव नः(न?)॥ २४५५॥
सर्वमेतद्वर्णेष्वपि कल्पयितुं शक्यत इति दर्शयन्नाह—“वर्णेष्वि”त्यादि।
वर्णेषु शक्यते (चेयं प्रत्यभिज्ञा) विनाशिषु।
सामान्यं प्रत्यभिज्ञेयं मत्वा(तं?) ये वा (षां?)विशेषतः२४५६
भेदबुद्धिस्तु यत्रांशे द्रुतमन्दादिके भवेत्।
तत्र न प्रत्यभिज्ञानं भवे(॥॥॥॥।)॥ २४५७॥
“सामान्य”मिति। अन्यव्यावृत्तिलक्षणम्॥ २४५६॥ २४५७॥
देशकालादिभिन्नाश्च गोशब्दव्यक्तिबुद्धय इत्यादावाह—“शब्दैकत्वे”त्यादि।
(शब्दैकत्वप्रसिद्ध्यर्थं)प्रयुक्तेषु तु हेतुषु।
विजातीयाविरोधित्वात्प्रतिबन्धो न सिद्ध्यति॥ २४५८॥
शब्दैकत्वप्रतिपादनाय ये अनुमानप्रयोगा उक्तास्तेषु सिद्धे विपर्यये हेतोर्बाधकप्रमाणानुपदर्शनात् सर्वथैवानैकान्तिकता॥ २४५८॥
यदुक्तम्—य ईदृक् स स्थिरो दृष्टो धूमसामान्यभागवदित्यस्य दृष्टान्तस्य साध्यविकलतामादर्शयन्नाह—“धूमसामान्ये”त्यादि।
धूमसामान्यभागोऽपि नैव(॥॥॥॥।)।
(॥॥॥॥॥॥॥।) सिद्धसाधनम्॥ २४५९॥
वस्त्वेव विजातीयपरावृत्तं सामान्यं लिङ्गमुच्यते नान्यत्, तच्चानित्यमेवेति साध्यविकलता दृष्टान्तस्य॥ २४५९॥
यदुक्तं घटादेरेकतापत्तावित्यादि, तदयं वर्णेष्वपि परिहारः समान इत्यादर्शयति —“गादे”रित्यादि।
गादेरप्येकतापत्तौ जात्येष्टं सिद्धसाधनम्।
अतद्रूपपरावृत्तिरभिन्ना कल्पितैव हि॥ २४६०॥
व्यक्तीना(मेकतापत्तावनैकान्तिकता भवेत् )।
(प्रति) प्रयोगमाक्षाद्यैर्वर्णभेदविनिश्चयात्॥ २४६१॥
देशकालादिभिन्नाश्चेत्यादिना प्रयोगप्रपञ्चेन यद्यन्यापोहलक्षणस्य सामान्यस्यैकत्वं साध्यते तदा सिद्धसाध्यता, सर्वत्रातद्रूपव्यावृत्तिलक्षणस्य सामान्यस्यैकबुद्ध्यध्यवसायवशेनैकत्वस्येष्टत्वात्। अथ व्यक्तीनां स्वलक्षणानामेकत्वं साध्यते तदा प्रत्यक्षानुमानाभ्यां व्याप्तेर्बाधितत्वादनैकान्तिकता हेतूनाम्। “आक्षाद्यै”रिति। अक्षमिन्द्रियं तत्र भवमाक्षम्, प्रत्यक्षमिति यावत्। आदिशब्देनानुमानपरिग्रहः। बहुवचनं व्यक्तिभेदापेक्षया॥ २४६०॥ २४६१॥
कथं प्रत्यक्षतो भेदोऽवगत इत्याह—“यन्मनोज्ञे”त्यादि।
यन्मनोज्ञामनोज्ञादिभेदः प्रत्यक्षतो गतः।
बुद्धीनां क्रमभावित्वाद्भेदः सिद्धः(कुमारिवत् )॥ २४६२॥
(देशका)लादिभिन्ना हि गोशब्दव्यक्तिबुद्धयः।
नैकार्था भिन्ननिर्भासाद्रसरूपादिवृद्धिवत्॥ २४६३॥
षड्जादिभेदनिर्भासः प्रत्यक्षेण हि निश्चितः।
नच व्यञ्जकव॥॥॥॥।तदभिधास्यते॥ २४६४॥
अनुकूलो मनोज्ञः। विपर्ययाद्विपर्ययः। अनुमानतोऽपि बाधामाह—“बुद्धीना”मित्यादि। अस्यार्थो ह्यस्तनाद्यतना इत्यादिना स्पष्टीकरिष्यते। प्रयोगः—या या भिन्नावभासा बुद्धयस्ताः सर्वा नैकविषयाः, यथा रसरूपादिविषयाः, भिन्ननिर्भासाश्च देशकालादिभिन्ना गोशब्दव्यक्तिबुद्धय इति व्यापकविरुद्धोपलब्धिः। असिद्धतामस्य परिहरन्नाह—“षड्जादी”त्यादि॥ २४६२॥ २४६३॥ २४६४॥
बुद्धीनां क्रमभावाच्च भेदः सिद्धः कुमारिवदित्यस्यार्थं प्रमाणयन्नाह—“ह्यस्तना” इत्यादि।
ह्यस्तनाद्यतनाः सर्वे गोशब्दप्रत्यया इमे।
नैकार्थाः क्रमसम्भूते रूपगन्धादिबुद्धिवत्॥ २४६५॥
प्रयोगः—ये ये क्रमिणः प्रत्ययास्ते नैकविषयाः, तद्यथा रसरूपादिप्रत्ययाः क्रमिणः, क्रमभाविनश्चेमे ह्यस्तनाद्यतना गोशब्दविषयाः प्रत्यया इति व्यापकविरुद्धोपलब्धिः॥ २४६५॥
“अन्यथे”त्यादिना द्वयोरपि हेत्वोरनैकान्तिकतां परिहरति।
अन्यथा सर्वबुद्धीनामेकालम्ब(नता भवे)त्।
क्रमभावविरोधश्च शक्तकारणसन्निधेः॥ २४६६॥
“सर्वबुद्धीना”मिति। रसरूपादिबुद्धीनाम्। परस्परमभिन्नालम्बनत्वप्रसङ्गो भिन्ननिर्भासादित्येतस्य हेतोर्बाधकं प्रमाणम्। क्रमभावविरोधश्चेत्येतत्तु क्रमसम्भूतेरित्येतस्य ॥ २४६६॥
यदुक्तं कृत्रिमत्वे च सम्बन्ध इत्यादि, तत्राह—“प्रकृत्यैवे”त्यादि।
प्रकृत्यैव पदार्थानामेकप्रत्यवमर्शने।
भेदेऽपि शक्तिनियमः पुरस्तात्प्रतिपादितः॥ २४६७॥
॥॥॥प्रत्यवमर्षाच्च शब्दैकत्वादयोऽपि न।
लोकः प्रयोगभूयस्त्वं शब्दस्यैकस्य मन्यते॥ २४६८॥
अनेकव्यक्तिनिष्ठत्वात्सम्बन्ध उपपद्यते।
तस्मात्सार्वत्रिको नाके(नैको?)व्यक्तीनां ह्येकतां गतः२४६९
सुबोधम्॥ २४६७॥ २४६८॥ २४६९॥
अथ कस्माल्लोक इत्युच्यत इत्याह—“वस्तुतस्त्वि”त्यादि।
वस्तुतस्तु न सम्बन्धः शब्दस्यार्थेन विद्यते।
भेदात्तस्मादनुत्पत्तेर्भ्रान्तैरारोपितस्ततः॥ २४७०॥
तथाहि विस्तरेणैषा प्रागेव प्रतिपादिता।
शब्दार्थसंस्थितिः सर्वा विप्लुता व्याप्त्यसम्भवात्॥ २४७१॥
“भेदा”दित्यनेन तादात्म्यलक्षणं सम्बन्धं निषेधति। तस्मादनुत्पत्तेरित्यनेन तदुत्पत्तिलक्षणम्। नचाभ्यामन्यः सम्बन्धोऽस्ति, नच प्रतिबन्धमन्तरेण शब्दस्यार्थप्रतिपादकत्वनियमो युक्तोऽतिप्रसङ्गात्। तस्मादारोपितः शब्दार्थयोः सम्बन्ध इति प्रागेवान्यापोहचिन्तायां प्रतिपादितम्॥ २४७०॥ २४७१॥
तस्मादकृत्रिमः शब्दः इत्यादिप्रयोगे हेतुदृष्टान्तयोरसिद्धत्वमुद्भावयन्नाह—“गोत्वं नित्यमि”त्यादि।
गोत्वं नित्यमपास्तं च सम्बन्धोऽपि च कल्पितः।
अण्वाकाशाद्यपि च क्षिप्तं हेतूदाहरणे न तत्॥ २४७२॥
गोत्वं नित्यमपास्तमित्यनेन नित्यस्यासिद्धतामाह। सम्बन्धोऽपि च कल्पित इत्यनेनापि सम्बन्धादित्यस्य, अण्वाकाशाद्यपि च क्षिप्तमित्यनेनाकाशपरिमाणुवन्नि(त्यमि)त्यस्यासिद्धतामाह—“अपास्त”मिति। प्रतिक्षिप्तं षट्पदार्थपरीक्षायाम्। नेति प्रतिषेधि। तदिति तस्मादर्थे॥ २४७२॥
सम्मुखानेकसामान्येत्यादावाह—“निष्कृष्टे”त्यादि।
निष्कृष्टगोत्ववाचित्वं चिरेण प्रतिपद्यताम्।
एकरूपतया भ्रान्तैर्जनैरध्यवसायतः॥ २४७३॥
भ्रान्तत्वमस्य कथं सिद्धमित्याह—“भावत” इत्यादि।
भावतः क्षणिकत्वात्तु तावत्कालमपि स्थिरः।
नैवायमिति किं तस्य स्थितिः पश्चादपीष्यते॥ २४७४॥
यथा शस्त्रादिभिश्छेद इत्यादावाह—“घटादावपी”त्यादि।
घटादावपि नैवास्ति किञ्चिन्नाशस्य कारणम्।
इतीदमपि निर्दिष्टं तत्क्व शब्दे भविष्यति॥ २४७५॥
“इतीदमपि निर्दिष्ट”मिति। स्थिरभावपरीक्षायाम्। विनाशस्याहेतुत्वप्रतिपादनेन। यदा घटादावपि नैव नाशकारणमस्तीति क्व शब्दे भविष्यतीति। नाशकारणमिति व्यवहितेन सम्बन्धः। अनेन च सिद्धसाध्यता वैधर्म्यदृष्टान्तस्य चासिद्धतोक्ता भवति॥ २४७५॥
देशकालप्रयोक्तॄणा मित्यादावाह—“विप्लव” इत्यादि।
विप्लवे प्रत्यभिज्ञायाः पुरस्तादुपपादितः।
देशकालप्रयोक्तॄणां भेदाद्धर्मो विभिद्यते॥ २४७६॥
षड्जऋषभगान्धारपञ्चमादिप्रभेदतः।
प्रत्यक्षतो हि विज्ञाता गव्यक्तिरपरा स्फुटा॥ २४७७॥
नच व्यञ्जकभेदेन युक्तैषा भेदसंस्थितिः।
व्यक्तिर्नित्येषु नास्तीति पुरस्तादभिधास्यते॥ २४७८॥
सुगमम्॥ २४७६॥ २४७७॥ २४७८॥
गकारोऽत्यन्तेत्यादिके प्रयोगे सिद्धसाध्यतादोषमाह—“गकारव्यतिरिक्तं चे-” त्यादि।
गकारव्यतिरिक्तं च सामान्यं गत्वमिष्यते।
वास्तवं न प्रयोगेऽतो दुर्वारा सिद्धसाध्यता॥ २४७९॥
“इष्यत” इति। नेति वक्ष्यमाणेन सम्बन्धः॥ २४७९॥
अन्यापोहात्मकस्यापि न गत्वस्य समाश्रयः।
इत्थमेवेति चेन्नैवमाश्रयासिद्धताप्तितः॥ २४८०॥
अगकारपरावृत्तगवर्णाभावतो भवेत्।
गान्यबुद्ध्यनिरूप्यत्वं कस्य धर्मो हि धर्मिणः॥ २४८१॥
अथापि स्यात्—अन्यापोहात्मकस्यापि गत्वस्याश्रयो न भवतीति, इत्यमनेन प्रकारेण साध्यते, तेन सिद्धसाध्यता न भवति, नह्यन्यापोहाधारो गकारादिर्भवतो नेष्ट इति पूर्वपक्षं प्रतिक्षिपति। एवं हि साध्यमाने हेतोरसिद्धिता प्राप्नोति। तथाहि —न ह्यन्यापोहो नामान्य एव कश्चिदन्यत्र व्यावृत्तात्पदार्थात्। किं तर्हि ?। तदेव गकारादिव्यक्तिरूपं विजातीयव्यावृत्तिभेदान्तरप्रतिक्षेपेण तन्मात्रजिज्ञासायामन्यव्यावृत्तिरन्यापोह इत्यादिभिः पर्यायैः कथ्यते। तस्य तु धर्मिस्वरूपस्याभावे साध्ये गान्यबुद्ध्यनिरूपणादित्ययं हेतुः कस्य धर्मिणो धर्मो भवेत्, नैव कस्यचित् ॥ २४८०॥ २४८१॥
यश्च परकल्पितगत्ववदिति दृष्टान्तः सोऽपि धर्म्यसिद्ध इति दर्शयन्नाह—“वास्तवी”त्यादि।
वास्तवी चानुमा सर्वा द्वयसिद्धमपेक्षते।
दृष्टान्तादि ततस्तेन दृष्टान्तो धर्म्यसिद्धिभाक्॥ २४८२॥
दृष्टान्तादीत्यादिशब्देन हेत्वादिपरिग्रहः॥ २४८२॥
किञ्च—अनुक्तोऽपि वादिना य एवेच्छया विषयीकृतः स एवायं इष्यते। न चापि भवता गत्वमात्रं सिसाधयिषितम्। किं तर्हि ?। अनेनोपायेन गकारास्यैकत्वं प्रतिपादयितुमिष्टम्। अस्यां च प्रतिज्ञायां प्रत्यक्षादिबाधापूर्वमुक्तेति दर्शयन्नाह—“सर्वश्चाय”मिति।
सर्वश्चायं प्रयत्नस्ते गकारैकत्वसिद्धये।
तत्र प्रत्यक्षबाधा च दुर्निवारोदिता तव॥ २४८३॥
“अय”मिति व्यतिरिक्तगत्वाधारनिषेधः। “प्रत्यक्षबाधा चे”ति। चशब्दादनुमानबाधापरिग्रहः। “उदिते”ति। यन्मनोज्ञामनोज्ञेत्यादिनोक्ता॥ २४८३॥
यदुक्तं द्वयसिद्धस्त्वित्यादि, तत्राह—“ह्यस्तने”त्यादि।
ह्यस्तनाद्यतनाद्याश्च गवर्णप्रत्यया इमे।
क्रमभावेन नैकार्था रसरूपादिबुद्धिवत्॥ २४८४॥
अतो न द्वयसिद्धोऽयमेको वर्णः सदा स्थितः।
अदोषं(अपोह?)कल्पितस्यैव नित्यत्वं त्वस्य कल्पितम् २४८५
उदिता इत्यत्रापि लिङ्गविभक्तिपरिणामेन सम्बन्ध्यते। ततः प्रत्यक्षानुमानाभ्यां शब्दभेदस्य प्रतिषिद्धत्वान्नैको द्वयसिद्धो वर्णात्माऽस्तीति कल्पितस्यैवान्यापोहस्य नित्यत्वं कल्पितम्, तुल्यप्रत्यवमर्शप्रत्ययेनैकत्वाध्यवसायात्॥ २४८४॥ २४८५॥
यदुक्तं नादेन संस्कृतादित्यादि, तत्राह—“शब्दोपलम्भवेलाया”मित्यादि।
शब्दोपलम्भवेलायां कर्णपर्यन्तवर्त्तिनः।
न वायवोऽवगम्यन्ते श्रोत्रसंस्कारकारिणः॥ २४८६॥
नादेन संस्कृताच्छ्रोत्राद्यदा शब्दः प्रतीयते।
तदुपश्लेषतस्तस्य बोधोऽध्यक्षेण बाध्यते॥ २४८७॥
यदि हि श्रोत्रसंस्कारकारिणो वायवः केनचित्प्रमाणेन सिद्धाः स्युः तदैवं स्याद्वक्तुं—नादेन श्रोत्रं संस्क्रियत इति। न चैते सिद्धास्तस्मात् तदुपश्लेषतः—शब्दोपश्लेषतः तस्य नादस्य बोधोऽध्यक्षमिति कल्पनास्पदमेतत्॥ २४८६॥ २४८७॥
यदुक्तं मधुरं तिक्तरूपेणेत्यादि, तत्राह—“तिक्तपीतादिरूपेणे”त्यादि।
तिक्तपीतादिरूपेण प्रवृत्तं मधुरादिषु।
ज्ञानं निर्विषयं यद्वच्छब्दज्ञानं यथा भवेत्॥ २४८८॥
एतेन—यदुक्तं शब्दे बुद्धिस्तु तद्वशादिति तदपास्तम्। नह्यनाकारस्य ज्ञानस्यान्यो विषयो युक्तोऽतिप्रसङ्गात्॥ २४८८॥
अथापि स्यात्—यदि नाम शब्दो न तस्य ज्ञानस्य विषयः, निर्विषयत्वं तु तस्य कथमित्याह—“द्रुतमध्यादी”त्यादि।
द्रुतमध्यादिभेदाद्धि नान्यः शब्दोऽवभासते।
अतद्रूपे च ताद्रूप्यज्ञानं नाविषयं कथम्॥ २४८९॥
द्रुतमध्यविलम्बिनाऽऽकारेण हि ज्ञानमुपजायते, न च शब्दस्य द्रुताकारः समस्ति, तस्य नित्यव्यापित्वेनैकरूपत्वात्। न चान्यो द्रुताकारवानर्थः सम्भवति यः प्रत्यवभासेत। तस्मादाकारान् (नु?)रूपस्यार्थस्याभावान्निर्विषयत्वमेवास्य॥ २४८९॥
स्यादेतत्—स एव शब्दो द्रुतादिरूपेणान्यथा च भासमानस्तस्यालम्बनं भविष्यति। यथोक्तम्— सर्वत्रालम्बनं बाह्यं देशकालान्यथात्मकः इति, अत्राह—“अन्यथा चे”ति।
अन्यथा च तमेवार्थं वेत्तीति व्याहतं वचः।
अन्याकारस्य संवित्तौ स ह्यर्थो विदितः कथम्॥ २४९०॥
निराकारे हि विज्ञाने बाह्याकारः स ते ध्रुवम्।
बाह्यश्च न तदात्मेति किमसौ विद्यते तथा॥ २४९१॥
साकारज्ञानपक्षेऽपि बाह्याकारानुरूपतः।
ज्ञाने नर्भाससम्भूतावर्थो विदित उच्यते॥ २४९२॥
इह बाह्यानुरूपेण न तु ज्ञानं प्रवर्त्तते।
तस्मान्निर्विषयं सर्वं भ्रान्तं चित्तमिति स्थितम्॥ २४९३॥
“व्याहत”मिति। तत्त्वान्यथाकारयोः परस्परपरिहारस्थितलक्षणत्वेनैकत्र धर्मिण्ययोगात्। किञ्च—सर्वमेव भ्रान्तं निराकारपक्षे साकारपक्षे च निर्विषयमेवेति प्रतिपादयन्नाह—“निराकारे ही”त्यादि। निराकारज्ञानवादिनां हि नीलाद्याकारोऽर्थगत एवानुभूयते। न च यथा भ्रान्तज्ञानप्रतिभासी पीतादिस्तथा शङ्खादिरर्थोऽवस्थित इति स्फुटतरमेवाविषयत्वमस्य। ननु च पीताद्याकारो यदि नार्थगतस्तदाऽवश्यं तेन ज्ञानगतेन भवितव्यमन्यथोभयत्राभावे कथमनुभूयेत। ततश्च ज्ञानगतत्वे कथं निराकारता विज्ञानस्येति वक्तव्यम्। सत्यमेतत्। किन्तु—अभ्युपगम्यनिराकारज्ञानवादिपक्षमेतद्विज्ञानस्य निर्विषयत्वमुच्यते। यस्तु निराकारं ज्ञानमिच्छति तेनैवात्र परिहारो वाच्यः। साकारज्ञानपक्षेऽप्यर्थसदृशात्माकारानुभवादर्थानुभवो व्यवस्थाप्यते। नच भ्रान्ते ज्ञानेऽर्थसदृशात्माकारानुभूतिरस्तीत्यविषयमेव।नच साकारनिराकाराभ्यामन्यः प्रकारोऽस्ति विषयग्रहणं प्रतीति। तस्मात्सर्वमेव भ्रान्तं ज्ञानं निर्विषयमिति सिद्धम्॥ २४९०॥ २४९१॥ २४९२॥ २४९३॥
नचाप्यत्र भ्रान्तिनिमित्तं सम्भवतीति दर्शयन्नाह—“नच व्यञ्जकसद्भाव” इत्यादि।
नच व्यञ्जकसद्भावो युक्तो नित्ये विशेषतः।
तत्संस्कारानुरूपेण नातो भिन्ना धियो ध्वनौ॥ २४९४॥
व्यञ्जकभेदो हि ध्वनौ—शब्दे भेदविभ्रमनिमित्तमुपवर्ण्यते, नच नित्यस्य कस्यचिद्व्यञ्जकोऽस्ति, तस्य तत्राकिञ्चित्करत्वात, नचाकुर्वन् कञ्चिद्विशेषं तस्य व्यञ्जको युक्तोऽतिप्रसङ्गात्। एवं हि यत्किञ्चिद्यस्य कस्यचिद्व्यञ्जकं स्यात्। तस्मान्न व्यञ्जकसंस्काराद्ध्वनौ—शब्दे भिन्ना बुद्धयो युक्ताः॥ २४९४॥
यदुक्तं यथा घटादेर्दीपादिरभिव्यञ्जक इष्यत इत्यादि, तत्रेदं प्रथमं श्लोकार्थमुपक्षिप्यैकेन श्लोकेन द्वितीयादिश्लोकैर्दूषयन्नाह—“घटादिग्रहणार्थं ही”त्यादि।
घटादिग्रहणार्थं हि यथा व्यक्तिं नियच्छति।
न प्रदीपस्तथा श्रोत्रे ध्वनिः शब्दोपलब्धये॥ २४९५॥
श्रोत्रोपलब्धो योग्यश्चेच्छब्दः प्रकृतिसंस्थितः।
असंस्कृतेऽपि तच्छ्रोत्रे किमर्थं नोपलभ्यते॥ २४९६॥
योग्यकारणसद्भावाद्भवेदेवोपलम्भनम्।
संस्कृतश्रोत्रसद्भाववेलायामिव तस्य तत्॥ २४९७॥
नोपलब्धौ स योग्यश्चेत्पश्चादपि कथं भवेत्।
भावे च योग्यतायोगी शब्दो जातोऽपरो भवेत्॥ २४९८॥
अथ पश्चादपि ज्ञानं नैव तद्बलभावि तत्।
संस्कृतश्रवणादिभ्यस्तस्योत्पादस्तु वर्ण्यते॥ २४९९॥
संस्कृतान्नाम श्रोत्रम्, इदं तु वक्तव्यम्, किन्नु प्रकृत्या शब्दः स्वविषयज्ञानोत्पत्तौ समर्थ आहोस्विदसमर्थ इति। आद्ये पक्षे श्रोत्रसंस्कारात्प्रागप्युपलब्धिप्रसङ्गः। एतदेवाह—“असंस्कृतेऽपी”त्यादि। “तस्ये”ति। शब्दस्य। “त”दिति। तस्मात्। प्रयोगस्तु यदि विकलकारणमित्यादिकः पूर्ववद्वाच्यः, श्रोत्रसंस्कारवैयर्थ्यप्रसङ्गश्च। अथ द्वितीयपक्षस्तदा श्रोत्रसंस्कारोऽपि शब्दोपलम्भो न प्राप्नोति, सर्वन्दैव शब्दस्यायोग्यत्बात्। ततश्चास्मिन्नपि पक्षे श्रोत्रसंस्कारवैयर्थ्यमेव। प्रयोगः— यो यदुत्पादनायोग्यावस्थातो न विशिष्यते न स तत्करोति, यथा कोद्रवः शाल्य ङ्कुरम्, न विशिष्यते च संस्कृतेऽपि श्रोत्रे शब्दो ज्ञानोत्पादनायोग्यावस्थात इति व्यापकानुपलब्धिः। नचायमसिद्धो हेतुरित्यादर्शयति—“भाव” इति। योग्यतया सम्बन्धो यस्याऽस्ति स योग्यतायोगी॥ २४९५॥ २४९६॥ २४९७॥ ॥ २४९८॥ २४९९॥
ननु च यदि हिशब्दो ज्ञानोत्पत्तौ कारणमिष्टः स्यात्तदा तत्र तस्य योग्यायोग्यविकल्पोऽवतारं लभेत, यावता श्रोत्रमेव संस्कृतं शब्दोपलब्धौ कारणमिष्यते नशब्दः, तेन न भवति यथोक्तदोषप्रसङ्ग इत्येतदागूर्य परिहरन्नाह—“शब्दस्ये”त्यादि।
शब्दस्याग्राह्यतैवं स्यात्तस्मिन्ननुपयोगतः।
तस्य नैवं रसादिभ्यो विशेषः कश्चनास्ति हि॥ २५००॥
एवं हि रसादिवच्छब्दस्यानुपयोगात्तज्ज्ञानज्ञेयता न प्राप्नोति। प्रयोगः—यो यत्र ज्ञाने नोपयोगं प्रतिपद्यते न स तज्ज्ञानज्ञेयः, यथा रसादिः श्रोत्रज्ञाने, नोपयुज्यते च शब्दः श्रोत्रज्ञान इति व्यापकविरुद्धोपलब्धिः। नायमनैकान्तिकः, अनुपकारकस्य ज्ञेयत्वे सति नियमाभावाद्रसादेरपि श्रोत्रविज्ञानविज्ञेयत्वप्रसङ्गात् २५००
ननु च स्वकारणस्य नियामकत्वान्नातिप्रसङ्गो भविष्यति, तथाहि—संस्कृतश्रोत्रसमनन्तरप्रत्ययादिभ्यः समुत्पद्यमानं शब्दबोधात्मकमेवोत्पद्यते न रसादिबोधात्मकम्, कारणशक्तिप्रतिनियमात्। अवश्यं च शब्दस्य हेतुत्वाङ्गीकरणेऽपि कारणशक्तिप्रतिनियमोऽङ्गीकर्त्तव्यः, तथाहि—तुल्येऽपि सर्वेषां हेतुत्वे कस्माच्छब्दबोधात्मकमेव भवति शब्दज्ञानं न श्रोत्रादिबोधात्मकमिति चोद्ये हेतुशक्तिप्रतिनियमैरेवोत्तरं वाच्यमित्येतत्सर्वमालोच्यानैकान्तिकतां परिहरन्नाह—“शब्दबोधस्वभावं वे”त्यादि।
शब्दबोधस्वभावं वा जनितं नाम तैरिदम्।
ज्ञानं शब्दनिराशंसैः संस्कृतश्रवणादिभिः॥ २५०१॥
नामेत्यभ्युपगमे। यथा चायं पक्षो न युज्यते तथा पश्चात्— को वा ज्ञानस्येत्यादिना प्रतिपादयिष्यति। “संस्कृतश्रवणादिभि”रिति। आदिशब्देन समनन्तरप्रत्ययादिपरिग्रहः॥ २५०१॥
यदि नाम शब्दो न कारणं तथापि दोष एव, तथाहि—किमसौ शब्दः प्रकृत्या तज्ज्ञानज्ञेयस्वभाव उत नेति पक्षद्वयम्, प्रथमे पक्षे दोषमाह—“तज्ज्ञानज्ञेये”त्यादि।
तज्ज्ञानज्ञेयरूपो यं ययाऽपि त्वनुवर्त्तते।
शब्द इत्यनुवृत्तिः स्याद्विज्ञानस्यापि तस्य ते॥ २५०२॥
अन्यथा ह्यनुवृत्तं न ज्ञानं स त्वनुवर्त्तते।
तज्ज्ञेयः शब्द इत्येवं परा स्याद्व्याहतिस्तव॥ २५०३॥
ज्ञानज्ञेयस्वभावौ तौ बद्धौ शृङखलयेव हि।
एकभावे द्वितीयस्य प्राप्तिरव्यभिचारतः॥ २५०४॥
यदि तज्ज्ञानज्ञेयस्वभावः शब्दः स्यात्तदा सर्वकालं शब्दरूपवत्तद्विज्ञानस्यापि नित्यत्वं स्यात्, तद्विज्ञेयस्वभावानुवृत्तेः। नहि देवदत्तस्य दण्डसम्बन्धस्वभावानुवृत्तौ न दण्डस्यानुवृत्तिर्भवेत्। “बद्धौ शृङ्खलयेव ही”ति। हिशब्दो यस्मादर्थे। यस्माज्ज्ञेयज्ञानयोः स्वभावौ शृङ्खलयेव बद्धौ, तस्मादेकस्वभावसद्भावे द्वितीयस्य प्राप्तिसद्भावः प्राप्नोत्यव्यभिचारादिति सिद्धम्॥ २५०२॥ २५०३॥ २५०४॥
भवत्वेवं को दोष इत्याह—“संस्कृते”त्यादि।
संस्कृतश्रवणोत्पाद्यज्ञानसम्बद्ध एव हि।
श्रोत्रासंस्करणेऽपीति ज्ञानमाक्षिप्यते स्फुटम्॥ २५०५॥
“संस्कृतश्रवणोत्पाद्यज्ञानसम्बद्ध एव ही”ति। शब्दोऽनुवर्त्तत इत्यध्याहारः।यस्मात्संस्कृतश्रवणोत्पाद्येन ज्ञानेन सम्बद्धः शब्दः सर्वदाऽनुवर्त्तते तस्मादसंस्कृतश्रोत्रस्यापि तद्विज्ञानं प्राप्नोतीति व्यर्थं श्रोत्रसंस्करणम्॥ २५०५॥
द्वितीयेऽपि पक्षे दोषमाह—“तज्ज्ञे”येत्यादि।
तज्ज्ञेयात्मा न शब्दश्चेदतदात्मरसादिवत्।
न तद्बोधस्वभावं यच्छ्रोत्रज्ञानं तथासति॥ २५०६॥
सुबोधम्॥ २५०६॥
एतच्च सर्वं तदनुपकार्यस्यापि ज्ञानस्य तद्बोधस्वभावत्वमभ्युपगम्योक्तम्, इदानीं तद्बोधस्वभावत्वमेवासति सम्बन्धे ज्ञानस्यायुक्तमिति प्रतिपादयन्नाह—“को वे”ति।
को वा ज्ञानस्य सम्बन्धः शब्देन यत इष्यते।
तच्छब्दबोधरूपं हि न तादात्म्यं विभेदतः॥ २५०७॥
नच तस्य तदुत्पत्तिः शब्दस्याजनकत्व(तः)।
तदुत्पत्तौ तु नियमात्सा सदाभाविनी भवेत्॥ २५०८॥
एवं तद्विषयं ज्ञानं सदोत्पद्येत वा नवा।
इत्येकान्ते स्थिते व्यर्था श्रोत्रसंस्कारकल्पना॥ २५०९॥
