प्रतिविवादिसन्निभमित्येतत्। प्रतीत्यसमुत्पादविशेषणसमर्थनार्थमिदानीं विज्ञानवादीदमुपक्षिपति। तत्र विज्ञप्तिमात्रमेवेदं त्रैधातुकं, तच्च विज्ञानं प्रतिसत्त्वसन्तानभेदादनन्तमविशुद्धं चानधिगततत्त्वानां विशुद्धं च प्रहीणाचरणानां प्रतिक्षणविसरारु च सर्वप्राणभृतामोजायते, नत्वेकमेवाविकारि यथोपनिषद्वादिनामिति विज्ञानवादिनां बौद्धानां मतम्। तत्राभ्यां प्रकाराभ्यां विज्ञप्तिमात्रताभीष्टा, बाह्यस्य पृथिव्यादिस्वभावस्य ग्राह्यस्याभावे ग्राहकत्वस्याप्यभावात्। सत्यपि वा सन्तानान्तरे ग्राह्यग्राहकलक्षणवैधुर्यात्। तत्र प्रयोगः—यद्यज्ज्ञानं तत्तत् ग्राह्यग्राहकत्वद्वयरहितं ज्ञानत्वात्, प्रतिबिम्बज्ञानवत्, ज्ञानं चेदं स्वस्थनेत्रादिज्ञानं विवादास्पदीभूतमिति स्वभावहेतुः। नचाव्याप्तिरस्य हेतोर्मन्तव्या। तथाहि—न तावत्पृथिव्यादिबाह्योऽर्थोऽस्य ग्राह्यो विद्यते, तस्यैकानेकस्वभावशून्यत्वात्। प्रयोगः—यदेकानेकस्वभावं न भवति न तत्सत्त्वेन ग्राह्यं प्रेक्षावता, यथा व्योमोत्पलम्, एकानेकस्वभावरहिताश्च पराभिमताः पृथिव्यादय इति व्यापकानुपलब्धिः। तृतीयराश्यन्तराभावेनैकत्वानेकत्वाभ्यां सत्त्वस्य व्याप्तत्वाद्व्याप्यव्यापकभावानुपपत्तिर्विपर्यये बाधकं प्रमाणमिति नानैकान्तिकताऽनन्तरस्य हेतोः। नापि विरुद्धता, सपक्षे भावात्। अत्रास्य हेतोरसिद्धतामुद्भावयन्, यथोक्तम् “भूतान्येव न सन्तीति न्यायोऽयं पर इष्यता”मिति —अस्याश्च प्रतिज्ञायाः प्रत्यक्षादिविरोधमादर्शयन्, प्रथमस्य हेतोरव्याप्तिमेव प्रतिपादयितुं पर आह—“यदि ज्ञानातिरेकेणे”त्यादि।
यदि ज्ञानातिरेकेण नास्ति भूतचतुष्टयम्।
तत्किमेतन्नु विच्छिन्नं विस्पष्टमवभासते॥ १९६५॥
तस्यैवं प्रतिभासेऽपि नास्तितोपगमे सति।
चित्तस्यापि किमस्तित्वे प्रमाणं भवतां भवेत्॥ १९६६॥
विच्छिन्नमित्यनेन ज्ञानाद्व्यतिरिक्तस्य ग्राह्यस्य सिद्धिमादर्शयति, विस्पष्टमित्यनेन तु प्रत्यक्षताम्। एतदेव प्रसङ्गेन द्रढयन्नाह—“तस्यैवमि”त्यादिना॥ १९६५॥ ॥ १९६६॥
“भासमान” इत्यादिना प्रतिविधत्ते।
भासमानः किमात्माऽयं बाह्योऽर्थः प्रतिभासते।
परमाणुस्वभावः किं किं वाऽवयविलक्षणः॥ १९६७॥
न तावत्परमाणूनामाकारः प्रतिवेद्यते।
निरंशानेकमूर्त्ताभ(नां?) प्रत्ययाप्रतिवेदनात्॥ १९६८॥
व्यपेतभागभेदा हि भासेरन्परमाणवः।
नान्यथाऽध्यक्षता तेषामात्माकारासमर्पणात्॥ १९६९॥
तत्र प्रत्यक्षसिद्धोऽर्थो बाह्यो भवन्ननेको वा परमाणुतोऽभिन्नो भवेत्, एको वा तैरारब्धोऽवयवी, स्थूलोऽनारब्धो वेति पक्षाः। तत्र न तावदाद्यः, निरंशानामनेकेषामणूनां मूर्त्तानां ग्राहकस्य प्रत्ययस्याप्रतिवेदनात्। नित्यं स्थूलाकारस्यैव ज्ञानस्यानुभूयमानत्वात्। प्रत्यये तेषामप्रतिवेदनादिति सप्तम्यन्तस्य पाठोऽसमस्तः। प्रयोगः— यः प्रत्यक्षाभिमते प्रत्यये न प्रतिभासते स्वेनाकारेण, न स प्रत्यक्षत्वेन ग्रहीतव्यः, यथा गगननलिनम्, न प्रतिभासते च प्रत्यक्षाभिमते प्रत्यये स्थूलाकारोपग्राहिणि परमाणुरनेको मूर्त्त इति व्यापकानुपलब्धिः। आत्माकारप्रतिभासित्वेन प्रत्यक्षस्य व्याप्तत्वात्। तामेव व्याप्तिं प्रतिपादयन्नाह—“व्यपेते”त्यादि॥ १९६७॥ ११६८॥ ॥ १९६९॥
अथापि स्यात्समुदिता एवोत्पद्यन्ते विनश्यन्ति चेति सिद्धान्तान्नैकैकपरमाणुप्रतिभास इति, यथोक्तं भदन्तशुभगुप्तेन—प्रत्येकपरमाणूनां स्वातन्त्र्येणास्ति सम्भवः। अतोऽपि परमाणूनामेकैकाप्रतिभासनम्॥ इति। तदेतदनुत्तरमिति दर्शयन्नाह—“साहित्येना”पीति।
साहित्येनापि जातास्ते स्वरूपेणैव भासिनः।
त्यजन्त्यनंशरूपत्वं न चेत्ता(नच ता ?) सुदशास्वमी॥ १९७०॥
लब्धापचयपर्यन्तं रूपं तेषां समस्ति चेत्।
कथं नाम न ते मूर्त्ता भवेयुर्वेदनादिवत्॥ १९७१॥
“तासु दशास्वि”ति। सहितावस्थासु। किञ्च—यदि निरंशाः परमाणवो न तर्हि मूर्त्ता इत्यभ्युपगन्तव्यमिति स्ववचनविरोधं प्रतिज्ञायामाह—“लब्धापचये”त्यादि। लब्धोऽपचयपर्यन्तो येन रूपेण स्वभावेन, तत्तथोक्तम्। एतदुक्तं भवति—यद्यपचीयमानावयवविभागेनापचीयमानस्वभावा न भवन्ति, यदि निरंशा इति यावत्, तदा न मूर्त्ता वेदनादिवत्सिद्ध्यन्ति, विशेषाभावात्॥ १९७०॥ १९७१॥
“तुल्ये”त्यादिना भदन्तशुभगुप्तस्य परिहारमाशङ्कते।
तुल्यापरक्षणोत्पादाद्यथा नित्यत्वविभ्रमः।
अविच्छिन्नसजातीयग्रहे चेत्स्थूलविभ्रमः॥ १९७२॥
स ह्याह—यथा सदृशापरापरक्षणोत्पादाद्विप्रलब्धस्य गृहीतेऽपि प्रत्यक्षेण शब्दादौ नित्यत्वविभ्रमस्तथा परमाणूनामविच्छिन्नदेशानां सजातीयानां युगपद्ग्रहणे स्थूल इति मानसो विभ्रमो भवति। ततश्च “निरंशानेकमूर्त्तानां प्रत्ययाप्रतिवेदनादि”त्यसिद्धो हेतुरिति॥ १९७२॥
“स्वव्यापारे”त्यादिना दूषणमाह—“स्वव्यापारबलेनैवे”ति।
स्वव्यापारबलेनैव प्रत्यक्षं जनयेद्यदि।
न परामर्शविज्ञानं कथं तेऽध्यक्षगोचराः॥ १९७३॥
क्षणिका इति भावाश्च निश्चीयन्ते प्रमाणतः।
अणवस्त्विति गम्यन्ते कथं पीतसितादयः॥ १९७४॥
सूक्ष्मप्रचयरूपं हि स्थूलत्वादाद्यचाक्षुषम्।
पर्वतादिवदत्रापि समस्त्वेषाऽनुमेति चेत्॥ १९७५॥
स्थूलत्वं वस्तुधर्मो हि सिद्धं धर्मिद्वयेऽपि न।
न ह्यस्त्यवयवी स्थूलो नाणवश्च तथाविधाः॥ १९७६॥
अथ देशवितानेन स्थितरूपं तथोदितम्।
तथाऽपि भ्रान्तविज्ञानभासिरूपेण संशयः॥ १९७७॥
वैतथ्यात्स तथा नो चेद्व्यतिरेकेऽप्रसाधिते।
तस्मादतिशयः कोऽस्य कार्यसंवादनं यदि॥ १९७८॥
कार्यावभासिविज्ञानसंवादेऽपि ननूच्यते।
सामर्थ्यनियमाद्धेतोः स च सम्भाव्यतेऽन्यथा॥ १९७९॥
लिङ्गागमव्यापारानपेक्षमित्यवधार(णे)न दर्शयति। तथाहि—प्रत्यक्षमविशेषेणोत्पन्नमपि सद्यत्रैवांशे यथा परिगृहीताकारपरामर्शं जनयति स एव प्रत्यक्ष इष्यते व्यवहारयोग्यतया, यत्र तु न जनयति तद्गृहीतमप्यगृहीतप्रख्यम्। ततश्च नासिद्धोहेतुः। यतः प्रत्ययाप्रतिवेदनादित्यत्र प्रत्यक्षाभिमते प्रत्यये परामर्शहेतावप्रतिभासनादित्ययमर्थोऽभिप्रेतः। यच्चोक्तं—स्थूल इति मानस एष विभ्रम इति, तदप्यसम्यक्। तथाहि—प्रमाणेनाणौ सिद्धे सति स्याद्विभ्रमव्यवस्था। यथा क्षणिकत्वस्य प्रमाणेन सिद्धत्वान्नित्यत्वग्रहो भ्रान्तो व्यवस्थाप्यते। नच तथा प्रमाणेन परमाणवः सिद्धास्तेषामेव विचार्यमाणत्वात्। नचेयं स्थूलभ्रान्तिर्मानसी, स्पष्टप्रतिभासनात्। नच विकल्पानुबद्धस्य स्पष्टाकारो युक्तः, सामान्याकारस्यास्पष्टत्वात्। नच सामान्याकारमन्तरेण विकल्पो युक्तः। स्यादेतत्। अनित्यतादिवदणवोऽपि सिद्धा एव प्रमाणतः। तथाहि—यद्यत्स्थूलं तत्तत्सूक्ष्मप्रचयात्मकम्, यथा पर्वतादयः, स्थूलं चाद्यचाक्षुषमवयविद्रव्यमिति स्वभावहेतुः। चाक्षुषग्रहणमचाक्षुषस्य द्व्यणुकादेर्व्यवच्छेदाय। तत्र यदि स्थूलत्वादिति पारमार्थिकं स्थूलत्वं च वस्तुधर्ममाश्रित्योच्यते हेतुस्तदा साध्यधर्मिणि दृष्टान्तधर्मिणि च धर्मिद्वयेऽपि प्रतिवादिनो न सिद्धं स्थूलत्वमिति तदा हेतुरसिद्धो दृष्टान्तश्च साधनविकलः। अथ यदेतद्देशवितानेन प्रतिभासमानमविचाररमणीयमागोपालादि प्रसिद्धं रूपं स्थूलत्वादित्युच्यते तदा भ्रान्तेऽपि स्वप्नादिज्ञाने परमाणुप्रचयमन्तरेणापि तथा प्रतिभासि रूपमस्तीति हेतोरनैकान्तिकता। अथाभ्रान्तत्वे सतीति विशेषणमुपादीयते तदा विज्ञानवादिनं प्रति स्वस्थनेत्रादिज्ञानाकारस्य यावत्स्वप्नादिज्ञानाकाराद्व्यतिरेको विशेषो न प्रसाध्यते तावन्न क्वचिदभ्रान्तत्वं सिद्धमिति विशेषणमप्यसिद्धम्। स्यादेतदस्त्येव स्वस्थनेत्रादिज्ञानस्यस्वप्नादिज्ञानादर्थक्रियासंवादेन विशेष इति। तत्र कोऽयमर्थक्रियासंवादो नाम। यदि बाह्यार्थप्राप्तिः सा न सिद्धा बाह्यार्थासिद्धेस्तस्यैव साध्यत्वेन प्रस्तुतत्वात्।अथाभिमतार्थक्रियावभासिज्ञानमेवार्थक्रियासंवादस्तदाऽयमन्यथाऽपि बाह्यार्थालम्बनमन्तरेणापि सम्भाव्यत इति तथा हेतोरनैकान्तिकतैव। कथमन्यथाऽपि सम्भाव्यतइत्याह—“सामर्थ्यनियमाद्धेतोरि”ति। हेतोः समनन्तरप्रत्ययस्य सामर्थ्यभेदनियमात्। कश्चिदेव हि समनन्तरप्रत्ययः किञ्चिद्विज्ञानं जनयितुं समर्थो न सर्वः सर्वम्। यथा भवता बाह्योऽर्थ इति तत एव नियमः सिद्धः॥ १९७३॥ १९७४॥ ॥ १९७५॥ १९७६॥ १९७७॥ १९७८॥ १९७९॥
“तुल्य”मित्यादिना सुमतेर्दिगम्बरस्य मतेनाप्रतिवेदनादित्यस्य हेतोरसिद्धतामुद्भावयति।
तुल्यं रूपं यदा ग्राह्यमतुल्यं नैव गृह्यते।
अणूनां द्वयरूपत्वे तदा किं नोपपद्यते॥ १९८०॥
तत्सामान्यविशेषात्मरूपत्वात्सर्ववस्तुनः।
तुल्यातुल्यस्वरूपत्वाद्द्विरूपा अणवः स्मृताः॥ १९८१॥
समानं तत्र यद्रूपं तदक्षज्ञानगोचरम्।
एकाकारमतो ज्ञानमणुष्वेवोपपद्यते॥ १९८२॥
असमानं तु यद्रूपं योगिप्रत्यक्षमिष्यते।
इति दुर्मतयः केचित्कल्पयन्ति समाकुलम्॥ १९८३॥
