अनाद्यन्तमित्येतत्समर्थनार्थं चोद्योपक्रमपूर्वकमाह—यदीत्यादि।
यदि नानुगतोभावः कश्चिदप्यत्र विद्यते।
परलोकस्तदा न स्यादभावात्परलोकिनः॥ १८५७॥
काश्चिदिति। आत्मादिः। तत्रात्मनः पूर्वं प्रतिषिद्धत्वादभावादेव नानुगामित्वं, विज्ञानादीनां च क्षणिकत्वात्रैकाल्यपरीक्षायां चान्वयस्य निषिद्धत्वान्नान्वयः॥ १८५७॥
नतु देहादयः परलोकिनो भविष्यन्तीत्याह—“देहे”त्यादि।
देहबुद्धीन्द्रियादीनां प्रतिक्षणविनाशने।
न युक्तं परलोकित्वं नान्यश्चाभ्युपगम्यते॥ १८५८॥
तस्माद्भूतविशेषेभ्यो यथा शुक्तसुरादिकम्।
तेभ्य एव तथा ज्ञानं जायते व्यज्यतेऽथवा॥ १८५९॥
आदिशब्देन वेदनासञ्ज्ञासंस्काराणां ग्रहणम्। “नान्यश्चाभ्युपगम्यत” इति। आत्मा। तल्लोकायतपक्षानुलोमनमेव ज्ञा(जा?)तम्। तथाहि तस्यैतत्सूत्रं—“परलोकिनोऽभावात्परलोकाभाव” इति। तथाहि—पृथिव्यापस्तेजोवायुरिति चत्वारितत्त्वानि तेभ्यश्चैतन्यमिति। तत्र केचिद्वृत्तिकारा व्याचक्षते-उत्पद्यते तेभ्यश्चैतन्यम्, अन्येऽभिव्यज्यत इत्याहुः, अतः पक्षद्वयमाह—“जायते व्यज्यतेऽथवे”ति। शुक्तमाम्लत्वम्। “सुरे”ति। मदजननशक्तिः। आदिशब्देन मूर्छादिजननसामर्थ्यपरिग्रहः ॥ १८५८॥ १८५९॥
ननु चक्षुरादीनि विषयांश्च “रूपादीन्प्र”तीत्य विज्ञानमुत्पद्यत इत्यतिप्रतीतमेतत्,तत्कथमुच्यते तेभ्य एव विज्ञानमित्याह—“सन्निवेशविशेष” इति।
सन्निवेशविशेषे च क्षित्यादीनां निवेश्यते।
देहेन्द्रियादिसञ्ज्ञेयं तत्त्वं नान्यद्धि विद्यते॥ १८६०॥
तथा च तेषां सूत्रम्—तत्समुदाये विषयेन्द्रियसञ्ज्ञेति। नहि महाभूतव्यतिरेकेणेन्द्रियादीनि सन्ति, तत्संस्थानविशेष एव तत्प्रज्ञप्तेः। नच संस्थानं नामान्यत्संस्थानिभ्यः। इदं च महाभूतचतुष्टयं प्रत्यक्षसंसिद्धम्। न चैतद्व्यतिरेकेणान्यत्तत्वमस्ति प्रत्यक्षसिद्धम्। नच प्रत्यक्षादन्यत्प्रमाणमस्ति, येनान्यस्य परलोकादेः संसिद्धिः स्यात्॥ १८६०॥
कार्यकारणता नास्ति विवादपदचेतसोः।
विभिन्नदेहवृत्तित्वाद्गवाश्वज्ञानयोरिव॥ १८६१॥
न विवक्षितविज्ञानजन्या वा मतयो मताः।
ज्ञानत्वादन्यसन्तानसम्बद्धा इव बुद्धयः॥ १८६२॥
अपिच—यद्यतीतदेहवर्त्तिनश्चेतसः प्रथमजन्मचित्तं प्रति कारणभावः स्यात्, मरणचित्तस्य चागामिचित्तं प्रति, तदा चित्तप्रतिबन्धानुपरमात्परलोककल्पना स्यात्,यावता प्रथमयोस्तावद्विवादास्पदीभूतयोश्चेतसोर्न कार्यकारणताऽस्ति भिन्नदेहवर्त्तित्वात्, गवाश्ववर्त्तिनोरिव ज्ञानयोः। अथवा—जन्मबुद्धयो धर्मिण्यः, तासामतीतदेहवर्त्तिचरमविज्ञानजन्यत्वप्रतिषेधः साध्यः, ज्ञानत्वादिति सामान्यं हेतुः, अन्यसन्तानवर्त्तिन्यो बुद्धयो निदर्शनम्। प्रयोगस्त्वेवम्—यदि ज्ञानं, न तद्विवक्षितातीतदेहवर्त्तिचरमज्ञानजन्यम्, ज्ञानत्वात्, यथाऽन्यसन्तानवर्त्ति ज्ञानम्। ज्ञानरूपाश्चेमा विवक्षितदेहवर्त्तिन्यो जन्मबुद्धय इति विरुद्धव्याप्तोपलब्धिः विवक्षितविज्ञानजन्य(त्व)विरुद्धेन ज्ञानत्वस्य व्याप्तत्वात्॥ १८६१॥ १८६२॥
एवं तावदतीतजन्मनिषेधः कृतः। साम्प्रतमनागतजन्मनिषेधायाह—“सरागस्ये”त्यादि।
सरागमरणं चित्तं न चित्तान्तरसन्धिकृत्।
मरणज्ञानभावेन वीतक्लेशस्य तद्यथा॥ १८६३॥
सरागस्य मरणचित्तं चित्तान्तरं न प्रतिसन्धत्ते, मरणचित्तत्वादर्हच्चरमचित्तवदिति व्यापकविरुद्धोपलब्धिः। “वीतक्लेशस्य तद्यथे”ति। मरणज्ञानम्॥ १८६३॥
कुतस्तर्हि चित्तस्योत्पत्तिरित्याह—“कायादेवे”त्यादि।
कायादेव ततो ज्ञानं प्राणापानाद्यधिष्ठितात्।
युक्तं जायत इत्येतत्कम्बलाश्वतरोदितम्॥ १८६४॥
तथाच सूत्रम्—कायादेवेति। कम्बलाश्वतरोदितमिति॥ १८६४॥
ननु च कायानिष्पत्तावपि कललाद्यवस्थायां विज्ञानमस्त्येव मूर्छितम्, तच्चातीतभेदविज्ञानजन्यतया सिद्धम्, कथं कायादेवेति नियम इत्याह—“कललादिष्वि”त्यादि।
कललादिषु विज्ञानमस्तीत्येतच्च साहसम्।
असञ्जातेन्द्रियत्वाद्धि न तत्रार्थोऽवगम्यते॥ १८६५॥
न चार्थांवगतेरन्यद्रूपं ज्ञानस्य युज्यते।
मूर्च्छादावपि तेनास्य सद्भावो नोपपद्यते॥ १८६६॥
नचापि शक्तिरूपेण तदा धीरवतिष्ठते।
निराश्रयत्वाच्छक्तीनां स्थितिर्न ह्यवकल्पते॥ १८६७॥
ज्ञानाधारात्मनोऽसत्त्वे देह एव तदाश्रयः।
अन्ते देहनिवृत्तौ च ज्ञानवृत्तिः किमाश्रया॥ १८६८॥
इन्द्रियार्थो हि विज्ञानोत्पत्तेः कारणम्, अर्थाधिगमरूपत्वाज्ज्ञानस्य, कललाद्यवस्थायां चेन्द्रियार्थयोरभावात्कथं तत्कार्यं विज्ञानं स्यादिति कारणानुपलब्ध्या मूर्च्छाद्यवस्थायां विज्ञानाभावः सिद्ध इति समुदायार्थः। नच शक्तिरूपेण तदा विज्ञानमस्तीति कल्पयितुं युक्तं, ज्ञानाश्रयस्यात्मनो नैयायिकादिप्रकल्पितस्य विज्ञानप्रबन्धस्य वा तदानीमभावात्। नच निराश्रया शक्तिर्युक्ता। तस्मात्सामर्थ्याद्देह एवतदानीमाश्रयः। अन्यस्य ज्ञानाधारात्मनः—ज्ञानाधारश्च भावस्य विज्ञानप्रबन्धस्यात्मनो वा तदानीमसत्त्वात्। ततश्चान्ते मरणावस्थायां देहस्याश्रयस्य निवृत्तौ निराश्रयं कथं ज्ञानमवतिष्ठेतेति सिद्धोऽनागतजन्माभावः॥ १८६५॥ १८६६॥ १८६७॥ ॥ १८६८॥
तदनन्तरसम्भूतदेहान्तरसमाश्रयः।
यदि देहोऽपरो दृष्टः कथमस्तीति गम्यते॥ १८६९॥
भिन्नदेहप्रवृत्तं च गजवाज्यादिचित्तवत्।
एकसन्ततिसम्बद्धं तद्विज्ञानं कथं भवेत्॥ १८७०॥
एको ज्ञानाश्रयस्तस्मादनादिनिधनो नरः।
संसारी कश्चिदेष्टव्यो यद्वा नास्तिकता परा॥ १८७१॥
अथापि स्यान्मरणसमनन्तरसमुद्भूतमन्तराभविकं देहमाश्रित्य चित्तवृत्तिर्भविष्यतीति, तदेतदसम्यक्। नहि मरणानन्तरमपरो देह उत्पद्यमानो दृष्टः। नचादृष्टस्यास्तित्वनिश्चयो युक्तः। तस्यासद्व्यवहारविषयत्वात्। नचैकसन्तानवर्त्तिनश्चेतसो देहान्तरसमाश्रयणं युक्तम्, गजवाज्यादिचित्तवदेकसन्तानसम्बन्धित्वहानिप्रसङ्गात्। प्रयोगः—यद्भिन्नदेहप्रवृत्तं विज्ञानं न तदेकसन्तानसम्बद्धं, यथा गजवाजिनोश्चित्तं,भिन्नदेहवृत्तं चान्तराभावमरणभवयोश्चित्तमिति व्यापकविरुद्धोपलम्भप्रसङ्गः। नचैवं, तस्माद्विपर्ययः। यदेकसन्तानसम्बद्धं तद्भिन्नदेहप्रवृत्तं न भवति, यथा गजचित्तमश्वदेहानाश्रितम्, एकसन्तानसम्बद्धं च प्राणिनश्चित्तमिति विरुद्धव्याप्तोपलब्धिः। भिन्नदेहप्रवृत्तत्वविरुद्धेनाभिन्नदेहप्रवृत्तत्वेनैकसन्तानसम्बद्धत्वस्य व्याप्तत्वात्। एक इत्याद्युपसंहारः। आदिरुत्पादो निधनं नाशः, न विद्येते आदिनिधने यस्यासा वनादिनिधनः। नर इत्यात्मा। यद्वा नास्तिकता परेत्यनेन परलोकिनोऽभावात्परलोकाभाव इत्येतत्सूत्रं सूचयति॥ १८६९॥ १८७०॥ १८७१॥
“तदत्रे”त्यादिना प्रतिविधत्ते।
तदत्र परलोकोऽयं नान्यः कश्चन विद्यते।
उपादानतदादेयभूतज्ञानादिसन्ततेः॥ १८७२॥
काचिन्नियतमर्यादाऽवस्थैव परिकीर्त्यते।
तस्याश्चानाद्यनन्तायाः परः पूर्व इहेति च॥ १८७३॥
दृष्टमात्रसुखासक्तैर्यथैतावति कल्प्यते।
परलोकोऽन्यदेशादिस्तथाऽत्रास्माभिरुच्यते॥ १८७४॥
यदि तद्व्यतिरिक्तस्तु परलोको निषिध्यते।
तदा साधनवैफल्यं तदसत्त्वे विवादतः॥ १८७५॥
सन्ततेर्नन्ववस्तुत्वान्नावस्थान्तरसम्भवः।
तत्रावस्थापितो लोकः परो वा तात्त्विकः कथम्॥ १८७६॥
नैव सन्ततिशब्देन क्षणाः सन्तानिनो हि ते।
सामस्त्येन प्रकाश्यन्ते लाघवाय वनादिवत्॥ १८७७॥
तत्र कोऽयं परलोको नाम यस्य भवता निषेधः क्रियते, किं विज्ञानादिस्कन्धचतुष्टयादुपादानोपादेयत्वेन कार्यकारणभूतादन्य आहोस्वित्तदेव। न तावदाद्यः पक्षः,तस्यानभ्युपेतत्वात्। नह्युपादानोपादेयभूताया विज्ञानादिसन्ततेरन्यः परलोकोऽत्रास्ति, यस्याभ्युपगमः स्यात्। किं तर्हि ?। तस्या ज्ञानादिसन्ततेरनाद्यनन्तायाः काचिदेव वर्षशन्ताद्यबधिरूपमर्यादाव्यवस्थैव परलोकः पूर्व इहेति वा व्यवस्थाप्यते। यथा भवद्भिर्दृष्टमात्रसुखाभिषङ्गादेतावतीन्द्रियगोचर एवान्यदेशादिः परलोकादित्वेन कल्पते। यथोक्तम्— एतावानेव पुरुषो यावानिन्द्रियगोचरः, तथा पुनरुक्तदेशान्तरं कालान्तरमवस्थान्तरं वा परलोक इति। यदि तु कार्यकारणभूतविज्ञानादिसन्तानव्यतिरिक्तस्य परलोकस्य निषेधः क्रियते तदा सिद्धसाध्यत्वात्साधनवैफल्यं, तथाभूतस्य परलोकस्यानभ्युपगतत्वात्। ननु च सन्ततेरवस्तुत्वात्तस्यामवस्थाविशेषो योव्यवस्थापितः सोप्यवस्त्वेव, ततश्च तत्र तस्यां सन्तताववस्थाविशेषेऽवस्थापितोऽयं परलोकोऽपि न पारमार्थिकः स्यात्। नैष दोषः। सन्ततिशब्देन क्षणा एव वस्तु भूताः सन्तानिनो व्यवहारलाघवाय सामस्त्येन युगपत्प्रकाश्यन्ते, वनादिशब्देनेवधवादयः॥ १८७२॥ १८७३॥ १८७४॥ १८७५॥ १८७६॥ १८७७॥