द्विविध एव हि वस्तूनां प्रतिबन्धस्तादात्म्यं तदुत्पत्तिश्च अन्यत्रोपकाराभावात्। नचानुपकार्योपकारकयोः सम्बन्धो युक्तोऽतिप्रसङ्गात्। स च द्विविधोऽपि प्रतिबन्धो नास्ति शब्दज्ञानयोरिति कथं तद्बोधस्वभावज्ञानमसति प्रतिबन्धे भवेत्। अन्यथा ह्यतिप्रसङ्गः स्यात्। अथापि स्यात्तदाकारोत्पत्त्या तद्बोधस्वरूपं तज्ज्ञानं व्यवस्थाप्यते विनाऽपि प्रतिबन्धेनेति। तदेतदसम्यक्। निराकारज्ञानाभ्युपगमात्। नहि मीमांसकैः साकारं ज्ञानमभ्युपगम्यते। भवतु वा तथाप्ययुक्तं शब्दस्य परोक्षत्वप्रसङ्गात्, एवं हि शब्दपरोक्षत्वमेव स्यान्न प्रत्यक्षत्वं, ततश्च तत्साधकप्रमाणाभावात्, तदाकारं तद्विज्ञानमित्येतदेव न सिद्ध्येत्। नापि कार्यव्यतिरेकात्तत्सिद्धिः, तस्य जनकत्वानभ्युपगमात्। स्यादेतत्—यस्यापि साकारवादिनो जनक एव विषयस्तस्यापि सर्वदैवार्थस्य परोक्षत्वात्कथमर्थाकारत्वं ज्ञानस्यावगमिति। सत्यम्। किन्त्वयं तस्योपायो यत्तत्कार्यव्यतिरेकतः कारणान्तरं निश्चितं, तद्विज्ञानस्य नीलाद्याकारभेदकत्वेन निश्चितमन्वयव्यतिरेकाभ्याम्। तथाहि—चक्षुरालोकमनस्काराणां सर्वविज्ञानेषु तुल्यत्वान्न तत्कृतो ज्ञानस्य नीलादिभेद इति सामर्थ्याद्यत्तत्कारणान्तरंव्यतिरेकतोऽनुमितं तत्कृतोऽयं भेद इति निश्चीयते। तेन तत्कृतत्वात्तस्यासावाकारो ज्ञानेन गृहीत इति व्यवस्थाप्यते। न त्वयमपि भवतोऽस्त्युपायस्तस्य कारणत्वानभ्युपगमात्। स्यादेतत्—चक्षुरादीनामपि सर्वदा परोक्षत्वात्सर्वविज्ञानेष्वविशिष्टत्वङ्कथमवसितमिति। सत्यमेवमेतद्विज्ञानवादचिन्तायाम्। स हि विज्ञानवादी स्वप्नादाविव समनन्तरप्रत्ययकृतमेव विज्ञानस्य विशेषं वर्णयति। न बाह्यकृतम्। किन्तु सति बाह्येऽर्थे सर्वमेतदुच्यते। अन्यथा हीदमेव चोदनीयं कार्यव्यतिरेकतोऽपि कथं बाह्यसिद्धिः स्यादिति कारणमात्रास्तित्वं सिद्ध्येन्न तु बाह्यम्, तत्तु कारणं स्वप्नादाविवान्तरमपि सम्भाव्यमित्यलं प्रसङ्गेन। अथापि जनकत्वमभ्युपगम्यते शब्दस्य तथापि दोष इति दर्शयन्नाह—“तदुत्पत्ता”वित्यादि। “से”ति। तदुत्पत्तिः।“एव”मित्यादिनोपसंहरति। नवेत्यजनकत्वपक्षे। “इत्येकान्त” इति। नित्यं ज्ञानस्यसदसत्तालक्षणे॥ २५०७॥ २५०८॥ २५०९॥
एवं तावच्छ्रोत्रस्य संस्कारमभ्युपगम्य विषयस्य जनकाजनकस्वभावचिन्तया श्रोत्रसंस्कारवैयर्थ्यमुक्तम्, इदानीं श्रोत्रसंस्कार एव न सम्भवतीति प्रतिपादयन्नाह —“कादाचित्के ही”त्यादि।
कादाचित्के हि संस्कारे सत्येव ज्ञानसम्भवः।
कादाचिदिति शोभेत संस्कारपरिकल्पना॥ २५१०॥
ज्ञानकार्यावसेयश्च संस्कारः शक्तिलक्षणः।
तच्च ज्ञानं सदाभावि यदि वा भावि सर्वदा॥ २५११॥
कादाचित्कं कथं नाम संस्कारं तस्य सूचयेत्।
उत्तरं श्रोत्रसंस्कारान्नातः साधु प्रकाशितम्॥ २५१२॥
एवं हि संस्कारकार्यं विज्ञानं कादाचित्कं युज्यते। यदि संस्कारः कादाचित्को भवेत्। अन्यथा कारणे नित्यमविकले स्थिते तत्कार्यं किमिति कदाचिद्भवेत्। न चसंस्कारः कादाचित्को नित्यस्य श्रोत्रस्य युज्यते इति दर्शयन्नाह—“ज्ञानकार्यावसेयश्चे”त्यादि। तथाहि श्रोत्रादेः संस्कारो ज्ञानकार्येणावसीयमानः शक्त्यात्मक एव संस्कारो भवेत्, शक्तेरेव कार्यावसेयत्वात्, सा च शक्तिः श्रोत्रस्यात्मभूतैव न तद्व्यतिरेकिणी, ततः कार्योत्पत्तेः श्रोत्रस्य कारणत्वप्रसङ्गात्। सम्बन्धासिद्धेश्च शक्तिसद्भावे सद्भाविज्ञानं सदा भवेत्। अथासद्भावस्तदा न कदाचित्तद्भाविज्ञानं भवेत्। ततश्च कादाचित्कत्वं ज्ञानस्य न स्यात्, तस्मात्कादाचित्कं विज्ञानं कथं श्रोत्रस्य शक्तिलक्षणं संस्कारं सूचयेत्, नैव॥ २५१०॥ २५११॥ २५१२॥
अथापि सयान्नैव स्वाभाविकी शक्तिर्ज्ञानकार्याऽनुमेया। किं तर्हि ? नादैः श्रोत्रस्यापूर्वैव कादाचित्की शक्तिराधीयते, सैव ज्ञानानुमेया, तेन कादाचित्कं विज्ञानं शक्तेः सूचकमुपपद्यत एवेत्याह—“शक्तिराधीयत” इत्यादि।
शक्तिराधीयते श्रोत्रे यदि वाऽव्यतिरेकिणी।
व्योम्नो दिशो वा नित्यत्वं ततो हीयेत जन्मतः॥ २५१३॥
आत्मभूता वा शक्तिराधीयेत, व्यतिरिक्ता वा, व्यतिरिक्ताव्यतिरिक्ता वेति पक्षत्रयम्। प्रथमे पक्षे शक्तिस्वरूपवदनित्यत्वं श्रोत्रस्योभयात्मकस्यापि प्राप्नोति। कुतः ?, जन्मतः—उत्पत्तेः। अथापि स्यान्न श्रोत्रस्य शक्तितोऽनन्यत्वमभ्युपगतम्। किं तर्हिं शक्तेरेव श्रोत्रादिति, तदेतत्पश्यत महतो ह्यान्ध्यस्य विलसितम्। कथं हि नामैकस्य स्वभावस्य संश्लेषे तदैवापरो दूरीभवेत्। परस्परस्वभावानुप्रवेशलक्षणत्वा दभेदस्य। नहि सलिलं पयसो दवीयसि गोचरे वर्त्तमानमनुभवति तत्संश्लेषमिति यत्किञ्चिदेतत्॥ २५१३॥
भवतु चायं पक्षस्तथापि दोष एवेति दर्शयन्नाह—“भावाच्चे”त्यादि।
भावाच्चाव्यतिरिक्तत्वान्नित्यत्वं संस्कृतेरपि।
(प्राप्नोति, तेन वस्तूनां विज्ञानं सर्वदा भवेत्)॥ २५१४॥
भावस्वरूपवत्संस्कारस्यापि नित्यत्वं प्राप्नोत्यव्यतिरेकात्। ततश्चायमपरो दोष इत्याह—“तेने”त्यादि॥ २५१४॥
द्वितीयेऽपि पक्षे दोषमाह—“व्यतिरेके” त्वित्यादि।
व्यतिरेके तु तस्येति सम्बन्धो नोपपद्यते।
श्रोत्रस्याकारकत्वं च शक्तेर्ज्ञानसमुद्भवात्॥ २५१५॥
शक्तेर्भावाव्द्यतिरेकेऽभ्युपगम्यमाने तस्यासौ शक्तिरिति सम्बन्धो न स्यात्। अनुपकार्यस्य पारतन्त्र्यायोगात्। अथ (नच ?) श्रोत्रं शक्तिमुपकरोति, व्यञ्जकस्यैवनादादेरुपकारकत्वेनेष्टत्वात्। अथ श्रोत्रस्याप्युपकारकत्वं तदा शक्त्युपकारिण्या अपि शक्तेः श्रोत्राद्व्यतिरेक इत्यनवस्था स्यात्। ततश्च शक्तीनामेव परम्परया घटनाच्छक्तेरेव कार्योत्पत्तेः श्रोत्रस्याकारकत्वं स्यात्। ततश्चावस्तुत्वप्रसङ्गः। अथ शक्त्युपकारिण्याः शक्तेरव्यतिरेकोऽभ्युपगम्यते, क इदानीमाद्यायां शक्तावव्यतिरेके प्रद्वेषः। किञ्च—नित्यं शक्त्युत्पत्तिप्रसङ्गः, तद्धेतोः श्रोत्रस्य नित्यत्वात्, न चानुपकार्यस्य सहकार्यपेक्षा काचित्॥ २५१५॥
तृतीयं पक्षमाह—“भेदाभेदे”त्यादि।
भेदाभेदविनिर्मुक्तं व्यस्तं पक्षान्तरं ततः।
उत्तरं श्रोत्रसंस्कारादसंस्कृततयोच्यते॥ २५१६॥
एतेनैव निषेद्धव्या विषयोभयसंस्कृतिः।
तस्मान्नित्येष्वभिव्यक्तिः सर्वथाऽपि निरास्पदा॥ २५१७॥
ततश्च व्यक्तिमाश्रित्य दीर्घह्रस्वक्रमादयः।
ये केचित्प्रविभज्यन्ते तेऽपि सर्वे निरास्पदाः॥ २५१८॥
“व्यस्त”मिति। पुद्गलादिपरीक्षायाम्। एकस्यैकदा विधिप्रतिषेधायोगात्। तथाहि भेदाभेदौ परस्परपरिहारस्थितलक्षणौ, तयोरेकस्वभावव्यवच्छेदेनैवापरस्य परिच्छेदात्, यस्य हि यदात्मव्यवच्छेदमन्तरेण न स्वभावः परिच्छिद्यते स तत्परिहारेण स्थितो यथा भावाभावयोरन्यतरः, यौ च परस्परपरिहारस्थितलक्षणौ तयोरेकस्वभावनिषेधोऽपरविधिनान्तरीयक इत्यन्यत्वनिषेधे सामर्थ्यात्तादात्म्यविधिरिति तदानीमेव तस्यापि प्रतिषेधो न युक्तः, अन्यत्वस्याप्यप्रतिषेधप्रसङ्गादित्येवमुभयपक्षे दोषो वाच्यः। “एतेनैवे”ति। प्रकृत्या ज्ञानोत्पादनयोग्यायोग्यस्वभावविकल्पद्वारेण। “तस्मा”दित्यादिनोपसंहरति। क्रमादय इत्यादिशब्देन प्लुतोदात्तादिपरिग्रहः॥ २५१६॥ ॥ २५१७॥ २५१८॥
“येषां त्वप्राप्तजातोऽयं शब्दः श्रोत्रेण गृह्यत” इत्यादावाह—“अप्राप्तिमात्रसाम्येऽपी”त्यादि।
अप्राप्तिमात्रसाम्येऽपि न सर्वस्य ग्रहो यथा।
अयस्कान्तेन लोहस्य सामर्थ्यनियमस्थितेः॥ २५१९॥
यद्यपि सर्वोऽप्राप्तस्तथाऽपि पदार्थानां शक्तिप्रतिनियमान्न पू्र्वस्य विषयस्य ग्रहः —ग्रहणं प्राप्नोति। यथा—अयस्कान्तो नामोपलोऽप्राप्तमयः कर्षन्नापि न सर्वमप्राप्तं कर्षति॥ २५१९॥
“अयस्कान्तप्रभे”त्यादिना—शङ्करस्वामिमतेन दृष्टान्तासिद्धिमाशङ्कते।
अयस्कान्तप्रभाप्राप्त्या तत्राप्याकर्षणं यदि।
ननु प्रभा न दृश्येयं कथमस्तीति गम्यते॥ २५२०॥
स हि प्राह। तत्राप्ययस्कान्तमणिप्रभावेधवशादेवाकर्षणमयसोऽन्यथा सर्वदेशावस्थितानामयसामाकर्षणं स्यात्। यद्यपि तस्य प्रभा प्रदीपप्रभावन्नोपलभ्यते,तथाऽप्यनुमेया,ध्यवधारे ( व्यवधाने ? ) दूरे चाकर्षण(णा?)दर्शनादिति। “नन्वि”त्यादिना प्रतिविधत्ते। न दृश्येयमित्यनुपलम्भेन सद्व्यवहारनिषेधं करोति॥ २५२०॥
यदपि प्रसङ्गसाधनमुक्तं सर्वदेशावस्थितानामयसामाकर्षणप्रसङ्गादिति, तत्परिहरन्नाह—“कस्मादाप्त”मित्यादि।
कस्मादाप्तं न काष्ठादि सा समाकर्षति प्रभा।
तच्छक्तिनियतत्वाच्चेदप्राप्तावपि तत्समम्॥ २५२१॥
प्राप्रिपक्षेऽपि तुल्यः प्रसङ्गः, कस्मात्साऽयस्कान्तप्रभा सर्वं प्राप्तं काष्ठादिकं नाकर्षतीति। पदार्थस्वभावप्रतिनियमान्नातिप्रसङ्ग इति चेदप्राप्तिपक्षेऽपि पदार्थस्वभावस्य नियामकत्वं केनापहृतम्, येन तत्र नेष्यते, तस्माददृष्टप्रभाकल्पनं व्यर्थमेव॥ २५२१॥
यदुक्तम्—“तत्र दूरसमीपस्थग्रहणाग्रहणे समे। स्यातां न च क्रम” इति तत्राह —“दूरे”त्यादि।
दूरमध्यसमीपस्थैरक्रमेणैवे गम्यते।
प्रयोगानन्तरं तत्र सर्वेषां ज्ञानजातितः॥ २५२२॥
क्रमग्रहणमसिद्धं शब्दप्रयोगानन्तरं युगपद्विज्ञानोत्पत्तेः॥ २५२२॥
यच्चोक्तम्—नापि तीव्रमन्दादिसम्भव इति, तत्राह—“दूरासन्ना”दीत्यादि।
दूरासन्नादिभेदेन स्पष्टास्पष्टं यथेक्ष्यते।
रूपं तथैव शब्देऽपि तीव्रमन्दादिविद्भवेत्॥ २५२३॥
यथा रूपमप्राप्य गृह्यमाणमध्या(व्या ?)पि च स्पष्टमीक्ष्यते तथा शब्देऽप्यध्या(व्या?)पिन्यप्राप्य गृह्यमाणे च तीव्रमन्दादिवेदना भविष्यति। ननु च परस्य रूपस्याप्यप्राप्य ग्रहणमसिद्धं तत्कथं दृष्टान्तत्वेनोच्यत इति। नैष दोषः। यद्यपि परस्य वचनमात्रान्न सिद्धम्, तथापि यत्प्रमाणसिद्धं तदुभयोरपि सिद्धम्। किं पुनःरत्र प्रमाणम्, सन्निकृष्टविप्रकृष्टयोस्तुल्यकालग्रहणम्। यो हि गतिमान्स सन्निकृष्टमाशु प्राप्नोति, विप्रकृष्टं चिरेण, यथा देवदत्तो ग्रामाद्ग्रामान्तरं गच्छन्, शाखाचन्द्रमसोस्तु तुल्यकालमुन्मेषसमनन्तरमेव ग्रहणं दृष्टं, तस्मादप्राप्यकारि चक्षुरिति गम्यते। अत्रोद्योतकरः प्राह—ज्ञानानामाशूत्पत्तेः कालभेदस्याग्रहणान्मिथ्याप्रत्यय एष उत्पलपत्रशतवेधवदिति। तदेतदसम्यक्, एवं हि सरो रस इत्यादावपि क्रमव्यवसायो न स्यादाशूत्पत्तेस्तुल्यत्वात्, ततश्च प्रतीतिभेदो न स्यात्, सर्वासां च बुद्धीनामाशूत्पत्तिरस्तीति न कदाचित्क्रमग्रहणं स्यादिति प्राग् निर्लोडितमेतद्विस्तरेण। पुनः स एवाह—यद्यप्राप्यकारि चक्षुर्भवेत्तदा न कु़ट्यादेरावरणस्य सामर्थ्यमस्तीत्यावरणानुपपत्तिः। यच्च दूरीभूतस्याग्रहणं अन्तिके च ग्रहणं तत्र (न्न ?) स्यादविशेषात्। स्यादेतत्—य एव हि चक्षुषो विषयीभवत्यर्थः स उपलभ्यते यश्च न भवति नासावुपलभ्यत इति। तच्च नैवम्। सम्बन्धव्यतिरेकेण विषयीभावानुपपत्तेः। कोऽयं सम्बन्धव्यतिरेकेण विषयीभावो नाम। केवलं मयोच्यते सम्बन्ध इति भवताऽभिधीयते विषयीभाव इति न कश्चिद्विशेष इति। तदेतदसम्यक्। कारणीभावो हि विषयीभाव उच्यतेऽस्माभिर्न सम्बन्धः। तथाहि—रूपादिर्विषयश्चक्षुषो विज्ञानोत्पत्तौ सहकारीतां प्रतिपद्यमानो विषयीभवतीत्युच्यते, नतु तेन सहाश्लिष्यन्। द्विविधश्च सहाकारार्थः। परर्स्प(म्प?)रोपकारो वा, यथा— प्रभावश्च (प्रस?)रादपवरकप्रतिष्ठस्य, एकार्थक्रिया वा, यथोन्मिषतमात्रेण रूपं गृह्णतः। उभयथापि विज्ञानस्य कारणविशेष एव विषय उच्यते, नतु सम्बन्धी॥ स एव कारणविशेषप्रतिनियमोऽसति सम्बन्धे न स्यादिति चेत्। न। स्वकारणशक्तितः प्रतिनियमसिद्धेस्तथाभूत एवासौ स्वकारणादुत्पद्यमान उत्प(पप?)द्यते, येन कश्चिदेव ज्ञानजनको भवति नान्यः, कारणभेदेन भिन्नस्वभावत्वात्सर्वभावानाम्। यथा च भवतस्तुल्येऽपि सम्बन्धे किमिति चक्षु रूपमेवोपलभते न रसम्।तेनासम्बन्धान्नोपलभत इति चेत्, स एव हि सम्बन्धः किमिति न स्यात्, देशस्याभिन्नत्वात्। न ह्यत्र नियामकं किञ्चिदस्ति कारणम्, येनाभिन्नदेशत्वेऽपि रूपमेवानुसरति चक्षुर्न रसं तद्देशवर्त्तिनमपि, नाप्यतिदूरदेशवर्त्ति रूपमिति। स्वहेतुर्नियामक इति चेत्। तदेतदप्राप्तिपक्षेऽपि समानमित्यलं विस्तरेण॥ २५२३॥
“भिन्नाभाना”मित्यादिना परस्य चोद्यमाशङ्कते।
भिन्नाभानां मतीनां चेदेकालम्बनता कथम्।
तुल्यं रूपधियामेतच्चोद्यं बाह्यार्थवादिनाम्॥ २५२४॥
कथं भिन्नाभानां मतीनामेको विषयो भवेत्, एवं हि रसरूपादिबुद्धीनामेकालम्बनता स्यादिति परस्याभिप्रायः। परिहारमाह—“तुल्य”मित्यादि। रूपधियां —रूपविषयाणामपि बुद्धीनाम, एतच्चोद्यं समानम्—कथमेकविषयता भवेद्दूरासन्नादिभेदेन स्पष्टादिप्रतिभासानामिति। एतच्च बाह्यार्थवादिनां चोद्यम्। ये विषयगतमेवाकारं वर्णयन्ति न विज्ञानगतम् ते पुनर्विज्ञानवादिनस्तेषां सर्वमेव विज्ञानन्निर्विषयमात्मसंवेदनं स्पष्टाद्याकारभेदवद्भिन्नमेवोपजायत इति न तेषां चोद्यम्। येषामपि बाह्यार्थावादिनां साकारं ज्ञानमिति पक्षस्तेषां सर्वात्मना विषयसारूप्यानभ्युपगमात्केनचिदंशेन सारूप्याद्भिन्नाभानामपि मतीनामेकविषयत्वमविरुद्धमेवेति न चोद्यम्॥ २५२४॥
शब्दस्य तर्हि प्राप्तिग्रहणे किं बाधकं प्रमाणं अप्राप्तिग्रहणे च किं साधकमिति प्रश्ने सत्याह—“प्राप्ती”त्यादि।
प्राप्तिग्रहणपक्षे तु कर्णाभ्यन्तरपक्षवत्।
न विच्छिन्न इति ज्ञानं मेघशब्दादिके भवेत्॥ २५२५॥
कर्णाभ्यन्तरपक्षवदिति वैधर्म्यदृष्टान्तः। षष्ठ्यन्ताद्वतिः। यथा कर्णकण्डूविनोदनकारिणः पतत्रिपक्षस्याविच्छिन्नं शब्दं उपलभ्यते, तथा मेघादिशब्दस्यापि कदम्बगोलकन्यायेन प्रविसर्पतः कर्णदेशमागतस्यैव ग्रहणात्तुल्यं ग्रहणं प्राप्नोति। न चस्वकारणसंयोगसमवायिदेशवशादयं विच्छेदविभ्रम इति शक्यं वक्तुम्। तेषां श्रोत्रेणाग्रहणात्। न ह्यविषयीभूतपदार्थाकारमारोपयदुत्पद्यते क्वचिद्विज्ञानम्। नहि चक्षुर्विज्ञानं रससारूप्यं समारोपयतीत॥ २५२५॥
तदेवं प्राप्तिग्रहणे बाधकं प्रमाणमभिधायाप्राप्तिग्रहणे साधकमाह—“तद्विच्छिन्न” इत्याद।
तद्विच्छिन्न इति ज्ञानजनकत्वाद्यथा मनः।
श्रोत्रमप्राप्यकारि स्यान्नान्यथैवं त्वगादिवत्॥ २५२६॥
“तदि”ति। तस्मात्। नान्यथैवं त्वगादिवदिति वैधर्म्यदृष्टान्तः। यथा त्वगादेरिन्द्रियस्य विच्छेदेन ग्रहणं न भवति तथाऽत्रापि स्यादिति यावत्॥ २५२६॥
“मनोपी”त्यादिना दृष्टान्तस्य साध्यविकलतामाशङ्क्य परिहरति।
मनोऽपि प्राप्यकारीति ये प्राहुः क्षणमात्रतः।
विदुरतरदेशस्थं चेतस्तेषां न युज्यते॥ २५२७॥
अत्रोद्योतकरकुमारिलादयः प्रमाणयन्ति—प्राप्यकारिणी चक्षुःश्रोत्रे बाह्येन्द्रियत्वात् घ्राणादिवत्। बाह्यग्रहणमन्तःकरणेन मनसा व्यभिचारपरिहारार्थम्। तथा करणत्वे सति व्यवहितार्थानुपलम्भकत्वात् घ्राणादिवत्। विषयनिवृत्त्यर्थं करणत्वे सतीति विशेषणम्। तथा रूपशब्दो प्राप्यकारिबाह्येन्द्रियग्राह्यौ बाह्येन्द्रियार्थत्वात्, गन्धरसवत्। तथा रूपशब्दविज्ञाने प्राप्यकारिबाह्येन्द्रियग्राह्यविषयालम्बने बाह्येन्द्रियार्थालम्बनत्वात, गन्धरसज्ञानवदिति। अत्र दूषणमाह—“यत्त्वि”त्यादि।
यत्तु बाह्येन्द्रियत्वादि प्राप्यकारित्वसाधनम्।
अन्यधर्मविजातीयाद्विरोधाद्व्यभिचारि तत्॥ २५२८॥
सुबोधम्॥ २५२८॥
तस्माच्छ्रोत्रियदृष्टेयमित्यादावाह—“व्यस्ता” इत्यादि।
व्यस्ताः पूर्वं च संयोगविभागव्यतिरेकिणः।
वायोरक्षति(णि?)कत्वाच्च युक्ता नाव्यतिरेकिणः॥ २५२९॥
अतएवाविशेषत्वाद्गतिर्नास्योपपद्यते।
वेगाभावादतो नासौ यावद्वेगं प्रतिष्ठते॥ २५३०॥
पूर्वमिति। षट्पदार्थपरीक्षायाम्। अव्यतिरिक्तास्तर्हि भविष्यन्तीत्याह—“वायो”रित्यादि। वायव एव हि संयुक्ता वियुक्ताश्चोत्पद्यमाना अव्यतिरिक्ताः संयोगविभागा उच्यन्ते। नचाक्षणिकाः क्रमेणापि संयुक्तस्वभावा युज्यन्ते तेषामेकरूपत्वात् ॥ २५२९॥ २५३०॥
यदुक्तम्—कर्णव्योमनि सम्प्राप्त इत्यादि, तत्राह—“कर्णे”त्यादि।
कर्णव्योमनि सम्प्राप्तः शक्तिं श्रोत्रे करोति चेत्।
तत्कशाघातवत्कस्माच्छब्दवित्तौ न तद्गतिः॥ २५३१॥
शब्दावधानमेतस्य प्रतिबध्नाति वेदनाम्।
इत्ययुक्तं कशाघातवातान्तरविदस्तथा॥ २५३२॥
अत्र पक्षद्वयं कदाचिदसौ वायुरुपलभ्यस्वभावो वा भवेत्। अनुपलभ्यस्वभावो वा। प्रथमे पक्षे शब्दवित्तिकाले कशाघातस्येव वायोरपि गतिरूपलब्धिः प्राप्नोति। अथापि स्याद्युगपद्विज्ञानद्वयानुत्पत्तेः, शब्दावधानं—शब्दोपलम्भः, एतस्य वायोर्वेदनामुपलब्धिं प्रतिबध्नातीति। तदेतदयुक्तं शब्दोपलब्धिकाले कशाघातवातान्तरविदो वक्तुम्। यथाहि वातान्तरस्य व्यजनादिकृतस्य कशाघातस्य च शब्दोपलम्भवेलायामनुभवो भवेत्तथा कर्णदेशप्राप्तस्यापि वायोः स्पर्शवित्तिः स्यात्। एतेनयुगपद्विज्ञानानुत्पत्तिप्रतिज्ञायाः प्रत्यक्षविरोधमाह॥ २५३१॥ २५३२॥
न चाशूत्पत्तिबलाद्युगपद्ग्रहणभ्रान्तिरतिप्रसङ्गादिति प्रतिपादितम्। भवतु नाम क्रमभागेऽपि लाघवकृतो यौगपद्यविभ्रमस्तथाप्येतदुत्तरमत्र प्रकृतानुपयोगित्वान्न किञ्चिदिति प्रतिपादयति—“लाघवादि”त्यादि।
लाघवात्क्रमभावेऽपि युगपद्भ्रान्तिरित्यदः।
न किञ्चित्सर्वथाऽप्यस्मिन्वायोरनुपलम्भनात्॥ २५३३॥
यदि नाम विज्ञानस्योत्पत्तिलाघवाद्यौगपद्यविभ्रमो भवतीति, स्यात्। नतु पुन रुपलब्धिलक्षणप्राप्तस्य सर्वथाऽनुपलम्भ एव भवति। तथाह्यत्र सर्वथैव क्रमेण यौगपद्येन वा वायोः कर्णदेशप्राप्तस्यानुपलम्भ एव तस्माल्लाघवकृतोऽयं विज्ञानो यौगपद्यविभ्रम इत्येतदुत्तरं न किञ्चित्। तुच्छमित्यर्थः॥ २५३३॥
“अथापी”त्यादिना द्वितीयपक्षमाह।
अथाप्यतीन्द्रियो वायुः काणादैरिव वर्ण्यते।
युष्माभिरपि तद्भव्य(द्भाष्ये?)स्पृष्ट्याप्तिस्तत्र किङ्कृता २५३४
काणादाः—वैशोषिकाः। तेषां शब्दलिङ्गो वायुः। भाष्यकृताऽपि शबरेणोक्तम् — वायवीयाः संयोगविभागा अप्रत्यक्षस्य वायोः कर्णशष्कुलीप्रदेशात्प्रादुर्भवन्तोनोपलभ्यन्त इति। अत्र दूषणमाह—“स्पृष्ट्याप्तिस्तस्य किङ्कृते”ति। स्पृष्टिः स्पर्शः तस्याप्तिः प्राप्तिः प्रसङ्ग इति यावत्। एतदुक्तं भवति—तस्य वायोः स्पर्शप्रसङ्गो योऽयं भाष्यकारेण कृतः स कथम्, तथाहि—वायुरापद्यते शब्दतामित्येवंवादिनः शिक्षाकारन्प्रति भाष्यकृतोक्तम्— वायवीयश्च शब्दो भवेद्वायोः सन्निवेशविशेषः स्यात्। नच वायवीयानवयवान्शब्दे सतः प्रत्यभिजानीमः। यथा पटस्य तन्तुमयान्। न चैवं भवति। स्याच्चेदेवं स्पर्शनेनोपलभेमहि। नच वायवीयानवयवान्शब्दगतान्स्पृशाम इति॥ २५३४॥
अभ्युपगम्याप्यतीन्द्रियत्वं दोषान्तरमाह—“अस्तु वे”त्यादि।
अस्तु वाऽतीन्द्रियो वायुस्तत्तद्योगिगतस्य तु।
उष्णशीतेतरस्य स्यात्स्प्रष्टव्यस्य विदन्यवत्॥ २५३५॥
तेन तेन वायुना योगस्तत्तद्योगः, स यस्तास्ति जलतेजोजतीसञ्ज्ञकस्य भूतत्रयस्य तत्तथोक्तम्। तद्गतं तत्प्राप्तं तदाश्रितमिति यावत्। द्वितीयाश्रितेत्यादिना द्वितीयासमासः। एतच्च स्प्रष्टव्यस्येत्यनेन समानाधिकरणम्। तस्य स्प्रष्टव्यस्य शीतोष्णेतरत्वभावस्य वित्—वेदना प्राप्नोति। “अन्यव”दिति। शब्दव्यञ्जकाभिमतकोष्ठवायुगतादन्यस्येव। षष्ठ्यन्ताद्वतिः। यथा शिशिरसमये हिमनिचयव्यासङ्गवाहिनः पवनस्य, यथा वा तरुणतरणिकरप्रसङ्गावरुद्धाशेषदिग्विभागे वहतो निदाघसमये समीरणस्य, तथा शीतेतरविरहितकालवर्त्तिनो मातरिश्विनः स्प्रष्टव्यस्य शीतादेः संविद्भवति, तथेहापि स्यात्॥ २५३५॥
“अथापी”त्यादिना परस्योत्तरमाशङ्कते।
अथापि कर्णशष्कुल्या तस्यायोगान्न चेन्मतिः।
कर्णव्योम न सम्प्राप्त इत्येतन्नु कथं ग(म?)तम्॥ २५३६॥
तस्माच्छ्रोत्रियदृष्टेयं कल्पना निर्निबन्धना।
विदुषां प्रीतये नेति श्रोत्रियेष्वेव राजते॥ २५३७॥
“तस्ये”ति। वायोः। “अयोग” इति। असंसर्गः। कर्णशुष्कुल्येति सम्बन्धः। शेषंसुबोधम्॥ २५३६॥ २५३७॥
यदुक्तम—यद्वा वेदानुसारेणेत्यादि, तत्र समानत्वाद्दूषणस्येत्यत्रैवातिदेशं कुर्वन्नाह—“ये निरंश”मित्यादि।
ये निरंशं नभः प्राहुस्तान्प्रति प्रागुदीरिताः।
दोषो ज्ञेया निरंशैकदिक्छ्रोत्रऽत्वेपि ते समाः॥ २५३८॥
निरंशाकाशात्मकश्रोत्रपक्षे ये प्रागुक्ता दोषाः संस्कारवैयर्थ्यं संस्कारानुपपत्तिश्चेत्यादयस्ते दिक्छ्रोत्रपक्षेऽपि समाना इति न पृथक् दूषणं वाच्यम्॥ २५३८॥
यदुक्तम्—यद्यपि व्यापि चैकं चेत्यादि, तत्राह—“एखव्यापिनभःपक्ष” इत्यादि।
