शाब्दविचारः
इदानीं प्रमाणद्वितयनियमसाधनार्थं सङ्ख्याविप्रतिपत्तिकरणार्थमाह—“नन्वि”त्यादि ।
ननु शब्दप्रमाणादिप्रमाणान्तरसम्भवात् ।
निर्दिष्टं लक्षणं कस्माद्द्वयोरेव प्रमाणयोः ॥ १४८७ ॥
अनेनाव्यापितां प्रमाणलक्षणस्य दोषं प्रमाद्वितयनिश्चितमित्यत्र द्वितयावधारणवैफल्यं चाह ॥ १४८७ ॥
“उच्यत” इत्यादिना परिहरति ।
उच्यते न द्वयादन्यत्प्रमाणमुपपद्यते ।
प्रमाणलक्षणायोगाद्योगे चान्तर्गमादिह ॥ १४८८ ॥
“अन्तर्गमादिहे”ति । अस्मिन्नेव प्रमाणद्वये । एतदुक्तं भवति—प्रमाणद्वयादन्यस्यप्रमाणलक्षणमविसंवादित्वं नास्त्येव, सति चात्रैवान्तर्भावात्पृथङ्न्ोच्यते प्रमाणान्तरमिति ॥ १४८८ ॥
तत्र कथमन्येषामप्रामाण्यं प्रामाण्ये वा कथमिहान्तर्भाव इत्येतद्द्वयं प्रतिपादयति । अत्र शाब्दोपमार्थापत्त्यभावयुक्त्यनुपलब्धिसम्भवैतिह्यप्रतिभाख्यातिप्रमाणान्तराणि परैरभ्युपगतानि । तत्र शाब्दमधिकृत्याह—“शब्दज्ञाना”दित्यादि ।
शब्दज्ञानात्परोक्षार्थज्ञानं शाब्दं परे जगुः ।
तच्चाकर्तृकतो वाक्यात्तथा प्रत्ययिनोदितात् ॥ १४८९ ॥
इदं च किल नाध्यक्षं परोक्षविषयत्वतः ।
नानुमानं च घटते तल्लक्षणवियोगतः ॥ १४९० ॥
धर्मी धर्मविशिष्टो हि लिङ्गीत्येतत्सुनिश्चितम् ।
न भवेदनुमानं च यावत्तद्विषयं न तत् ॥ १४९१ ॥
तत्र शबरस्वामी शाब्दलक्षणमाह—शब्दज्ञानादसन्निकृष्टेऽर्थज्ञानं शाब्दमिति । शब्दस्वलक्षणग्रहणादुत्तरकालं परोक्षेऽर्थे यदुत्पद्यते ज्ञानं तच्छब्दादागतमिति कृत्वा शाब्दप्रमाणम् । तच्च द्विविधम् । अपौरुषेयशब्दजनितं प्रत्ययितपुरुषवाक्यजं च ।एतच्च प्रत्यक्षाद्भिन्नं परोक्षविषयत्वात् । नाप्यनुमानं त्रैरूप्याभावात् । तथाहि—साध्यधर्मविशिष्टो धर्मी अनुमेय इष्यते, न केवलो नापि धर्ममात्रम्, यावच्च तद्धर्मित्वेन धर्मिविषयं लिङ्गं नावधार्यते न तावदनुमानस्य प्रवृत्तिः सम्भवति । यावत्पक्षधर्मत्वावधारणा न भवति न तावदनुमानमिति यावत् ॥ १४८९ ॥ १४९० ॥ ॥ १४९१ ॥
सैव पक्षधर्मत्वावधारणा किं न भवतीत्याह—“यश्चे”चि ।
यश्चात्र कल्प्यते धर्मी प्रमेयोऽस्य स एव च ।
नचानवधृते तस्मिंस्तद्धर्मत्वावधारणा ॥ १४९२ ॥
यश्चात्र शाब्दे कल्प्यते वृक्षादिधर्मी स एव प्रमेयस्तस्यैव प्रतिपाद्यत्वात् । धर्म्येवात्र प्रमेयो न धर्मविशिष्टो धर्मीति यावत् । तस्मिन्धर्मिणि अनवधृते—अनिश्चिते कथं तद्धर्मत्वं निश्चीयते ॥ १४९२ ॥
प्राक्स चेत्पक्षधर्मत्वाद्गृहीतः किं ततः परम् ।
पक्षधर्मादिभिर्ज्ञातैर्यन स्यादनुमानता ॥ १४९३ ॥
किं च—यदि चासौ धर्मी पक्षधर्मत्वनिश्चयात्प्राग्ज्ञातस्तदा निष्फलः पक्षधर्मत्वदिनिश्चये प्रयत्नः,धर्मिप्रतिपत्त्यर्थो हि सर्वः प्रयासः, स चेत्प्रतिपन्नः किमिदानीं पक्षधर्मत्वादिनिरूपणप्रयासेन । अभ्युपगम्य चैतदभिहितम् । नच शब्दोवृक्षादेर्धर्मिणो धर्मः, वक्तृदेशेऽवधार्यमाणत्वात् ॥ १४९३ ॥
एवं तावत्पक्षधर्मत्वाभावः प्रतिपादितः, इदानीमन्वयाभावं प्रतिपादयन्नाह—“अन्वयो नचे”त्यादि ।
अन्वयो नच शब्दस्य प्रमेयेण निरूप्यते ।
व्यापारेण हि सर्वेषामन्वेतृत्वं प्रतीयते ॥ १४९४ ॥
“निरूप्यत” इति । निश्चीयते । “व्यापारेणे”ति । सद्भावेन, सत्तयेति यावत् । एतदुक्तं भवति—विद्यमानस्यैवान्वेतृत्वं नाविद्यमानस्येति ॥ १४९४ ॥
एतदेव दर्शयन्नाह—“यत्रे”त्यादि ।
यत्र धूमोऽस्ति तत्राग्नेरस्तित्वेनान्वयः स्फुटम् ।
नत्वेवं यत्र शब्दोऽस्ति तत्रार्थोऽस्तीति निश्चितम् ॥ १४९५ ॥
यत्र धूमस्तत्रावश्यं यतो वह्निरित्यतोऽसौ वह्निरन्वेता भवति धूमस्य, नत्वेवं शब्दस्यार्थेनान्वयः ॥ १४९५ ॥
कथं नास्तीति प्रतिपादयन्नाह—“न ताव”दिति ।
न तावत्तत्र देशेऽसौ न तत्काले च गम्यते ।
भवेन्नित्यविभुत्वाच्चेत्सर्वशब्देषु तत्समम् ॥ १४९६ ॥
तेन सर्वत्र दृष्टत्वाद्व्यतिरेकस्य चागतेः ।
सर्वशब्दैरशेषार्थप्रतिपत्तिः प्रसज्यते ॥ १४९७ ॥
न तावत्तत्र शब्दाक्रान्ते देशेऽर्थस्य सद्भावः । तथाहि—पिण्डखर्जुरादिशब्दोऽन्यत्र पाटलिपुत्रादौ श्रूयते, नच तत्र देशे पिण्डखर्जूरादिरस्ति । तथा नापि शब्दकालेऽर्थोऽवश्यं सम्भवति, दिलीपमहासम्मतादिशब्दा वर्त्तमानास्तदर्थस्तु भूतो भविष्यंश्चेति कुतोऽर्थैः शब्दस्यान्वेतृत्वम् । अथ मतम्—नित्यत्वाच्छब्दानां सर्वकालमवस्थितेरर्थेन सह न भिन्नकालता, नापि भिन्नदेशता, व्यापित्वात्सर्वदेशेष्ववस्थितेः, अतो नित्यविभुत्वाद्भवेदन्वयः शब्दानामिति । तत्र सर्वशब्देषु तन्नित्यविभुत्वं तुल्यमिति कृत्वा प्रतिनियतेन शब्देन प्रतिनियतार्थाभिधानं न प्राप्नोति । किं तर्हि ? । येन केनचिच्छब्देन सर्वस्यैवार्थस्याभिधानं स्यात्, तेनार्थेन सह सर्वत्र देशे काले वा सर्वशब्दस्य दृष्टत्वात् । व्यतिरेकः—साध्याभावे साधनाभावः, तस्य ।“अगते”रिति । अनुपलम्भात् । नित्यविभुत्वादेव ॥ १४९६ ॥ १४९७ ॥
तस्मादननुमानत्वं शाब्दे प्रत्यक्षवद्भवेत् ।
त्रैरूप्यरहितत्वेन तादृग्विषयवर्जनात् ॥ १४९८ ॥
“तस्मा”दित्युपसंहृत्य प्रमाणं दर्शयति । अननुमानत्वं शाब्द इति साध्यनिर्देशः ।त्रैरूप्यरहितत्वेनेति हेतुः । प्रत्यक्षवदिति दृष्टान्तः । तादृग्विषयवर्जनादिति हेतुसमर्थनम् । यादृशो धूमादिलिङ्गजस्यानुमानस्य विषयो धर्मविशिष्टो धर्मी तेन तादृशा विषयेण वर्जनात्—रहितत्वादिति यावत् ॥ १४९८ ॥
भवतु नाम त्रैरूप्यरहितत्वादनुमानादन्यत्वं, प्रामाण्यं त्वस्य शब्दस्य कथमित्याह —“अग्निहोत्रे”त्यादि ।
अग्निहोत्रादिवचनादकम्पज्ञानजन्मतः ।
तत्प्रमाणत्वमप्यस्य निराकर्तुं न पार्यते ॥ १४९९ ॥
संशयविपर्यासरहितत्वादकम्पं निश्चलम् । बाधकप्रमाणाभावात्प्रमाणं प्रत्यक्षादिवदिति यावत् । तथा चाह शबरस्वामी—न च स्वर्गकामो यजेतेत्यतो वचनात्सन्दिग्धमवगम्यते भवति स्वर्गो न वा भवतीति । न च निश्चितमवगम्यमानमिदं मिथ्या स्यात्, यो हि जनित्वा प्रध्वंसते नैतदेवमिति स मिथ्याप्रत्ययः, नचैष देशान्तरे कालान्तरे पुरुषान्तरे विपर्येति, तस्मादवितथः । यत्तु लैकिकं वचनं तच्चेत्प्रत्ययितात्पुरुषादिन्द्रियविषयं वा तदवितथमेव । अथाप्रत्ययितादतीन्द्रियविषयं वा तत्पुरुषबुद्धिप्रभवमप्रमाणम्, अशक्यं हि पुरुषमात्रेण ज्ञातुमिति ॥ १४९९ ॥
“तत्रे”त्यादिना—तच्चाकर्तृकतो वाक्यादित्येतस्मिन्प्रथमे शाब्दे लक्षणेऽसम्भवितां लक्षणदोषमाह ।
तत्राकर्तृकवाक्यस्य सम्भवार्थावसङ्गतौ ।