स ह्येवमाह—सामान्यविशेषात्मत्वात्सर्वपदार्थानां तुल्यातुल्यरूपेण द्विरूपाः परमाणवः। तत्र समानं यद्रूपं तदिन्द्रियैर्गृह्यते नासमानम्। ततश्चैकाकारं विज्ञानमणुष्वविरुद्धमिति प्रत्यक्षसिद्धाः परमाणव इति। “समाकुल”मिति। अप्रतिष्ठम्। एकस्यापि रूपस्य प्रतिनिश्चितस्याभावात्॥ १९८०॥ १९८१॥ १९८२॥ १९८३॥
ननु च द्विरूपं वस्त्विति निश्चितरूपमुक्तमेव, सत्यमुक्तमयुक्तं तूक्तमिति दर्शयन्नाह।
द्वे हि रूपे कथं नाम युक्ते एकस्य वस्तुनः।
द्वे तदा वस्तुनी प्राप्ते अपरस्पररूपतः॥ १९८४॥
परस्परात्मतायां तु तद्द्वैरूप्यं विरुध्यते।
विशेषश्चोपलभ्येत चक्षुरादिभिरिन्द्रियैः॥ १९८५॥
तथाहि—द्वाभ्यां रूपाभ्यां वस्तुनोऽन्यान्यत्वाद्द्वे एव वस्तुनी प्राप्ते। रूपद्वयस्यैव केवलस्यापरापरस्य (स्यापरस्परस्व ?)भावात्ततश्च नैकस्य द्विरूपत्वमुक्तम्। एकस्माद्वा वस्तुनो रूपद्वयस्याव्यतिरेकादेकवस्तुस्वरूपवद्रूपद्वयस्य परस्परात्मकतैवेति कथमेकं द्विरूपं स्यात्। किञ्च—सामान्यरूपाव्यतिरेकाद्विशेषरूपस्योपलम्भप्रसङ्गः। ततश्चेयमसङ्कीर्णा व्यवस्था न प्राप्नोति—समानं रूपमक्षज्ञानगोचरोऽसमानं तु योगिप्रत्यक्षमिष्यत इति॥ १९८४॥ १९८५॥
किञ्च—एकं द्विरूपमिति न केवलमेतत्परस्परव्याहतं इदं तु व्याहततरं यत्परस्परविरुद्धरूपद्वयात्मकमेकमिति दर्शयति—“परस्परे”त्यादि।
परस्परविरुद्धात्मनैकरूपं कथं भवेत्।
तथाहि—तुल्यातुल्ये रूपे परस्परपरिहारस्थितलक्षणे तत्कथं तदात्मकमेकं भवेत्।“संवित्तेश्चे”त्यादिना कुमारिलमतमाशङ्कते।
संवित्तेश्च विरुद्धानामेकस्मिन्नाप्यसम्भवः॥ १९८६॥
एकाकारं न चे(भवे ?)देकमिति नेश्वरभाषितम्।
तथाहि तदुपेतव्यं यद्यथैवोपलभ्यते॥ १९८७॥
स ह्याह—एकस्मिन्वस्तुनि परस्परविरुद्धानामाकाराणामसम्भव इत्येतन्नास्ति। कस्मात् ?। संवित्तेः कारणात्। तथाहि—एकाकारेणैवैकेन वस्तुना भवितव्यमितिनेयमाज्ञा राज्ञाम्, किं तु यद्यथोपलभ्यते तत्तथैवाभ्युपगन्तव्यम्। प्रतीतिनिबन्धनत्वाद्वस्तुव्यवस्थायाः। एकानेकाकारा च सत्तारूपादिभेदतः प्रतीतिर्भवन्तीसमुपलभ्यते। तस्मात्तथैव व्यवस्थाप्यत इति॥ १९८६॥ १९८७॥
“तन्ने”त्यादिना प्रतिविधत्ते।
तन्नासतोऽपि संवित्तेः कम्बुपीतादिरूपवत्।
विरुद्धधर्मसङ्गात्तु नान्यद्भेदस्य लक्षणम्॥ १९८८॥
एवं सति न किचिद्विज्ञानं भ्रान्तं स्याद्भेदव्यवहारोच्छेदप्रसङ्गश्च। अथ बाध्यमानत्वात्कस्यचिद्भ्रान्तत्वं स्यात्। तदैकस्मिन्ननेकविज्ञानं बाध्यमानं कथमभ्रान्तं भवेत्। एवं तावदणूनां (न) प्रत्यक्षतो नाप्यनुमान(तः)सिद्धिरिति न बाह्यार्थापह्नवे प्रत्यक्षविरोधः प्रतिज्ञायाः। नापि हेतोरसिद्धता॥ १९८८॥
इदानीं पर एकानेकस्वभावरहितत्वादित्यस्य हेतोः सन्दिग्धासिद्धतामुद्भावयन्नाह —“माभू”दित्यादि।
माभूत्प्रमाणतः सिद्धिरणूनामस्तु संशयः।
अभाव(निश्चय)स्त्वेषां कथं प्रेक्षावतां भवेत्॥ १९८९॥
“संयुक्त”मित्यादिना प्रतिविधत्ते।
संयुक्तं दूरदेशस्थं नैरन्तर्यव्यवस्थितम्।
एकाण्वभिमुखं रूपं यदणोर्मध्यवर्त्तिनः॥ १९९०॥
अण्वन्तराभिमुख्येन तदेव यदि कल्प्यते।
प्रचयो भूधरादीनामेवं सति न युज्यते॥ १९९१॥
अण्वन्तराभिमुख्येन रूपं चेदन्यदिष्यते ।
कथं नाम भवेदेकः परमाणुस्तथासति ॥ १९९२ ॥
प्रयोगः—यदेकानेकस्वभावरहितं तदसद्व्यवहारयोग्यम्, यथा वियदब्जम्, एकानेकस्वभावरहिताश्च पराभिमताः परमाणव इति स्वभावहेतुः । न चासिद्धो हेतुरिति मन्तव्यम् । तथाह्येकत्वं तावदणूनामसिद्धं, भूधरादिप्रचितरूपाणां दिग्भागभेदस्य विद्यमानत्वात् । तमेव दिग्भागभेदं भूधराद्युपचयान्यथानुपपत्त्या परमाणूनां प्रसञ्जयन्नेकत्वनिषेधं तावदाह—संयुक्तं दूरदेशस्थमित्यादि । तत्र केचिदाहुः परस्परं संयुज्यन्ते परमाणव इति, सान्तरा एव नित्यं न स्पृशन्तीत्यपरे, निरन्तरत्वे तु स्पृष्टसञ्ज्ञेत्यन्ये, तत्रैतस्मिन्पक्षत्रयेऽपि मध्यवर्त्तिनः परमाणोर्बहुभिः परिवारितस्य यदि दिग्भागभेदो न स्यात्तदा चित्तचैत्तादिकलापस्येव प्रचयो न स्यादनंशत्वात् । तथाहि—येनैकरूपेणैकाण्वभिमुखो मध्यवर्त्ती परमाणुस्तेनैवापरपरमाण्वभिमुखो यदि स्यात्तदा परिवारकाणामणूनामेकदेशत्वप्रसङ्गात्प्रचयो न स्यात् । प्रयोगः—यदेकरूपपरमाण्वभिमुखस्वरूपं भवेत्तदेकदेशम्, यथा तस्यैव पूर्वदेशस्थितः परमाणुः, एकप्रासादाभिमुखपूर्वप्रासादवच्च, एकरूपपरमाण्वभिमुखस्वभावाश्च सर्वे परिवार्यावस्थिताः परमाणव इति स्वभावहेतुः । अतः प्रचयो न स्यात् । अथान्येन रूपेणाभिमुखस्तदा दिग्भागभेदस्य विद्यमानत्वाद्धटादिवदेकत्वं न प्राप्नोति । भन्दतशुभगुप्तस्तु प्राह—यथैकस्वभावस्यासदद्रव्यादिव्यावृत्तस्याऽनेकं सामान्यं न तत्त्वेन कल्प्यते, एवमिहापि परमाणूनामनेकवर्त्तित्वादनेकत्वं कल्प्यते, न भूतार्थेन । तथाहि —न दिक्पदार्थो नामास्ति कणादादिकल्पितः, तस्यैकस्वरूपत्वादनेकरूपः पूर्वादिप्रत्ययो न स्यात् । केवलमणव एव पौर्वापर्येणावस्थिता दिक्शब्दवाच्यास्ततश्च दिग्भागभेदवत्त्वादिति केवलं बहुभिः परिवारणमेवोक्तं स्यान्न सावयवत्वमिति । तदेतदसम्यक् । तथाहि—निरवयवत्वाच्चित्तस्येवाणूनां परमार्थतो नोर्द्ध्वाधोभागाः सन्तीति बहुभिः परिवारणमेव न स्यात्, चित्तचैत्तादिवत् । ततश्च परिवारकाणामणूनां परमार्थेनाभावात्कथं तद्द्वारेणानेकमध्यवर्त्तित्वं येनानेकत्वं देशकृतं कल्प्येत । अथासत्यपि परमार्थत ऊर्द्ध्वाधोभागवत्त्वे बहुभिः परिवारणं स्यात्तर्हि चित्तचैत्तानामपि स्यात् । ततश्च परमाणुवच्चित्तादीनामपि देशस्थत्वं स्यात् । नो चेत्परमाणूनामपि न स्यात् । ततश्च प्रचयो न स्याच्चित्तादिवदित्येकान्तः । स्यादेतत्—यथा वर्त्तमान चित्तक्षणस्यातीतानागताभ्यां चित्तलक्षणाभ्यां कालकृतनैरन्तर्यमस्ति, अथ च वर्त्तमानचित्तक्षणस्य (न्)कलामुहूर्त्तादिवत्सावयवत्वम्, एवमणूनां सत्यपि बहुभिः परिवारणे न देशकृतं सावयवत्वं भविष्यति । तदेतदसम्यक् । नहि वर्त्तमानचित्तलक्षणस्य पूर्वोत्तराभ्यां नैरन्तर्यं परमार्थतोऽस्ति, तदानीं तयोरसत्त्वात् । न चासता सह पौर्वापर्यं भाविकं युक्तं केवलं सहभूतयोर्न कार्यकारणभावोऽस्तीति तद्द्वारेण परिकल्प्य समुत्थापितं पूर्वापरयोः क्षणयोः सत्त्वं प्राक् पश्चादभाववत् । नचैवमणूनां देशकृतं पौर्वापर्यं परिकल्पितं प्रचयाभावप्रसङ्गात् । किं च—न तावदहेतुकत्वं भावानां युक्तिमत्, नित्यं सत्त्वादिप्रसङ्गादिति । योऽपि सांवृतत्वं भावानां प्रतिपन्नस्तेनाप्यवश्यं सर्वभावानां सहेतुकत्वमेष्टव्यम् । सति च सहेतुकत्वे न तावत्समकाले कार्यकारणे युक्ते । नापि प्राक्कार्योत्पत्तेः, कारणस्यासत्त्वेनासामर्थ्यात् । पश्चादपि कार्ये समुत्पन्ने हेतोरनुपयोगात् । अतः प्राग्भावः सर्वहेतूनामवश्यमङ्गीकर्त्तव्यः । यथोक्तम्—असतः प्रागसामर्थ्यात्पश्चाच्चानुपयोगतः । प्राग्भावः सर्वहेतूनां नातोऽर्थः स्वधिया सहेति । तदेवं निरंशत्वेऽपि सर्वभावानां न्यायतोऽवस्थितं कालकृतं पौर्वापर्यं देशकृतं तु कथं स्याद्यदि सावयवत्वं न स्यादिति चोद्यते । अथासत्यपि सावयवत्वे देशकृतं पौर्वापर्यं स्यात्, चित्तचैत्त्यानामपि स्यादविशेषादित्युक्तम् । मूर्त्तत्वकृतोऽस्ति विशेष इति चेन्न । तदेवासिद्धमसति सावयवत्वे । केवलं पर्यायेण सावयवत्वमेवोक्तं स्यात्, नान्यो विशेष इति यत्किञ्चिदेतत् । तस्मात्सर्वभावानां न्याय्ये कालकृते पौर्वापर्ये सति यदेतदपरमधिकं कस्यचिद्देशकृतं पौर्वापर्यं तत्सावयवत्वमन्तरेण न सम्भवतीति युक्तमुक्तम् । दिग्भागभेदो यस्यास्ति तस्यैकत्वं न युज्यते इत्यलं विस्तरेण ॥ १९९० ॥ १९९१ ॥ १९९२ ॥
अत्र केचिदाहुः—एवं तर्ह्यणीयांसः प्रदेशाः सन्तु परमाणवस्तत्राप्यवयवकल्पनायां पुनरपि प्रदेशानामेवाणुत्वं भविष्यति, यदि परमनवस्थैव, नतु पुनः सावयवत्वप्रसङ्गेन शक्यतेऽणूनां प्रज्ञप्तिसत्त्वमापादयितुम् । अथापि प्रज्ञप्तिसत्वम्, एवमपि नियमेनैव प्रज्ञप्त्युपादानमङ्गीकर्त्तव्यम् । यत्तत्प्रज्ञप्त्युपादानं तस्यैव परमाणुत्वं भविष्यति । अथासत्त्वमेवाणूनां साध्यते, एवमपि दिग्भागभेदादित्यसिद्धत्वं हेतोः । नहि खरविषाणादयोत्यन्तासन्तः पूर्वादिदिग्भागभेदवन्तो भवन्ति । नापीदं प्रसङ्गसाधनं दिग्भागभेदस्यानभ्युपगतत्वादिति । अत्र प्रतिविधानमाह—अपेतेत्यादि ।
अपेतभागभेदश्च यः परैरणुरिष्यते।
तत्रैवेयं कृताचिन्ता नानिष्टासम्भवस्ततः॥ १९९३॥
भागानां परमाणुत्व मङ्गीकुर्वन्ति ते यदा।
स्वप्रतिज्ञाच्युतिस्तेषां तदाऽवश्यं प्रसज्यते॥ १९९४॥
प्रसङ्गसाधनत्वेन नाश्रयासिद्धतेह च।
पराभ्युपेतयोगादिबलादैक्यं ह्यपोह्यते॥ १९९५॥
तदेवं सर्वपक्षेषु नैवैकात्मा स युज्यते।
एकानिष्पत्तितोऽनेकस्वभावोऽपि न सम्भवी॥ १९९६॥
असन्निश्चययोग्योऽतः परमाणुर्विपश्चिताम्।
एकानेकस्वभावेन शून्यत्वाद्वियदब्जवत्॥ १९९७॥