कथं तर्हि सन्ततेरवस्तुत्वं पूर्वमुक्तं सन्तानादीव कारित्रमित्यत्र प्रस्ताव इत्याह—“एकत्वेने”त्यादि।
एकत्वेनावक्लृप्तत्वान्निःस्वभावतया मता।
तत्त्वान्यत्वाद्यनिर्देश्या वियत्कमलपङिक्तवत्॥ १८७८॥
सा चानादिरनन्ता च न सिद्धिं कथमृच्छति।
यद्यहेतुकमेतत्स्याच्चित्तमाद्यतया मतम्॥ १८७९॥
नित्यहेतुसमुद्भूतं नित्यं सत्स्वत एव वा।
भूतमात्रोद्भवं वाऽपि यद्वाऽन्यज्ञानमात्रजम्॥ १८८०॥
गर्भादावादिविज्ञानं तत्राहेतु न युज्यते।
कादाचित्कतया सत्त्वं सर्वथाऽस्यान्यथा भवेत्॥ १८८१॥
नापि नित्यमनःकालदिगीशात्मादिभिः कृतम्।
तत एव सदा सत्त्वप्रसङ्गात्तदभावतः॥ १८८२॥
एकं नित्यस्वभावं च विज्ञानमिति साहसम्।
रूपशब्दादिचित्तानां व्यक्तं भेदोपलक्षणात्॥ १८८३॥
क्षोणीतेजोजलादिभ्यो भूतेभ्यो भूतिरस्य न।
व्यक्तिर्वा सर्वचित्तानां यौगपद्यप्रसङ्गतः॥ १८८४॥
स्थिररूपं परैरिष्टं तद्धि भूतचतुष्टयम्।
सहकारिव्यपेक्षाऽपि स्थिरे पूर्वमपाकृता॥ १८८५॥
या त्वेकत्वेन कल्पिता सन्ततिः सा तत्त्वान्यत्वाभ्यामवाच्यत्वादवस्तुत्वेनाभिमता—आकाशाम्भोरुहपङ्क्तिवदिति, न तस्या अवस्थाविशेषे परलोकव्यवस्थाऽस्माभिः क्रियते। अथास्या एव विज्ञानादिसन्ततेः परलोकसञ्ज्ञितायाः प्रतिषेधः क्रियते, तदा तस्यास्तावत्स्वरूपनिषेधद्वारेण परलोकनिषेधो न शक्यते कर्तुं, दृष्टस्यापह्नोतुमशक्यत्वात्। किं तर्हि ?। अनाद्यनन्तत्वधर्मनिषेधद्वारेण। सा चेयमनाद्यनन्ता कथं न सिद्ध्यति। यदि यत्तज्जन्मचित्तमाद्यतया मतं निर्हेतुकं वा स्यात्, नित्यविज्ञानेश्वरादिहेतुसमुद्भूतं वा, यद्वा स्वत एव नित्यं, भूतमात्रादुत्पन्नं वा, अन्यसन्ता नवर्त्तिज्ञानहतुकं वेति पञ्च पक्षाः। यदि हि स्वसन्तानवर्त्तिपूर्वपूर्वज्ञानहेतुकं पूर्वमेव चित्तं स्यात्तदा स्यादनादिता चित्तसन्ततेर्नान्यथेत्यभिप्रायेणैषां पक्षाणामुपन्यासः। तत्र न तावदाद्यः पक्षो नित्यसत्त्वादिप्रसङ्गात्। अपेक्षया हि भावाःकादाचित्का भवन्ति, यश्च निर्हेतुकः स न किञ्चिदपेक्ष्यत इति किमिति विरमेत। नापि द्वितीयपक्षोऽत एव नित्यसत्त्वप्रसङ्गात्। कारणवैकल्याद्धि कार्याणामसत्त्वं, यच्चाविकलकारणं तत्किमिति न भवेदिति वक्तव्यम्। नापि तृतीयः पक्षः, कस्मात् ?, तदभावतः—सदा सत्त्वाभावतः। एकमित्यादिना तमेव तदभावं दर्शयति। अनेन प्रतिज्ञायाः प्रत्यक्षे विरोधमाह। “क्षोणी”त्यादिना चतुर्थं पक्षं निराकरोति। क्षोणी —पृथिवी। नित्येश्वरादिहेतुसमुद्भवपक्षवदत्रापि तुल्यो दोषः, यतो महाभूतचतुष्टयं परैर्नित्यमिष्टम्। नच सहकारिकारणापेक्षणानुक्रमेण नित्यादुत्पत्तिरिति युक्तं वक्तुम्, नित्यस्यानुपकारिणि सहकारिणि नापेक्षेति निर्लोठितप्रायत्वात्॥ १८७८॥ ॥ १८७९॥ १८८०॥ १८८१॥ १८८२॥ १८८३॥ १८८४॥ १८८५॥
अथ क्षणिकमेवेदं परैरप्यभिधीयते।
कथं स्वोपगमस्तेषामेवं सति न बाध्यते॥ १८८६॥
बाध्यतां काममेतत्तु न्याय्यमित्युपगम्यते।
क्षणिकं सर्वयुक्तिभ्यः सर्वभावविनिश्चितम्॥ १८८७॥
अथेदं महाभूतचतुष्टयं परैश्चार्वाकैः क्षणिकमभ्युपगम्यते यथोक्तदोषभयात् तदाऽपि दोष एवेत्यभिप्रायः। तथाहि—न तावद्बुद्धिदेहयोः कार्यकारणभावसिद्धौकिञ्चित्प्रमाणमस्ति, परस्य येन तद्व्यवहारः सिद्ध्येत्। प्रयोगः—यत्र यद्भावसिद्धौ न किञ्चित्प्रमाणमस्ति न तत्र तद्व्यवहारः प्रेक्षावता कार्यः, यथा वह्नौ शीतव्यवहारः। नास्ति च बुद्धिदेहयोः कार्यकारणभावसिद्धौ किञ्चित्प्रमाणमिति व्यापकानुपलब्धिः। नचासिद्धता हेतोः, तथाहि—प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावः स चान्वयाद्व्यतिरेकाद्वा विशिष्टादेव निश्चीयते, न दर्शनादर्शनमात्रेण। तत्रान्वयात्कार्यनिश्चये कर्त्तव्ये येषामुपलम्भे सत्युपलब्धिलक्षणप्राप्तं पूर्वमनुपलब्धं सदुपलभ्यत इत्येवमाश्रयणीयम्, अन्यथा हि यद्युपलब्धिलक्षणप्राप्तमनुपलब्धमित्येवं नापेक्षेत, तदा तत्र कार्यस्य प्रागपि सत्त्वमन्यतो वा देशेऽपगमनं (सम्भाव्येत)। येनकारणात्प्रागवस्थिताः कुट्यादयस्तेषां कारणता न निषिद्धा स्यात्। उपलब्धिलक्षण प्राप्तानुपलम्भोपदर्शने तु सा निषिद्धा भवति। तत्र तस्या व्यभिचारात्। एवं तावदन्वयात्कार्यनिश्चयः। व्यतिरेकादपि कार्यनिश्चये सत्सु तदन्येषु समर्थेषु तद्धेतुषु यस्यैकस्याभावे न भवतीत्येवमाश्रयणीयम्, अन्यथा हि केवलं तदभावे न भवतीत्युपदर्शने सन्दिग्धमत्र तस्य सामर्थ्यं स्यात्, अन्यस्यापि तत्समर्थस्याभावात्, ततश्चैवमपि सम्भाव्येत—अन्यदेव तत्र समर्थमस्ति, तदभावात्तन्निवृत्तं, यत्पुनरेतन्निवृत्तौ सत्यामस्य निवृत्तिरुपलभ्यते सा यदृच्छासंवादः। मातृविवाहोचितदेशजन्मनः पिण्डखर्जूरस्यान्यत्र देशे मातृविवाहाभावे सत्यभाववत्। तस्मात्समर्थेष्वितिविशेषणीयम्। एवं हि तस्यैव कारणत्वं निश्चीयते, तद्व्यतिरेकस्यैवानुविधानात्। नह्यनुपकारिणो व्यतिरेकः केनचिदनुविधीयतेऽतिप्रसङ्गात्। एवमन्वयव्यतिरेकाभ्यामसन्दिग्धं कार्यकारणत्वं प्रतीयते नान्यथा। न चेदृशोऽन्वयो व्यतिरेको वाकायचित्तयोर्निश्चितोऽस्ति। तथाहि—न तावत् स्वदेहबुद्ध्योरन्वयनिश्चयः शक्यते कर्तु गर्भादौ प्राक्र्वित्तोत्पत्तेः केवलकायोपलम्भाभावात्, नहि चित्तमन्तरेणोपलम्भो भवति। परशरीरेऽपि चेतसोऽनुपलब्धिलक्षणप्राप्तत्वान्न पौर्वापर्यग्रहणमस्ति। ततो नान्वयनिश्चयः। नापि व्यतिरेकनिश्चयः। तत्रापि हि न तावदात्मदेहव्यतिरेकेण स्वबुद्धिव्यतिरेको ज्ञातुं शक्यः, सर्वथा स्वयमभावात्। नापि परदेहव्यतिरेकेण तत्सम्बन्धिन्या बुद्धेर्व्यतिरेको निश्चेतुं पार्यते। तद्बुद्धेरनुपलब्धिलक्षणप्राप्तत्वेन देहनिवृत्तावपि बुद्धिव्यतिरेके संशयात्। अतएव कुट्यादौ देहाभावेऽपि न बुद्धिव्यतिरेकनिश्चयः। तत्रापि तत्सत्तायामनुपलब्धिलक्षणप्राप्तत्वेन संशयात्। परिस्पन्दादिकार्य(र्या ?)दर्शनादप्यभावनिश्चयो न युक्तः, नावश्यं (हि) कारणानां कार्यवत्त्वात् (त्त्वम् ?) अपिच देहविशेषपरिग्रहहेतोस्तृष्णाविपर्यासलक्षणस्य स्वकारणस्याभावात्किं तत्र कुट्यादौ बुद्धेरभाव आहोस्विद्देहव्यतिरेकादिति संशयः। तस्मान्नासिद्धो हेतुः। नापि विरुद्धः सपक्षे भावात्। नाप्यनैकान्तिकोऽतिप्रसङ्गात्, प्रेक्षावत्वहानिप्रसङ्गाच्च। तव तर्हि बुद्धेर्न देहः कारणमित्यत्र किं बाधकं प्रमाणमिति चेन्न, समस्त्येव प्रमाणम्। तथा च मनोमतेर्न देहः कारणमित्यत्र स्वतन्त्रा मानसी बुद्धिरित्यादिना प्रमाणमुपदर्शयिष्यति। तस्या एव देहान्तरप्रतिसन्धानं प्रत्याधिपत्त्याद्देहानाश्रितत्वे सिद्धे परलोकसिद्धेः। किञ्च—मनोमतेर्देहः कारणं भवतु, एकोऽवयविरूपो वा भवेदनेको वा परमाणुसञ्चयात्मकः, यद्वा—सेन्द्रियोऽनिन्द्रियो वा, किमुपादानकारणमाहोस्वित्सहकारिकारणमिति विकल्प्यते तत्र न तावदेकोऽवयवी युक्तः, तस्य पूर्वनिषिद्धत्वात्। चतुर्महाभूतात्मकत्वहानिप्रसङ्गाच्च न ह्येकस्य स्वभावचतुष्टयं युक्तमनेकव्यवहारोच्छेदप्रसङ्गात्। न(च) स्यादनेकपरमाणुसञ्चयात्मकोऽङ्गीकर्त्तव्यः। ते च परमाणवः प्रत्येकं वा हेतवः स्युः समुदिता वा। न तावत्प्रत्येकं, प्रतिबीजाङ्कुरोत्पादवत्प्रतिपरमाणुविकल्पोत्पत्तिप्रसङ्गात्। नापि समुदिताः, नासिकाद्येकाङ्गवैकल्येऽपि मानसानुत्पादापत्तेः, क्षित्यादीनामन्यतरापायेऽङ्कुरानुत्पत्तिवत्। नहि सामग्रीप्रतिबद्धं कार्यमन्यतराभावे भवति, तत्प्रतिबद्धस्वभावत्वहानिप्रसङ्गात्। अथ यथा सन्निधानं सर्वेऽपि चैतन्यस्य हेतवः। एवं तर्हि विकलाविकलाङ्गदेहजनितयोर्विशेषेण भवितव्यं कारणभेदात्। अन्यथा कार्यस्य भेदो निर्हेतुकः स्यात्। नवाऽविकलाङ्गस्य सतः पश्चाद्विकलाङ्गतायामुपजातायां कश्चिन्मनोमतेर्विशेषोऽस्ति। श्रुतादिसंस्कारस्य तदानीमप्यविकलस्यैवानुवृत्तेः। गजादिदेहवर्त्तिनी च मनोमतिरतिशयवती प्राप्नोति, न मनुष्यधीः। ये बाल्यशरीरमनुजन्मानस्ते मन्दधियः, महाशरीरास्तु पटुधियः। कारणस्य निर्ह्रासातिशयाभ्यां कार्यस्य निर्ह्रासातिशययोगदर्शनात्। नहि यद्भेदाद्यस्य भेदो न भवति, तत्तस्य कार्यं युक्तमतिप्रसङ्गात्। कार्यभेदस्य च निर्हेतुकत्वप्रसङ्गाच्च। नापि