तस्मादसम्भवि प्रोक्तं प्रथमं शाब्दलक्षणम् ॥ १५०० ॥
अकर्तृकस्य हि वाक्यस्य सम्भवो नास्त्येव, व्यापिनः क्षणभङ्गस्य साधितत्वात् । वक्ष्यमाणयुक्त्या वा । सत्यपि वा सम्भवे न तस्यार्थवत्त्वं सम्भवति, अतोऽकर्तृकाद्वचनात्परोक्षोऽर्थोऽयं ज्ञात इत्यस्यासम्भवादसम्भवि प्रमाणलक्षणम् ॥ १५०० ॥
कथं पुनरकर्तृकं वाक्यं नास्तीत्याह—“शक्ते”त्यादि ।
शक्ताशक्तस्वभावस्य सर्वदा ह्यनुवर्त्तनात् ।
तदा तद्भाविविज्ञानं भवेन्नो वा कदाचन ॥ १५०१ ॥
तत्राकर्तृकं वाक्यं शक्तं वा स्यात्—ज्ञानजनने, कदाचिदशक्तं वेति पक्षद्वयम् । प्रथमे पक्षे तस्य शक्तस्य स्वभावस्यानुवर्त्तनान्नित्यं तद्भाविविज्ञानं प्राप्नोति । तत्र प्रयोगः—यदप्रतिबद्धसामर्थ्यं यस्मिन्कर्त्तव्ये, तत्करोत्येव, यथाऽन्त्या कारणसामग्री, अप्रतिबद्धसामर्थ्यं चाकर्तृकं वाक्यं ज्ञानजनने सर्वकालमिति स्वभावहेतुः । अथवा—यदविकलकारणं तद्भवत्येव, यथाऽविकलकारणोऽङ्कुरः, अविकलकारणं चापौरुषेयवाक्यभाविविज्ञानमिति स्वभावहेतुः । द्वितीयेऽपि पक्षे तस्याशक्तस्य स्वभावस्यसर्वकालमनुवर्त्तनाच्च न कदाचित्तद्भावे विज्ञानं स्यात्, यथा विकलकारणोऽङ्कुरः ॥ १५०१ ॥
कथमर्थवत्त्वं न सङ्गच्छत इत्याह—“द्वेषे”त्यादि ।
द्वेषमोहादयो दोषा यथा मिथ्यात्वहेतवः ।
कृपाप्रज्ञादयोऽप्येवं ज्ञाताः सत्यत्वहेतवः ॥ १५०२ ॥
तदाश्रयनराभावे न तयोरपि सम्भवः ।
आनर्थक्यमतः प्राप्तं वचस्यपुरुषाश्रये ॥ १५०३ ॥
द्वाभ्यां प्रकाराभ्यामर्थवत्ता भवति, (अविपरीतार्थत्वेन) विपरीतार्थत्वेन वा, तृतीयराश्यभावात् । तस्याश्च बुद्धेर्द्विप्रकाराया अप्यर्थवत्ताया गुणदोषौ कारणमित्यन्वयव्यतिरेकाभ्यां निश्चितम् । तथाहि—यथा रागादिदोषपरीतपुरुषो मृषावादी दृष्टस्तथाकृपादिगुणयुक्तः सत्यवाग्दृष्टः । तयोश्च गुणदोषयोः सम्यक्त्वमिथ्यात्वहेत्वोराश्रयः पुरुषः, ततश्च पुरुषनिवृत्तौ गुणदोषनिवृत्तिः, गुणदोषनिवृत्तौ सम्यक्त्वमिथ्यात्वयोरप्यभावः, तदभावे प्रकारान्तरासम्भवादानर्थक्यमपौरुषेये वचसि प्राप्तम् । कारणाभावात् । नहि कारणमन्तरेण कार्यस्य सम्भवो युक्तः, निर्हेतुत्वप्रसङ्गात् । ततश्चदेशकालद्रव्यादिनियमो न स्यात् । प्रसङ्गसाधनमेतद्द्रष्टव्यम् । अन्यथा हि स्वातन्त्र्येण साधने दृष्टविरोधः स्यात् । तथाहि— अग्निहोत्रं जुहुयात्स्वर्गकामः इत्यादिवाक्यादर्थप्रतीतिर्भवन्त्युपलभ्यत एव, नच दृष्टमपह्नोतुं शक्यते । नचाकर्तृकत्वमुभयसिद्धमित्यसिद्धश्च हेतुः स्यात् । प्रसङ्गसाधने तु द्वयमप्यदुष्टम् । तथाहि—यद्यपौरूषेयत्वमभ्युपगम्यते वेदस्य तदाऽऽनर्थक्यमभ्युपगन्तव्यम् । अर्थवत्त्वहेतोः पुरुः षस्याभावात् । नचानर्थक्यम्, अतः स्यात्पौरुषेय एवेति प्रसङ्गेन प्रदर्श्यते ॥ १५०२ ॥ ॥ १५०३ ॥
एतदेव प्रसङ्गसाधनं समर्थयितुं दृष्टविरोधाभावं प्रतिपादयन्नाशङ्कापूर्वकमाह—“अर्थे”त्यादि ।
अर्थप्रतीतितो नो चेदेषा व्याख्यानतो भवेत् ।
स्वतन्त्रो हि पुमान्दृष्टो व्याचक्षाणोऽर्थमिच्छया ॥ १५०४ ॥
भूतार्थद्योतने शक्तिः प्रकृत्यैव स्थिताऽस्य चेत् ।
अज्ञातसमयस्यापि भवेदर्थगतिस्ततः ॥ १५०५ ॥
प्रकृत्या दीपको दीपो न सङ्केतमपेक्षते ।
समयान्तरभावे च तस्मादर्थान्तरे गतिः ॥ १५०६ ॥
नहि सङ्केतभावेऽपि दीपो गन्धरसादिकम् ।
प्रकाशयति विज्ञातुं सा शक्तिर्नच शक्यते ॥ १५०७ ॥
“नो चे”दिति । आनर्थक्यमिति सम्बन्धः । ततश्च दृष्टविरोधः प्रतिज्ञाया इति भावः । सत्यं स्याद्दृष्टविरोधो यदि वेदादेवार्थप्रतीतिरुपदेशमन्तरेणोपजायते, यावतैषाऽर्थप्रतीतिर्व्याख्यातुः सकाशात्समवंशाद्भवेत् । न वेदात्केवलात्समयनिरपेक्षात् । तथाहि—वेदार्थं मीमांसकादिः स्वेच्छया व्याचक्षाणो दृष्टः, नच स्वाभाविकस्यार्थस्य पुरुषेच्छानुरोधित्वं युक्तम् । तत्रैतत्स्यात्—नहि पुरुषेणापूर्वोऽर्थः स्वेच्छया कथ्यते, किं तर्हि ? । य एव हि स्वाभाविको व्यवस्थितः स एव पुरुषेण प्रकाश्यते इति तेन भवत्येव दृष्टविरोध इति । एवं तर्हि यदि प्रकृत्याऽस्य वेदस्य भूतार्थद्योतने शक्तिः स्थिता तदा सङ्केतानभिज्ञस्यापि ततो वेदवाक्यादर्थप्रतीतिः प्राप्नोति । सङ्केतसापेक्षो वेदोऽर्थप्रतीतिहेतुर्न केवल इति चेत् । तन्न । नहि प्रकृत्याऽर्थप्रतीतिहेतवो दीपादयः सङ्केतमपेक्षन्ते । अन्यथा सङ्केतस्यैवान्वयव्यतिरेकाभ्यामर्थप्रतीतौ सामर्थ्यं स्यात्, न स्वाभाविकस्य सम्बन्धस्य । किञ्च—भवतु नाम सङ्केतसहायादर्थप्रतीतिस्तथापि दोष इत्याह—“समये”त्यादि । मीमांसकोपरचितात्समयान्निरुक्तकाराद्युपरचितः समयः समयान्तरं तस्य सद्भावे सति प्रकृतादर्थादर्थान्तरे ततः शब्दात्प्रतीतिर्न प्राप्नोति । नहि प्रदीपोऽप्रकाश्यं गन्धरसादिकं सङ्केतवशात्प्रकाशयितुमीशः । भवतु नामार्थान्तरे वृत्तिः समयवशात्तथाऽपि—प्रामाण्यं न सिध्यतीति प्रतिपादयति—“विज्ञातु”मिति । पुरुषेच्छावशाद्यद्यर्थान्तरेऽपि शब्दस्य प्रवृत्तिस्तदा साङ्कर्यात्सा भूतार्थद्योतनशक्तिर्निश्चेतुं न शक्यते इति कथं तत इष्टार्थप्रतिपत्तिर्भवेत् । अथवाऽन्यथा व्याख्यायते । यासौ प्रकृत्या भूतार्थद्योतनशक्तिः साकदाचिदेकार्थनियता वा स्यादनेकार्थनियता वेति पक्षद्वयम् । तत्रैकार्थनियमपक्षे दोषमाह—“समयान्तरभाव” इति । द्वितीयेऽप्याह—“विज्ञातुं सा शक्तिर्नचशक्यत” इति । साङ्कर्यादिति भावः । यथोक्तम्— गिरामेकार्थनियमे न स्यादर्थान्तरे गतिः । अनेकार्थाभिसम्बन्धे विरुद्धव्यक्तिसम्भवः ॥ इति ॥ १५०४ ॥ ॥ १५०५ ॥ १५०६ ॥ १५०७ ॥
एवं प्रथमं शाब्दलक्षणमसम्भवीति प्रतिपाद्याकम्पज्ञानजन्मत इत्यस्य हेतोरसिद्धताभुपसंहारेण दर्शयन्नाह—“अत” इत्यादि ।
अतोऽर्थप्रत्ययायोगात्तस्य निःकम्पता कुतः ।
स तु सामयिको युक्तः पुंवाग्भूतान्न भिद्यते ॥ १५०८ ॥
न्यायज्ञैर्न तयोः कश्चिद्विशेषः प्रतिपद्यते ।
श्रोत्रियाणां त्वकम्पोऽयमज्ञातन्यायवर्त्मनाम् ॥ १५०९ ॥
अपौरुषेयत्वे सति यथोक्तनीत्याऽर्थप्रतीतिरेव न सम्भवति यदा, तदा कुतस्तस्या अकम्पत्वम् । यश्चायमर्थप्रत्ययो भवन्नुपलभ्यते वेदवाक्यात्स तु साङ्केतिक एवयुक्त इति पूर्वं प्रतिपादितम् एषा व्याख्यानतो भवेदित्यादिना । इतश्चायं साङ्केतिक एव युक्त इति । यस्माद्वैदिकं वाक्यं पुंवाग्भूतात्—पुंवाक्त्वप्राप्तात् न भिद्यते । पौरुषेयवचनान्न भिद्यते इति यावत् । एतदपि कुत इत्याह—“न्यायज्ञैरि”त्यादि ।“तयो”रिति । वैदिकपौरुषेययोः । सर्वप्रकारेण पुरुषैः शक्यकरणत्वान्न कश्चिद्विशेषोवैदिकस्य लौकिकात् । श्रोत्रियाणामित्युपहसति ॥ १५०८ ॥ १५०९ ॥