अवश्यं हि परिनिष्ठितरूपं किञ्चिद्वस्तु परमाणुत्वेन तद्वादिनाऽङ्गीकर्त्तव्यम्। अन्यथा ह्यनवस्थायामनवधारितरूपत्वादनुपाख्यत्वमेव स्वयं प्रतिपादितं स्यात्। ततश्चेष्टसिद्धिरेव परस्य कृता स्यात्। तस्माद्यदेव परिनिष्ठितं त्वया व्यवस्थापितमणुत्वेन तत्रैवानपाश्रितानवस्थाविकल्पे यदा चिन्ता क्रियते तदा कथमनवस्था, स्याद्यदि परमनवस्थया स्वाभ्युपगमविरोधः कृतः स्यात्। नतु परस्य किञ्चिदनिष्टमापादितम्।एतावतैव परस्येष्टसिद्धेः प्रसङ्गसाधनमेवेदम्। नचासिद्धता हेतोः। तथाहि परेण परमाणूनां संयुक्तत्वं नैरन्तर्यं तथा बहुभिः सान्तरैः परिवारणं चेत्यभ्युपगतमन्यथा कथं च प्रत्ययो भवेत्, ततश्च यद्यपि दिग्भागभेदो वाचा नाभ्युपगतस्तथापि संयुक्तत्वादिधर्माभ्युपगमबलादेवापतति। नह्यसत्यूर्द्धाधोभागादिभेदे संयुक्तत्वादिपक्षत्रयं युक्तं चित्तादिवदित्युक्तम्। यच्चोक्तमणुप्रज्ञप्तेरवश्यमुपादानमङ्गीकर्त्तव्यम्, यत्तदुपादानं स एव परमाणुर्भविष्यतीति। तदत्रास्त्येव मिथ्याशास्त्रश्रवणचिन्तनाहितवासनापरिपाको वातायनादिरेणुप्रतिभासा बुद्धिरणुभ्रान्तेर्निबन्धनम्। नहि य(त)त्प्रज्ञप्त्यां च तदेव कारणं युक्तमप्रज्ञप्तिसत्त्वप्रसङ्गादन्यथाऽऽत्मप्रज्ञप्तेरात्मैव कारणं स्यात्, न स्कन्धाः। ततश्चाणुवदात्मप्रतिषेधोऽपि न स्यात्। एवं तावदेकत्वं परमाणूनामसिद्धम्। तत्सन्देहात्मकत्वात्तस्येति नासिद्धोऽणूनामभावव्यवहारे साधनो हेतुः ॥ १९९३॥१९९४॥ १९९५॥ १९९६॥ १९९७॥
एवं तावद्बाह्यार्थस्यानेकस्वभावरहितत्वं प्रसाध्येदानीमेकस्वभावरहितत्वं प्रसाधयन्नाह—“परमाणोरयोगाच्चे”त्यादि।
परमाणोरयोगाच्च न सन्नवयवी यतः।
परमाणुभिरारब्धः स परैरुपगम्यते॥ १९९८॥
यैरप्यनारब्धः परमाणुभिस्स्थूल इष्टस्तेषां सोऽपि परमाणुवद्दिग्भागभिन्नत्वादेको न युक्तः, पाण्यादिकम्पादौ सर्वकम्पादिप्रसङ्गात्। स्पष्टत्वाद्बहुशश्चर्वितत्वान्न पृथक्तस्य दूषणमुक्तम्। तदेवं बाह्यार्थाव्यवहारसाधने यदेकानेकस्वभावं न भवतीत्यादौ प्रयोगे नासिद्धो हेतुरिति सिद्धो बाह्यस्य पृथिव्यादेर्ग्राह्यस्यासद्व्यवहारस्तदसिद्धौग्राहकत्वमपि ज्ञानस्य तदपेक्षं कल्पितं नास्तीति सिद्धा विज्ञप्तिमात्रता॥ १९९८॥
तदेवमर्थायोगाद्विज्ञप्तिमात्रतां प्रतिपाद्य सम्प्रति ग्राह्यग्राहकलक्षणवैधुर्यात्प्रतिपादयन्नाह—“अनिर्भास”मित्यादि।
अनिर्भासं सनिर्भासमन्यनिर्भासमेव च।
विजानाति नच ज्ञानं बाह्यमर्थं कथञ्चन॥ १९९९॥
न निराकारेण नापि साकारेण नापि विषयाकारादन्याकारेण बाह्यस्य ग्रहणं युक्तम्, अन्यश्च प्रकारो नास्ति, तस्मादात्मसंवेदनमेव सदैव ज्ञानं सत्यपि बाह्येसन्तानान्तर इति सिद्ध्यति विज्ञप्तिमात्रता। कैश्चिदन्याकारमपि ज्ञानमन्याकारस्यार्थस्य संवेदकमिष्टम् यथा किल पीताकारमपि ज्ञानं शुक्लशङ्खग्राहीति। यथाह कुमारिलः— सर्वत्रालम्बनं बाह्यं देशकालान्यथात्मकम्। जन्मन्येकत्र भिन्ने वा सदा कालान्तरेऽपि च॥ इति अतस्तृतीयं पक्षान्तरमाशङ्कितम्॥ १९९९॥
ननु चात्मसंवेदनेऽप्येतेऽनिर्भासादयो विकल्पाः कस्मान्नावतरन्तीत्याह—“विज्ञा”नमित्यादि।
विज्ञानं जडरूपेभ्यो व्यावृत्तमुपजायते।
इयमेवात्मसंवित्तिरस्य याऽजडरूपता॥ २०००॥
नहि ग्राहकभावेनात्मसंवेदनमभिप्रेतम्, किं तर्हि ? स्वयम्—प्रकृत्या प्रकाशात्मतया, नभस्तलवर्त्त्यालोकवत्॥ २०००॥
अथ कस्माद्ग्राह्यग्राहकभावेन नेष्यत इत्याह—“क्रियाकारकभावेने”त्यादि।
क्रियाकारकभावेन न स्वसंवित्तिरस्य तु।
एकस्यानंशरूपस्य त्रैरूप्यानुपपत्तितः॥ २००१॥
तदस्य बोधरूपत्वाद्युक्तं तावत्स्ववेदनम्।
परस्य त्वर्थरूपस्य तेन संवेदनं कथम्॥ २००२॥
त्रैरूप्यम्—वेद्यवेदकवित्तिभेदेन॥ २००१॥ २००२॥
अथापि स्याद्बाह्यस्याप्यात्मसंवित्तिवद्विनैव ग्राह्यग्राहकभावेन संवित्तिर्भविष्यतीत्याह—“नहि तद्रू”पमित्यादि।
नहि तद्रूपमन्यस्य येन तद्वेदने परम्।
संवेद्येत विभिन्नत्वाद्भावानां परमार्थतः॥ २००३॥
यद्यप्यसदादिव्यावृत्त्या सदादिरूपमेकं भावेषु कल्प्यते तथाऽपि तस्य प्रतिपादनार्थम्, परमार्थतो भेदादेकत्वं नास्त्येवेत्याह—“परमार्थत” इति॥ २००३॥
स्यादेतद्यदि नाम भिन्नो बाह्योर्थो ज्ञानात्, तथापि वेद्यो भविष्यति ज्ञानवदित्याह—“बोधरूपतये”त्यादि।
बोधरूपतयोत्पत्तेर्ज्ञानं वेद्यं हि युज्यते।
न त्वर्थो बोध उत्पन्नस्तदसौ वेद्यते कथम्॥ २००४॥
एवं स्वसन्दवेनं प्रसाध्य, बाह्यस्येदानीं यथा निराकारेण ज्ञानेन वेदनमयुक्तं तथा प्रतिपादयन्नाह—“निर्भासी”त्यादि।
निर्भासिज्ञानपक्षे तु तयोर्भेदेऽपि तत्त्वतः।
प्रतिबिम्बस्य ताद्रूप्याद्भाक्तं स्यादपि वेदनम्॥ २००५॥
येन त्विष्टं न विज्ञानमर्थाकारोपरागवत्।
तस्यायमपि नैवास्ति प्रकारो बाह्यवेदने॥ २००६॥
“प्रतिबिम्बस्ये”ति। ज्ञानाकारस्य। “ताद्रूप्या”दिति। सारूप्यात्। “भाक्त”मिति। अमुख्यम्। “अयमपी”ति। अमुख्यस्ताद्रूप्यादुपकल्पितः॥ २००५॥ २००६॥
अथापि स्याद्यथा खङ्गो हस्त्यादिकं छिनत्ति, यथा वा वह्निर्दाह्यं दहति, न चैते खङ्गादयो हस्त्यादिरूपाः, तथा ज्ञानमप्रतिपन्नविषयाकारमपि विषयं परिच्छेत्स्यतीति, एतत् “स्यान्मतिरि”त्यादिना शङ्कते।
स्यान्मतिर्दन्तिदाह्यादेर्यथाऽसिज्वलनादयः।
अताद्रूप्येऽपि कुर्वन्ति छेददाहाद्यदस्तथा॥ २००७॥
छेददाहादीत्येतदपेक्ष्य दन्तिदाह्यादेरिति षष्ठी। अद इति। एतज्ज्ञानम्। आदिशब्देन प्रदीपादयो नीलादीनां यथाप्रकाशका इत्यादि गृह्यते॥ २००७॥
“तदिद”मित्यादिनोत्तरमाह।
तदिदं विषमं यस्मात्ते तथोत्पत्तिहेतवः।
सन्तस्तथाविधाः सिद्धा न ज्ञानं जनकं तथा॥ २००८॥
खङ्गादयो हि हस्त्यादीनामुत्पादका एव सन्तो दाहकादित्वेन प्रसिद्धास्तथाहि —खङ्गादिधाराभिघाते विश्लिष्टसन्धयो गजास्समुपजायन्ते तथा वह्निसम्पर्कादिन्धनमङ्गारादिरूपम्, एवं घटादयोऽप्यालोकवशाज्ज्ञानजननयोग्या भवन्ति, नत्वेवं ज्ञानेन विषयस्य कश्चिदुपकारः क्रियते, किन्तु विषयेणैव विज्ञानं विस्पष्टमुपजन्यत इति कथमकिञ्चित्करं तस्य वेदकं भवेत्। नच तत्कार्यत्वमेव तद्वेदकत्वं विज्ञानस्येति युक्तं कल्पयितुं माभूच्चक्षुरादिवेदकत्वमप्यस्येति॥ २००८॥
भदन्तशुभगुप्तस्त्वाह—विज्ञानमनापन्नविषयाकारमपि विषयं प्र“तिपद्यते तत्परि”च्छेदरूपत्वात्, तस्मान्नाशङ्का कर्त्तव्या कथं परिच्छिनत्ति किंवत्परिच्छिनत्तीति। आह च— कथं तद्ग्राहकं तच्चेत्तत्परिच्छेदलक्षणम्। विज्ञानं तेन नाशङ्क कथं तत्किंवदित्यपीति। तदत्राह—“तत्परिच्छेदे”त्यादि।
तत्परिच्छेदरूपत्वं विज्ञानस्योपपद्यते।
ज्ञानरूपः परिच्छेदो यदि ग्राह्यस्य सम्भवेत्॥ २००९॥
अन्यथा तु परिच्छेदरूपं ज्ञानमिति स्फुटम्।
वक्तव्यं नच निर्दिष्टमित्थमर्थस्य वेदनम्॥ २०१०॥
सिद्धे हि व्यतिरिक्तार्थपरिच्छेदात्मकत्वे सति सर्वमेतत्स्यत्तदेव तु न सिद्धम्। तथाहि—न ज्ञानं सत्तामात्रेण परिच्छिनत्ति सर्वपरिच्छेदप्रसङ्गात्। नापि तत्कार्यतया, चक्षुरादेरपि परिच्छेदापत्तेः। नच साकारतेष्टा, येन ताद्रूप्यादविभक्तं भवेत्तत्संवेदकम्। तस्माद्ग्राह्यस्य यः परिच्छेदः स यदि ज्ञानरूपो भवेत्, एवं ज्ञानस्यार्थपरिच्छेदरूपत्वं भवेत्। अन्यथा कथमर्थपरिच्छेदरूपत्वं ज्ञानस्येति स्पष्टमभिधीयते। ततश्चार्थस्य परिच्छेदाद्व्यतिरेकात्तु ज्ञानात्मतैव जातेति सिद्धा विज्ञप्तिमात्रता। स्यादेतत्—कोऽप्यस्य विशेषोऽस्ति येनार्थमेव परिच्छिनत्ति न(स ?)चेदन्तया निर्देष्टुं न शक्यत इत्याह—“नच निर्दिष्टमित्थमर्थस्य वेदन”मिति। भवतीति विशेषः। यद्यप्यसाधारणं वस्तु सर्वमेव निर्देष्टुं न शक्यते, तथाप्युद्भावनासंवृत्त्या कथ्यत एव। अन्यथा हि रूपादीनामपि विशेषो न वक्तव्यः स्यात्। नचेत्थमनवधारितेन रूपेणार्थस्य संवेदनं ज्ञानमिति विस्पष्टमसंशयं निर्दिष्टं भवति। तस्मादनि रूपितेन रूपेण भावव्यवस्थाने सुव्यवस्थिता भावा इति यत्किञ्चिदेतत्॥ २००९॥ ॥ २०१०॥
स्यादेतत्परिच्छेद्यार्थाभावे कस्यासौ परिच्छेदो भवेदित्याह—“परिच्छेदः स कस्ये”त्यादि।
परिच्छेदः स कस्येति नच पर्यनुयोगभाक्।
परिच्छेदः स तस्यात्मा सुखादेः साततादिवत्॥ २०११॥
आत्मैव हि स तस्य प्रकाशात्मतया परिच्छेद इत्युच्यते। यथा सुखादेः साततेति, नहि सुखस्येति व्यतिरेकनिर्देशमात्रेण ततोऽन्या सा तथा भवेत्। तस्माद्यद्यपि नीलस्य परिच्छेदः पीतस्येति वा व्यतिरेकीव व्यपदेशस्तथापि स्वभाव एव स तथा नीलादिरूपेण प्रकाशमानत्वा(त्त)थोच्यते स्वसंवेदनरूपत्वाज्ज्ञानस्य॥ २०११॥
अथ कोऽयं स्वसंविदर्थो यद्बलात्तथोच्यत इत्याह—“स्वरूपे”त्यादि।
स्वरूपवेदनायान्यद्वेदकं न व्यपेक्षते।
नचाविदितमस्तीदमित्यर्थोऽयं स्वसंविदः॥ २०१२॥
“व्यापृतमि”त्यादिना स्वरूपवेदनायान्यन्न व्यपेक्षत इत्यत्र कुमारिलश्चोद्यमाशङ्कते।
व्यापृतं ह्यर्थवित्तौ च नात्मानं ज्ञानमृच्छति।
ततः प्रकाशकत्वेऽपि बोधायान्यत्प्रतीक्षते॥ २०१३॥