एकव्यापिनभःपक्षे विभागो न प्रकल्प्यते।
संस्कृताश्रयमन्यच्चेत्येकमेव हि तन्नभः॥ २५३९॥
एकव्योमात्मकं श्रोत्रं नास्त्यसंस्कृतशष्कुलि।
अतोऽधिष्ठानभेदेन संस्कारनियमोऽस्थितः॥ २५४०॥
तेनैकस्मिन्नधिष्ठाने लब्धसंस्कारमिन्द्रियम्।
बोधकं सर्वदेशेषु विज्ञानोत्पत्तिरिष्यताम्॥२५४१॥
पुंसां देहप्रदेशेषु विज्ञानोत्पत्तिरिष्यताम्।
किन्तु प्रधानवैदेश्यमेकत्वान्नभसो न ते॥ २५४२॥
निष्प्रदेशोऽपि चात्मा नः कार्त्स्न्येन च विदन्नपि।
शरीर एव गृह्णातीत्येवमुक्तेऽपि दुष्यति॥ २५४३॥
बाधिर्याद्यव्यवस्थानमेतेनैव च हेतुना।
तदेवाभोग्यमन्यस्य नाविशेषाद्धि युज्यते॥ २५४४॥
“अन्यच्चे”ति। असंस्कृताश्रयम्। नह्यनवयवस्यायं विभागो युक्तः, सावयवत्वप्र सङ्गात्। काल्पनिके तु विभागेऽर्थक्रियावृत्त्या(त्त्य?)वृत्तिविरोधः, नह्यारोपितार्थानुविधायिन्योऽर्थक्रिया भवन्ति, तासां वस्तुप्रतिबद्धत्वात्। ततश्चैकस्मिन्नधिष्ठाने यदि संस्कृतमिन्द्रियं तच्च बोधकस्वभावं तदाऽधिष्ठानान्तरे तदेव तत्परमार्थत इतिसर्वत्रैव तत्संस्कृतं बोधकं च प्राप्नोति। तेन यदुक्तं पुंसां देहप्रदेशेष्वित्यादि, तत्सर्वं प्रत्युक्तम, एकस्य पारमार्थिकविभागायोगादिति दर्शयन्नाह—“पुंसामि”त्यादि।“प्रधानवैदेश्य”मिति। प्रधानस्य शरीरस्य वैदेश्यं भिन्नाकाशदेशवर्त्तित्वम्। “एवमुत्त्केऽपि दुष्यती”ती। एकस्य विभागायोगात्। “अव्यवस्थान”मिति। व्यवस्थानाभावः॥ २५३९॥ २५४०॥ २५४१॥ २५४२॥ २५४३॥ २५४४॥
अविशेषमेव दर्शयति—“अत्यक्तपूर्वरूपं ही”त्यादि।
अत्यक्तपूर्वरूपं हि विशेषानुदये सति।
कथं नाम भवेच्छ्रोत्रमभोग्यमपरस्य ते॥ २५४५॥
अथापि स्याद्धर्माधर्माभ्यां वशीकृतत्वाद्विशेषोऽस्त्येवेत्याह—“नित्यत्वादि”त्यादि।
नित्यत्वादनपेक्षत्वाद्धर्माधर्भावशीकृतम्।
सदैव च नभःश्रोत्रं सर्वाभोग्यं प्रसज्यते॥ २५४६॥
नित्यत्वमनपेक्षत्वे हेतुः, तथाऽवशीकरणस्य॥ २५४६॥
अथानपेक्षस्यापि वशीकरणं कस्मान्न भवतीत्याह—“धर्माधर्मे”त्यादि।
धर्माधर्मोपकार्यं हि नभो नैव कदाचन।
नित्यत्वात्कार्यताभावे चास्य केयं वशीक्रिया॥ २५४७॥
अनपेक्षत्वेन ह्यकार्यत्वमुच्यते, यच्चाकार्य न तत्केनतिद्वशीक्रियते, यथा शशविषाणम्, अप्रतिसङ्ख्या निरोधादिर्वा, अकार्यं च श्रोत्रमिति व्यापकविरुद्धोपलब्धिः।“नित्यत्वा”दित्यनेन हेतोरसिद्धतां परिहरति, “कार्यताया अभावे केयं वशीक्रिये”त्यनेनानैकान्तिकतमाम्॥ २५४७॥
ननु चाकार्यस्यापि वशीक्रिया दृश्यते, यथा—प्रागभोग्यस्य श्रोत्रस्य पश्चान्मन्त्रौषधादिशक्त्या भोग्यत्वं भवति, ततश्च हेतोरनैकान्तिकतेति, तत्र परिहारमाह —“मन्त्रौषधादी”त्यादि।
मन्त्रौषधादिशक्त्या च पुनर्भोग्यं कथं भवेत्।
नित्यत्वान्नहि तत्तेभ्यो विशेषं प्रतिपद्यते॥ २५४८॥
आदिशब्देनोल्लेखनादिपरिग्रहः। “कथं भवेदि”ति। यदि तत्रापि न कार्यता भवेदित्यध्याहारः। ननु चाकार्यस्यापि सतो विशेषोत्पत्तिमात्रेण वशीक्रिया भविष्यतीत्याह—“नित्यत्वादि”त्यादि॥ २५४८॥
एवं तर्ह्यधिष्ठानस्यानित्यत्वात्तत्संस्कारद्वारेण नित्यस्यापि श्रोत्रस्य वशीक्रिया भविष्यतीत्याह—“अधिष्ठाने त्वि”त्यादि।
अधिष्ठाने त्वनित्येऽपि क्षणिकानित्यता न चेत्।
तदात्मातिशयायोगाद्बाधिर्यादि न युज्यते॥ २५४९॥
“अनित्येऽपी”ति। कालान्तरविनाशात्तस्यापि ह्य(ह्या?)विनाशमेकरूपत्वान्नित्यस्येव नातिशयोत्पत्तिः सम्भवतीति कुतः संस्कारः॥ २५४९॥
अभ्युपगम्यातिशयं दोषमाह—“अस्तु वे”ति।
अस्तु वाऽतिशयस्तस्मिन् व्योम्नि त्वेष न विद्यते।
नचाधिष्ठानसम्बन्धान्नित्यत्वादनपेक्षणात्॥ २५५०॥
अतस्तद्द्वारकोऽप्यत्र बाधिर्यादि न युज्यते।
नभसो भागवत्त्वेऽपि नित्यतायामिदं समम्॥ २५५१॥
“एष” इति। अतिशयः। यद्यपि न विद्यते तथाप्यधिष्ठानसम्बन्धात्तस्यापि भविष्यतीत्याह—“नचाधिष्ठाने”त्यादि। यदुक्तम्—नचानवयवं व्योमेत्यादि, तत्रापिसावयवस्य नभसो यदि नित्यत्वमभ्युपगम्यते तदा यदनवयवनित्यनभःपक्षे दूषणं तत्सर्वं समानमित्यतिदिशति—“नभस” इत्यादि॥ २५५०॥ २५५१॥
यदुक्तम्—यथा तत्र भवन्नेवेत्यादि, तत्राह—“तत्रैव भवत” इत्यादि।
तत्रैव भवतोऽप्येवं स्वामित्वादपकर्षणम्।
न युक्तं यदि तस्यापि क्षणिकत्वं समस्ति न॥ २५५२॥
को हि तस्याः समुत्पन्नः पश्चादतिशयो यतः।
स्वामित्वादपकृष्टोऽसौ न भोगं पुनराप्नुयात्॥ २५५३॥
सुबोधम्॥ २५५२॥ २५५३॥
यदुक्तम्—व्यञ्जकानां हि वायूनामित्यादि, तत्राह—“यदा चे”त्यादि।
यदा च संस्कृतिर्नैवं श्रोत्रे शब्दे च युज्यते।
भेदाभेदविकल्पेन संस्कारानुपपत्तितः॥ २५५४॥
व्यतिरेक हि संस्कारे श्रोत्रशब्दौ न संस्कृतौ।
स्यातां ताभ्यां च सम्बन्धः संस्कारस्य न कश्चन॥ २५५५॥
विभिन्नस्य हि सम्बन्धः कार्यकारणता भवेत्।
तस्यां च सर्वदैवायं भवेद्धेतोः सदा स्थितेः॥ २५५६॥
अनर्थान्तपक्षेऽपि तद्वन्नित्यो भवेदसौ।
तन्न शक्यक्रियस्तस्मान्नित्यं ज्ञानं प्रसज्यते॥ २५५७॥
तन्न सामर्थ्यनियमो वाय्वादेरुपपद्यते।
कर्त्तव्यविषयायोगे सामर्थ्यस्याप्ययोगतः॥ २५५८॥
“यदे”ति। यतः कारणादित्यर्थः। एवम्—अनन्तरोक्तेन प्रकारेण। नित्यस्यातिशयाभावान्नैव संस्कृतिर्युज्यते। तन्न सामर्थ्यनियमो वाय्वादेरुपपद्यत इति वक्ष्यमाणेन सम्बन्धः। यथा चासौ संस्कृतिर्नोपपद्यते तथा तावद्विस्तरेणदर्शयन्नाह—“भेदाभेदे”त्यादि। संस्कृतिर्भवन्ती व्यतिरिक्ता वा भवेदव्यतिरिक्ता वेति पक्षद्वयं, वस्तुनः प्रकारान्तरासम्भवात्। प्रथमे पक्षे श्रोत्रशब्दयोः संस्कारासिद्धिप्रसङ्ग, अर्थान्तरकरणात्, नहि घटकरणे पटः संस्कृतो नाम। नापि तस्य संस्कारस्य ताभ्यां सह सम्बन्धः सिद्ध्यति, येन तत्सम्बन्धिसंस्कारकरणद्वारेण तौ संस्कृतौ स्याताम्। तथाहि—भेदाभ्युपगमान्न तादात्म्यलक्षणः सम्बन्धः। भिन्नस्य च सम्बन्धो भवन्कार्यकारणतालक्षण एव भवेदन्यत्रोपकाराभावात्। तस्यां च कार्यकारणतायां सत्यां सर्वदैवायं संस्कारो भवेत्, हेतोः श्रोत्रशब्दात्मकस्य सर्वदाऽवस्थितत्वात्। द्वितीयेऽपि पक्षे दोषमाह—“अनर्थान्तरे”त्यादि। “तद्व”दिति। श्रोत्रशब्दस्वरूपवत्। “असा”विति। संस्कारः। ततश्च नित्यत्वादसौ संस्कारो न केनचित्क्रियते। तस्माच्च संस्कारादिज्ञानोत्पत्ताविष्यमाणायां नित्यं ज्ञानं प्रसज्येतेति नित्यत्वे दोषः। “तन्ने”त्यादिनोपसंहरति॥ २५५४॥ २५५५॥ २५५६॥ ॥ २५५७॥ २५५८॥
“अत” इत्यादिना शब्दानित्यत्वसाधने प्रमाणयति।
अतोऽभिव्यक्त्ययोगेन शब्दज्ञानमिदं फलम्।
ग्राह्योत्पादाविनाभाविघटादिव्यक्तिबुद्धिवत्॥ २५५९॥
तस्मादुत्पत्त्यभिव्यक्त्योः कार्यार्थापत्तितः समः।
सामर्थ्यभेदः सर्वत्र स्यात्प्रयत्नविवक्षयोः॥ २५६०॥
प्रयोगः—यत्कादाचित्कं तदुत्पत्तिमत्कारणजन्यम्, यथा घटव्यक्तिविषयं ज्ञानम्, कादाचित्कं च शब्दज्ञानमिति स्वभावहेतुः। नित्यं तज्ज्ञानासंवित्तेर्नासिद्धो हेतुः। अभिव्यक्तेरपास्तत्वान्नाप्यनैकान्तिकः। सपक्षे भावान्न विरुद्धः। “इदम्फ”लमिति। इदं ग्राह्योत्पादाविनाभाविलक्षणं फलमस्येति विग्रहः। शेषं सुबोधम् ॥ २५५९॥ २५६०॥
दिक्श्रोत्रपक्षे पूर्वमेव दूषणस्योक्तत्वान्न पुनरुच्यते। अतएव पूर्वोक्तं तदेव दूषणं स्मारयन्नाह—“यावांश्चे”त्यादि।
यावांश्च कश्चन न्यायो नभोभागत्वदूषणे।
दिग्भागेऽपि समस्तोऽसौ विज्ञेयो मतिशालिभिः॥ २५६१॥
यदुक्तम्— विषयस्यापि संस्कारे तेनैकस्यैव संस्कृतिः। इत्यादि, तत्राह—“विषयस्ये”त्यादि।
विषयस्यापि संस्कारे तेनैकस्यैव संस्कृतिः।
नास्तत्वाच्छक्तिनियतेर्नातो विषयसंस्कृतिः॥ २५६२॥
“ने”ति। विषयस्यापि संस्कारे तेनैकस्यैव संस्कृतिरित्येतन्न। कुतः, अस्तत्वात्—प्रतिक्षिप्तत्वात्। संस्कारस्येति शेषः। तथाहि व्यतिरिक्तोऽव्यतिरिक्तश्च संस्कारः पूर्वं निरस्तः, इतोऽपि न विषयस्य संस्कारः। कुतः, शक्तिनियतेर्वक्ष्यमाणायाः। शक्तिनियतेश्चेति चकारो लुप्तनिर्दिष्टो द्रष्टव्यः। तेनायमर्थो भवति। शक्तिनियमाच्चातो वक्ष्यमाणान्न विषयसंस्कारो युक्तः॥ २५६२॥
तमेव शक्तिनियमं दर्शयति—“ज्ञानोत्पत्ता”वित्यादि।
ज्ञानोत्पत्तावयोग्यत्वे गम्येत न कदाचन।
सर्वैः सर्वत्र शब्दोऽयं तज्ज्ञानेऽनुपयोगतः॥ २५६३॥
ज्ञानोत्पत्तौ तु सामर्थ्ये सर्वैः सर्वत्र सर्वदा।
अवगम्येत शब्दोऽयं ज्ञानहेतुतया स्थितेः॥ २५६४॥
कदाचिदसौ शब्दः प्रकृत्या ज्ञानोत्पत्तावयोग्यो भवेन्नवेति पक्षद्वयम्। प्रथमे पक्षे न कदाचित्केनचिदवगम्येत। द्वितीयेऽपि सर्वैः सर्वदैवावगम्येत, एकरूपत्वात्। अतो न संस्कारस्य सामर्थ्यम्॥ २५६३॥ २५६४॥
स्यादेतत्समर्थोऽपि विरोधिप्रत्ययबलात्कदाचिद्विज्ञानं नोत्पादयेत्। तथा असमर्थोऽपि सहकारिप्रत्ययाहितसामर्थ्यः सन्नुत्पादयिष्यतीति, तत्राह—“तं ही”त्यादि।
तं हि शक्तमशक्तं वा प्रकृत्यैवात्मनि स्थितम्।
विरोधी सहकारी वा कोऽर्थं क्षपयितुं क्षमः॥ २५६५॥
नहि स्वभावमखण्डयन्ननुत्पादयन्वा विरोधी सहकारी वा युक्तोऽतिप्रसङ्गात्। खण्डनोत्पादनाभ्युपगमे नित्यत्वहानिप्रसङ्ग॥ २५६५॥
यदुक्तम्—यथैवोत्पद्यमान इत्यादि। तत्राह—“ज्ञानोत्पादने”त्यादि।
ज्ञानोत्पादनयोग्यश्च कांश्चित्प्रति भवत्ययम्।
तस्मादुत्पद्यमानोऽयं न सर्वैरवगम्यते॥ २५५६॥
अथवा यत्समीपस्थैर्नादैः स्यादस्य संस्कृतिः।
तैरेव श्रूयते शब्दो न दूरस्थैस्तु किं पुनः॥ २५६७॥
उत्पत्तिपक्षे नायं दोषः, यतः प्रतिनियतविज्ञानोत्पत्तिसमर्थं एव स्वहेतोरुपजायते, तेन न सर्वैः सर्वदा गम्यते। यस्य तु संस्क्रियते शब्दस्तस्यैवायं दोषो यदि नाम संस्कारः सम्भवतीति दर्शयन्नाह—“अथवे”त्यादि। न केवलं प्रकृत्या ज्ञानोत्पादनसामर्थ्याभ्युपगमे दूरस्थस्यापि ग्रहणं प्राप्नोतीति दोषः, संस्कारपक्षेऽपि दोष एवेत्यतः पक्षान्तरमुक्तम्। “न दूरस्थैस्तु किं पुन”रिति। श्रूयत इति सम्बन्धः। अपि तु श्रुत ए(श्रूयेतै ?)वेति साक्षाद्दर्शयति॥ २५६६॥ २५६७॥
एतदेव व्यक्तीकरोति—“सामीप्ये”इत्यादि।
सामीप्येऽपि हि संस्कारः कारणं परिकल्प्यते।
संस्कारः स समानश्च तेषु दूरस्थितेष्वपि॥ २५६८॥
शब्दोत्पत्तौ निषिद्धत्वादित्यादावाह—“विशिष्टसंस्कृते”रित्यादि।
विशिष्टसंस्कृतेर्जन्म ध्वनिभ्यो यदि गम्यते।
शब्दोत्पत्तिः प्रतिक्षेप्तुं न शक्या केनचित्तदा॥ २५६९॥
विशिष्टसंस्कृतिः शब्दात्सा हि न व्यतिरेकिणी।
शब्दस्याज्ञेयताप्राप्तेस्ततः शब्दोऽपि जायते॥ २५७०॥
यदि संस्कृतिरुत्पद्यते तदा शब्दस्याप्युत्तिप्रसङ्गः, तस्य संस्कृतेरव्यतिरेकात्। अथ व्यतिरेकस्तदा संस्कारादेव ज्ञानोत्पत्तेः शब्दस्याकारकत्वादज्ञेयत्वप्रसङ्गः। (ततः) शब्दोऽपि जायत इत्यङ्गीकर्त्तव्यम्॥ २५६९॥ २५७०॥
अथापि स्याद्यथा प्रतिनियतज्ञानोत्पादनसमर्थः शब्द उत्पद्यते भवतां तथाऽ स्माकमपि संस्कारप्रतिनियमो भविष्यति, तेन दूरस्थैर्न गम्यत इति। अत्राह—“संस्कृतश्चे”त्यादि।
संस्कृतश्चैकदा शब्दस्तमात्मानं न जातुचित्।
जहात्यनित्यतासङ्गादुपलभ्येत चेत्सदा॥ २५७१॥
यदि नाम प्रतिनियतपुरुषसन्तानवर्त्तिज्ञानोत्पादनसमर्थः संस्क्रियते तथापि दोष एव। तथाहि—यदि ज्ञानोत्पादनयोग्यं संस्कृतस्वभावं न जहाति तदा सर्वदैव तज्ज्ञानोत्पत्तिप्रसङ्गः। अथ जहाति तदाऽनित्यत्वप्रसङ्गः। तस्मादुत्पद्यत एवेत्यङ्गीकर्त्तव्यम्॥ २५७१॥
यदुक्तम्—संस्कारद्वयपक्षे त्वित्यादि तत्राह—“द्वये”त्यादि।
द्वयसंस्कारपक्षेऽपि सत्यं दोषद्वये (व)चः।
यन्नान्यतरवैकल्यं प्राक्तनस्यानुवृत्तितः॥ २५७२॥
येषामुत्पत्तिपक्षस्तेषां मतेनान्यतरवैकल्यं युज्यते। नतु संस्कारवादिनां पक्षे तेषां सदैव प्राक्तनस्य संस्कृतस्य स्वभावस्यानुवृत्तेः॥ २५७२॥
“तथा ही”त्यादिना तामेवानुवृत्तिं दर्शयति।
तथाहि संस्कृताः श्रोत्रवर्णा यद्व्यञ्जकैः पुरा।
न नष्टास्ते च्युतिप्राप्तेः सर्वैः सर्वश्रुतिस्ततः॥ २५७३॥
“च्युतिप्राप्ते”रिति। अनित्यत्वप्रसङ्गादित्यर्थः। अन्यथा प्रतिज्ञाविशिष्टेः (सृष्टिः ?) स्यात्। “सर्वश्रुति”रिति। सर्वस्मिन्काले श्रुतिः सर्वश्रुतिः। नतु सर्वस्य श्रुतिरिति विग्रहः। कर्मणि चेति समासप्रतिषेधात्॥ २५७३॥
अथापि स्यात्प्रतिनियता(ना)मेव पुंसां श्रुतियोग्यौ संस्कृतौ श्रोत्रवर्णौ तेन सर्वैर्न श्रूयत इति। एवं तर्हि ये अन्येषां वर्णानां प्रतिपत्तारस्तेषां शब्दश्रवणं न प्राप्नोति। एतदेव दर्शयति—“नियते”त्यादि।
नियतश्रुतियोग्यौ चेच्छ्रोत्रवर्णौ च संस्कृतौ।
नान्यवर्णप्रपत्तृणां पुनः स्याच्छ्रवणं तदा॥ २५७४॥
नियतानां पुंसां श्रुतियोग्याविति समासः। अन्ये च ते वर्णप्रपत्तारोऽन्येषां वा वर्णानां प्रपत्तार इति विग्रहः॥ २५७४॥
अथापि स्याद्ये तेऽन्यवर्णप्रतिपत्तारस्तज्ज्ञानोत्पत्तियोग्यं पुनरपि संस्कारान्तरंशब्दश्रोत्रयोर्भवेदित्येतदाशङ्क्य परिहरति—“तद्वर्णे”त्यादि।
तद्वर्णनरविज्ञानयोग्यौ चेत्संस्कृतौ पुनः।
तयोरेवानुवृत्तौ स्यात्तयोरपि ननु श्रुतिः॥ २५७५॥
ते च ते वर्णनराश्चेति समासः। के पुनस्ते ? वर्णा येऽन्यैः प्रतिपत्तृभिर्गृह्यन्ते, नराश्च तेषामेव ये प्रपत्तारः, तेषां विज्ञानं तत्र योग्याविति समासः। “तयोरेवे”ति। पूर्वसंस्कृतयोः श्रोत्रशब्दयोः। “तयोरपी”ति। पू्र्वकयोर्वर्णनरयोः। एतदुक्तं भवति। पश्चाद्यदाऽन्यैः श्रूयते ककारादिवर्णस्तदापि यैः पूर्वश्रुतस्तद्वत्तैरपि श्रूयेत। प्राक्तनस्वभावानुवृत्तेरिति॥ २५७५॥
अथ नानुवृत्तिस्तदाऽनित्यत्वप्रसङ्ग इत्यादर्शयन्नाह—“व्यावृत्ता”वित्यादि।
व्यावृत्तावन्य एवामी श्रोत्रवर्णाः कथं न ते।
प्राप्नुवन्ति ततस्तेषु नित्यताशाऽनिबन्धना॥ २५७६॥
सुबोधम्॥ २५७६॥
यदुक्तम्—जलादिषु यथैकोऽपीत्यादि, तत्राह—“जलादि”ष्वित्यादि।
जलादिषु न चैकोऽयं नानात्मा सवितेक्ष्यते।
प्रतिबिम्बधियः सर्वा यन्निरालम्बनाः स्थिताः॥ २५७७॥
सर्वमेव हि भ्रान्तं ज्ञानं निर्विषयमिति पू्र्वमविशेषेण प्रतिपादितम्। तथापि पुनः प्रतिबिम्बधियां विशेषणा(षेण ?)द्वयोरपि साकारनिराकारपक्षयोः प्रतिपादयति। तत्र प्रथमं पक्षमधिकृत्याह—“निराकारा” इत्यादि।
निराकारा धियः सर्वास्त्वत्पक्षेऽपि व्यवस्थिताः।
आकारवान्पुनर्बाह्यः पदार्थोऽभ्युपगम्यते॥ २५७८॥
जलाद्यन्तर्गतं चेदं प्रतिबिम्बं समीक्ष्यते।
नभस्तलादिवर्त्ती च सूर्यादिर्न तथा स्थितः॥ २५७९॥
तत्कस्माद्भात्यसावेवं भ्रान्त्या चेदत एव तत्।
नतु स्पष्टमनालम्बं तद्रूपार्थवियोगतः॥ २५८०॥
तस्यैव प्रतिपत्तिश्चेदन्यथेदं सुभाषितम्।
तच्चान्यथेति किन्त्वेवं सर्वं स्यात्सर्ववेदकम्॥ २५८१॥
तस्यैव प्रतिपत्तिः स्याद्यदीक्ष्येत तथास्थितम्।
अन्याकारोपलब्धौ तु तस्य दृष्टिः कथं भवेत्॥ २५८२॥
साकारेऽपि हि विज्ञाने न ज्ञातार्थाविलक्षणे।
आकारे सति विज्ञानं ग्राहकं तस्य युज्यते॥ २५८३॥
भवतो हि मीमांसकस्य निराकारं विज्ञानमाकारवान्बाह्योऽर्थस्ततश्च यत्तज्जलान्तर्गतं रूपं दृश्यते न तावदसौ ज्ञानाकारः, बाह्यस्यैवाकारवत्त्वाभ्युपगमात्। नापि तत्प्रतिबिम्बमर्थान्तरभूतमभ्युपगतं सूर्यस्याग्रहणप्रसङ्गात्। नापि सूर्यो जलान्तर्गतो येन तथा भासेत, तस्याकाशदेशवर्त्तित्वात्। भ्रान्त्या तथा भासत इति चेदेवं तर्हि न सूर्यालम्बनं ज्ञानं, तस्य सूर्यस्य जलान्तर्गतरूपाभावात्। ततश्च यद्रूपोऽर्थो यज्ज्ञानेनावभासते तद्रूपार्थवियुक्तत्वात्तद्विज्ञानमनालम्बनमिति सिद्धम्। प्रयोगः—यो यद्विज्ञानप्रतिभासिस्वरूपो न भवति न स तद्विज्ञानविषयः, यथा रूपं श्रोत्रज्ञानस्य, न भवति प्रतिबिम्बविज्ञानप्रतिभासिस्वभावश्च सूर्य इति व्यापकानुपलब्धिः। नासिद्धो हेतुः, सूर्यस्य जलान्तर्गतरूपाभावात्। नाप्यनैकान्तिकोऽतिप्रसङ्गात्। एवं हि यत्किञ्चिद्यस्य कस्यचिदालम्बनं प्राप्नोति। सपक्षे सद्भावात् न विरुद्धः। अथापि स्यात्स एव सूर्यो देशभेदेन केवलमन्यथा प्रतीयत इत्यतो हेतुरसिद्ध एवेति। तदेतद्भवतः प्रौढतार्किकादृते कोऽन्यो वक्तुमर्हति तदेव चान्यथेति। तथाहि तदेवेत्यनेन तत्स्वरूपं विधीयते, अन्यथेत्यनेन तन्निषेधः, तत्कथमेकत्रैकदा परस्परविरुद्धौ विधिप्रतिषेधौ युक्तौ। यदि पुनरन्यथा प्रतीयमानोऽपि स एव स्यात्तदा सर्वविश्वमेकं भवेत्। ततश्च सहोत्पत्तिनाशौ स्याताम्, सर्वं च विज्ञानमेकविषयं स्यात्। तस्माद्यथा देशकालादिभेदवानसावर्थस्तथैव यदि प्रतीयेत, एवं स एव प्रतीतः स्यादिति कुतोऽसिद्धता। द्वितीयेऽपि साकारपक्षे निरालम्बनतां प्रतिबिम्बधियां प्रतिपादयति—“साकारेऽपी”त्यादि। साकारविज्ञानपक्षे हि साकारसंवेदनेऽपि बाह्यार्थाविलक्षणाकारानुभवाद्बाह्यो विदित उच्यते, नतु विलक्षणानुभवात्। अन्यथाऽतिप्रसङ्गः स्यात्। नचात्र प्रतिबिम्बधियां सूर्याकाराविलक्षणाकारानुभवोऽस्ति, अन्यथा ह्यभ्रान्तसूर्यज्ञानाविशेषः प्रतिबिम्बधियां स्यात्॥ २५७८॥ २५७९॥ ॥ २५८०॥ २५८१॥ २५८२॥ २५८३॥
यदुक्तमसूर्यदर्शिनामित्यादि, तत्राह—“पारम्पर्ये”त्यादि।
पारम्पर्यार्पितं सन्तमवाग्वृत्त्यावबुद्ध्यताम्।
किन्तूर्ध्ववृत्तिमेकत्वेऽप्यवागेवानुमन्यते॥ २५८४॥
यथैवावस्थितो ह्यर्कस्तथैवेक्ष्येत यद्यसौ।
अवबुद्धः प्रकल्प्येत नान्यथेत्युपपादितम्॥ २५८५॥
“अवबुद्ध्यता”मिति। आत्मा। ऊर्द्ध्ववृत्तिमिति। “आदित्यम्”—परिस्थितमित्यर्थः।“मन्यत” इति। आत्मा। एतदुक्तं भवति। यदि नामात्मा पारम्पर्यार्पितमुपरिस्थितमादित्यमवाग्वृत्त्याऽवबुध्यते, किमित्यवागेव मन्यते नोर्द्ध्वम्। एवं हि स एवावबुद्धोभवति, यदि यथास्थितो गृह्येत। अन्यथाऽतिप्रसङ्गः स्यात्॥ २५८४॥ २५८५॥
यदुक्तम्—एवं प्राङ्न्तया वृत्त्या प्रत्यग्वृत्तिसमर्पितमित्यादि, तत्राह—“नैवन्तद्ग(प्राग्न?)तये”त्यादि।
नैवं तद्ग(प्राग्न?)तया वृत्त्या प्रत्यग्वृत्ति समर्पितम्।
बुध्यमानो मुखं भ्रान्त्या प्रत्यगित्यवगच्छति॥ २५८६॥
अत्र कारणमाह—“प्रतिबिम्बकविज्ञान”मित्यादि।
प्रतिबिम्बकविज्ञानं स्वास्याद्यालम्बनं न तत्।
तद्विलक्षणनिर्भासाद्रसशब्दादिवित्तिवत्॥ २५८७॥
“तद्विलक्षणनिर्भासा”दिति। भावलक्षणो निर्देशः। तद्विलक्षणनिर्भासत्वादित्यर्थः। बहुव्रीहिश्चायम्। प्रयोगः—यद्यद्विलक्षणनिर्भासं ज्ञानं न तत्तदालम्बनम्, यथा रसादिविज्ञानं न शब्दालम्बनं शब्दविज्ञानं वा रसालम्बनम्, मुखादिविलक्षणनिर्भासाश्च प्रतिबिम्बधिय इति व्यापकविरुद्धोपलब्धिः॥ २५८७॥
(अ)सिद्धतामस्य परिहरन्नाह—“अल्पीयसी”त्यादि।
अल्पीयस्यास्यमल्पीयो दर्पणे प्रतिभाति हि।
विपर्यस्तश्च वृक्षादिर्जलमग्नः प्रतीयते॥ २५८८॥
दर्पणाभिमुखं बिबं नैवं तु प्रतिबिम्बकम्।
जलाद्यन्तर्गतं चेदं बिम्बं त्वारादवस्थितम्॥ २५८९॥
आश्रयानुविधानेन स्थूलसूक्ष्मादिभेदि च।
प्रतिबिम्बं न बिम्बं तु नातो हेतोरसिद्धता॥ २५९०॥
अल्पीयसि दर्पणे महदप्यास्यं—मुखम् अल्पीयः—अल्पतरं प्रतिभाति। अधोगतमु(शा?)खादिश्च जलमग्नो वृक्षादिः प्रतीयते, तथा प्रत्यङ्मुखं मुखमुपलभ्यते जलादिषु दूरप्रतिष्ठं च, न च तथा मुखादिविध(बिम्ब?)कमवस्थितम्। तथा खङ्गा द्याश्रयभेदाद्दीर्घादिभेदाकारेण प्रतिबिम्बकमाभाति, न च तथा दीर्घादिभेदवद्बिम्बकमिति तद्विलक्षणनिर्भासित्वं ज्ञानस्य नासिद्धम्॥ २५८८॥ २५८९॥ २५९०॥
अनैकान्तिकतां परिहरन्नाह—“विलक्षणावभासेने”त्यादि।
विलक्षणावभासेनाप्यर्थसंवेदने सति।
रूपशब्दादिचित्तं स्यात्सर्वं सर्वार्थगोचरम्॥ २५९१॥