द्वितीयेऽपि यद्वा प्रत्ययितोदितादित्येतस्मिञ्शाब्दलक्षणेऽसम्भवितां लक्षणदोषमाह—“आप्ते”त्यादि ।
आप्तानङ्गीकृतेरेव द्वितीयमपि न क्षमम् ।
शाब्दलक्षणमिष्टौ वा सोऽयमित्यविनिश्चितः ॥ १५१० ॥
मीमांसकैः क्षीणदोषपुरुषानभ्युपगमादाप्तो नाङ्गीकृत एवेति कुतस्तद्वचनस्य प्रामाण्यं स्यात् । “न क्षम”मिति । न युक्तम् । असम्भवीति यावत् । अथाऽप्याप्त इष्यते, तदा तस्याप्तस्येष्टौ सत्यां शृङ्गग्राहिकयाऽयमसावित्याप्तो न निश्चित इत्यसत्प्रख्य एव । नह्यन्यगुणदोषनिश्चये प्रमाणमस्ति तेषामतीन्द्रियत्वात् । कायवाग्व्यवहाराश्चान्यथाऽपि बुद्धिपूर्वं क्रियन्त इति कुतस्तद्वचनस्य प्रामाण्यम्, असाङ्कर्येणार्वाग्दर्शिभिस्तेषामनवधारणात् ॥ १५१० ॥
प्रायः सम्प्रत्ययो दृष्टो यद्वाक्यात्तस्य गृह्यते ।
परोक्षप्रतिपत्त्यर्थं वाक्यं प्रत्ययतः स चेत् ॥ १५११ ॥
नान्यत्र प्रत्ययाभावात्पूर्वमप्रत्ययोऽपि हि ।
एकत्रास्खलिते तत्र सर्वत्र नियमो न हि ॥ १५१२ ॥
अथापि स्याद्यस्य पुरुषस्याक्षीणदोषस्यापि सतो वाक्याद्बाहुल्येन सम्प्रत्ययो दृष्टः सोऽस्माभिः प्रत्ययित इष्टो न क्षीणदोषः, तस्मात्तस्य प्रत्ययितस्य वाक्यं गृह्यते, शा ब्दलक्षणे तेनासम्भविता न सम्भवतीति । एतदप्यसम्यक् । नह्येकत्राविसंवादमात्रोपलम्भात्सर्वत्र तथाभावनियमो युक्तो व्यभिचारस्य सम्भाव्यमानत्वादन्यथा व्यभिचारिलक्षणं स्यात् ॥ १५११ ॥ १५१२ ॥
एवं तावद्द्विप्रकारमपि शाब्दलक्षणं विशेषेण दुष्टं प्रतिपाद्य सामान्यं दूषणमाह —“वचसा”मित्यादि ।
वचसां प्रतिबन्धो वा को बाह्येष्वपि वस्तुषु ।
प्रतिपादयतां तानि येनैषां स्यात्प्रमाणता ॥ १५१३ ॥
भिन्नाक्षग्रहणादिभ्यो नैकात्म्यं न तदुद्भवः ।
व्यभिचारान्न चान्यस्य युज्यतेऽव्यभिचारिता ॥ १५१४ ॥
नहि वाच्यैर्वस्तुभिः सह कश्चित्तादात्म्यलक्षणस्तदुत्पत्तिलक्षणो वा प्रतिबन्धो वचसामस्ति, येन तानि वस्तूनि प्रतिपादयतामेषां वचसां प्रामाण्यं स्यात् । तत्र तावन्न तादात्म्यलक्षणः प्रतिबन्धोऽस्ति, भिन्नाक्षग्रहणादिभ्यो हेतुभ्यः । तत्र भिन्नाक्षग्रहणं भिन्नेन्द्रियेण ग्रहणम् । तथाहि—श्रोत्रेन्द्रियेण शब्दो गृह्यतेऽर्थस्तु चक्षुरादिना । आदिशब्देन कालदेशप्रतिभासकारणभेदो गृह्यते । कुमारिलस्त्वाह—भिन्नेन्द्रियग्राह्यात्वाद्भिन्नमित्यनैकान्तिकमेतत्तथाहि—एकं रूपं यदा बहवः पश्यन्ति तदा भिन्नेन्द्रियग्राह्यत्वाद्रूपस्य भेदः प्राप्नोति । अथापि स्याच्चक्षुरिन्द्रियजातेरभेदादेकेन्द्रियग्राह्यत्वमेवेति । एवं तर्हि सत्ताया अनेकेन्द्रियग्राह्यत्वेऽपीन्द्रियजातेरभेदादभिन्नेन्द्रियग्राह्यत्वमस्तीति सिद्धमेकत्वम् । तस्माद्बुद्धिभेदाभेदाभ्यां पदार्थभेदाभेदव्यवस्था नेन्द्रियभेदाभेदाभ्यामिति । आह च— न चानेकेन्द्रियग्राह्यं भिन्नतां प्रतिपद्यते । माभूद्भिन्नशरीरस्थग्राह्यत्वाद्रूपभिन्नता ॥ जात्यभेदादभेदश्चेदिन्द्रियत्वेन तत्समम् । तुल्यबुद्धेरतो भिन्ना न सत्तेन्द्रियभेदतः ॥ इति । एतच्चासम्यक्—बुद्धिभेदाद्भेदेऽपि साध्ये समानत्वात् । तथाह्यत्रापि शक्यत एवं वक्तुम्—बुद्धिभेदाद्वस्तुभेदइत्यनैकान्तिकमेतत् । तथाहि—यदा बहव एकं रूपं पश्यन्ति, तदा बुद्धिभेदोऽस्त्येवानेकचक्षुर्ज्ञानोत्पत्तेः । नच तदा रूपस्य भेदः । यदि चक्षुर्विज्ञानजातेरभेदादेकत्वं परिकल्प्यते, एवं तर्हि रूपरसादीनामप्येकत्वं प्राप्नोति । सत्यपि तद्बुद्धिभेदे विज्ञानजातेरभेदात् । ततश्च यदुक्तम्— बुद्धिभेदान्न चैकत्वं रूपादीनां प्रसज्यत इति तद्व्याहन्येत । तस्माज्जात्युत्तरमेतत् । अथ सत्यपि स्वलक्षणभेदे यादृशे लक्षण भेदे यादृशो लोके भेदाभेदव्यवहारः प्रसिद्धः, एकानेकप्रत्यवमर्शहेतुत्वेन तादृशौबुद्धिभेदाभेदावुपादीयेते । इन्द्रियेऽपि सर्वं समानमित्यलं प्रसङ्गेन । “न तदुद्भव” इति । नापि तदुत्पत्तिलक्षणसम्बन्धो व्यभिचारात् । अर्थाभावेऽपि विवक्षामात्राद्भावात् । नचान्यस्य तदुत्पत्तिरहितस्याव्यभिचारिताऽस्त्यतिप्रसङ्गात् । तस्मान्न वाच्येऽर्थे शब्दस्य प्रमाण्यम् ॥ १५१३ ॥ १५१४ ॥
यद्येवं कथमुक्तम्— न प्रमाणान्तरं शाब्दमनुमानात्तथाहि सः (तत् ?) । कृतकत्वादिवत्स्वार्थमन्यापोहेन भाषते इति । एतदाशङ्क्य यथानुमानेऽन्तर्भाव इष्टस्तथा प्रतिपादयन्नाह—“वचोभ्य” इत्यादि ।
वचोभ्यो निखिलेभ्योऽपि विवक्षैषाऽनुमीयते ।
प्रत्यक्षानुपलम्भाभ्यां तद्धेतुः सा हि निश्चिता ॥ १५१५ ॥
“निखिलेभ्य” इति । पौरुषेयत्वेनाप्यभिमतेभ्यः । सा च विवक्षा तत्कार्यत्वाद्वचनात्प्रतीयते । नतु वाच्यतया । यस्मादात्मसन्तानेऽन्वयव्यतिरेकाभ्यां वचसां हेतुः सा विवक्षा निश्चिता । यत्तूक्तमन्यापोहेन भाषत इति तत्र भाषणं द्योतनं ज्ञापनमिति यावत् । तथाचास्य विवरणम्—तत्कृतकत्वादिवदर्थान्तरसम्बद्धेन व्यवच्छेदेन द्योतयतीति । अवश्यं चैतद्विज्ञेयमन्यथा कृतकत्वादिवदिति साधनविकलो दृष्टान्तः स्यात् । नहि कृतकत्वादेर्भाषणं सम्भवति, तस्य शब्दधर्मत्वात् । ततश्चान्यापोहेनभाषणादिति हेतुरसाधारणः स्यात् ॥ १५१५ ॥
ननु च विवक्षायामपि शब्दस्य नैव प्रामाण्यं युक्तम् । तथाहि—न तावद्विवक्षाविशेषे प्रामाण्यं व्यभिचारात् । भ्रान्तस्यान्यविवक्षायामन्यवाक्यदर्शनात् । नापि विवक्षासामान्ये, वैफल्यात् । नहि विवक्षामात्रविज्ञानं क्वचिद्व्यवहाराङ्गतां प्रतिपद्यते । ततोऽर्थविशेषानिश्चयात् । एतदाशङ्क्य “भ्रान्तस्ये”त्यादिना, विवक्षाविशेषे तावत्प्रामाण्यमाह—“भ्रान्ताभ्रान्ते”त्यादि ।
भ्रान्तस्यान्यविवक्षायां वाक्यं चेदन्यदीक्ष्यते ।
तथा विवक्षमप्येतत्त(क्षासामान्येत?)स्मान्नैव प्रवर्त्तते १५१६
भ्रान्ताभ्रान्तप्रयुक्तानां वैलक्षण्यं परिस्फुटम् ।
विदग्धाः प्रकृतादिभ्यो निश्चिन्वन्ति गिरामलम् ॥ १५१७ ॥
अवश्यं हि भ्रान्ताभ्रान्तप्रयुक्तानां वैलक्षण्यमङ्गीकर्त्तव्यम्, अन्यथा न कारण भेदो भेदकः स्यात् । तच्च वैलक्षण्यं कुशलाः पुरुषा निश्चिन्वन्त्येव प्रकृतादिभ्यः । प्रकृतम्—प्रकरणम् । आदिशब्देनाव्याकुलता मुखप्रसन्नतादि गृह्यते ॥ १५१६ ॥ ॥ १५१७ ॥
वैलक्षण्यमेव गिरां कथमित्याह—“वैलक्षण्येन हेतूना”मिति ।
वैलक्ष्यण्येन हेतूनां विशेषं तासु ये न तु ।
