असङ्क्रान्तिमित्यस्य समर्थनार्थमाह—“हेमे”त्यादि।
हेम्नोऽनुगमसाम्येन स्थिरत्वं मन्यते तदा।
अवस्थाभेदवान्भावः कैश्चिद्बौद्धैरपीष्यते॥ १७८६॥
नाऽवस्थानं तु कस्यचिदित्यत्रेदं चोद्यम्। ननु कथमिदमुच्यते नावस्थानं तु कस्यचिदिति, यावता कैश्चिद्धर्मत्रातप्रभृतिभिर्बौद्धैरपि कालत्रयावस्थितो भाव इष्टोऽवस्थाभेदात्, हेमानुगमसाधर्म्येण॥ १७८६॥
एतदेव द्वितीयेन श्लोकेन दर्शयति।
अवस्थाभेदभावेऽपि यथा वर्ण्यं जहाति न।
हेमाध्वसु तथाभावो द्रव्यत्वं त्यजत्ययम्॥ १७८७॥
अतीताजातयोर्ज्ञानमन्यथाऽविषयं भवेत्।
द्वयाश्रयं च विज्ञानं तायिना कथितं कथम्॥ १७८८॥
कर्मातीतं च निःसत्त्वं कथं फलदमिष्यते।
अतीतानागते ज्ञानं विभक्तं योगिनां च किम्॥ १७८९॥
न द्रव्यापोहविषया अतीतानागतास्ततः।
अध्वसङ्ग्रहरूपाद्विभावादेर्वर्त्तमानवत्॥ १७९०॥
तत्र भावान्यथावादी भदन्तधर्मत्रातः, स किलाह—धर्मस्याध्वसु वर्त्तमानस्य भावान्यथात्वमेव केवलं नतु द्रव्यस्येति। यथा सुवर्णद्रव्यस्य कटककेयूरकुण्डलाद्यभिधाननिमित्तस्य गुणस्यान्यथात्वं न सुवर्णस्य, तथा धर्मस्यानागतादिभावादन्यथात्वम्। तथा हि—अनागतभावपरित्यागेन वर्त्तमानभावं प्रतिपद्यते धर्मो, वर्त्तमानभावपरित्यागेन चातीतभावम्, नतु द्रव्यान्यथात्वं, सर्वत्र द्रव्यस्याव्यभिचारात्। अन्यथाऽन्य एवानागतेऽन्यो वर्त्तमानोऽन्योऽतीत इति प्रसज्यते। कः पुनर्भावस्तेनेष्टः ?। गुणविशेषः, यतोऽतीताद्यभिधानज्ञानप्रवृत्तिः। लक्षणान्यथावादी भदन्तघोषकः। स किलाह। धर्मोऽध्वसु वर्त्तमानोऽतीतोऽतीतलक्षणयुक्तोऽनागतप्रत्युत्पन्नाभ्यां लक्षणाभ्यामवियुक्तः, यथा पुरुष एकस्यां स्त्रियां रक्तः शेषास्वविरक्त एवमनागतप्रत्युत्पन्नावपि वाच्ये। अस्य ह्यतीतादिलक्षणवृत्तिलाभापेक्षो व्यवहार इति पूर्वकाद्भेदः। अवस्थान्यथावादी भदन्तवसुमित्रः। स किलाह—धर्मोऽध्वसु वर्त्तमानोऽवस्थामवस्थां प्राप्यान्योऽन्यो निर्दिश्यतेऽवस्थान्तरतो, न द्रव्यतः, द्रव्यस्य त्रिष्वपि कालेष्वभिन्नत्वात्। यथा मृद्गुडिका एकाङ्के प्रक्षिप्ता एकमित्युच्यते, शताङ्के शतं, सहस्राङ्के सहस्रं, तथा कारित्रेऽवस्थितो भावो वर्त्तमानस्ततः प्रच्युतोऽतीतस्तदप्राप्तोऽनागत इति। अस्य व्यवस्थापेक्षया व्यवहारो यथा मृद्गुडिकायां, नहितस्याः स्वभावान्यथात्वं भवति, किं तर्हि ?, स्थानविशेषसम्बन्धात्सङ्ख्याभिद्योतकंसञ्ज्ञान्तरमुत्पद्यते। अन्यथान्यथिको बुद्धदेवः, स किलाह—धर्मोऽध्वसु वर्त्तमानः पूर्वापरमपेक्ष्यान्योन्य उच्यत इति। यथैका स्त्री माता चोच्यते दुहिता चेति। अस्य पूर्वापरापेक्षो व्यवहारः, यस्य पूर्वमेवास्ति नापरः सोऽनागतः, यस्य पूर्वमस्ति अपरं च स वर्त्तमानः, यस्यापरमेव न पूर्वं सोऽतीत, इत्येते चत्वारः सर्वेऽस्तिवादा भावलक्षणाऽवस्थान्यथान्यथिकसञ्ज्ञिताः। तत्र प्रथमः परिणामवादित्वात्साङ्ख्यमतान्न भि द्यते। यस्तस्य प्रतिषेधः सोऽस्यापि द्रष्टव्यः। तथाहि—पूर्वस्वभावापरित्यागेन वा परिणामो भवेत्, परित्यागेन वा। यद्यपरित्यागेन तदाऽध्वसङ्करप्रसङ्गः। अथ परित्यागेन, तदा सदाऽस्तित्वविरोधः। द्वितीयस्यापि वादिनोऽयं सङ्कर एव, सर्वस्य सर्वलक्षणयोगात्। पुरुषस्त्वर्थान्तरभूतरागसमुदाचाराद्रक्त उच्यतेऽविरक्तश्च समन्वागममात्रेण, नतु धर्मस्य लक्षणसमुदाचारो लक्षणसमन्वागमो वा प्राप्तिलक्षणोऽस्ति, अन्यत्वप्रसङ्गाल्लक्षणस्य प्राप्तिवदिति न साम्यं दृष्टान्तस्य दार्ष्ट्यान्तिकेन तृतीयस्य कारित्रेणाध्वव्यवस्थेति तस्य विस्तरेण दूषणं वक्ष्यते। चतुर्थस्याप्येकस्मिन्नेवाध्वनि त्रयोऽध्वानः प्राप्नुवति। तथाहि। अतीतेऽध्वनि पूर्वपश्चिमौ क्षणावतीतानागतौ मध्यमः क्षणः प्रत्युत्पन्न इति। एषा दूषणदिगेषां स्पष्टा। तृतीयमेवारभ्यभूयस्त्रैकाल्यपरीक्षाऽऽरभ्यते। हेमदृष्टान्तेन तु सिद्धान्तोपक्षेपमात्रं कृतम्, नतु धर्मत्रातदर्शनमेवाभिमतम्। तथाच वक्ष्यति कारित्रेण विभागोऽयमध्वनां यत्प्रकल्प्यत इति। नच धर्मत्रातस्य कारित्रेणाध्वव्यवस्था, किं तर्हि ?, वसुमित्रस्य। तत्र यद्यतीतानागतं न स्यात्, अभून्महासम्मतो भविष्यति शङ्खश्चक्रवर्त्तीत्यतीताजातयोर्विज्ञानं निरालम्बनमेव स्यात्। ततश्च