ईषत्सम्मीलितेऽङ्गुल्या यच्च चक्षुषि दृश्यते।
पृथगेकोऽपि साऽप्येवं भ्रान्तिर्निर्विषया मता॥ २५९२॥
सर्वस्य ज्ञानस्य सर्वविषयत्वप्रसङ्गो बाधकं प्रमाणम्। यदुक्तम्—ईषत्सम्मीलित इत्यादि, तदप्यनेनैव प्रत्युक्तम्, तस्यापि निर्विषयत्वात्॥ २५९१॥ २५९२॥
यथोक्तमनेकदेशवृत्तौ चेत्यादि, तत्राह—“प्रतिबिम्बोदय” इत्यादि।
प्रतिबिम्बोदयस्त्वत्र प्रागेव विनिवारितः।
सहैकत्र द्वयायोगान्मूर्त्तानां प्रतिघाततः॥ २५९३॥
प्रतिबिम्बस्य हि वस्तुत्वं पूर्वं निषिद्धं मूर्त्तस्याभिन्नदेशत्वानुपपत्तेरित्यादिना ॥ २५९३॥
भवतु नाम प्रतिबिम्बं वस्तुसत्तथापि तस्य समानबुद्धिगम्यत्वमसिद्धमिति दर्शयन्नाह—“अनेकदेशे”त्यादि।
अनेकदेशवृत्तौ वा सत्यपि प्रतिबिम्बके।
स्थूलसूक्ष्मादिवद्भेदादेकत्वं नैव विद्यते॥ २५९४॥
आदिशब्देन दीर्घत्वादिभेदपरिग्रहः। अथापि स्यात्सत्यपि स्थूलादिभेदे केनचिन्नीलादिसाधर्म्येण समानबुद्धिगम्यत्वमस्त्येवेति। एवमपि न पारमार्थिकमैक्यं सिद्ध्यति। कल्पितं तु स्यात्तत्र च सिद्धसाध्यता। अथापि पारमार्थिकमैक्यं स्याद्देशादिभेदेन वेद्यमानेऽपि तदा विप्रचाण्डालयोरपि मनुष्यत्वसाम्यादेकत्वमस्तु। तथा स्त्रीत्वसामान्येन मातुस्ते स्वभार्यायाः स्वमुखापानयोश्च पार्थिवत्वादेकत्वमापद्यते। सर्वस्य विश्वस्य वस्तुत्वादेकत्वे सहोत्पत्तिविनाशादिप्रसङ्गश्चानिवार्य एव ॥ २५९४॥
यदपीदमुक्तं भाष्ये— अथापिस्यादेकस्य सतो नानादेशेषु युगपद्दर्शनमनुपपन्नमित्यादित्यं पश्यतु देवानाम्प्रियो य एकः सन्ननेकदेशावस्थ इव लक्ष्यते, ॥॥॥॥ दूरत्वादस्य देशो नावधार्यते, अतो व्यामोहः, एवं शब्देऽपि व्यामोहादनवधारणं देशस्येति। अत्राह—“पुंसा”मित्यादि।
पुंसामध्यवसायश्च योऽयमेवं प्रवर्त्तते।
ममोपरि स्थितो भानुरिति भ्रान्तः स निश्चितः॥ २५९५॥
सर्वे प्राणभृतो यस्मादेकमेव दिवाकरम्।
पश्यन्ति यौगपद्येन न द्वितीयं कदाचन॥ २५९६॥
रावं न मण्डलं यस्माद्द्वितीयादीह विद्यते।
दृश्यादृष्टेरतश्चार्क एक एव विनिश्चितः॥ २५९७॥
नत्वेवं निश्चितः शब्द एकत्वेन कथञ्चन।
क्रमेण युगपच्चापि तन्नानात्वोपलक्षणात्॥ २५९८॥
यदाहि गादिवर्णं च वक्तारो बहवः सकृत्।
प्रयुञ्जते तदा भेदो विस्पष्टमुपलभ्यते॥ २५९९॥
द्वितीयस्य रविमण्डलस्योपलब्धिलक्षणप्राप्तस्यानुपलम्भादभावनिश्चयादेकत्वसिद्धेर्ममोपरि स्थितो भानुरित्येष भ्रान्तः प्रत्ययोऽवधार्यते। नत्वेवं शब्दस्यैकत्वं सिद्धम्, येन देशादिभेदेन विद्यमानत्वं भ्रान्तं स्यात्। सिद्धे ह्येकत्वे तथाविद्यमानत्वं भ्रान्तं सिद्ध्येत्, तदेव तु न सिद्धमिति यत्किञ्चिदेतत्। “राव”मिति। रवेरिदमित्यणन्तमेतत्। ननु च प्रत्यभिज्ञाप्रत्ययेन शब्दस्याप्येकत्वं सिद्धमेवेत्याह—“नत्वेव”मित्यादि। प्रत्यभिज्ञायाः पूर्वमप्रामाण्यस्य प्रतिपादितत्वादिति भावः। यौगपद्येन नानात्वसिद्धिं प्रतिपादयति—“यदा ही”त्यादि। विस्पष्टमिति। द्रुतमध्यविलम्बितादिभेदेन प्रतिभासनात्॥ २५९५॥ २५९६॥ २५९७॥ २५९८॥ २५९९॥
क्रमेणापि प्रतिपादयन्नाह—“क्रमेण त्वि”त्यादि।
क्रमेण तु प्रयोगेऽस्य प्रत्यक्षेण न केवलम्।
भेदोऽवगम्यते किन्तु लिङ्गादपि धियां क्रमात्॥ २६००॥
प्रत्यक्षेण न केवलमिति। तदाऽपि पज्जा(षड्जा?)दिभेदेन स्पष्टप्रतिभासिभेदानुभवात्, नचायं व्यञ्जकभेदस्तस्य पूर्वं निरस्तत्वात्। “लिङ्गादपी”ति। अनुमानतोऽपीत्यर्थः। प्रयोगः—यद्यदा न भवति न तदा तदविकलकारणं भवति यथारूपालोकमनस्कारादिप्रत्ययकलापेऽपि सति चक्षुर्विकलस्याभवच्चक्षुर्विज्ञानम्, न भवन्ति चैकगकारादिविज्ञानोत्पत्तिकाले पश्चात्कालभावीनि तद्भावित्वेनाभिमतानि विज्ञानानीति व्यापकानुपलब्धिः। अविकलकारणत्वस्य भवनेन व्याप्तत्वात्तस्य चेहाभावः। ननु च सामान्येनाविकलकारणत्वमात्रस्य प्रतिषेधे साध्ये सिद्धसाध्यता। तथाहि नित्यस्य शब्दस्य कारणत्वेऽपि सहकारिकारणवैकल्यादनुत्पत्तिः पश्चात्कालभाविनां प्रत्ययानामिष्यत एव परेण। अथ विशिष्टेन शब्दाख्येन कारणेन यदविकलकारणत्वं तत्प्रतिषेधः साध्यते, तदाऽनैकान्तिकता हेतोः। दृष्टान्तश्च साध्यविकलः। नहि चक्षुर्विज्ञानं शब्दकारणवैकल्यान्न भवति। किं तर्हि ?। चक्षुर्वैकल्यात्। नैतदस्ति। सामान्येनैव साध्यम्, न च सिद्धसाध्यता, तथाहि—यदि नित्यस्य कारणान्तरापेक्षिता सम्भवेत्तदा सिद्धसाध्यता भवेत्। यावता सैव न सम्भवति तस्य तेनानुपकार्यत्वात्। उपकारी ह्यपेक्ष्यः स्यादन्यथाऽतिप्रसङ्गः। तस्मादनपेक्ष्यस्य शब्दस्य कारणत्वाभ्युपगमे सर्वमेव तद्भाविविज्ञानमविकलकारणमेवेति सदैव भवेत्। अभावे तु तदभवद्विज्ञानं तस्यैव शब्दस्य वैकल्यं सूचयेदिति कथं सिद्धसाध्यता। विशेषेणापि कारणवैकल्ये साध्ये नानैकान्तिकता, नापि दृष्टान्तस्य साध्यविकलता। तथाह्ययमत्रार्थो विवक्षितः—यस्मिन्सत्यपि यन्न भवति तत्कारणं भवतो न भवति, यथा चक्षुर्विज्ञानं शब्दे सत्यप्यभवत्, सत्यपि च गकारादिशब्दस्वरूपविशेषे तद्भावित्वेनाभिमतानि ज्ञानानि न भवन्तीति व्यापकानुपलम्भः। अत्रापि नित्यस्यापेक्षानुपपत्तिर्विपर्यये बाधकप्रमाणवृत्तिः। न च कुशूलस्थेन बीजादिना व्यभिचारस्तस्याङकुरं प्रति मुख्यकारणत्वानुपपत्तेरित्यलं प्रपञ्चेन ॥ २६००॥
यदुक्तं पूर्वम्—व्यञ्जकध्वन्यधीनत्वादित्यादिना, तद्वस्तुतो दूषितमपि पुनरपि निवर्त्त्य सत्यपि नित्यानां व्यञ्जके दुष्ट एवायं पक्ष इति विख्यापयिषया दूषयन्नाह—“व्यञ्जके”त्यादि।
व्यञ्जकध्वन्यधीनं च भवत्वस्योपलम्भनम्।
यथाऽवस्थितरूपस्य किन्तु तस्य ग्रहो भवेत्॥ २६०१॥
नान्यथा तद्ग्रहोऽयं स्यात्तद्रूपाप्रतिभासनात्।
व्याप्ताशेषनभोभागो नहि शब्दः प्रकाशते॥ २६०२॥
तद्ध्वनेर्भिन्नदेशत्वं श्रुतिः किमनुरुध्यते।
व्यक्तस्तु प्रतिभासेत स्वात्मनैव घटादिवत्॥ २६०३॥
सर्वं च प्रक्रियामात्रमिदमुक्तं च कारणम्।
व्यञ्जकानामसामर्थ्यं व्यक्त्ययोगाच्च साधितम्॥ २६०४॥
प्रत्यक्षस्तु स एवेति प्रत्ययः प्राग् निराकृतः।
देशभेदेन भिन्नत्वमित्येतत्तदबाधितम्॥ २६०५॥
यदि हि शब्दस्य व्यञ्जकाधीनं ग्रहणं तत्किमिति यथाऽसौ यावद्व्योम स्थितस्तदा न गृह्येत। एवं तस्य तद्ग्रहणं भवेदन्यथाऽतिप्रसज्यत इत्यावेदितं पूर्वम्। न चयावद्व्योम शब्दो गृह्यते। तस्माद्ध्वन्यनुरोधेन (न)शब्दश्रुते(ति?)र्युक्ता। किं तर्हि ?,यस्यासौ श्रुतिस्तमेव शब्दं तस्या अनुरोद्धुं युक्तम्। एवं (च) तस्यासौ सिद्ध्येन्नान्यथा, ततश्च घटादिवत्सर्वात्मनैव प्रतिभासेतेति सङ्क्षेपार्थः। “त”दिति। तस्मात् ॥ २६०१॥ २६०२॥ २६०३॥ २६०४॥ २६०५॥
पर्यायेण यथा चैक इत्यादावाह—“पर्यायेणे”त्यादि।
पर्यायेण च यः कश्चिद्भिन्नदेशाद्व(न्व्र?)जत्य(न्न?)सौ।
सिद्ध्यति क्षणभङ्गित्वान्नान्यथा(स्य गति)र्भवेत्॥ २६०६॥
पूर्वदेशावियुक्तस्य स्वभावस्यानुवर्त्तनात्।
नहि देशान्तरप्राप्तिः स्थैर्ये तस्योपपद्यते॥ २६०७॥
अनित्यस्य हि देशान्तरोत्पत्तिरेव गतिः, न तु नित्यस्य, एकदेशवर्त्तिस्वभावमविजहतो देशान्तरगमनायोगात्। त्यागे वा नित्यत्वहानिप्रसङ्गात्। एतदेव दर्शयति—“पूर्वदेशावियुक्तस्ये”त्यादि॥ २६०६॥ २६०७॥
यथा महत्यां स्वातायामित्यादावाह—“नभस” इत्यादि।
नभसो निरुपाख्यत्वान्नाभिव्यक्तिः प्रकल्पते।
अत्यक्षत्वाच्च खे नायमालोकः स तथेक्ष्यते॥ २६०८॥
नभसो वस्तुत्वासिद्धेर्नाभिव्यक्तिर्युक्ता, स्प्रष्टव्याभावमात्र एव तत्प्रज्ञप्तेः, तथा ह्यन्धकारे प्रतिघातमविदन्त आकाशमेव नात्र किञ्चिदिति वक्तारो भवन्ति। येषामपि वस्तुसदाकाशं तेषां तदतीन्द्रियमेवेति कथं व्योम्नि धीर्भवेत्। अतएवाह—“अत्यक्षत्वाच्चे”ति। यद्येवं मृदि खातायां किं तदुपलभ्यत इत्याह—“आलोकः स” तथेति॥ २६०८॥
सत्यप्याकाशस्य वस्तुत्वेऽभिव्यक्तिर्नैव युज्यते इति दर्शयन्नाह—“किञ्चे”त्यादि।
किञ्च शब्दवदाकाशेऽप्यभिव्यक्तिर्न युज्यते।
ज्ञानं हि व्यक्तिरेषा च नित्यं स्याद्धेतुसन्निधेः॥ २६०९॥
यथाच व्यञ्जकः शब्दे न कथञ्चित्प्रकल्पते।
तत्रात्रैवं परोपाधिः शब्दबुद्धौ सति भ्रमः॥ २६१०॥
नातो दीर्घादयः सर्वे ध्वनिधर्मा इति स्थितम्।
ध्वनीनां व्यञ्जकत्वे हि तत्स्यात्तच्च निराकृतम्॥ २६११॥
“तत्स्या”दिति। दीर्घादीनां ध्वनिधर्मत्वम्। “तच्चे”ति। ध्वनीनां व्यञ्जकत्वम् ॥ २६०९॥ २६१०॥ २६११॥
यदुक्तम्—नचादृष्टार्थसम्बन्ध इत्यादि, तत्राह—“अत्यन्तभेदिनोऽपी”त्यादि।
अत्यन्तभेदिनोऽप्येते तुल्यप्रत्यवमर्शने।
शक्ताः शब्दास्तदर्थाश्चेत्यसकृच्चर्चितं पुरा॥ २६१२॥
नातो दृष्टार्थसम्बन्धः शब्दो भवति वाचकः।
स्ववृत्त्या वस्तुतस्त्वेष वाचको नेति साधितम्॥ २६१३॥
अथमत्र सङ्क्षेपार्थः। यदि पारमार्थिकस्यार्थशब्दयोर्वाच्यवाचकभावस्याभावप्रसङ्गः क्रियते भवता तदा सिद्धसाध्यता। तथाहि—विस्तरेण जातिस्वलक्षणादीनां वाच्यवाचकत्वं शब्दपरीक्षायां निराकृतम्। अथ सांवृतस्यापि तदाऽनैकान्तिकतातथाह्यत्यन्तभेदिनोऽपि केचिदर्थाः प्रकृत्यैकाकारप्रत्यवमर्शज्ञानस्य हेतुतां प्रतिपद्य, मानाः सांवृतं शब्दार्थयोर्वाच्यवाचकभावं सम्पादयिष्यन्तीति प्रागेवापोहचिन्तायां प्रतिपादितम्। तस्मादपोहशब्दार्थवादिनो बौद्धान्प्रति सर्वमिदमुच्यमानमत्यन्तपरिलघुतया परिप्लवत एव केवलमिति॥ २६१२॥ २६१३॥
संवृत्त्या वाचकत्वस्योपपत्तिमाह—“मिथ्याऽवभासिन” इत्यादि।
मिथ्याऽवभासिनो ह्येते प्रत्ययाः शब्दनिर्मिताः।
जातिस्वलक्षणादीनां वाच्यनाचकतास्थितेः॥ २६१४॥
तद्भ्रान्त्या व्यवहर्त्तारो वैलक्षण्येऽपि वस्तुतः।
गोशब्द एक एवेति मन्यन्ते समबुद्धयः॥ २६१५॥
तस्माद्द्विजातिना प्रोक्तं बह्वसम्बद्धभाषिणा।
शब्दभेदं पुरस्कृत्य यत्तत्सर्वमनास्पदम्॥ २६१६॥
पररूपं हि स्वप्रतिभासेन यया संवृयते बुद्ध्या यथार्थमप्रकाशनात्साकल्पिका बुद्धिः संवृत्तिः, तया यद्व्यवस्थापितं रूपं तत्सांवृतमुच्यते। संवृत्तिसत्त्वं तदेव न पारमार्थिकं, तस्यासत्त्वात्। भ्रान्तस्य च ज्ञानस्य सर्वस्यैव निर्विषयत्वात्॥ २६१४॥ ॥ २६१५॥ २६१६॥
अथापि स्याद्विना पारमार्थिकेनैकत्वेन कथं विधिप्रतिषेधलक्षणं व्यवहारमारोपवशेन शब्दाः सम्पादयन्तीत्याह—“तथाही”त्यादि।
तथाहि हस्तकम्पादेर्नैकत्वं बुद्धिभेदतः।
शीघ्रमन्दादिभेदेन तद्व्यक्तिश्च निराकृता॥ २६१७॥
सामान्यं नच तत्रैकमनुगाम्युपलक्ष्यते।
सङ्केतात्प्रतिषेधादिगत्यङ्गं च भवत्यसौ॥ २६१८॥
हस्तकम्पादेरित्यादिशब्देनाक्षिनिकोचादिपरिग्रहः। “शीघ्रमन्दादिभेदेने”ति। बुद्धिभेदत इति सम्बन्धः। नचायं शीघ्रादिभेदो व्यञ्जककृतो व्यक्तेर्निषिद्धत्वात् —“तद्व्यक्ति”रिति। नित्यव्यक्तिः। नच सामान्यवशाद्व्यवहाराङ्गता, तस्याप्रसिद्धत्वात्। अप्रतीतस्य सामान्यस्य न युक्तं व्यवहाराङ्गत्वं, सर्वदा व्यवहारप्रसङ्गात्।“प्रतिषेधादिगत्यङ्ग”मिति। आदिशब्देन विधानाभ्यनुज्ञानाभ्यर्थनादीनां ग्रहणम्। तेषां गतिः—प्रतीतिः, तस्या अङ्गं—कारणम्, असौ—हस्तकम्पादिर्भवति। तद्वच्छब्दोऽपि भविष्यतीति शेषः॥ २६१७॥ २६१८॥
यदुक्तम्— तस्माच्छब्दार्थसम्बन्धो नित्य एवाभिधीयते, इति तत्राह—“साक्षा”दित्यादि।
साक्षाच्छब्दा न बाह्यार्थप्रतिबन्धविवेकतः।
गमयन्तीति च प्रोक्तं विवक्षासूचकास्त्वमी॥ २६१९॥
नहि कश्चिच्छब्दार्थयोर्वास्तवः सम्बन्धोऽस्ति। यस्य नित्यत्वमनित्यत्वं वा स्यात्। तथाहि—न बाह्यमर्थं शब्दाः प्रतिपादयन्ति तेन सह प्रतिबन्धाभावादिति पूर्वं शब्दपरीक्षायां निवेदितम्। प्रतिबन्धमन्तरेण च प्रतिपादयतामतिप्रसङ्गः स्यात्। यद्येवं किं तर्हि प्रतिपादयन्तीत्याह—“विवक्षासूचकास्त्वमी”ति। विवक्षामपि न वाच्यतया प्रतिपादयन्ति, किं तर्हि ?, लिङ्गतया सूचयन्ति। अतएव सूचका इत्युक्तम्। तथाहि—शब्दादुच्चरितादर्थाध्यवसायी विकल्पो जायते, न विवक्षाध्यवसायी, यश्च न शब्देन ज्ञातेनाध्यवसीयते स कथं शब्दार्थः॥ २६१९॥
यद्येवं विवक्षयाऽपि सह कस्तेषां सम्बन्धो येन तां लिङ्गत्वेन सूचयेदित्याह—“तस्या” इत्यादि।
तस्याः कार्यतया ते हि प्रत्यक्षानुपलम्भतः।
निश्चिता इति तेनात्र कार्यकारणता स्फुटा॥ २६२०॥
तस्या विवक्षायाः कार्यत्वेनात्मनि प्रत्यक्षानुपलम्भाभ्यां शब्दा निश्चिता इति कार्यकारणलक्षण एव सम्बन्धः॥ २६२०॥
यद्येवं समयस्तर्हि व्यर्थः, प्रत्यक्षानुपलम्भाभ्यामेव कार्यकारणभावस्य निश्चितत्वादित्याह—“कार्यकारणभावश्चे”त्यादि।
कार्यकारणभावश्च समयाद्येन निश्चितः।
स विवक्षां प्रपद्येत शब्देभ्यो हस्तकम्पवत्॥ २६२१॥
एवं मन्यते यद्यपि विवक्षामात्रेण सह कार्यकारणभावो निश्चितो विवक्षाविशेषेण तु परसन्ताने समयादृते न निश्चेतुं शक्यत इत्यतस्तन्निश्चयाय समयः क्रियते। ननु च समयादपि कथमसौ निश्चेतुं शक्यते। तथाहि—यदि समयकाले परविवक्षाविशेषः प्रतीत्युपायः सम्भवेत्तदाऽसौ समयस्तत्र कृतः पश्चाद्व्यवहारकालेविवक्षाविशेषप्रतीतिहेतुर्भवेत्। यावता स एवाभ्युपायो नास्ति। तथाहि—नानुच्चार्य शब्दं समयः क्रियते, ततश्च तत एव शब्दाद्विवक्षाविशेषप्रतिपत्तावितरेतराश्रयदोषः स्यात्। तथाहि—समयवशाच्छब्दो विशेषद्योतकः समयश्च विशेषाविशेषप्रतिपत्तिमन्तरेण न शक्यत इति स्पष्टमितरेतराश्रयत्वम्। नैष दोषः। यदा सर्वएवायं शाब्दो व्यवहारः स्वप्रतिभासानुरोधेनैवेष्यते भ्रान्तत्वात्तैमिरिकद्वयद्विचन्द्रव्यवहारवत्तदा का रो(चो?) द्यचञ्चुता। नच सर्वत्र शब्द एव विवक्षाविशेषप्रतीतिहेत्तुरन्यथाऽपि कश्चिच्छृङ्गग्राहिकया प्रकरणादिना चार्थविशेषोपदर्शनेन च विवक्षाविशेषमावेद्य समयं कुर्यादिति नेतरेतराश्रयत्वम्। किञ्च—भवतो विधिवादिनस्तुल्यं चोद्यम्, परप्रत्तिपत्तेरप्रत्यकृत्त्वात्कथं वक्तृश्रोत्रोरेकार्थप्रतिपत्तिनिश्चय इति। नचैकार्थप्रतिपत्तिनिश्चयमन्तरेण समयो युक्तस्तस्य योऽत्र भवतः परिहारः स ममापि भविष्यति। स्यादेतच्छब्दस्य विवक्षायामसमितत्वात्कथं तया सह सम्बन्धः समयान्निश्चीयते। नह्यत्र समयः कृतोऽन्यार्थद्योतको भवत्यतिप्रसङ्गात्। नैष दोषः। विवक्षाशब्देनातत्परिवर्त्ती अर्थाकारो वा स्वरूपतया व्यस्तो यः स इहाभिप्रेतः। परमार्थतस्तस्य विवक्षास्वभावत्वात्। स एवेह विवक्षाविशेषोऽभिप्रेतः। तत्रैव च समयो न स्वलक्षणे, स एव शब्देनाभिधीयते। ततस्तदाकारविकल्पोत्पत्तेः। केवला तु विवक्षा न शब्देनाभिधीयत इत्युक्तम्॥ २६२१॥
यद्येवं यदि विवक्षापरिवर्त्तिनाऽर्थाकारेण कार्यकारणलक्षण एव सम्बन्धः शब्दस्य तत्कथं तत्रतत्राचार्याः सामयिकं समयं वा शब्दार्थसम्बन्धामाहुरित्याह—“विवक्षावर्त्तिने”त्यादि।
विवक्षावर्त्तिनाऽर्थेन कार्यकारणतात्मकः।
शब्दानामेष सम्बन्धः समये सति जायते॥ २६२२॥
तेन सामयिकः प्रोक्तस्तेन च द्योतनादतः।
समयोऽप्युच्यते तेषां सम्बन्धो नतु मुख्यतः॥ २६२३॥
श्रोतृचेतसि समये सति जायते भवतीति सामयिकः अध्यात्मादित्वात् ठञ्। यद्यपि तत्र भवतिः सत्तावचनो गृहीतस्तथापि परमार्थतः सत्ताजन्मनोरभेदात्तदेव भावत्वेन विवक्ष्यते। वक्तृसन्ताने च समयो न(येन ?) द्योतनादुपचारात्समय उच्यते। तस्य प्रतिनियतकालवर्त्तित्वेन तत्कालासम्भवात्॥ २६२२॥ २६२३॥
ननु यदि परमार्थतो वस्तुनः सम्बन्धो नास्तीत्युक्तम्, कार्यकारणतालक्षणस्तर्हि कथं भवतीत्याह—“कार्यकारणभूताभ्या”मित्यादि। “ते” एवेति।
कार्यकारणभूताभ्यां वस्तुभ्यामन्य एव न।
कार्यकारणतायोगस्ते एव तु तथोदिते॥ २६२४॥
कार्यकारणभूते वस्तुनी। “तथोदिते” इति। कार्यकारणतेत्यादिना लाघवार्थम् ॥ २६२४॥
यद्येवं प्रतिपुरुषप्रयोगं तयोर्भेदात्कथमभिन्नसम्बन्धप्रतीतिर्वक्तृश्रोत्रोर्भवति। तथाहि—वक्तुरेवं भवति, य एव समयकाले मया गृहीतोऽर्थः शब्दो वा तेनैव तमेवार्थं प्रतिपादयामीति, तथा श्रोतुरप्येवं भवति—तेनैव तमेवायमर्थं प्रतिपादयतीति। अन्यथा भिन्नारोधावस्थितयोः कथं व्यवहारः स्यादित्याह—“ते चे”त्यादि।
ते च प्रत्येकमेकात्मरूपत्वेन जडैर्गते।
सङ्केतव्यवहाराप्तकालव्याप्तिरतो मता॥ २६२५॥
“जडै”रिति। भ्रान्तैः। “गते” इति। गृहीते। सङ्केतव्यवहाराभ्यामाप्तो व्याप्तश्चासौकालश्चेति तथोक्तः। तस्य व्याप्तिः। कार्यकारणाभ्यासैकरूपाभ्यामिति शेषः २६२५
अथैक एव पारमार्थिकः सम्बन्धः कस्मान्नेष्यते, येन काल्पनिक एवेष्ट इत्याह —“एकस्त्वि”त्यादि।
एकस्तु वास्तवो नैव सम्बन्ध इह युज्यते।
असङ्कीर्णतयाऽर्थानां भेदेऽसम्बन्धता भवेत्॥ २६२६॥
सम्बन्धो भवन्भिन्नानां वा भवेदभिन्नानां वा। न तावद्भिन्नानाम्, सर्वेषां स्वात्मनि स्थितत्वेनासङ्करात्। अभेदेऽप्येकमेव तद्वस्त्विति कस्य केन सह श्लेषो भवेदतोऽसम्बन्धता भवेत्॥ २६२६॥
यत्तु समयलक्षणसम्बन्धदूषणं समयः प्रतिमर्त्यं चेत्यादिना तत्र सिद्धसाध्यतां प्रतिपादयन्नाह—“समय” इत्यादि।
समयः प्रतिमर्त्यं च प्रत्युच्चारणमेव च।
इत्याद्यतः परेणोक्तं परनीतिमजानता॥ २६२७॥
समयो हि न सम्बन्धो नरधर्मतया तयोः।
द्योतकः स तु तस्येति सम्बन्धः स्यान्न मुख्यतः॥ २६२८॥
प्रत्युच्चारणमेनं च न परे प्रतिजानते।
ईशादेः प्रतिषिद्धत्वात्सर्गादौ नच तत्कृतम्॥ २६२९॥
अनिष्टापत्तिर्हि दूषणमुच्यते, नच बौद्धेन समयः शब्दार्थयोर्मुख्यः सम्बन्ध इष्टस्तस्य पुरुषधर्मत्वात्। तस्य च दूषणे सति नेष्टक्षतिः काचित्। न चान्यधर्मोऽन्यस्य सम्बन्धो भवत्यतिप्रसङ्गात्। यच्चोक्तम्—प्रत्युच्चारणमेव वा क्रियते जगदाद्यैवेति पक्षद्वयं तस्यानभ्युपगमादेवादूषणम्। तदाह—“प्रत्युच्चारण”मित्यादि।“एन”मिति। समयम्। “पर” इति। बौद्धाः। “ईशादे”रिति। ईश्वरब्रह्मादेः॥ २६२७॥ ॥ २६२८॥ २६२९॥
यदुक्तं प्रत्येकं वापि सम्बन्ध इत्यादि, तत्राह—“प्रत्येक”मित्यादि।
प्रत्येकं यश्च सम्बन्धः सन्निभः (भिन्नः?) क्षणभङ्गतः।
तुल्यप्रत्यवमर्शश्च भेदेऽपि न विरुध्यते॥ २६३०॥
द्वितीय एवात्र पक्षः। न च भेदधीप्रसङ्गो भेदेऽपि तुल्यप्रत्यवमर्शहेतुत्वाविरोधात्। अतोऽनैकान्तिकमेतद्यदुक्तम्—भिन्नश्चेद्भेदधीर्भवेदिति॥ २६३०॥
स्यादेतत्—क्षणभङ्गोऽयमस्माकमसिद्धस्तत्कथमुच्यते ? क्षणभङ्गतो भिन्न इत्याह —“क्रमेणे”त्यादि।
क्रमेण जायमानाश्च धियस्तद्विषयाः स्फुटम्।
तस्याप्याहुः क्रमं तासामक्रमो ह्यन्यथा भवेत्॥ २६३१॥
“तस्यापी”ति। सम्बन्धस्य क्रममाहुः—प्रतिपादयन्तीत्यर्थः। “अक्रमो ह्यन्यथा भवे”दिति। धियामिति सम्बन्धः। एतच्च विपर्यये बाधकं प्रमाणम्। प्रयोगश्च पूर्ववद्बोध्यः॥ २६३१॥
वक्तृश्रोतृधियोर्भेदाद्व्यवहारश्च दुष्यतीत्यादावाह—“सकृदेवे”त्यादि।
सकृदेव बहूनां तु सङ्केतकरणे सति।
समयो नेष्यते भिन्नो नीलाद्येकक्षणो यथा॥ २६३२॥
वक्तुरन्यो न सम्बन्धो बुद्धौ श्रोतुर्न चापरः।
एकरूपा च सा यस्य(स्मात् ?) द्वयोरप्यनुवर्त्तनात्॥ २६३३॥
श्रोतुः कर्तुं च सम्बन्धं वक्ता पूर्वं प्रपद्यते।
पूर्वोपलब्धो यस्तेन तमेव हि करोत्यसौ॥ २६३४॥
एकाकारा यतस्तस्य वृत्ता प्रत्यवमर्शधीः।
तस्माद्भिन्नेऽपि शब्दादावेकत्वं सोऽध्यवस्यति॥ २६३५॥
यथा नीलादिक्षणो बहुभिर्दृश्यमानोऽपि न भिद्यते, एवं बहूनां सङ्केतकरणेऽपि सति न सम्बन्धो भेत्स्यति, किं पुनर्द्वयोः। सर्वेषां तुल्यप्रत्यवमर्शस्थितत्वादिति भावः। अतो न वक्तृश्रोत्रोरन्यः सम्बन्धो भवति॥ २६३२॥ २६३३॥ ॥ २६३४॥ २६३५॥
यदुक्तम्—“घटादावपि तुल्यं चेन्न सामान्यप्रसिद्धितः” इत्यादि, तत्राह—“घटादावपी”ति।
घटादावपि सामान्यं प्रागेव विनिवारितम्।
