२० स्याद्वाद-परीक्षा

अणीयसापि नांशेन मिश्रीभूतापरात्मकमित्येतत्समर्थनार्थं चोद्योपक्रमपूर्वकमाह—“नन्वि”त्यादि ।

नन्वनेकात्मकं वस्तु यथा मेचकरत्नवत् ।
प्रकृत्यैव सदादीनां को विरोधस्तथा सति ॥ १७०९ ॥

यदुक्तम्— अर्थक्रियासमर्थं च सदन्यदसदुच्यते । समावेशो न चैकत्र तयोर्युक्तो विरोधतः ॥ इति । तदत्राह्रीकादयश्चोदयन्ति । सर्वमेव वस्तु सामान्यविशेषात्मकत्वेनानेकात्मकं, यथा शबलाभासं रत्नं, तत्कथं सदादीनां विरोधः, येनोच्यतेसमावेशो न चैकत्रे ति । आदिशब्देन क्रियाक्रियैकत्वादयो गृह्यन्ते । यद्यपि चेदं चोद्यं ननु तदेवेत्यादिना परिहृतं, तथापि विस्तरेण प्रतिपादनाय वादान्तरं वा दर्शयितुं पुनरुच्यते ॥ १७०९ ॥

तत्र सामान्यविशेषात्मकत्वसाधनाय यथाक्रममह्रीकः प्रयोगद्वयमाह—“भाव” इति ।

भावो भावान्तरातुल्यः खपुष्पान्न विशिष्यते ।
अतुल्यत्वविहीनश्चेत्तेभ्यो भिन्नो न सिद्ध्यति ॥ १७१० ॥

किञ्चिद्विवक्षितं वस्तु घटादि, स यदि घटादिर्भावः पटादिना भावान्तरेणातुल्यः स्यात्—ततो यदि व्यावृत्तः स्यात्, तदा खपुष्पान्न तस्य विशेषः स्यात्, सर्वथा वस्त्वन्तराद्व्यावृत्तत्वात्, नच वस्त्वन्तराद्व्यावृत्तस्यान्या गतिः सम्भवति खपुष्पतां मुक्त्वा । तस्मात्तस्य वस्तुनः खपुष्पातुल्यत्वमभ्युपगच्छता भावान्तरतुल्यत्वं वस्तुत्वं नाम सामान्यमभ्युपगन्तव्यमिति सिद्धं सामान्यात्मकत्वम् । विशेषात्मकत्वं तर्हि कथमिति चेदत्रोच्यते—“अतुल्यत्वविहीनश्चेत्तेभ्यो भिन्नो न सिद्ध्यति”—स एव घटादिर्भावो यदि पटादिना भावेन यदतुल्यत्वं तेन विहीनः स्यात्, तेन घटादिना यद्यतुल्यो न भवेदिति यावत् । तदाऽयं घटोऽयं च पट इति पदादिभ्यो घटादिर्भिन्नो न सिद्ध्येत्, स्वस्वरूपवत् । भिद्यते च । तस्माद्विशेषात्मकत्वमपि सिद्धम् ॥ १७१० ॥

“सर्वथाऽपी”त्यादिनाऽस्यैव प्रयोगद्वयस्यार्थं विस्तरेण समर्थयते ।

सर्वथाऽपि ह्यतुल्यत्वे ह्यभिप्रेतेऽस्य वस्तुनः ।
वस्त्वन्तरेण नियतं वस्तुत्वमवहीयते ॥ १७११ ॥

वस्तुनो हि निवृत्तस्य क्वान्या सम्भविनी गतिः ।
लक्ष्यते नास्तितां मुक्त्वा तारापथसरोजवत् ॥ १७१२ ॥

तस्मात्खपुष्पातुल्यत्वमिच्छता तस्य वस्तुनः ।
वस्तुत्वं नाम सामान्यमेष्टव्यं तत्समानता ॥ १७१३ ॥

“अन्यथा हि न सा बुद्धि”रित्यादिना सामान्यात्मकत्वसाधनायोपपत्त्यन्तरमाह ।

अन्यथा हि न सा बुद्धिर्बलिभुग्दशनादिषु ।
वर्त्तते नियता त्वेषा भावेष्वेवेति किं कृतम् ॥ १७१४ ॥

सारूप्यान्नियमोऽयं चेत्सामान्यं च तदेव नः ।
स्वभावानुगता शक्तिरनेनैवोपवर्णिता ॥ १७१५ ॥

अत्यन्तभिन्नता तस्माद्धटते नैव कस्यचित् ।
सर्वं हि वस्तुरूपेण भिद्यते न परस्परम् ॥ १७१६ ॥

“अन्यथे”ति । यदि च भावो भावान्तरातुल्यः स्यात्तदा किमिति घटादिष्वेव भावो भाव इत्यभिन्ना बुद्धिर्भवति नतु काकदन्तादिष्विति तत्र कारणं वक्तव्यम्, सारूप्यं कारणमिति चेत्तदेव तर्हि सामान्यमिति सिद्धं, सामान्यपर्यायत्वात्सारूप्यस्य । अनुयायिनी शक्तिरस्ति घटादिष्वेव, न काकदन्तादिषु, अतः स्वभावानुगता शक्तिः कारणमिति चेत् । साऽप्यनेनैव सारूप्येणोपवर्णिता—व्याख्याता । सारूप्यवदत्रापि समानमुत्तरमिति यावत् । तस्या एव सामान्यरूपत्वप्रसङ्गात् । तस्माद्वस्तुरूपेण सर्वं घटादि परस्परमभिन्नमिति सिद्धम् ॥ १७१४ ॥ १७१५ ॥ १७१६ ॥

भेदसमर्थनार्थमाह—“अवधीकृत” इत्यादि ।

अवधीकृतवस्तुभ्यो वैरुप्यरहितं यदि ।
तद्वस्तु न भवेद्भिन्नं तेभ्योऽभेदस्तदात्मवत् ॥ १७१७ ॥

तेभ्यः स्वरूपं भिन्नं हि वैरूप्यमभिधीयते ।
वैरूप्यं न च भिन्नं चेत्येतदन्योन्यबाधितम् ॥ १७१८ ॥

तस्माद्भिन्नत्वमर्थानां कथञ्चिदुपगच्छता ।
वैरूप्यमुपगन्तव्यं विशेषात्मकताऽप्यतः ॥ १७१९ ॥

“अवधीकृतेभ्य” इति । पटादिभ्योऽर्थान्तरेभ्यो यदि घटादि वैरूप्येण रहितं भवेत्तदाऽभेदात्तेभ्यः पटादिभ्यस्तद्धटादि भिन्नं न भवेदात्मस्वरूपवदभिन्नत्वप्रसङ्गात् । तथाहि—तेभ्यः पटादिभ्यो यद्विभिन्नं स्वरूपं घटादीनां तदेव खलु वैरूप्यमुच्यते नान्यत् । ततश्च सत्यपि वैरूप्ये पटादीनां नच घटादिभ्यो भेदोऽस्तीति स्ववचनव्याहतिः, भेदवैरूप्ययोः पर्यायत्वात् ॥ १७१७ ॥ १७१८ ॥ १७१९ ॥

एवं सामान्यविशेषात्मकं प्रसाध्य तयोः सामान्यविशेषयोरसाङ्कर्येण व्यवहारहेतुत्वं प्रतिपादयन्नाह—“वस्त्वेकात्मकमेवेद”मिति ।