विज्ञानमेव न स्यादालम्बनाभावादिति भावः। तथाहि—प्रतिवस्तु विज्ञप्त्यात्मकं विज्ञानम्, असति च ज्ञेये न किञ्चिदनेन ज्ञेयमित्यविज्ञानमेव स्यात्। किञ्चि—द्वयं प्रतीत्य विज्ञानमुत्पद्यत इति भगवतोक्तम् कतमद्द्वयम्, चक्षूरूपाणि यावन्मनोधर्मा इति। असति चातीतानागते तदालम्बनं विज्ञानं द्वयं प्रतीत्य न स्यादित्यागमविरोधः। अपिचातीतं कर्म फलदं न स्याद्यदि तन्निःसत्त्वं सत्ताशून्यं भवेत्, फलोत्पत्तिकाले विपाकहेतोरभावात्। नचासतः कार्योत्पादनशक्तिरस्ति, सर्वसामर्थ्यविरहलक्षणत्वादसत्त्वस्य। किञ्च—आसीन्मान्धानो ब्रह्मदत्तो, भविष्यति शङ्खश्चक्रवर्त्ती मैत्रेयस्तथागत, इत्यादिना विभागेन योगिनामतीतादिविषयं विभक्तं विज्ञानं न स्यात्। न ह्यसतां विभागोऽस्ति।तस्मादतीतानागता भावाः श्रीहर्षादयो न द्रव्यप्रतिषेधरूपाः, अध्वसङ्गृहीतरूपादित्वेनोपादिष्टत्वाद्वर्त्तमानवत्। उक्तं हि भगवता— अतीतं चेद्भिक्षवो रूपं नाभविष्यन्नश्रुतवानार्यश्रावकोऽतीतरूपेऽनपेक्षोऽभविष्यत्। यस्मात्तर्ह्यस्त्यतीतं रूपं तस्माच्छुतवानार्यश्रावकोऽतीतरूपेऽनपेक्षो भवतीति विस्तरः तथा यत्किञ्चिद्रूपमतीतमनागतादि तत्सर्वमभिसङ्क्षिप्य रूपस्कन्ध इति सङ्ख्यां गच्छतीत्यादि। अध्वना सङ्ग्रहो येषां तेऽध्वसङ्ग्रहा रूपादयः। आदिशब्देन वेदनादिपरिग्रहः। तेषां भावो रूपादित्वम्। अत्राप्यादिशब्देन दुःखसमुदयानित्यानात्मादित्वेनोपदिष्टत्वादिति गृह्यते॥ १७८७॥ १७८८॥ १७८९॥ १७९०॥
अथापि स्यात्—आकाशवत्सदावस्थितत्वादतीतादिव्यवस्था तर्हि कथमित्याह—“नचैव”मित्यादि।
नचैवमिह मन्तव्यमध्वभेदः कुतो न्वयम्।
कारित्रेण विभागोऽयमध्वनां यत्प्रकल्प्यते॥ १७९१॥
कारित्रे वर्त्तते यो हि वर्त्तमानः स उच्यते।
कारित्रात्प्रच्युतोऽतीतस्तदप्राप्तस्त्वनागतः॥ १७९२॥
फलाक्षेपश्च कारित्रं धर्माणां जनकं न तु।
न वाक्षेपोस्त्यतीतानां नातः कारित्रसम्भवः॥ १७९३॥
यतः सम्प्राप्तकारित्रो वर्त्तमान उच्यते, उपरतकारित्रोऽतीतः, अप्राप्तकारित्रोऽनागत इत्यध्वानः कारित्रेण व्यवस्थिताः। किं पुनरत्र कारित्रममिप्रेतम्, यदि दर्शनादिलक्षणो व्यापारः, यथा पञ्चानां चक्षुरादीनां दर्शनादिकम्—यतश्चक्षुः पश्यति श्रोत्रं शृणोति घ्राणं जिघ्रति जिह्वा स्वादयतीत्यादिविज्ञानस्यापि विज्ञातृत्वं, विजानातीति कृत्वा रूपादीनामिन्द्रियगोचरत्वम्। एवं सति प्रत्युत्पन्नस्य तत्सभागस्य चक्षुषो निद्राद्यवस्थायां कारित्राभावाद्वर्त्तमानता न स्यात्। अथ फलदानग्रहणलक्षणं कारित्रम्—यथा चक्षुषा सहभवा धर्मा जात्यादयः पुरुषाकारफलम्, अनन्तरोत्पन्नं चक्षुरिन्द्रियं पुरुषकारफलमधिपतिफलं निष्यन्दफलं च, एतत्फलं जननात्प्रयच्छद्धेतुभावावस्थानाद्गृह्णच्चक्षुर्वर्त्तमानमुच्यत इति। एवं तर्ह्यतीतानामपि सभागसर्वत्रगविपाकहेतूनां फलदानाभ्युपगमाद्वर्त्तमानत्वप्रसङ्गः। अथ समस्तमेव फलदानग्रहणलक्षणं कारित्रमिष्यते। एवमतीतस्य सभागहेत्वादेरर्द्धवर्त्तमानत्वप्रसङ्गइत्येतद्दोषभयादाचार्यसहन्तभद्र आह—धर्माणां कारित्रमुच्यते फलाक्षेपशक्तिः, नतु फलजननं, नचातीतानां सभागहेत्वादीनां फलाक्षेपोऽस्ति, वर्त्तमानावस्थायामेवाक्षिप्तत्वात्। नचाक्षिप्तस्याक्षेपो युक्तोऽनवस्थाप्रसङ्गात्। तस्मादतीतानां न कारित्रसम्भव इति नास्ति लक्षणसङ्कर इति॥ १७९१॥ १७९२॥ १७९३॥
“तै”रित्यादिना प्रतिविधत्ते।
तैः कारित्रमिदं धर्मादन्यत्तद्रूपमेव वा।
अभ्युपेयं यदन्याऽस्ति गतिः काचिन्न वास्तवी॥ १७९४॥
अन्यत्वे वर्त्तमानानां प्रागूर्ध्वं वाऽस्वभावता।
हेतुत्वसंस्कृतत्वादेः कारित्रस्येव गम्यताम्॥ १७९५॥
अन्यथा नित्यतापत्तिः स्वभावावस्थितेः सदा।
नैतद्रूपातिरिक्तं हि विद्यते नित्यलक्षणम्॥ १७९६॥
तत्कारित्रं धर्मादन्यद्वा स्यादनन्यद्वेति तैरभ्युपगन्तव्यम्, अन्यानन्ययोरन्योन्यपरिहारस्थितलक्षणत्वात्। एकनिषेधस्यापरविधिनान्तरीयकत्वात्। नान्या वस्तुनो गतिरस्ति। तत्र यद्यन्यत्तदा वर्त्तमानानां प्रागूर्ध्वावस्थयोः निःस्वभावता प्राप्नोति।हेतुत्वसंस्कृतत्वाद्धेतोः कारित्रवत्। आदिशब्देन वस्तुत्वादयो गृह्यन्ते। अन्यथा यदि प्रागूर्ध्वं च निःस्वभावता न स्यात्तदा सर्वस्य संस्कृतस्य नित्यता प्राप्नोति, स्वमावस्य सर्वदा व्यवस्थितत्वात्। नच सदासत्त्वव्यतिरेकेण नित्यत्वलक्षणमस्ति यदाह— नित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यती ति॥ १७९४॥ १७९५॥ ॥ १७९६॥