अवगच्छन्ति दोषोऽयं तेषां लिङ्गस्य नास्ति तु ॥ १५१८ ॥
सन्दिह्यमानवपुषो धूमस्याप्येकदाऽन्यथा ।
भावान्निश्चयकालेऽपि न स्यात्तेजसि लिङ्गता ॥ १५१९ ॥
कारणभेदादिति यावत् । तस्मात्सुविवेचितं कार्यं न कारणं व्यभिचरतीति भवत्येव विवक्षाविशेषे प्रामाण्यम् । ये पुनस्तासु लिङ्गभूतासु गीर्षु विशेषं नावधारयन्ति तेषामयं दोषो नतु लिङ्गस्य । नहि लिङ्गं सत्तामात्रेण गमकमिष्यते, किं तर्हि ?, निश्चितम् । तस्मात्प्रतिपत्तुर्दोषोऽयम् । अन्यथा हि क्वचिद्बाष्पादिरूपेण सन्दिह्यमानस्य धूमस्यान्यत्वाभावादगमकत्वान्निश्चितस्यापि वह्नौ साध्ये न लिङ्गता प्राप्नोति । अपिच यदा सर्व एवायं शाब्दो व्यवहारस्तैमिरिकद्वयद्विचन्द्रदर्शनवत्स्वप्रतिभासानुरोधेन भ्रान्त एवेष्यते, तदा कथं विवक्षाविशेषे व्यभिचारोद्भावनादप्रामाण्यप्रसञ्जनं स्यात्, तत्र विवक्षाविशेषे पारमार्थिकस्य प्रामाण्यस्यानभ्युपगमात् । तथाचाह—सङ्केतापेक्षया तस्य हृदि कृत्वा प्रकाशनम् । अनुमानत्वमुद्दिष्टं नतु तत्त्वव्यपेक्षया॥ इति ॥ १५१८ ॥ १५१९ ॥
विवक्षासामान्येऽपि साध्ये प्रामाण्यं प्रतिपादयन्नाह—“तेषा”मित्यादि ।
तेषामपि विवक्षायाः केवलाया विरुध्यते ।
नानुमैकान्तसद्भावात्प्राणितादिप्रसिद्धये ॥ १५२० ॥
तेषामपि भ्रान्ताभ्रान्तप्रयुक्तानां सर्वेषां विवक्षासामान्ये नानुमानत्वविरोधः, एकान्तसद्भावात्—अव्यभिचारात् । नच—सान्निध्यतस्तस्य पुंसश्चिन्तामणेरिव । निस्सरन्ति यथाकामं कुड्यादिभ्योऽपि देशनाः ॥ इत्यनेनाभ्युपगमेन व्यभिचार आशङ्कनीयः । यतस्तत्रापि विवक्षैवाद्या करणम् । पूर्वप्रणिधानाहितसंस्कारबलेनैव तत्रवचनप्रवृत्तेः । तथाहि—अत्यभ्यस्तग्रन्थश्चाद्याया(स्याध्याया ?)दिकालेऽन्यद्विकल्पयतेऽ(तोऽ ?)पि वचनपादविहरणादिक्रियाप्रवृत्तेः । नहि पूर्वसमीहा न तेषां कारण मन्यथा हि गोपालघटिकादौ धूमोपलम्भाद्धूमादेरपि लिङ्गस्य व्यभिचारित्वं चोदनीयं स्यात् । तस्मात्सर्वत्रैव कार्यलिङ्गदेशकालाद्यपेक्षया न व्यभिचारः सम्भवीत्येकान्तसद्भाव एव । नच वैफल्यम्, प्राणितादिसिद्धये प्रवृत्तेः साफल्यसम्भवात् । आदिशब्देन कारणदोषादयो गृह्यन्ते ॥ १५२० ॥
भवतु नाम विवक्षां प्रति शब्दस्य प्रामाण्यम् । तथापि कोऽत्र धर्मी किं साध्यं कथं वा सम्बन्धः सिद्धो येन त्रैरूप्यसद्भावेनानुमानेऽन्तर्भावान्न प्रमाणान्तरत्वं स्यादित्याह—“विवक्षाया”मिति ।
विवक्षायां च गम्यायां विस्पष्टैव त्रिरूपता ।
पुंसि धर्मिणि सा साध्या कार्येण वचसा यतः ॥ १५२१ ॥
पादपार्थविवक्षावान्पुरुषोऽयं प्रतीयते ।
वृक्षशब्दप्रयोक्तृत्वात्पूर्वावस्थास्वहं यथा ॥ १५२२ ॥
पुरुषो धर्मी यत्र वक्ता दृश्यते, सा—विवक्षा साध्या, स्वसन्ताने च सम्बन्धः पूर्वं सिद्धः । यत्र तु वक्ता न दृश्यते तत्र प्रदेशो धर्मी पुरुषविशिष्टः साध्यः । तथाहि—प्रदेशस्यापि शब्दकारणत्वमस्त्येव । पर्वतकुहरादावन्यादृशशब्दश्रवणात् ॥ १५२१ ॥ १५२२ ॥
अतो यत्र परैर्बाह्ये त्रैरूप्यादि निराकृतम् ।
शब्दानामिष्यते तत्र नैवास्माभिः प्रमाणता ॥ १५२३ ॥
यत्र त्वेषामभीष्टेयं व्यक्तं तत्र त्रिरूपता ।
विवक्षायां तु साध्यायां त्रैलक्षण्यं प्रकाशितम् ॥ १५२४ ॥
एवं स्थितेऽनुमानत्वं शब्दे धूमादिवद्भवेत् ।
त्रैरूप्यसहितत्वेन तादृग्विषयसत्त्वतः ॥ १५२५ ॥
इति शाब्दविचारः ।
“अत” इत्यादिना बाह्यापेक्षया शब्दस्यानुमानत्वे साध्ये त्रैरूप्यरहितत्वेनेत्यस्य हेतोर्वैफल्यमाह सिद्धसाध्यतया । विवक्षापेक्षया त्वसिद्धतां “यत्रे”त्यादिना प्राह । तां प्रति शब्दस्य त्रैरूप्यस्य प्रकाशितत्वात् ॥ १५२३ ॥ १५२४ ॥ १५२५ ॥
इति शाब्दविचारः ।
उपमानविचारः
उपमानमधिकृत्याह—“कीदृगि”त्यादि ।
कीदृग्गवय इत्येवं पृष्टो नागरिकैर्यदा ।
ब्रवीत्यारण्यको वाक्यं यथा गौर्गवयस्तथा ॥ १५२६ ॥
एतस्मिन्नुपमानत्वं प्रसिद्धं शाबरे पुनः ।
अस्यागमाबहिर्भावादन्यथैवोपवर्णितम् ॥ १५२७ ॥
कीदृशो गवय इत्येवं पृष्टस्य यद्वाक्यं यादृशो गौस्तादृशो गवय इति, अस्य वाक्यस्योपमानत्वं वृद्धनैयायिकानां प्रसिद्धम् । शाबरे तु भाष्ये शबरस्वामिना शाब्द एवास्यान्तर्भावान्न युक्तं पृथक्प्रमाणान्तरत्वमीदृशस्योपमानस्येति मत्वाऽन्यादृशमेवोपमानं वर्णितम् । उपमानमपि सादृश्यमसन्निकृष्टेऽर्थे बुद्धिमुत्पादयति । यथा गवयदर्शनं गोस्मरणस्येत्यमुना ग्रन्थेन ॥ १५२६ ॥ १५२७ ॥
एनमेव व्याचिख्यासुराह—“गां दृष्ट्वे”त्यादि ।
गां दृष्ट्वाऽयमरण्यान्यां गवयं वीक्षते यदा ।
भूयोऽवयवसामान्यभाजं वर्तुलकण्ठकम् ॥ १५२८ ॥
तदाऽस्य गवयज्ञानं रूपमात्रावबोधकम् ।
प्रत्यक्षमेव यच्चापि विशेषेण विकल्पकम् ॥ १५२९ ॥
गवा सदृशरूपोऽयं पशुरित्येतदीदृशम् ।
अक्षव्यापारसद्भावे जातेः प्रत्यक्षमिष्यते ॥ १५३० ॥
पूर्वं गां दृष्ट्वा पश्चादरण्यं गतो यदा गवयं पश्यति, किंविशिष्टम्, भूयोऽवयवसामान्यभाजम्—भूयांस्यवयवसामान्यानि भजत इति कृत्वा, वर्तुलकण्ठकम्— सास्नारहितम्, तदा यत्प्रथमं गवयस्वरूपमात्रग्राहि निर्विकल्पकमालोचनाज्ञानमुत्पद्यते तत्तावत्प्रत्यक्षम् । यच्चापि गवा सदृशोऽयं पशुरित्येवमाकारं विशेषेण विकल्पयदुत्पद्यते तदपि प्रत्यक्षमेव, अक्षव्यापारेणोत्पत्तेः ॥ १५२८ ॥ १५२९ ॥ १५३० ॥
स्यादेतत्स्मरणबलादसदेव सादृश्यं विकल्पयदुत्पद्यते नाक्षव्यापारेणेत्याशङ्क्याह—“तत्र यद्यपी”त्यादि ।
तत्र यद्यपि गां स्मृत्वा तज्ज्ञानमुपजायते ।
सन्निधेर्गवयस्थत्वाद्भवेदिन्द्रियगोचरम् ॥ १५३१॥
यद्यपि स्मृतिपूर्वकं तत्सादृश्यग्राहि ज्ञानं, तथापि गवयस्थत्वेन सन्निहितत्वा त्सादृश्यमिन्द्रियगोचरः । सन्निधिः—सन्निहितत्वम् । गवयस्थत्वादिति सन्निहितत्वे हेतुः । यस्माद्गवयस्थं सादृश्यं तस्मादस्य सन्निधिः ॥ १५३१ ॥
ननु च द्विष्ठत्वात्सादृश्यस्य कथमेकत्र गवयेऽस्य ग्रहणं युक्तमित्याह—“सामान्यवद्धी”त्यादि ।
सामान्यवद्धि सादृश्यं प्रत्येकं च समाप्यते ।
प्रतियोगिन्यदृष्टेऽपि यस्मात्तदुपलभ्यते ॥ १५३२ ॥
सामान्येन तुल्यं वर्त्तत इति सामान्यवत् । यद्यपि सादृश्यं द्विष्ठं तथाऽपि सामान्यवत्प्रत्येकं समाप्तमिति कृत्वा प्रतियोगिनि गवादावदृष्टेऽपि सन्निहितत्वादेकत्राप्युपलभ्यत एव ॥ १५३२ ॥
स्यादेतत्—यदि सादृश्यं वस्तु भवेत्तदोपलभ्येत यावता तदेवास्य वस्तुत्वं न सिद्धमित्याह—“सादृश्यस्ये”त्यादि ।