वस्त्वेकात्मकमेवेदमनेकाकारमिष्यते ।
ते चानुवृत्तिव्यावृत्तिबुद्धिग्राह्यतया स्थिताः ॥ १७२० ॥

आद्या एतेऽनुवृत्तत्वात्सामान्यमिति कीर्त्तिताः ।
विशेषास्त्वभिधीयन्ते व्यावृत्तत्वात्ततोऽपरे ॥ १७२१ ॥

अयमत्र परमार्थः—मेचकरत्नवदेकमेव वस्त्वनेकाकारम्, ते चाकाराः केचिदनुवृत्तिबुद्धिग्राह्याः केचिद्व्यावृत्तिबुद्धिग्राह्याः । तत्र येऽनुवृत्तिबुद्धिग्राह्यास्तेऽनुवृत्ततयासामान्यमिति कीर्त्त्यन्ते, ये तु ततोऽपरे व्यावृत्तिबुद्धिग्राह्यास्ते व्यावृत्तत्वाद्विशेषा इति कल्प्यन्ते, तत्रानुवृत्तिबुद्धिर्भावो भाव इत्याद्यभेदाकारा, व्यावृत्तिबुद्धिर्घटोऽयं न पट इत्येवमादिभेदाकारा ॥ १७२० ॥ १७२१ ॥ १७२२ ॥

तदत्र प्रतिविधत्ते “परस्परस्वभावत्व” इत्यादि ।

परस्परस्वभावत्वे स्यात्सामान्यविशेषयोः ।
साङ्कर्यं तत्त्वतो नेदं द्वैरूप्यमुपपद्यते ॥ १७२२ ॥

परस्परास्वभावत्वेऽप्यनयोरनुषज्यते ।
नानात्वमेवम्भावेऽपि द्वैरूप्यं नोपपद्यते ॥ १७२३ ॥

अत्र पक्षद्वयम्, किं यदेव सामान्यं स एव विशेषः, आहोस्विदन्यत्सामान्यमन्यो विशेष इति । तत्र प्रथमे पक्षे सामान्यविशेषयोः परस्परस्वभावत्वे साङ्कर्यंस्यात् । ततश्चेदं “सामा”न्यमयं विशेष इति विभागाभावात्परमार्थत एकस्य वस्तुनो द्वैरूप्यं नोपपद्यते । अथ माभूत्साङ्कर्यमिति द्वितीयः पक्षः समाश्रीयते । तत्र परस्परास्वभावत्वेऽप्यङ्गीक्रियमाणे नानात्वं—स्वभावभेदः सामान्यविशेषयोः सम्प्रसज्यते । एवं ह्यनयोरसाङ्कर्यं भवेद्यद्यनयोर्नानात्वं स्यात्, ततश्चैवम्भावेऽपि—नानात्वेऽपि वस्तुद्वयमेव केवलं जातमिति नैकस्य वस्तुनो द्वैरूप्यं युक्तम् । अथापि स्यात्—यदि नाम सामान्यविशेषयोः परस्परं स्वभावविवेको जातस्तथापि सामान्यविशेषात्मकं वस्त्वभिन्नमेवेति । तदेतत्तु परस्परविरुद्धम् । तथाहि—एकस्माद्वस्तुनः सामान्यविशेषयोरभेदेऽङ्गीक्रियमाणे कथमनयोः परस्परं स्वभावविवेकः सिद्ध्येत्, एकस्मादभेदेतयोरप्यभेदप्रसङ्गादेकवस्तुस्वभाववत् । सामान्यविशेषयोश्च परस्परं स्वभावविवेकेऽङ्गीक्रियमाणे ताभ्यामभिन्नमेकं वस्तु न सिद्ध्येत्, ताभ्यामभिन्नत्वात्तस्याप्येकत्वेनाभिमतस्य द्वित्वप्रसङ्गात्सामान्यविशेषस्वरूपवत् । तस्मादेकमुभयात्मकमिति परस्परव्याहतमेतत् ॥ १७२२ ॥ १७२३ ॥

“सत्यपी”त्यादिना सुमतेर्मतमाशङ्कते ।

सत्यप्येकस्वभावत्वे धर्मभेदोऽत्र सिद्ध्यति ।
भेदसंस्था(ऽ)विरोधश्च यथा कारकशक्तिषु ॥ १७२४ ॥

न दृष्टेऽनुपपन्नं च यत्सामान्यविशेषयोः ।
ऐकात्म्येऽपीक्ष्यते भेदलोकयात्रानुवर्त्तनम् ॥ १७२५ ॥

स हि चोद्योपक्रमे परिहारं किलात्राह—तत्सामान्यविशेषयोः परस्परस्वभावविरहानभ्युपगमे सङ्कीर्णता प्राप्नोति । नैष दोषः । तयोरेकस्वभावतया सत्यामपि सङ्कीर्णतायां धर्मभेदः प्रसिद्ध्यति कारकशक्तिवत् । तथाहि—बलाहको विद्योतते, बलाहकाद्विद्योतत, इत्यादिकार्यभेदाद्भिद्यमानात्मानः कारणशक्तयः समुपलभ्यन्ते द्रव्यस्वभावाव्यतिरिक्ततया सङ्कीर्णतायामपि सत्याम् । तदनभ्युपगमे लोकशास्त्रवि“रोधो”ऽवश्यम्भावी । अपिच । न हि दृष्टेऽनुपपन्नं नाम । तथाहि—सामान्यविशेषयोरेकवस्तुस्वभावत्वेऽप्यसङ्कीर्णताया भेदेऽपि लोकयात्रानुवर्त्तनमुपलभ्यत एव । भेदेन लोकयात्रा भेदलोकयात्रा, साऽनुवर्त्त्यते येनैकात्म्येन तत्तथोक्तम् । प्रयोगः— एकस्य वस्तुनो यो भेदव्यवहारः स धर्मभेदनिबन्धनः, यथा कारकशक्तिषु, भेदव्यवहारश्चायमेकस्मिन्वस्तुनि सामान्यविशेषलक्षण इति स्वभावहेतुः ॥ १७२४ ॥ १७२५ ॥

“नन्वि”त्यादिना प्रतिविधत्ते ।

ननु सत्येकरूपत्वे धर्मभेदो न सिद्ध्यति ।
अकल्पितो विभेदो हि नानात्वमभिधीयते ॥ १७२६ ॥

अनेन हेतोर्विरुद्धतामाह । इष्टविपरीतसाधनात् । तथाहि—पारमार्थिको धर्मभेदो वादिनः साधयितुमिष्टः, स चाकल्पितो धर्मभेदो न सिद्ध्यति, वस्तुन एकत्वाभ्युपगमात्, तस्य चैकस्य वस्तुनो भेदविरोधात्, यतो भेद इति नानात्वमभिधीयते, यच्च नाना तत्कथमेकं स्यात् ॥ १७२६ ॥

दृष्टान्ते न केवलं साध्यशून्यता, अपि तु साध्यविपर्ययेण हेतुर्व्याप्त इति दर्शयन्नाह—“नानात्मत्व”मित्यादि ।

नानात्मत्वं च शक्तीनां विवक्षामात्रनिर्मितम् ।
एकतत्त्वात्मकत्वे हि न भेदोऽत्रापि युक्तिमान् ॥ १७२७ ॥