सेन्द्रिय इति पक्षः। तथाहीन्द्रियात्प्रत्येकंवा मनोमतिः स्यात्समस्ताद्वा। न तावत्प्रत्येकम्, एकैकेन्द्रियापायेऽपि मनोमतेरविकलत्वात्। तथाहि—प्रसुप्तिकादिरोगादिना कार्येन्द्रियादीनामुपघातेऽपि मनोधीरविकृतैकाऽविकलां स्वसत्तामनुभवति। नच यस्य विकारेऽपि यन्न विक्रियते तत्तत्कार्यं युक्तमतिप्रसङ्गात्। किञ्च—चक्षुरादिविज्ञानवत्प्रतिनियतार्थग्राहिता निर्विकल्पकत्वमर्थसन्निधानसापेक्षप्रवृत्तिकता च प्राप्नोति, अभिन्नकारणत्वात्। युगपदनेकविकल्पोत्पत्तिप्रसङ्गाच्च। नापि समस्तादिति पक्षः—एकेन्द्रियाभावेऽप्यभावप्रसङ्गात्। एकसहकार्यपायेऽङ्कुराद्यपायवत्। नाप्यनिन्द्रिय इति पक्षः, कलेवरच्युतस्यापि पाण्यादेस्तद्धेतुत्वप्रसङ्गात्। विशिष्टस्य हेतुत्वे सेन्द्रिय एवेष्टः स्यात्। नहि सेन्द्रियादन्यो विशिष्टः शक्यते दर्शयितुम्। नाप्युपादनकारणमिति पक्षः। तथाहि —यः कार्यगताशेषविशेषानुयायिनः स्वभावस्य सदा चात्मसत्ताप्रत्युपस्थानतस्तदुपकारी यस्य विकारापादनमन्तरेण कार्यमशक्यविकारं स एव कारणविशेष उपादानत्वेन प्रसिद्धः। यथा पूर्वपूर्वो मृदात्मा कलाप उत्तरोत्तरस्य घटसञ्ज्ञितस्य कार्यकलापस्योपादानम्। अत एव यो यद्विकारयितुमिच्छति स तदुपादानविकारेणैव तद्विकारयति नान्यथा। न ह्युपादाने पूर्वस्मिन्नप्रतिबद्धसामर्थ्ये सति कार्यस्योत्तरस्योत्पि त्सुनः केनचित्प्रतिघातः शक्येत कर्तुम्। यथा घटादेरुत्तरस्योत्पत्स्यमानस्य कार्यस्य पूर्वकं मृदात्मानमप्रतिबद्ध्य (द्ध्या ?) समर्थक्षणोत्पादनतः शक्यते न विकारापादानं(?) कर्तुम्। सर्वत्रैव च विकारोत्पादनेऽयमेव क्रमो यदुतासमर्थान्तरोपादानक्षणोत्पादनम्(?)। अन्यथा न किञ्चित्साक्षाद्विरुद्धं सम्भवति। यदि हि सम्भवेत् कार्यस्यापि कारणविकारापादनवत्साक्षाद्विकारापादनं स्यात्, नोपादानविकारापादनद्वारेणैव। यत्पुनः प्रदीपमधिकृत्यैव देशान्तरवर्त्तिन्यास्तत्प्रभाया अन्तरावरणेनविकारापादनं क्रियते, तन्न तस्याः साक्षात्प्रदीप उपादान्नकारणम्। किं तर्हि ?। पूर्वपूर्वः प्रभाक्षणः। तथैवासमर्थक्षणान्तरोत्पादनलक्षणविकारापादनात्। आवरणेन प्रभा प्रतिहन्यते। यत्पुनर्वस्त्वधिकृत्यैव यद्विकार्यते न तत्तदुपादानं, यथा गवयमधिकृत्य गौर्विकार्यमाणः। अविकृत्य च शरीरं मनोमतेरनिष्टाचरणादिना दुर्मनस्कृतादिलक्षणस्य विकारस्योपादानं क्रियत इति व्यापकविरुद्धोपलब्धिः। ननु चाहारश्चापा(पाका ?)दिना देहस्य पुष्ट्यादिविकारे सति रागादिलक्षणा मनोमतेर्विकारापत्तिर्दृश्यत एव। यदि नाम दृश्यते ततः किम्। नह्येतावता हेतोरसिद्धत्वम्। तथाहि—यदविकारेऽपि यस्य विकारापादनं सम्भवति न तत्तदुपादानमित्येतावन्मात्रमिह विवक्षितम्। सम्भवन्ति च कस्यचिदवस्थायामनिष्टाचरणादिना देहविकारापादनमन्तरेणैव बुद्धेर्विकारापादनमिति कुतोऽसिद्धत्वं हेतोः। नचाप्येवम्भूतात्कादाचित्कात्तदीयविकारानुविधानात्तदुपादनत्वं युक्तमतिप्रसङ्गात्। एवं हि विषयस्याप्युपादानत्वं स्यात्। तथाहि—शार्दूलशोणितादिबीभत्सविषयदर्शनादिबलेनापि कस्यचित्कातरमनसः सञ्जायत एव मोहादिलक्षणो मनसो विकारः, न चैतावता सा मनोमतिस्तदाश्रिता भवति। कामशोकादिवितर्केण च मनस्युपहते देहविकारदर्शनाद्देहस्यापि तदुपादानताप्रसङ्गात् किन्तु नियमेन साक्षाच्च यस्यैव यो विकारमनुविधत्ते स तदुपादानो युक्तः। नच रागादिलक्षणो विकारो नियमेन शरीरपोषादितो भवति। कस्यचित्परिपुष्टशरीरस्यापि प्रतिसङ्ख्यानवतोऽसम्भवात्। तथा परिक्षीणवपुषोऽप्ययोनिसौमनस्कारबहुलस्य पुंसस्तिर्यग्गतस्य च कस्यचिदपचितपरिमाणस्याप्यतीव रागादिदर्शनात्। नच यदभावेऽपि यद्भवति तत्तस्य कार्यं युक्तमतिप्रसङ्गात्। नापि साक्षाद्देहाद्रागादिः सम्भवति, अयोनिसौमनस्कादिव्यवहितत्वात्। तथाहि—देहपुष्टौ सत्यामन्तश्चेष्टव्यलक्षणविषयोपजनितसुखाद्यनुभवः। तत्रात्मदेहवतस्तस्मिन्सुखादौ तत्साधने च नित्यादिविपर्यासपरिगतमनसो ममेदमनुग्रा हकमुपघातकं चेत्यात्मोपकारकप्रतिकृत्यादिविकल्पस्ततस्तत्परितोषदौर्मनस्यादिसम्भवस्तस्माच्च सुखादिविषयाध्यवसायादिप्रसूतय इत्येतच्चान्वयव्यतिरेकाभ्यां प्रतीतमेव।सौमनस्यादिसम्भव एव रागादिदर्शनात्, सत्यपि पुष्ट्यादौ तदसम्भवे चादर्शनात्। अतो न पुष्ट्यादि साक्षान्मनोमतेर्विकारकम्। अत एव च साक्षादनुपकारित्वात्सहकारिकारणमपि न देहस्तस्या इति सिद्धम्। साक्षादेवोपकारिणामङ्कुरादिषु क्षित्यादीनां सहकारित्वप्रसिद्धेः, अन्यथाऽतिप्रसङ्गः स्यात्। तस्मात्सजातीयपूर्वबीजप्रबोधप्रवृत्तय एव रागादयः। देहपुष्टियौवनकालादयस्तु केषाञ्चित्प्रतिसङ्ख्यानाभ्यासविकलानां तद्वासनाप्रबोधहेतवो भवन्ति। भवतु वा साक्षादुपकारी देहो मनोमतेःस्वोपादानप्रवृत्तायाः कदाचित्। तथाऽपि न देहनिवृत्तावपि तस्या निवृत्तिः सिद्ध्यति। यथा वह्निनिवृत्तावपि न घटादिविनिवृत्तिः स्वोपादानप्रवृत्तत्वादिति नानिष्टापत्तिः। नाप्यनैकान्तिकता हेतोरतिप्रसङ्गात्। नापि विरुद्धता सपक्षे भावात्। अतो नोपादानकारणं देहः। नापि सहकारिकारणमिति सिद्धं मनोमतेः पूर्वपूर्वबुद्धिप्रभवत्वमेव। स्यादेतत्—ययोः सहस्थितिनियमस्तावुपादानोपादेयभूतौ यथा प्रदीपप्रभे। अस्ति च सहस्थितिनियमः शरीरमनोविज्ञानयोरिति स्वभावहेतुः। तदयमन्यतरासिद्धो हेतुः। विरूपे धातौ शरीरमन्तरेणापि मनोमतेरवस्थानाभ्युपगमात्।नापीष्टसिद्धिर्मनोमतेरपि देहं प्रत्युपादानत्वप्रसङ्गात्। अनैकान्तिकता च। हेतुभेदादपि सहावस्थानसम्भवात्। यथाऽग्निताम्रद्रवत्तयोः। तथाहि—वह्निसहकारिताम्रं द्रवत्तामारभते, न केवलम्, एवमिहापि देहस्योपादानं कललादि मनोविज्ञानसहकारि देहमुत्तरमारभते, इत्यतस्तयोः सह स्थानं नोपादानोपादेयभावादित्यतोऽनेकान्त एव। अथापि स्यात्—यद्यप्युत्तरकालं मनोधीः पूर्वपूर्वबुद्धिप्रभवा भवति, तथापि या प्रथमकालभाविनी तस्या देहोपादानत्वादतो नाऽनादित्वसिद्धिरिति। तदेतदसम्यक्। न ह्यस्याः कल्पनायाः किञ्चित्साधकं प्रमाणमस्तीति प्रतिपादितमेतत्। बाधकमपि नास्तीति चेन्न। विद्यत एव बाधकम्। तथाहि—यदि देहात्सकृदुत्पन्ना सती मनोधीः पश्चात्सजातिसमुद्भवा स्यात्तदोत्तरकालं सर्वदैव पूर्वपूर्वमनोविज्ञानसमुद्भवैव स्यात्, न विजातीयचक्षुरादिविज्ञानसमुद्भवा, न हि धूमोऽग्नेः सकृदुद्भूय पश्चादन्यतो विजातीयादुद्भवति। नच मनोमतिरुत्तरकालं मनोविज्ञानसमुद्भवैवानुभूयते। किं तर्हि। अनियतसमनन्तरप्रत्ययप्रसवा। नच यद्यतः प्रथमतरमुदयमासादयत्समुपलब्धं तत्ततोऽन्यतो भवितुमर्हति, अहेतुकत्वप्रसङ्गात्। प्रथमतरं वा नियतचक्षुरादिविज्ञानसमनन्तरमुदयमासादयन्ती मनोधीरनुभूयत इति। अतोऽप्रतिनियतविज्ञानमात्रभाविनीति सिद्धम्। किञ्च—यदि प्रथमकाल एव मनोमतेरुपादानकारणं देहो नोत्तरकालं तदा देहनिरपेक्षा सा किं न प्रवर्त्तेत,नह्यनुपकारिणि देहे तस्याः काचिदपेक्षा युक्ता। यस्यापि तद(व ?)बुद्ध्यन्तरपूर्विका बुद्धिस्तस्यापि केवला किं न प्रवर्त्तत इति चेन्न। प्रवर्त्तत एव। यथा विरूपे धातौ। याऽनुरूपे स्पृहावती सा तत्सापेक्षा वर्त्तत इत्यनुपालम्भ एव। अथोत्तरकालं देहस्याप्युपकारित्वमङ्गीक्रियते तदाऽनेकविज्ञानप्रबन्धप्रसवप्रसङ्गः। शरीरस्यापरविज्ञानोपादानभूतस्याविकलस्य तज्जनकत्वेनावस्थितत्वात्। तथाहि—यद्यदेवोत्पद्यते देहाद्विज्ञानं तत्तदपरं पृथक्पृथग्विज्ञानं सन्तनोतीत्येकस्य प्राणिनः प्रतिक्षणमप्रमेयविज्ञानसन्तानाः प्रसूयेरन्। नचैवमनुभवोऽस्ति। अथापि स्यादुत्तरकालं देहस्य नोपादानकारणत्वेन पृथगुपकारित्वमिष्टम्। किं तर्हि ?। प्रबन्धेन स्वोपादानतः प्रवर्त्तमानाया मनोधिय उत्तरोत्तरकार्यप्रसवं प्रति सहकारित्वादुपकारी देह इत्यतो न देहनिरपेक्षा सा प्रवर्त्तत इति। एतदपि मिथ्या। नहि यो यस्य यथा जनकत्वेन प्रसिद्धः स तं जनयन्नन्यथा जनयति विशेषाभावात्। तथाह्यालोकादिरनुपहतचक्षुर्विज्ञानं प्रत्यालम्बनभावेन जनकत्वमनुभूय न पुनस्तस्यान्यथा जनको भवति। यदाह— ग्राह्यताया न खल्वन्यज्जननं ग्राह्यलक्षणम्। साक्षान्न ह्यन्यथा बुद्धे रूपादिरुपकारक इति। अन्यथा कार्यस्य कारणकृतस्वभावभेदाभेदस्य व्यवस्थानं न स्यात्, तद्गतोपकाराननुविधानात्। ततश्चाहेतुकत्वप्रसङ्गः। नच प्रथमकालं देहस्य विज्ञानं प्रति साक्षाज्जनकत्वव्यतिरेकेणान्यदुपादानत्वं त्वया गृहीतम्। किं तर्हि ?। साक्षादुपकारित्वमेव। तच्चोत्तरकालमप्यस्तीति किं नोपादानकारणं स्यात्। अथान्यत्पूर्वमपि माभूत्पश्चाद्वदविशेषात्। नचोत्तरकालमपि पूर्वविज्ञानसहकारी देह एवोत्तरोत्तरबुद्धेरुपादानं भविष्यतीति शक्यं वक्तुम्, पूर्वं विस्तरेणोपादानत्वस्यनिषिद्धत्वात्। प्रथमजन्मबुद्धेरपि बुद्ध्यन्तरपूर्वकत्वप्रसङ्गात्। अतएवानित्यभूतपक्षेप्येतदाचार्यीयं दूषणं सुतरां श्लिष्यति। यदाह— देहात्सकृदुत्पन्ना धीर्यदि स्वजात्या नियम्यते।