सादृश्यस्य च वस्तुत्वं न शक्यमपबाधितुम् ।
भूयोऽवयवसामान्ययोगो जात्यन्तरस्य तत् ॥ १५३३ ॥
भूयसां गवादिशृङ्गाद्यवयवसामान्यानां गवयादिजात्यन्तरेणैकव्यक्तिसमवायलक्षणः सम्बन्धः सादृश्यम् । सम्बन्धश्च सम्बन्धिभ्यो नात्यन्तं भिन्नः, सम्बन्धादिप्रत्ययाभावप्रसङ्गात् । सजातीयस्य सर्वावयवसामान्यसद्भावात्सादृश्यं नास्तीति ज्ञापनार्थं जात्यन्तरग्रहणम् ॥ १५३३ ॥
साम्प्रतमुपमायाः स्वरूपं दर्शयन्नाह—“तस्या”मिति ।
तस्यामेव व्यवस्थायां यद्विज्ञानं प्रवर्त्तते ।
पशुनैतेन तुल्योऽसौ गोपिण्ड इति सोपमा ॥ १५३४ ॥
अनेन परिदृश्यमानेन पशुना सदृशो गौरित्येवमाकारं परोक्षगोविषयं यज्ज्ञानमुपजायते तदुपमानं प्रमाणम् ॥ १५३४ ॥
प्रमेयमस्य दर्शयन्नाह—“तस्मा”दित्यादि ।
तस्माद्यत्स्मर्यते तत्स्यात्सादृश्येन विशेषितम् ।
प्रमेयमुपमानस्य सादृश्यं वा तदाश्रितम् ॥ १५३५ ॥
यस्माद्यथोक्तलक्षणयुक्तमुपमानं, तस्माद्यद्गवादि स्मर्यते गवयादिसादृश्यविशिष्टं, तदुपमानस्य प्रमेयम् । यद्वा सादृश्यमात्रं गवादिसमाश्रितम् ॥ १५३५ ॥
ननु च प्रत्यक्षेण सादृश्यमुपलब्धं, गौश्च स्मृत्या विषयीकृत एव, तत्किमन्यदधिकं प्रमेयमस्ति, यदधिगमादुपमानस्य प्रामाण्यं स्यादित्याह—“प्रत्यक्षेणे”ति ।
प्रत्यक्षेणावबुद्धे च सादृश्ये च गवि स्मृते ।
विशिष्टस्यान्यतोऽसिद्धेरुपमायाः प्रमाणता ॥ १५३६ ॥
यद्यपि प्रत्यक्षेण सादृश्यं गृहीतं, गौश्च स्मृत्या विषयीकृतः, तथापि सादृश्यविशिष्टस्य गोपिण्डस्यान्यतः प्रत्यक्षात्स्मरणाच्चासिद्धत्वात् । उपमानस्य तदधिगमे प्रामाण्यम् ॥ १५३६ ॥
अत्रैव दृष्टान्तमाह—“प्रत्यक्षेऽपी”ति ।
प्रत्यक्षेऽपि यथा देशे स्मर्यमाणेऽपि पावके ।
विशिष्टविषयत्वेन नानुमानाप्रमाणता ॥ १५३७ ॥
यथा प्रदेशादौ धर्मिणि प्रत्यक्षेऽपि स्मृत्या चाग्नौ गृहीतेऽपि वह्निविशिष्टप्रदेशादिविषयत्वान्नानुमानस्याप्रामाण्यमपि तु प्रामाण्यमेव, तद्वदुपमानस्यापीति ॥ १५३७ ॥
अथापि स्याद्भवतु प्रमाणमुपमानं, तत्कथं प्रत्यक्षादेः पृथक् प्रमाणमित्याह—“नही”ति ।
नहि प्रत्यक्षतासिद्धं विज्ञानस्योपपद्यते ।
इन्द्रियार्थाभिसम्बन्धव्यापारविरहात्तदा ॥ १५३८ ॥
त्रैरूप्यानुपपत्तेश्च नच तस्यानुमानता ।
पक्षधर्मादि नैवात्र कथञ्चिदवकल्पते ॥ १५३९ ॥
(प्राग्गोगतं हि सादृश्यं न) धर्मत्वेन गृह्यते ।
गवये गृह्यमाणं च न गवामनुमापकम् ॥ १५४० ॥
न तावत्प्रत्यक्षं युक्तमिन्द्रियार्थाभिसम्बन्धेनानुत्पत्तेः । नाप्यनुमानं त्रैरूप्याभावात् । तथाहि—अत्र पक्षधर्मः सादृश्यं वा परिकल्प्यते, परिदृश्यमानो गवयादिर्वा, तच्च सादृश्यं लिङ्गत्वेन परिकल्प्यमानं गोगतं वा कल्प्येत गवयगतं वेतिपक्षद्वयम् । तत्र न तावद्गवादिप्रमेयस्थस्य सादृश्यस्य लिङ्गत्वं, गवयदर्शनात्प्राक्तस्यागृहीतत्वात् । नचागृहीतस्य लिङ्गत्वं युक्तमतिप्रसङ्गात् । गयवस्थं तर्हि सादृश्यं लिङ्गं भविष्यति, तत्र तस्य गृहीतत्वादित्यह—गवये गृह्यमाणं च न गवामनुमापकम्, व्यधिकरणत्वात्काकस्य कार्ष्ण्यादिवत् ॥ १५३८ ॥ १५३९ ॥ १५४० ॥
गवयदर्शनादूर्ध्वं तर्हि गवि गृहीतत्वादेतत्स्थं लिङ्गं भविष्यतीत्याह—“प्रतिज्ञे”ति ।
प्रतिज्ञार्थैकदेशात्वाद्गोगतस्य न लिङ्गता ।
गवयश्चाप्यसम्बन्धान्न गोलिङ्गत्वमृच्छति ॥ १५४१ ॥
सादृश्यस्य प्रमेयत्वान्न युक्तं तस्यैव लिङ्गत्वम् । गवयस्तर्हि लिङ्गं भविष्यतीत्याह —“गवय” इति । अत्रापि व्यधिकरणत्वान्न गवयस्य लिङ्गत्वम् ॥ १५४१॥
प्रामाण्यं तर्हि माभूदुपमानस्येत्याह—“न चाप्रमाणमि”त्यादि ।
न चाप्रमाणं तज्ज्ञानमज्ञातार्थप्रकाशनात् ।
गवयादर्शनात्पूर्वं तत्सादृश्यानवग्रहात् ॥ १५४२ ॥
पूर्वं गवयसादृश्यविशिष्टस्य गोरग्रहणात् । अज्ञातस्य सादृश्योपाधेर्गोः प्रकाशनमस्तीति युक्तं प्रामाण्यम् ॥ १५४२ ॥
“प्रमेये”त्यादिना प्रतिविधत्ते ।
प्रमेयवस्त्वभावेन नाभिप्रेताऽस्य मानता ।
भूयोऽवयवसामान्ययोगः सादृश्यमस्ति चेत् ॥ १५४३ ॥
सामान्यानि निरस्तानि भूयस्ता तेषु सा कुतः ।
तैश्च योगः प्रमाणं चेदस्ति तत्प्रतिपादकम् ॥ १५४४ ॥
सामान्यस्य च वस्तुत्वं प्रत्यक्षग्राह्यताऽपि च ।
अभावान्यप्रमेयत्वादसाधारणवस्तुवत् ॥ १५४५ ॥
प्रमेयाभावात् षट्प्रमाणव्यतिरिक्तप्रमाणवदतो नोपमानं प्रमाणम् । भूयोऽवयवसामान्ययोगात्मकं सादृश्यमस्ति प्रमेयमतो हेतुरसिद्ध इति चेत् । तन्न । सामान्यपरीक्षायां सामान्यानां निरस्तत्वान्न तेषां भूयस्त्वम् । नापि तैर्योगोऽस्तीति नासिद्धता हेतोः । स्यादेतत्—अस्त्येव सामान्यप्रतिपादकं प्रमाणमतोऽसिद्ध एव हेतुः । तत्रेदं प्रमाणम्—सामान्यं वस्तु, तथा प्रत्यक्षग्राह्यम्, इति प्रतिज्ञाद्वयम् । अभावान्यप्रमेयत्वादिति हेतुः । अभावात्प्रमेयादन्यप्रमेयस्वभावत्वादित्यर्थः । असाधारणवस्तुवदिति दृष्टान्तः । असाधारणवस्तुत्वलक्षणम् ॥ १५४३ ॥ १५४४ ॥ १५४५ ॥
“अभावे”त्यादिना दूषणमाह—
अभावपक्षनिक्षिप्तसामान्यार्थप्रवादिनाम् ।
असिद्धिराद्यसाध्ये च प्रतिज्ञार्थैकदेशता ॥ १५४६ ॥
सामान्यार्थेत्यत्रार्थशब्दः प्रमेयवचनः प्रतिज्ञाद्वयेऽपि बौद्धानामस्वभावसामान्यवादिनामभावादन्यत्वं सामान्यस्यासिद्धमिति हेतोरसिद्धिः । प्रतिज्ञार्थैकदेशभावश्चाद्ये साध्ये वस्तुलक्षणे । तथाहि—अभावादन्यद्वस्त्वेन भवति, अभावव्यवच्छेदलक्षणत्वाद्भावस्य, तदेव शब्दान्तरेण हेतुत्वेनोपात्तम् । तदेव च साध्यमिति प्रतिज्ञार्थैकदेशता ॥ १५४६ ॥
किं च—स्मृतिस्वभावत्वाद्वा न प्रमाणमुपमानं, स्मृत्यन्तरवत् । तत्र स्मृतिस्वभावत्वं प्रतिपादयन्नाह—“एव”मित्यादि ।
एवं तु युज्यते तत्र गोरूपावयवैः सह ।
गवयावयवाः केचित्तुल्यप्रत्ययहेतवः ॥ १५४७ ॥
तत्रास्य गवये दृष्टे स्मृतिः समुपजायते ।
असकृत् दृष्टपूर्वेषु गोरूपावयवेष्वियम् ॥ १५४८ ॥
अतएव तुरङ्गादौ तत्सादृश्येन नो मतिः ।
वर्त्तते गवये दृष्टे को विशेषोऽन्यथा पुनः ॥ १५४९ ॥
प्रकृत्यैवासत्यपि सादृश्याख्ये वस्तुनि केचिद्गवयावयवा गोगतैरवयवैः सह तुल्यप्रत्यवमर्शविकल्पहेतवः, न सादृश्यं नामार्थान्तरमन्यत्र तुल्यप्रत्यवमर्शहेतुभ्योऽवयवेभ्यः, तेभ्योऽर्थान्तरस्य बुद्धावप्रतिभासनात् । तस्माद्गवयदर्शनाद्गोगतावयवेष्वेव भूयोदर्शनबलात्स्मृतिरूपमेव जायते ज्ञानं, नतु सादृश्याख्यवस्तुग्राहि । अन्यथा हि तुरगादावपि भूयोऽवयवसामान्ययोगोऽस्तीति तत्रापि गवयदर्शनाद्गवीव मतिः किं न प्रवर्त्तेत । नह्यत्र कश्चिद्विशेषोऽस्ति, उभयत्रापि सादृश्यसद्भावात् ।“अन्यथे”ति । यद्यसकृन्न दृष्टाः स्युः । स्मृतित्वे तु नायं दोषो यदेवासकृद्दृष्टपूर्वं तत्रैव स्मृतिर्भवति । प्रतिनियतशक्तित्वाच्च स्मृतिप्रबोधहेतूनाम् ॥ १५४७ ॥ १५४८ ॥ ॥ १५४९ ॥