स्यादेतत्—यद्यपि भेद इति नानात्वमभिधीयते, तदेव नानात्वमेकस्य वस्तुनो भाविकं कथं विरुद्धं, येन तद्विपरीतं साधयद्विरुद्धं भवेदित्याह—“एक”मित्यादि ।

एकमित्युच्यते तद्धि यत्तदेवेति गीयते ।
नानात्मकं तु तन्नाम न तद्भवति यत्पुनः ॥ १७२८ ॥

तद्भावश्चाप्यतद्भावः परस्परविरोधतः ।
एकवस्तुनि नैवायं कथञ्चिदवकल्प्यते ॥ १७२९ ॥

यत्तदेतदिति तत्त्वेन विधीयते तदेकमित्युच्यते, यथा चैतन्यपुरुषयोः । वस्तुनः सतस्तत्त्वनिषेधे नानात्वं, यथा भूतचैतन्ययोः । ततश्च विधिप्रतिषेधयोरेकत्रायोगात्तद्भावलक्षणात्तद्भावलक्षणयोरेकत्वनानात्वयोः परस्परविरोध इति कल्पित एवैकस्य धर्मभेदः ॥ १७२८ ॥ १७२९ ॥

कथं तद्भावातद्भावयोर्विरोध इत्याह—“विधाने”त्यादि।

विधानप्रतिषेधौ हि परस्परविरोधिनौ।
शक्यावेकत्र नो कर्तुं केनचित्स्वस्थचेतसा॥ १७३०॥

स्यादेतत्—धर्मभेदकल्पनायाः किं निबन्धनम्, अवश्यं चास्या भिन्नेन निबन्धनेन भाव्यम्, अन्यथा वस्तुसाङ्कर्यं स्यात्। ततश्च यत्तद्भिन्नं निबन्धनं स एव च पारमार्थिको धर्मभेदोऽस्माकमित्याह—“सजातीये”त्यादि।

सजातीयविजातीयानेकव्यावृत्तवस्तुनः।
ततस्ततः परावृत्तेर्धर्मभेदस्तु कथ्यते॥ १७३१॥

एकस्यापि ततो युक्ता कल्पितासङ्ख्यरूपता।
वास्तवं नैकभावस्य द्वैरूप्यमपि सङ्गतम्॥ १७३२॥

सजातीयविजातीयं च तदनेकं चेति कर्मधारयः, तस्माद्व्यावृत्तं च तद्वस्तु चेति विग्रहः। तस्यैकस्य वस्तुनः, ततस्ततः—सजातीयाद्विजातीयाच्च, या परावृत्तिः, साधर्मभेदव्यवस्थाया निबन्धनम्। तस्माद्यतः कल्पिताऽप्यनेकता सम्भवति, तस्माद्वास्तवं द्वैरूप्यमेकस्य न सङ्गतम्। अपिशब्देन सामान्येन धर्मभेदपूर्वकत्वमात्रे साध्ये सिद्धसाध्यतामपि सूचयति॥ १७३१॥ १७३२॥

स्यादेतत्—नरसिंहादिभिरनेकान्तः, तथाहि नरसिंहादय एकस्वभावा अपि भाविकेन द्वैरूप्येणाविरुद्धाः समुपलभ्यन्त इत्याह—“नरसिंहादय” इति।

नरसिंहादयो ये हि द्वैरूप्येणोपवर्णिताः।
तेषामपि द्विरूपत्वं भाविकं नैव विद्यते॥ १७३३॥

स ह्यनेकाणुसन्दोहस्वभावो नैकरूपवान्।
यच्चित्रं न तदेकं हि नानाजातीयरत्नवत्॥ १७३४॥

ऐक्ये स्यान्न द्विरूपत्वान्नानाकारावभासनम्।
मक्षिकापदमात्रेऽपि पिहितेऽनावृतिश्च न॥ १७३५॥

आदिशब्देन मेचकरत्नादिपरिग्रहः। “स ही”ति। नरसिंहः। सन्दोहः—समूहः। रूपमस्यास्तीति रूपवान्। एकेन रूपवानिति विग्रहः। अनेन दृष्टान्तस्य प्रतिवाद्यसिद्धतामाह। नहि बौद्धं प्रति नरसिंह एकोऽवयवी सिद्धः, अनेकाणुसमूहत्वात्। तत्रैकत्वनिराकरणे प्रमाणमाह—यच्चित्रं न तदेकं, यथा नानाजातीयरत्नसमूहः, चित्रश्च नरसिंह इति, स्वभावविरुद्धोपलम्भो व्यापकविरुद्धस्य वा। ऐक्ये सति द्विरूपत्वनिमित्तनानाकारावभासानुपपत्तिर्बाधकं प्रमाणम्, प्रतिभासभेदनिबन्धनत्वाद्भेदव्यवस्थायाः। एकदेशावरणे सर्वावरणप्रसङ्गश्च बाधकं प्रमाणम्, न ह्येकस्यावृतत्वमनावृतत्वं चेति युगपद्विरुद्धधर्मसंसर्गो युक्तः॥ १७३३॥ १७३४॥ १७३५॥

यद्यनेकाणुसमूहमात्रं नरसिंहः कथं तर्हि द्विरूपानुगतैक(व)स्त्वध्यवसायी प्रत्यय इत्याह—“नृसिंहे”त्यादि।

नृसिंहभागानुस्यूतप्रत्यभिज्ञानहेतवः।
ते चाणवः प्रकृत्यैव विशिष्टप्रत्ययोद्भवात्॥ १७३६॥

एतेनैव प्रकारेण चित्ररत्नादयो गताः।
नानात्मना हि वैचित्र्यमेकत्वेन विरुध्यते॥ १७३७॥

नृसिंहयोर्ये भागास्तैरनुस्यूतं निर्भासीकृतं यत्प्रत्यभिज्ञानं तत्तथोक्तम्, एवम्भूतस्य प्रत्यभिज्ञानस्य यदा प्रकृत्यैव त एवाणवो हेतवो भवन्ति, तदा किमपरमवयविना कल्पितेन। सा च तादृशी प्रकृतिः कुतस्तेषामिति चेदाह—“विशिष्टप्रत्ययोद्भवात्” —विशिष्टात्कारणादुत्पत्तेः। तत्र विशिष्टः प्रत्ययो गतिविशेषसंवर्त्तनीयं कर्म, स्वजातिसमुद्भूतः कललादिश्च। अनेनैव तरसिंहविचारेण मेचकरत्नादयो गताः—व्याख्याताः, इति न तेषां पृथक् दूषणं वक्तव्यम्॥ १७३६॥ १७३७॥

यदुक्तम्— सर्वं च वस्तुरूपेण भिद्यते न परस्परमित्यत्राह—

अर्थक्रियासमर्थत्वं वस्तुत्वमभिधीयते।
यदि तस्यानुगामित्वं सर्वं स्यात्सर्वकार्यकृत्॥ १७३८॥

एकोऽर्थजनकस्तस्य भावः सामर्थ्ययोगतः।
तच्चाविशिष्टमन्यस्मिन्नित्यनुत्पादकः कथम्॥ १७३९॥

नीलाद्येव च वस्तुत्वमनुगामि यदीष्यते।
सितपीताद्यपि प्राप्तं नील(सं)साध्यकार्यकृत्॥ १७४०॥