(?) परतश्चेत्समर्थस्य देहस्य विरतिः कुत इति। तस्मात्सिद्धा मनोबुद्धेरनादिता। अथवा सर्वैव बुद्धिरविशेषेणानादिः सिद्धा। तथाहि—आदिबुद्धिर्भवन्ती, अक्षबुद्धिर्वा भवेत्, मनोबुद्धिर्वा। न तावदाद्यः पक्षः, सुप्तमूर्च्छान्यचित्तानां सत्यप्यक्षेऽनुगुणमनस्काराभावादक्षबुद्धेरनुत्पत्तेः। अतो न केवलमिन्द्रियमक्षबुद्धेः कार णम्। अपि तु मनस्कारविशेषसापेक्षमिति निश्चीयते। अन्वयव्यतिरेकसमधिगम्यत्वात्कार्यकारणभावस्य। न चापि यतो यत्प्रथमतरमुत्पद्यमानं निश्चितं तत्ततोऽन्यस्मात्प्रथमतरमुदयमासादत्यहेतुकत्वप्रसङ्गात्। धूम इवानग्नेः। प्रथमतरं चाक्षबुद्धिरुत्पद्यमानाऽनुगुणमनस्कारसापेक्षैवोत्पद्यत इति। तस्मान्न केवलमिन्द्रियमस्याः कदाचित्कारणमिति सिद्धम्। अन्यथा निर्हेतुकत्वप्रसङ्गो बाधकं प्रमाणम्। नापि मनोबुद्धिरिति पक्षः। नहि साऽक्षैरनुपलब्धेऽर्थे स्वातन्त्र्येण प्रवर्त्तते, अन्धबधिराद्यभावप्रसङ्गात्। प्रवर्त्ततां वा, किं सा सविकल्पिका, आहोस्विदविकल्पिकेति वक्तव्यम्। तत्र न तावदाद्यः पक्षः। तथाहि—विकल्पः प्रवर्त्तमानः सर्व एव बोधकशब्दाकारानुस्यूत एव वर्त्तते, अन्तर्जल्पाकारतया नित्यमनुभूयमानत्वात्। सा चवाचकशब्दाकारता विकल्पस्य सङ्केतग्रहणवशाद्वा भवेत्, यद्वा वाचकात्मनः शब्दरूपस्य ज्ञानात्मधर्मरूपत्वाद्बोधरूपवच्छब्दार्थग्रहणाद्वेति विकल्पात्। तत्र न तावत्सङ्केतग्रहणादिति पक्षः, पूर्वं सङ्केतस्यागृहीतत्वात्। नापि द्वितीयः पक्षः। तथाहि —द्विविधः शब्दात्मा स्वलक्षणरूपः सामान्यलक्षणरूपश्च, तत्र यस्तावत्स्वलक्षणरूपस्तस्यावाचकत्वानुभवाकारतया ज्ञानस्य सविकल्पकत्वं नाप्यसौ ज्ञानस्यात्मगतो धर्मो नीलादिवद्बहीरूपेण भासनात्। अन्यथा हि नीलादीनामपि ज्ञानधर्मत्वं स्यात्। अविशेषात्। ततश्च विज्ञानमात्रमेव विश्वं स्यात् न भूतपरिणामरूपम्। ननु साकारज्ञानपक्षे नीलादिप्रकारो ज्ञानस्यात्मगत एव धर्मो बहीरूपेण भासते तत्किमुच्यते बहीरूपेण भासनाज्ज्ञानात्मधर्मो न भवतीति। सत्यमेतत्। किन्तु बाह्यार्थोपरागितया ज्ञानस्य तथा प्रतिभासनान्नात्मगतोऽसौ ज्ञानस्येति व्यवस्थाप्यते। किं तर्हि ?। बाह्यस्यैवेति। तत्रैव तस्य निजत्वात्। ज्ञाने तु तस्यार्थोपधानकृतत्वेनागन्तुकत्वात्।तस्मान्न स्वलक्षणरूपः शब्दात्मा वाचको नाप्यसौ ज्ञानात्मधर्मः। सामान्यलक्षणरूपस्तु यद्यपि वाचकस्तथाप्यसौ ज्ञानात्मधर्मो न भवति। बाह्यपरशब्दस्वलक्षणश्रोत्रावसेये तस्य योज्यमानत्वात्, न ज्ञानात्मनि। न ह्यन्यगतं सामान्यमन्यत्र योज्यते, ज्ञानेऽतिप्रसङ्गात्। एवं हि गोत्वमश्वादावपि योज्येत। नचागृहीतशब्दस्वलक्षणे धर्मिणि तद्धर्मो बाचकात्मा योजयितुं शक्यते। धर्माणां धर्मिपरतन्त्रतया स्वातन्त्र्येणाग्रहणात्। नापि विकल्पेन स्वलक्षणात्मा धर्मी ग्रहीतुं शक्यते। तस्य सामान्यलक्षणविषयत्वात्। तस्मादनादिस्वलक्षणानुभवाहितवासनाप्रबोधजन्मानो विकल्पा इति सिद्धम्। नापि शब्दार्थग्रहणादिति पक्षः, न ह्यर्थे शब्दाः सन्ति तदात्मानो वा, अव्युत्पन्नस्यापि प्रतीतिप्रसङ्गात्। यथेष्टमर्थेषु नियोगाभावप्रसङ्गाच्च। किञ्च—अनित्यादिरूपेणार्थस्याविशेषेऽपि न विकल्पः सर्वानाकारान्युगपद्विकल्पयति। आकारान्तरव्यवच्छेदेन प्रतिनियतैकाकारोपग्रहेणैव विकल्पस्योत्पत्तेः। अतश्चैकाकारविकल्पेन कारणं वक्तव्यम्। न चाभ्यासात्तदन्यद्वक्तुं शक्यम्, यथा कुणपादिविकल्पानाम्। ततश्च पूर्वाभ्यासवशेन विकल्पकस्य प्रवृत्तेरनादिर्विकल्पकबुद्धिरिति सिद्धम्।अथाविकल्पिकेति पक्षस्तदा न कदाचिद्विकल्पिका बुद्धिरुत्पद्यते। प्रोक्तनीत्या सङ्केतवशादुत्तरकालमुत्पद्यत इति चेन्न। निर्विकल्पकज्ञाने स्थितस्य भ्रंशः (पुंसः ?) सङ्केतस्य कर्त्तुमशक्यत्वात्। तथाहि न यावच्छब्दसामान्यमर्थसामान्यं वा बुद्धाववभासते न तावत्सङ्केतः शक्यते कर्तुम्। नच विकल्पे विज्ञाने सामान्यं प्रत्यवभासते। यच्च प्रत्यवभासते स्वलक्षणं न तत्र तेन वा सङ्केतः क्रियते। व्यवहारार्थत्वात्तस्य। न च सङ्केतकालदृष्टस्य स्वलक्षणस्य व्यवहारकालेऽस्ति सम्भव इति न स्वलक्षणे सङ्केतकरणात्पूर्वं विकल्पोऽवश्याभ्युपगन्तव्यः। स चाभ्यासमन्तरेण न सिद्ध्यतीति सिद्धाऽनादिता। अपि च—यदि पूर्वजन्माभ्यासाहितवासनान्वयात्प्रथमजन्मभाविनी नेष्यते बुद्धिस्तदा सद्योजातस्य सतः शिशोस्तिर्यग्गतस्यापीदं सुखस्य साधनमिव दुःखस्येति व्यवसायः कथं भवेत्। येन सुखसाधनं स्तनादिकमन्विच्छति। तच्चालभमानो रोदनमारभते, प्राप्य च सहसा व्यपगतरुदितोऽभ्यवहारादिक्रियां कुरुते। न ह्यनेन कदाचित्स्तनादेः क्षुत्पीडाद्युपशमनादिहेतुत्वमनुभूतम्। नचापिप्रपातपतनादेरुपहतिकारणता। येन सद्यो जातोऽपि वानरादिशिशुरवपातपतनप्रभवदुःखान्मरणभीतो मातुरतीव क्रोडमाश्लिष्यति, प्रपातादिस्थानं च परिहरति। नह्यननुभूतेष्टानिष्टसाधनफलानि नियमेन जिहासन्त्युपादित्सन्तेवाऽतिप्रसङ्गात्। अयसोऽयस्कान्तापसर्पणदृष्टान्तोऽप्ययुक्त एव, नहि तन्निर्हेतुकं, सर्वदा सत्त्वादिप्रसङ्गात्। सहेतुकत्वे वा यथा तस्य हेतुरयस्कान्तो निर्दिश्यतेऽन्वयव्यतिरेकसिद्धस्तथाऽस्यापि हानोपादानानुष्ठानस्य हेतुर्भाव्यः। नचासौ निर्देष्टुं शक्यते, अन्यत्राभ्यासात्। तस्मात्पूर्वाभ्यासकृत एवायं बालानामिष्टानिष्टोपादानपरित्यागलक्षणो व्यवहार इति सिद्धा बुद्धेरनादितेत्यभिप्रायः। तथाच स्वतन्त्रा मानसीत्यादिना, अपिच स्तनपानादावित्यादिना च साधारणं दूषणं वक्ष्यतीत्यलं बहुना। किञ्च—तेषां— चार्वाकाणां क्षणिकत्वमभ्युपगच्छताम्, स्वोपगमः—स्वसिद्धान्तो बाध्यते—भूतानां नित्यत्वाभ्युपगमो बा(ध्यते।)॥ १८८६॥ १८८७॥
यदि न्यायानुरागाद्वः स्वपक्षेऽप्यनपेक्षता।
भूतान्येव न सन्तीति न्यायोऽयं पर इष्यताम्॥ १८८८॥
अथ युक्त्युपेतत्वात्क्षणिकत्वमभ्युपगम्यते तदा विज्ञप्तिमात्रतानयस्तर्हि पर उत्कुष्टोऽभ्युपगम्यतां, तत्रापि युक्त्युपेतत्वस्याभ्युपगमकारणस्य तुल्यत्वात्॥ १८८८॥
कथमित्याह—“नावयव्यात्मते”त्यादि।
नावयव्यात्मता तेषां नापि युक्ताऽणुरूपता।
अयोगात्परमाणूनामित्येतदभिधास्यते॥ १८८९॥
“तेषा”मिति। महाभूतानाम्। “अभिधास्यत” इति। समनन्तरमेव बहिरर्थपरीक्षायाम्॥ १८८९॥
यदि न सन्त्येव भूतानि कथं तर्हि प्रतिभासन्त इत्याह—“अबहिस्तत्त्वरूपाणी”त्यादिना।
अबहिस्तत्त्वरूपाणि वासनापरिपाकतः।
विज्ञाने प्रतिभासन्ते स्वप्नादाविव नान्यतः॥ १८९०॥
“अन्यत” इति। विज्ञानादन्यत्र बाह्य इति यावत्॥ १८९०॥
कथं तर्हि पृथिवीत्यादिव्यवहारो लोकशास्त्रयोरित्याह—“विज्ञानस्यैवे”त्यादि।
विज्ञानस्यैव निर्भासं समाश्रित्य प्रकल्प्यते।
स्वप्नमायोपमं नेदं महाभूतचतुष्टयम्॥ १८९१॥
यदि भूतानि न सन्ति कस्तर्हि ज्ञानहेतुरित्याह—“तदन्यस्ये”त्यादि।
तदन्यस्य तदाभावे हेतुत्वं नोपपद्यते।
प्राग्भूतं भूतनिर्भासं ज्ञानं तु जनयेत्परम॥ १८९२॥
“तदन्यस्ये”ति। तस्माद्विज्ञानादन्यस्य भूतचतुष्टयस्य॥ १८९२॥
एवं भूतमात्रोद्भवं तावदाद्यं चित्तं न भवतीति प्रतिपादितम्, इदानीं च जन्यविज्ञानमात्रजमित्येतत्पक्षनिराकरणायाह—“सन्तानान्तरे”त्यादि।
सन्तानान्तरविज्ञानं तस्य कारणमिष्यते।
यदि तत्किमुपादानं सहकार्यथवाऽस्य किम्॥ १८९३॥
उपादानमभीष्टं चेत्तनयज्ञानसन्ततौ।
पित्रोः श्रुतादिसंस्कारविशेषानुगमो भवेत्॥ १८९४॥
उपादानतदादेयधर्मोऽयं यद्व्यवस्थितः।
अन्वयव्यतिरेकाभ्यां निश्चितश्च स्वसन्ततौ॥ १८९५॥
स्वोपादानबलोद्भूते सहकारित्वकल्पने।
सन्तानान्तरचित्तस्य न काचिद्व्याहतिर्भवेत्॥ १८९६॥