स ह्याह—यद्यपि ज्ञानं प्रकाशात्मकं, तथाप्यात्मप्रकाशनाय परमपेक्षते। नतु स्वयमात्मानमृच्छति—प्रतिपद्यते, तस्यार्थप्रकाशन एव व्यापृतत्वात्। नह्येकत्रव्यापृतस्य तदपरित्यागेनान्यत्र तदैव व्यापारणं युक्तम्॥ २०१३॥
अत्र प्रदीपेन व्यभिचरितामाशङ्क्य पक्षान्तरमाह—“ईदृशमि”त्यादि।
ईदृशं वा प्रकाशत्वं तस्यार्थानुभवात्मकम्।
नचात्मानुभवोऽस्त्यस्येत्यात्मनो न प्रकाशकम्॥ २०१४॥
नतु चासत्यात्मप्रकाशात्मकत्वे बाह्यप्रकाशकत्वमप्यस्य कथं व्यवस्थाप्यत इत्याह —“सती”त्यादि।
सति प्रकाशकत्वे च व्यवस्था दृश्यते यथा।
रूपादौ चक्षुरादीनां तथाऽत्रापि भविष्यति॥ २०१५॥
यथा चक्षुरादीनां रूपादौ विषये प्रकाशकत्वव्यवस्थानमसत्यप्यात्मप्रकाशकत्वे,तथाऽत्रापि ज्ञाने भविष्यति॥ २०१५॥
स्यादेतत्किमित्यात्मानमन्तरङ्गं परित्यज्य बाह्यमेव प्रकाशयतीत्याह—“प्रकाशकत्व”मित्यादि।
प्रकाशकत्वं बाह्योऽर्थे शक्त्यभावात्तु नात्मनि।
शक्तिश्च सर्वभावानां नैवं पर्यनुयुज्यते॥ २०१६॥
किमित्यात्मप्रकाशने शक्तिर्नास्तीत्याह—“शक्तिश्च सर्वभावानामि”त्यादि। यथाह —अग्निर्दहति नाकाशं कोऽत्र पर्यनुयुज्यताम् इति॥ २०१६॥
“ननु चे”त्यादिना प्रतिविधत्ते।
ननु चार्थस्य संवित्तिर्ज्ञानमेवाभिधीयते।
तस्यां तदात्मभूतायां को व्यापारोऽपरो भवेत्॥ २०१७॥
यदुक्तं व्यापृतं ह्यर्थवित्ताविति तदसङ्गतम्, नह्यर्थवित्तिरन्या ज्ञानात्। तथाहिवित्तिरुपलब्धिरर्थप्रतीतिर्विज्ञप्तिरिति ज्ञानमेवैतैः पर्यायैरभिधीयते। तस्यां चार्थवित्तौ तदात्मभूतायां—ज्ञानात्मभूतायां कीदृशोऽपरो ज्ञानस्यार्थसंवेदनात्मको व्यापारो भवेदात्म्यव्यतिरिक्तो येनार्थवित्तौ व्यापृतमिति भवेत्। न चात्मन्येव व्यापृतिर्युक्ता॥ २०१७॥
स्यादेतज्ज्ञानात्मत्वमेवार्थवित्तेः कथं सिद्धं, येन पर्यायता ज्ञानार्थसंवित्त्योरित्याह —“अर्थस्यानुभवो” रूपमित्यादि।
अर्थस्यानुभवो रूपं (तच्च ज्ञा)नात्मकं यदि।
तदर्थानुभवात्मत्वं ज्ञाने युक्तं नचास्ति तत्॥ २०१८॥
उपेतार्थपरित्यागप्रसङ्गात्तस्य तु स्वतः।
जातेऽप्यनुभवात्मत्वे नार्थवित्तिः प्रसिद्ध्यति॥ २०१९॥
अर्थस्यानुभवोऽवश्यं रूपं स्वभावोऽङ्गीकर्त्तव्यः। अन्यथा कथं तत्र ज्ञानं व्याप्रियेत। नह्यसति शशविषाणादौ कस्यचिद्व्यापारणं युक्तम्। ततश्च तदर्थानुभवात्मकं रूपं स्वभावो यदि ज्ञानादव्यतिरिक्तं भवेत्तदा ज्ञानेऽर्थानुभवात्मकत्वं यत्तदुक्तम्— ईदृशं वा प्रकाशत्वं तस्यार्थानुभवात्मकमिति, तद्युक्तं स्यात्। कदाचिन्निर्बध्यमानोऽर्थानुभवादव्यतिरिक्तं ज्ञानमभ्युपगच्छेदपि पर इत्याह—“नचास्ति तदि”ति। तत्— ज्ञानादव्यतिरिक्तत्वमनुभवस्य। उपेतोऽर्थः—अभ्युपगतो ज्ञानस्यात्मसंवेदनविरहलक्षणः, तस्य परित्यागप्रसङ्गः। ज्ञानस्यार्थानुभवाव्यतिरेकाभ्युपगमे स्वसंवित्तिप्र सङ्गात्। स्यादेतन्नार्थानुभवात्मत्वाज्ज्ञानस्य प्रकाशकत्वमिष्टम्, किं तर्हि ?, अनुभवात्मत्वादेव केवलादित्याह—“तस्य तु स्वत” इत्यादि। तस्य—ज्ञानस्य। यद्यप्यनुभवात्मकत्वमेव केवलं जातं नार्थानुभवात्मत्वं तथा (च) नीलस्येयं संवित्तिर्न पीतस्येत्यादिभेदेनार्थसंवित्तिर्न सिद्ध्येत्॥ २०१८॥ २०१९॥
किमिति न सिद्ध्येदित्याह—“नहि तत्रे”त्यादि।
नहि तत्र परस्यास्ति प्रत्यासत्तिर्निबन्धनम्।
यथा साकारविज्ञानपक्षेऽर्थप्रतिबिम्बकम्॥ २०२०॥
परस्येति। अनाकारज्ञानवादिनः। यस्येदं दर्शनमाकारवान्बाह्योऽर्थो निराकारा बुद्धिरिति॥ २०२०॥
ईदृशं वा प्रकाशत्वं तस्यार्थानुभवात्मकमित्यत्राह—“प्रकृत्ये”त्यादि।
प्रकृत्या जडरूपत्वान्नास्यात्मानुभवो यदि।
ज्ञानसंवेदनाभावात्परार्थानुभवस्तदा(था ?)॥ २०२१॥
यदि विज्ञानं जडरूपतयाऽऽत्मानं न संवेदयते तदा तस्य स्वतोऽप्रत्यक्षत्वेऽर्थानुभवोऽप्यप्रत्यक्षतया न(इ ?)ष्टः स्यात्॥ २०२१॥
स्यादेतद्यदि नाम ज्ञानमप्रत्यक्षम्, अर्थानुभवोऽपि किमित्यप्रत्यक्षो भवेत्। नहि रूपस्याप्रत्यक्षत्वे शब्दस्याप्यप्रत्यक्षता स्यादित्याह—“अर्थस्यानुभवो नामे”त्यादि।
अर्थस्यानुभवो नाम ज्ञानमेवाभिधीयते।
तस्याप्रसिद्धिरूपत्वे प्रसिद्धिस्तस्य का परा॥ २०२२॥
न हि ज्ञानस्यान्यद्रूपं निर्द्धारयामोऽन्यत्रार्थानुभवात्। अनिर्द्धारयन्तः स्ववाचमन्यत्वं (स्वभावमन्यं तं ?) निश्चयं व्यवहरन्तः स्वपरानु(न् ?)विप्रलभेमहि। तस्य ज्ञानस्याप्रसिद्धरूपत्वे सति प्रसिद्धिस्तस्यार्थानुभवस्य का परा भवेत्, नैव काचित् ॥ २०२२॥
अथापि स्याज्ज्ञानान्तरेण तस्य सिद्धिर्भविष्यतीत्याह—“ज्ञानान्तरेणे”त्यादि।
ज्ञानान्तरेणानुभवे सोऽर्थः स्वानुभवे सति।
प्र(अ ?)सिद्धः सिद्ध्यसंसिद्धेः कदा सिद्धो भवेत्पुनः २०२३
तज्ज्ञानज्ञानजातौ चेदसिद्धः स्वात्मसंविदि।
परसंविदि सिद्धस्तु स इत्येतत्सुभाषितम्॥ २०२४॥
सिद्धेः—ज्ञानस्य, असिद्धेः। प्र(अ ?)सिद्धव्यक्तिकं व्यक्तमिति (न) युज्यते। तथाहि—न तावदर्थस्य स्वानुभवकालेऽपि सिद्धिस्तदभिव्यक्तिस्वभावस्यानुभवस्यतदानीमसिद्धत्वात्कदा तस्य सिद्धिर्भविष्यतीति वक्तव्यम्। तज्ज्ञानज्ञानजातौ—अर्थज्ञानज्ञानोत्पत्तिकाले, सिद्धिर्भविष्यतीति चेत्। एतदतिसुभाषितम्। यो हि नाम स्वानुभवकाले न सिद्धः स कथमस्वा(न्या ?)नुभवकालें सेत्स्यतीति॥ २०२३॥ ॥ २०२४॥
सिद्ध्यतु नाम यद्यनवस्था न भवेत्सा तु दुर्वारेति दर्शयन्नाह—“तस्याप्यनुभव” इत्यादि।
तस्याप्यनुभवे(ऽसिद्धे ?)प्रथमस्याप्यसिद्धता।
तत्रान्यसंविदुत्पत्तावनवस्था प्रसज्यते॥ २०२५॥
“तस्ये”ति। द्वितीयस्यार्थज्ञानज्ञानस्य। प्रथमस्येति। अर्थानुभवस्य। “(अ)सिद्धते”ति। नास्य सिद्धिरस्तीत्यसिद्धस्तद्भावोऽसिद्धता॥ २०२५॥
किञ्च यदि ज्ञानान्तरेणानुभवोऽङ्गीक्रियते तदा तत्रापि ज्ञानान्तरे स्मृतिरुत्पद्यत एव ज्ञानज्ञानं ममोत्पन्नमिति, तस्याप्यपरेणानुभवो वक्तव्यः, नह्यननुभूते स्मृतिर्युक्ता, ततश्चेमा ज्ञानमालाः कोऽनन्यकर्मा जनयतीति वक्तव्यम्। न तावदर्थस्तस्य मूलज्ञानविषयत्वात्। नापीन्द्रियालोकौ तयोश्चक्षुर्ज्ञान एवोपयोगात्। नापि निर्निमित्ता, सदा सत्त्वादिप्रसङ्गात्। सैव पूर्वधीरुत्तरोत्तरां बुद्धिं जनयतीति चेदाह—“गोचरान्तरे”त्यादि।
गोचरान्तरसञ्चारस्तथा न स्यात्स चेक्ष्यते।
गोचरान्तरसञ्चारे यदन्त्यं तत्स्वतोऽन्यनः॥ २०२६॥
न सि(द्ध्येत्तस्य चा)सिद्धौ सर्वेषामप्यसिद्धता।
अतश्चान्ध्यमशेषस्य जगतः सम्प्रसज्यते॥ २०२७॥
अन्त्यस्य तु स्वतःसिद्धावन्येषामपि सा ध्रुवम्।
ज्ञानत्वादन्यथा नैषां ज्ञानत्वं स्याद्धटादिवत्॥ २०२८॥
एवं हि विषयान्तरसञ्चारो न प्राप्नोति, तथाहि—पूर्वपूर्वा बुद्धिरुत्तरोत्तरस्य ज्ञानस्य विषयभावेनावस्थिता प्रत्यासन्ना चोपादानकारणतया तां तादृशीमन्तरङ्गिकां त्यक्त्वा कथं च बहिरङ्गमर्थं गृह्णीयात्। नचाप्यर्थः सन्निहितोऽपि तां प्रतिरोद्धुं समर्थस्तस्य बहिरङ्गत्वात्। अथ बहिरङ्गोऽपि सन् प्रतिवध्नीयात्तदा न कदाचित् कश्चिद्वृ(द्बु ?)द्धिमनुभवेत्। तथाहि—न काचिदवस्थाऽस्ति यस्यामर्थो न सन्निहित इति। स्मृतिरप्युच्छिन्ना स्यादनुभवाभावात्। किञ्च—येऽतीतादिविकल्पा विषयसन्निधानमन्तरेण भवन्ति तेषां सञ्चारकारणाभावाद्विकल्पपरम्परायामासंसारमवस्थानान्न कस्यचिदर्थचिन्ता स्यात्। भवतु नामार्थान्तरसञ्चारोऽनुपपद्यमानोऽपि। तथाऽपि यत्तदन्यज्ज्ञानं तत्केनानुभूयेतेति वक्तव्यम्। अथ स्यात्—सैवोत्तरा बुद्धिरर्थान्तरग्राहिणी पूर्वां धियमर्थं चोभयमपि गृह्णातीति, तदेतदसम्यक्। तथाहि— यदा शब्दज्ञानादनन्तरं रूपग्राहि ज्ञानं भवति तदा तस्मिन्रूपग्राहिणि ज्ञाने शब्दज्ञानस्य प्रतिभासात्तदा रूढस्यापि शब्दस्य प्रतिभासः प्राप्नोति। यस्यापि निराकारज्ञानं तस्यापि न शब्दग्रहणमन्तरेण तद्ग्राहकस्य ग्रहणं युक्तम्, नहि दण्डग्रहणमन्तरेण तद्ग्राहकस्य दण्डिनो ग्रहणं न्याय्यमिति रूपग्राहिणि चक्षुर्ज्ञाने शब्दस्यापि प्रतिभासः स्यात्। तथा चिन्ताज्ञानेप्यकारादिविषयिणि यथोक्तनीत्याऽभिलापद्वयमेकस्मिन्नु(क्त)क्रमेण स्यात्। तथाहि—यदेकारचिन्तासमनन्तरमकारं चिन्तयति तदा तदकारञ्चिन्ताज्ञानमिकारग्राहकमपि चिन्तयतीति स्वज्ञानसमारूढस्येकाराभिलापस्याकाराभिलापिनि ज्ञाने प्रतिभासः प्राप्नोति। किञ्च—सर्वमेव वस्तु वारद्वयं प्रतिभासेत, स्वज्ञानकालेऽवभासनात्। न चैवं प्रतिभासोऽस्तीत्ययुक्तमुत्तरया बुद्ध्या द्वयोर्ग्रहणम्। अथापि स्यादेकमन्त्यं ज्ञानमननुभूतमस्मृतं चास्तां को दोषः स्यादित्याह—“गोचरान्तरसञ्चार” इति। स्वसंवित्तेरनभ्युपगमान्न स्वतः सिद्धता,(ना)पि परतः, अनवस्थादोषात्, तस्यान्तस्यासिद्धौ सत्यां पूर्वकस्याप्यसिद्धिः, अप्रत्यक्षोपलम्भकत्वात्,ततश्चार्थस्याप्यसिद्धिरिति न कदाचित्किञ्चिदुपलभ्येत। ततश्चान्ध्यमायातमशेषस्य जगतः। अथान्तस्य यथोक्तदोषभयात्स्वसंवित्त्या स्वत एव सिद्धिरभ्युपगम्यते तदा तद्वदेव सर्वस्य ज्ञानत्वाविशेषात्स्वसंविदस्तु। प्रयोगः—यज्ज्ञानं तदात्मबोधं प्रत्यनपेक्षितान्यव्यापारं ज्ञानत्वात्, अन्त्यज्ञानवत्, ज्ञानं च विवादास्पदीभूतं ज्ञानमिति स्वभावहेतुः। अन्यथा हि यत्स्वतो न सिद्धस्तस्य घटादिवज्जडरूपतया ज्ञानत्वमेव हीयेतेति बाधकं प्रमाणम्॥ २०२६॥ २०२७॥ २०२८॥