एकमेव ततो जातं द्वितीयात्मविवर्जितम्।
सर्वं विश्वमतो नैकमनेकाकारमस्ति नः॥ १७४१॥

तदेव चेन्न वस्तुत्वं कणाशिमतसत्त्ववत्।
नैकस्यानेकरूपत्वमेव वः स्याद्विभेदतः॥ १७४२॥

विरुद्धधर्मसङ्गश्च वस्तूनां भेदलक्षणम्।
कथञ्चिदन्यथेष्टोपि न भेदो नीलपीतयोः॥ १७४३॥

अनुगाम्यन्यथाभावात्स च सामान्यभेदयोः।
विद्यते तत्कथं नास्ति तयोर्भेदः परिस्फुटम्॥ १७४४॥

अर्थक्रियाकारि यद्रूपं तद्वस्तुत्वमुच्यते नान्यत्, तच्चेत्सर्वत्रानुगामि सर्वं सर्वार्थक्रियाकारि प्राप्नोति तेनैव हि रूपेण सर्वे जनका इष्यन्ते। तस्य च सर्वत्राविशिष्टत्वादिति यत्किञ्चिद्यतः कुतश्चिदुत्पद्येत। किञ्च यदेतन्नीलपीतादि, तदेव किं वस्तुत्वमाहोस्विदन्यत्। यदि तदेव तदा तस्यानुगामित्वात्सितपीताद्यपि नीलसाध्यवस्त्ररञ्जनाद्यर्थक्रियाकारि प्राप्नोति। अपिच द्वितीयस्य स्वभावस्याभावात्सर्वं जगदेकमेव वस्तुजातमिति, एकमनेकाकारमिति प्रतिज्ञानार्थहानिः स्यात्। अथान्यदेव वस्तुत्वं नीलादिभ्यः, कणादाभिमतसत्त्ववत्। यथा कणाशिनः—कणादस्य, अभिमतं सत्ताख्यं व्यतिरिक्तं वस्तुत्वं नामेति। एवमपि सुतरामेकस्यानेकत्वमयुक्तम्, एकान्तेनैव भेदात्। किञ्च—यौ विरुद्धधर्मसंसर्गिणौ तौ भिन्नौ यथा शीतोष्णौ, विरुद्धधर्मसंसर्गश्च सामान्यविशेषयोर्विद्यतेऽनुगाम्यन्यथाभावादिति स्पष्ट एव तयोर्भेदः। अन्यथाभावः—अननुगामित्वम्। यदि च विरुद्धधर्मसंसर्गेऽपि भेदो नेष्यते, तदानीलपीतयोर्योऽप्ययं कथञ्चिदविशेषरूपेण भेद इष्टः स न स्यात् बुद्धिभेदान्न चैकत्वं रूपादीनां प्रसज्यत इति वचनात् कुमारिलेन नीलादीनां भेदस्योपवर्णितत्वात् ॥ १७३८॥ १७३९॥ १७४०॥ १७४१॥ १७४२॥ १७४३॥ १७४४॥

“यथे”त्यादिना कौमारिलमतेन पुनरप्यनैकान्तिकत्वमुद्भावयति।

यथा कल्माषवर्णस्य यथेष्टं वर्णनिग्रहः।
चित्रत्वाद्वस्तुनोऽप्येवं भेदाभेदावधारणे॥ १७४५॥

यदा तु शबलं वस्तु युगपत्प्रतिपद्यते।
तदाऽन्यानन्यभेदादि सर्वमेव प्रलीयते॥ १७४६॥

कल्माषवर्णः—शबलो वर्णः। तस्य यथा नीलमिति वा पीतमिति वा लोहितमिति वेत्यादिना यथेष्टं वर्णनिग्रहो—रूपावधारणं, तथा चित्रस्य—अनेकरूपस्यवस्तुनः स्वपररूपाभ्यां सदसदात्मनः सामान्यविशेषरूपाभ्यां द्व्यात्मन इच्छावशाद्भेदाभेदावधारणे। यदा भेदमवधारयितुमिच्छति तदा तमवधारयति, यदा तु युगपत्सामान्यविशेषात्मकं वस्तु कु(झ?) गिति प्रतिपद्यते तदाऽन्यानन्यभेदादिचोद्यं प्रलीयते।नावतरतीत्यर्थः। प्रत्यक्षेण शबलस्य वस्तुनः प्रतीयमानत्वात्। तत्रेदमन्यानन्यादिचोद्यम्—भिन्नेभ्योऽश्वादिपिण्डेभ्योऽनन्यत्वात्सामान्यस्यापि पिण्डवत्स्वरूपभेदप्रसङ्गः, सामान्याद्वाप्यभिन्नत्वादभेदो भेदानां सामान्यस्येव प्रसज्यते। तथा भेदाभेदौ परस्परं सामान्यविशेषयोः कथं विरुद्धौ स्याताम्। आदिशब्देनैकत्वानेकत्वे परस्परविरुद्धे, तथा तदेव सामान्यं स एव विशेष, इत्येवमादि ग्रहीतव्यम्॥ १७४५॥ ॥ १७४६॥

यद्येवं सर्वत्रैव शबलस्य प्रतीतिः स्यान्नतु क्रमयौगपद्याभ्यामित्याशङ्क्याह—“वस्तुन” इत्यादि।

वस्तुनोऽनेकरूपस्य रूपमिष्टं विवक्षया।
युगपत्क्रमवृत्तिभ्यां नान्योस्ति वचसां विधिः॥ १७४७॥

युगपत् क्रमेण वा यदस्य सामान्यविशेषादिरूपं व्यवस्थाप्यते, तद्विवक्षावशात्। यदा यौगपद्येन सदसद्रूपे विवक्षति सामान्यविशेषरूपं वा तदा तस्य रूपं व्यवस्थाप्यते। अथ क्रमेण विवक्षति सद्रूपमसद्रूपं सामान्यविशेषं वा तदाऽस्य तद्व्यवस्थाप्यते। सर्वमेव हि तस्य स्वरूपं क्रमाक्रमाभ्यां व्यपदिश्यते, विचित्ररत्नकोश इवमरकतपद्मरागादिरिति। अथ क्रमाक्रमौ मुक्त्वाऽन्येन प्रकारेण कस्मान्न निर्दिश्यत इत्याह—“नान्योऽस्ति” वचसां “विधि”रिति। युगपत्क्रमवृत्तिभ्यामित्यपेक्षणीयम्।विधिः—प्रकारः॥ १७४७॥

“नैव”मित्यादिना प्रतिविधत्ते।

नैवं चित्रत्वमेकत्वं प्रतिषिद्धं ह्यनन्तरम्।
अनेकरूपं वैचित्र्यमेकत्वेनासहस्थितम्॥ १७४८॥

ते हि यावन्त आकारास्तस्मिन्वस्तुनि भाविकाः।
तावन्त्येवा(थ) जातानि वस्तुनीत्येकनास्ति(ता स्थि?)ता१७४९॥

एकं चित्रमिति परस्परविरुद्धमेतदिति “यच्चित्रं न तदेक”मित्यादिना प्रतिपादितम्। यतो विचित्रमित्यनेकत्वमुच्यते। एकत्वानेकत्वयोश्च परस्परपरिहारस्थितिलक्षणो विरोधः। तस्मान्नैकस्मिन्भाविका बहव आकाराः सम्भवन्ति। अथापि स्युस्तथाप्येकस्यानेकत्वं न प्रतिपादितमेव तथाहि तावन्त्येवापराणि वस्तूनि जातानीति। यदि परं भाविकत्वेन प्रतिपादितं स्यात्। न त्वेकस्यानेकत्वं, परस्परविरोधात् ॥ १७४८॥ १७४९॥