तत्—सन्तानान्तरचित्तं मात्रादिसम्बन्धि, उपादानकारणं वा स्यात्सहकारिकारणं वा, न तावदुपादानकारणं, पुत्रज्ञानसन्तानेऽपि मातापितृश्रुतादिसंस्कारादिविशेषानुत्प(वृ ?)त्तिप्रसङ्गात्, यथा पित्रोरेव स्वोत्तरबुद्धिषु। यस्मादुत्तरेषु क्षणेषु यत्पूर्वक्षणसंस्कारानुवर्त्तनम्। एवमुपादानोपादेयधर्मो व्यवस्थितः। स्वसन्तानेऽन्वयव्यतिरेकाभ्यां निश्चितत्वात्। अथ मतम्—यथैकस्मात्प्रदीपाद्दीपान्तरोत्पत्तौ न पूर्वदीपसंस्कारेण स्थौल्यादिलक्षणेन विशिष्टस्योत्तरस्य दीपस्य सम्भवः, किं तर्हि ?, निःसंस्कारस्य प्रदीपमात्रस्योत्पत्तिः, अन्यतस्तु तस्य दीपान्तरस्य स्वेत्व(न्ध ?)नादेः सकाशाद्विशेषः, तद्वस्तु तद्बुद्धेरिति। तन्न। यस्मात्प्रदीपादिसंस्कारः स्वाश्रयेऽपि तावत्सन्तानमवबध्नाति। अस्थिरत्वात्तस्य। तथाहीन्धनाय(प ?)चये तस्यैव दीपस्य त(अस ?)त्त्वन्दृश्यते। नत्वेवमस्थिरः श्रुतादिसंस्कारः, तस्य चिरकालमवस्थानात्। अतो न दीपादिवन्निःसंस्कारस्य बुद्धिमात्रस्य सम्भवो युक्तः। किञ्च—प्रदीपादौ बहुतराल्पतरमाणुसञ्चयोत्पादानुकल्पितौ विशेषाविशेषौ, न त्वेकस्य वस्तुलक्षणस्य तत्र विशेषोऽस्त्यविशेषो वा। इह त्वेकस्मिन्नेव वस्तुलक्षणे श्रुतादिसंस्कारेण विशेषो मातृबुद्धिवर्त्तिनि, अविशेषस्तु सुतबुद्धिवर्त्तिनीति किं केन शास्यम्। किञ्च—उपादानकारणत्वेऽयं प्रसङ्ग उच्यते, न च दीपान्तरं दीपान्तरस्योपादानकारणं, भिन्नसन्तानत्वादिति यत्किञ्चिदेतत्। अपिच येषां संस्वेदजातीनां मातैव नास्ति तेषां कथमन्यविज्ञानजा बुद्धिरित्यलं प्रसङ्गेन। अथ सहकारिकारणमिति पक्षस्तदा सिद्धसाध्यता॥ १८९३॥ ॥ १८९४॥ १८९५॥ १८९६॥
“तस्मा”दित्यनादित्वसाधने प्रमाणयति।
तस्मात्तत्रादिविज्ञानं स्वोपादानबलोद्भवम्।
विज्ञानत्वादिहेतुभ्य इदानीन्तनचित्तवत्॥ १८९७॥
प्रयोगः—यद्विज्ञानवेदनासञ्ज्ञासंस्कारस्कन्धचतुष्ट्यस्वभावं वस्तु तत्स्वोपादानबलोद्भूतं विज्ञानादित्वात्, यथा यौवनाद्यवस्थासु तदेव स्कन्धचतुष्टयम्, विज्ञानादि स्वभावश्च प्रथमजन्मचित्तादिकलाप इति स्वभावहेतुः। तत्रादिविज्ञानमिति विज्ञानग्रहणमुपलक्षणं। वेदनादयोऽपि गृहीतव्याः॥ १८९७॥
साध्यविपर्यये हेतोर्बाधकं प्रमाणमाह—“अन्यहेत्वि”त्यादि।
अन्यहेतुप्रतिक्षेपादहेतुत्वे च संस्थिते।
अन्यथा नियतो धर्मो नायं तस्य प्रसज्यते॥ १८९८॥
अन्येषां नित्यमनःकालदिगीशादीनां पूर्वं प्रतिक्षेपात्स्वोपादानस्य चानभ्युपगमेऽहेतुकत्वं स्यात्, ततश्चायं विज्ञानादित्वलक्षणो नियतो धर्मो न स्यात्। आकस्मिकस्य स्वभावस्य नियामकाभावेन प्रतिनियमायोगात्। अतो निर्हेतुकत्वे नियतविज्ञानादिधर्मानुपपत्तिर्बाधकं प्रमाणं कादाचित्कत्वानुपपत्तिश्च॥ १८९८॥
एवमतीतं जन्म प्रसाध्यानागतमपि प्रसाधयितुं प्रमाणयन्नाह—“मरणे”त्यादि।
मरणक्षणविज्ञानं स्वोपादेयोदयक्षमम्।
रागिणो हीनसङ्गत्वात्पूर्वविज्ञानवत्तथा॥ १८९९॥
यत्सरागं चित्तं तत्स्वोपादेयचित्तान्तरोदयसमर्थं सरागत्वात्पूर्वावस्थाचित्तवत्, सरागं च मरणचित्तमिति स्वभावहेतुः। नचासिद्धो हेतुः, यतो यद्भोगादिप्रतिपक्षनैरात्म्यदर्शनवियुक्तं चित्तं तत्सर्वं सरागमेव प्रतिपक्षवियुक्तत्वात्, सुरताभोगचित्तवदिति। नाप्यनैकान्तिक एतावन्मात्रहेतुकत्वाच्चिन्तरोदयस्येत्यविकलकारणानुपपत्तिर्बाधकं प्रमाणम्॥ १८९९॥
एतदेव दर्शयति—“येन रूपेणे”त्यादि।
येन रूपेण विज्ञानं जनयत्परिनिश्चितम्।
प्राक्पश्चादपि तद्बिभ्रदखण्डं किं न कारकम्॥ १९००॥
“तद्बिभ्र”दिति। स्वरूपम्—स्वभावमिति यावत्॥ १९००॥
“परपक्ष” इत्यादिना प्रयोगद्वयेऽपि दृष्टान्तयोः साध्यविकलतां चोदयति।
परपक्षे च तज्ज्ञानं कायादेवेति संस्थितिः।
दृष्टान्तौ तत्कथं सिद्धौ साध्यधर्मसमन्वितौ॥ १९०१॥
ननु कायस्य हेतुत्वं प्रागेव विनिवारितम्।
चेतसो युगपत्प्राप्तेरभावाच्चातिरेकिणः॥ १९०२॥
अाभोगशुभचित्तादिभावित्वेन विनिश्चितम्।
स्मृतिरागादिविज्ञानं तन्निषेद्धुं न पार्यते॥ १९०३॥
निर्ह्रासातिशयौ दृष्टौ बुद्धीनां पू(र्वभाविनः।)
(श्रुतशिल्पादिकाभ्यासविशेषह्रासवृद्धितः)॥ १९०४॥
(मनस्कारे तु)विगुणे ज्ञातव्यार्थान्तराग्रहात्।
ज्ञानस्य ज्ञानहेतुत्वं न याति वचनीयताम्॥ १९०५॥
वि(भिन्नदेहवृत्तित्वादिति हेतोरसिद्धता।)
(अमूर्तचेतसो)वृत्तिः का वा कायेष्वपातिनः १९०६॥
तथाहि—स्वोपादानोद्भवत्वं स्वोपादेयोदयक्षमत्वं च साध्यधर्मः। यस्य च नित्यं कायादेव विज्ञानमुत्पद्यत इति दर्शनं तस्य न क्वचिद्यथोक्तसाध्यधर्मत्वसमन्वितोदृष्टान्तः सिद्ध इति कथमिदानीन्तनचित्तवत्पूर्वविज्ञानवदित्येतयोर्दृष्टान्तयोरुपन्यास इति। नैष दोषः। पूर्वमेव कायस्य हेतुत्वं निषिद्धं चेतसो यौगपद्यप्रसङ्ग इत्यनेन। अपेक्षणीयस्य सहकारिकारणस्यातिरेकिणोऽभावात्, नित्यस्यापेक्षानुपपत्तेः। अनित्यपक्षे तु पूर्वोक्तं वर्त्तमानं च दूषणम्। न चाभ्युपगममात्रेण प्रमाणसिद्धस्याप्यसिद्धत्वं युक्तमतिप्रसङ्गात्, तथाच न किञ्चित्कस्यचित्साधनं स्यात्। यथाऽऽह—“नानिष्टेर्दूषणं सर्व” मिति। किञ्च—यदाऽऽभोगचित्तसमनन्तरं स्मरणमुत्पद्यमानं सुपरिनिश्चितं तदा शुभादिचित्ताद्रागः। तथाहि—सा सुन्दरीति तरुणीति तनूदरीति सुमुखीति चेत्यादि शुभं चिन्तयतां रागिणां राग उत्पद्यते, तथा ममानेनापकृतमथकरिष्यत्ययमपकरोतीत्यादि चिन्तयतश्च द्वेष उत्पद्यमानो निश्चितः स कथमपह्नोतुं शक्यते विशेषतः प्रत्यक्षमात्रवादिना। तथा पूर्वभाविनः श्रुतशिल्पाद्यभ्यासविशेषस्योत्कर्षापकर्षाभ्यामुत्तरबुद्धीनां समुत्कर्षापकर्षौ दृष्टौ, तथाऽर्थान्तरव्यासङ्गेन मनस्कारवैगुण्यादर्थान्तराग्रहणं दृष्टमिति ज्ञानस्य ज्ञानहेतुत्वं युक्तियुक्तत्वादवचनीयम्। न तु भूतानां, युक्तिविरोधात्। अत एव ज्ञानस्य ज्ञानहेतुत्वप्रतिपादनात्। कार्यकारणतेत्यादौ प्रथमे प्रसङ्गे विभिन्नदेहवृत्तित्वादित्यस्य हेतोरसिद्धता, तथाहि—य़दि तावदाधाराधेयलक्षणा वृत्तिरभिप्रेता सा सुतरां चित्तस्यापतनधर्मणः कायेष्वसिद्धा, सत्यपि कार्यकारणभावे चित्तस्यामूर्त्तत्वेनापतनधर्मकत्वात्। न चापतनधर्मकस्याधारो युक्तोऽकिञ्चित्करत्वात्॥ १९००॥ १९०१॥ १९०२॥ १९०३॥ १९०४॥ ॥ १९०५॥ १९०६॥
जलादीनां तर्हि किं कुर्वन्नाधारः, स्यादित्याह्—“स्यादि”त्यादि।
स्यादाश्रयो जलादीनां पतनप्रतिषेधतः।
चेतसामगतीनां च किमाधारैः प्रयोजनम्॥ १९०७॥
तादात्म्येन स्थितिर्वृत्तिरिह चेत्परिकल्प्यते।
साऽप्ययुक्ता न हि ज्ञानं युक्तं कायात्मकं तव॥ १९०८॥
प्रकृ(क्षि ?)त्यादिमूर्त्तस्य स्वोपादानदेशपरिहारेणोत्पद्यमानस्योपादानदेशोत्पादहेतुत्वादाधारो गमनप्रतिबन्धाद्व्यवस्थाप्यते। न त्वमूर्त्तस्य शक्यं तथा व्यवस्थापयितुम्। अथ तादात्म्यलक्षणा वृत्तिरभिप्रेता, साऽपि न सिद्धा। नहि तव बहिरर्थाभिनिवेशिनो वक्तुं युक्तं कायात्मकं विज्ञानमिति। मम तु युक्तं विज्ञानमात्रवादिन आलयविज्ञानस्वभावत्वात्कायस्येत्यभिप्रायः॥ १९०७॥ १९०८॥
कस्मान्न युक्तमित्याह—“तादात्म्ये” इत्यादि।
तादात्म्ये हि यथा कायो विस्पष्टं वेद्यते परैः।
रागद्वेषादिचेतोऽपि तथा किं न प्रवेद्यते॥ १९०९॥
स्वेनैव वेद्यते चेतो देहस्तु स्वपरैरपि।
यौ चैवं तौ विभिद्येते कुक्षिमूलनटाविव॥ १९१०॥
तथाहि देहे गृह्यमाणे परै रागादीनामपि ग्रहणं प्राप्नोत्यव्यतिरेकात्। नच विप्रशक्त्याऽनेकान्तः, तस्यास्तदानीमप्रत्यक्षत्वात्। नतु चैतन्यस्याप्रत्यक्षत्वं, आत्मनाप्यग्रहणप्रसङ्गात्। किञ्च—यावुभयनिश्चितैकनिश्चितौ तौ भिन्नौ यथा कुक्षिमूलानुभवनटौ, उभयनिश्चितैकनिश्चिते च देहचैतन्ये इति स्वभावहेतुः। “स्वेनैवे”ति। आत्मनैव ॥ १९०९॥ १९१०॥
अद्वयज्ञानपक्षे तु नायं हेतुः प्रसिद्ध्यति।
स्वस्य स्वस्यावभासस्य वेदनात्तिमिरादिवत्॥ १९११॥
उदयानन्तरध्वंसि नैरन्तर्येण लक्ष्यते।
चेतोदेहस्य ताद्रूप्ये क्षणिकत्वं न किं मतम्॥ १९१२॥
यद्येवं विज्ञानमात्रवादप्रतिक्षेपोऽनेनैव हेतुना क्रियमाणो दुर्वारः स्यादित्यत आह —“नायं हेतुः प्रसिद्ध्यती”ति। असिद्धता हेतुदोषो भवतीति। तथाहि—उभयनिश्चितत्वं विज्ञानवादिनो न सिद्धं स्वप्रतिभासस्यैव सर्वदा वेदनात्। तैमिरिकद्वयद्विचन्द्रदर्शनवत्। अपिच विलक्षणार्थवित्तिकाले निरन्तरमुत्पादसमनन्तरविनाशि चित्तं स्पष्टं लक्ष्यते। ततश्च देहस्य ताद्रूप्येऽभ्युपगम्यमाने क्षणिकत्वप्रसङ्गः ॥ १९११॥ १९१२॥