सति प्रकाशकत्वे व्यवस्था दृश्यते यथेत्याह—विज्ञानं जनयदित्यादि।
विज्ञानं जनयद्रूपे चक्षुस्तस्य प्रकाशकम्।
मतु तस्यावबोधत्वात्तज्ज्ञानेनास्य कोपमा॥ २०२९॥
रूपविषयं विज्ञानं जनयच्चक्षू रूपस्य प्रकाशकमुच्यते। विज्ञानं तु न किञ्चिद्रूपे करोति विरुपस्यैव ज्ञानकत्वात्। नचाकुर्वत्किञ्चित्प्रकाशकं युज्यतेऽतिप्रसङ्गात्। तस्मात्। उपमा—सादृश्यम्॥ २०२९॥
“यत्संवेदन”मित्यादिना नीलाद्याकारतद्धियोरभेदसाधनाय निराकारज्ञानवादिनं प्रति प्रमाणयति।
यत्संवेदनमेव स्याद्यस्य संवेदनं ध्रुवम्।
तस्मादव्यतिरिक्तं तत्ततो वा न विभिद्यते॥ २०३०॥
यथा नीलधियः स्वात्मा द्वितीयो वा यथोडुपः।
नीलधीवेदनं चेदं नीलाकारस्य वेदनात्॥ २०३१॥
यस्य संवेदनं यत्संवेदनम्, तदेव यस्य संवेदनं नियमेन, नान्यत्, तस्मात्—प्रथमयच्छब्दवाच्यात्। अभिन्नं कृतमेकान्तेन। तत्—द्वितीयं यच्छब्दवाच्यम्। यद्वा विपर्ययेणाभेदः साध्यः। एतदुक्तं भवति। ( यत् ) यस्मादपृथक्संवेदनमेव तत्तस्मादभिन्नं, यथा नीलधीः स्वस्वभावात्। यथा वा तैमिरिकज्ञानप्रतिभाभासी द्वितीय उडुपः—चन्द्रमाः। नीलधीवेदनं चेदमिति पक्षधर्मोपसंहारः। धर्म्यत्र नीलाकारतद्धियौ। तयोरभिन्नत्वं साध्यधर्मः। यथोक्तः सहोपलम्भनियमो हेतुः। ईदृश एवाचार्यीये सहोपलम्भनियमादित्यादौ प्रयोगे हेत्वर्थोऽभिप्रेतः। तत्र भदन्तशुभगुप्तस्त्वाह—विरुद्धोऽयं हेतुर्यस्मात्— सहशब्दश्च लोकेऽन्यो(स्या ?)न्नैवाने(न्ये ?)न विना क्वचित्। विरुद्धोऽयं ततो हेतुर्यद्यस्ति सहवेदनम्॥ इति। तदेतसम्यक्। यस्य विपक्ष एव भावः स विरुद्धो हेतुः। नचास्य विपक्ष एव, सपक्षेऽपि भावात्। तथाहि—चन्द्रद्वयस्य सहोपलम्भाभिमानोऽस्ति लोके, नच तयोर्भेदोऽस्ति परमार्थतः। अथच सह शशिद्वयोपलम्भात्सहेति वक्तारो भवन्ति। एवमिहापि ज्ञानादव्यतिरिक्तमपि बहिरिव भासमानमाकारं द्वितीयं कृत्वा कल्पितभेदनिबन्धनः सहशब्दः प्रयुक्तः। नहि सर्वः शाब्दो व्यवहारो यथावस्तुनिवेशी, येन सहशब्दप्रयोगमात्रेण वस्तुप्रतिबद्धस्य लिङ्गस्यान्यत्वं स्यात्, यतो विरूद्धो हेतुर्भवेत्। पुनः स एवाह—यदि सहशब्द एकार्थस्तदा हेतुरसिद्धः—तथाहिनटचन्द्रमल्लप्रेक्षासु नह्येकेनैवोपलम्भो नीलादेः। नापि नीलतदुपलम्भयोरेकेनैवोपलम्भः। तथाहि—नीलोपलम्भेऽपि तदुपलम्भानामन्यसन्तानगतानामनुपलम्भात्। यदा च सत्त्वं प्राणभृतां सर्वे चित्तक्षणाः सर्वज्ञेनावसीयन्ते तदा कथमेकेनैवोपलम्भः सिद्धः स्यात्। किं चान्योपलम्भनिषेधे सत्येकोपलम्भनियमः सिद्ध्यति। नचान्योपलम्भप्रतिषेधसम्भवः, स्वभावविप्रकृष्टस्य विधिप्रतिषेधायोगात्। अथसहशब्द एककालविवक्षया तदा बुद्धविज्ञेयचित्तेन चित्तचैत्तैश्च सर्वथाऽनैकान्तिकताहेतोः। यथा किल बुद्धस्य भगवतो यद्विज्ञेयं सन्तान्तरचित्तं तस्य बुद्धज्ञानस्य च सहोपलम्भनियमेऽ(प्य)स्त्येव च नानात्वम्, तथा चित्तचैत्तानां सत्यपि सहोपलम्भे नैकत्वमित्यतोऽनैकान्तिको हेतुरिति। तदेतत्सर्वमसम्यक्। न ह्यत्रैकेनैवोपलम्भ एकोपलम्भ इत्ययमर्थोऽभिप्रेतः। किं तर्हि ?। ज्ञानज्ञेययोः परस्परमेक एवोपलम्भो न पृथगिति। य एव हि ज्ञानोपलम्भः स एव ज्ञेयस्य य एव ज्ञेयस्य स एव ज्ञानस्येति यावत्। नच नटचन्द्रमल्लप्रेक्षासु कश्चिज्ज्ञानोपलम्भोऽस्ति यो न ज्ञेयोपलम्भकः ज्ञेयोपलम्भो वा न ज्ञानोपलम्भक इति कुतोऽसिद्धता। नापि सन्दिग्धासिद्धता। तथाहि—यदेवात्मसंवेदनं ज्ञानस्य तदेवार्थस्येति परेणापि बाह्यार्थवादिनाऽङ्गीकृतम्। एतेनैकस्यैवोपलम्भ एकोपलम्भ इत्येवं विकल्प्य योऽसिद्धतादोष उक्तः स तत्पक्षानङ्गीकृतेरेवापास्तो द्रष्टव्यः। नच बुद्धस्य भगवतश्चित्तेन परसन्तानवर्त्तिनश्चित्तक्षणा अवसीयते। तस्य भगवतः सर्वावरणविगमेन ग्राह्यग्राहककलङ्करहितत्वात्। यथोक्तम्— ग्राह्यं न तस्य ग्रहणं न तेन ज्ञानान्तरग्राह्यतयापि शून्य इ(मि ?)ति। अक्षुण्णविधानं त्वाधिपत्यमात्रेण। यथोक्तम्—पूर्वप्रणिधानाहितसततानाभोगवाहि परकार्यमिति सर्वार्थकारित्वात्सर्वज्ञ इष्यत इति वक्ष्यति। तस्मान्नासिद्धता हेतोरिति। ननु चाचार्यधर्मकीर्त्तिना विषयस्य ज्ञानहेतुतयोपनिधिः प्रागुपलम्भः पश्चात्संवेदनस्येति चेदित्येवं पूर्वपक्षमादर्शयता—एककालार्थः सहशब्दोऽत्र दर्शितो नत्वभेदार्थः, एककाले हि विवक्षिते कालभेदोपदर्शनं परस्य युक्तं नत्वभेदे सतीति चेन्न। कालभेदस्य वस्तुभेदेन व्याप्तत्वात्काल(भेदोप)दर्शनमुपलम्भेनानात्वप्रतिपादनार्थमेव सुतरां युक्तम्, व्याप्यस्य व्यापकाव्यभिचारात्। नापि बुद्धविज्ञेयचित्तेनानैकान्तिको हेतुः, नहि तत्रैकोपलम्भ(नियमोऽ)स्ति, पृथक् पृथक्सर्वैरेव तस्य चित्तस्य संवेदनात्। अतएव चित्तविपर्ययविचारस्तेषामपि प्रत्येकमात्मन एव संवेदनात्। अथवा भवतु भगवच्चित्तेन परचित्तस्य संवेदनं तथापिनानैकान्तिकता। नियमेन व्यावर्त्तितत्वात्। ययोर्हि परस्परमुपलम्भनानात्वमपि सम्भवति तन्नियमेन व्यावर्त्तितं नतु पुनरूपलम्भानां सन्तानकाले भेदेन स्वलक्षणा (नां)नानात्वम्। तेनायमर्थो भवति—यदुपलम्भ एव यस्योपलम्भो नान्योऽपीति। नच भगवज्ज्ञानोपलम्भ एवान्यसन्तानगतचित्तोपलम्भो नाप्यन्यसन्तानगतचित्तोपलम्भ एव भगवज्झानोपलम्भः, अपि त्वन्योऽपि, पृथक्त्वस्य स्वस्यापि चित्तस्य संवेदनात्। अतएव न रूपालोकैर्व्यभिचारः। केवलस्याप्यालोकदर्शनात्। रूपस्याप्यालोकरहितस्य कैश्चित्प्राणिविशेषैरुपलम्भात्तस्माद्विपक्षे भावासम्भवान्नानैकान्तिको हेतुः॥ २०३०॥ २०३१॥
स्यादेतत्—यद्यपि विपक्षे सत्त्वं न निश्चितं, सन्दिग्धं तु, ततश्चानैकान्तो हेतुः सन्दिग्धविपक्षव्यावृत्तिकत्वत्। तथाहि—विषयविषयिभावेन नियतत्वादन्यथापि सहोपलम्भनियमः सम्भवत्येव, यतो ज्ञानस्य ग्राहक एव स्वभावो विषयग्रहणधर्मकत्वात्तस्य, विषयस्यापि तद्ग्राह्य एव स्वभावः, तयोश्चैकसामग्र्यधीनत्वान्नित्यं सह भाविता। नच सहोत्पादाविशेषेऽपि चक्षुरादीनां विषयत्वप्रसङ्गस्तथाविधस्वभावाभावात्। तथाहि—सामग्र्या नीलादिविषयाध्यवसायरूपमेव ज्ञानं जन्यते न चक्षुराद्यध्यवसायरूपम्। नीलादिरपि तु तदध्यवसीयमानरूपो जनितो न चक्षुरादिरिति। आह च— नान्योऽस्ति ग्राहको ज्ञानाच्चाक्षुषैर्विषयैर्विना। अतश्च सहसंवित्तिर्नाभेदान्नीलतद्धियोः॥ पूर्विकैव तु सामग्री प्रज्ञानं विषयक्षणम्। सा (आ ?) लोकरूपवत्कुर्याद्येन स्यात्सहवेदनम्॥ इति। अत्राह—“न ज्ञानात्मे”त्यादि।
न ज्ञानात्मा परात्मेति नीलधीवेदने कथम्।
नीलाकारस्य संवित्तिस्तयोर्नो चेदभिन्नता॥ २०३२॥
नहि व्यतिरिक्तस्य प्रतिबन्धमन्तरेण सहोपलम्भनियमो युक्तोऽतिप्रसङ्गात्। नचात्र व्यतिरिक्तस्य संवेदने कश्चित्प्रतिबन्धोऽस्ति। तथाहि—प्रतिबन्धोभवन्भवेत्तादात्म्यं तदुत्पत्तिर्वा। न तावत्तादात्म्यमत्र परेणेष्टम्, तस्यैव साध्यत्वात्। नापि तदुत्पत्तेः सहवेदनम्, सह भूतयोः कार्यकारणभावाभावात्। चक्षुरादीनामप्युपलब्धिप्रसङ्गाच्च। नापि पूर्वसामग्रीवशाद्यौगपद्यमात्रेण विषयविषयिभावः, चित्तचैत्यानां चक्षुरादीनां च परस्परं विषयविषयित्वप्रसङ्गात्। नापि सामग्र्या प्रतिनियतविषयविषयिरूपेण जनितत्वान्नातिप्रसङ्ग इति युक्तं वक्तुम्, विषयविषयित्वस्यैव विचार्यमाणत्वेनासिद्धत्वात्। सिद्धे हि प्रतिबन्धे विषयविषयिभावो युक्तो यावता स एवविषयविषयिभावव्यवस्थायां प्रतिबन्धो विचार्यते। नच तादात्म्यतदुत्पत्तिव्यतिरे केणापरः प्रतिबन्धोऽस्ति, यतो विषयविषयिभावः सिद्ध्येत्। नापि तादात्म्यतदुत्पत्तिभ्यां विषयविषयिभावो युक्त इति विचारितमतो न व्यतिरिक्तस्य कथञ्चित्सहोपलम्भोऽस्तीति कुतः सन्दिग्धविपक्षव्यावृत्तिकता हेतोः॥ २०३२॥
द्वितीयमपि साकारतासिद्ध्ये साधनमाह—“संवेदन”मिदमित्यादि।
संवेदनमिदं सर्वं न चार्थान्तरगोचरम्।
संवेदनं च (नीलस्य) स्वात्मसंवेदनं यथा॥ २०३३॥
यद्यत्संवेदनं तत्तज्ज्ञानान्नार्थान्तरविषयं यथाऽऽत्मसंवेदनं, संवेदनं चेदं नीलाद्याकारस्येति विरुद्धव्याप्तोपलब्धिः। अर्थान्तरगोचरत्वविरुद्धेनानर्थान्तरगोचरत्वेन संवेदनस्य व्याप्तत्वात्॥ २०३३॥
तामेव व्याप्तिं साधयन्नाह—“मुख्यतोऽर्थ”मित्यादि।
मुख्यतोऽर्थं न गृह्णाति स्वस्वभावव्यवस्थितेः।
अर्थाकारोपरागेण वियोगाच्च न भक्तितः॥ २०३४॥
शुद्धस्फटिकसङ्काशमर्थाकारैरनङ्कितम्।
यैरिष्टं वेदनं कैश्चिदिदं तान्प्रति साधनम्॥ २०३५॥