यदुक्तं— वस्तुनो हि निवृत्तस्य काऽन्या सम्भाविनी गतिरित्यत्राह—“एकस्मादि”त्यादि।

एकस्माद्वस्तुनोऽन्यत्वे तादात्म्यविकलं भवेत्।
नाकाशपुष्पसङ्काशं तद्ध्यप्यर्थक्रियाक्षमम्॥ १७५०॥

यदि हि वस्तुमात्रात्परावृत्तिर्हेतुत्वेन क्रियते खपुष्पाविशेषत्वे साध्ये तदा हेतुरसिद्धः, नहि घटस्य वस्तुमात्राद्व्यावृत्तिः सिद्धा, किं तर्हि ?, स्वस्वभावं मुक्त्वाऽन्यस्माद्वस्तुविशेषात्। अथ वस्तुविशेषाद्व्यावृत्तिर्हेतुत्वेनोपादीयते तदाऽनैकान्तिको हेतुः। तथाहि—एकस्माद्धटादेर्वस्तुनो व्यावृत्तं घटादिकं वस्तु परतादात्म्यविकलंसिद्ध्येन्नतु सर्वथा निःस्वभावं तस्याप्यर्थक्रियाकारित्वात्॥ १७५०॥

“शक्त”मित्यादिनैतदेवानैकान्तिकत्वं समर्थयते।

शक्तं रूपं न चैकस्य वस्तुष्वन्येषु वर्त्तते।
कार्योपलम्भनिर्भासभेदादेरिति वर्णितम्॥ १७५१॥

अतद्वस्त्वात्मकत्वं तु तदश्लेषेण युज्यते।
नाविशेषमवस्तुत्वं वस्तुलक्षणभावतः॥ १७५२॥

यदि ह्यर्थक्रियासामर्थ्यलक्षणं वस्तुत्वं नामानुयायि स्यात्ततो व्यावृत्तस्य निःस्वभावता स्यादर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः, यावता शक्तं रूपं यदेकस्य नीलादेस्तदन्येषु सितादिषु न वर्त्तत इति पूर्वमुक्तम्, नीलाद्येव च वस्तुत्वमनुगामि यदीष्यत इत्यादिना। कस्मात् ?। कार्यभेदादुपलम्भनिर्भासभेदाच्च। उपलम्भो ज्ञानन्तस्य निर्भास आकारः। आदिशब्देनोत्पादस्थितिनिरोधादयो गृह्यन्ते। तस्मात्तदश्ले षेण हेतुनाऽतद्वस्त्वात्मकमित्येव साधयितुं युज्यते, नाविशेषं—निर्विशेषणम्, अवस्तुत्वं साधयितुं युक्तम्। कुतः ?। तत्राप्यर्थक्रियाकारित्वस्य वस्तुलक्षणस्य भावात् ॥ १७५१॥ १७५२॥

ननु चात्यन्तभेदे सति कथमनुगामी वस्तुवस्त्विति प्रत्ययो भवेत्। कथं च खपुष्पाद्भेदो वस्तुनः सिद्ध्यति। यदि सादृश्यं न भवेदित्याह—“तद”पीत्यादि।

तदप्यर्थक्रियायोग्यमिति वस्त्विति कल्पने।
असमर्थपरावृत्तिः सादृश्यं तद्विकल्पितम्॥ १७५३॥

ततश्चात्यन्तभेदेऽपि तुल्यताऽस्ति विकल्पिता।
भावो भावान्तरैस्तुल्यः खपुष्पात्तद्विशिष्यते॥ १७५४॥

“असमर्थपरावृत्ति”रिति। असमर्थाः—वन्ध्यासुतादयः, तेभ्यः परावृत्तिरतदात्मता। यतश्च सादृश्यं कल्पितमस्ति, तस्माद्यदुक्तं भावो भावान्तरातुल्य इति तदसिद्धम्॥ १७५३॥ १७५४॥

“नन्वि”त्यादिना सुमतेश्चोद्यमाशङ्कते।

ननु येनात्मना वस्तु समानापरवस्तुनः।
व्यावृत्तं तत्सजातीयैस्तेनैव सदृशं यदि॥ १७५५॥

विज्ञायेत विजातीयैरपि तुल्यतया तदा।
तस्यात्मनोऽविशिष्टत्वान्न च तज्ज्ञायते तथा॥ १७५६॥

सजातीयासमानोऽपि तस्माद्येन भवत्ययम्।
आत्मना तत्समानश्च तयोर्भेदः स्वभावयोः॥ १७५७॥

स आह—येनात्मना सजातीयविजातीयाभ्यां व्यावृत्तं वस्तु तेनैवात्मना तद्वस्तु यदि सजातीयैः सदृशं भवेत्तदा विजातीयैरपि तुल्यतया विज्ञायेत, तस्यात्मनोऽविशिष्टत्वात्। नच ज्ञायते। तस्माद्येन स्वभावेन सजातीयासमानोपि भवति, येन च स्वभावेन तत्सदृशो भवति तयोः स्वभावयोर्भेदोऽभिवाञ्छितव्यः। ननु स यदिसजातीयः कथं तेनासमानो भवति, अथ तेनासमानो भवति कथं सजातीय, इति परस्परव्याहतमेतत्। नैष दोषः। यतः परेण सर्वमेव वस्तु सामान्यविशेषात्मकमिष्टम्, तस्माद्वस्तुत्वादिना सामान्येन सर्वमेव सजातीयमित्युच्यते, विशेषरूपेण तदेव विजातीयमिष्टमिति, तदपेक्षया पुनरसमान इत्यभिधीयत इत्यदोषः। “समाना-” “परवस्तुन” इति। समानं च तदपरं चेति समानापरवस्तु। अपरमित्यसमानं शे षं सुगमत्वान्न विभक्तम्॥ १७५५॥ १७५६॥ १७५७॥

“तेनैवे”त्यादिना प्रतिविधत्ते—

तेनैवासौ स्वभावेन समान इति गम्यते।
एकप्रत्यवमर्शस्य हेतुत्वेनान्यभेदतः॥ १७५८॥

तेनैव स्वभावेन समान इत्युच्यते। एकप्रत्यवमर्शप्रत्ययकारणत्वात्। एतदुक्तं भवति—ये ह्येकप्रत्यवमर्शं प्रति कारणभावं न प्रतिपद्यन्ते त एवासमाना इति व्यवह्रियन्ते, ये तु प्रतिपद्यन्ते ते समाना इति॥ १७५८॥

अथ तस्यैवैकप्रत्यवमर्शस्य हेतवः किमिति सर्वे न भवन्ति, भेदस्याविशिष्टत्वादित्याशङ्क्याह—“एके”त्यादि।