स्यादेतत्—भवतु स्मृतिस्तथापि स्मृतिरेव कस्मादप्रमाणमित्याह—“विज्ञाते”त्यादि ।
विज्ञातार्थप्रकाशत्वान्न प्रमाणमियं ततः ।
प्रमाणान्तरभावस्तु कुत एव भविष्यति ॥ १५५० ॥
“इय”मिति । स्मृतिः ॥ १५५० ॥
अभ्युपगम्य सादृश्यस्य वस्तुत्वं परमतेनैवोपमानाप्रामाण्यमाह—“अस्तु वे”त्यादि ।
अस्तु वा वस्तु सादृश्यं तत्तु सामान्यवद्गवि ।
प्रतियोगिन्यदृष्टेऽपि दृष्टमेव पुरःस्थितम् ॥ १५५१ ॥
तथाच स्मृतिरूपत्वं न कथञ्चिन्निवर्त्तते ।
सत्तामात्रेण विज्ञातं सादृश्यं च गवात्मनि ॥ १५५२ ॥
गवयेन तु सादृश्यमित्येवं न विनिश्चितम् ।
प्रमिणोत्युपमानं तु वैलक्षण्यं ततः स्मृतेः ॥ १५५३ ॥
भवतु सादृश्यं वस्तुगति च सामान्यमिव सर्वात्मना परिसमाप्तं, तथापि गवयदर्शनात्पूर्वं गवि पुरोऽवस्थिते प्रत्यक्षेण गृह्यमाणे ततोऽव्यतिरेकात्तदपि पुरोऽवस्थितं सादृश्यं गृहीतमेव गोस्वरूपवत् । अन्यथा ह्यव्यतिरेको न सिद्ध्यति । ततश्च गृहीतग्रहणात्स्मृतिरूपत्वान्न प्रमाणम् । अथापि स्यात्सत्तामात्रेण पूर्वं सादृश्यं गृहीतम्,एतद्गवयेनैतत्सादृश्यं गोरित्यनेन रूपेण न गृहीतं । उपमानं त्वनेनाकारेण प्रमिणोति, ततः स्मृतिरूपत्वमसिद्धमिति ॥ १५५१ ॥ १५५२ ॥ १५५३ ॥
तत्राह—“यदि नामे”त्यादिना ।
यदि नाम गृहीतं नो नाम्ना तेनैव तत्पुरा ।
गृहीतं तु स्वरूपेण यदस्यात्माभिधीयते ॥ १५५४ ॥
यदि नाम गवयेन सादृश्यमित्यनेन नाम्ना विशिष्टं गोद्रव्यं गवयदर्शनात्पूर्वं न गृहीतं, स्वरूपेण तु गृहीतमेव । यस्तस्य स्वभावः स गृहीत इति यावत् । किं तत्स्वरूपमित्याह—“यदस्यात्माभिधीयत” इति । यत्स्वरूपं तस्य गोपिण्डस्यात्मेत्यमिधीयते । तेन—स्वरूपेण स्वभावलक्षणेन तद्गृहीतमिति यावत् ॥ १५५४ ॥
यदि नाम गृहीतं ततः किमित्याह—“न नाम रूप”मित्यादि ।
न नाम रूपं वस्तूनां यत्तस्याग्रहणे सति ।
परिज्ञातात्मतत्त्वानामप्यविज्ञातता भवेत् ॥ १५५५ ॥
नहि वस्तूनां स्वरूपं नाम भवति, येन तस्य नाम्नः पूर्वमग्रहणे गृहीतस्यापि वस्तुनो न ग्रहणं स्यात् । विशेषतश्च निश्चयात्मकप्रत्यक्षवादिनो न गृहीतमित्येवं न युक्तं वक्तुम् ॥ १५५५ ॥
एतावता च लेशेन प्रमाणत्वव्यवस्थितौ ।
नेयत्ता स्यात्प्रमाणानामन्यथाऽपि प्रमाणतः ॥ १५५६ ॥
किञ्चः—अनेन तुल्य इति ज्ञानादेतावता लेशेन प्रमाणान्तरकल्पनायामतिप्रसङ्गः स्यात् । प्रत्यक्षमनुमानं च शाब्दं चोपमया सह । अर्थापत्तिरभावश्च षडेते साध्यसाधकाः ॥ इति नेयत्ता स्यात्प्रमाणानाम् ॥ १५५६ ॥
तमेवातिप्रसङ्गं दर्शयन्नाह—“तरुपङ्क्त्यादी”त्यादि ।
तरुपङ्क्त्यादिसन्दृष्टावेकपादपदर्शनात् ।
द्वितीयशाखिविज्ञानादाद्योऽसाविति निश्चयः ॥ १५५७ ॥
प्रमाणान्तरमासक्तं सादृश्याद्यनपेक्षणात् ।
गृहीतग्रहणान्नो चेत्समानमुपमास्वपि ॥ १५५८ ॥
आदिशब्देन पिपीलिकादिपङ्क्तिग्रहणम् । तरुपङ्क्त्यादिदर्शनकाले प्रथमवृक्षग्रहणादाद्योऽयं वृक्ष इति निश्चयो नोपजायते । द्वितीयवृक्षोपलब्धौ तु सत्यामाद्ये शाखिन्याद्योऽयं शाखीति योऽयं जायते निश्चयः स प्रमाणान्तरं स्यात् । कस्मात् ।सादृश्याद्यनपेक्षणात् । सादृश्यं नापेक्षत इति नोपमानमिदम् । अक्षव्यापारानपेक्षणान्न प्रत्यक्षम् । लिङ्गानपेक्षणान्नानुमानम् । शब्दनिरपेक्षत्वान्न शाब्दम् । अन्यथाऽनुपपद्यमानदृष्टश्रुतार्थानपेक्षत्वान्नार्थापत्तिः । प्रमाणप्रमेयनिवृत्त्यनपेक्षणान्नाभावः ।तथा—अस्मात्पूर्वमिदं पश्चाद्दीर्घं ह्रस्वमिदं महत् । इत्येवमादिविज्ञाने प्रमाऽनिष्टा प्रसज्यते । इति वक्तव्यम् । स्मृतित्वाद्गृहीतग्रहणान्न प्रमाणान्तरमेतदिति चेत् ।“समानमुपमास्वपि” । गृहीतग्राहित्वम् । उपमास्विति व्यक्तिभेदाद्बहुवचनम् ॥ १५५७ ॥ ॥ १५५८ ॥
गवयस्योपलम्भे च तुरङ्गादौ प्रवर्त्तते ।
तद्वैसादृश्यविज्ञानं यत्तदन्या प्रमा न किम् ॥ १५५९ ॥
अभावान्तर्गतं नो चेन्नैवं भावावलम्बनात् ।
अन्योन्याभावतायां वा समं सादृश्यबुद्धिषु ॥ १५६० ॥
किञ्च—यथा गवयदर्शनाद्गवि साधर्म्यज्ञानं प्रमाणान्तरं व्यवस्थाप्यते, तथा गवयदर्शनात्तुरङ्गादौ वैसादृश्यस्य विज्ञानमपि कस्मान्न प्रमाणान्तरं व्यवस्थाप्येत । अभावप्रमाणान्तर्भावान्न प्रमाणान्तरमिति चेत् । नैतद्युक्तम् । कस्मात् । भावावलम्बनात् । अभावस्याभावविषयत्वात् । स्यादेतत् । वैसादृश्यं हि सादृश्याभावः, तस्मादस्त्येवाभावान्तर्गतिरित्याह—“अन्योन्ये”त्यादि । अन्योन्याभावतायां सत्यां यद्य भावरूपं प्रमेयं व्यवस्थाप्यते तदा, समं—तुल्यमेतदीदृशं प्रमेयं, सादृश्यबुद्धिषु—उपमानत्वेनेष्टासु ॥ १५५९ ॥ १५६० ॥
कथमित्याह—“सादृश्यस्ये”त्यादि ।
सादृश्यस्य विवेसो हि यथा तत्र प्रमीयते ।
सर्वावयवसामान्यविवेको गम्यते तथा ॥ १५६१ ॥
यथा तत्र वैधर्म्यज्ञाने सादृश्यविवेकः प्रतीयते तथा साधर्म्यज्ञानेऽपि सर्वावयवसामान्यवियोगो गम्यत इत्यभावान्तर्भावः स्याद्वैसादृश्यज्ञानवत् ॥ १५६१ ॥
अत्रैवोपपत्तिमाह—“भूय” इत्यादि ।
भूयोऽवयवसामान्ययोगो येनाधिगम्यते ।
सर्वावयवसामान्ययोगे तत्त्वं प्रसज्यते ॥ १५६२ ॥
येनेति कारणोपदेशः । येन—यस्मात्, साधर्म्यज्ञाने भूयोऽवयवासामान्ययोगोऽवगम्यते । नतु सर्वावयवसामान्ययोगस्तस्मादत्राप्यन्योन्याभावः । अन्यथा यदि सर्वावयवसामान्ययोगः स्यात्, तदा तत्त्वं—गोत्वं गवयस्य प्रसज्येत ॥ १५६२ ॥
श्रुतातिदेशवाक्यस्य समानार्थोपलम्भने ।
सञ्ज्ञासम्बन्धविज्ञानमुपमा कैश्चिदिष्यते ॥ १५६३ ॥
“कैश्चि”दिति । नैयायिकैः । त एवमुपमानस्य लक्षणमाहुः— प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानमिति । प्रसिद्धं साधर्म्यं प्रसिद्धेन वा साधर्म्यं यस्य स प्रसिद्धसाधर्म्यो गवयः, तस्मात्—तमाश्रित्य, साध्यस्य—सञ्ज्ञासञ्ज्ञिसम्बन्धस्य, साधनं— सिद्धिः, उपमानम् । तथाह्यागमाहितसंस्कारस्मृत्यपेक्षात्साधर्म्यज्ञानात्समाख्यासम्बन्धप्रतिपत्तिरुपमानमित्ययमेवार्थोऽन्यैरन्यथा निर्दिष्टः । गौरिव गवय इत्यतिदेशवाक्यमागमः, तेनाहितो यः संस्काराख्यो गुणः, ततो याऽतिदेशवाक्यार्थस्मृतिरुपजायतेऽरण्ये गवयदर्शनात्, तामपेक्षते यत्साधर्म्यज्ञानं तत्तथोक्तम् । समाख्या—सञ्ज्ञा, शब्द इति यावत् । तेन सहार्थस्य यः सम्बन्धः तस्य प्रतिपत्तिरुपमानमिति तुल्य एवार्थः ॥ १५६३ ॥