निर्व्यापारत्वात्सर्वधर्माणां न परमार्थतः कस्यचित्केनचिद्ग्रहणं, केवलं प्रकाशरूपतया तथा प्रथमानं विज्ञानमात्मनो ग्राहकमुच्यते। नचैव मुख्यतोऽर्थस्य ग्राहकं ज्ञानं युक्तम्, सर्वभावानां स्वस्वभावव्यवस्थितेः, न हि तदात्मा यः सोऽपरस्यापि। स्यादेतत्—नहि मुख्यतो यादृशं ज्ञानस्यात्मसंवेदनं तादृगेवार्थस्येष्टम्, किं तर्हि ?,स्वाभासज्ञानजनकत्वमेवार्थस्य संवेद्यत्वम्, ततश्च यदि मुख्यं संवेदनं हेतुत्वेनोपादीयते तदा हेतोरसिद्धता, अथापि यथाकथञ्चित्संवेदनशब्दवाच्यतासाम्यात्। तथाऽपि न तथाविधादिष्टसिद्धिः, नहि गोशब्दसाम्याद्गवयादीनां विषाणित्वसिद्धिः। अथ ज्ञानारूढं नीलाद्याकारं धर्मिणमाश्रित्य साकारज्ञानपक्षे द्विविधोऽपि हेतुरभिप्रेतस्तदा सिद्धसाध्यता। यथोक्तम्—साकारज्ञानपक्षे च तन्निर्भासस्य वेद्यता। तस्याभेदे च संसाध्ये सिद्धसाधनता भवेत्॥ इत्येतत्सर्वं भदन्तशुभगुप्तस्य चोद्यमाशङ्क्याह—“अर्थाकारोपरागेणे”त्यादि। अर्थाकारोऽर्थसदृशश्चासावुपरागो निर्भासश्चेत्यर्थाकारोपरागः। “इद”मिति। द्विविधमपि साधनं निराकारवादिनं प्रतियतस्तेन न सिद्धसाध्यता, नाप्युपचारेणान्यस्य संवेदनमस्ति, उपचारनिबन्धनाभावात्॥ २०३४॥ २०३५॥
एवं तावदनिर्भासं ज्ञानं न बाह्यमर्थं विजानातीति प्रतिपादितम्। नापि सनिर्भासमिति द्वितीयं पक्षमाश्रित्य प्रतिपादयन्नाह—“अस्तु तर्ही”त्यादि।
अस्तु तर्हि ससारूप्यं विज्ञानं बाह्यवेदकम्।
तस्यापि सर्वथाऽयोगान्न युक्ता वेदकस्थितिः॥ २०३६॥
नहि भाविका आकारो युक्तो यतस्तद्वशादर्थव्यवस्थानं स्यात्। नचालीकेन साकारेणार्थः संविदितो भवेत्, भ्रान्तेऽपि ज्ञाने तथाविधस्य भावात्॥ २०३६॥
कथमलीकत्वं साकाराणामिति चेदाह—“ज्ञाना”दित्यादि।
ज्ञानादव्यतिरिक्तत्वान्नाकारबहुता भवेत्।
ततश्च तद्बलेनास्ति नार्थसंवेदनस्थितिः॥ २०३७॥
आकाराव्यतिरिक्तत्वात् ज्ञाने वाऽनेकता भवेत्।
अन्यथा कथमेकत्वमनयोः परिकल्प्यते॥ २०३८॥
चित्रास्तरणदर्शने एकस्माज्ज्ञानादव्यतिरिक्तत्वाज्ज्ञानस्वरूपवदाकाराणां बहुता न प्राप्नोति। एवमाकाराव्यतिरिक्तत्वाज्ज्ञानस्याप्यनेकता प्राप्नोति। ये तु मन्यन्ते समानजातीयान्यपि ज्ञानान्याकारसङ्ख्यान्येव बहूनि चित्रास्तरणादिषु युगपत्समुद्भवन्त्येव विजातीयरूपशब्दादिज्ञानवदिति। ततश्च प्रसङ्गे सिद्धसाध्यतेति। तेषां चित्रास्तरणे यथा नीलादयो बहव आकाराः संवेद्यन्ते। एवमेकाकारेऽपि सितादावर्वाग्मध्यपरभागरूपा बहव आकारा इति तदात्मकं तत्रापि ज्ञानमनेकात्मकं प्राप्नोति। इष्यत एवेति चेत्। किमिदानीमेकं ज्ञानं भवतीति वक्तव्यम्। यदनवयवाणुविषयमिति चेत्। तदेतदनुभवविरुद्धम्। नहि क्वचिदनवयवमणुरूपं भासमानमालक्ष्यते ज्ञाने। नावाऽप्यमूर्त्तानां पौर्वापर्यावस्थानं देशकृतं युक्तम्। येन तस्य सत्यताप्रसिद्धयेऽनेकज्ञानकल्पना साध्वी स्यात्। देशवितानप्रतिभासस्यालीकत्वे कथमाकाराणां सत्यता स्यान्नाहि देशवितानावस्थितनीलादिप्रतिभासव्यतिरेकेणान्यो नीलादिज्ञानाकारः संवेद्यते। अतोऽनेकज्ञानकल्पनावैयर्थ्यमेव॥ २०३७॥ २०३८॥
दूषणान्तरमाह—“सर्वात्मने”त्यादि।
सर्वात्मना च सारूप्ये ज्ञानेऽज्ञानादिता भवेत्।
साम्ये केनचिदंशेन सर्वं स्यात्सर्ववेदकम्॥ २०३९॥
अज्ञानता—जडरूपत्वम्। आदिशब्देन नसरागता नसद्वेषतेत्यादि गृह्यते॥ २०३९॥
अन्यनिर्भासमित्येतत्तृतीयं पक्षान्तरमाश्रित्याह—“अन्याकारमपी”त्यादि।
अन्याकारमपि ज्ञानं कथमन्यस्य वेदकम्।
सर्वः स्यात्सर्वसंवेद्यो न हेतुश्च नियामकः॥ २०४०॥
अथापि स्यात्-यज्ज्ञानं येन जनितं तत्तस्यैव संवेदकं भवेत्, तेन न सर्वः सर्वसंवेद्यो भविष्यतीत्याह—“न हेतुश्च नियामक” इति। चक्षुरादीनामपि संवेद्यत्वप्रसङ्गादिति भावः॥ २०४०॥
“यथाही”त्यादिना भदन्तशुभगुप्तस्य परिहारमाशङ्कते।
यथाहि भवतां ज्ञानं निराकारं च तत्त्वतः।
वेत्ति चाभूतमाकारं भूतं संर्व तथैव चेत्॥ २०४१॥
स ह्याह—यथैव भवतां विज्ञानवादिनां विज्ञानं परमार्थतो निराकारम् “अधातुकनकाकाशशुद्धिवद्बुद्धिरिष्यत” इति वचनात्, अथ च तमाकारं वेत्ति, तथा बाह्यमपीति॥ २०४१॥
अत्राह—“असाधारण”मित्यादि।
असाधारणमेवेदं स्वरूपं चित्तचैत्तयोः।
संवेदनं ततोऽन्येषां न मुख्यं तत्कथञ्चन॥ २०४२॥
एकसामग्र्यधीनत्वं कार्यकारणतादि च।
समाश्रित्य भवेन्नाम भाक्तं भूतस्य वेदनम्॥ २०४३॥
नीरूप्यस्य तु भावस्य नैकसामग्र्यधीनता।
नचान्यत्तेन नैवास्ति गौणमप्यस्य वेदनम्॥ २०४४॥
नह्यभूतस्य मुख्यसंवेदनमस्ति। तथाहि-यदेव प्रकाशात्मकमसाधारणमहङ्कारास्पदं सातादिरूपेण प्रथते रूपमात्मा चित्तचैत्तानां तदेव तेषां संवेदनं मुख्यम्। ततोज्ञानात्मनोऽन्येषामभूताकाराणां न तन्मुख्यं संवेदनं युक्तम्। तेषामभूतत्वादेव। नापि गौणमुपचारनिमित्ताभावात्। तथाहि-एकसामग्र्यधीनत्वं, कार्यकारणभावः,आदिशब्देन सारूप्यम्, एतदुपचारनिबन्धनं भवेत्। न चाभूतस्यैतत्सर्वमस्ति। न चान्यदस्त्युपचारनिमित्तम्। केवलमविद्यावशादविषयमेवाभूताकारोपदर्शकं ज्ञानम्भ्रान्तं जायते॥ २०४२॥ २०४३॥ २०४४॥
स एव तर्हि विभ्रमोऽसत्याकारसंवेदने उपचारनिमित्तं भविष्यतीति चेत्, अत्राह—“अथवे”त्यादि।
अथवाऽभूतमाकारं वेत्तीति व्यपदिश्यते।
विभ्रमान्न हि तत्त्वेन वेत्ति निर्विषयं हि तत्॥ २०४५॥
त्वयाऽपि यदि विज्ञानमेवम्भूतस्य वेदकम्।
विभ्रमादुच्यते व्याप्तं व्यक्तं निर्विषयं तव॥ २०४६॥
“त”दिति। अभूताकाराविषयत्वेनोक्तं ज्ञानं। तथाहि—परमार्थतो नाभूताकारोऽस्ति वेद्यः, तस्य हि विधिना वेद्यत्वोपगमे भूतत्वप्रसङ्गात्॥ २०४५॥ २०४६॥
पुनः स एवाह— साकारं तन्निराकारं तुल्यकालमतुल्यजम्। इति बौद्धेऽपि विज्ञाने किं न चिन्ता प्रवर्त्तते॥ इति। यथा साकारादिविज्ञानेन नार्थस्य ग्रहणं युक्तमिति चिन्ता क्रियते तथा भगवतोऽपि ज्ञानेनार्थस्य ग्रहणं प्रति किं न क्रियतइत्यत्राह—“साकार”मित्यादि।
साकारं तन्निराकारं युक्तं नान्यस्य वेदकम्।
इति बौद्धेऽपि विज्ञाने न तु चिन्ता प्रवर्त्तते॥ २०४७॥
नहि भगवतो ज्ञानं तस्य ग्राहकमिष्यते येनात्रापि चिन्ता क्रियेत। यावता तस्य सर्वावरणविगमान्न ग्राह्यग्राहकविकल्पोऽस्तीतीष्टम्॥ २०४७॥
ननु च यद्यपि बाह्योऽर्थो नास्ति ग्राह्यस्तथापि चित्तान्तरमस्त्येव सन्तानान्तरवर्त्ति, तद्भगवज्ज्ञानस्य किमिति ग्राह्यं न भवेत्, अत्राह—“अन्यरागादी”ति।
अन्यरागादिसंवित्तौ तत्सारूप्यसमुद्भवात्।
प्राप्नोत्यावृतिसद्भाव औपलम्भिकदर्शने॥ २०४८॥
अन्यसन्तानवर्त्ति रागादिसंवेदनं हि यदि, परं सारूप्यादेव युक्तम्, नान्यथा, अतिप्रसङ्गात्। ततश्च यदि सर्वात्मना सारूप्यं तदा भगवतोऽपि ज्ञानं रक्तं स्यात्। एवं सति क्लेशावरणमप्रहीणं स्यादित्यावृतिसद्भावः प्राप्नोति। उपलम्भेन चरन्तीत्यौपलम्भिकास्तेषां दर्शने—मते। यद्वा—औपलम्भिके भगवतो दर्शने ज्ञानेऽभ्युपगम्यमाने सतीत्ययमर्थः। अथैकदेशेन सारूप्यं तथापि व्द्याकारस्याप्रहीणत्वाज्ज्ञेयावरणसद्भावः प्राप्नोति, ग्राह्याकारकलङ्कितत्वात्, तथाह्येकस्य द्वैरूप्यं भाविकमयुक्तमिति तदवश्यं भ्रान्तं व्यवस्थापनीयम्। ततश्च भ्रान्तिबीजस्यादोषस्याल्पस्याप्रहाणादप्रहीणावरण एव भगवान्स्यात्॥ २०४८॥
यदि न किञ्चिज्जानाति कथं तर्हि सर्वज्ञः स्यादित्याह—“कल्पपादपव”दित्यादि।
कल्पपादपवत्सर्वसङ्कल्पपवनैर्मुनिः।
अकम्पोऽपि करोत्येव लोकानामर्थसम्पदम्॥ २०४९॥
तेनादर्शनमप्याहुः सर्वे सर्वविदं जिनम्।
अनाभोगेन निःशेषसर्ववित्कार्यसम्भवात्॥ २०५०॥
“अदर्शन”मिति। नास्य दर्शनमुपलम्भोऽस्तीत्यदर्शनः। पूर्वप्रणिधानबलादनाभोगेन कल्पतभ(रू ?)वद्यथाभव्यमशेषजगदर्थसम्पादनात्सर्वज्ञमाहुर्नोपलम्भबलात्। स्वभावान्तरस्य सर्वथाऽप्युपलम्भायोगात्॥ २०४९॥ २०५०॥
एवं बाह्यार्थनिषेधकं प्रमाणमभिधाय तत्साधकं परप्रणीतमुपाकर्तुमाह—“धिय” इत्यादि।
धियोऽसितादिरूपत्वे सा तस्यानुभवः कथम्।
धियः सितादिरूपत्वे बाह्योऽर्थः किम्प्रमाणकः॥ २०५१॥
तथाहि—प्रत्यक्षतो बाह्यार्थसिद्धिः स्यादनुमानतो वा, अन्यस्य प्रमाणस्य सतोऽत्रैवान्तर्भावात्। तत्र न तावत्प्रत्यक्षतः, तथाहि—प्रत्यक्षाभिमतेन ज्ञानेन निराकारेण वार्थस्य ग्रहणं स्यात्साकारेण वा। न तावन्निराकारेण, प्रत्यासत्तिनिबन्धनाभावात्।धियोऽसितादिरूपत्वे सति सा धीस्तस्यार्थस्यानुभवः कथं भवेत्, नैव भवेदिति प्रागुक्तम्। अथ साकारेण तथा, नीलाद्याकारस्यैवैकस्य ज्ञानगतस्योपलम्भाद्बाह्योऽर्थः परोक्ष एव भवेन्न प्रत्यक्षः। नहि द्वे नीले कदाचित्संवेद्येते, एकं ज्ञानप्रतिबिम्बकमपरं तदर्पकमित्येवं तावन्न प्रत्यक्षतः सिद्धिः॥ २०५१॥
अनुमानतस्तर्हि सिद्धिरस्त्विति चेत्। अत्र भदन्तशुभगुप्तः प्रमाणयति। यो ज्ञानाकारः स संवादित्वे सति, तथाविधापरपदार्थजनितस्तद्यथा ग्राहक आकारोज्ञानाकारश्चायमविप्लुतेन्द्रियस्य नीलादिप्रतिभासविशेषः संवादीति स्वभावहेतुः। तदिदमाशङ्कते—“नीलादी”त्यादि।