एकप्रत्यवमर्शस्य हेतवः केचिदेव हि।
समर्थरूपनियमाद्भेदेऽप्यक्षामृतादिवत्॥ १७५९॥

नहि स्वभावाः पर्यनुयोगमर्हन्ति कस्मादग्निर्दहत्युष्णो वा नोदकमिति। एवं तु युक्तं वक्तुं कुतोऽस्यायं स्वभाव इति, निर्हेतुकत्वे त्वनपेक्षस्य नियमायोगेनातिप्रसङ्गात्। तस्मात्स्वहेतोरिति वक्तव्यं, तस्यापि कुत इत्यनादिहेतुपरम्परा। अक्षमिन्द्रियम्। अमृतं गुडूची। आदिशब्दः प्रत्येकमभिसम्बध्यते। यथा गुडूच्यादीनामेवज्वरादिशमने शक्तिर्नान्येषाम्, इन्द्रियविषयालोकमनस्कारादीनां च विशिष्टज्ञानोत्पादने, तथैकप्रत्यवमर्शेऽपि केषाञ्चिदेव शक्तिनियम इति। यद्वाऽक्षशब्देन विभीतकस्याभिधानम्, आदिशब्दः समुदायेन सम्बध्यते॥ १७५९॥

“ननु नीला”दीत्यादिना दृष्टान्तासिद्धिमाशङ्कते।

ननु नीलादिविज्ञानजननं लोचनं कथम्।
व्यावृत्तरूपभागेव नीलादिभ्यो यदीष्यते॥ १७६०॥

नीलादिज्ञानजनकान्नीलादेर्भेदवद्यथा।
श्रोत्रं न तस्य जनकं तथा चक्षुरपीष्यताम्॥ १७६१॥

जनकाद्धि परावृत्तः कोऽपरो जनको भवेत्।
भावस्तस्मात्पदार्थानामन्वयोऽपीति निश्चयः॥ १७६२॥

यदि नीलादिभ्यो व्यावृत्तिरूपभागेव लोचनमिष्यते, नानुवृत्तिभागित्यवधारणे नाह। तदा नीलादिविज्ञानजनकं लोचनं न प्राप्नोति, तज्जनकस्वभावात्परावृत्तत्वात्। यो हि यज्जनकस्वभावात्परावृत्तः स तज्जनको न भवति, यथा नीलादिज्ञानजनकान्नीलादेर्व्यावृत्तं श्रोत्रं न तस्य नीलादिज्ञानस्य जनकम्। नीलादिज्ञानजनकाच्च नीलादेर्व्यावृत्तं चक्षुरिति व्यापकविरुद्धोपलब्धिप्रसङ्गः। नचैवं भवति। तस्माद्विपर्ययः। यो हि यज्जनकः स तज्जनकस्वभावापरावृत्तः। यथा नीलज्ञानजनकं नीलं स्वस्मात्स्वभावात्। नीलज्ञानजनकं च चक्षुरिति स्वभावहेतुः। एवं नीलादयोऽपि पक्षत्वेन वाच्याः। तस्मादस्ति भावानामन्वय इति प्रसङ्गविपर्ययेण दृष्टान्तासिद्धिमाह ॥ १७६०॥ १७६१॥ १७६२॥

अथापि स्यात्—ततो व्यावृत्तं च भविष्यति तज्जनकं चेत्यनैकान्तिकं प्रसङ्गसाधनमित्याह—“अन्यथे”त्यादि।

अन्यथा निर्विशिष्टत्वाद्भेदेन श्रवणाद्यपि।
जनकं तस्य किं नेष्टं चक्षू रूपादिभेदवत्॥ १७६३॥

श्रोत्रादीनामपि नीलादिज्ञानजनकत्वप्रसङ्गो विपर्यये बाधकं प्रमाणं भेदेनाविशिष्टत्वात्। नीलान्दिभ्यो यो भेदश्चक्षुषस्तेन भेदेन श्रोत्रादीनां चक्षुरादिना तुल्यत्वात्। यथा चक्षुर्नीलादेर्व्यावृत्तं तथा श्रोत्रमपीति यावत्॥ १७६३॥

“व्यावृत्ति”रित्यादिना प्रतिविधत्ते।

व्यावृत्तिश्चक्षुरादीनां न सिद्धा जनकादियम्।
अविशेषेण यत्तेषामाधा(त्मा?)पि जनको मतः॥ १७६४॥

स्वभावान्नच भावानां व्यावृत्तिरुपपद्यते।
स्वभावाद्धि परावृत्तौ नैःस्वाभाव्यं प्रसज्यते॥ १७६५॥

अन्यस्माज्जनकात्तेषां व्यावृत्तिरुपवर्ण्यते।
अतज्जनकरूपत्वं वाच्यं तच्चेष्टमेव नः॥ १७६६॥

न ह्यप्युत्पादकं तस्य स्वरूपेणैव वर्ण्यते।
नियतास्तत्र ते सर्वे स्वहेतुभ्यः समुत्थिताः॥ १७६७॥

एकात्मानुगतत्वात्तु यद्येकजनका इमे।
आत्मैकत्रापि सोस्तीति किमन्यैः सहकारिभिः॥ १७६८॥

विशेषान्तरवैकल्यादेके न जनकं यदि।
ननु भेदादशक्तास्तेऽभेदे वा विकलाः कथम्॥ १७६९॥

यथा त्वयं विशेषेपि न सर्वं सर्वकारणम्।
नानात्वस्याविशेषेपि तथैव नियमो भवेत्॥ १७७०॥

भेदेऽपि जनकः कश्चित्स्वभावनियमाद्भवेत्।
अन्वये त्वेक एकस्य जनकोऽजनकश्च किम्॥ १७७१॥

भेदोऽप्यत्रास्ति चेदस्तु स किं तस्यैव वस्तुनः।
नहि तस्यान्वयादन्यो ननु भेदो न कारकः॥ १७७२॥

स एव भाविकश्चार्थो यो नामार्थक्रियाक्षमः।
स च नान्वेति योऽन्वेति कार्यं तस्मान्न जायते॥ १७७३॥

यं चात्मानमभिप्रेत्य पुमानेष प्रवर्तते।
विद्येते तद्गतावेव भेदाभेदावकल्पितौ॥ १७७४॥

अन्यथा ह्यात्मना भेदो व्यावृत्त्या च समानता।
अस्त्येव वस्तु नान्वेति प्रवृत्त्यादिप्रसङ्गतः॥ १७७५॥