स्यादेतत्—यदि नाम नित्यता शक्तिः। हेतुत्वसंस्कृतत्वादेस्तु हेतोः कथं साध्यविपक्षेण विरोध इत्याह—“नित्यस्ये”त्यादि।
नित्यस्य हेतुता पूर्वं क्रमाक्रमविरोधतः।
निषिद्धा संस्कृतत्वं हि व्यक्तं नित्ये निरास्पदम्॥ १७९७॥
स्कन्धादिव्यतिरिक्तस्य कारित्रस्योपवर्णने।
स्वसिद्धान्तविरोधश्च दुर्निवारः प्रसज्यते॥ १७९८॥
“पूर्व”मिति। स्थिरभावपरीक्षायाम्। सर्वस्य च संस्कृतस्यानित्यत्वाभ्युपगमात्संस्कृतत्वं नित्ये न सम्भवतीति स्पष्टमेवावसीयते। किञ्च—स्कन्धायतनव्यतिरिक्तस्य कारित्रस्योपवर्णने सिद्धान्तविरोधः, तथाहि भगवतोक्तम् सर्वं सर्वमिति ब्राह्मण यदुत पञ्चस्कन्धा द्वादशायतनानि, अष्टादशचा(श्चा ?)भव इति॥ १७९७॥ ॥ १७९८॥
अनन्यत्वेऽपि कारित्रं धर्मादव्यतिरेकतः।
स्वरूपमिव धर्मस्य प्रसक्तं सार्वकालिकम्॥ १७९९॥
ततश्चाध्वविभागोऽयं तद्वशान्न प्रकल्प्यते।
न हि तस्य च्युतिः प्राप्तिरप्राप्तिर्वा विभागतः॥ १८००॥
अथानन्यत्कारित्रमभ्युपगम्यते तदा धर्मस्वरूपवत्तदव्यतिरेकात्तदपि सार्वकालिकं प्राप्नोति। ततश्च कारित्रात्प्रच्युतोऽतीतस्तत्प्राप्तो वर्त्तमानस्तदप्राप्तोऽनागत इति कारित्रवशादयमध्वविभागो न स्यात्। यतोऽस्य कारित्रस्य यदि विभागेन यदि प्राप्त्यप्राप्तयः स्युस्तदा स्यादयमध्वविभागः, ग च तानि विभागेन सम्भवन्ति, सदावस्थितैकरूपस्य विभागाभावात्॥ १७९९॥ १८००॥
कारित्राव्यतिरेकाद्वा धर्मः कारित्रवद्भवेत्।
पूर्वापरव्यवच्छिन्नमध्यमात्रकसर्ववान्॥ १८०१॥
किञ्च—कारित्रादव्यतिरिक्तत्वाद्धर्मोऽपि पूर्वापरकोटिशून्यसत्तायोगी प्राप्नोति कारित्रवत्। पूर्वापरव्यवच्छिन्नं—पूर्वापरकोटिशून्यं, मध्यमात्रकं च तत्सर्वं चेति विग्रहः। तदस्यास्तीति तद्वान्॥ १८०१॥
“कारित्र”मित्यादिना परस्परविरुद्धाभ्युपगमोद्भावनेनोपहसति।
कारित्रं सर्वदा नास्ति सदा धर्मश्च वर्ण्यते।
धर्मान्नान्यच्च कारित्रं व्यक्तं देवविचेष्टितम्॥ १८०२॥
कारित्रान्तरसापेक्षा तत्राप्यध्वस्थितिर्यदि।
तुल्यः पर्यनुयोगोऽयं ननु सर्वत्र धावति॥ १८०३॥
एवं तर्हि रूपादिधर्मो न सदास्तीति प्रसक्तं कारित्रादव्यतिरिक्तत्वादित्याह—“सदा धर्मश्चे”ति। एवमपि धर्मादन्यत्कारित्रं प्रसज्यत इत्याह—“धर्मान्नान्यच्चकारित्रम्”। देवाः—ईश्वरादयः, ते हि युक्तायुक्तमनालोच्य स्वातन्त्र्येणैव वर्त्तन्त इति, तेषां यथाचेष्टितं युक्तिनिरपेक्षं स्वातन्त्र्येण प्रवृत्तिस्तद्वदेतदिति यावत्। किञ्च —यदि कारित्रस्य कारित्रमन्तरेणानागतादित्वमिष्यते, न तर्हि वक्तव्यमध्वानः कारित्रेण व्यवस्थिता इति, व्यभिचारात्। यथा कारित्रस्य स्वरूपसत्तापेक्षयाऽनागतादित्वं व्यवस्थाप्यते, एवं भावानामप्यनागतादित्वं भविष्यतीति किं कारित्रकल्पनया। अथ माभूद्व्यभिचारदोष इति कारित्रस्यापि कारित्रमभ्युपगम्यते, तदा तत्रापि व्यतिरेकादिचिन्तया तुल्यः पर्यनुयोगः। अनवस्थादोषश्च॥ १८०२॥ १८०३॥
यदुक्तमनन्यत्वेऽपि कारित्रं सार्वकालिकं प्राप्नोति धर्मस्वरूपवदविशेषादिति। अत्र भदन्तसहन्तभद्र आह—
स्वरूपाद्व्यतिरिक्तोऽपि दृष्टः सप्रतिघत्ववत्।
विशेषश्चेदिदं नैव प्रकृतस्योपकारकम्॥ १८०४॥
नहि सप्रतिघत्वादिः पदार्थस्यानुगामिनः।
कादाचित्को मतः कश्चिद्भावस्यैव तथोद्भवात्॥ १८०५॥
स्वरूपाद्व्यतिरिक्तोपि विशेषको धर्मो दृष्टो यथा सप्रतिघत्वादिः पृथिव्यादीनाम्, ते हि पदार्थत्वेनाविशिष्टा अपि सप्रतिघा अप्रतिघाः सनिदर्शना अनिदर्शना इतिस्वरूपाद्व्यतिरिक्तैर्धर्मैर्विशिष्टाः प्रतीयन्ते तद्वत्कारित्रेणापि धर्म इति। तदेतत्प्रकृतानुपकारकम्। तथाहि—इदमत्र प्रकृतम्, पदार्थात्कारित्रस्याभेदेऽभ्युपगम्यमाने सत्येकस्यैव पदार्थस्यात्मभूतकारित्रस्याविशेषात्तद्वशादयमध्वविभागो नावकल्पत इति। पृथिव्यादयस्तु परस्परमन्योन्यलक्षणभेदासङ्गाभिन्ना इति युक्तं यत्केचित्सप्रतिघा भवन्ति केचिदप्रतिघा एव यथा वेदनादयः। नतु य एवाप्रतिघास्त एव सप्रतिघा इति, यतो न कश्चिदेकोऽनुगामी पदार्थात्मास्ति, पृथिव्यादीनां यत्सप्रतिघत्वादिधर्मः कादाचित्को भवेत्। किं तर्हि ?, भावस्य निरवयवस्य तथा सजातीयविजातीयव्यावृत्तस्योद्भव इति न स्वरूपाव्यतिरिक्तो धर्म एकस्य भेदको युक्तः॥ १८०४॥ १८०५॥