नीलादिप्रतिभासस्य संवादित्वेन साध्यते।
ज्ञानाकारतया तुल्यजातीयाज्जन्म बोधवत्॥ २०५२॥
“संवादित्वेने”ति। इत्थम्भूतलक्षणे तृतीया। संवादित्वेनोपलक्षिता या ज्ञानाकारता तया हेतुभूतया ज्ञानाकारस्य तुल्यजातीयाज्जन्म साध्यते। बोधवत्—ग्राहकाकारवदित्यर्थः॥ २०५२॥
“बाह्यार्थे”त्यादिना दूषणमाह।
बाह्यार्थप्रापणं यद्वा तत्सामर्थ्यं यदीष्यते।
संवादित्वमसिद्धं तद्बहिरर्थापलापिनः॥ २०५३॥
अर्थक्रियावसाये चेत्पत्यये हेतुतेष्यते।
संवादित्वं तथाऽप्येतन्निरालम्बेऽपि शक्यते॥ २०५४॥
तत्र यदि बाह्यार्थप्रापणं तत्प्रमाणशक्तिर्वा संवादित्वं हेतुविशेषणमभिप्रेतं तदा बहिरर्थापलापिनो विज्ञप्तिमात्रतावादिनस्तदसिद्धमित्यन्यतरासिद्धो हेतुः। अथाभिमतार्थक्रियावभासिप्रत्ययहेतुत्वं संवादित्वमिष्टं तदा विपर्यये बाधकप्रमाणानुपदर्शनात्सन्दिग्धविपक्षव्यावृत्तिकतेत्यनैकान्तिको हेतुः। निरालम्बेऽपि ज्ञाने तथाविधसंवादित्वाविरोधात्॥ २०५३॥ २०५४॥
अविरोधमेव समर्थयितुमाह—“यथा बाह्यजलादीना”मिति।
यथा बाह्यजलादीनां सामर्थ्यं नियमो मतः।
ज्ञानेष्वपि तथैवैते संविदोऽव्यतिरेकता(नः ?)॥ २०५५॥
अनुमाप्रतिभासेन स्पष्टः साधारणोऽप्ययम्।
स्पष्टं हुताशनादीनां रूपं तेन समं नहि॥ २०५६॥
किं चानुमानज्ञानप्रतिभासस्य सत्यपि निरालम्बत्वे संवादित्वमस्तीति निश्चितविपक्षसद्भावात्प्रमेयत्वादिवत्स्पष्टा साधारणानैकान्तिकता हेतोः। स्यादेतत्—असिद्धानिरालम्बनताऽनुमानविकल्पस्येत्याह—“स्पष्टं हुताशनादीना”मित्यादि। प्रयोगः—यद्यदाकारशून्यं न तत्तद्विषयम्, यथा रूपज्ञानं न शब्दविषयम्, बाह्याकारशून्यं चानुमानमानमिति व्यापकविरुद्धोपलब्धिः। नचासिद्धो हेतुः। तथाहि—स्पष्टं हुताशनादीनां यत्तद्रूपं न तत्तेन—अनुमानज्ञानाकारेण समम्—तुल्यम्, तस्यास्पष्टत्वात्। अन्यथा हि यथा प्रतिष्ठितेन तार्णपार्णादिभेदतो रूपेण प्रत्यक्षे ज्ञाने प्रत्यवभासते, तथैवानुमानज्ञानेऽपि भासेत, यावता प्रतिष्ठितं रूपमुत्सृज्य गमकानुगसामान्यरूपेणैव भासते परोक्षो बाह्यादिरनुमाने। न चैकस्याकारद्वयं सामान्यविशेषात्मकं परस्परविरुद्धं युक्तमिति प्राक्प्रतिपादितम्। नापि विरुद्धो हेतुः सपक्षे भावात्।नाप्यनैकान्तिकोऽतिप्रसङ्गात्॥ २०५५॥ २०५६॥
“प्रमेयत्वादिहेतुभ्य” इत्यादिनोद्योतकरस्य प्रमाणान्याशङ्कते।
प्रमेयत्वादिहेतुभ्यः सन्तानान्तरचित्तवित्।
आन्तरानुभवाद्भिन्नं देशविच्छेदभासि चेत्॥ २०५७॥
सह्याह—यदेतद्देशविच्छेदप्रतिभासि नीलादिकं तदान्तरानुभवाद्भिन्नं प्रमेयत्वात्, अनित्यत्वात्, कार्यत्वात्, प्रत्ययत्वात्, हेतुमत्त्वात्, यथा सन्तानान्तरचित्तमिति ॥ २०५७॥
अत्रापि व्यभिचारित्वं न रूपेणास्य चेतसः।
तथापी(हि ?)तद्द्विचन्द्राद्यैरस्वस्थनयनेक्षितैः॥ २०५८॥
“अत्रापी”ति। सर्वेष्वेव हेतुषु। व्यभिचारित्वम्—अनैकान्तिकत्वम्। आन्तरानुभवेऽपि प्रमेयत्वादीनां सद्भावात्, यथा—तैमिरिकादिज्ञाने प्रतिभासिभिर्द्विचन्द्राद्यैरनैकान्तिकता। प्रमेयत्वं तु द्विचन्द्रादीनां द्विचन्द्रादीति विकल्पकज्ञानविषयतया द्रष्टव्यम्। नच यस्मिन्विज्ञाने ते भासन्ते तदपेक्षया तेषामर्थाधि(ग)मो(ऽ)क्षाभावात्।यदाह—केशादिना योऽन(नायना ?)र्थाधि(ग)मो(ऽ)क्षत इति॥ २०५८॥
“अन्यथे”त्यादिना कुमारिलस्य मतेन व्यभिचारविषयस्यासिद्धिमाशङ्कते।
अन्यथा बाह्य एवार्थः संवेद्यश्चेदिहोच्यते।
आकारो भासमानोऽसौ न तदर्थात्मको ननु॥ २०५९॥
स चैवम्भासमान त्वाद्विज्ञानेन प्रवेद्यते।
बाह्यस्य तु निजं रूपं नैवं तत्रावभासते॥ २०६०॥
अभासमानो वेद्यश्च कथं नामोपपद्यते।
तं च वेत्त्यन्यथा चेति परस्परविरोधि च॥ २०६१॥
अतएव स्ववेद्यत्वं दुःसाध्यं नैव चेतसाम्।
आत्मभूतावभासस्य तथा संवित्तिदर्शनात्॥ २०६२॥
तस्माद्बुद्धिरियं भ्रान्ता कल्पयन्त्यर्थमेव न।
कल्पयत्यन्यथासन्तं तेनात्मानमवश्यति (वेक्षते ?) २०६३॥
स ह्याह—इह पीतद्विचन्द्रादिज्ञाने व्यभिचारविषयत्वेनोपन्यस्तो बाह्य एव शङ्खादिरर्थः पीतादिरूपेणालम्ब्यते। ततो व्यभिचारो न सिद्ध इति। अत्राह—“आकार” इत्यादि। अयमत्र सङ्क्षेपार्थः—य एवाकारो यस्मिन् ज्ञाने प्रत्यवभासते स एव तेन संवेद्यत इति युक्तम्, अन्यथा हि सर्वं ज्ञानं सर्वविषयं स्यात्। प्रतिभासमानत्वेन संवेद्यत्वं व्याप्तम्। नच पीताकारे ज्ञाने शुक्लाकारः प्रतिभासते, दृश्याभिमतस्यानुपलब्धेरिति व्यापकस्य प्रतिभासमानत्वस्य निवृत्तौ व्याप्यस्य संवेद्य(त्वस्य)निवृत्तिरिति। प्रयोगः—यो यस्मिन्नाकारो न प्रतिभासते न स संवेद्यः, यथा शब्दज्ञाने न रूपम्, न प्रतिभासते च पीताकारे ज्ञाने शुक्लशङ्खरूपमिति व्यापकानुपलब्धिः। “तं च वेत्ती”त्यनेन स्ववचनविरोधमाह। “अत एवे”ति प्रसङ्गेन स्वसंवित्तिं साधयति। तेन यज्जैमिनीयैरिष्टम्—अप्रत्यक्षा नो बुद्धिर्निराकारा चेति तदपास्तं भवति। “तस्मा”दित्यादिनोपसंहारः। कल्पयन्ती सती, अर्थमेवान्यथा सन्तं कल्पयतीत्येवं नेति सम्बन्धः। अनेन च कुमारिलोक्तं प्रतिषेधति॥ २०५९॥ २०६०॥ २०६१॥ ॥ २०६२॥ २०६३॥
“अथे”त्यादिना कुमारिलस्यैव प्रमाणमालामाह।
अथ यद्ग्राहकं रूपं तद्ग्राह्यात्तस्य भिन्नता।
तत्संवित्तावसंवित्ते रसादिग्राहकं यथा॥ २०६४॥
ग्राह्यं तद्ग्राहकाच्चैवं तत्परामृशता यतः।
न परामृश्यतेऽवश्यं रसादिग्राहकादिवत्॥ २०६५॥
द्वयं परस्परेणैव भिन्नं साध्यं रसादिवत्।
ऐक्यरूपेण वाऽज्ञानात्सन्तानान्तरबुद्धिवत्॥ २०६६॥
ज्ञानं स्वांशं न गृह्णाति ज्ञानोत्पत्तेः स्वशक्तिवत्।
ग्राह्यत्वप्रतिषेधश्च द्वयहीना हि वासना॥ २०६७॥
चैत्राज्ञानं तदुद्भूतज्ञानांशग्राह्यबोधकम्।
ज्ञानत्वान्न भवेद्यद्वत्तस्य देहान्तरोद्भवम्॥ २०६८॥
यदेतद्रूपे ग्राहकं ज्ञानं तत्तस्मात्तद्ग्राह्याद्रूपाद्भिन्नं तस्य रूपस्य संवित्तौ सत्यां तस्यासंवित्तेः, यथा रसादिग्राहकम्। यद्वा—ग्राह्यं रूपादि स्वग्राहकाद्भिन्नं तद्ग्राहकं परामृशता यतो यस्मान्न परामृश्यते, यथा रसादिग्राहकात्। अथवा—द्वयम्—रूपादि तद्ग्राहकं च परस्परविभिन्नम्, एकतरपरामर्शे सत्य (परस्या)परामर्शनात्, रसरूपादिवत्। एकत्वेनापरिज्ञानाद्वा, सन्तानान्तरचित्तवत्। अथवा—न स्वांशग्राहकञ्ज्ञानं ज्ञानादुत्पन्नत्वात्। वासनाख्ये(ख्या ?) च ज्ञानशक्तिः। एवं ज्ञानस्य ग्राह्यत्वप्रतिषेधोऽपि कर्त्तव्यस्तद्यथा—ज्ञानांशो न ज्ञानग्राह्यो ज्ञानादुत्पन्नत्वात्। कथम स्मिन्ननन्तरे प्रयोगद्वयेऽपि साध्यधर्मान्वितो दृष्टान्तः सिद्ध इत्याह—“द्वयहीना हि वासने”ति। द्वयेन ग्राह्यग्राहकत्वेन। अथवाऽपरः प्रयोगः—नचैतज्ज्ञानं चैत्रज्ञानोद्भूतज्ञानांशस्य बोधकं ज्ञानत्वात्। यद्वत्तस्य चैत्रज्ञानोद्भूतज्ञानांशस्य मैत्रादिदेहान्तरोद्भवं ज्ञानम्॥ २०६४॥ २०६५॥ २०६६॥ २०६७॥ २०६८॥
“अपृथग्वेदना”दित्यादिना दूषणमाह।
अपृथग्वेदनात्पूर्वं तदत्र प्रतिपादितात्।
ऐकरूप्यापरिज्ञानपर्यन्तेषु न सिद्धता॥ २०६९॥
अपृथग्वेदनादिति। नीलतद्धियोः सहोपलम्भनियमात्। अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्ध्यतीत्यतः स्वसंवित्प्रसाधनेन प्रतिपादितात्, अभेदस्य नीलतद्धियोः प्रसाधितत्वात्, ऐकरूप्यापरिज्ञानपर्यन्ता हेतवो न सिद्धाः॥ २०६९॥
“सबहि”रित्यादिना परः सिद्धिमुद्भावयति।
सबहिर्देशसम्बद्ध इत्यनेन ननूच्यते।
ग्राह्याकारस्य संवित्तिर्ग्राहकानुभवादृते॥ २०७०॥
आकारवान्बाह्योऽर्थः स बहिर्देशसम्बद्धः प्रत्यक्षमुपलभ्यत इत्यनेन ग्रन्थेन भाष्यकृता शबरेण ग्राह्यसंवित्तिर्ग्राहकानुभवाद्विनापीति प्रतिपादितम्। ततश्च संवित्तावसंवित्तेरित्येतत्सिद्धम्॥ २०७०॥
द्वितीयादयोऽपि हेतवः कथं सिद्धा इत्यत आह—“न स्मरामी”त्यादि।
न स्मरामि मया कोऽपि गृहीतोऽर्थस्तदेति च।
स्मरन्ति ग्राहकोत्पादं ग्राह्यरूपविवर्जितम्॥ २०७१॥
तस्मादभिन्नतायां च ग्राह्येऽपि स्मरणं भवेत्।
ग्राहकस्मृतिसद्भावे तत्र त्वेवैष गृह्यते॥ २०७२॥
अन्वयव्यतिरेकाभ्यां सिद्धैवं भिन्नता तयोः।
एवं च हेतवोऽप्येते प्रसिद्धाः साध्यधर्मिणि॥ २०७३॥
ग्राह्यास्मरणेऽपि ग्राहकस्मृतिर्दृष्टा, यदि च तस्माद्ग्राहकादेकान्तेन ग्राह्यस्याभिन्नता स्यात्तदा ग्राह्येऽपि स्मरणं भवेत्, ग्राहकवत्, नच भवति, तस्माद्भिन्नयोगक्षेमत्वाद्भिन्नौ ग्राह्यग्राहकौ। स्यादेतद्भवत्येव ग्राह्येऽपि स्मरणमित्याह—“ग्राहकस्मृतिसद्भाव” इत्यादि।“तत्रे”ति। ग्राहकस्मृतिसद्भावकाले। एष एव—ग्राहक एव गृह्यते, न ग्राह्यमित्येवकारो भिन्नक्रमः। “अन्वयव्यतिरेकाभ्या”मिति। ग्राह्यग्राहकस्मरणयोर्भावाभावाभ्याम्।तथाहि—ग्राहकस्मरणभावेऽपि ग्राह्यस्मृतेरभावः॥ २०७१॥ २०७२॥ २०७३॥
“अप्रसिद्धोपलम्भस्ये”त्यादिना प्रतिविधत्ते।
अप्रसिद्धोपलम्भस्य नार्थवित्तिः प्रसिद्ध्यति।
तन्न ग्राह्यस्य संवित्तिर्ग्राहकानुभवादृते॥ २०७४॥