“तत्रापी”त्यादिना दूषणमाह—
तत्रापि सञ्ज्ञासम्बन्धप्रतिपत्तिरनाकुला ।
तस्यातिदेशवाक्यस्य तदैव श्रवणे यदि ॥ १५६४ ॥
तथा परिगृहीतार्थग्रहणान्न प्रमाणता ।
स्मृतेरिवोपमानस्य करणार्थवियोगतः ॥ १५६५ ॥
तत्रातिदेशवाक्यश्रवणकाले सञ्ज्ञासञ्ज्ञिसम्बन्धप्रतिपत्तेः पूर्वमेवोत्पन्नत्वात्पश्चादुत्पद्यमानायां गृहीतग्रहणान्न प्रमाणत्वं स्मृतिवत् । स्यादेतद्गृतीग्राहित्वं, भविष्यतिप्रामाण्यं चेति, कोऽत्र विरोध इथ्याह—“करणार्थवियोगत” इति । करणार्थः—साधकतमत्वम्, अनिष्पादिते कर्मणि प्रवृत्त्या ॥ १५६४ ॥ १५६५ ॥
स्यादेतत्—पूर्वं सञ्ज्ञासम्बन्धप्रतिपत्तिर्न जातैव, ततो गृहीतग्रहणादित्यसि“द्धोहेतुरि”त्याह—“अथ से”ति ।
अथ सा नैव सञ्जाता तथाऽपि प्रतिपद्यते ।
सोऽयं यस्य मया सञ्ज्ञा संश्रुतेति कथं तदा ॥ १५६६ ॥
यदि पूर्वं न सञ्जाता सञ्ज्ञासम्बन्धप्रतिपत्तिरभविष्यत्तदाऽयमसौ गवयो यस्म मया पूर्वं सञ्ज्ञा श्रुतेत्येवमाकाराप्रतिपत्तिर्नोदायिष्यत ॥ १५६६ ॥
अत्रैवोपपत्तिमाह—“तथा ही”ति ।
तथा ह्यश्रुततत्सञ्ज्ञो गवयस्योपलम्भने ।
तन्नाम श्रुतमस्येति न ज्ञातुं कश्चन प्रभुः ॥ १५६७ ॥
अविद्धकर्णस्त्वाह—आगमात्सामान्येन प्रतिपद्यते विशेषप्रतिपत्तिस्तूपमानादिति ।अतस्तन्मतमाशङ्कते—“उपयुक्तोपमान” इति ।
उपयुक्तोपमानश्चेत्तुल्यत्वग्रहणे सति ।
विशिष्टविषयत्वेन सम्बन्धमवगच्छति ॥ १५६८ ॥
उपयुक्तमुपमानमतिदेशवाक्यं यस्य स तथोक्तः ॥ १५६८ ॥
अस्यैवार्थं द्वितीयेन श्लोकेनाचष्टे—“आगमाद्धी”ति ।
आगमाद्धि स सम्बन्धं वेत्ति सामान्यगोचरम् ।
विशिष्टविषयं तं तु विजानात्युपमाश्रयात् ॥ १५६९ ॥
विशिष्टो विषयो गवयः ॥ १५६९ ॥
“नन्वि”त्यादिना प्रतिविधत्ते ।
नन्वन्यत्र न सञ्ज्ञायाः सम्बन्धस्यावबोधने ।
तस्या ह्यर्थान्तरे बोधो युज्यतेऽतिप्रसङ्गतः ॥ १५७० ॥
नेत्यस्य युज्यत इत्यनेन सम्बन्धः । नह्यन्यत्र सञ्ज्ञासम्बन्धप्रतिपत्तौ सत्यां तस्याः सञ्ज्ञाया अर्थान्तरे प्रतिपत्तिर्युक्ताऽतिप्रसङ्गत् ॥ १५७० ॥
तमेवातिप्रसङ्गं दर्शयन्नाह—“नही”ति ।
नहि चित्राङ्गदे कश्चित्तन्नामग्रहणे सति ।
कालान्तरेण तं शब्दं वेत्ति चारुकिरीटिनि ॥ १५७१ ॥
तस्मात्प्राग् यत्र तेनेदं विकल्पप्रतिबिम्बके ।
ज्ञातं नाम बहिर्बुद्ध्या सामान्यमिति सञ्ज्ञिते ॥ १५७२ ॥
गवयस्योपलम्भेऽपि तत्रैव प्रतिपद्यते ।
दृश्यकल्पाविभागज्ञो बाह्य इत्यभिमन्यते ॥ १५७३ ॥
अङ्गदः—कटकाख्यामाभरणम् । चित्रोऽङ्गदो यस्यासौ तथोक्तः । नहि चित्राङ्गदो यः स देवदत्त इत्युक्तः कश्चित्कालान्तरे तं चित्राङ्गदशब्दं चारुकिरीटिनि यज्ञदत्ते प्रतिपद्यते । किरिटं—मुकुटं, चारु च तत् किरिटं यस्यास्ति स तथोक्तः । तस्मान्माभूदतिप्रसङ्ग इति । यत्रैवार्थे विकल्पसमारोपिते बाह्यार्थव्यवसायिन्या बुद्ध्या गृहीतन्नाम—सञ्ज्ञा, गवयोपलम्भेऽपि तत्रैव तन्नाम प्रतिपद्यते, नतु बाह्ये स्वलक्षणे गवयाख्ये । तदेव च विकल्पप्रतिबिम्बकं सामान्यमिति व्यवह्रियते । तत्परिकल्पितम् । तस्य निराकृतत्वात् । कथं तर्हि बाह्यस्वलक्षणाभिमान इत्याह—“दृश्ये”त्यादि ॥ १५७१ ॥ ॥ १५७२ ॥ १५७३ ॥
अथ स्वलक्षणे शब्दादिप्रवृत्तौ को विरोध इत्याह—“एव”मित्यादि ।
एवं च प्रतिपत्तव्यं यत्स्वलक्षणगोचराः ।
विकल्पा ध्वनयश्चापि विस्तरेण निराकृताः ॥ १५७४ ॥
यतः शब्दार्थपरीक्षायां विस्तरेण स्वलक्षणगोचरत्वं शब्दानां विकल्पानां च निराकृतम्, तस्माद्विकल्पसमारोपित एव शब्दार्थः ॥ १५७४ ॥
तेषां तद्गोचरोत्वेऽपि भवत्येवानुमैव वा ।
त्रिरूपलिङ्गजन्यत्वमस्य चैवं प्रतीयते ॥ १५७५ ॥
यो गवा सदृशोऽसौ हि गवयश्रुतिगोचरः ।
सङ्केतग्रहणावस्थो बुद्धिस्थो गवयो यथा ॥ १५७६ ॥
भवतु वा तेषां विकल्पशब्दानां स्वलक्षणगोचरत्वम् । तथाऽप्यनुमान एवान्त र्भावान्नोपमानं प्रमाणान्तरम् । कथं त्रिरूपलिङ्गजत्वमन्तरेणास्यानुमानेऽन्तर्भाव इत्याशङ्क्य त्रिरूपलिङ्गजन्यत्वं प्रतिपादयन्नाह—“त्रिरूपे”त्यादि । गोसदृशत्वं हेतुः, गवयश्रुतिगोचरत्वं साध्यधर्मः, सङ्केतग्रहणकाले विकल्पबुद्धिप्रतिभासी बुद्धिस्थो गवयो दृष्टान्तः । दृश्यमानो गवयो धर्मी ॥ १५७५ ॥ १५७६ ॥
स्यादेतत्—गौरिव गवय इत्येतस्मिन्सङ्केतकाले गवयो बुद्धौ न समारूढ एव । ततश्चासिद्धो दृष्टान्त इत्याह—“बुद्धिस्थोऽपी”त्यादि ।
बुद्धिस्थोऽपि न चेत्तस्यामवस्थायां भवेदसौ ।
क्रियते समयः कस्मिन्नयं च सदृशो गवा ॥ १५७७ ॥
न केवलं न चक्षुर्गोचर इत्यपि शब्दार्थः । यदि बुद्धौ गोसारूप्यानुगतं न किञ्चित्प्रतिभासेत तदाऽयं सदृशो गवेति किमाश्रित्य सङ्केतः क्रियेत, क्रियते चसमयः, तस्माद्बुद्धिस्थो गोसारूप्यानुगत आकारः, कश्चित्समयकाले प्रतिभासते इत्यभ्युपगन्तव्यम् ॥ १५७७ ॥
एवं तावच्छब्दार्थयोः सम्बन्धं प्रमेयमुपमानस्याभ्युपगम्य गृहीतग्रहणादनुमानान्तर्भावाच्चाप्रामाण्यमस्य प्रतिपादितम् । साम्प्रतं सम्बन्धिव्यतिरिक्तः सम्बन्धोऽपरो नास्ति, तौ च सम्बन्धिनौ प्रमाणान्तरेणागृहीतौ, तथाहि—समयकाले श्रोत्रज्ञानेन शब्दो गृहीतः, पश्चाच्च गवयश्चक्षुषा पुरोवर्त्ती गृहीतस्तत्किमपरं प्रमेयमस्ति, येनोपमानस्य प्रामाण्यं स्यादिति । एतत्प्रतिपादयन्नाह—“न सम्बन्धी”त्यादि ।
न सम्बन्ध्यतिरिक्तश्च सम्बन्धोऽस्तीति साधितम् ।
प्रागेव समये शब्दो गृहीतः श्रोत्रचेतसा ॥ १५७८ ॥
चक्षुषा दृश्यते चासावग्रतोऽवस्थितः पशुः ।
पृथग्विज्ञातयोरेषा युक्ता न घटना प्रमा ॥ १५७९ ॥
गृहीतप्रतिसन्धानात्सुगन्धिमधुरत्ववत् ।
तन्नामयोगसंवित्तिः स्मार्त्ततां नातिवर्त्तते ॥ १५८० ॥
अनेन गृहीतग्रहणादप्रामाण्यमाह—“साधित”मिति । गुणपदार्थपरीक्षायाम् । स्यादेतत्—यद्यपि पृथक्सम्बन्धिनौ गृहीतौ श्रोत्रादिचेतसा, तयोश्च घटनोपमया क्रियते, तस्माद्धटनया प्रामाण्यमुपमानस्य स्यादित्याह—“पृथगि”त्यादि । “सुगन्धिमधुरादिव”दिति । सप्तम्यर्थे वतिः । यथा यदेतद्वस्त्वनुभूयमानं तन्मधुरं तत्सुगन्धी त्यादौ विषये गृहीतसंयोजनात्मकं ज्ञानं न प्रमाणं तथेदमुपि न भवितुमर्हतीत्यर्थः । तत्—तस्मात्, नामयोगसंवित्तिः—सञ्ज्ञासम्बन्धज्ञानं, स्मार्त्ततां नातिवर्त्तते—यथोक्तनीत्या ॥ १५७८ ॥ १५७९ ॥ १५८० ॥