कथं रूपस्य सप्रतिघत्वमिति व्यतिरेकीव व्यपदेशो यदि स्वरूपाव्यतिरिक्तो धर्मो भेदको न भवेदित्याह—“अनाक्षिप्ते”त्यादि।
अनाक्षिप्तान्यभेदेन भाव एव तथोच्यते।
तद्रूपस्येति शब्देन चेतसो वासनापि च॥ १८०६॥
“अनाक्षिप्तान्यभेदेने”ति। भेदान्तरप्रतिक्षेपेणेत्यर्थः। “तथोच्यत” इति। व्यतिरेकीव। “त”दिति। सप्रतिघत्वम्। “शब्देने”ति। रूपस्य (स)प्रतिघत्वमित्यनेन। अत्र दृष्टान्तमाह—“चेतसो वासनापिचे”ति। अपिचेति समुदायो निपात इवार्थे दृष्टव्यः ॥ १८०६॥
पुनः स एवाह—न कारित्रं धर्मादन्यत्, तद्व्यतिरेकेण स्वभावानुपलब्धेः, नापि धर्ममात्रम्, स्वभावास्तित्वेपि कदाचिदभावात्। न च न विशेषः, कारित्रस्यप्रागभावात्, सन्तानवत्। यथा धर्मनैरन्तर्योत्पत्तिः सन्तान इत्युच्यते, न चासौ धर्मव्यतिरिक्तस्तदविभागेन गृह्यमाणत्वात्, नच धर्ममात्रम्, एकक्षणस्यापि सन्तानत्वप्रसङ्गात्, नच नास्ति, तत्कार्यसद्भावादिति। आह च—सन्ततिकार्यं चेष्टं, न विद्यते सापि सन्ततिः काचित्। तद्वदवगच्छ युक्त्या कारित्रेणाऽध्वसंसिद्धिमिति, अत्राह—“तत्त्वान्यत्वे”त्यादि।
तत्त्वान्यत्वप्रकाराभ्यामवाच्यमथ वर्ण्यते।
सन्तानादीव कारित्रं स्यादेवं सांवृतं ननु॥ १८०७॥
अतश्च कल्पितत्वेन तत्क्वचिन्नोपयुज्यते।
कार्ये सन्ततिवद्यस्माद्वस्त्वेवार्थक्रियाक्षमम्॥ १८०८॥
सन्निधानं च तस्येदं भाविकं नेति तत्कृतम्।
अध्वत्रयव्यवस्थानं तात्विकं नोपपद्यते॥ १८०९॥
“सन्तानादीवे”ति। आदिशब्देन समूहादिपरिग्रहः। यथा सन्तानिभ्यस्तत्त्वान्यत्वेनावाच्यत्वात्पुद्गलवत्सन्तानो निःस्वभावः (तथा कारित्रं निस्स्वभावं) स्यात्, स्वभावे हि सति तत्त्वमन्यत्वं वाऽवश्यम्भावि, ततश्च तत्कारित्रं कल्पितत्वान्न क्वचित्कार्ये सन्ततिवदुपयुज्येत। नहि कल्पितस्य सन्तानस्य क्वचित्कार्येऽस्त्युपयोगस्तस्यनिःस्वभावत्वात्। स्वभावप्रतिबद्धत्वात्कार्योदयस्य। तस्माद्वस्त्वेव सन्तानिस्वभावमर्थक्रियाक्षमम्। न सन्तानः कल्पितः। ततश्च कारित्रस्य प्रज्ञप्तिसत्त्वात्प्रागनु पश्चादपि न परमार्थतः सन्निधानमस्तीति तद्वशादध्वत्रयव्यवस्थानमपि कल्पितमेव स्यान्नभाविकम्॥ १८०७॥ १८०८॥ १८०९॥
तथापि स्याद्भवतु कारित्रं प्रज्ञप्तिसत्, तत्कृतं चाप्यध्वव्यवस्थानं प्रज्ञप्तिसत्, ततश्च को दोष इत्याह—“कारित्राख्ये”ति।
कारित्राख्या फलाक्षेपशक्तिर्या शब्दगोचरा।
शक्तेरेव च वस्तुत्वात्सा प्रज्ञप्तिसती कथम्॥ १८१०॥
यच्चेदमिष्यते रूपं दाहपाकादिकार्यकृत्।
अतीतानागतावस्थं किं तदेवाभ्युपेयते॥ १८११॥
तदेव चेत्कथं नाम तस्यैवैकात्मनः सतः।
अक्रिया च क्रिया चापि क्रियाविरतिरित्यपि॥ १८१२॥
एकस्मिन्निर्विशिष्टेस्मिन्परस्परपराहताः।
प्रकाराः कथमेते हि युज्यन्ते नाम वस्तुनि॥ १८१३॥
एकावस्थापरित्यागे परावस्थापरिग्रहात्।
नैवैतन्निर्विशिष्टं चेद्वस्त्वध्वस्विति कल्प्यते॥ १८१४॥
किं वै भावाद्विभिद्यन्तेऽवस्था नाकर्तृताप्तितः।
तासामेव हि सद्भावात्कार्यसत्तोपलभ्यते॥ १८१५॥
फलाक्षेपशक्तिर्हि धर्माणां कारित्रमिति भवता वर्णितम्। साच फलाक्षेपशक्तिः प्रज्ञप्तिसती (कथं) भवेत्। नैव भवेदिति यावत्। ततश्च तद्वशादध्वव्यवस्थानन्तात्त्विकमेवेष्टं भवतीति भावः। किञ्च—यदेतद्दाहपाकाद्यर्थक्रियाकारि वह्न्यादिरूपमुपलभ्यते, किं तदेवातीतानागतावस्थमाहोस्विदन्यत्। यदि तदेव, कथमेकस्मिन्निर्विशिष्टेऽस्मिन्रूपादिके वस्तुन्यक्रियादयः परस्परविरुद्धा धर्मा युज्यन्ते। येन यथाक्रममनागतवर्त्तमानातीतव्यवस्था स्यात्। यदि हि विरुद्धधर्माध्यासेऽप्येकत्वं स्यात्, उत्सन्ना तर्हि भेदव्यवस्था, ततश्च सर्वमेव जगदेकमेव स्यात्। एकत्वे च सहोत्पत्त्यादिप्रसङ्गः। अथाप्यवस्थापरित्यागपरिग्रहभेदेन भिन्नत्वादध्वसु वस्तु न निर्विशिष्टमिति कल्पते, एवमपि किं ता अवस्था भावाद्भिन्ना आहोस्विदभिन्ना इति वक्तव्यम्। पर आह—नेति। मिद्यन्ते भावादिति सम्बन्धः। कस्मात् ?, भावस्याकर्त्तृताप्तितः—अकर्त्तृत्वप्रसङ्गात्। अन्वयव्यतिरेकाभ्यां तासामेवावस्थानां कार्यं प्रति सामर्थ्यसिद्धेः॥ १८१०॥ १८११॥ १८१२॥ १८१३॥ १८१४॥ १८१५॥