अविशेषेण तज्जनकस्वभावात्परावृत्तिमात्रं यदि हेतुत्वेन वर्ण्यते तदा न सिद्धो हेतुः। नहि चक्षुरादीनां नीलादिज्ञानजनकात्स्वभावादविशेषेण व्यावृत्तिः सिद्धा। यतस्तेषामपि चक्षुरादीनां यः स्वभावः सोऽपि जनक इष्टः। को ह्यत्र नियमस्तेनैव तत्कार्यं कर्त्तव्यं नान्येनेति, अन्योऽपि कुर्यात्सोपीति न विरोधं पश्यामः। यदि तु पुनरविशेषेण व्यावृत्तिः स्यात्तदा स्वस्वभावादपि स्यात्ततश्च निःस्वभावताप्रसङ्गःस्यात्। तस्मान्न स्वभावाद्भावानां व्यावृत्तिर्युक्ता। अथ स्वस्वभावं मुक्त्वाऽन्यस्माज्जनकाद्वा व्यावृत्तिश्चक्षुरादीनां सा हेतुत्वेनाभिमता, तदाऽनैकान्तिकता हेतोः, तदाह्यन्यस्मात्स्वभावाद्व्यावृत्तस्तत्स्वभावो माभूत्, न तु तदजनकः। यतः सर्व एव स्वरूपेणैव जनको न पररूपेण, येन चात्मीयेन स्वभावेनासौ जनक इष्यते तस्माच्च न व्यावृत्त इति कथमजनकः स्यादित्यनैकान्तिकता हेतोः। अथातत्स्वभावता पर्युदासवृत्त्या साध्यते, तदा सिद्धसाध्यता, परस्परं भावानां स्वभावविवेकस्येष्टत्वात्।“अतज्जनकरूपत्व”मिति। स चासौ जनकश्च तज्जनको रूपादिः, तस्य रूपं स्वभावः, स यस्य नास्ति सोऽतज्जनकरूपस्तद्भावस्तत्वम्। तस्य—अन्यस्य यज्जनकरूपं तेन रहितत्वमिति यावत्। अथवा—तच्च तज्जनकं चेति तज्जनकं, तज्जनकं च तद्रूपं चेति कर्मधारयं कृत्वा नञा बहुव्रीहिः कार्यः। त्रिपदो वा बहुव्रीहिः। अथै कस्मिन्कार्ये कर्त्तव्ये स एव तेषां चक्षुरादीनां परस्परासङ्कीर्णो जनकः स्वभावः कुत आयातो येन त एव तु कार्ये नियताः स्युरित्याशङ्क्याह—“नियता” इति। यदुक्तं भेदेन निर्विशिष्टत्वाच्छ्रवणाद्यपि जनकं तस्य किं नेष्टमिति, तदनेन परिहृतम्। तस्मात्स्वभावनियमाद्भेदेऽपि कश्चिज्जनको भवेन्नापर इति न किञ्चिद्विरुद्धम्। यदि तुपुनरेकस्वभावानुगतत्वेन भिन्ना अपि चक्षुरादयो जनकाः स्युस्तदैकस्तेषां स्वभावो जनक एकस्मिन्नपि कारणेऽस्तीति तत एवैकस्मात्कार्योत्पत्तिः स्यात्। ततश्च शेषसहकारिकारणवैयर्थ्यप्रसङ्गः स्यात्। अथ विशेषान्तरवैकल्यान्नैकस्मात्कार्योत्पत्तिरिति चेत्, ये ते विशेषा विकला इष्यन्ते तेषामशक्तत्वात्, कस्मात् ?, भेदात्—समर्थाभिमतादनुयायिनः स्वभावादन्यत्वादिति यावत्, नचाशक्तस्य वैकल्ये कार्यानुत्पत्तिर्युक्ता, कस्यचिदनुत्पत्तिप्रसङ्गात्। अथापि स्यात्—नह्यस्माभिः सामान्यविशेषाणाम्परस्परमत्यन्तभेद इष्टः, ततश्च भेदादित्यसिद्धो हेतुरित्याह—“अभेदे वा विकलाः कथ”मिति। सामान्याद्विशेषाणामभेदेऽङ्गीक्रियमाणे न तर्हि वक्तव्यं विशेषान्तरवैकल्यादेकं न जनकमिति। अतस्तस्मिन्सामान्ये तिष्ठत्यविकले सति तदव्यतिरेकिणां विशेषाणामपि वैकल्यासिद्धिः। नहि यो यदेकयोगक्षेमो न भवति स तत्स्वभावो युक्तः। अपिच समान एवायं प्रसङ्गो भवतामपि, अन्वयस्याविशिष्टत्वात्किमिति सर्वः सर्वं न जनयेत्। यथा भवतामन्वयस्याविशेषेऽपि सर्वं सर्वस्य जनकं न भवति तथाऽस्माकमपीति यत्किञ्चिदेतत्। किञ्च—भेदाविशेषेऽपि कश्चिज्जनयति नापर इति जनकस्वभावप्रतिनियमादेवं भवेत्, एकस्य यः स्वभावो नासौ परस्येति कृत्वा, नचैवं सति किञ्चिद्विरुध्यते। यदा त्वनुगतस्यैकात्मनो जनकत्वं तदैकस्यैकस्मिन्कार्ये जनकत्वमजनकत्वं चेति कथं विधिप्रतिषेधौ युक्तावेकाधारौ। भिन्नाधिकरणौ तु न विरुद्धावित्यत “एकस्ये”त्याह। अथापि स्यान्नास्माभिरेकान्तेनान्वय एवेष्टो येनैकस्यैकत्र जनकत्वाजनकत्वविरोधः स्यात्। किं तर्हि ?। भेदोऽप्यत्रास्ति।तेनाजनकत्वं न विरुद्धमिति। अस्तु भेदः, स किं जनकस्वभावाद्भेदस्तस्यैवानुगतस्यजनकात्मनोऽभीष्टः, आहोस्विदन्यस्येति वक्तव्यम्। न तावत्तस्यैव, नहि स्वभावाद्भावस्य परावृत्तिर्युक्त, निःस्वभावत्वप्रसङ्गात्। नाप्यन्यस्य, भेदे तस्य जनकस्वभावस्याविकलस्याजनकत्वं युक्तमतिप्रसङ्गात्। भवतु वा तस्यैव स्वस्वभावाद्भेदस्तथाऽप्येकस्य जनकत्वाजनकत्वविरोधो न परिहृत एव। तथाहि—भेदादपि तस्यैकस्याकारको भवेत्। ननु नान्योऽन्वयात्, किं तर्हि ?, स एवान्वयस्ततश्च स एवैकस्य जनकत्वाजनकत्वविरोधस्तदवस्थ एव। अन्वेतीत्यन्वयो जनक एव स्वभाव उच्यते। नन्वित्यभिमुखीकरणम्। अपि च—अन्वयव्यतिरेकाभ्यां विशेषेभ्य एव कार्यसिद्धेस्त एव स्वलक्षणयुक्ताः, न सामान्यार्थम्, क्रियाकारिलक्षणत्वाद्वस्तुत्वस्य, ततश्च किं सामान्यं स्वलक्षणाद्भिन्नामाहोस्विदभिन्नमिति किमर्थक्रियार्थिनस्तत्र भेदाभेदचिन्तया, यस्माद्यमेव स्वभावमर्थक्रियायोग्यमभिसन्धायैष पुमानर्थक्रियार्थी प्रवर्त्तते, तद्गतावेव भेदाभेदौ चिन्त्येतेऽर्थक्रियार्थिभिर्न व्यसनितया। अन्यथा हि यद्यकल्पितौ भेदाभेदौ नेष्येते, तदा तस्यार्थक्रियायोग्यस्यात्मना—स्वेन रूपेण भेदः पारमार्थिकोऽस्त्येव, व्यावृत्त्या च विकल्पबुद्धिप्रतिभासाऽनुरोधिन्या कृतव्यवस्था सामान्यताऽध्यवसिततद्भावाऽस्त्येवेत्यविवाद एव। इयतैवार्थक्रियार्थिनो भेदसामान्यचिन्ता समाप्तेति किमनर्थक्रियाकारिणः सामान्यस्य भेदाभेदचिन्तया। अथापि स्याद्वस्त्वेव सामान्यमस्तु, किं परिकल्पितया व्यावृत्त्येत्याह—“वस्त्वि”त्यादि। यदि पटादिरूपं घटादिरन्वियात्, तदा मधूदकाद्याहरणार्थी पटादावपि प्रवर्त्तेतेति प्रवृत्त्यादेः प्रसङ्गः स्यात्। आदिशब्दात्तुल्योत्पत्तिनिरोधादिप्रसङ्ग॥ १७६४॥ १७६५॥ ॥ १७६६॥ १७६७॥ १७६८॥ १७६९॥ १७७०॥ १७७१॥ १७७२॥ ॥ १७७३॥ १७७४॥ १७७५॥