नहि भूतगुणप्रख्या काचिदाकृतिरिष्यते॥ २६३६॥
नचास्याकृतितः सिद्धा शक्तिरब्धारणादिषु।
तेषामपि हि नित्यत्वमाकृतेर्यद्यभेदिनः॥ २६३७॥
भेदे सम्बन्धदोषस्तु तदुत्पत्तौ त्वनित्यता।
अतो नाकृतितो युक्ता शक्तिरब्धारणादिषु॥ २६३८॥
घटादेर्व्यतिरेकेऽपि शक्तेर्दोषा इमे ध्रुवम्।
अब्धारणादि तत्कार्यं नित्यमेवं प्रसज्यते॥ २६३९॥
“प्रागेवे”ति। सामान्यपरीक्षायाम्। पुनरत्रैव सङ्क्षेपेण निराकरणमाह—“नही”त्यादि। भूतानाम्—आदित्यजहादीनां (क्षितिजलादीनां ?) कण्ठे (कार्ष्ण्यादि ?) गुण(वत्)व्यतिरिक्ता भवता मीमांसकेन जातिरिष्यते। नापि दृश्यत्वेनेष्टा सती सा दृश्यते, अव्यतिरिक्ताऽपि न युज्यते, तेषामपि घटादीनामाकृतिस्वरूपवन्नित्यत्वप्रसङ्गात्। अथापि भिन्नाऽभ्युपगम्यते तदा सम्बन्धाभावदोषः, भिन्नानां हि तदुत्पत्तिलक्षण एव सम्बन्धो भवेत्, ततश्च तदुत्पत्तौ सत्यां जातेरनित्यता प्राप्नोति, उत्पत्तिधर्मकत्वाद् घटवत्। क्वचित्तु नित्यतेति पाठः। तत्रायमर्थः—यदि घटादीनां ततो जातेः सकाशादुत्पत्तिरङ्गीक्रियते तदा घटादीनां नित्यता प्राप्नोति, नित्यं कारणस्य सन्निधानान्नित्यमुत्पत्तिः प्राप्नोतीत्यर्थः। उभयस्वभावपक्षे उभयपक्षभावी दोषः, एकत्वहानिप्रसङ्गश्च। वस्तुनः स्वभावद्वयानुपपत्तेः। एवं हि द्वे एव ते वस्तुनी कथिते स्यातां नैकमुभयात्मकम्। अनुभयपक्षे वस्तुत्वहानिप्रसङ्गः। एकस्य विधिप्रतिषेधायोगश्चेति वाच्यम्। “इमे दोषा” इति। सम्बन्धासिद्धिनित्यतादिप्रसङ्गलक्षणाः। नित्यमब्धारणादिकार्यप्रसङ्गश्चाधिको दोषः॥ २६३६॥ ॥ २६३७॥ २६३८॥ २६३९॥
यदुक्तम्—शक्तिरेव हि सम्बन्ध इत्यादि। तत्राह—“शक्तिरेव चे”त्यादि।
शक्तिरेव च सम्बन्धो भेदश्चास्या न चेन्मतः।
शब्दार्थानां भवेदेका शक्तिरव्यतिरेकतः॥ २६४०॥
व्यतिरेकेऽपि सम्बन्धस्तस्यास्ताभ्यां न कश्चन।
तदुत्पत्तौ न नित्यत्वं नचान्या वस्तुनो गतिः॥ २६४१॥
“नचान्ये”ति। उभयानुभयस्वभावलक्षणे पूर्ववद्दोषप्रसङ्गात्॥ २६४०॥ २६४१॥
यदुक्तम्—सम्बन्धाख्यानकाल इत्यादि, तत्राह—“सम्बन्धे”त्यादि।
सम्बन्धाख्यानकाले तु गोशब्दादावुदीरिते।
केचित्सम्बन्धबुद्ध्याऽर्थं बुध्यन्ते न परे तथा॥ २६४२॥
यस्मात्सम्बन्धसद्भावाद्यादृशः स प्रकाशितः।
तावकीने तु सम्बन्धे सर्वोऽर्थमवधारयेत्॥ २६४३॥
शक्तिरेव हि सम्बन्धो नित्या युष्माभिरिष्यते।
सा चार्थबोधजनने नियताऽनवधिर्न वा॥ २६४४॥
नियतानवधौ सर्वः किमर्थं नावधारयेत्।
सावधावपि को हेतुः प्रकृतिश्चेत्स्वतस्तथा॥ २६४५॥
सङ्केतग्रहणात्पूर्वं तस्य चास्मरणे पुनः।
एकस्यैव प्रवृत्तं किं विज्ञानं तत्र वृत्तिमत्॥ २६४६॥
तज्ज्ञानजन्मनियता सा हि शक्तिरवस्थिता।
अथ ज्ञातैव सा शक्तिर्नियता परिकल्प्यते॥ २६४७॥
ज्ञाताऽज्ञाता च भिन्ना चेन्नित्यत्वमवहीयते।
ऐक्ये तु किन्निमित्तोऽयं विभाग उपवर्ण्यते॥ २६४८॥
यादृश एतत्कार्यकारणभावलक्षणस्तादृशो यस्मात्सम्बन्धोऽस्ति तस्मात्केचिद्बुध्यन्त इति युक्तं स्यात्, तस्य नियतज्ञानोत्पादकत्वेन स्थितत्वात्। भवदीये तु सम्बन्धे सर्वमयुक्तमिति दर्शयति—“तावकीन” इत्यादि। तथाहि—शक्तिलक्षणसम्बन्ध इष्यते, जनकं च रूपं शक्तिरुच्यते, सा च नित्यैकस्वभावत्वेनेष्टाऽर्थबोधजनने च नियता, ततश्चार्थबोधनियता सती किमनवधिरिष्टा—कतिपयपुरुषावधिरहिता, आहोस्विन्नेति पक्षद्वयम्। प्रथमे पक्षे सर्वेषां युगपत्सर्वथा चार्थावधारणप्रसङ्गः। द्वितीयेऽपि पक्षे प्रतिनियतविज्ञानजनकस्वभावनियामको हेतुर्वाच्यः, कृतकानां हि भावानां प्रतिनियतकार्यजनकस्वभावस्य नियामकाः स्वहेतुप्रत्यया युक्ताः, न तु नित्यानामिति भावः। स्यादेतन्नित्यानामपि प्रकृतिरेव सा तादृशी, येन प्रतिनियतं कार्यं जनयन्ति, न सर्वं, नहि स्वभावाः पर्यनुयोगमर्हन्तीति, एवं हि यदि स्वत एव तस्यायं स्वभावः परनिरपेक्षस्तदा सङ्केतग्रहणात्पूर्वं तथा विस्मृतसङ्केतस्य तस्यैव प्रतिनियतस्य प्रतिपत्तुः सर्वदा ज्ञानप्रवृत्तिः प्राप्नोति, तज्ज्ञानजनने नियतायाः शक्तेः सदाऽवस्थितत्वात्। अथापि स्यात् ज्ञापकत्वात्सम्बन्धलक्षणा शक्तिर्ज्ञाता सती ज्ञानं जनयति, नाज्ञाता, तेन न भवति यथोक्तदोषप्रसङ्ग इति। तदसम्यक्। यदि हि ज्ञाताज्ञातावस्थयोः परस्परं भेद इष्यते तदा नित्यत्वहानिः। अथाभेदस्तदा ज्ञाताज्ञातस्वभावद्वयविभागानुपपत्तिः, नह्येकस्य वस्तुन एकपुरुषापेक्षया ज्ञातत्वमज्ञातत्वं च परस्परं विरुद्धं स्वभावद्वयं युज्यता इति॥ २६४२॥ २६४३॥ २६४४॥ ॥ २६४५॥ २६४६॥ २६४७॥ २६४८॥
किञ्च—सति हि प्रतिपत्त्युपाये शक्तेर्ज्ञातत्वं स्याद्यावता स एव न सम्भवतीति मन्यमानः पृच्छति—“किञ्चे”त्यादि।
किञ्च केनाभ्युपायेन विज्ञाता शक्तिरिष्यते।
अर्थापत्त्येति चेद्यस्मादयं न्याय इह स्थितः॥ २६४९॥
शब्दवृद्धाभिधेयानि प्रत्यक्षेणात्र पश्यति।
श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया॥ २६५०॥
अन्यथानुपपत्त्या च वेत्ति शक्तिं द्वयाश्रिताम्।
अर्थापत्त्याऽवबुध्यन्ते सम्बन्धं त्रिप्रमाणकम्॥ २६५१॥
“अर्थापत्ते”रित्यादिना परस्योत्तरं विस्तरेण तावदाशङ्कते। तथाहि—सम्बन्धप्रतिपत्तेरयं न्यायः कुमारिलेन वर्णितः—यस्मात्प्रथमं तावत्प्रत्यक्षेण शब्दं वृद्धं च शब्दस्याख्यातारमभिधेयं च वाच्यं वस्तु पश्यति, ततः पश्चादनुमानेन चेष्टालक्षणेन लिङ्गेन श्रोतुः प्रतिपन्नत्वं पश्यति—अवधारयतीत्यर्थः। करणं कारकं कृत्वा चेष्टाया अनुमानत्वमुक्तम्। ततश्च पश्चादर्थापत्त्या द्वयाश्रिताम्—शब्दार्थाश्रितां शक्तिं वेत्ति। अर्थापत्त्या तु साक्षादवबुध्यन्त इत्यतोऽर्थापत्त्याऽवबुध्यन्त इत्युक्तम्।“त्रिप्रमाणक”मिति। प्रत्यक्षानुमार्थापत्तिलक्षणानि त्रीणी प्रमाणानि यस्याधिगमाय भवन्ति स तथोक्ताः॥ २६४९॥ २६५०॥ २६५१॥
“अन्यथैवे”त्यादिना दूषणमाह।
अन्यथैवोपपन्नत्वाच्छक्तिर्बोद्धुं न शक्यते।
शब्दात्सामयिकाद्यस्मात्प्रतिपत्तिरनाकुला॥ २६५२॥
अनेनार्थापत्तेरनैकान्तिकतामाह—विनापि नित्यसम्बन्धं प्रतिपत्तिसम्भवस्य प्रतिपादितत्वात्॥ २६५२॥
न केवलसाधकप्रमाणाभावात्तत्कल्पना न युक्ता, प्रमाणबाधितत्वादपि न युक्तेति दर्शयन्नाह—“शक्तिनित्यत्वे”त्यादि।
शक्तिनित्यत्वपक्षे तु सङ्केतादि व्यपेक्षते।
न किञ्चिदिति शब्दार्थप्रतिपत्तिः सदा भवेत्॥ २६५३॥
समर्थान्तरभावे च कालिमार्यादिशब्दवत्।
नान्यार्थबोधकत्वं स्याद्ध्वनेर्नियतशक्तितः॥ २६५४॥
नानार्थद्योतनायैव शक्तिरेका यदीष्यते।
भिन्ना वा शब्द एकस्मिन्सकृन्नानार्थविद्भवेत्॥ २६५५॥
प्रयोगः—ये सङ्केतापेक्षार्थप्रकाशना न ते नित्यसम्बन्धयोगिनः, यथा गाव्यादिशब्दाः, सङ्केतापेक्षार्थप्रकाशनाश्च गवादयो लौकिकवैदिकाः शब्दा इति विरुद्धव्याप्तोपलब्धिः। सापेक्षत्वस्य नित्यसम्बन्धयोगित्वविरुद्धेनानित्यसम्बन्धयोगित्वेन व्याप्तत्वात्। एतच्च प्रमाणं पेश्चात्करिष्यते। अत्र तु व्याप्तिमात्रमस्य प्रसाध्यते।तथाहि—शक्तिलक्षणेनार्थप्रतिपत्तिहेतुना सम्बन्धेन नित्यसम्बन्धयोगिनः शब्दा इष्टाः। सा च शक्तिर्नित्यत्वादनुपकार्येति न किञ्चित्सङ्केतादि व्यपेक्षते। ततश्च तद्भाविनी शब्दार्थप्रतिपत्तिः सर्वदा भवेत्। किञ्च—सा शक्तिरेकार्थनियता वा भवेन्नानार्थनियता वा, तत्रापि नानार्थनियमपक्षे किमेकस्य शब्दस्य नानार्थद्योतिका शक्तिरेकैव, आहोस्विदनेकेति विकल्पाः। तत्राद्ये पक्षे यदेतद्देशकालादिभेदेन सङ्केतान्तरे क्रियमाणे सति ध्वनेः शब्दस्यापा(न्या ?)र्थबोधकत्वं दृष्टम्—यथा कलिमार्यादिशब्दानां द्रविडा(डा ?)र्यदेशयोर्यथाक्रममन्तकालवर्षोपसर्गाद्यभिधायिनां(?) तन्न प्राप्नोति, नियतशक्तिकत्वात्। चक्षुरादिवत्। नहि चक्षुः सङ्केतवशाद्रसाद्युपलम्भाय नियोगमर्हति। द्वितीयेऽपि पक्षे एकस्माच्छब्दाद्युगपत्सर्वेषां पुंसां शब्दार्थप्रतिपत्तिप्रसङ्गः। तद्दर्शयति—“शब्द एकस्मि”न्नित्यादि॥ २६५३॥ २६५४॥ ॥ २६५५॥
अत्रैव दोषान्तरमाह—“अर्थद्योतनशक्तेश्चे”त्यादि।
अर्थद्योतनशक्तेश्च सर्वदैव व्यवस्थितेः।
तद्धेतुरर्थबोधोऽपि सर्वेषां सर्वदा भवेत्॥ २६५६॥
तस्मिन्सङ्केतसापेक्षा शक्तिश्चेत्परिकल्प्यते।
ननूपकार्यपेक्ष्येत नोपकार्या च साऽचला॥ २६५७॥
“तस्मि”न्निति। अर्थबोधे। “से”ति। शक्तिः। “अचले”ति। नित्या। अयं चानुपकार्यत्वे हेतुः॥ २६५६॥ २६५७॥
अभ्युपगम्यापि सङ्केतसापेक्षत्वं दोषान्तरमाह—“अर्थद्योतनहेतोश्चे”त्यादि।
अर्थद्योतनहेतोश्च सङ्केतस्य नराश्रयात्।
शक्तावितरजन्यायामपि मिथ्यात्वसम्भवः॥ २६५८॥
अपि नामासङ्कीर्णमर्थं जानीयामिति सङ्करहेतुः पुरुषोऽपाकीर्णो भवता, तत्र यथा क्वचित्तैः प्रयुक्ताः सङ्कीर्यन्ते शब्दास्तथा सर्वार्थसाधारणाः सन्तो वैदिकाः क्वचित्तैरिच्छावशात्सम्मिताः किं न सङ्कीर्येरन्। तेषां पुंसां तत्त्वापरिज्ञानात्। तथाहीच्छावशात्समयः सा च तेषामतत्त्वविदां स्वातन्त्र्येण प्रवर्त्तमाना केन नियम्येत। ततश्च स्वतन्त्रेच्छाभावी समयोऽपि स्वैरी वैरी च किमिति विरुद्धमर्थं परिहरेत् ॥ २६५८॥
नानार्थद्योतनशक्तिपक्षमभ्युपगम्य दोषान्तरमाह—“नानार्थद्योतने शक्तिरि”त्यादि।
नानार्थद्योतने शक्तिर्भवत्वेकस्य हि ध्वनेः।
नाग्निहोत्रादयस्त्वर्थाः सर्वे सर्वोपयोगिनः॥ २६५९॥
तदिष्टविपरीतार्थद्योतनस्यापि सम्भवात्।
नित्यशब्दार्थसम्बन्धकल्पना वो निरर्थका॥ २६६०॥
यद्यपि शब्दानां नानार्थप्रतिपादनसामर्थ्यमस्ति, नत्वर्थानां सर्वार्थक्रियाकारित्वं, प्रतिनियतत्वात्कार्यकारणभावस्य। अन्यथा हि न कश्चिद्विघाती स्यादविघाती वा। ततश्च प्रतिनियतार्थक्रियासाधनेऽर्थे प्रतिपिपादयिषिते सति सर्वार्थसाधारणस्य शब्दस्येष्टार्थविषयमेव समयं समयकृत्करोतीति कुत एतल्लभ्यम्। तस्मान्मिथ्यात्वसम्भवान्नित्यसम्बन्धकल्पना व्यर्थैव॥ २६५९॥ २६६०॥
पुनरप्यानर्थक्यमस्य दर्शयन्नाह—“सङ्केते चे”त्यादि।
सङ्केते च व्यपेक्षायां नित्यसामर्थ्यलक्षणः।
किमकारण एवायं सम्बन्धः परिपोष्यते॥ २६६१॥
सिद्धोपस्थायिनस्तस्य नहि कश्चित्समीक्ष्यते।
सङ्केतव्यतिरेकेण व्यापारोऽर्थावबोधने॥ २६६२॥
यदि सत्तामात्रेण सम्बन्धोऽर्थप्रतीतिहेतुः स्यात्तदा सङ्केतानभिज्ञस्यापि स्यादित्यवश्यं समयापेक्षिता तस्येष्टव्या। ततश्च समयस्याप्यर्थप्रतीतिहेतुत्वेऽङ्गीक्रियमाणे स किमकारणं सिद्धोपस्थायी नित्यसम्बन्धोऽपरः पोष्यते। तथाहीयानेव सम्बन्धस्य व्यापारो यदर्थप्रतीतिजननं, तच्चेत्समयेन क्रियते तदा किमपरनित्यसम्बन्धकल्पनया। नचापि तस्यानाधेयातिशयस्य काचिदपेक्षेति शतशश्चर्चितम्। अदृष्टसामर्थ्यस्य च हेतुत्वकल्पने हन्त हरीतकीं प्राप्य देवता विरेचयन्तीति किं न कल्प्येत ॥ २६६१॥ २६६२॥
“तथाही”त्यादिना सम्बन्धस्य तामेव व्यापारासिद्धिं दर्शयति।
तथाहि व्यवहारोऽयं न दृष्टः समयं विना।
तस्मात्सम्बन्धसिद्धिश्चेत्यनर्थेयं परम्परा॥ २६६३॥
“तस्मा”दिति। सङ्केतात्। “अनर्थेयं परम्परे”ति। अदृष्टसामर्थ्यस्य हेतुत्वकल्पनेऽनवस्थादोषात्। तथाहि—सम्बन्धेऽपि कल्पिते पुनरपि कस्मादपरमदृष्टसामर्थ्यं हेत्वन्तरं न कल्प्येत, अदृष्टसामर्थ्येनाविशेषात्, एवं पुनरपीति महत्यनर्थपरम्परा जायेत॥ २६६३॥
एवं बाधकस्य प्रमाणस्य व्याप्तिं प्रसाध्य “नरेच्छे”त्यादिनाऽर्थापत्तेरनैकान्तिकत्वं पूर्वं प्रतिपादितमुपसंहरति।
नरेच्छामात्रसम्भूतसङ्केतादपि केवलात्।
युज्यते व्यवहारश्च ततो योगो न सिद्ध्यति॥ २६६४॥
“योगो न सिद्ध्यती”ति। नित्य इति शेषः॥ २६६४॥
एवं च कृत्वा यच्चेदमुक्तं—“सर्वेषामनभिज्ञानां पूर्वपूर्वप्रसिद्धित”, इत्यादि, तत्परस्परपराहतमुक्तमिति दर्शयति—“अन्यथाऽनुपपत्ति”रित्यादि।
अन्यथाऽनुपपत्तिस्तद्व्यवहारस्य शङ्क्यते।
अतीन्द्रियश्च योगोऽतो न नरैरवगम्यते॥ २६६५॥
सर्वेषामनभिज्ञत्वात्पूर्वपूर्वाप्रसिद्धितः।
न सिद्धो योग इत्येवं किमसौ परिकल्प्यते॥ २६६६॥
यदि हि सर्वेषामनभिज्ञत्वं कथं तर्हि पूर्वपूर्वतोऽनभिज्ञत्वात्सम्बन्धप्रसिद्धिर्भवेत्, नह्यन्धपरम्परा परेषां रूपविशेषोपदेशाय प्रभवति। यथोक्तं शाबरे भाष्ये—नैवञ्जातीयकेष्वर्थेषु पुरुषवचनं प्रामाण्यमुपैति, अन्धानामिव वचनं रूपविशेषेष्विति। स्यादेतदप्रत्यक्षदर्शित्वात्सर्वेऽनभिज्ञा उच्यन्ते, नतु सर्वथा परिज्ञानाभावात्, शाब्दव्यवहारान्यथानुपपत्त्या तु प्रमाणेन पूर्वपूर्वेषां वृद्धानामभिज्ञत्वमस्त्येवेति। नैतदेवंयतोऽन्यथाऽपि सङ्केताच्छाब्दो व्यवहारः प्रवर्तेत। एतन्न नाम दर्शि (निश्चि ?)तं, तथापि सन्दिग्धमेतत्—किमसौ नित्य आहोस्विदनित्य इति। अतएवाह—“शङ्क्यत” इत्यादि। तथाहि—अर्थापत्त्या सम्बन्धमात्रास्तित्वं प्रतिपाद्यते, नतु विशेषः, तेन सह प्रतिबन्धासिद्धेरित्यभिप्रायः। अतएवानुमानान्नार्थापत्तेर्भेदः। स्यादेतत्—नानित्यस्यार्थप्रतिपादनहेतुत्वं दृष्टम्, न च युक्तमिति पूर्वं प्रतिपादितमतोऽसामर्थ्यान्नित्यं सिध्यतीति। तदेतन्नित्येऽपि समानमसिद्धं च। तथाहि। नित्यस्यापि सम्बन्धस्यार्थप्रतिपत्तिहेतुत्वं न दृष्टमिति समानम्, हस्तकम्पादीनामनित्यत्वेऽपि प्रतिपादकत्वं दृष्टमित्यदृष्टमसिद्धम्। अत एवायुक्तत्वमसिद्धम्। नित्यस्य च क्रमयौगपद्याभ्यामर्थक्रियाविरोधादिति, तस्यैवायुक्तत्वमिति यत्किञ्चिदिति ( देतत् ? )॥ २६६५॥ २६६६॥
एवमर्थापत्तेरनैकान्तिकत्वमुपसंहृत्य बाधकं प्रमाणमुपसंहरति—“तद्गवाश्वादय” इत्यादि।
तद्गवाश्वादयः शब्दा नित्यसम्बन्धयोगिनः।
सङ्केतसव्यपेक्षत्वान्नैव गाव्यादिशब्दवत्॥ २६६७॥
“त”दिति। तस्मात्। “नित्यसम्बन्धयोगिन” इति। नेति सम्बन्धः। प्रयोगरचना तु पूर्वमेव दर्शिता॥ २६६७॥
ननु च गाव्यादिशब्दानामसाधुत्वान्नैव वाचकत्वमिष्टं परेणेत्यसिद्धो दृष्टान्तः। तथाचोक्तं कुमारिलेन—“गोशब्देऽवस्थितेऽस्माकं तदशक्तिजकारितात्। गाव्यादेरपिगोबुद्धिर्मूलशब्दानुसारिणी”ति। अयमस्यार्थः-गोशब्दे साधौ वाचके सति या गाव्यादेरसाधोः प्रयोगात् गोबुद्धिर्भवतीत्युच्यते, न सा तत एव भवति, किन्तर्हि मूलम् ?, प्रधानं साधु गोशब्दमनुसृत्य। तदशक्तिजकारितादिति। गाव्यादेरिति सामानाधिकरण्येन सम्बन्धः, तस्मिन् गोशब्दे साधौ पुरुषस्योच्चारयितुमशक्तिस्तदशक्तिस्ततो जातो यस्ताल्वादिव्यापारः स तथोक्तस्तेन कारितो गाव्यादिशब्दः। तथा भर्तृहरिणोक्तम्— अ(ग?)वाश्वेति यथा बालः शिक्ष्यमाणः प्रभाषते। अव्यक्तं तद्विदां तेन व्यक्तेर्भवति निश्चयः॥ एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते। तेन साधुव्यवहितः कश्चिदर्थोऽनुमीयते॥ इति। अत इदमाह—“गोशब्देऽवे”त्यादि।
गोशब्देऽवस्थिते योग्ये तदशक्तिजकारितात्।
गाव्यादेरपि गोबुद्धिर्मूलशब्दानुसारिणी॥ २६६८॥
“तन्नैव”मित्यादिना प्रतिविधत्ते।
तन्नैवं शनकादीनां(?) संस्कृतानवबोधनात्।
मूलशब्दानुसारेण कथमर्थगतिर्भवेत्॥ २६६९॥
तस्माच्छब्दार्थसम्बन्धो नित्यो नाभ्युपगम्यते।
स तु सामयिको युक्तः सर्वथा तस्य सम्भवात्॥ २६७०॥
“शनकादी”नामिति। कैवर्त्तकादीनाम्। आदिशब्देन म्लेच्छादीनां ग्रहणम्। तथाहि तेषां प्रत्युत संस्कृतेनैव शब्देनार्थे प्रतिपाद्यमाने व्यामोह एव भवत्यतो न मूलशब्दानुसारिणी युक्ताऽर्थगतिः॥ २६६९॥ २६७०॥
यदुक्तम्—“देशोत्सादकुलोत्सादरूपो वा प्रलयो भवेत्”। इत्यादि तत्राह—“देशोत्सादे”त्यादि।
देशोत्सादकुलोत्सादरूपो यः प्रलयो भवेत्।
यो वाऽव्याहतबौद्धेष्टो ब्रह्मादेरपि शङ्क्यते॥ २६७१॥
तस्मिन्सम्भाव्यते वेदे ध्वस्तमूला मतिः परा।
मिथ्यामोहमदादिभ्यो विपरीता च कल्पना॥ २६७२॥
अन्य एव भवेद्वेदः प्रतिकञ्चुकतां गतः।
इत्यप्याशङ्क्यते यावद्बाधकं न प्रकाश्यते॥ २६७३॥
एवं मन्यते। नैवास्माभिरपि शब्दोच्छेदात्मकः प्रलयो वर्ण्यते। नाप्यनादिपुरुषः सृष्टिसंहारकारकः। किं तर्हि ? सर्वमेव जगदनादि। व्यवहारोऽप्यनादिवासनोद्भूतविकल्पपरिनिष्ठितः शाब्दः प्रवर्त्तत इति। किन्तु योऽयं भवता देशोत्सादादिरूपप्रलयो वर्णितो यश्च बौद्धैरग्न्यम्बुवायुसंवर्त्तनीयस्वभावः पर्यन्ततस्त्रिसाहस्रमहासाहस्रलोकधातुमर्यादोऽधस्ताद्वायुमण्डलावधिरुप(रि)ष्टाद्यथाक्रमं प्रथमद्वितीयतृतीयध्यानपर्यन्तः सोऽयं प्रमाणेनाबाधितत्वादव्याहतोऽशक्यनिषेधत्वाद्ब्रह्मादेरपि शङ्क्यते, अतोऽस्मिन्द्विविधेऽपि प्रलये वेदस्य ध्वंसः सम्भाव्यते, विपरीतार्थकल्पनं च। तथा चान्य एवायं वेदः प्रतिकञ्चुकताम्—तत्प्रतिभासतां गतः, इत्याशङ्का न निवर्त्तते यावद्वाधकं प्रमाणं नोच्यते भवतेति॥ २६७१॥ २६७२॥ २६७३॥
स्यादेतदस्त्येव बाधकं प्रमाणम्। तथाहीदानीं तावत्सर्वत्र देशे पुरुषैर्न वेदस्य पाठादेरन्यथात्वं शक्यते कर्तुम्। अतः कालान्तरेऽपि तथाभूद्भविष्यति चेत्यध्यवस्याम इत्यत एतदाशङ्क्याह—“अन्यथा करणेच्छाया”मित्यादि।
अन्यथा करणेच्छायामपि वर्त्तेत न ध्वनिः।
तथैव यदि वाञ्छा सा नृणां जायेत नान्यथा॥ २६७४॥
शङ्क्येतायं तथा वेदो न ग्रन्थार्थान्यथात्मकः।
अन्यथेच्छाप्रवृत्तौ तु नाशङ्का विनिवर्त्तते॥ २६७५॥
यदि हि सत्यामन्यथाकरणेच्छायां वेदध्वनिरन्यथा न प्रवर्त्तेत, अन्यथा करणेच्छा चोत्पादयितुं न शक्यते, तदा वेदपाठादेरन्यथात्वकरणाशक्तिः पुंसः सिद्ध्येत्। तत्रापि न सर्वपुंसां सिद्ध्यति, अदर्शनमात्रस्याप्रमाणत्वात्। पुरुषाणामतिशयदर्शनाच्च। यावता शक्यते शं नो देवीरभिष्टय इत्यादेर्वेदवाक्यस्य पाठोऽन्यथापि कर्तुं, अर्थो वा व्याख्यातुम्। तथाहि मीमांसकनिरुक्तकारादयो बहुधा वेदार्थं विशंसन्तो दृश्यन्ते। तस्मान्न शङ्कानिवृत्तिः॥ २६७४॥ २६७५॥
यदुक्तम्—“न च क्रमस्य कार्यत्व”मित्यादि परिहारोपवर्णनम्, तत्राह—“नचसर्वैरि”त्यादि।
नच सर्वैः क्रमः पुम्भिः सर्वसिद्धः प्रगृह्यते।
स्वातन्त्र्येणापि कुर्वन्ति पदवाक्याक्षरक्रमम्॥ २६७६॥
अन्यथा कृतकः कश्चित्स्याद्ग्रन्थो वेदवन्न ते।
अनर्थग्रन्धमात्रेऽपि ध्वस्ता कृतिरतस्तथा॥ २६७७॥
यथैवास्य परैरुक्तस्तथैवैनं विवक्षति।
इत्येषाऽनियतिस्तन्न सम्बन्धवदनादिता॥ २६७८॥
पदानि च वाक्यानि चाक्षराणि चेति तथोक्तानि, तेषां क्रम इति विग्रहीतव्यम्। “अनर्थग्रन्थमात्रेऽपी”ति। कृतिर्ध्वस्तेति सम्बन्धः, अविद्यमानोऽर्थो यस्य ग्रन्थस्यासौ, दश दाडिमादिवाक्यवदनर्थः, वेदविरुद्धार्थो वाऽनर्थो बौद्धादिसिद्धान्तवत्, अनर्थश्चासौ ग्रन्थश्चेति तथोक्तः। मात्रशब्देन व्याप्तिं दर्शयति। कृतिः —करणम्। “तथे”ति। वेदवत्। “अनियति”रिति। अनियमः। एष नियमो न स्यादिति यावत्। “त”दिति। तस्मात्॥ २६७६॥ २६७७॥ २६७८॥
यदुक्तम्—“परेणोक्तान्ब्रवीमी”त्यादि तत्राह—“परेणोक्तानि”त्यादि।
परेणोक्तान्ब्रवीमीति विवक्षा चेदृशी भवेत्।
तुल्यप्रत्यवमर्शाद्धि विभ्रमात्कर्मभेदवत्॥ २६७९॥
“कर्मभेदव”दिति। सप्तम्यन्ताद्वतिः। अनेनैकप्रत्यवमर्शस्य विपक्षसम्भवोपदर्शनादनैकान्तिकतोक्ता भवति॥ २६७९॥
स्यादेतद्विभ्रमत्वमस्य कथं सिद्धमित्याह—“परेणोक्ता”स्त्वित्यादि।
परेणोक्तास्तु नोच्यन्ते वैलक्षण्यात्स्वरादिभिः।
नच व्यञ्जकधर्मोऽयं वर्णात्मत्वेन दर्शनात्॥ २६८०॥
ततः प्रतिनरं वर्णा भिन्ना दृष्टा घटादिवत्।
अतो भेदे सुविस्पष्टे तच्चिह्नं किं निषिध्यते॥ २६८१॥