स बहिर्देशसम्बन्धः प्रत्यक्षमुपलभ्यत इत्यस्यानैकान्तिकतामाह—“अस्वस्थे”त्यादि।
अस्वस्थलोचनैर्दृष्टं तथा पीताद्यवेक्ष्यते।
निष्कृष्टं ग्राहकांशाच्च संवेद्यं न तथा परम्॥ २०७५॥
निष्कृष्टमित्यत्र छेदः। “तथे”ति। यथा सत्याभिमतं पीतादि बहिर्देशसम्बद्धं विस्पष्टमुपलभ्यते, तथा कामलाद्युपहतनयनोपलब्धमपि समीक्ष्येत। यदि नाम समीक्ष्यते ततः किमित्याह—ग्राहकांशाच्च संवेद्यं नेति छेदः। “ग्राहकांशा”दिति। निष्कृष्टमित्यध्याहार्यम्। संवेद्यं नेति भवतीति शेषः। तेनायमर्थो भवति—तच्च पीतादि तैमिरिकाद्युपलब्धं ग्राहकांशान्निष्कृष्टं पृथक्संवेद्यं न भवति, अथ च बहिर्देशसम्बद्धमुपलभ्यते, तस्मादनैकान्तिकमेतत्। “तथा पर”मिति। सत्याभिमतमपि पीतादि। अनेन विच्छिन्नस्पष्टप्रतिभासमात्रेण द्वयोरपि साम्यं योजयति॥ २०७५॥
न स्मरामि मया कोऽपीत्यत्राह—“अलक्षिते”त्यादि।
अलक्षितविशेषा च बाह्यरूपे च सा स्मृतिः।
सर्वतो भिन्नरूपे तु न साऽभ्यासाद्यसम्भवात्॥ २०७६॥
अनेन ग्राहकस्मरणे ग्राह्यास्मरणस्यासिद्धिमाह। स्यादेतत्—यदि ग्राह्ये सा स्मृतिः किमित्यलक्षितविशेषा भवति। यावता यथैव तद्ग्राह्यं सर्वतः सजातीयविजातीयाद्भिन्नं तथैव तत्स्मरेत्। एवं हि तद्विषयता तस्याः स्यात्, अन्यथा कथमगृह्णती तद्भेदं तद्विषया भवेत्, अतिप्रसङ्गादित्याह—“सर्वत” इत्यादि। एतदुक्तं भवति। न तावद्विकल्पस्य यथाऽवस्थितवस्तुग्रहणसामर्थ्यं, तस्यावस्तुविषयत्वात्। केवलं तथाभूतपदार्थानुभवबलाद्यत्रैवार्थित्वादयो निश्चयहेतवः सन्ति तत्र तदाकाराध्यवसायी स्मार्त्तः प्रत्ययो निर्विषय एव। परमार्थतः स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तेर्भ्रान्त एव सर्वो जायते। तस्य त्वध्यवसायवशेन विषयव्यवस्था, न परमार्थतः। नच ग्राह्याध्यवसायः स्मृतेरपि विद्यते, केवलं तथाविधाभ्यासपाटवादेरप्रत्यासत्ति तारतम्यादिकारणाभावादलक्षितविशेषा भवति, येन स्मरणान्तराद्विशिष्यते॥ २०७६॥
स्यादेतत्कथमवसीयते ग्राह्याध्यवसायोऽत्रास्ति स्मृतेरित्याह—“गृहीत” इत्यादि।
गृहीत इति कोऽप्येवं नान्यथा स्मरणं भवेत्।
शुद्धस्फटिकसङ्काशं वेद्यते स्मरणं नच॥ २०७७॥
कम्बुपीतादिविज्ञानैर्हेतोः पश्चिमयोरपि।
अनैकान्तिकता व्यक्तं दिगेषाऽन्यत्र साधने॥ २०७८॥
यदि ह्यनुपलक्षितविशेषं ग्राह्यमपि सा स्मृतिर्नाध्यवस्येत्, तदा कोऽपि गृहीत इत्येवमपि सामान्याकारेण ग्राह्यप्रत्यवमर्शने न प्रवर्त्तेत। नचापि केवलो ग्राह्याकारानङ्कितमूर्त्तितया ग्राहकः शुद्धस्फटिकसङ्काशः स्मर्यते। येनोच्यते— स्मरन्तिग्राहकोत्पादं ग्राह्यरूपविवर्जितम् इति। तस्मात्तत्स्मरणे तदस्मरणमसिद्धम्॥ यौ चज्ञानोत्पत्तेर्ज्ञानत्वादितीमौ पश्चिमौ हेतू तयोः पीतशङ्खादिज्ञानं ज्ञानोत्पन्नमपि सत्स्वांशं पीताद्याकारं गृह्णाति, यथा च ज्ञानमपि सत् ज्ञानांशस्य पीतादेर्ग्राह्यस्य बोधकं भवति, तथाऽन्यदपीति व्यभिचारिता हेत्वोः। साधितं च पीतशङ्खादिज्ञानस्य निरालम्बनत्वम्, अतएवात्मगतस्य पीताद्याकारस्य वेदनात्स्वसंवेदनं सिद्धमित्येतदपि प्रतिपादितम्। “एषा दिगि”ति। अन्यत्रापि—बहिरर्थसाधने परोपन्यस्ते, एषा—दूषणदिक्। यदुत्त्कं परेण—कथमद्वयं साध्यत्वेनेष्टम्, किं भासमानस्य नीलाद्याकारस्य ज्ञानरूपस्य च अनुभवसिद्धस्याभावात्कथमिदं नाम योज्यते तथासति सर्वाभावप्रसङ्गः स्यात्। अत्र वक्तव्यम्। न सर्वाभावो यस्मात्स्वव्यतिरिक्तस्य ग्राह्यस्य पृथिव्यादेः स्वलक्षणतोऽसत्वात्। सन्तानान्तरस्य तु ग्राह्यरूपेणाभावात् ग्राह्याकारशून्यं तदपेक्ष्य प्रकल्पितं तु यद्विज्ञानस्य कर्तृत्वं विजानातीति विज्ञानमिति कृत्वा तस्याभावाद्ग्राहकाकारशून्यं, न तु विज्ञानस्वलक्षणस्यापि, सर्वस्य सर्वेणाभावात्।तथाचोक्तम्—नीलपीतादि यज्ज्ञाने बहिर्वदवभासते। तत्र सत्यमतो नास्ति विज्ञेयं तत्त्वतो बहिः॥ तदपेक्षा च संवित्तेर्मता या कर्तृरूपता। सा न सत्यमतः संविदद्वयेऽपि विभाव्यत इति। एवं च कृत्वा, अयमपि प्रज्ञापारमितापाठः सुनीतो भवति— विज्ञानं विज्ञानस्वभावेन शून्यं लक्षणशून्यतामुपादायेति॥ २०७७॥ ॥ २०७८॥
एवं—यद्यज्ञानमित्यादौ मौले प्रयोगे हेतोः साध्येन व्याप्तिं प्रसाध्योपसंहरति—“विवादास्पद”मित्यादि।
विवादास्पदमारूढं विज्ञानत्वादतो मनः।
अद्वयं वेद्यकर्तृत्ववियोगात्प्रतिबिम्बवत्॥ २०७९॥
विवादास्पदविशेषणेनैतदाह—स्वस्थनेत्रादिविज्ञानमत्र विशेषः साध्यधर्मी, न सर्वः, सामान्यं तु विज्ञानत्वादिति हेतुः, तेन न प्रतिज्ञार्थौकदेशता हेतोरिति। वेद्यकर्तृत्ववियोगादित्यद्वयत्वविशेषणम्। वेद्यकर्तृत्वद्वयविरहेणाद्वयमिष्टम्, न तु सर्वथाऽभावादित्यर्थः। “प्रतिबिम्बव”दिति। विषयिणि विषयोपचारात्प्रतिबिम्बज्ञानं प्रतिबिम्बशब्देनोक्तम्। यद्वा—सप्तम्यन्ताद्वतिः कर्त्तव्यः—तेन ज्ञानमेव सामर्थ्यादाधेयतया लभ्यते। न चासिद्धो हेतुर्भेदान्तरप्रतिक्षेपेण स्वभावस्यैव तथा निर्देशान्न ज्ञातृत्वस्य। नापि विरुद्धः सपक्षे भावात्॥ २०७९॥
“ननु चे”त्यादिनाऽपरो दृष्टान्तस्य साध्यविकलतामुद्भावयति।
ननु च प्रतिबिम्बेऽपि ज्ञानं सालम्बनं मतम्।
चक्षूरश्मिनिवृत्तौ हि स्वमुखादेस्तथेक्षणात्॥ २०८०॥
यस्मान्नायना रश्मयो दर्पणादितलप्रतिहता निवर्त्तमानाः स्वमुखादिना सम्बध्यन्ते ततस्ते तथा मुखादिप्रतीतिहेतवो भवन्ति। अतः स्वमुखादेरेव तथा दर्पणाद्यन्तर्गतादिरूपेणेक्षणं भवति। ततश्च न प्रतिबिम्बज्ञानं ग्राह्यग्राहकद्वयरहितं सिद्धम्॥ २०८०॥
“नाभिमुख्येने”त्यादिना प्रतिविधत्ते।
नाभिमुख्येन तद्दृष्टेः स्वमुखादेस्तथेक्षणम्।
प्रमाणदेशभेदादिदृष्टेश्चान्यपदार्थवत्॥ २०८१॥
न स्वमुखादेस्तथेक्षणमाभिमुख्येन तस्य स्वसुखादेर्दर्शनात्। तद्देशप्रमाणवर्णादिभेदेन दृष्टेश्च न स्वमुखादेस्तथेक्षणमिति सम्बन्धः। “अन्यपदार्थव”दिति। शब्दादिपदार्थवत्। एतदुक्तं भवति—(यदि) मुखादिग्राहकं तज्ज्ञानं स्यात्तदा यथैव तन्मुखादि व्यवस्थितं तथैव गृह्णीयात्, नह्यन्याकारस्य ज्ञानस्यान्यद्ग्राह्यं युक्तमतिप्रसङ्गात्। यावता दक्षिणाभिमुखस्थितो दर्पणतलं निभालयन्नुत्तराभिमुखं स्वमुखं पश्यति। तथाऽल्पीयसि दर्पणतले महतोऽपि स्वमुखस्याल्पप्रतिबिम्बकमुपलभ्यते तथादर्पणतलसम्बद्धं दूराधःप्रविष्टमिवेक्ष्यते। नच तावद्बहलं तथाऽऽदर्शतलं नापि मुखादि तत्सम्बद्धम्। तथा विमलसलिले सरसि तटान्तस्थितशाखिशिखरिणां प्रतिबिम्बान्यधोगतशाखादिशिखरशेखराण्युपलभ्यन्ते, नच ते तथास्थिताः। तस्मात्प्रतिबिम्बज्ञानं स्वमुखादिग्राहकं तद्विलक्षणप्रतिभासित्वात् शब्दज्ञानवत्॥ २०८१॥
भदन्तशुभगुप्तस्त्वाह— धीमात्रत्वेन संसाध्ये यज्ज्ञानत्वादिसाधनम्। विजातीयाविरुद्धत्वात्सर्वं शेषवदुच्यते॥ इति, तं प्रत्याह—“विज्ञानत्व”मित्यादि।
विज्ञानत्वं प्रकाशत्वं तच्च ग्राह्ये निरास्पदम्।
अनिर्भासाद्ययोगेन व्याप्तिस्तेनास्य निश्चिता॥ २०८२॥
शक्तावनन्तरे ज्ञाने ग्राह्यांशे विषयस्थितिः।
तात्विकी नेष्यतेऽस्माभिस्तेन मानं समर्थ्यते॥ २०८३॥
विज्ञाप्तिमात्रतासिद्धिर्धीमद्भिर्विमलीकृता।
अस्माभिस्तद्दिशा यातं परमार्थविनिश्चये॥ २०८४॥
इति बहिरर्थपरीक्षा।
पूर्वमेव हि—“अनिर्भासं सनिर्भास”मित्यादिना व्याप्तेः प्रसाधितत्वात् नानैकान्तिको हेतुः। आचार्यदिग्नागपादैरालम्बनप्रत्ययव्यवस्थार्थमुक्तम्— यदन्तर्ज्ञेयरूपं तु बहिर्वदवभासते। सोऽर्थो (वि) ज्ञानरूपत्वात्तत्प्रत्ययतयाऽपि च॥ इति। अनेन हि ग्राह्यांशे विषयव्यवस्था प्रतिपादिता। पुनरप्युक्तम्— अथवा शक्त्यर्पणात्क्रमेणापि सोऽर्थावभासः स्वानुरूपकार्योत्पत्तये शक्तिं विज्ञानाचारां करोतीत्यविरोध इति। अनेनानन्तरज्ञाने स्वानुरूपकार्योत्पत्तिनिमित्तशक्तिसमर्पणात्कारणत्वं च तस्य प्रतिभासस्य समर्थितम्॥ अत्र तेनैव भदन्तेन दूषणमुक्तम्—यद्यपीन्द्रियविज्ञप्तेर्ग्राह्यांशः करणं भवेत्। अतदाभतया तस्या नाक्षवद्विषयः स तु॥ इत्यादिना। अत्राह—“शक्ता”वित्यादि। शक्तावनन्तरे ज्ञान इति व्यधिकरणसप्तम्यौ। “अनन्तरे ज्ञान” इति। समनन्तरप्रत्यये आलयाख्ये, या शक्तिस्तथाविधार्थप्रतिभासप्रत्ययसमर्थिता। “तात्विकी नेष्यत” इति। यतः परमाण्वादेर्व्यतिरिक्तस्यालम्बनत्वं न युज्यत इति विस्तरेण (प्रतिपादितम्) प्रतिपाद्या(दितं चा ?)चार्येण— माभूत्सर्वथाऽऽलम्बनप्रतिषेधे प्रतितिबाधा, तथा—आलम्बनाधिपतिसमनन्तरहेतुप्रत्ययत्व(स्व ?)लक्षणाश्चतस्रः प्रत्ययिता इति सूत्रे वचनादभ्युपेतबाधापीति, अविरोधप्रतिपादनाय यथाविध आलम्बनप्रत्ययोऽभिप्रेतः सूत्रे लोके च तथा प्रतिपादितं संवृत्त्या। न परमार्थतः। परमार्थतस्तु निरालम्बनाः सर्व एव प्रत्यया इति॥ २०८२॥ ॥ २०८३॥ २०८४॥
इति बहिरर्थपरीक्षा।
तत्त्वसङ्ग्रहस्य द्वितीयो भागः।