एवं तावत्तादात्म्यलक्षणवृत्तिर्न सिद्धा, अथ तदुत्पत्तिलक्षणा वृत्तिः, सा च तदुत्पत्तिस्तदाश्रयद्वारेण वा स्यान्मनोविज्ञानस्य, यथा चक्षुरादिविज्ञानस्य चक्षुराद्याश्रयेण। तदव्यभिचाराद्वा, यथा धूमस्याग्न्यव्यभिचारिणः। तदत्र द्विविधाऽपि वृत्तिरसिद्धा। तथाहि—मनोधीर्नेन्द्रियबुद्धिवत्कायाश्रिता, नियमेन साक्षात्तद्विकाराविधानात्। नापि तदविनाभाविनी, विरूपे धातौ कायमन्तरेणापि भावाभ्युपगमात्। तथाऽप्यभ्युपगम्य सिद्धतां हेतोरनैकान्तिकतामाह—“तदाश्रयेण सम्भूतेस्तेन वाऽव्यभिचारत” इति।
तदाश्रयेण सम्भूतेस्तेन वाऽव्यभिचारतः।
तत्र वृत्तिर्यदीष्येत तथाऽपि व्यभिचारिता॥ १९१३॥
प्रागवस्थमपि ज्ञानं प्रतिक्षणविनश्वरे।
देहवृत्तं करोत्येव प्रतिसन्धिं निरन्तरम्॥ १९१४॥
एकसन्तानभावेन न चेत्तत्र विभिन्नता।
अन्यन्नाऽप्येकसन्तानभावान्माभूद्विभिन्नता॥ १९१५॥
तथाहि—चित्तान्तरप्रतिसन्धानस्य चित्तदेहवृत्तेश्च विरोधाभावात्, यथा मरणक्षणात्प्रागवस्थं जीवदवस्थाभाविविज्ञानं प्रतिसन्धि करोत्येव भिन्नदेहवृत्तमपि, देहस्यक्षणिकत्वादित्यनैकान्तिको हेतुः। अथैकसन्तानत्वेन देहस्याभेदादभिन्नदेहवृत्तित्वं कल्प्यते तदाऽन्तराभाविकदेहेऽपि समानम्। तथाहि—पञ्चायतनलक्षणो देहसन्तानस्यावस्थाभेद एवायमामुत्रिको देहः, बालवृद्धावस्थाभेदवत्। द्वितीयेऽपि प्रयोगेज्ञानत्वादित्यस्य हेतोः साध्यविपक्षे बाधकप्रमाणानुपदर्शनादनैकान्तिकत्वं स्पष्टमेवेति नोक्तम्॥ १९१३॥ १९१४॥ १९१५॥
सरागमरणज्ञानमित्यादिकं तृतीयं प्रयोगमधिकृत्याह—“क्षीणास्रवस्ये”त्यादि।
क्षीणास्रवस्य विज्ञानमसन्धानं कुतो मतम्।
परकीयकृतान्ताच्चेन्न प्रामाण्यापरिग्रहात्॥ १९१६॥
न विद्यते चित्तान्तरसन्धानं यस्य तदसन्धानम्। अनेन दृष्टान्तस्यान्यतराप्रसिद्धसाध्यधर्मतामाह। तथाहि—चार्वाकस्य कुतः प्रसिद्धमर्हतां न चित्तान्तरं प्रतिस न्धत्ते मरणचित्तमिति। अथापि स्यात्परकीये बौद्धे सिद्धान्ते पठ्यते क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नापरमस्माद्भवं प्रजानामीति, अतः सिद्धमसन्धानमिति। तदेतदयुक्तम्—परकीयस्य सिद्धान्तस्य प्रामाण्येनापरिग्रहाल्लोकायतस्यकथं तथाऽप्रामाण्येन परिगृहीतान्निश्चयः, परलोकस्यापि निश्चयप्रसङ्गात्। अथान्यत एव प्रमाणान्तरात्तदवगतं तदेव तर्हि किं न साधनमुक्तम्, किमगमकेन जाड्यसंसूचकेनोपन्यस्तेन, न ह्यन्यस्य तदसाधनं येन तन्नाभिधीयते॥ १९१६॥
सिद्धान्ताश्रयणेनापि कांश्चिद्बौद्धान्त्प्रति साध्यधर्मसमन्वितो न सिद्धो दृष्टान्त इति दर्शयन्नाह—“ये चेह सुधिय” इत्यादि।
ये चेह सुधियः केचिदप्रतिष्ठितनिर्वृतीन्।
जिनांस्तद्याननिष्ठत्वं यानयोश्च प्रचक्षते॥ १९१७॥
तान्प्रत्ययमसिद्धश्च साध्यधर्मसमन्वितः।
दृष्टान्तः प्रतिवादीष्टसिद्धान्ताश्रयणेऽपि ते॥ १९१८॥
इहेति। सौगते प्रवचने। सुधियो महायानिकाः। केचिदिति माध्यमिकाः। ते हि बुद्धानामप्रतिष्ठितत्वं निर्वाणमाहुः। संसारनिर्वाणयोरप्रतिष्ठानात्। श्रावकप्रत्येकबुद्धयानयोश्च बुद्धैकयाननिष्ठत्वमाहुः। “एकमेवेदं ज्ञानं यदुत महायान”मिति वचनात्॥ १९१७॥ १९१८॥
एवं दृष्टान्तदोषमुक्त्वाऽनैकान्तिकत्वं साधनदोषमाह—“बाधकानभिधानाच्चे”ति।
बाधकानभिधानाच्च सन्दिग्धव्यतिरेकिता।
शङ्क्यमानविजातीयसद्भावाद्व्यभिचारिता॥ १९१९॥
बाधकानभिधानादिति सन्दिग्धव्यतिरेकित्वस्य हेतुः। “शङ्क्यमाने”त्यादि तु व्यभिचारितायाः। विजातीये सद्भावो विजातीयसद्भावः। कस्य ?। हेतोरिति गम्यते। शङ्क्यमानश्चासौ विजातीयसद्भावश्चेति विग्रहः। न वा मरणत्वप्रसङ्गो बाधकं प्रमाणम्, परमार्थतः कस्यचिदात्मादिकस्य म्रियमाणस्याभावात्। केवलं तु विसदृशसन्तानोत्पत्तौ विशिष्टनिकायसमाख्यावस्थाविशेषोपरमाल्लोके शास्त्रे च तथा व्यवहारः ॥ १९१९॥
यदुक्तं कललादिषु विज्ञानमस्तीत्येतच्च साहसमित्यत्राह—“कललादिष्वि”त्यादि।
कललादिषु विज्ञानमस्तीत्येतन्न साहसम्।
असञ्जातेन्द्रियत्वेऽपि ज्ञानं तत्र न किं भवेत्॥ १९२०॥
इन्द्रियार्थबलोद्भूतं सर्वं विज्ञानमित्यदः।
साहसं वेद्यते यस्मात्स्वप्नादावन्यथाऽपि तत्॥ १९२१॥
रूपमर्थगतेरन्यदप्यस्य व्यवसीयते।
मूर्छादावपि तेनास्य सद्भाव उपपद्यते॥ १९२२॥
यदि सर्वमेव ज्ञानमिन्द्रियार्थबलेनैव ज्ञायते तदा साहसं भवेत्, यावता स्वप्नाद्यवस्थायां नीलादिप्रतिभासं मनोविज्ञानमसत्यपि चक्षुरादीन्द्रिये विनाऽपि रूपादिनार्थेन संवेद्यते। नचापि तस्य तदानीं कायेन्द्रियमाश्रय इति शक्यं वक्तुम्, नीलादिप्रतिभासत्वात्। कायविज्ञानस्य च स्प्रष्टव्यविषयत्वात्। तस्मादर्थावगतिरूपं सर्वं विज्ञानमित्ययुक्तम्। तेन मूर्छादावपि विज्ञानसद्भावो न विरुद्ध्यते॥ १९२०॥ ॥ १९२१॥ १९२२॥
अथापि स्याच्छक्तिरूपेणावस्थानं विज्ञानस्याविरुद्धं स्वरूपेण तु विरुद्धमित्याह—“न चापी”ति।
न चापि शक्तिरूपेण तथा धीरवतिष्ठते।
स्वरूपेणैव बुद्धीनां व्यवस्थानं तदा मतम्॥ १९२३॥
सुप्तमूर्च्छाद्यवस्थासु चेतो नेति च ते कुतः।
निश्चयो वेदनाभावादिति चेत्स कुतो गतः॥ १९२४॥
यदीत्थं भवतस्तासु निश्चयः सम्प्रवर्त्तते।
न वेद्मि चित्तमित्येवं सति सिद्धा सचित्तता॥ १९२५॥
स्यान्मतं यदि विज्ञानं दशास्वास्वस्ति तत्कथम्।
न स्मृतिः प्रतिबुद्धादेः तदाकारा भवेदिति॥ १९२६॥
तदकारणमत्यर्थं पाटवादेरसम्भवात्।
स्मरणं न प्रवर्त्तेत सद्योजातादिचित्तवत्॥ १९२७॥
यदि हि सुप्तमूर्च्छाद्यवस्थायां चित्तं नास्तीति निश्चायकं किञ्चित्प्रमाणं भवेद्भवेद्विरोधः। स्ववेदनानुपलम्भोऽस्ति निश्चायकं प्रमाणमिति चेन्न। स्वसंवेदनानुपलम्भःकुतः सिद्धः। नहि तस्यामवस्थायां संवेदनाभावनिश्चयोऽस्ति। यदि च तासु मूर्च्छावस्थासु न वेद्म्यहं चित्तमित्येवं निश्चयः प्रवर्त्तते भवतस्तदा तेनैव तथा प्रवृत्तेन निश्चयेन सचित्तता सिद्धा। अथाऽपि स्याद्यदि स्वापाद्यवस्थासु चित्तं स्यात्किमिति प्रतिबुद्धादेः पुरुषस्य स्मरणं न भवेत्। आदिशब्देन विगतमूर्च्छस्य विगतमदस्येति परिग्रहः। तदेतदस्मरणमकारणमनुभूताभावसिद्धये। यदि ह्यनुभूत इत्येतावन्मात्रेणैव स्मरणं स्यात्स्यादेतत्, यावता सत्यप्यनुभवे पाटवाभ्यासार्थित्वादिवैकल्यात्स्मरणं न भवति। यथा सद्योजाताद्यवस्थायामनुभूतस्यापि चित्तस्य॥ १९२३॥ ॥ १९२४॥ १९२५॥ १९२६॥ १९२७॥
अस्तित्वेऽपि भवतां तर्हि किं प्रमाणं यदि स्मरणाप्रवृत्तावपि सन्देह इति प्रतिचोदयन्नाह—“यद्येव”मित्यादि।
यद्येवं कथमस्तित्वमस्यासु व्यवसीयते।
पूर्वोपवर्णितादेव हेतोरित्यवगम्यते॥ १९२८॥
स्वप्नमूर्छाद्यवस्थासु चित्तं च यदि नेष्यते।
मृतिः स्यात्तत्र चोत्पत्तौ मरणाभाव एव वा॥ १९२९॥
स्वतन्त्रा मानसी बुद्धिश्चक्षुराद्यनपेक्षणात्।
स्वोपादानबलेनैव स्वप्नादाविव वर्त्तते॥ १९३०॥
अ“स्ये”ति। विज्ञानस्य। “आस्वि”ति। स्वापाद्यवस्थासु। तत्र पूर्वोपवर्णितो हेतुः—प्रबुद्धादेः पुरुषस्यादिविज्ञानं स्वोपादानबलोद्भवं विज्ञानत्वादाभोगाद्यनन्तरभाविस्मार्त्तादिविज्ञानवत्। नचायमनैकान्तिको हेतुः, पूर्वं कारणान्तरनिषेधेन प्रतिबन्धस्य साधितत्वात्। किञ्च—यदि स्वापाद्यवस्थायां चित्तं न भवेत्तदा मरणमेव स्यात्। अथ तत्र तथाभूते निर्मूलमपगतविज्ञाने देहे पुनरुत्पत्तिरिष्यते विज्ञानस्य तदा तत्रोत्पत्ताविष्यमाणायां मरणाभावः प्राप्नोति, मृतस्यापि पुनर्विज्ञानोत्पत्तिप्रसङ्गात्सुप्तप्रबुद्धवत्। मनोबुद्धेरेव जन्मान्तरप्रतिसन्धाने सामर्थ्यात्। तथाचोक्तम्—छेदसन्धानवैराग्यहानिम्॥॥पत्तयः। मनोविज्ञान एवेष्टा इति। अतो मनोबुद्धिः पूर्वबुद्धिमात्राश्रयेति प्रतिपादयन्नाह—“स्वतन्त्रे”त्यादि। स्वातन्ञ्येऽनपेक्ष्यत्वं हेतुः। सर्वदैवेयं मनोबुद्धिः स्वोपादानकारणमात्रभाविनी, स्वोपादानव्यतिरिक्तचक्षुरादिकारणान्तपरानपेक्षणात्, स्वप्नावस्थावत्॥ १९२८॥ १९२९॥ १९३०॥
“तथाही”त्यनेन हेतोरसिद्धतां परिहरति।
तथाहि न विकल्पानामिन्द्रियार्थव्यपेक्षिता।
तदव्यापारभावेऽपि भावाद्व्योमोत्पलादिषु॥ १९३१॥
“तदव्यापारभावेऽपी”ति। तयोरिन्द्रियार्थयोरव्यापारेऽपीति यावत्। नहि यदव्यापारेऽपि यस्य भावस्तत्तस्य कारणं युक्तमतिप्रसङ्गात्॥ १९३१॥