“स्वरादिभि”रिति। उदात्तादिभिः। आदिशब्देन द्रुतमध्यविलम्बितादिपरिग्रहः।“न च व्यञ्जकधर्मोऽय”मिति। स्वरादिः। कुतः ?। वर्णात्मत्वेन तस्य स्वरादेर्दर्शनात्। सिद्धत्वादित्यर्थः। “तच्चिह्न”मिति। तस्य वर्णभेदस्य चिह्नं तच्चिह्नम्, तत्किमिति निषिध्यते “न चान्यच्चिह्नमस्ति चे” त्यनेन॥ २६८०॥ २६८१॥
जात्या यथा घटादीनामित्यादावाह—“प्राक्चे”त्यादि।
प्राक्च जात्या घटादीनां व्यवहारोपलक्षणम्।
निषिद्धं तदसत्त्वेन व्यक्त्या च तदयोगतः॥ २६८२॥
“प्रा”गिति। सामान्यपरीक्षायाम्। “तदसत्त्वेने”ति। तस्या जातेरसत्त्वेन। सत्यपि सत्त्वे व्यक्त्या घटादिलक्षणायाः सह तस्या जातेरनुपकार्याया अयोगतोऽसम्बन्धादयुक्तं तया व्यवहारोपलक्षणम्॥ २६८२॥
तेन जातिद्वारेण यदेतत्समुपकल्पितं तत्सर्वमसङ्गतमिति दर्शयति—“ताल्वादिजातयस्तस्मादि”त्यादि।
ताल्वादिजातयस्तस्मात्सर्वपुंस्वव्यवस्थिताः।
नातो वक्ता ध्वनींस्ताभिरुप(ल)क्ष्य निरस्यति॥ २६८३॥
यदुक्तम्— तेषां च जातयो भिन्नाः शब्दाभिव्यक्तिहेतवः इत्यादि, तत्राह—“तन्ने”त्यादि।
तन्न तज्जातयो भिन्नाः शब्दाभिव्यक्तिहेतवः।
यावद्वर्णं प्रवर्तन्ते व्यक्तयो वा तदन्विताः॥ २६८४॥
“त”दिति। तस्मात्॥ २६८४॥
यदप्युक्तं तत्र ताल्वादिसंयोगेत्यादि, तत्राह—“तत्र ताल्वादी”त्यादि।
तन्न ताल्वादिसंयोगविभागक्रमपूर्वकम्।
ध्वनीनामानुपूर्व्यं ते जात्या चोभयनित्यता॥ २६८५॥
यदप्युक्तं “यथैव भ्रमणादीना”मित्यादि, तत्र “यथा न भ्रमणादीना”मित्यादिना दृष्टान्तासिद्धिमाह।
यथा न भ्रमणादीनां भागा जात्युपलक्षिताः।
क्रमानुवृत्तिरेवं नो ताल्वादिध्वनिवर्णभाक्॥ २६८६॥
जातेर्निरस्तत्वादिति। ( भावः )॥ २६८६॥
यदुक्तम्—व्यक्तीनामेव वेत्यादि, तत्राह—“व्यक्तिनामपी”त्यादि।
व्यक्तीनामपि नो सौक्ष्म्याज्जातिधर्मावधारणम्।
तद्वशेन न वर्णानां व्यापित्वेऽपि क्रमग्रहः॥ २६८७॥
यदुक्तम्—तद्वशेनेति। तत्राह—“तद्वशेने”त्यादि॥ २६८७॥
यदप्युक्तं ध्वनिगुणानित्यादि, तत्रोच्यते—“तन्ने”त्यादि।
तन्न ध्वनिगुणान्सर्वान्नित्यत्वेन व्यवस्थितान्।
वर्णा अनुपतन्तः स्युरर्थभेदावबोधिनः॥ २६८८॥
यदुक्तम्— तेषां च जातयो भिन्नाः शब्दाभिव्यक्तिहेतवः इत्यादि, तत्राभ्युपगम्य जातिदूषणमाह—“अन्यच्चे”त्यादि।
अन्यच्च जातयो भिन्नाः शब्दाभिव्यक्तिहेतवः।
यावद्वर्णं प्रवर्तन्ते व्यक्तयो वा तदन्विताः॥ २६८९॥
इति व्यञ्जकसद्भावान्नित्यं शब्दोपलम्भनम्।
अतो व्यक्तिक्रमात्माऽपि युक्तो वर्णक्रमो न ते॥ २६९०॥
अयं च निपातसमुदायो वाक्योपन्यासे द्रष्टव्यः। इतिशब्दो हेतौ। तेनायमर्थो भवति, त(य ?)स्माज्जातयो॥॥शब्दाभिव्यक्तिहेतवः स्थितास्तेन1 ॥॥॥॥शब्दोपलम्भो ॥॥नित्यं प्राप्नोति। व्यक्तेः क्रमाभावात्तदात्मा॥।न युक्तः॥॥॥॥व्यक्तमेवा॥॥इति ॥ २६८९॥ २६९०॥
तत्र जातिव्यक्त्योः सम्बन्धमभ्युपगम्य दोषमाह—“व्यक्तिसम्बन्धरूपाणा”मित्यादि।
व्यक्तिसम्बद्धरूपाणां जातीनां च व्यवस्थितौ।
व्यक्तीनामपि नित्यत्वं दुर्वारमनुषज्यते॥ २६९१॥
जातिसम्बन्धरूपाणां व्यक्तीनां वा व्यवस्थितौ।
जातीनामप्यनित्यत्वमकामस्यापि ते भवेत्॥ २६९२॥
द्विष्ठत्वात्सम्बन्धस्य, जातीनां नित्यत्वाभ्युपगमाच्च तत्सम्बन्धस्वभावानां व्यक्तीनामपि नित्यत्वं प्राप्नोति। अन्यथा हि जातीनां तत्सम्बन्धस्वरूपता न स्यात्। तथा व्यक्तीनामनित्यत्वाभ्युपगमात्तत्सम्बन्धस्वरूपाणां जातीनामप्यनित्यत्वं प्राप्नोति। बहि॥॥स्व च स्वरूपेणव्यक्तीनामनित्यतासेत्स्यति यदि तत्सम्बन्धादीनां जातीनामप्यनित्यता भवेत्। अन्यथा हि द्वितीयसम्बन्धिन्यविकले सति न युक्तमपरस्यवैकल्यं सम्बन्धस्वभावहानिप्रसङ्गात्॥ २६९१॥ २६९२॥
दूषणान्तरं पूर्वोक्तं वारयन्नाह—“अभिव्यक्तेरयोग” इत्यादि।
अभिव्यक्तेरयोगे च पुरस्तादुपपादिते।
इत्थं प्रतायमानाः स्युर्वर्णास्ते नावबोधकाः॥ २६९३॥
“त” इति व्यक्त्यन्तस्य ( ? )॥ २६९३॥
यदुक्तं “कालश्चैको विभुर्नित्य” इत्यादि, तत्राह—“कालोऽपी”त्यादि।
कालोऽप्येको विभुर्नित्यः पूर्वमेव निराकृतः।
वर्णवत्सर्वभावेषु व्यज्यते नच केनचित्॥ २६९४॥
वर्णेषु व्यज्यमानस्य नास्य प्रत्यायनाङ्गता।
अन्याविशेषान्नान्यत्र सद्भावाच्चास्य नित्यता॥ २६९५॥
तदानुपूर्वी वर्णानां ह्रस्वदीर्घप्लुताश्च ये।
कालस्य प्रविभागास्ते न युक्ता ध्वन्युपाधयः॥ २६९६॥
तस्मान्न पदधर्मोऽस्ति नित्यस्ते कश्चिदीदृशः।
तेनानित्यं पदं सिद्धं वर्णानित्यत्ववादिनाम्॥ २६९७॥
परधर्मेऽपि चा(ना?)ङ्गत्वं भवेदश्वजवादिवत्।
यदि व्यक्तिः प्रकल्पेत व्यञ्जकैः प्रत्ययैरिह॥ २६९८॥
“पूर्वमेवे”ति। षट्पदार्थपरीक्षायाम्। “व्यज्यते नच केनचि”दिति। असत्त्वादेव,सत्त्वेऽपि नित्यस्य व्यक्तेर्नि( य )तत्वात्। “अन्याविशेषा”दिति। “अ”न्यस्माद विशेषो अन्याविशेषः। तथाहि—बीजाङ्कुरलतादिषु यो व्यज्यते कालस्यात्माततस्तस्य वर्णेषु व्यज्यमानस्य कालात्मनो न कश्चिद्विषयोऽ(शेषोऽ ?)स्ति। एकस्य ॥॥॥॥॥॥अन्यत्र सद्भावात्तस्य नित्यात्॥॥योगादिति॥॥( “त” ) दिति। तस्मात्।“न युक्ता” इति। कालस्यासत्त्वात्, सत्त्वेऽप्यभ्युपगतमविभागत्वमिति। परधर्मेऽपीत्यादावाह—“परधर्मेऽपी”त्यादि। शेषं सुबोधम्॥ २६९४॥ २६९५॥ ॥ २६९६॥ २६९७॥ २६९८॥
नित्यतायां तु सर्वेषामर्थापत्तिरपाकृता।
अर्थप्रतीतिरूपत्वमनित्येषु हि साधितम्॥ २६९९॥
यो यद्विवक्षासम्भूतविवक्षान्तरतस्थि(स्त ?)तः।
वर्ण उत्पद्यते तस्य श्रुतिस्तत्समनन्तरम्॥ २७००॥
पूर्ववर्णविदुद्भूतसंविन्नातिद्रुतश्रुतिः।
सोऽपेक्ष्य तत्स्मृतिं पश्चात्कुरुते स्मृतिमात्मनि॥ २७०१॥
तत्समुत्थापकग्राहिज्ञानानि प्रति जन्यता।
हेतुता वाऽनुपूर्वीयं वर्णेषु पुरुषाश्रया॥ २७०२॥
अतः प्रतिपदं भिन्ना वर्णा इति परिस्फुटम्।
दमो मदो लता ताल इत्यादिक्रमभेदतः॥ २७०३॥
ईदृशेन क्रमेणैते त्वर्थभेदोपपादकाः।
अतएव निरर्थेह स्फोटस्यापि प्रकल्पना॥ २७०४॥
“अर्थापत्तिरपाकृते”ति। तथाहि हस्तकम्पादेरित्यादिना व्यभिचारस्य बाधकस्य च प्रमाणस्य वर्णनात्। अनित्येषु॥॥॥॥॥॥अत्यन्तत्वेऽपि न मन्यते तुल्यप्रत्ययश्च ॥॥॥॥॥।प्रतिपदं भिन्नत्वा(?)निमित्तमुपद्रोक ( अनित्या ) वर्णाः शब्दो ( सरो ? ) रस इत्यादौ प्रतीतिभेदनिबन्धनं युक्ताः। नतु दि (नि?)त्याः, तेषां सर्वत्रैकरूपत्वात्। न चानुपूर्वं तेभ्यो व्य(क्त्य)न्तरमित्येतत्सर्वं प्रतिपादयन्नाह—“यो यद्विवक्षे”त्यादि।अयमत्र तावत्समुदायार्थः। वक्तृसन्ताने प्रतिवर्णं तत्समुत्थापकानि ज्ञाता(ना?)निपूर्वपूर्वसमनन्तरप्रत्ययजन्या(नि विवक्षातो भवन्ति, ततश्च वर्णाः,) तेच श्रोतृसन्तानिपूर्वपूर्वग्राहिविज्ञानसहकारिणः स्वविषयाभिज्ञानानि क्रमवत्तति(र्तीनि?) जनयन्ति साक्षात्, ततश्च पश्चादावा(त्स्वस्व?)विषयां ( स्मृतिं ) क्रमभाविनीं जनयन्ति पारम्पर्येण। ततश्च वक्तृसन्तानभावीनि स्वसमुत्थापकानि ज्ञाना न ( न्य? ) पेक्षया ( क्ष्य ? ) तेषां जन्यता, श्रोतृसन्तानभा ( वीनि ) वान्य ( तान्य ? ) (पेक्ष्य हेतुता, सैव तेषामानुपूर्वी, ता (ना ?)न्या। कारणकार्यभेदाच्च प्रतिपदं वर्णानां भिन्नस्वभावत्वात्सरो रस इत्यादौ प्रतीतिभेदो युज्यते, न तु नित्यानाम्, तेषां सर्वदा सर्वत्रैकरूपत्वात्। नाप्यानुपूर्वी तेभ्योऽर्थान्तरभूतेष्टा। अर्थान्तरत्वेऽपि सम्बन्धासिद्धेरित्यभिप्रायः। अवयवार्थस्तू ( च्यते ) वर्ण उत्प( द्य ) त इति सम्बध्यते। सदा सम य ( इ? ) त्यादौ सकारादेः परोऽकारादिः, ( सकारविवक्षा )सम्भूतवितथा ( वक्षा ? )न्तरतस्ततः ( उत्पद्यते। ) यस्य सकारादेर्विवक्षा यद्विवक्षा, ततः सम्भूतं यद्विवक्षान्तरं तत्तथोक्तम्। एतदुक्तं भवति। वक्तृसन्ताने पूर्वपूर्ववर्णसमुत्थापकविवक्षासम्भूतं यदुत्तरोत्तरं विवक्षान्तरम्, तत उत्तरोत्तरो यो वर्ण उत्पद्यते स स्मृतिं कुरुत इति वक्ष्यमाणेन सम्बन्धः। एवं तावद्वक्तृसन्तानवर्त्तिव(र्णसमुत्थापक ( विवक्षाव ) गा( शा ? )द्वर्णानां ( जन्यत्वं प्रतिपाद्य श्रोतृ ) सन्तानवर्त्तिज्ञानं इ( प्र ? )ति कारणत्वं प्रतिपादयति—“तस्ये”( ति। ) ग( य ? ) इति यो निर्दिष्टः स सम्बध्यते। तस्य श्रुतिः—उत्पद्यत इति सम्बन्धः। “समनन्तर”मिति। अव्यवधानेन। एवं श्रोतृज्ञानहेतुत्वं प्रतिपाद्य साम्प्रतं स्मृतिहेतुत्वं प्रतिपादयति। “पूर्वे”ति। पूर्ववर्णानां वित्—ज्ञानम्, तेन उद्भूता सन्तिरनुगम ( संवित् —अनुभवो ? ) यस्य स तथोक्तः। “नातिद्रुतश्रुति”रिति। द्रुतश्रुतेः स्मृतिजनता समर्थत्वात्। “स” इति। उत्तरोत्तरो वर्णः। तु स्मृति( तत्स्मृतिम्—? ) पूर्वपूर्वस्मृतिम्। ( अपेक्ष्य—तत्सहकारेणेत्येतत्, स्मृतिम्—स्वस्वविषयाम् ) समुत्थापकानि चग्राहीणि चेति द्वन्द्वः। तेषां वर्णानां, तानि वा समुत्थापकग्राहीणि, तत्स( मुत्थापकग्राहीणि ( इति ) पश्चात् ( तत्पुरुषः कर्मधारयो वा। समुत्थापकान्यम्पेक्ष्य“जन्यते”ति। ) ग्राहीण्यनुभवस्मृतिज्ञात्यन( रूपाण्य ? ) पेक्ष्य “हेतुते”ति। एवमानुपूर्वीमर्थान्तरभूतां निराकृत्य वैयाकरणाद्युपकल्पितं ध्वनिभ्योऽर्थान्तरभूतं वाचकं शब्दात्मानं स्फोटमन्येति( द्य नि ? )राचिकीर्षन्ना(ह)—“अत एवे”त्यादि॥ २६९९॥ ॥ २७००॥ २७०१॥ २७०२॥ २७०३॥ २७०४॥
स ह्यर्थप्रतिपत्त्यर्थं शाब्दिकैः परिकल्पितः।
वर्णा एव च तच्छक्ता इत्यनर्थाऽस्य कल्पना॥ २७०५॥
दृश्यस्यादृष्टितश्चास्य नास्तिताऽध्यवसीयते।
अदृश्यत्वे तु नैवायं लिङ्गवज्ज्ञापको भवेत्॥ २७०६॥
(॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥।) नित्यो यथा कश्चिद्वैभावि(षि?)कै॥॥॥॥॥॥॥॥॥इति दर्शयति—“दृश्यस्ये”त्यादि। नहि वर्णेभ्यो व्यतिरिक्तो(नित्यः)स(अ?)कलः शब्दात्मा श्रो( श्रौ ? )त्रे चे (त)सि प्रतिभासमानः समालक्ष्यते। यत उपलब्धिल॥॥॥॥॥॥भावी ( भवेत् ?)। प्रत्युत तस्य नास्ति( ता ) सिद्ध्येत्। अथ द्वितीयः पक्षस्तथापि भावधर्मो वा हेतुर्भवेदभावधर्मो वा उभयधर्मो वेति विकल्पाः। आद्ये पक्षे स्फोटाख्यधर्मिधर्मो वा हेतुर्भवेत्, अन्यधर्मिधर्मो वा। तत्र तस्यैव स्फोटाख्यस्य धर्मिणोऽसिद्धत्वान्न॥॥॥॥॥।तद्धर्मस्तावद्धेतुः। अन्यधर्मोऽपि न हेतु( र )पक्षधर्मत्वात्। यथा बाहुपदं चय(घट?)स्यानित्यत्वादौ साध्ये। अभावधर्मोऽपि न भवति। तस्य विपरीतसाधकत्वात्।उभयधर्मोऽपि न भवति। तस्य व्यभिचारित्वात्। स्वभावहेतोर्वा तस्य सिद्धिर्भवेत्कार्यहेतोर्वा। न तावदाद्यः पक्षः, तस्यातीन्द्रियत्वात्तत्स्वभावासिद्धेः। सिद्धौ वा व्यर्थो हेतुः पर्येषणे, यत्तत्स्वभावस्य सिद्धत्वात्। तदर्थत्वाच्च प्रयासस्य। नापि द्वितीयः पक्षोऽतीन्द्रियेण सह कार्यकारणभावासिद्धेः। अथापि स्यात्—यथा श्रोत्रादिज्ञानस्य कादाचित्कत्वेन कारणान्तरसापेक्षत्वसिद्धौ सामर्थ्याच्छ्रोत्रादेरिन्द्रियस्य सिद्धिर्भवति, तथाऽत्राप्यर्थप्रतीतिं धर्मिणीं कृत्वा, वर्णाविशेषेऽपि सरो रस इत्यादावर्थप्रतीतिभेदात्स्फोटाख्यं कारणान्तरं कल्पयिष्याम इति। एतदप्यसम्यक्। वर्णाविशेषस्यासिद्धत्वात्। तथाहि साम्प्रतमेव प्रतिपादितम्—वर्णा एव प्रतिपदं भिन्नाः कार्यकारणभेदादर्थप्रतीतौ समर्था इत्यनर्थाकल्पनेति। एवमनुमेयत्वे दोषा वाच्या इत्यमिप्रायः। अथापि स्यान्नासावनुमेयः, किं तर्हि ?, “अत्यन्तादृश्य” इत्याह—“अदृश्यत्वे तु नैवाय”मिति। यथा लिङ्गमज्ञातं ज्ञापकं न भवति तद्वदयमपि स्यादज्ञातत्वात्॥ २७०५॥ २७०६॥
सत्तामात्रेण तज्ज्ञानं हेतुभावव्यवस्थितेः।
तस्य ज्ञापकतेष्टा चेन्नेत्रवत्सर्वदा भवेत्॥ २७०७॥
स(ङ्केता)नवबोधेऽपि वर्णानामश्रुतावपि।
तद्भाव्यर्थेषु विज्ञानं शक्तकारणसन्निधेः॥ २७०८॥
तथाहि नित्यसत्त्वोऽयं नचापेक्षाऽस्य काचन।
ध्वनिसङ्केतवर्णैश्च तद्व्यक्तिर्नाप्यदर्शनात्॥ २७०९॥
ज्ञानं हि व्यक्तिरित्याहुस्तज्ज्ञानं नच विद्यते।
ततो निरर्थकैवास्य व्यञ्जकस्यापि कल्पना॥ २७१०॥
अथ सत्तामात्रेण चक्षुरादीन्द्रियवदज्ञातोऽप्यर्थप्रतीतिहेतुर्भवेत्। एवं तर्हि तद्भावि ज्ञानं सर्वदा भवेत्। तथा सङ्केतग्रहणादिकमन्तरेण तद्भावि ज्ञानं स्यात्।एतदेव “सङ्केते”त्यादिना प्रदर्शयति। तत्रोपपत्तिमाह—“तथाही”ति। अथापि स्यात् —सङ्केताभिव्यक्त एवासावर्थप्रतीतिहेतुरिष्टो न सत्तामात्रेण, तेन न भवति यथोक्तदोषप्रसङ्ग इत्याह—“ध्वनिसङ्केतवर्णैरि”त्यादि। “अदर्शना”दिति। अनुपलब्धेः।अदृश्यत्वेनाभिमतत्वाच्च। एतदेव “ज्ञानं ही”त्यादिना दर्शयति॥ २७०७॥ २७०८॥ ॥ २७०९॥ २७१०॥
स्यादेतत्—भासमानो न लक्ष्यत इत्येतदसिद्धम्। तथाहि पूर्वपूर्ववर्णाहितसंस्कारायामावृत्तसंस्कारपरिपाकायां बुद्धौ शब्दोऽकलः प्रतिभासत एवेत्याह—“नादेने”त्यादि।
नादेनाहितबीजायामन्त्येन ध्वनिना सह।
आवृत्तपरिपाकायां बुद्धौ शब्दोऽवभासते॥ २७११॥
इत्येतदपि तेनात्र निर्निमित्तं प्रकल्पितम्।
तस्यामपि न शब्दोऽन्यो भासमानो हि लक्ष्यते॥ २७१२॥
आवृत्तः—सञ्जातः सर्वबुद्ध्याहितः संस्कारपरिपाको यस्यां बुद्धौ सा तथोक्ता।“निर्निमित्त”मिति। वर्णा एव हि यथानुभवं पश्चात्सङ्कलनाप्रत्ययेन स्मार्त्तेनावसीयन्त इत्यभिप्रायः। तथाहि—नैवान्त्यवर्णप्रतिपत्तेरूर्ध्वमन्यमकलं शब्दात्मानमुपलक्षयामो नापि स्वयमयं वक्ता विभावयति। केवलमेवं यदि स्यात्साधु मे स्यादिति कल्याणकामतामूढमतिरत्या(न्त्या ?)यां बुद्धौ समाप्तकालः शब्दो भातीति स्वप्नायते॥ २७११॥ २७१२॥
एवं तावन्नित्यपक्षे दूषणमुक्तम्। इदानीं नित्यानित्यपक्षयोरपि साधारणं दूषणमनवयवपक्षे प्राह—“जन्यता”मित्यादि।
जन्यतां व्यज्यतां वाऽपि ध्वनिभिः क्रमभाविभिः।
येऽपि स्फोटस्य मन्यन्ते क्रमस्तेषां विरुध्यते॥ २७१३॥
नहि क्रमेण युज्येते व्यक्तिजाती निरंशके।
एकरूपाबहिर्भावात्ते स्यातां सर्वथैव हि॥ २७१४॥
वैभाषिका हि केचित्पदकार्याभिधानेन वाक्यस्फोटमनित्यत्वाज्जन्यं प्रतिपन्नाः।“निरंशक” इति। निरवयवे वस्तुनि। “एकरूपाबहिर्भावा”दिति। एकस्माद्रूपाज्ज्ञाताद्व्यक्ताद्वाऽजाताव्यक्ताभिमतस्यापि रूपस्याबहिर्भावात्। ते—जातिव्यक्ती सर्वस्यैव स्याताम्। ततश्च शेषवर्णादिप्रयोगवैयर्थ्यं स्यात्॥ २७१३॥ २७१४॥
सावयवपक्षेऽपि दूषणमाह—“सांशत्वेऽपी”ति।
सांशत्वेऽपि यथा वर्णाः क्रमेण प्रतिपादकाः।
स्फोटांशा अपि किं नैवं किमदृष्टाः प्रकल्पिताः॥ २७१५॥
ते हि स्फोटांशाः प्रत्येकमनर्थका वा स्युः सार्थका वा। प्रथमे पक्षे क्रमभावित्वाद्वर्णात्स( त्म ? )वदप्रतिपादकत्वप्रसङ्गः। कल्पितं च वाचकत्वं स्यात्, अताद्रूप्ये ताद्रूप्यात्। तथाहि—अर्थवानेकात्मा वाक्यमुच्यते, वा( ना ? )वयवाः स्वयमनर्थकाः, तेषु स आत्मा कल्पनारोपितः स्यात्, माणवकादिषु सिंहतादिवत्। सति च कल्पिते वाचकत्वे वरं वर्णभागा एव सन्तु वाचकाः किमदृष्टाः स्फोटांशाः कल्प्यन्त इति। अथ सार्थकत्वं तदाऽनेककल्पना निरर्थिका, तथाहि—परिसमाप्तार्थं शब्दरूपं वाक्यमुच्यते, प्रत्येकं चेदर्थवन्तोऽवयवाः स्युस्तदा तावन्त्येव तानि वाक्यानि ज्ञा( जा? )तानीति नैका( कोऽ ?) नै(ने?)कावयवात्मा सिद्ध्यति। एकावयवप्रतिपत्तौ च सत्यां वाक्यार्थप्रतिपत्तिप्रसङ्गः। यथोक्तम्— प्रत्येकं सार्थकत्वेऽपि मिथ्याऽनेकत्वकल्पना। एकावयवगत्या च वाक्यार्थप्रतिपद्भवेत्॥ इति॥ २७१५॥
यदुक्तम्—“नहि क्रमेण युज्येते जातिव्यक्ती निरंशक”इति, अत्र परस्य परिहारमाशङ्कते—“जाता”वित्यादि।
जातौ व्यक्तौ कृतायां चेदेकेन ध्वनिना सकृत्।
नितरां व्यक्तिसिद्ध्यर्थं वर्णानन्यान्प्रयुञ्जते॥ २७१६॥
यतो दुरवधाराऽस्य प्रकृतिः सा तथा कृता।
समानव्यक्तिकैर्वर्णैर्भूयोऽपि व्यज्यते परैः॥ २७१७॥
यद्यप्येकेन ध्वनिना जातिर्व्यक्तिर्वा सर्वात्मना स्फोटस्य कृता, तथापि नोत्तरध्वनिप्रयोगवैयर्थ्यं, तस्य स्पष्टव्यक्त्यर्थत्वात्, यथाहि श्लोक एव पुनः पुनराव र्त्त्यमानो व्यक्तीभवति, न च सकृदुच्चारणात्, नतु पुनः पुनरावृत्त्या तस्य विशेषान्तरमाधीयते, अथ च न पुनरावृत्तेर्वैयर्थ्यमेवमिहापि नोत्तरध्वनिवैयर्थ्यं भविष्यति। एतदेव दर्शयति—“यत” इत्यादि। “दुरवधारे”ति। अवधारयितुमशक्या ॥ २७१६॥ २७१७॥
“तस्यै”वेत्यादिना प्रतिविधत्ते।
तस्यैवान्यस्य वैकस्य किं नावृत्तौ पुनः पुनः।
व्यक्तिरावर्त्तते तस्य नन्वेवमविशेषतः॥ २७१८॥
नन्वित्यामन्त्रणे। तस्यैव—प्रथमोच्चरितस्य वर्णस्य, अन्यस्य वा—तदन्तर्गतस्य कस्यचिदेकस्य, पुनः पुनरावृत्त्या किं नाभिव्यक्ति क्रियते। नहि तेनापादिता सती व्यक्तिर्नापादिता भवेत्। तथाहि तद्व्यक्त्यावर्त्तनमात्रफलान्युत्तरोत्तरवर्णोच्चारणानि, समानशक्तिकत्वात्सर्वेषां, तच्चावर्त्तनमेकेनैव पुनः पुनरावर्त्त्यमानेन कर्तुं शक्यत इति शेषवर्णोच्चारणवैयर्थ्यम्। नाप्युत्तरोत्तरवर्णानां भिन्नशक्तिकत्वमभ्युपगन्तव्यम्। निरंशके विशेषान्तरस्याधातुमशक्यत्वाद्विशेषान्तरकरणासम्भवे न्न( च ? ) भिन्नशक्तिकल्पनावैयर्थ्यप्रसङ्गात्॥ २७१८॥
एतच्च सता( त्या ? )मभिव्यक्तौ सर्वं सम्भवेत्सैव तु न सम्भवतीति दर्शयन्नाह—“विषयेन्द्रिये”त्यादि।
विषयेन्द्रियसंस्काररूपा व्यक्तिश्च वर्णवत्।
अस्यापि प्रतिषेद्धव्या तदाभासेऽपि चेतसि॥ २७१९॥
“वर्णव”दिति। यथा वर्णेषु विज्ञानजननयोग्यायोग्यस्वभावविकल्पेन विषयेन्द्रियसंस्काररूपाऽभिव्यक्तिर्दूषिता तथेहापि दूषणीयेत्यर्थः। “तदाभासेऽपी”ति।स्फोटाभासेऽपि। अयं चाभ्युपगमवादः। एतदुक्तं भवति—यदि हि वर्णव्यतिरेकेणापरः स्फोटाख्यः शब्दात्माऽवभासेत ततोऽस्याभिव्यक्तिः सम्भवेद्व्यक्तेरुपलब्धिरूपत्वात्। यावता नावभासत इति पूर्वमावेदितम्—अवभासतां नाम, तथाऽपि प्रकृत्योपलभ्यानुपलभ्यस्वभावस्योभयथाऽप्यभिव्यक्तिर्न युक्तेति॥ २७१९॥
“तस्मा”दित्यादिनोपसंहृत्य विनाऽपि स्फोटेनार्थप्रतिपत्तेरुपपत्तिक्रमं दर्शयति।
तस्मात्प्रत्यक्षतः पूर्वं क्रमज्ञानेषु यत्पदम्।
समस्तवर्णविज्ञानं तदर्थज्ञानकारणम्॥ २७२०॥
ननु च क्रमवर्त्तिनो हि वर्णाः क्रमेणैव चानुभूताः, यथाऽनुभवं च स्मरणं, तत्कथं समस्तवर्णनिर्भासि स्मार्त्तज्ञानमेकं युज्यते स्फोटमन्तरेण, न चाक्रमे ज्ञाते क्रभिणांवर्णानां प्रतिभासो युक्त इत्याशङ्क्याह—“अन्त्यवर्णे ही”त्यादि।
अन्त्यवर्णे हि विज्ञाते सर्वसंस्कारकारितम्।
स्मरणं यौगपद्येन सर्ववर्णेषु जायते॥ २७२१॥
अनेनैव( न चै ? ) तदाह—प्रथममनुभवस्ततस्तत्समनन्तरभावीनि स्मरणानि यथानुभवं क्रमेणैव जायन्ते, ततः स्मरणेभ्यः उत्तरकालं युगपत्समस्तवर्णाध्यवसायि समुच्चयज्ञानमपरं स्मार्त्तमुत्पद्यते, यथा परिदृष्टार्थाध्यवसादित्वात्॥ २७२१॥
एतच्च सर्ववादिनां प्रसिद्धम्, न मयैव कल्पितमिति दर्शयति—सर्वेषु चेति।
सर्वेषु चैतदर्थेषु मानसं सर्ववादिनाम्।
इष्टं समुच्चयज्ञानं क्रमज्ञातेषु सत्स्वपि॥ २७२२॥
एतदिदि। समुच्चयज्ञानम्॥ २७२२॥
एतच्च युक्त्युपेतत्वादवश्याभ्युपेयमिति दर्शयति—नचेदित्यादि।
नचेत्तदभ्युपेयेत क्रमदृष्टेषु नैव हि।
शतादिरूपं जायेत तत्समुच्चयदर्शनम्॥ २७२३॥
यदि हि सर्वमेव स्मरणं यथानुभवं क्रमेणैवं जायते, तदा क्रमानुभूतेषु शतादिषु युगपच्छतादिविकल्पोन स्यात्। शतकोटयादिविकल्पानां चोत्पत्तिकाले भेदो न भवेत्॥ २७२३॥
तेनेत्युपसंहरति।
तेन श्रोत्रमनोभ्यां स्यात्क्रमाद्वर्णेषु यद्यपि।
पूर्वज्ञानं परस्तात्तु युगपत्स्मरणं भवेत्॥ २७२४॥
यद्येवं समुच्चयज्ञानमेवार्थप्रतीतिहेतुः स्यात्, न ते वर्णाः, तेषां चिरनिरुद्धत्वात्, न चैतद्युक्तम्, यस्माच्छब्दादनन्तरमर्थप्रतीतिर्भवन्तीत्याकुमारमेतत्प्रतीतमित्याशङ्कयाह—तदारूढा इत्यादि।