अत्र दूषणमाह—“अभेद”मित्यादि।
अभेदमनुमन्यन्ते कथमध्वसु वस्तुनः।
ता अभूत्वा भवन्त्यश्च नश्यन्त्यश्च तदात्मिकाः॥ १८१६॥
अवस्थायां च मध्यायां स्वरूपेणैव कारकम्।
तत्तदेव स्वरूपं च दशयोरन्ययोरपि॥ १८१७॥
तदा क्रियाक्रियाभ्रंशौ कथमस्य तयोर्मतौ।
पररूपेण कर्तृत्वे प्राप्ताऽस्याकर्तृता पुनः॥ १८१८॥
अतीतानागतावस्थमन्यच्चेदनलादिकम्।
तत्साङ्कर्यादिदोषोऽयमस्मिन्पक्षे निरास्पदः॥ १८१९॥
तदिदानीमभूत्वैव कार्ययोग्यं प्रजायते।
न च तिष्ठति भूत्वेति सिद्धाऽस्यानन्वयात्मता॥ १८२०॥
वस्तुनः सकाशादभेदं कथमवस्था (स्व)नुमन्यन्ते—प्रतिपद्यन्ते। नैव। यस्मादभूत्वा भवन्त्यवस्था भूत्वा च विनश्यन्ति। नच तथा वस्त्विष्टम्, सर्वदाऽस्तित्वाभ्युपगमात्। ततश्च कथं ता अभूत्वा भवन्त्यो विनश्यन्त्यश्च तदात्मिका युक्ताः। नैव। भिन्नयोगक्षेमत्वात्। अन्यथा हि तदात्मत्वेनासामपि सदाऽस्तित्वप्रसङ्गो वस्तु स्वभाववत्, ततोऽव्यतिरेकाद्वस्तुनो वाऽभूत्वाभावादिप्रसङ्गोऽवस्थास्वरूपवत्। भवतु चावस्थाभेदपरकल्पना, तथापि विरुद्धधर्माध्यासो न परिहृत एव, तथाहि— वस्तु मध्यावस्थायां किं स्वरूपेण कारकमाहोस्वित्पररूपेण, यदि स्वरूपेण तदेव स्वरूपमन्ययोरपि दशयोरतीतानागतावस्थयोरस्तीति कथमस्य कारकस्वभावस्य क्रियाक्रियाभ्रंशौ स्याताम्। अथ पररूपेण, तदाऽस्याकर्तृता पुनः प्राप्तेत्यवस्तुत्वप्रसङ्गः। एवं तावत्तदेव वह्न्यादिरूपमतीतानागतावस्थायां न युक्तम्। अथान्यत्, अस्मिन्पक्षे न भवत्येकत्र क्रियाक्रियादिपरस्परपराहतधर्मसाङ्कर्यादिदोषः, भिन्नत्वाद्वस्तुनः। किं तु यत्तद्दाहपाकादिकार्ययोग्यमनलादिकं वस्तु तदभूत्वा जायते, भूत्वा च विगच्छतीति सदाऽस्तित्वाभ्युपगमविरोधः स्यात्, अन्वयाभावात्॥ १८१६॥ १८१७॥ ॥ १८१८॥ १८१९॥ १८२०॥
स्यादेतत्—यद्यपि कार्ययोग्यमभूत्वा जायते, भूत्वा च विगच्छतीति, तथाप्यतीतानागतावस्थायामकार्ययोग्यं वस्तु विद्यत एव, ततश्च न सदाऽस्तित्वाभ्युपगमविरोध इत्याह—“स एवे”ति।
स एव भाविको भावो य एवायं क्रियाक्षमः।
स च नास्ति तयोर्योस्ति न तस्मात्कार्यसम्भवः॥ १८२१॥
स एवेति। अर्थक्रियाक्षमः। “तयो”रिति। अतीतानागतावस्थयोः। योस्तीति। अकार्ययोग्यः॥ १८२१॥
अथापि स्यात्—अतीतस्य सभागहेत्वादेः कार्ययोग्यत्वमिष्यत एव, ततश्चासिद्धमेतन्न तस्मात्कार्यसम्भव इत्याह—“अतीतश्चे”ति।
अतीतश्च पदार्थोऽयमभूत्वा भवनात्स्फुटम्।
वर्त्तमानोऽन्यवत्प्राप्तः कादाचित्कतयापि च॥ १८२२॥
सदा सत्त्वमसत्त्वं वाऽहेतुत्वेऽन्यानपेक्षणात्।
हेतोर्नियतसत्त्वश्च वर्त्तमानोऽर्थ उच्यते॥ १८२३॥
प्रतिसङ्ख्यानिरोधादिवैलक्षण्यं परैर्मतम्।
संस्कृतत्वं च रूपादेर्जातिस्थित्यादियोगतः॥ १८२४॥
तत्र जातिर्विशेषं कं जनयन्त्यभिधीयते।
जनिकाऽस्येति तद्रूपादजातादपरं परम्॥ १८२५॥
अशक्योत्पादनस्तावदनन्योऽतिशयस्ततः।
सत्त्वात्प्रागपि निष्पत्तेर्निष्पत्त्युत्तरकालवत्॥ १८२६॥
अन्यस्त्वतिशयो नास्ति व्यतिरेकादसङ्गतेः।
असत्कार्यप्रसङ्गश्च तस्य पूर्वमसत्त्वतः॥ १८२७॥
अन्यथात्वे स्थितौ नाशे चान्यानन्यविकल्पयोः।
जरादिविषया दोषा एत एवानुषङ्गिणः॥ १८२८॥
“अन्यव”दिति। अविवादास्पदीभूतवर्त्तमानवत्। “कादाचित्कतयाऽपि चे”ति।वर्त्तमानोऽन्यवत्प्राप्त इति सम्बन्धः। न चायं हेतुरनन्वयः, तथाहि—हेतुप्रत्ययजनितो योऽर्थः स वर्त्तमान उच्यते, यश्च कादाचित्कः सोऽवश्यं हेतुप्रत्ययनिमित्तः, यस्मादहेतुकस्य द्वे एव गती, यदुत सदा सत्त्वमसत्त्वं वा, अन्यानपेक्षणात्, तस्माद्यः कादाचित्कः सोऽवश्यं हेतुप्रत्ययनिर्मितसत्त्वः, यश्च हेतुप्रत्ययनिर्मितसत्त्वः सोऽवश्यं वर्त्तमान एवेति सिद्धम्। वर्त्तमानत्वेन कादाचित्कत्वस्य व्याप्तिः। किञ्च—यद्यतीतानागतं द्रव्यतोऽस्ति तदा सर्वसंस्काराणां शाश्वतत्वप्रसङ्गः। ततश्च प्रतिसङ्ख्यानिरोधादिभ्यो रूपादीनां विशेषो न प्राप्नोति। अथ रूपादेः संस्कृतलक्षणयोगात्संस्कृतत्वं नाकाशादीनां, तेन भवति प्रतिसङ्ख्यानिरोधादेर्वैलक्षण्यं रूपादेरिति