स्यादेतद्भवतु व्योमोत्पलादिविकल्प इन्द्रियार्थानपेक्षस्तदभावेऽपि भावात्। यस्तु चक्षुषि प्रणिहिते नीलादौ पुरोवर्त्तिनि विषये नीलमेतदिति विकल्पः प्रवर्त्तते। स कथमिन्द्रियार्थानपेक्षो येन पक्षैकदेशेऽसिद्धो हेतुर्न भवेदित्याह—“तयो”रित्यादि।
तयोर्भावेप्यतीतादिविकल्पो यः प्रवर्त्तते।
असदर्थोपरागेण तुल्य एवावसीयते॥ १९३२॥
शब्दार्थप्रतिभासित्वाद्वस्तुरूपं न भासते।
विकल्पेष्विति सर्वं हि विस्तरेणोपपादितम्॥ १९३३॥
“तयो”रिति। इन्द्रियार्थयोः। असदर्थः शून्य उपरागो निर्भासो यस्योत्प्रेक्षितार्थादिविकल्पस्य सोऽसदर्थोपरागो—व्योमादिविकल्पः। तेन तुल्योऽयमपि निर्विषय इत्यर्थः। कथम् ?। सर्वो हि विकल्पः शब्दोल्लेखेन प्रवृत्तेः शब्दार्थावभासी, यश्च शब्दार्थावभासी न तत्र वस्तुरूपं भासते वस्तुरूपे शब्दस्याप्रवृत्तेः, तत्र तस्यासङ्केतितत्वादिति विस्तरेण शब्दार्थपरीक्षायां प्रतिपादितम्। सपक्षे सद्भावान्न विरुद्धो हेतुः, नाप्यनैकान्तिकः, स्वोपादानानुद्भवत्वे निर्हेतुकत्वप्रसङ्गात्॥ १९३२॥ ॥ १९३३॥
कायाश्रितत्वान्न निर्हेतुकत्वमिति चेदित्याशङ्क्याह—“प्रसुप्तिके”त्यादि।
प्रसुप्तिकाद्यवस्थासु शरीरविकृतावपि।
नान्यथात्वं मनोबुद्धेस्तस्मान्नेयं तदाश्रिता॥ १९३४॥
प्रसुप्तिकादिरोगोपघातेन हि देहविकारोऽपि मनोमतेरविकारादियं मनोमतिर्न देहाश्रिता, यद्विकारेण नियमात्साक्षाद्यन्न विक्रियते न तत्तदाश्रितं, यथा गोविकारेणाविक्रियमाणोऽश्वो न च देहस्य विकारेण नियमात्साक्षाद्विक्रियते मनोबुद्धिः प्रसुप्तिकावस्थायामिति व्यापकानुपलब्धिः॥ १९३४॥
“स्वल्पीयसी”त्यादिना तदाश्रितत्वं साक्षात्तद्विकारविकारित्वेन व्याप्तमिति दर्शयति।
स्वल्पीयस्यपि नेत्रादेर्विकारे तिमिरादिके।
चक्षुराद्याश्रिता बुद्धिर्विकृतैव हि जायते॥ १९३५॥
तद्देहस्य विनाशेपि मनोधीरतदाश्रया।
स्वोपादानबलेनैव वर्त्तमानाऽविरोधिनी॥ १९३६॥
तस्य चात्र व्यापकस्याभाव इति सिद्धा देहानाश्रिता बुद्धिः। तत्तस्माद्देहनिवृत्तावपि न निवर्त्तयिष्यत इत्यविरोधः। यो हि यदाश्रितो न भवति तन्निवृत्तौ न नियमेन तस्य निवृत्तिः। तद्यथा गोनिवृत्तौ गवयस्य न नियमेन निवृत्तिः। नच देहो मनोमतेराश्रय इति व्यापकानुपलब्धिः॥ १९३५॥ १९३६॥
यदुक्तं मरणान्तरोद्भूतदेहान्तरेत्यादिना श्लोकद्वयेन तत्राह—“केवलापी”त्यादि।
केवलाऽपि मनोबुद्धिर्यदैवमविरोधिनी।
नातोऽन्यदेहसद्भावसिद्धये यत्निनो वयम्॥ १९३७॥
नच शक्यनिषेधोऽसावदृष्टावपि संश्रयात्।
स्यादेषा मन्दनेत्रस्य स्वच्छ(ल्प ?)धूमाद्यदृष्टिवत्॥ १९३८॥
अयमत्राभिप्रायः—परलोकोऽत्र साधयितुमिष्टः, स च कथं सिद्ध्यति, यदि बुद्धिरनाद्यनन्ता सिद्ध्येत्। अस्या एवावस्थाविशेषः परलोकप्रज्ञप्तौ। न तु देहे आरु(रू ?)प्यधातौ, देहाभावेऽपि परलोकाभ्युपगमात्। सा चेच्चित्तसन्ततिरनाद्यनन्ता सिद्धा सिद्धो नः परलोक इति नान्यदेहसिद्धये यत्नः क्रियतेऽस्माभिर्निष्फलत्वात्। नच तस्यादृष्टिमात्रेण निषेधः शक्यते कर्तुम्। तथा ह्येषाऽदृष्टिर्जातिविशेषे भावनादिवैकल्यान्मन्दनेत्रस्य भवतः सत्यपि तस्मिन्देहे स्यादपि, ननु ब्रूमोऽ(तनुधूमा ?)दर्शनवदिति नानुपलब्धिमात्रेण प्रतिषेधः सिद्ध्यति। तथाहि सजातिशुद्धदिव्याक्षदृश्योत्तराभवो वर्ण्यते। अत एव साङ्ख्यपरिकल्पितातिवाहिकशरीरस्याप्यप्रतिक्षेपः। पूर्वकालभवस्यापि देशविप्रकर्षान्नोपलम्भः स्यात्, दूरतरदेशोत्पत्तेः, स्वभावविप्रकर्षाद्वा, पिशाचादिदेहवत्। अविप्रकर्षेऽप्यर्वाग्दर्शिना सोऽयं प्राणी पतङ्गाद्यात्मतां गत इति निश्चेतुमशक्यत्वात्। अचिन्त्यशक्तिभैषज्योपयोगेन परावृत्तदेहवत् ॥ १९३७॥ १९३८॥
कथं तर्हि भिन्नाश्रयाश्रयाणि ज्ञानान्येकसन्तानसम्बद्धान्युच्यन्त इत्याह—“भिन्नदेहाश्रितत्वेऽपी”ति।
भिन्नदेहश्रितत्वेऽपि तद्विशेषानुकारतः।
एकसन्ततिसम्बद्धं प्राच्यज्ञानं प्रबन्धवत्॥ १९३९॥
अपि च स्तनपानादावभिलाषे प्रवर्त्तते।
उद्वेग उपघाते च सद्योजन्मभृतामपि॥ १९४०॥
रुदितस्तनपानादिकार्येणासौ च गम्यते।
स च सर्वो विकल्पात्मा स च नामानुषङ्गवान्॥ १९४१॥
“तद्विशेषानुकारत” इति। तस्य जन्मान्तरवर्तिनो ज्ञानस्य यो विशेषस्तमनुकुर्वन्त्यैहिकानि ज्ञानानि। तथा चोक्तम्— अभ्यासयोगेन शुभाशुभानि कर्माणिसात्म्येन भवन्ति पुंसाम्। यदप्रयत्नेन विनोपदेशाज्जन्मान्तरे स्वप्न इवाचरन्ति॥ तत्र यदुक्तं चार्वाकेण—इहलोकपरलोकशरीरयोर्भिन्नत्वात्तद्गतयोरपि चित्तयोर्नैकः सन्तान इत्यादि। गर्भादौ प्रथमं विज्ञानं विवादगोचरापन्नैकसन्तानिकं न भवतिभिन्नशरीरत्वान्महिषवराहादिविज्ञानवदिति। तदनेन प्रतिक्षिप्तं भवति। अपिच— इतोऽपि परलोकः सिद्धः। तथाहि—यो यो विकल्पः स शब्दानुभवाभ्यासपूर्वकः, विकल्पत्वात्, यौवनाद्यवस्थाभाविविकल्पवत्। विकल्पश्चायं सद्योजातानां*---*-*स्तनपानाद्यभिलाषादिविकल्प इति स्वभावहेतुः। नताश्रयासिद्धो हेतुः। यतो रुदितस्तनपानादिकार्येणासौ सद्योजातानां स्तनपानाद्यभिलाषादिर्धर्मौ सिद्धः। नहि श(र ?)क्तिर्विद्वेषादिरूपेणाविकल्पयतो रुदितस्तनपानादिसम्भवो युक्तः। नापि स्वरूपासिद्ध इति प्रतिपादयति—स च सर्वो विकल्पात्मेति। सः—स्तनपानाभिलाषादिः। सर्वो विकल्पात्मा—विकल्पस्वभावः। प्रार्थनाद्यकारतयाऽनुभूयमानत्वात्। नाप्यनैकान्तिक इति दर्शयन्नाह—स च नामानुषङ्गवानिति। स इति। विकल्पः। यस्मात्सर्वो विकल्पः शब्दोल्लेखेन प्रवृत्तेर्नामानुषक्तः। स च नामानुषङ्गो विकल्पस्य सङ्केताभ्यासमन्तरेण न सम्भवतीति पूर्वँ विस्तरेण प्रतिपादितम्स्माभिः॥ १९३९॥ १९४०॥ १९४१॥
अथापि स्याद्भवतु नाम नामानुषङ्गोऽभ्यासपूर्वकस्तथाऽप्यसौ नेष्टसाधनः। किं तर्हि ?। ऐहलौकिकाभ्यासपूर्वत्वमेव विपरीतं साधयतीत्याह—न नामरूपमित्यादि।
न नामरूपमक्ष्यस्तमस्मिन्जन्मनि बिद्यते।तेषां चान्यभवाभावे तदुच्छेदः प्रसज्यते॥ १९४२॥
एतदुक्तं भवति। ऐहिलौकिकाभ्यासः सद्योजातानां प्रमाणप्रतीतिबाधितः। नच बाध्यमानप्रतिज्ञार्थस्य हेतोर्विरुद्धत्वं युक्तम्, विरुद्धोऽसति बाधन इति न्यायात्।नामरूपमिति। नाम्रो रूपम्—बाध (वाच ?)कः स्वभावो, बुद्धिपरिवर्त्त्यपि बाह्येषु शब्देष्वध्यस्तः। तेषां चेति। सद्योजातानां। तदुच्छेद इति। तेषामभिलाषादीनामुच्छेदस्तदुच्छेदः॥ १९४२॥
“तन्नामे”त्यादिना यथोक्तं प्रमाणार्थमुपसंहरति—
तन्नामसंस्तवाभ्यासवासनाबलभाव्यसौ।
तेषां विकल्परूपत्वाद्विकल्प इव सम्प्रति॥ १९४३॥
“त”दिति। तस्मादित्यर्थः॥ १९४३॥
“यन्नामे”त्यादिना प्रमाणफलं दर्शयति—
यन्नामसंस्तवाभ्यासवासनापरिपाकजः।
विकल्पो वर्त्तते तेषां तत्प्रसिद्धं भवान्तरम्॥ १९४४॥
नान्नः—शब्दस्य, संस्तवः—परिचयोऽनुभव इति यावत्, तस्याभ्यासः— पुनरुत्पादः। यस्मिन्भवे नामसम्भवाभ्यासो यन्नामसम्भवाभ्यास इति, सप्तमीति योगविभागात्समासः। तेनाहिता या वासना तस्याः परिपाकः स्वानुरूपः कार्योत्पादने वृत्तिलाभः, ततो जात इति व्युत्पत्तिक्रमः। तेषामिति। सद्योजातानाम् ॥ १९४४॥
“नामाभ्यासे”त्यादिना परकीयं प्रसङ्गसाधनमाशङ्कते—
नामाभ्यासबलादेव यदि तेषां प्रवर्त्तते।
तत्किं न विस्फुटा वाचः स्मृतिर्वा वाग्मिनामिव॥ १९४५॥
यदि पूर्वसङ्केताभ्यासाद्विकल्पस्य प्रवृत्तिस्तदा बालदारकस्य पूर्वसङ्केतानुस्मरणप्रसङ्गः। नह्यभ्यासानुवृत्तिः स्मरणमन्तरेण युक्ता। वाग्मिनामिव विस्पष्टवाक्प्रवृत्तिप्रसङ्गश्च। ततश्च सङ्केतकरणानर्थक्यं स्यात्। न चैवं भवति। तस्मात्स्मरणाभावात्, विस्पष्टवाचोऽप्रवृत्तेश्च, पूर्वाभ्यासपूर्वत्वं विरुद्धमिति प्रसङ्गविपर्ययेण धर्मस्वरूपनिराकरणमुखेन प्रतिज्ञादोषमाह॥ १९४५॥
“पटीयसे”त्यादिना प्रसङ्गविपर्यये च हेतोरनैकान्तिकत्वमाह—
पटीयसोपघातेन परिपाकाकुलत्वतः।
न स्यादासामियं वृत्तिः सन्निपातदशास्विव॥ १९४६॥
नहि पूर्वाभ्यासः सर्वदा स्मरणादिना व्याप्तो येन स्मरणादिकं प्रवर्त्तयेत्। तन्निवृत्तौ वा निवर्त्तेत। यावता पूर्वाभ्यासानुवृत्तिश्च भवेन्न च स्मरणम्, यथासन्निपातावस्थायाम्। तथा स्वप्नेऽपि पूर्वाभ्यासानुवृत्तिर्भवेन्न च स्मरणम्। सन्निपातग्रहणमुपलक्षणम्। “पटीयसे”ति। गर्भपरिवासात्। “परिपाकाकुलत्वत” इति। वासनापरिपाकस्याकुलत्वम्। यथानुभूतप्रतिनियतदेशकालस्वभावादिभेदरूपेणाप्रवृत्तिः। तत्र यदुक्तं चार्वाकेण जातिस्मरणमसिद्धम्। एकग्रामागतानां सर्वेषां स्मरणादिति। तदनेन प्रतिक्षिप्तं भवति। तथाहि—एकग्रामागता अपि सर्वे न स्मरन्ति। सतस्तत्र केचन तेषां मध्ये ये मन्दमतयस्ते मुषितस्मृतयो भवन्त्येव।“आसा”मिति। वाचाम्॥ १९४६॥