तदारूढास्ततो वर्णा न दूरार्थावबोधनात्।
शब्दादथ मतिस्तेन लौकिकैरभिधीयते॥ २७२५॥
तस्मिन्समुच्चयज्ञाने आरूढास्तदारूढाः। “लौकिकै”रिति। स्वार्थतद्धितविधानम्॥ २७२५॥
नन्वेवमपि तेषां चिरनिरुद्धत्वादत्यन्तासत्त्वमेवेति कथं तदारोहणं भवेदित्याशङ्क्याह—“आकारवती”त्यादि।
आकारवति विज्ञाने सर्वमेतच्च युज्यते।
अन्यथा हि विनष्टास्ते भासेरन्स्मरणे कथम्॥ २७२६॥
निराकारे कस्मान्न युज्यत इत्याह—“अन्यथा ही”त्यादि। ततश्च यदेतत्— अन्त्यवर्णे हि विज्ञाते इत्यादिना कुमारिलेन स्फोटवादिनं प्रति समुच्चयज्ञानं वर्णितम्, तदस्मन्मत एव युज्यते न तु भवतां मीमांसकानां निराकारवादिनां मत इत्युक्तं भवति॥ २७२६॥
ननु च मीमांसकानामपि युज्यत एव, नहि तेषां मतेन वर्णा विनष्टाः, येन न भासेरन्। किं तर्हि ?। तिरोभूताभिव्यक्तयः सन्त्येवेत्येत“दथे”त्यादिनाऽऽशङ्क्य“ने”त्यादिना परिहरति।
अथ वर्णास्तिरोभूतव्यक्तयो विदिताः पुरा।
स्मर्यन्तेऽवस्थिता एव न स्पष्टाभप्रसङ्गतः॥ २७२७॥
यदि हि त एव वर्णाः पूर्वमनुभूताः सन्तः पश्चात्तिरोभूतव्यक्तयः समुच्चयज्ञानेन गृह्येरंस्तदाऽऽत्मानुभवज्ञानवत्तत्समुच्चयज्ञानं स्पष्टाभं प्राप्नोति। आकारस्य बाह्यगतत्वात्तस्य चैकरूपत्वात्। किञ्च—यदि तिरोभूतव्यक्तयः, कथं भासेरन्,व्यक्तेरूपलब्धिस्वभावत्वात्॥ २७२७॥
अपिच—यद्यतीतस्यावस्थितिः सम्भवेत्तदैतत्स्याद्यावताऽतीतस्यावस्थित्यभावादेव न युक्तं तस्य प्रतिभासनमिति दर्शयति—“अपास्ता चे”त्यादि।
अपास्ता च स्थितिः पूर्वं तत्स्थितौ स्मरणं भवेत्।
वर्णानुभवविज्ञानकाल एवैकहेतुतः॥ २७२८॥
“पूर्व”मिति। त्रैकाल्यपरीक्षायाम्। अत्रैव बाधकं प्रमाणमाह—“तत्स्थिता”वित्यादि। वर्णानुभवज्ञानकाले स्मरणोत्पत्तिप्रसङ्गो बाधकं प्रमाणम्। “एकहेतुत” इति। अभिन्नकारणत्वात्॥ २७२८॥
अत्र शाब्दिकाश्चोदयन्ति—यद्येको नास्ति स्फोटाख्यः शब्दात्मा तत्कथं गौरित्येकाकारा गोशब्दे बुद्धिर्भवतीति, अत आह—“गौरि”त्यादि।
गौरित्येकमतित्वं तु नैवास्माभिर्निवार्यते।
तद्ग्राह्यैकार्थताभ्यां च शब्दे स्यादेकतामतिः॥ २७२९॥
एका मतिरस्येत्येकमतिः, तद्भावस्तत्वम्। “तद्ग्राह्यैकार्थताभ्यां चे”ति। तयाएकया बुद्ध्या, ग्राह्यस्तद्ग्राह्यः, एकोऽर्थः प्रयोजनं यस्य स तथोक्तः, तद्ग्राह्यश्चैकार्भश्चेति द्वन्द्वः, तयोर्भावौ तद्ग्राह्यैकार्थते, ताभ्याम्। एतदुक्तं भवति—एकबुद्धिग्राह्यत्वादेकसास्नादिमदर्थद्योतकत्वाच्चैको गोशब्द उच्यते इति॥ २७२९॥
एकमतित्वं च न सर्वत्र सिद्धमिति दर्शयति—शैघ्र्यादित्यादि।
शैघ्र्यादल्पान्तरत्वाच्च गोशब्दे सा भवेदपि।
देवदत्तादिशब्देषु स्पष्टो भेदः प्रतीयते॥ २७३०॥
शैघ्र्यात्—द्रुतोच्चारणात्। अल्पान्तरत्वम्—स्वल्पविच्छेदत्वम्। “से”ति। एका मतिः। देवदत्तादिपरे तु प्रतिवर्णं शाक्वनया ( ध्वनयः ? ) स्फुटतरं विच्छेदेन प्रतीयन्त इति पक्षैकदेशासिद्धमेकमतित्वम्॥ २७३०॥
वर्णोत्थेत्यादिना प्रमाणयति।
वर्णोत्था चार्थधीरेषा तज्ज्ञानानन्तरोद्भवात्।
येदृशी सा तदुत्था हि धूमादेरेव वह्निधीः॥ २७३१॥
प्रयोगः—या बुद्धिर्यद्विज्ञानान्तरमुद्भाविता सा तत्समुत्थिता पारम्पर्येण, यथा धूमादिलिङ्गज्ञानाद्वह्नयादिलिङ्गिधीः। वर्णविज्ञानानन्तरभाविनी चार्थधीरिति स्वभावहेतुः। कार्यताव्यवहारश्चात्र साध्यते। तेन साध्यसाधनयोर्भेदः॥ २७३१॥
असिद्धत्वमस्य परिहरन्नाह—“न वर्णे”त्यादि।
न वर्णभिन्नशब्दाभज्ञानानन्तरभाविनी।
अर्थधीर्विद्यते तेन नान्यः शब्दोऽस्ति वाचकः॥ २७३२॥
वर्णेभ्यो भिन्नो यः शब्दात्मा तदाभं यज्ज्ञानं तदनन्तरभाविनी न विद्यते, किं तर्हि ?, वर्णविज्ञानानन्तरभाविनी, अतो नासिद्धो हेतुः। अनेन चोपलब्धिलक्षणप्राप्तस्यानुपलम्भादभावव्यवहारोऽपि दर्शितः॥ २७३२॥
“नाप्यनैकान्तिक” इति दर्शयन्नाह—“कार्यते”त्यादि।
कार्यताव्यवहाराङ्गं सर्वत्रैव विनिश्चितौ।
अन्वयव्यतिरेकौ हि व्याप्तिस्तेनेह निश्चिता॥ २७३३॥
कार्यताव्यवहारस्याङ्गम्—कारणम्, किं तत् ? “अन्वयव्यतिरेका”विति। सामानाधिकरण्येन सम्बन्धः। तदन्वयव्यतिरेकानुविधायित्वमात्रमेव तत्कार्यताव्यवहृतेरङ्गं नान्यत्, अतः कार्यताव्यवहारस्य निमित्तान्तरासम्भवो बाधकं प्रमाणमिति सिद्धाव्याप्तिः॥ २७३३॥
स्यादेतत्—माभूत्स्फोटस्य वाचकत्वं, वर्णा एव नित्याः सन्तो वाचका भविष्यन्ति, तेच नित्याः प्रत्यक्षादिप्रमाणतः सिद्धा इत्याह—“अनित्येष्वि”त्यादि।
अनित्येष्वेव वर्णेषु वाचकत्वे प्रसाधिते।
प्रत्यभिज्ञानुमाने च निरस्ते नित्यसाधने॥ २७३४॥
प्रत्यभिज्ञा चानुमानं चेति प्रत्यभिज्ञानुमाने। क्वचित्प्रत्यभिज्ञानानुमानमिति पाठः, तत्र समाहारद्वन्द्वोऽपि विधेयः। सहितशब्दलोपाद्विशेषणसमासो वा॥ २७३४॥
स्ववाक्यादिविरोधश्चेत्यादावाह—“स्ववाक्यादिविरोधाना”मित्यादि।
स्ववाक्यादिविरोधानामज्ञानाच्चोदना कृता।
नित्यपक्षे तु सर्वे ते भवन्ति भवतां यतः॥ २७३५॥
नित्या सती न वाग्युक्ताद्योतिकेत्युपपादितम्।
आनुपूर्व्याद्ययोगेन नित्यं चानुपलम्भनात्॥ २७३६॥
“सर्वे त” इति। स्ववाक्यादिविरोधाः। “आनुपूर्व्यादी”ति। आदिशब्देन क्रमेण श्रुतिस्मृती गृह्येते। तथाहि नित्यत्वान्न कालकृतानुपूर्वी, नापि देशकृता व्यापित्वात्, नाप्यभिव्यक्तिकृता अभिव्यक्तेरपाकृतत्वात्। तथा ज्ञानजननेऽपि न नित्यानामुपयोगोऽस्तीति बहुधा निवेदितम्॥ २७३५॥ २७३६॥
यदुक्तम्—“वक्तव्यं कतरः” ( चैषकः ? ) शब्दः इत्यादि। तत्राह—“धर्मिभेदविकल्पेने”त्यादि।
धर्मिभेदविकल्पेन याऽऽश्रयासिद्धिरुच्यते।
सोऽनुमालक्षणाज्ञानाद्धर्मित्वं भासिनो यतः॥ २७३७॥
अविचारप्रसिद्धोर्थो योयं ज्ञानेऽवभासते।
शनकादेरपि प्रोक्ता तावन्मात्रस्य धर्मिता॥ २७३८॥
तत्रैव हि विवादोऽयं सम्प्रवृत्तः प्रवादिनाम्।
इच्छारचितभेदे तु न विवादोऽस्ति कस्यचित्॥ २७३९॥
य एव वादिप्रतिवादिनोः प्रतिभासवशाद्धर्मी सिद्धः स एव विशेषविवादाश्रयः, नतु स्वेच्छोपकल्पितः, तत्र विवादाभावात्, नहि स्वेच्छोपरचितधर्मिणि धर्मविशेषङ्कल्पयन्कश्चिन्निवार्यत इति। “भासिन” इति। भासमानस्य। एतदेव दर्शयति“अविचारप्रसिद्धोऽर्थ” इत्यादि। सुगमम्॥ २७३७॥ २७३८॥ २७३९॥
अविशेषेण धर्मिणि निर्दिष्टे यद्विशेषेण (वि)कल्पनं तदेतज्जात्युत्तरमिति दर्शयन्नाह—“अत” इत्यादि।
अतोऽविशेषनिर्दिष्टे विशेषेण विकल्पनम्।
सर्वस्यैवानुमानस्य प्रवृत्तिं प्रतिवाधते॥ २७४०॥
चोदनाजनिता बुद्धिः प्रमाणं दोषवर्जितैः।
कारणैर्जन्यमानत्वादित्याद्यपि विकल्प्यते॥ २७४१॥
नित्यनित्यार्थसम्बद्धचोदनाजनिता मतिः।
पक्षश्चेदाश्रयासिद्धिः परं प्रत्यनुषज्यते॥ २७४२॥
नित्या चासौ स्वयं, नित्यमेवार्थेनाकृतिलक्षणेन सम्बद्धेति तथोक्ता, तया जनिता या बुद्धिः, सा यदि पक्षः, तदा परं—प्रति, असिद्धो हेतुः॥ २७४०॥ २७४१॥ ॥ २७४२॥
यदुक्तम्—अनित्यत्वं ( च ) नाशित्वमित्यादि। तत्राह—“तादवस्थ्यमि”त्यादि।
तादवस्थ्यं च नित्यत्वं तदन्यत्वमनित्यता।
तादवस्थ्यानिवृत्तौ हि किमवस्थितमिष्यते॥ २७४३॥
“किमवस्थितमिष्यत” इति। अवस्थाया अवस्थातुरव्यतिरेकात्, तन्निवृत्तौ सामर्थ्यात्तस्यापि निवृत्तिः। अन्यथा यदेकयोगक्षेमं न भवति तत्कथं तत्स्वभावं युक्त मिति भावः॥ २७४३॥
यदुक्तम्—“केवलैन्द्रियकत्वे चे”त्यादि, तत्राह—“केवलैन्द्रियकत्वे चे”त्यादि।
केवलैन्द्रियकत्वे च हेतावत्र प्रकल्पिते।
जात्या बाधितया पूर्वं व्यभिचारो न गम्यते॥ २७४४॥
“पूर्व”मिति। सामान्यपरीक्षायाम्॥ २७४४॥
यदि नाम जात्या व्यभिचारो नास्ति, तथापि सन्दिग्धव्यतिरेकोऽप्यनैकान्तिक एवेत्याशङ्क्य हेतोरैन्द्रियकत्वस्य प्रतिबन्धमादर्शयन्नाह—“स्वनिर्भासी”त्यादि।
स्वनिर्भासीन्द्रियज्ञानहेतुरैन्द्रियको भवेत्।
नच नित्येऽस्ति हेतुत्वमिति तद्धि प्रसाधितम्॥ २७४५॥
स्वनिर्भासिन इन्द्रियज्ञानस्य हेतुरर्थ ऐन्द्रियक उच्यते, नित्यस्य च क्रमयौगपद्याभ्यां नार्थक्रिया युक्तेति सिद्धः प्रतिबन्धः॥ २७४५॥
“कार्या चैन्द्रियकत्वादावि”त्यादावाह—“सर्वेषामि”त्यादि।
सर्वेषां च प्रसिद्धेयमीदृगर्थस्य हेतुता।
धूमादावपि सर्वत्र विकल्पोऽयं समोऽन्यथा॥ २७४६॥
ईदृक् चासावर्थश्चेति तथोक्तः, “ईदृ”गिति। अविचाररमणीयः। अन्यथा धूमादावपि विकल्पः शक्यते कर्त्तुम्—किमैन्द्रियको धूमो लिङ्गत्वेनोपात्त, आहोस्विद्विज्ञानप्रकृतिकालादिपरिणामः, किंवाऽवयवी परमाणुभिरारब्धोऽनारब्धो वेत्यादि(:) विकल्पो(ल्पे?)ऽन्यतरसिद्धतादिदोषः स्यात्॥ २७४६॥
“प्रयत्नानन्तरज्ञानं कृतकानित्यसाधन”मित्यत्राह—“प्रयत्ने”त्यादि।
प्रयत्नानन्तरज्ञानकार्यारम्भकता नच।
प्रतिसङ्ख्यानिरोधादेः प्रसिद्धा सांवृतस्य नः॥ २७४७॥
प्रयत्नानन्तरज्ञानभवं कार्यं तस्यारम्भकता प्रतिसङ्ख्यादिनिरोधादेर्न सिद्धेति सम्बन्धः। यदि हि सौत्रान्तिकनयेन प्रतिसङ्ख्यानिरोधादिना व्यभिचार उद्भाव्यते।तदा न सिद्धो व्यभिचारस्तेषां मतेन प्रतिसङ्ख्यानिरोधादेः संवृतिसत्त्वात्। नच सांवृतं कस्यचित्कार्यस्यारम्भकं युक्तं तल्लक्षणहानिप्रसङ्गात्। तथाहि—यदर्थक्रियाकारितदेव परमार्थस्तदन्यत्तु संवृतिसदिति परमार्थसंवृतिसतोर्लक्षणम्॥ २७४७॥
अथ वैभाषिकमतेन व्यभिचारः, तत्रापि यादृशो भवता नाशाद्यात्मको वर्णितः प्रतिसङ्ख्यानिरोधादिस्तादृग्वैभाषिकैर्नेष्ट इत्यादर्शयति—“नचे”त्यादि।
नच नाशात्मकाविष्टौ निरोधौ साश्रवैर्यतः।
प्रतिसङ्ख्यानिरोधो यो विसंयोगः पृथक् पृथक्॥ २७४८॥
उत्पादात्यन्तविघ्नोऽन्यो निरोधोऽप्रतिसङ्ख्यया।
तस्मादज्ञातसिद्धान्ताः प्लवन्तेऽलीकमानिनः॥ २७४९॥
निरोधाविति। प्रतिसङ्ख्याऽप्रतिसङ्ख्यानिरोधौ। कीदृशौ नामेष्टावित्याह—“साश्रवैर्यत” इति। सक्लेशैर्वस्तुभिर्यो विभागः स प्रतिसङ्ख्यया प्रज्ञया प्राप्यत इति कृत्वा प्रतिसङ्ख्यानिरोध उच्यते, सच प्रतिसंयोगिद्रव्यं भिन्नः, अतएवाह—“पृथक् पृथ”गिति। यावन्ति हि संयोगिद्रव्याणि तावन्ति विसंयोगद्रव्याणीति सिद्धान्तात्। अप्रतिसङ्ख्यानिरोधस्तु—अनागतानां धर्माणामुत्पादस्यात्यन्तविघ्नभूतो धर्मो विसंयोगादन्यो यः स उच्यते। स च न प्रतिसङ्ख्यया लभ्यते। किन्तर्हि ?। प्रत्ययवैकल्यादतोऽप्रतिसङ्ख्यानिरोध उच्यते। यथोक्तम्— प्रतिसङ्ख्यानिरोधो यो विसंयोगः पृथक् पृथक्। उत्पादात्यन्तविघ्नोऽन्यो निरोधोऽप्रतिसङ्ख्यया॥ इति॥ २७४८॥ ॥ २७४९॥
भवेन्नाम नास्वभावौ, तथापि न व्यभिचार इत्यादर्शयन्नाह—“नास्वभावादि”त्यादि।
नास्वभावात्स्वनाशौ च प्रयत्नानन्तरीयकौ।
कपालालोकराश्यादि तथाज्ञाननिबन्धनम्॥ २७५०॥
“प्रत्यत्नानन्तरीयका”विति। नेति सम्बन्धः। कुतः ?। अस्वभावात्। तथाहिवस्तुसत्ताप्रतिषेधमात्रं नाशः, आकाशं च स्प्रष्टव्याभावमात्रम्, ततश्चैतौ स्वनाशौ द्वावपि निःस्वभावौ, तत्कथमनयोः प्रयत्नानन्तरीयकता भवेत्, स्वभावस्यैवार्थक्रियाकारित्वात्। किमिदानीं तर्हि विनाशादिविज्ञाननिबन्धनमित्याह—“कपाले”त्यादि। आलोकराशिः—आलोकसङ्घातः। आदिशब्देन तमोराशिग्रहणम्॥ २७५०॥
यदुक्तम्—“अविशेषेऽपि नानित्यं न नित्यं वस्तु तन्ममे” त्यादि। तत्राह—“एकस्ये”त्यादि
एकस्यार्थस्वभावस्य परिक्षिप्ताद्द्विरूपता।
अंशस्तस्मान्न जात्याख्यो नित्योऽत्र घटते घटे॥ २७५१॥
अनित्यताविकल्प्यैवमित्यादावाह—“तादवस्थ्ये”त्यादि।
तादवस्थ्यप्रतिक्षेपमात्रं चानित्यतेप्सिता।
साध्यत्वेन प्रदीपादिस्तत्रोदाहरणं स्फुटम्॥ २७५२॥
तादवस्थ्यप्रतिषेधमात्रमेवानित्यता साध्यत्वेनेष्टा, तत्रापि प्रदीप उदाहरणं साध्यान्वितमस्त्येवेति कुतः साध्यहीनता दृष्टान्तस्य॥ २७५२॥
“ज्वालादे”रित्यादिना परमतेन प्रदीपादेरपि दृष्टान्तस्य साध्यहीनतामाशङ्कते।
ज्वालादेरपि नाशित्वं नत्वसिद्धं प्रतिक्षणम्।
लघवोऽवयवास्तत्र यान्ति देशान्तरं लघु॥ २७५३॥
प्रभूतं वर्त्तिदेशे हि तेजस्तिष्ठति पिण्डितम्।
तत्र यावद्व्रजत्पूर्वं(त्यूर्ध्वं?)तावज्ज्वालेति गम्यते॥ २७५४॥
ततोऽपि यदपक्रम्य याति तत्स्यात्प्रभात्मकम्।
ततः परं तु यद्याति तत्सौक्ष्म्यान्नावधार्यते॥ २७५५॥
तत्र हि ज्वालादेरवयवाः शीघ्रंशीघ्रं देशान्तरं व्रजन्ति न तु प्रतिक्षणविशरारवः (विशरणाः ?)॥ २७५३॥ २७५४॥ २७५५॥
अथ युगपत्कस्मात्सर्वे न विसर्पन्तीत्याह—“उत्तरावयवै”रित्यादि।
उत्तरावयवै रुद्धे मार्गे पूर्वे न यान्ति च।
यथोत्तरे विमुञ्चन्ति पूर्वे यान्ति तथा तथा॥ २७५६॥
ननु यदि प्रसर्पणधर्माणस्ते तत्समीपवर्त्ति तृणतूलादि किं न दहन्तीत्याह—“सङ्क्रान्तावपी”त्यादि।
सङ्क्रान्तावपि नैतेषां तृणादौ वृत्तिसम्भवः।
तदेतत्कल्पनामात्रं प्रमाणानभिधानतः॥ २७५७॥
संहतावस्थायामेव लब्धवृत्तयो भवन्ति। नतु विप्रकीर्णावस्थायामिति भावः। “तदेत”दित्यादिना प्रतिविधत्ते। सत्यामपि चास्यां कल्पनायां न साध्यविकलता दृष्टान्तस्य। तथाहि तादवस्थ्यप्रतिषेधमात्रमनित्यतासाध्यत्वेनेष्टेत्युक्तम्। तच्च तादवस्थ्यं प्रदीपादौ नास्त्येवेति कुतः साध्यविकलता॥ २७५७॥
तथाऽप्यभ्युपगम्य दोषमाह—“किञ्चे”त्यादि।
किञ्चाव्याहतशक्तीनां तृणतूलादिसङ्गतौ।
दाहवृत्तिप्रसङ्गोऽयं पूर्ववन्न निवर्त्तते॥ २७५८॥
“अव्याहतशक्तीना”मिति। ज्वालाद्यवयवानाम्। “पूर्ववदि”ति। संहतावस्थादविशेषात्॥ २७५८॥
अथ विशेषोऽभ्युपगम्यते तदा नित्यत्वहानिप्रसङ्गो दुर्निवार इति दर्शयति—“अन्यथे”त्यादि।
अन्यथा नित्यरूपा सा तेषु स्यात्कीदृशी तव।
शक्ताशक्तस्वभावस्य यदा भेदो व्यवस्थितः॥ २७५९॥
सुबोधम्॥ २७५९॥
यदुक्तम्— सम्बन्धाकरणन्यायाद्वक्तव्या वाक्यनित्यता इति, तत्राह—“सम्बन्धस्य” चेत्यादि।
सम्बन्धस्य च नित्यत्वं प्रतिषिद्धं पुरा ततः।
सम्बन्धाकरणन्यायान्न युक्ता वाक्यनित्यता॥ २७६०॥
भवन्मतेन वाक्यमेव न सम्भवति, यस्य त्वया नित्यत्वं प्रसाध्यत इति मन्यमानो वाक्यं विचारयन्नाह—“कतमस्ये”त्यादि।
कतमस्य च वाक्यस्य नित्यत्वमुपगम्यते।
वर्णमात्रात्मनो वर्णक्रमस्याथ विभेदिनः॥ २७६१॥
(किं)कदाचिद्वर्णमात्रमेवाविशिष्टं वाक्यं स्यात्। यद्वा—वर्णा एव विशिष्टाः क्रमवर्त्तिनो वाक्यम्। अथवा वर्णेभ्यो भेदिनः स्फोटाख्यस्य वाक्यत्वमिति पक्षत्रयम् ॥ २७६१॥
तत्राद्ये पक्षे दोषमाह—“वर्णानामि”त्यादि।
वर्णानां क्रमशून्यानां वाचकत्वं न विद्यते।
नातस्ते तादृशा वाक्यं क्रमोऽप्येषां न विद्यते॥ २७६२॥
व्याप्तेर्नित्यतया चैषां देशकालक्रमो न हि।
लिपिवत्फलपुष्पादिभेदवच्चोपपद्यते॥ २७६३॥
स्वाभाविके क्रमे चैषां सर इत्येवसम्भवेत्।
नतु स्याद्रस इत्यादिः स्थितक्रमविरोधतः॥ २७६४॥
स्थिता रेफादयश्चान्ये नैवान्यक्रमयोगिनः।
जायन्ते वायुतो वर्णा नित्यैकत्वेन वर्णिताः॥ २७६५॥
अन्यथा प्रत्यभिज्ञानं नित्यत्वैकत्वसाधनम्।
व्यभिचारि त्वयैवोक्तं भवेद्भेदेऽपि वर्तनात्॥ २७६६॥
द्वितीयेऽपि पक्षे प्राह—“क्रमोऽप्येषां न विद्यत” इति। तथाहि—द्विविध एव भावानां क्रमः, देशकृतो वा पिपीलिकालिप्यक्षरादिवत्, कालकृतो वा यथा बीजाङ्कुरकाण्डपुष्पफलादीनाम्, न तावदाद्यः क्रमो वर्णानां सम्भवति, व्याप्तेः, सर्वगतत्वाद्वर्णानाम्, नह्याकाशवत्सकलदेशावष्टम्भेनावस्थितस्य देशविच्छेदकृतः क्रमो युक्तः, सर्वेषामेकनभोदेशावस्थानात्। नापि कालकृतः, नित्यत्वेन सर्वेषां समकालत्वात्। किञ्च—पुरुषकृतो वा क्रमो भवेत् स्वाभाविको वा। न तावत्पुरुषकृत इष्टः, वेदस्य पौरुषेयत्वप्रसङ्गात्। अथ स्वाभाविकः, तदा सर इत्येव नित्यं भवेत्, न कदाचिद्रस इति। नचापि प्रतिपदं भिन्ना वर्णा इत्यभ्युपेयम्, प्रत्यभिज्ञया वर्णानां नित्यत्वस्य सिद्धत्वात्। तत्प्रतिषेधस्यैव च साधयितुमिष्टत्वात्, अन्यथा प्रत्यभिज्ञानं व्यभिचारि स्यात्॥ २७६२॥ २७६३॥ २७६४॥ २७६५॥ २७६६॥
अथापि स्यादभिव्यक्तिक्रमस्तर्हि वाक्यं भविष्यतीत्याह—“नचे”त्यादि।
नच व्यक्तिक्रमो वाक्यं नित्ये व्यक्तिनिषेधनात्।
वाक्यतायोगतस्तस्मान्नित्यत्वं नोपपद्यते॥ २७६७॥
चशब्दान्नापि वर्णेभ्यो भिन्नं स्फोटाख्यं वाक्यमिति सूचयति। तस्य मीमांसकैरेव निरस्तत्वादिति भावः। “नित्ये व्यक्तिनिषेधनादि”ति। नित्यस्य व्यक्तेर्निषिद्धत्वादित्यर्थः॥ २७६७॥
यदुक्तम्—दृष्टार्थव्यवहारत्वादित्यादि, तत्राह—“यथा वृद्ध्यादय” इत्यादि।
यथा वृद्ध्यादयः शब्दा इच्छाविरचितार्थकाः।
स्वर्गयागादयः शब्दाः सम्भाव्यन्ते तथैव च॥ २७६८॥
नचोत्पाद्यकथारूपनाटकाख्यायिकादिषु।
नित्यः शब्दार्थसम्बन्धो वास्तवोऽस्ति विवक्षितः॥ २७६९॥
इच्छया रचितोऽर्थो येषां ते तथोक्ताः। उत्पाद्या—स्वयमपूर्वैव पुरुषेण या कथा महाश्वेतादिका, सैव रूपं स्वभावो येषां नाटकाख्यायिकादीनां ते तथोक्ताः। नच तेषु नित्यः शब्दार्थसम्बन्धोऽस्ति विवक्षितः शक्तिलक्षणस्तद्वद्वेदेऽपि सम्भाव्यत इति भावः॥ २७६८॥ २७६९॥
“तत्रापीत्या”दिना परमतेन दृष्टान्तासिद्धिमाशङ्कते।
तत्रापि शक्तिनित्यत्वं नियोगस्य त्वनित्यता।
तद्वशादेव नित्यायां शक्तौ भ्रान्तिः प्रवर्त्तते॥ २७७०॥
तुत्राप्युत्पाद्यकथादिषु नित्या शक्तिरेष्टैव, किन्त्वसत्येवार्थे यो नियोगः पुरुषैः क्रियते, सोऽनित्यस्तद्वशादेव नित्यायां शक्तौ प्रतीतिविभ्रमो भवति, तस्मादसिद्धो दृष्टान्त इति॥ २७७०॥
“नन्वि”त्यादिना प्रतिविधत्ते।
ननु बाह्यो न तत्रास्ति व्यक्तिः क्वार्थे प्रकल्प्यते।
विकल्पप्रतिबिम्बे चेत्तद्वद्वेदेऽपि शङ्क्यते॥ २७७१॥
“बाह्य” इति। महाश्वेतादि(रि)त्यर्थः॥ २७७१॥
यदुक्तम्— स्वर्गयागादिसम्बन्धः केन दृष्टो ह्यतीन्द्रियः इत्यादि, तत्राह—“अतीन्द्रियार्थसम्बन्धामि”त्यादि।
अतीन्द्रियार्थसम्बन्धां को वा शक्तिं प्रपद्यते।
नातो वेदे नियोगोऽपि नरायत्तः प्रकल्प्यते॥ २७७२॥
वृद्धेभ्यो नच तद्बोधस्तेऽपि ह्यज्ञाः स्वतः स्थिताः।
सम्भाव्या प्रतिपत्तिस्तु व्याख्यानात्पुरुषाश्रयात्॥ २७७३॥
अनेनैतदाह—स्वयमेव भवता सामर्थ्याद्दर्शितम्, यथा योऽयं वेदार्थप्रत्ययो भवति स पुरुषाश्रयाद्व्याख्यानादेवेति। तथाहि—प्रकृत्यैव तावत्पूर्वा( दपूर्वे? )शक्तिरतीन्द्रियार्थाश्रिता, ततश्चातीन्द्रियायां शक्तौ न पुरुषकृतो नियोगः शब्दस्य सम्भवति, नापि वृद्धेभ्यस्तस्याः प्रतीतिः सम्भवति, तेषां सर्वेषामेवानभिज्ञत्वात्,अन्धानामिव वचनाद्रूपविशेषप्रतीतिः। तस्मात्सामर्थ्यादियमर्थप्रतीतिः पुरुषव्याख्यानादेवावतिष्ठते गत्यन्तराभावादिति॥ २७७२॥ २७७३॥
“नन्वि”त्यादिना परश्चोदयति।
ननु पर्यनुयोगोऽयं कृतकेप्यागमे समः।
न तत्र श्रद्ध्या वृत्तेरर्थसंशयतोऽपि वा॥ २७७४॥
नन्वयं सामान्यः पौरुषेयेष्वप्यागमेषु प्रसङ्गः। तथाहि—किमिदानीन्तनाः परोक्षदेशिकानां बुद्धादिवचनानामर्थं यथाभिप्रायं प्रतियन्ति, आहोस्विद्विपर्ययमिति।“न तत्रे”त्यादिना प्रतिविधत्ते। “तत्रे”ति। पुरुषो यदिष्टे(पौरुषेये, अदृष्टे,—)हेयादितत्वे सोपाये पुरुषार्थोपयोगिनि। तथाहि—तत्र न्यायमेवानुपालयन्तः सौगताः सुधियः प्रवर्त्तन्ते न प्रवादमात्रेण। “श्रद्धये”ति। अभिसम्प्रत्ययेन युक्तिनिध्यानजेन निश्चयेनेति यावत्। प्रमाणसिद्धएवार्थेऽभिसम्प्रत्ययस्य युज्यमानत्वात्। नान्यत्र। तत्र संशयानतिवृत्तेः। “अर्थसंशयतोऽपि वे”ति। अत्यन्तपरोक्षेऽर्थे स्वर्गदेवतापूर्वादौ। तथाहि—तत्र पौरुषेये वाक्ये पुरुषस्य स्वाभिप्रायकथनेनाविपरीतसम्प्रदायसम्भवाच्छ्रोतृपरम्परया चाविच्छिन्नः सम्प्रदायः सम्यक् सम्भाव्यते। नत्वेवमपौरुषेये, तत्रोपदेष्टुरभावात्। किञ्चोपदेष्टा क्रिय(कृप ?)या लोकप्रत्ययेनय(प्रत्यायनाय ?)कुर्वा(ब्रुवा ?)णो लोकसङ्केतमेवानुसृत्य कृ(ब्रू)त इति ततो लोकप्रसिद्धेरपि तदर्थसिद्धिः सम्भवेत्। नत्वपौरुषेयाणां तत्र कस्यचित्समीहाभावात्॥ २७७४॥