परैर्मतं, तदेतदसम्यक्, तथाहि—जातिर्जरास्थितिरनित्यता चेति चत्वारीमानि संस्कृतलक्षणानि। तत्र जातिर्जनयति, स्थितिः स्थापयति, जरा जरयति, अनित्यता विनाशयतीत्येवं जननादिरेषां व्यापार इष्टः। तत्र जातिस्तावत्कं विशेषं जनयन्ती सत्यस्य रूपादेर्जनिकेत्यभिधीयते, किं तस्माद्रूपादेः परं—व्यतिरिक्तमाहोस्विदपरम्—अव्यतिरिक्तं विशेषं जनयन्तीति पक्षद्वयम्। तत्र न तावदव्यतिरिक्तं, यस्मादसौ विशेषो जातिव्यापारात्प्रागपि निष्पन्नत्वादशक्यक्रियः, निष्पत्त्युत्तरकालवत्। नहि निष्पन्नस्य क्रियायुक्ताऽनवस्थाप्रसङ्गात्। नापि व्यतिरिक्तोऽतिशयः क्रियते, व्यतिरेके ह्यस्य रूपादेरयमतिशय इति सम्बन्धासिद्धेः। तथाहि—न तादात्म्यलक्षणः सम्बन्धो व्यतिरेकाभ्युपगमात्। अनभ्युपगमे वा पूर्वोक्तदोषप्रसङ्गात्। नापि तदुत्पत्तिलक्षणो जातेरेव तदुत्पत्तेः। न चान्यः सम्बन्धोऽस्ति, आधाराधेयत्वादीनां तदुत्पत्त्यन्तर्गतत्वात्। अथ तदुत्पत्तिरभ्युपगम्यते, तन्मात्रभाविनो विशेषस्य नित्योत्पत्तिप्रसङ्गाज्जातिः किङ्करी स्यात्। जातिमपेक्ष्योत्पादयतीति चेत्, न ह्यनुपका रिण्यां जातावपेक्षायुक्ताऽतिप्रसङ्गात्। उपकारे वा तस्योपकारस्यातिशयवत्तत्वान्यत्वचिन्तायामनवस्थाप्रसङ्गात्। तस्माद्व्यतिरेके सति सम्बन्धो सिद्ध्यति। किञ्च —तस्यातिशयस्य पूर्वमसत्वादसत्कार्यमभ्युपगतं भवेत्। एवं जरयान्यथात्वे क्रियमाणे स्थित्याऽवस्थितेरनित्यतया च नाशे क्रियमाणे, एषामन्यथात्वादीनामन्याऽनन्यविकल्पे सति ये दोषास्ते जातिवज्जरादिष्वपि वाच्याः॥ १८२२॥ १८२३॥ ॥ १८२४॥ १८२५॥ १८२६॥ १८२७॥ १८२८॥
स्वकार्यारम्भिण इमे सामर्थ्यनियमात्मना।
जात्यादयश्च तद्रूपं प्राक्पश्चादपि विद्यते॥ १८२९॥
समर्थरूपभावाच्च प्रारभन्ते न किं तदा।
स्वानुरूपां क्रियां तस्याः प्रारम्भे चामिताध्वता॥ १८३०॥
किञ्च—जात्यादीनां स्वकार्यारम्भित्वं यत्तत्समर्थस्वभावनियमादिष्टं, स च समर्थः स्वभावस्तेषां सर्वदाऽस्तीति सदैव स्वकार्यारम्भित्वप्रसङ्गः। नच हेतुप्रत्ययवैकल्यं तेषामपि सदावस्थितत्वात्। ततश्चातीतानागतावस्थयोर्जात्यादिभिर्जननादिस्वकार्यकरणादेकस्मिन्नेवाध्वन्यपरिमिताध्वप्रसङ्गः॥ १८२९॥ १८३०॥
किञ्चातीतादयो भावाः क्षणिकाः स्युर्न वा यदि।
आद्याः पुनस्तयोः प्राप्ता सैवापरिमिताध्वता॥ १८३१॥
यः क्षणो जायते तत्र वर्त्तमानो भवत्यसौ।
उत्पद्य यो विनष्टश्च सोऽतीतो भाव्यनागतः॥ १८३२॥
अपिच—अतीतानागताः क्षणिका वा स्युर्न वा क्षणिका इति पक्षद्वयम्। तत्र यद्याद्याः—क्षणिका इति यावत्, तदा सैवामिताध्वता प्राप्ता। यः क्षण इति तामेव दर्शयति॥ १८३१॥ १८३२॥
अथाप्यक्षणिकास्ते स्युः कृतान्तस्ते विरुध्यते।
क्षणिकाः सर्वसंस्काराः सिद्धान्ते हि प्रकाशिताः॥ १८३३॥
अथाक्षणिका इति पक्षः, एवं सति कृतान्तविरोधः—कृतान्तः सिद्धान्त उच्यते। तथाहि क्षणिकाः सर्वसंस्कारा इति सिद्धान्तः॥ १८३३॥
युक्तिबाधाऽपि सन्तश्चेन्नियमात्क्षणभङ्गिनः।
वर्त्तमाना इव प्राक्तु प्रतिबन्धोऽत्र साधितः॥ १८३४॥
किञ्च—न केवलं सिद्धान्तविरोधो मानविरोधोऽपि प्रतिज्ञायाः। तथाहि— यत्सत्तत्सर्वं क्षणिकं यथा वर्त्तमानं, सन्तश्चातीतानागता इति नियमात्क्षणभङ्गिनः प्राप्ताः। प्राक्तु—क्षणभङ्गाधिकारे, प्रतिबन्धोऽस्य हेतोः प्रसाधित इति नानैकान्तिकत्वम्। तथाहि—अर्थक्रियाकारित्वं सत्त्वलक्षणम्, अक्षणिकस्य च क्रमयौगपद्याभ्यामर्थक्रियाविरोधादर्थक्रियानिवृत्तौ तल्लक्षणस्य सत्त्वस्य निवृत्तिरिति साध्यविपक्षान्निवृत्तं सत्त्वम्॥ १८३४॥
अर्थक्रियासमर्थाः स्युरतीतानागता इमे।
न वा सामर्थ्यसद्भावे वर्त्तमानास्तदन्यवत्॥ १८३५॥
अवर्त्तमानतायां तु सर्वशक्तिवियोगिनः।
नष्टाजाताः प्रसज्यन्ते व्योमतामरसादिवत्॥ १८३६॥
तुल्यपर्यनुयोगाश्च सर्वे व्योमादयोऽकृताः।
अनैकान्तिकताक्लृप्तेर्न तेपि विनिबन्धनम्॥ १८३७॥
नियमार्थक्रियाशक्तिर्भावानां प्रत्ययोद्भवा।
अहेतुत्वे समं सर्वमुपयुज्येत सर्वतः॥ १८३८॥
नियतार्थक्रियाशक्तिजन्म प्रत्ययनिर्मितम्।
वर्त्तमानस्य भावस्य लक्षणं नान्यदस्ति च॥ १८३९॥
अतीतानागतानां च तदखण्डं समस्ति वः।
तत्किं न वर्त्तमानत्वममीषामनुषज्यते॥ १८४०॥