अथ सौगतैरिव परैरपीदमिष्यते—तस्माद्यतो यतोऽर्थो नाव्यावृत्तस्तन्निबन्धना जातिभेदाः प्रकल्पन्ते तद्विशेषावगाहिन इति, अत्राह—“कल्पनारचितस्ये”त्यादि।

कल्पनारचितस्यैव वैचित्र्यस्योपवर्णने।
को नामातिशयः प्रोक्तो विप्रनिर्ग्रन्थकापिलैः॥ १७७६॥

“वैचित्र्यस्ये”ति। भेदस्य॥ १७७६॥

“वर्द्धमानकभङ्गेने”त्यादिना कुमारिलमतमाशङ्कते।

वर्द्धमानकभङ्गेन रुचकः क्रियते यदा।
तदा पूर्वार्थिनः शोकः प्रीतिश्चाप्युत्तरार्थिनः॥ १७७७॥

हेमार्थिनस्तु माध्यस्थ्यं तस्माद्वस्तु त्रयात्मकम्।
नोत्पादस्थितिभङ्गानामभावे स्यान्मतित्रयम्॥ १७७८॥

स ह्याह—उत्पादस्थितिनाशस्वभावत्वात्सर्वमेव वस्तु त्र्यात्मकम्। एकस्मादपि प्रीत्यादिकार्यत्रयदर्शनात्, तथाहि—यदा वर्द्धमानकं भङ्क्त्वा रुचकः क्रियते, तदा वर्द्धमानकार्थिनः शोक उत्पद्यते, रुचकार्थिनः प्रीतिः सुवर्णार्थिनस्तु माध्यस्थ्यम्। यदि च वस्त्वेकरूपमेव स्यात्, तदैकाकारैव बुद्धिः स्यात्, न त्रिप्रकारा। वर्द्धमानकरुचकौ—भाजनविशेषौ॥ १७७७॥ १७७८॥

स्यादेतत्—यदि नाम त्र्यात्मकं वस्त्विति सिद्ध्यति, तथाऽपि नाशादिरूपेण त्र्यात्मकमित्येतत्कुत इत्याह—“न नाशेन विने”त्यादि।

न नाशेन विना शोको नोत्पादेन विना सुखम्।
स्थित्या विना न माध्यस्थ्यं तेन सामान्यनित्यता॥ १७७९॥

“तेन सामान्यनित्यते”ति। यस्मात् स्थित्यादिना न माध्यस्थ्यं, तेन—माध्यस्थ्यस्य स्थित्यविनाभावित्वेन, सामान्यस्यापि—सवर्णत्वस्य, नित्यता प्रतीयते १७७९॥

“इत्येत”दित्यादिना प्रतिविधत्ते।

इत्येतदपि नो युक्तमसामान्याश्रयत्वतः।
उत्पादस्थितिभङ्गानामेकार्थाश्रयता न हि॥ १७८०॥

समानकालताप्राप्तेः परस्परविरोधिनाम्।
इदं तु क्षुणभङ्गित्वे सति सर्वमनाकुलम्॥ १७८१॥

वर्द्धमानकभावस्य कलधौतात्मनः कथम्।
अनन्वये विनाशे हि कस्यचिच्छोकसम्भवः॥ १७८२॥

सर्वथा पूर्वरूपस्य रुचकस्य तदात्मनः।
जन्मन्युत्पद्यते प्रीतिर्नावस्थानं तु कस्यचित्॥ १७८३॥

असामान्याश्रयत्वत इत्येतद्ग्रहणकवाक्यम्। अस्य व्याख्यानमुत्पादस्थितीत्यादि। यदि हि वस्त्वेकमप्युत्पादादिस्वभावेन त्र्यात्मकं स्यात्तदा युगपत्परस्परविरोधिन उत्पादस्थितिविनाशाः प्राप्नुवन्ति, नच विरोधिनामेकत्र युगपद्भावो युक्तः, अन्यथा हि विरोधित्वमेव न स्यात्। कथं तर्हि मतित्रयस्योत्पत्तिर्युक्तेति चेत्, यथा युक्तातथा श्रूयतामिति दर्शयन्नाह—“इदं त्वि”ति। वर्द्धमानात्मको भावो वर्द्धमानकभावः, स किंविशिष्टः, कलधौतात्मा—कलधौतं सुवर्णं स एवात्मा स्वभावो यस्येति विग्रहः, तस्य स्वतः—स्वरसेन, विनाशे सति कस्यचित्तदर्थिनः शोक उत्पद्यते। अपूर्वस्य तुरुचकाख्यभावस्य तदात्मनो—हेमात्मनः, जन्मनि—उत्पादे सति, कस्यचिद्रुचकाध्यवसितस्य प्रीतिरुत्पद्यते। नतु कस्यचित्सुवर्णात्मनोऽवस्थानमस्ति निरन्वयत्वादुत्पादविनाशयोः॥ १७८०॥ १७८१॥ १७८२॥ १७८३॥

यद्येवं कथं तर्हि माध्यस्थ्यबुद्धिरित्याहि—“शातकुम्भे”त्यदि।

शातकुम्भात्मकौ भावौ यदा पश्यति मूढधीः।
समानापरभावेन स्थिरत्वं मन्यते तदा॥ १७८४॥

हेम्नोऽवस्थितरूपत्वे तद्रूपं रुचकाद्यपि।
पूर्वोत्तराद्यवस्थासु दृश्येतानेकताऽन्यथा॥ १७८५॥

इति स्याद्वादपरीक्षा।

शातकुम्भात्मकौ सुवर्णस्वभावौ वर्द्धमानरुचकाख्यौ भावौ क्रमेण यदा पश्यति मूढमतिः, पश्यन्नपि स्वभावविवेकं सदृशापरोत्पत्तिविप्रलब्धो विवेचयितुमशक्तत्वादतएव समानापरभावेन भ्रान्तिनिमित्तेन विप्रलब्धोऽवस्थाद्वयेऽपि हेम्नः स्थिरत्वं मन्यते। “समानापरभावे”नेति। अहेमव्यावृत्तिमात्रसाधर्म्येण समानस्यापरस्य भाव उत्पादः समानापरभावः। कथं पुनरवसीयते समानापरभावेन विप्रलब्धः स्थिरत्वं मन्यते, न तु पुनर्वस्तुन एव तथाभावादित्याह—“हेम्न” इत्यादि। यदि हेम्नः स्थिरत्वं स्यात्तदा तदव्यतिरिक्तं रुचकाद्यपि वर्द्धमानावस्थासु दृश्येत, उपलब्धिलक्षणप्राप्तत्वात्। अन्यथा—यदि रुचकस्य वर्द्धमानावस्थायां न दृष्टिर्वर्द्धमानस्य रुचकावस्थायामुपलब्धिलक्षणप्राप्तस्य, तदानीं तयोः परस्परतो भेदः, ततश्च ताभ्यामव्यतिरेकाच्च तत्स्वभाववद्धेम्नोऽपि भेदः सिद्धः स्यादित्यालोच्याह—“अनेकताऽन्यथे”ति। यच्चावधीकृतवस्तुभ्य इत्यादि भेदसाधनमुक्तं तत्र सिद्धसाध्यतैवेति दूषणमुच्यते॥ १७८४॥ १७८५॥

इति स्याद्वादपरीक्षा।