यद्येवं येन केनचिदागमेन किं न भवान्प्रवर्त्तते। सन्देहस्य सर्वत्र तुल्यत्वादित्येतच्चोद्यनिराकरणायेदमाह—“प्रत्यक्षेणे”त्यादि।
प्रत्यक्षेणानुमानेन विशुद्धे विषये सति।
नह्येवं वैदिके शब्दे स स्वयम्प्रत्ययो यतः॥ २७७५॥
यत्र प्रत्यक्षानुमानाभ्यामभिमतस्यार्थस्य तथाभावो न विरुध्यते, तेन प्रवर्त्तमानः शोभेत सत्यपि संशये, नतु यत्रान्यथाभावस्तत्र, दृष्टप्रमाणोपरोधितानर्थसंशयस्योद्भूतत्वात्। यद्येवं वेदेऽप्यनेनैव न्यायेन प्रवृत्तिर्भविष्यतीत्याह—“नह्येव”मित्यादि।“स्वयम्प्रत्यय” इति। स्वत एव प्रमाणभूत इत्यर्थः। अतो न प्रमाणेन परीक्ष्य ततः प्रवृत्तिर्युक्ता, परतः प्रामाण्यप्रसङ्गात्। नचापि तस्य विषयविशुद्धिः सम्भवति। तथाहि—अप्रच्युतानुत्पन्नपूर्वापररूपः पुमा(न)नुक्रमेण कर्त्रा कर्मफलानां च भोक्तावेदे पठ्यते। सचायुक्त इत्यावेदितमात्मपरीक्षायाम्। तथा नित्यत्वं केषाञ्चिद्भावानां पठ्यते। तदपि स्थिरभावपरीक्षायामयुक्तमुपपादितम्। तथा सामान्यादिन्यप्रत्यक्षाण्यपि प्रत्यक्षत्वेनेष्टानि, तथा क्रमेण जन्मस्थितिनिवृत्तयोऽसम्भविन्योऽपि भावानान्निर्दिष्टाः। तथाऽनाधेयविशेषस्य प्रागकर्त्तुः परापेक्षया जनकत्वं, तथा निष्पन्नस्य पराश्रयेण स्थितिरकार्यस्याप्युपदिष्टा। तथा कारणाद्विनाश इत्यादिकं बहुविधं प्रमाणविरुद्धमुपलभ्यते। तत्कथं प्रेक्षावतस्तथाभूतेनागमेन प्रवृत्तिः स्यात्॥ २७७५॥
यदप्यपरं कुमारिलेन सम्बन्धनित्यत्वसाधनाय साधनमुक्तम्। तस्योत्पाद्यकथारूपनाटकादिनाऽनैकान्तिकत्वमिति दर्शयति—“उत्पाद्ये”त्यादि।
उत्पाद्यार्थकथाधर्ममनालोच्य समं श्रुतौ।
एवं चेदमसम्बद्धं परैरत्रोपवर्णितम्॥ २७७६॥
उत्पाद्योऽर्थो यस्याः कथायाः सा तथोक्ता, उत्पाद्यार्था चासौ कथा चेति विग्रहः। तस्या धर्म इच्छाविरचितार्थत्वम्॥ २७७६॥
किं तदुपवर्णितमित्याह—“शब्दार्थानादितामि”त्यादि।
शब्दार्थानादितां मुक्त्वा सम्बन्धानादिकारणम्।
न स्यादन्यदतो वेदे सम्बन्धादि न विद्यते॥ २७७७॥
उपायरहितत्वेन सम्बन्धाकरणानुमा।
अनाख्यानानुमानं तु दृष्टेनैव विरुध्यताम्॥ २७७८॥
शब्दो वर्णस्वभावः, तस्यार्थः सामान्यं, तयोरनादित्वात्सम्बन्धोऽपि शक्तिलक्षणोऽनादिरेव, शक्तेर्भावाव्यतिरेकादिति भावः। तथा सम्बन्धकरणस्योपायाभावेन सम्बन्धाकरणमनुमीयते। प्रयोगः—यो यत्करणोपायरहितः स न तं करोति,यथाऽविद्यमानमृत्पिण्डदण्डचक्रसलिलसूत्रादिकारणकलापः कुलालो घटम्, सम्बन्धकरणोपायरहिताश्च सर्वपुरुषा इति व्यापकविरुद्धोपलब्धिः। नचासिद्धो हेतुः,“श्रोतुःकर्त्तुं च सम्बन्धं वक्ता कं प्रतिपद्यता” मित्यादिना सर्वपुरुषाणामुपायरहितत्वस्यप्रतिपादितत्वात्। यद्येवं कारणवत्सम्बन्धाख्यानाभावानुमानप्रसङ्ग इत्याशङ्क्याह—“अनाख्यानानुमानं त्वि”त्यादि। अनाख्यानानुमाने हेतोरुपायरहितत्वादित्यस्यासिद्धिः॥ २७७७॥ २७७८॥
“वृद्धाना”मित्यादिना तामेवासिद्धिं दर्शयति।
वृद्धानां दृश्यमाना च प्रतिपत्तिः पुनः पुनः।
उपाय इति तद्धानिरसिद्धाऽवगमं प्रति॥ २७७९॥
येयं वृद्धानां सम्बन्धप्रतीतिः पुनःपुनर्दृश्यते, स एव सम्बन्धकथनोपायः, नह्यप्रतिपद्य परस्मै कथयितुमीश(ते।) “तद्धानिरि”ति। उपायहानिः। “अवगमं प्रती”ति। सम्बन्धावबोधं प्रति॥ २७७९॥
“इत्ये”तद्धीत्यादिना दूषणमाह।
इत्येतद्धि भवेत्सर्वं यदि वेदार्थनिश्चयः।
वृद्धेभ्योऽप्यविसंवादी सिद्धः स्यादन्यथा क्षतिः॥ २७८०॥
(यदुक्तम्—) “शब्दार्थानादिता”मित्यादि, तत्र यदि नित्यत्वं शब्दार्थयोरनादित्वमभिप्रेतं तदसिद्धम्, व्यापिनः क्षणभङ्गस्य प्रतिपादितत्वात्। अथ कार्यकारणपरम्परायास्तदाऽनैकान्तिकत्वं विरुद्धत्वं च, सम्बन्धिभ्यः सम्बन्धस्याव्यतिरेकात्तद्वदनित्यत्वप्रसङ्गात्। यच्चोक्त“मुपायरहितत्वेने”ति, तदप्यसिद्धम्, यतो भेदेऽपि प्रकृत्या चक्षुरादिवदेकाकारप्रत्यवमर्शजनने समर्थाः केचिदर्था इति प्रतिपादितम्। ततश्च वक्तृश्रोत्रोरेकार्थाध्यवसायी प्रत्ययः स स्वकरणेऽभ्युपाय इत्यभिप्रायः। यदप्युच्यते “वृद्धानां दृश्यमाना च प्रतिपत्ति”रिति, तत्राप्युक्तम्— वृद्धेभ्यो न च तद्बोधस्तेऽपि ह्यज्ञाः स्वतःस्थिताः इति। “अन्यथा क्षति”रिति। यदि वृद्धाः स्वयमज्ञा अपि सन्तः सम्बन्धं प्रतिपद्यन्त इतीष्यते, तदा दृष्टविरोधोऽन्धस्येव रूपदर्शनप्रतिज्ञाया इत्यर्थः॥ २७८०॥
यदुक्तम्— सङघातत्वस्य वक्तव्यमीदृशं प्रति साधनम् इत्यत्राह—“सिद्धे”त्यादि।
सिद्धसर्वोपसंहारव्याप्तिकत्वान्न सम्भवि।
सङ्घातत्वादिलिङ्गस्य किञ्चन प्रतिसाधनम्॥ २७८१॥
सिद्धा सर्वोपसंहारव्याप्तिर्यस्य तत्तथोक्तम्, तद्भावस्तत्त्वम्, अनेन वस्तुबलप्रवृत्तत्वमस्य प्रतिपादयति—अन्यस्य सर्वोपसंहारेण व्याप्त्यसिद्धेः। न च वस्तुबलप्रवृत्तेऽनुमाने प्रतिसाधनसम्भवः, वस्तूनां स्वभावान्यथात्वस्य कर्तुमशक्यत्वात्। नापि परस्परविरुद्धस्वभावद्वयस्यैकत्र सम्भवः, एकत्वहानिप्रसङ्गात्॥ २७८१॥
तामेव सर्वोपसंहारेण व्याप्तिसिद्धिं दर्शयन्नाह—“सार्थका” इत्यादि।
सार्थकाः प्रविभक्तार्था विशिष्टक्रमयोगिनः।
पदवाक्यसमूहाख्या वर्णा एव तथोदिताः॥ २७८२॥
सार्थकप्रविभक्तार्थविशिष्टक्रमयोगिता।
निषिद्धा पौरुषेयत्वे व्याप्तिरव्याहता ततः॥ २७८३॥
“तथे”ति। संहतत्वेनोदिताः। अपौरुषेयत्वे तु वर्णानां सर्वमेतदनुपपन्नमिति पूर्वं प्रतिपादितमतो व्याप्तिसिद्धिः॥ २७८२॥ २७८३॥
ननु च “वेदाध्ययनवाच्यत्वादि”त्यस्यापि हेतोर्व्याप्तिः सर्वोपसंहारेण सिद्धैव, तथाहि वेदानां कर्त्ता न कदाचिदप्युपलभ्यत इत्याशङ्क्याह—“वेदाध्ययने”त्यादि।
वेदाध्ययनवाच्यत्वे नत्वेवं व्याप्तिनिश्चयः।
सन्दिग्धव्यतिरेकित्वं व्यक्तं तेनात्र साधने॥ २७८४॥
“नत्वेव”मिति। यथा सङ्घातत्वस्य। यतो न सङ्घातत्वस्य साध्यविपर्यये व्यतिरेकित्वं सन्दिग्धम्, अस्य तु सन्दिग्धम्॥ २७८४॥
एतदेव प्रतिपादयति—“तथाविध” इत्यादि।
तथाविधे क्रमे कार्ये नराशक्तौ च निश्चये।
सिद्धे व्याप्तिरिहेयं च निश्चेतुं नैव शक्यते॥ २७८५॥
समस्तनरधर्माणां प्रत्यक्षीकरणे सति।
स्यादेव निश्चयोऽयं च सर्वज्ञस्योपपद्यते॥ २७८६॥
“तथाविध” इति। स्वर्गकामोऽग्निष्टोमेन यजेतेत्यादिके। एवम्भूतं वर्णक्रमं यदि कर्तुं सर्वनराणामशक्तिर्निश्चिता भवेत्तदा व्याप्तिनिश्चयो भवेत्, यावता सैव निश्चेतुमसर्वविदा न शक्यत इति दर्शयति—“समस्तनरधर्माणामि”त्यादि। “अयं चे”ति। निश्चयः॥ २७८५॥ २७८६॥
ननु च धर्माद्युपदेशदुर्भणत्वादीनां वेदधर्माणां पौरुषेयेषु वाक्येष्वदर्शनाद्वेदस्यपौरुषेयत्वमसम्भाव्यमेव, तत्कथं सन्दिग्धासिद्धता स्यादित्याशङ्क्याह—“सम्भाव्यत” इत्यादि।
सम्भाव्यते च वेदस्य विस्पष्टं पौरुषेयता।
काममिथ्याक्रियाप्राणिहिंसाऽसत्याभिधा तथा॥ २७८७॥
दुर्भणत्वानुदात्तत्वक्लिष्टत्वाश्रव्यतादयः।
वेदधर्मा हि दृश्यन्ते नास्तिकादिवचस्स्वपि॥ २७८८॥
विषापगमभूत्यादि यच्च किञ्चित्समीक्ष्यते।
सत्यं तद्वैनतेयादिमन्त्रवादेऽपि दृश्यते॥ २७८९॥
एवं मन्यते—यदि नामादर्शनम्, तथाप्यदर्शनमात्रस्याप्रमाणत्वात्सन्दिग्धासिद्धतैव, कदाचित्क्वचित्पुरुषास्तथाविधानां वेदधर्माणां कर्त्तारो भवेयुरिति। नचादर्शनमात्रं सिद्धम्। काममिथ्याचाराद्युपदेशादेर्वेदधर्मस्य नास्तिकादिवचनेष्वपि दर्शनात्। काममिथ्याक्रिया—काममिथ्याचारः। मात्राद्यभिगमनमिति यावत्। तस्योपदेशो गोसवादौ। यथोक्तम्—उपहा उदकं चूषति तृणानि छिनत्ति उपैति मातरमुतस्वगोत्रामित्यादि। उपहेति यजमानः। अश्वमेधादौ प्राणिवधोपदेशः। यथोक्तम्—बहूनानि नियुज्यन्ते पशूनां मध्यमेऽहनि। अश्वमेधस्य वचनादूनानि पशुभिस्तुभिः(?)॥ इति। असत्यं मृषावादस्तदप्युपदिष्टम्। यथोक्तम्— न नर्मयुक्तं ह्यनृतं हिनस्ति न स्त्रीषु राजन् न विवाहकाले। प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि॥ इति। एषां काममिथ्याचारादीनां, अभिधा—अभिधानम्। वेदधर्मा नास्तिकादिवचस्स्वपि दृश्यन्त इति सम्बन्धः। तथेति समुच्चये। दुर्भणत्वं—दुरभिधानम्, अनुदात्तत्वं मनोज्ञत्वं, क्लिष्टं—व्यवहितम्। “आमन्द्रैरिन्द्र हरिभिर्यहि मयूररोमभि”रित्यादिवत्। अत्र हि—आ मन्द्रैरित्ययं (आङ्) याहीत्यनेन व्यवहितेन सम्बध्यते। आयाहीत्यर्थः। अश्रव्यता—श्रुतिदुर्भगता। आदिशब्देन पदविच्छेदप्लुतोदात्तादिपरिग्रहः। “विषापगमभूत्या”दीति। विषापगमे भूतिः—सामर्थ्यं, प्रभाव इति यावत्। अथवा—विषापगमश्च भूतिश्चेति समासः। भूतिर्विभूतिरैश्वर्यमिति यावत्। आदिशब्देन भूतग्रहाद्यावेशवशीकरणाभिचारादयो गृह्यन्ते। “सत्यमि”ति। अविसंवादि। वैनतेयादीत्यादिशब्देन बौद्धादिमन्त्रवादपरिग्रहः॥ २७८७॥ ॥ २७८८॥ २७८९॥
“भारतेऽपि भवेदेव”मित्यादावाह—“किञ्चामुने”त्यादि।
किञ्चाऽमुना प्रकारेण पौरुषेयं न किञ्चन।
शक्यं सौगतमप्येवमनुमातुं वचो यतः॥ २७९०॥
“एवमनुमातु”मिति। सौगतप्रवचनाध्ययनं प्रथमाभिहि(म ?)तं सजातीयाध्ययनपूर्वकं, सौगताध्ययनवाच्यत्वात्, अधुनाध्ययनं यथेति॥ २७९०॥
यद्येवं कथं तर्हि तत्सौगतं सेत्स्यतीत्याह—“तदभिव्यक्ते”त्यादि।
तदभिव्यक्तरूपत्वात्तदीयं च तदुच्यते।
कर्तृस्मृतिश्च तत्रापि भवत्वर्थनिबन्धना॥ २७९१॥
परैरेवं न चेष्टं चेत्तुल्ये न्याये न किं मतम्।
माभूद्वैवं परस्येष्टिर्न्यायात्त्वाशङ्क्यते तथा॥ २७९२॥
तेन सुगतेनाभिव्यक्तं रूपं स्वभावो यस्य तत्तथा। तद्भावस्तत्त्वम्। तत्रापि सौगतेया कर्तृस्मृतिस्त्वर्थवादनिबन्धना शक्यते व्याख्यातुम्। तथाह्यत्रापि करोतिः स्मरणार्थः किं न व्याख्यायते। स्यादेतत्—नहि बौद्धैरेवमिष्टम्, येनैवं साध्येतेत्याह—“तुल्ये न्याये न किं मत”मिति। यद्ययमर्थो युक्त्युपेतः स्यात्तदा किमिति बौद्धोनाभ्युपगच्छेत्, नहि न्यायोपपन्नेऽर्थे प्रेक्षावतोऽनभ्युपगमो युक्तः। माभूद्बौद्धस्य प्रेक्षावतोऽभ्युपगमस्तथाऽपि न्यायादेवमापाद्यते भवत इति ब्रूमहे॥ २७९१॥ २७९२॥
एतदेव तद्वचनेन दृढीकुर्वन्नाह—“सर्वदा चे”त्यादि।
सर्वदा चैव पुरुषाः प्रायेणानृतवादिनः।
यथाऽद्यत्वे न विस्रम्भस्तथाऽतीतार्थकीर्त्तने॥ २७९३॥
इत्येतेन त्वदुक्तेन न्यायेन च न सिद्ध्यति।
कर्त्ता कश्चित्क्वचिद्ग्रन्थे स्वां कृतिं कथयन्नपि॥ २७९४॥
ततश्चापौरुषेयेषु सत्याशा त्यज्यतामियम्।
वेदार्थविपरीता हि तेष्वर्थाः प्रतिपादिताः॥ २७९५॥
“इत्येतेने”ति। सर्वदा चेत्यादिनाऽनन्तरोक्तेन। स्यादेतद्भवतु सर्वेषामपौरुषेयते त्याह—“ततश्चे”त्यादि। ततश्चापौरुषेयत्वं सत्यार्थं न सिद्ध्येत्। सौगतादिवचनेनानैकान्तिकत्वादिति भावः। तथाहि—वेदार्थविपरीता नैरात्म्यादयो भवन्मतेनाप्रमाणोपपन्नास्तेषु सौगतादिषु वचनेषु निर्दिष्टाः, तथा वैदिका अपि सम्भाव्येरन्॥ २७९३॥ २७९४॥ २७९५॥
एवं तावदनैकान्तिकत्वं प्रतिपादितम्, इदानीमिष्टविघातकादित्वाद्विरुद्धत्वमस्यप्रतिपादयन्नाह—“अपिचे”त्यादि।
अपिचानादिता सिद्ध्येदेवं नानरसंश्रयः।
तस्मादकृतकत्वे वा स्यादन्योऽप्यागमोऽकृतः॥ २७९६॥
तथाह्यपौरुषेयत्वमस्य साधयितुमिष्टम्, तच्च न सिद्धम्, किं तर्हि ? अनादित्वमात्रमनिष्टमेव सिद्ध्यति। स्यादेतत्—अनादित्वे सिद्धे सामर्थ्यादकृतकत्वंसिद्ध्यत्वेव, नहि कृतकस्यानादित्वं युज्यते तदित्यत्राह—“तस्मादि”त्यादि। तस्मादनादित्वाद्यद्यत्कृतकत्वं स्यात्तदा पारसीकादिव्यवहारस्यापि स्यात्॥ २७९६॥
एतदेव दर्शयति—“तथाही”त्यादि।
तथाहि पारसीकादिव्यवहाराः पराश्रयाः।
नास्तिकानां च सिद्धान्तः परसंस्कारभाविकः॥ २७९७॥
“पराश्रया” इति। परपुरुषसंस्कारेण प्रवृत्ता इत्यर्थः। परसंस्कारभाविक इति। परसंस्कारेण भावः स यस्यास्ति स तथोक्तः। परसंस्कारेण वा भवितुं शीलमस्येति परसंस्कारभावी, ततः स्वार्थे को विधेयः। तथाहि—येऽपि तावत्स्वप्रतिभारचितसङ्केताः सिद्धान्ताः, तेषामपि यथाश्रुतार्थविकल्पवशेनैव प्रवृत्तेः परसंस्कारबलेनैव प्रवृत्तिः प्रागे(स्यादे?)व प्रायेण, यथा दर्शनवृत्तीनां लोकव्यवहाराणाम्॥ २७९७॥
भवतु सर्वेषामपौरूषेयत्वमिति चेदित्याह—“ईदृशी”त्यादि।
ईदृश्यकृतकत्वे च कः सिद्धेऽपि गुणस्तव।
अवैतथ्यनिमित्तं हि यत्नोऽयं भवतोऽखिलः॥ २७९८॥
ईदृशि—सम्भवद्वितथार्थे॥ २७९८॥
अतीतानागतौ कालावित्यादावाह—“कालत्वे”त्यादि।
कालत्वपुरुषत्वादौ सन्दिग्धव्यतिरेकिता।
पूर्ववत्करणाशक्तेर्नराणामप्रसाधनात्॥ २७९९॥
व्यक्तेश्च प्रतिषिद्धत्वाद्वक्ता कर्त्तैव गम्यताम्।
तत्प्रयोगद्वयेऽप्युक्तं साध्यशून्यं निदर्शनम्॥ २८००॥
सर्वेषां हि नराणां करणाशक्तिप्रसाधनं विपर्यते हेतोर्बाधकं प्रमाणम्, तस्य चानुपदर्शनात्सर्वहेतूनां साध्यविपर्यते व्यतिरेकः सन्दिग्ध इत्यनैकान्तिकता। “पूर्वव”दिति। वेदाध्ययनवाच्यत्वासाधनवत्। “साध्यशून्यं निदर्शन”मिति। वर्त्तमानकालवत्प्राकृतनरवदित्येतत्॥ २७९९॥ २८००॥
“ततश्च गम्यता”मित्यादावाह—“नरे”त्यादि।
नरोपदेशापेक्षत्वात्कृतकस्य च साधनात्।
स्वार्थे वक्रनपेक्षत्वं धर्मिदृष्टान्तयोर्न च॥ २८०१॥
“धर्मिदृष्टान्तयो”रिति। साध्यधर्मिणि दृष्टन्तधर्मिणि चेत्यर्थः॥ २८०१॥
“तत्कृतः प्रत्यय” इत्यादावाह—“नित्यत्वेऽस्त” इत्यादि।
नित्यत्वेऽस्ते च वाक्यस्य धर्मिदृष्टान्तयोरपि।
नित्यवाक्योद्भवत्वस्य स्पष्टाऽसिद्धः प्रतीयते॥ २८०२॥
इत्थं चापौरुषेयत्वे चोदनाया अनिश्चिते।
सन्दिग्धासिद्धता दोषः पश्चिमेष्वपि हेतुषु॥ २८०३॥
अत्रापि हेतोरसिद्धता दृष्टान्तस्य च साध्यविकलता पूर्ववत्। “धर्मिदृष्टान्तयो”रिति सप्तमी नित्यवाक्योद्भवत्वस्येत्येतदपेक्षा। वाक्यस्येति नित्यत्व इत्येतदपेक्षा सम्बन्धष्ठी। नित्यवाक्योद्भवत्वस्येत्यसिद्ध्यपेक्षा षष्ठी। “पश्चिमेष्वि”ति। दोषवर्जितैः कारणैर्जन्यमानत्वादित्यादिषु च॥ २८०२॥ २८०३॥
अनाप्ताप्रणीतोक्तिजन्यत्वाद्बाधवर्जनादित्यनयोस्तु हेत्वोर्निश्चितैवासिद्धतेति दर्शयन्नाह—“बाध्यते चे”त्यादि।
बाध्यते च श्रुतिः स्पष्टं क्षणभङ्गे प्रसाधिते।
नित्या तावत्स्वरूपेण तत्कृतातो मतिः कृतः॥ २८०४॥
नहि शीर्यत इत्युक्तः पुरुषश्च श्रुतावलम्।
पुरस्तस्योदिता बाधा सुव्यक्ता तदसिद्धता॥ २८०५॥
करामलकवद्यस्य देशकालनरान्तरम्।
प्रत्यक्षं तत्र तेनायं बाधाभावोऽवसीयते॥ २८०६॥
नित्या तावत्स्वरूपेणेति बाध्यत इति सम्बन्धः। एतदुक्तं भवति। स्पष्टं हि हेतुबलप्रवृत्तानुमानतः सर्वपदार्थव्यापिनि क्षणभङ्गे प्रसाधिते सति येऽयं नित्यत्वेनाभ्युपगता श्रुतिः सा तावद्बाध्यत इति स्वरूपग्रहणमभिधेयव्युदासार्थम्। “तत्कृताऽतो मतिः कुत” इति। नैवेत्यर्थः। एतेनानाप्ताप्रणीतोक्तिजन्यत्वादित्येतस्याश्रयासिद्धतोक्ता। बाधवर्जनादित्येतस्य च स्वरूपतोऽसिद्धता निश्चितां दर्शयन्नाह—“नहि शीर्यत” इत्यादि। “अशीर्योऽयं नहि शीर्यते” “अविनाशी(वा)अरे अयमात्मे”तिवेदे पठ्यते। तस्य—पुरुषस्य—आत्मनः पुरः—पूर्वं नैरात्म्यसिद्धौ, बाधोक्ता। अतो निश्चितमसिद्धत्वमस्य। ननु च—“चोदनेति क्रियायाः प्रवर्त्तकं वचनमाहु”रिति वचनाद्वैदिकैकदेशविशेष एव चोदनोच्यते, न तु सर्वो वेदः, चोदनाजनिता(तु)बुद्धिः पक्षीकृता। तस्मादन्यार्थस्य वेदस्य बाधायामपि न चोदनाया बाधेति हेतोः सिद्धिरेव। नैष दोषः—चोदनाग्रहणेन क्वचित्सर्वमेव वैदिकं वाक्यमुच्यते, नतु सर्वदा प्रवर्त्तकमेव। अन्यथा न हिंस्याद्भूतानीत्येतद्वाक्यं चोदना न स्यात्, अप्रवर्त्तकत्वात्। यच्चोक्तं भाष्ये—“उभयमिह चोदनया लक्ष्यतेऽर्थोऽनर्थश्च”इति, तदपि विरुद्ध्येत, नहि चोदनाऽनर्थे प्रवर्त्तयति, येन तयाऽनर्थो लक्ष्यत इति स्यात्। किञ्च—यदेतदपरमुक्तं भाष्ये विप्लवते खल्वपि कश्चित्पुरुषकृताद्वचनात्प्रत्ययो नतु वेदवचनस्य मिथ्यावसाये किञ्चन प्रमाणमस्तीति। अस्य (नित्यस्य ?) तावद्बाधनाच्चोदनायामपि बाधा साम्भव्यमाना दुर्वारैव। तथाहि कुमारिलेनोक्तम्— अकर्तृकत्वसिद्ध्या च हेतुत्वं साधयिष्यते इति। यथाचाकर्तृकस्यापि नित्यपुरुषादिविषयस्य वेदवचसो बाधा परिस्फुटासमीक्ष्यते। तथाग्निहोत्रात्स्वर्गो भवतीत्यादावपि वा(सा ?)शङ्का दुर्वारैवेति स्फुटा तावत्सन्दिग्धासिद्धता पूर्वोक्तैव। अतएव पुनर्निर्वर्त्त्य सन्दिग्धासिद्धतामेव द्रढयन्नाह—“करामलक”वदित्यादि। “तत्रे”ति। देशकालनरान्तरे। तत्र यदुक्तम्— नचैष देशान्तरे कालान्तरे पुरुषान्तरे वा वपर्येति तस्मादवितथ इति, तदनेन दूषितं भवति ॥ २८०४॥ २८०५॥ २८०६॥
यदुक्तम्—तस्मादालोकवदित्यत्राह—“नराविज्ञातरूपार्थ” इत्यादि।
नराविज्ञातरूपार्थे तमोभूते ततः स्थिते।
वेदेऽनुरागो मन्दानां स्वाचारे पारसीकवत्॥ २८०७॥
अविज्ञाततदर्थाश्च पापनिष्यन्दयोगतः।
तथैवामी प्रवर्त्तन्ते प्राणिहिंसादिकल्मषे॥ २८०८॥
रूपम्—स्वरूपम्, अर्थः—अभिधेयः, नराविज्ञातौ रूपार्थावस्येति विग्रहः। तत्र रूपमविज्ञातम्, किमयमेव वर्णोऽथान्यो विशेष एव वर्णक्रम उत नेति स्वतः परतश्च निश्चयायोगात्। एवमर्थेऽप्यनिश्चयो द्रष्टव्यः। ततश्च तमोभूते—निश्चयाभावेनानालोकभूतत्वात्। (पापं) पूर्वपापाभ्यासवासना, तन्निष्यन्दः। तथैवेति। पारसीकवत्॥ २८०७॥ २८०८॥
यदुक्तमादौ—अवश्यं धर्माधर्मार्थिभिः पुरुषैः प्रेक्षावद्भिश्चोदनैव प्रमाणत्वेनाश्रयणीयेति, तत्राह—“धर्मं प्रती”त्यादि।
धर्मं प्रति न सिद्धाऽतश्चोदनानां प्रमाणता।
स्वतोऽन्येभ्यश्च मन्देभ्यस्तदर्थानवधारणात्॥ २८०९॥
धर्मग्रहणमुपलक्षणम्, अधर्मोऽपि ग्रहीतव्यः॥ २८०९॥
यद्येवं कस्तर्हि धर्मादिव्यवस्थाश्रय इत्याह—“ज्ञाने”त्यादि।
ज्ञानालोकव्यपास्तान्तस्तमोराशिः पुमानतः।
श्रुत्यर्थानां विविक्तानामुपदेशकृदिष्यताम्॥ २८१०॥
इति श्रुतिपरीक्षा
अन्तस्तमः—क्लिष्टाक्लिष्टमज्ञानम्, ज्ञानालोकेन व्यपास्तो ध्वस्तोऽन्तस्तमोराशिर्येन स तथोक्तः। “विविक्ता”नामिति। अनवद्यानाम्—सुधीनाम्, (शुद्धानाम् ?)पशुवधकाममिथ्याचारादिकलङ्कानङ्कितानामित्यर्थः। “उपदेशकृदिष्य”तामिति। एवं हि तदपौरुषेयत्वं प्रकल्पितं सार्थकं भवतीति भावः। अन्यथा हि तस्मिन्नविज्ञातार्थे तदपार्थकमेव स्यात्। अनेनैतदुक्तं भवति-योऽयं स्वतःप्रामाण्याभ्युपगमो भवतां, स न विना सर्वज्ञेन युक्त इत्यतोऽवश्यं सोऽभ्युपगन्तव्यः, अन्यथा तत्र प्रामाण्यासिद्धिरिति प्रतिपादितत्वात्। ततश्च तदुक्तमेव परं वचनं धर्मादिसमाश्रयोऽस्तु, किमपरमप्रमाणोपपन्नापौरुषेयत्वकल्पनया। यच्चोक्तम्—योगिप्रत्यक्षसमाधिगम्योऽपिधर्मादिर्न भवतीति, तदपि शे(दो ?)षवत्, अनुमा(ने)न योगिनः पश्चात्साधयिष्यमाणत्वादिति भावः॥ २८१०॥
इति श्रुतिपरीक्षा
-
इत आरभ्य २७०६ श्लोकव्याख्यानं यावत्, आदर्शपुस्तके तत्र तत्र बहूनि वाक्यान्यलाभान्नोल्लिखितानि। वाक्यपूरणावकाशमात्रं प्रदत्तमस्ति। आदर्शान्तरं च नोपलभामहे। येन पूरयेम। नाप्यवसरोऽत्र पौर्वापर्यपर्यालोचनया वाक्यपूरणाय। यत् पदे पदे वाक्यविभ्रंशः। तत्प्रज्ञाबलमात्रेण पूरणं दुर्घटमिति क्वचित्क्वचिद्यथाऽऽदर्शं प्रकाश्यते। ↩︎