किञ्च—इमेऽतीतानागता अर्थक्रियासमर्था वा स्युर्न वा समर्था इति पक्षौ। यदि समर्थास्तदा सामर्थ्यसद्भावे वर्त्तमानाः प्राप्नुवन्ति, अविवादास्पदीभूतवर्त्तमानवत्। प्रयोगः—ये येऽर्थक्रियासमर्थास्ते वर्त्तमानाः, यथाऽविवादास्पदीभूता वर्त्तमानाः, अर्थक्रियासमर्थाश्चातीतादय इति स्वभावहेतुप्रसङ्ग। न चायमनैकान्तिकः, यतो वर्त्तमानत्वनिवृत्तौ नष्टाजातानां सर्वसामर्थ्यवियोगित्वं प्रसज्येत, आकाशाम्भोरुहवत्। प्रयोगः—ये वर्त्तमाना न भवन्ति ते क्वचित्समर्था अपि न भवन्ति, यथा व्योमाम्भोरुहं, न भवन्ति चातीतादयो वर्त्तमाना इति व्यापकानुपलब्धिः। नचाकाशप्रतिसङ्ख्यानिरोधाप्रतिसङ्ख्यानिरोधैरसंस्कृतैरनेकान्तस्तेषामपि पक्षीकरणात्। अतोऽनैकान्तिकत्वकल्पनाया नातिनिबन्धनम्। तथाहि—येयं प्रतिनियतार्थक्रिया शक्तिर्भावानां सा प्रत्ययोद्भवेत्यङ्गीकर्त्तव्यम्, अन्यथा यदि निर्हेतुका स्यात्तदा नियमहेतोरभावात्प्रतिनियता शक्तिर्भावानां न स्यात्। ततश्च सर्वं सर्वस्मिन्कार्ये उपयुज्येत। तस्मात्कृ(तस्मादकृ ?) ताकाशादीनां सामर्थ्यनियमो न युक्त इति न तैरनैकान्तिकत्वकल्पनाया निबन्धनम्। नच प्रथमे हेतौ सन्दिग्धविपक्षवृत्तिकता, यस्मान्नियतायामर्थक्रियायां या शक्तिस्तस्या यदेतज्जन्म हेतुप्रत्ययनिर्मितं तदेव वर्त्तमानस्य लक्षणम्, एतच्च वर्त्तमानत्वलक्षणमविकलमतीतादिष्वप्यस्तीति निमित्तान्तराभावात्किमिति वर्त्तमानता (न) प्रसज्यते॥ १८३५॥ १८३६॥ १८३७॥ १८३८॥ ॥ १८३९॥ १८४०॥
स्वर्गापवर्गसंसर्गयत्नोऽयमफस्ततः।
ईहासाध्यं न किञ्चिद्धि फलमत्रोपलक्ष्यते॥ १८४१॥
किञ्च—यस्यातीतानागतं द्रव्यतोऽस्ति तस्य फलमपि नित्यमस्तीति स्वर्गापवर्गप्राप्त्यर्थो यत्नो विफलः स्यात्, ईहासाध्यस्य कस्यचित्फलस्याभावात्। किं तत्र व्रतनियमादिलक्षणाया ईहायाः सामर्थ्यं स्यात्। उत्पादने सामर्थ्यमिति चेत्। उत्पादनन्तर्ह्यभूत्वा भवतीति सिद्धम्। अथ तदप्यस्ति, कस्येदानीं क्व सामर्थ्यम्। वर्त्तमानीकरणसामर्थ्यमिति चेत्। किमिदं वर्त्तमानीकरणं नाम। देशान्तराकर्षणं चेत्।नित्यं तर्हि वस्तु प्रसक्तं, सर्वदाऽवस्थितत्वात्। अरूपाणां वेदनादीनां निष्क्रियत्वात्कथमाकर्षणं भवेत्। यच्च तदाकर्षणं तदभूत्वा भवतीति सिद्धम्। स्वर्गः सुमेरुपृष्ठादिः अपवर्गो मोक्षः, तयोः प्रप्तिः संसर्गः तत्र यत्नो व्रतनियतादिः॥ १८४१॥
अथ नार्थक्रियाशक्तिस्तेषामभ्युपगम्यते।
यद्येवमत एवैषामसत्त्वं व्योमपुष्पवत्॥ १८४२॥
अथ नार्थक्रियासमर्था इति द्वितीयपक्ष आश्रीयते। एवं तर्ह्यत एवार्थक्रियाशून्यत्वादसत्त्वं प्राप्नोति खपुष्पवत्। सर्वसामर्थ्यविवेकलक्षणत्वादसत्त्वस्य॥ १८४२॥
एवं तावदतीतानागतानामसत्तासाधकं प्रमाणमभिधाय सत्तासाधकं प्रमाणमपाकर्तुमाह—“हेतव” इत्यादि।
हेतवो भावधर्मास्तु नासिद्धे सिद्धिभागिनः।
वर्त्तमानत्वसिद्धेर्वा विरुद्धा धर्मिबाधनात्॥ १८४३॥
हेतवो हि पूर्वोक्ता अध्वसङ्गृहीतत्वादित्यादय आश्रयासिद्धाः, अतीतादेर्धर्मिणोऽ सिद्धत्वात्। यथाह—“नासिद्धे भावधर्मोऽस्ती”ति। अथापि सिद्धाः स्युः, तथापिवर्त्तमानत्वसिद्धेर्धर्मस्वरूपविपरीतसाधनाद्विरुद्धा हेतवः॥ १८४३॥
कथमिदानीमध्वसङ्गृहीतत्वमतीतानागतानां रूपादीनां निर्दिष्टम्, नहि शशविषाणमत्यन्तासदतीतमनागतं वा व्यवस्थाप्यत इत्याह—“भूत्वे”त्यादि।
भूत्वा यद्विगतं रूपं तदतीतं प्रकाशितम्।
सति प्रत्ययसाकल्ये भावि यत्तदनागतम्॥ १८४४॥
सत्त्वे तु वर्त्तमानत्वमासज्येतेति साधितम्।
विद्यमानत्वमात्रं हि वर्त्तमानस्य लक्षणम्॥ १८४५॥
सुबोधम्॥ १८४४॥ १८४५॥
रूपवेदनादिभावस्तर्हि कथं निर्दिष्ट इत्याह—“रूपादित्व”मित्यादि।
रूपादित्वमतीतादेर्भूतां तां भाविनीं तथा।
अध्यारोप्य दशामस्य कथ्यते न तु भावतः॥ १८४६॥
“तां दशा”मिति। तामवस्थाम्॥ १८४६॥
द्व्याश्रयं तर्हि कथं विज्ञानमुक्तमित्याह—“द्वयं प्रतीत्ये”ति।
द्वयं प्रतीत्यविज्ञानं यदुक्तं तत्त्वदर्शिना।
सेष्टा सविषयं चित्तमभिसन्धाय देशना॥ १८४७॥
द्विविधं हि विज्ञानं सालम्बनमनालम्बनं च, यत्सालम्बनं तदभिसन्धाय द्व्याश्रयविज्ञानदेशना भगवतः॥ १८४७॥
अथ निरालम्बनमपि ज्ञानमस्तीति कथमवसितमित्याह—“नित्येश्वरादी”त्यादि।