“स्वल्पीयानपी”त्यादिना प्रसङ्गविपर्यये हेतोः पक्षैकदेशासिद्धतामाह—
स्वल्पीयानपि येषां तु नोपघातो महात्मनाम्।
श्रूयन्ते विस्फुटा वाचस्तेषां सा च स्मृतिः स्फुटा॥ १९४७॥
“महात्मना”मिति। पुण्यवताम्॥ १९४७॥
पुनरपि परलोकसिद्धावुपपत्त्यन्तरमाह—“रागद्वेषादयश्चे”त्यादि।
रागद्वेषादयश्चामी पटवोऽभ्यासयोगतः।
अन्वयव्यतिरेकाभ्यां भवन्तः परिनिश्चिताः॥ १९४८॥
इहत्याभ्यासरहितास्ते ये प्रथमभाविनः।
को हेतुर्जन्मनस्तेषां यदि न स्याद्भवान्तरम्॥ १९४९॥
न ह्यालम्बनसान्निध्यात्तेषां जन्मोपपद्यते।
प्रतिसङ्ख्यानसद्भावे तद्भावेऽप्यतदुद्भवात्॥ १९५०॥
प्रतिसङ्ख्यानिवृत्तौ च तेषां प्राबल्यदर्शनात्।
नष्टाजातेपि विषये विपर्यासाभिवृद्धितः(नः ?)॥ १९५१॥
शुभात्मीयस्थिरादींश्च समारोप्याङ्गनादिषु।
रागादयः प्रवर्त्तन्ते तद्रूपा विषया नच॥ १९५२॥
तदनालम्बना एव सदृशाभ्यासशक्तितः।
इहत्या अपि वर्त्तन्ते रागादित्वाद्यथोत्तरे॥ १९५३॥
प्रयोगः—रागद्वेषेर्ष्यामदमानादीनां तथा प्रज्ञाकरुणामैत्र्यादीनां च यत्पाटवं तदभ्यासपूर्वकम्, यथेहैव जन्मनि पटुमन्दयथोक्तगुणस्य पुरुषस्याभ्यासवशाद्दृष्टम्। अस्ति देहादावत्र जन्मनि तेषु तेष्वदृष्टैहलौकिकाभ्यासस्यापि कस्यचित्पुरुषस्य तत्पाटवमिति कार्यहेतुः। अन्वयव्यतिरेकाभ्यां कार्यकारणभावस्य निश्चितत्वादिति नासिद्धो हेतुः। अतएवाह—“अन्वयव्यतिरेकाभ्यां भवन्तः परिनिश्चिता” इति। अपरलौकिकाभ्यासपूर्वत्वसाधनाद्विरुद्धो हेतुरिति चेन्न। इहत्याभ्यासरहितास्ते ये प्रथमभाविनः पटवो रागादय इत्ययुक्तमपरलौकिकाभ्यासपूर्वत्वसाधनम्। न चाहेतुकं युक्तम्, नित्यं सत्त्वादिप्रसङ्गात्। तस्माद्यदि जन्मान्तरं (न) भवेत्तेषाम्—रागादीनां पटूनां, जन्मनः—उत्पत्तेः, को हेतुः स्यात्। तस्माज्जन्मान्तरीय एवाभ्यासो हेतुरिति सिद्धः परलोकः। नचालम्बनं कारणम्, आलम्बनस्य भावेऽपि रागादीनाङ्कदाचिदशुभादिप्रतिसङ्ख्यानसद्भावे सत्यनुत्पत्तेः। अशुभाद्यालम्बना रागादिप्रतिपक्षभूता प्रज्ञा प्रतिसङ्ख्यानम्। असत्यप्यालम्बने रागादीनामुत्पत्तिदर्शनान्न युक्त आलम्बनवशात्तद्भावः। तथाहि—अतीतानागतेऽपि विषये सङ्कल्पवशादभिवृद्धसुखादिविपर्यासस्य पुंसः प्रतिसङ्ख्याननिवृत्तौ तेषां रागादीनां प्रबलत्वं दृश्यते। नहि यद्भावाभावयोर्यस्य भावाभावाविपर्ययस्तत्तस्य कारणं युक्तमतिप्रसङ्गात्। इतोऽपिनालम्बनवशाद्भावादीनां प्रवृत्तिः। तथाहि—यदि यथालम्बनमेव प्रवर्त्तेरन्नेवमालम्बनवशात्प्रवृत्ताः स्युर्यथा नीलादिज्ञानं न चैवं प्रवर्त्तन्ते। किं तर्हि—आत्मीयनित्यसुखाद्याकाराननुभूतानेवारोपयन्तोऽङ्गनादिषु प्रवर्त्तन्ते। न च शुभादिरूपा विषयाः। न च यद्यदाकारशून्यं तत्तस्यालम्बनं युक्तमतिप्रसङ्गात्। तत्—तस्मादारोपितविषयत्वेन निरालम्बना रागादयः। ततश्च सिद्धमाद्याः प्रथमभाविनोऽपीह जन्मनि ये रागादयस्ते सजातीयाभ्यासवशात्प्रवर्त्तन्त इति॥ १९४८॥ १९४९॥ ॥ १९५०॥ १९५१॥ १९५२॥ १९५३॥
यदि तर्हि विषया न कारणं कथं विषयोपनिपाते रागादय उत्पद्यमाना दृश्यन्त इत्याह—“विषयोपनिपात” इत्यादि।
विषयोपनिपाते तु सुखदुःखादिसम्भवाः।
तस्मात्समानजातीयवासनापरिपाकजाः॥ १९५४॥
रागद्वेषादयः क्लेशाः प्रतिसङ्ख्यानविद्विषाम्।
अयोनिशोनम(सौमनः ?)स्कारविधेयानां यथाबलम् १९५५॥
साक्षात्तु विषया नैव रागद्वेषादिहेतवः।
एकः क्लेशो हि तत्र स्यात्सर्वेषां तस्य बोधवत्॥ १९५६॥
एष हि क्रमः—विषयोपनिपाते सतीन्द्रियजं सुखमुत्पद्यते। तस्माच्च सुखात्प्रतिसङ्ख्यानवैकल्ये सत्यात्मादिविपर्यासलक्षणायोऽनिशो(सौ ?)मनस्कारे स्थितानां पू्र्वरागाद्याहितवासनापरिपाको भवति ततो रागादयः क्लेशाः प्रवर्त्तन्त इति न साक्षाद्विषयाः कारणम्। स्यादेतत्—स्वराद्धान्तोपवर्णनमात्रमेव केवलम्, नत्वत्र काचिद्युक्तिरित्याह—“एक” इत्यादि। “एक” इति। एकाकारः। “तत्रे”ति। विषये। “तस्ये”ति। विषयस्य। “बोधव”दिति। नीलादिग्राहकाकारवत्। नचैकाकारस्तत्र क्लेशः प्रवर्त्तते। तथाहि—एकस्मिन्स्त्रीरूपे कस्यचिद्रागः कस्यचिद्द्वेषः कस्यचिदीर्ष्येत्यनेकाकारस्यप्रवृत्तिर्दृश्यते॥ १९५४॥ १९५५॥ १९५६॥
स्यादेतन्न पूर्वाभ्यासादिह जन्मन्याद्यरागादयः। किं तर्हि ?। अन्येषां मैथुनादिसमाचारदर्शनात्परोपदेशाद्वेत्याह—“अन्यवृत्त्युपलम्भेने”त्यादि।
अन्यवृत्त्युपलम्भेन परेभ्यः श्रवणेन वा।
न च तेषामियं वृत्तिर्व्यभिचारोपलम्भनात्॥ १९५७॥
अन्येषां वृत्तिश्चरितमिति यावत्॥ १९५७॥
“अदृष्टे”त्यादिना तमेव व्यभिचारं दर्शयति।
अदृष्टाश्रुतवृत्तान्ता वराहहरिणादयः।
सभागगतिसम्पर्के प्रयान्त्येव हि विक्रियाम्॥ १९५८॥
वृत्तान्तो मैथुनादिसमुदाचारः। सभागा सदृशी गतिर्यासां वराहीप्रभृतीनां तास्तथोच्यन्ते। तामिः सह सम्पर्कः समवधानम्। “विक्रि”येति। विप्लुतिः। मैथुनसमुदाचार इति यावत्॥ १९५८॥
संसारानुचिता धर्माः प्रज्ञाशीलकृपादयः।
स्वरसेनैव वर्त्तन्ते तथैव न मदादिवत्॥ १९५९॥
अवश्यं चैतदवसेयमभ्यासबलादेव रागादीनां स्वरसप्रवृत्तिरिति। तथाहि—ये प्रज्ञाशीलादयः संसारानुचिताः संसारे नाभ्यस्ताः ते स्वरसेनायत्नेन न वर्त्तन्ते।“मदादिव”दिति वैधर्म्यदृष्टान्तः। मदो—दर्पः। अन्यथा मदादिवत्प्रज्ञादीनामपि स्वरसेन प्रवृत्तिः स्यात्॥ १९५९॥
केचिदाहुः—श्लेष्मणः सकाशाद्रागः पित्ताद्द्वेषो वाताम्मोह इति। तत्राह—“बलासादी”त्यादि।
बलासादिप्रभावेण नच तेषां समुद्भवः।
पूर्ववद्व्यभिचारस्य सर्वथाऽप्युपलम्भतः॥ १९६०॥
तस्मादेते यदभ्यासपूर्वका आद्यभाविनः।
स एवान्यभवः सिद्ध इति नास्तिवता हता॥ १९६१॥
तत्र बलासः—श्लेष्मा। “पूर्वव”दिति। यथा विषयेषु व्यभिचार उक्तः प्रतिसङ्ख्यानसद्भावे तद्भावेऽप्यतदुद्भवादित्यादिना। किञ्च—श्लेष्माद्युपचयापचयाभ्यां नरागादीनामुपचयापचयौ भवतः। नच यद्भेदाद्यस्य भेदो न भवति तत्तस्य कार्यं युक्तमतिप्रसङ्गात्। तथा श्लेष्मणोऽपि तीव्रद्वेषो दृष्टो नतु तीव्ररागः, पित्तप्रकृतिरपि तीव्ररागो दृष्टो न तीव्रद्वेषादिरिति साङ्कर्यं दृश्यते। न च यमन्तरेण यस्य भावः स तस्य हेतुर्युक्तः। यदवस्थो रागी दृष्टस्तदवस्थोऽपि द्वेषीत्यतोऽपि व्यभिचारान्न श्लेष्मादिधर्मा रागादयः। तस्मादित्युपसंहारः। “यदभ्यासपूर्वका” इति। यस्मिन्नभ्यासो यदभ्यासः, स पूर्वकं कारणं येषामिति विग्रहः॥ १९६०॥ १९६१॥
“इहत्ये”त्यादिना परकीयं चोद्यमाशङ्कते।
इहत्याभ्यासपूर्वत्वे साध्ये दृष्टेष्टबाधनम्।
भवान्तरीयहेतुत्वे साध्यशून्यं निदर्शनम्॥ १९६२॥
अविशेषेण साध्ये तु हेतोरस्य विरुद्धता।
तथैवान्यभवाभ्यासहेतुत्वविनिवर्त्तनात्॥ १९६३॥
तत्रेदं चोद्यम्—ऐहलौकिकाभ्यासपूर्वत्वं वाऽऽद्यभाविनां साध्यं, पारलौकिकाभ्यासपूर्वत्वं वा, अविशेषेण वाऽभ्यासपूर्वत्वमात्रम्, तस्मिन्सिद्धे सामर्थ्यात्पारलौकिकाभ्यासपूर्वत्वमिष्टं सिद्धं भवतीति, पक्षत्रयम्। तत्र प्रथमे पक्षे दृष्टेष्टबाधनं नह्याद्यभाविनां रागादीनामिहत्याभ्यासपूर्वत्वं दृष्टं, नापि चेष्टं परलोकवादिनेति दृष्टेष्टयोर्बाधनम्। द्वितीयेऽपि पक्षे साध्यविकलो दृष्टान्तः, नहि क्वचिल्लोकायतस्य पारलौकिकाभ्यासपूर्वत्वसमन्वितो दृष्टान्तोऽस्ति। तृतीयेऽपि पक्षे विरुद्धता हेतोः, तथैव—दृष्टान्तवदेव, अन्यभवाभ्यासपूर्वत्वस्येष्टस्याभावसाधनात्॥ १९६२॥ ॥ १९६३॥
“सामान्येनैवे”त्यादिना प्रतिविधत्ते।
सामान्येनैव साध्यत्वं नच हेतोर्विरुद्धता।
नहि तेन विरोधोऽस्य येन तद्विनिवर्त्तयेत्॥ १९६४॥
इति लोकायतपरीक्षा।
तृतीय एवात्र पक्षोऽभिप्रेतः, न च हेतोर्विरुद्धता कस्मात् ?। नहि तेनान्यभवाभ्यासपूर्वत्वेनास्य रागादित्वस्य कश्चिद्विरोधोऽस्ति। येन तत्पारलौकिकाभ्यासपूर्वत्वं निवर्त्तयेत्। अपिच—अयं लोकः परलोक इत्यवस्थाभेदकृतव्यवस्थामात्रमेतत्।बालयौवनादिभेदवत्। अनादित्वं त्वनेन प्रकारेण साध्यत इति नात्राभिनिवेष्टव्यम्। ( प्रतिवादिसन्निभमित्येतत् ) (?)॥ १९६४॥
इति लोकायतपरीक्षा।