नित्येश्वरादिबुद्धीनां नैवालम्बनमस्ति हि।
शब्दनामादिधर्माणां तदाकारवियुक्तितः॥ १८४८॥
आदिशब्देन प्रधानकालादयः परिकल्पिता गृह्यन्ते। न चैतन्मन्तव्यं शब्दाद्यालम्बना इमा बुद्धय इति कथयति—“शब्दनामादी”त्यादि। तस्येश्वरादेराकारो नित्यत्वसकलहेतुत्वादिः, यस्तया बुद्ध्याऽध्यवसीयते, तेनाकारेण वियोगः शब्दस्य नाम्नो वा विप्रयुक्तसंस्कारविशेषस्य। आदिशब्देन निमित्तादेः परोपगतस्यार्थप्रतिबिम्बकादिस्वभावस्य॥ १८४८॥
यदि तर्हि निर्विषयमपि विज्ञानमस्ति तत्कथं ज्ञानमिति व्यपदिश्यते, तथाहि विजानातीति विज्ञानमिति गीयते, असति च विज्ञेये किं विज्ञानं स्यादित्याह—“बोधानुगतिमात्रेणेति”।
बोधानुगतिमात्रेण विज्ञानमिति चोच्यते।
सा चास्याजडरूपत्वं प्राकाश्यात्परिकल्पितम्॥ १८४९॥
बोधानुगमोऽपि विना बोधेन (न) सम्भवतीति चेदाह—“सा चे”ति। सा-बोधानुगतिः। अस्य-विज्ञानस्य। किमुच्यते ?, यत्तदजडरूपत्वम्, प्रकाश्यवस्त्वन्तराभावात्प्रकाशान्तरविरहाच्च नभोवर्त्त्यालोकवत्प्रकाशरूपत्वादभिधीयते बोधरूपतेति॥ १८४९॥
कर्मातीतं च कथं फलदमित्यत्राह—“विपाकहेतु”रित्यादि।
विपाकहेतुः फलदो नातीतोऽभ्युपगम्यते।
सद्वासितात्तु विज्ञानप्रबन्धात्फलमिष्यते॥ १८५०॥
वासितं परम्परया फलोत्पादनसमर्थमुत्पादितम्॥ १८५०॥
यद्येवं कथमुक्तं भगवता, “अस्ति तत्कर्म यत्क्षीणं निरुद्धं विपरिणतमित्याह”—“तामेवे”ति।
तामेव वासनां चेतःसन्ततावधिकृत्य तत्।
अस्ति कर्मेति निर्दिष्टं भक्त्या मूलविनाशवत्॥ १८५१॥
“भक्त्ये”ति। उपचारेण। यथा मूलद्रव्यप्रसूतस्य हिरण्यादेः फलप्रबन्धस्य स(म)भावे विनष्टमपि मूलद्रव्यमविनष्टमित्युच्यते तद्वत्कर्मापि॥ १८५१॥
उपचारेण देशनायाः किं प्रयोजनमित्याह—“उच्छेददृष्टी”ति।
उच्छेददृष्टिनाशाय चैवं शास्त्रा प्रकाशितम्।
अन्यथा शून्यतासूत्रे देशना नीयते कथम्॥ १८५२॥
नास्त्यतीतं कर्मेत्युक्ते पारम्पर्येण यत्फलोत्पादनसामर्थ्यमाहितमतीतेन कर्मणा तस्याप्यभावं प्रतिपद्येरन्नित्युच्छेददृष्टिमापन्नाः स्युर्विनेया इत्यस्ति कर्मेत्युक्तं भगवता। अन्यथा हि यद्यतीतं स्वरूपेण स्यात्तदा परमार्थशून्यता सूत्रे देशना कथं नीयते। चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति निरुद्ध्यमानं न क्कचित्सन्निचयं गच्छतीति हिचक्षुरभूत्वा भवति भूत्वा च प्रतिविगच्छतीति। वर्त्तमानेऽध्वन्यभूत्वा भवतीति चेन्न। अध्वनो भावानर्थान्तरत्वात्त एवाध्वानस्तथाऽवस्थितिवचनात्। अथ स्वात्म न्यभूत्वा भवति, तथा सिद्धमनागतं चक्षुर्नास्तीति। अपिच सदाऽवस्थितत्वे संस्काराणां हेतुफलयोरभावात् दुःसमुदयसत्याभावः, तदभावान्निरोधमार्गयोरपि, ततश्च सत्यचतुष्टयाभावात्परिज्ञाप्रहाणसाक्षाक्रियाभावना न युज्यन्ते, तदभावाच्च फलस्थानां प्रतिपन्नकानां च पुद्गलानामभाव इति सकलमेव प्रवचनं निरुध्यत इति नातीतादिवस्तुजातकल्पना साध्वी॥ १८५२॥
अतीतानागतज्ञानं विभक्तं योगिनां कथमित्यत्राह—पारम्पर्येणेत्यादि।
पारम्पर्येण साक्षाद्वा कार्यकारणतां गतम्।
यद्रूपं वर्त्तमानस्य तद्विजानन्ति योगिनः॥ १८५३॥
अनुगच्छन्ति पश्चाच्च विकल्पानुगतात्मभिः।
शुद्धलौकिकविज्ञानैस्तत्वतोऽविषयैरपि॥ १८५४॥
तद्धेतुफलयोर्भूतां भाविनीं चैव सन्नतिं।
तामाश्रित्य प्रवर्त्तन्तेऽतीतानागतदेशनाः॥ १८५५॥
समस्तकल्पनाजालरहितज्ञानसन्ततेः।
तथागतस्य वर्त्तन्तेऽनाभोगेनैव देशनाः॥ १८५६॥
इति त्रैकाल्यपरीक्षा।
अतीतार्थापेक्षया कार्यतां गतम्, अनागतापेक्षया कारणताम्। “विकल्पानुगतात्मभि”रिति। सविकल्पैरित्यर्थः। “तत्त्वतोऽविषयै”रिति। आविष्टाभिलापैर्ज्ञानैः स्वलक्षणस्याविषयीकरणात्। तत्—तस्मात्। हेतुफलयोः सन्ततिं भूतां भाविनीञ्चाश्रिता अतीतादिदेशना योगिनामपरिशुद्धानां प्रवर्त्तन्ते। भगवतस्तु तथागतस्य शुद्धलौकिकमपि ज्ञानं नास्ति, नित्यसमाहितत्वात्सर्वाविद्याप्रहाणेन। विकल्पस्य चाविद्यास्वभावत्वात्। यदाह— विकल्पः स्वयमेवायमविद्यारूपतां गतः। स्वाकारम्बाह्यरूपेण यस्मादारोप्य वर्त्तते॥ इति तस्य पूर्वप्रणिधानपुण्यज्ञानसम्भारसामर्थ्यादवाप्तचिन्तामणिसदृशात्मभावस्यानाभोगेनैव देशनाः प्रवर्त्तन्ते॥ १८५३॥ ॥ १८५४॥ १८५५॥ १८५६॥
इति त्रैकाल्यपरीक्षा।