स्यादेतत्—नहि सञ्ज्ञासम्बन्धः साधर्म्यद्वारेण क्वचित्क्रियते, किं तर्हि ?, साक्षात्सञ्ज्ञिनमुपदर्श्यायं गौरित्येवं क्रियमाणो दृष्टः, नतु परोक्षविषय इत्याह—“अनन्ते”त्यादि ।
अनन्तोपायजन्याश्च समाख्यायोगसंविदः ।
साधर्म्यमनपेक्ष्यापि जायन्ते नरपादिषु ॥ १५८१ ॥
“समाख्यायोगसंविद” इति । सञ्ज्ञासम्बन्धज्ञानानि । “नरपादिष्वि”ति । राजादिषु ॥ १५८१ ॥
तदेवानन्तोपायजन्यत्वं प्रदर्शयितुमुदाहरणमाह—“सितातपत्रे”त्यादि ।
सितातपत्रापिहितब्रघ्नपादो नराधिपः ।
तेषां मध्य इति प्रोक्त उपदेशविशेषतः ॥ १५८२ ॥
कालान्तरेण तद्दृष्टौ तन्नामास्येति या मतिः ।
सा तदाऽन्याप्रमा प्राप्ता साधर्म्याद्यनपेक्षणात् ॥ १५८३ ॥
यथाहि कश्चित्कञ्चिद्ब्रूते—गच्छ भ्रातरमुना कार्येण, पश्य नराधिपतिं बहुभिर्गजतुरगाधिरूढैः पुरुषैः सह गच्छन्तमिति । स प्रत्याह—कस्तेषां मध्ये नराधिपतिरिति । स कथयति—सितातपत्रेणापिहिता व्रध्नपादाः—आदित्यरश्मयो यस्य स, तेषां मध्ये नराधिपतिरिति । तस्य तमुपदेशं गृहीत्वा गतस्य दृष्ट्वा तं यथोक्तविशेषणविशिष्टं राजानमयमसौ नराधिपतिनामेति या बुद्धिरुत्पद्यते साऽपि भवन्मतेन प्रमाणान्तरमापतितम् । कस्मात् ? । सादृश्याद्यनपेक्षणात् । अनेन प्रमाणषटाकनन्तर्भावं दर्शयति ॥ १५८२ ॥ १५८३ ॥
अविद्धकर्णस्तु—द्वे एव प्रमाणे, स्वलक्षणसामान्यलक्षणाभ्यां चान्यत्प्रमेयं नास्तीति, एतद्विघटनार्थं प्रमाणयति—प्रत्यक्षमनुमानव्यतिरिक्तप्रमाणान्तरसद्वितीयं प्रमाणत्वात्, अनुमानवत् । अनुमानं वा प्रत्यक्षव्यतिरिक्तप्रमाणान्तरसद्वितीयं प्रमाणत्वात्, प्रत्यक्षवत् । तथा स्वलक्षणं सामान्यलक्षणव्यतिरिक्तप्रमेयार्थान्तरसद्वितीयं प्रमेयत्वात्, सामान्यलक्षणवत् । सामान्यलक्षणं वा स्वलक्षणव्यतिरिक्तप्रमेयान्तरसद्वितीयं प्रमेयत्वात्, स्वलक्षणवदिति । एतदेवाह—“अन्य” इति ।
अन्यः प्रमान्तरास्तित्वं साधयत्यनुमाबलात् ।
प्रत्यक्षमनुमाभिन्नप्रमाणान्तरसङ्गतम्ष ॥ १५८४ ॥
अनुमावत्प्रमाणत्वादनुमाऽप्येवमेव च ।
(नैव)मप्रतिबन्धोऽयं हेतुर्बाधाप्रकाशनात् ॥ १५८५ ॥
चतुष्ट्वं च प्रमाणानां व्याहन्येतैवमेव ते ।
यत्तत्र परिहारस्ते स एवात्र भविष्यति ॥ १५८६ ॥
इति उपमानविचारः ।
सङ्गतं—सम्बद्धं, सद्वितीयमिति यावत् । उपलक्षणमेतत्प्रमेयान्तरसाधनस्यापिबोद्धव्यम् । साध्यविपक्षे हेतोर्बाधकस्याप्रकाशनान्न साध्यसाधनयोः प्रतिबन्ध उपदर्शित इत्यनैकान्तिकाः सर्व एव हेतवः, सन्दिग्धविपक्षव्यावृत्तिकत्वात् । किञ्च— प्रत्यक्षानुमानोपमानशाब्दानि चत्वारि प्रमाणानीति सङ्ख्यानियमो व्याहन्येन, अनेनैवे प्रकारेण प्रमाणान्तरसद्भावात् । तथाहि शक्यमिदमभिधातुम्—प्रत्यक्षमनुमानोपमानशाब्दव्यतिरिक्तप्रमाणान्तरसद्वितीयं प्रमाणत्वादनुमानवदिति । यच्चापिप्रमेयत्रैविध्यमिष्टं—सामान्यं विशेषः सामान्यविशेषवानिति, तदपि व्याहन्येत, तेनैव प्रकारेण प्रमेयान्तरसाधनसम्भवात् । योऽत्र भवतः परिहारः सोऽस्माकमपि भविष्यतीत्यलं बहुना ॥ १५८४ ॥ १५८५ ॥ १५८६ ॥
इत्युपमानविचारः ।
अर्थापत्ति-परीक्षा
अर्थापत्तिमधिकृत्याह—“प्रमाणषङ्के”त्यादि ।
प्रमाणषट्कविज्ञातो यत्रार्थो नान्यथा भवन् ।
अदृष्टं कल्पयत्यन्यं साऽर्थापत्तिरुदाहृता ॥ १५८७ ॥
यत्र देशकालादौ प्रत्यक्षानुमानोपमानशाब्दार्थापत्त्यभावलक्षणैः षड्भिः प्रमाणैः परिच्छिन्नोऽर्थोऽन्यथा नोपपद्यते यद्येवम्भूतोऽर्थो न भवेदित्येवं या परोक्षार्थविषया कल्पना साऽर्थापत्तिः प्रमाणम् । “उदाहृते”ति । शबरस्वामिना । यथोक्तम्— दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यत इत्यदृष्टकल्पना । तद्यथा—जीवति देवदत्ते गृहादर्शनेन बहिर्भावकल्पनेति ॥ दृष्टः—शाब्दव्यतिरिक्तप्रमाणपञ्चकाधिगतः, श्रुतः—शाब्दप्रमाणावगतः ॥ १५८७ ॥
तत्र षट्प्रमाणपूर्विकाया अर्थापत्तेर्यथाक्रममुदाहरणान्याह—“तत्रे”त्यादि ।
तत्र प्रत्यक्षतो ज्ञाताद्दाहाद्दहनशक्तिता ।
वह्नेरनुमितात्सूर्ये यानात्तच्छक्तियोगिता ॥ १५८८ ॥
शक्तयः सर्वभावानां कार्यार्थापत्तिसाधनाः ।
अपूर्वास्ताश्च गम्यन्ते सम्बन्धग्रहणादृते ॥ १५८९ ॥
तत्र प्रत्यक्षपूर्विकाऽर्थापत्तिर्यथा—प्रत्यक्षेण दाहमनुभूय वह्नेर्दाहशक्तिकल्पना । अनुमानपूर्विका यथा—देशान्तरप्राप्त्याऽनुमिताद्गमनात्सूर्यस्य गमनशक्तियोगकल्पना । शक्तयश्च सर्वदा सर्वपदार्थानां कार्यार्थापत्तिसाधना इति । इयमप्यर्थापत्तिः कदाचित्प्रत्यक्षपूर्विकैव, यदा प्रत्यक्षेण कार्यमुपलभ्य कारणस्य शक्तिरवगम्यते । यदा त्वनुमानादिना कार्यमवगम्य कारणशक्तिरवगम्यते तदाऽनुमानादिपूर्विका भवति कार्यार्थापत्तिः । कार्यस्यान्यथाऽनुपपत्तिः साधनं प्रमाणं यासां तास्तथोक्ताः । नच कारणशक्तिः पूर्वमेव गृहीतेति शक्यं वक्तुम्, यस्मादपूर्वास्ताश्च शक्तयो गम्यन्ते सर्वदैव । तेनाधिगतार्थाधिगन्तृत्वं नास्तीति भवत्येव प्रामाण्यम् । तत्रैतत्स्यात्कार्येणलिङ्गेनानुमेयाः, शक्तयो नार्थापत्तिप्रमाणगम्या इत्याह—“सम्बन्धग्रहणादृत” इति ।यस्मात्सम्बन्धग्रहणमन्तरेण गम्यन्ते तस्मान्नानुमेयाः ॥ १५८८ ॥ १५८९ ॥
तमेव सम्बन्धग्रहणाभावं प्रतिपादयन्नाह—“नचे”ति ।
न चासां पूर्वसम्बन्धो न वाऽन्यो गृह्यतेऽधुना ।
कार्यैः सह यतः स्यातां पक्षधर्मान्वयाविह ॥ १५९० ॥
न चासां शक्तीनामनुमानकालात्पूर्वं कार्यैः सह सम्बन्धो गृहीतो यथा वह्निधूमयोर्महानसादौ, तासामतीन्द्रियत्वात् । अनेनान्वयाभाव उक्तः । नाप्यधुनाऽनुमानकाले गृह्यते सम्बन्धोऽतीन्द्रियत्वादेव । अनेन पक्षधर्माभाव उक्तः । नहि कारणाधारशक्तीनां कार्यं धर्मोऽयुक्तेः ॥ १५९० ॥
श्रोत्रादिशक्तिपक्षे वा यावान् हेतुः प्रयुज्यते ।
सर्वोऽसावाश्रयासिद्धो धर्म्यसिद्धेः प्रसज्यते ॥ १५९१ ॥
किञ्च यदा श्रोत्रादिगताः शक्तयः पक्षीक्रियन्ते तदा श्रोत्रादिशक्तिपक्षे यावान्हेतुः प्रयुज्यते शक्तिसाधनाय सर्वोऽसौ हेतुराश्रयासिद्धः स्यात्, आश्रयभूतानां शक्तीनामसिद्धत्वात् । तस्मात्कार्यार्थापत्तिसाधनाः सर्वाः शक्तयो नानुमेयाः ॥ १५९१ ॥
पीनो दिवा न भुङ्क्ते चेत्येवमादिवचःश्रुतौ ।
रात्रिभोजनविज्ञानं श्रुतार्थापत्तिरुच्यते ॥ १५९२ ॥
तत्र शाब्दप्रमाणपूर्विकार्थापत्तिर्यथा—पीनो देवदत्तोऽकृतरसायतो दिवा न भुङ्क्तेइत्येवमादिवचनश्रवणादर्वाग्रात्रौ भुङ्क्त इत्येवमाद्यर्थकल्पना ॥ १५९२ ॥
स्यान्मतम्—पीनो देवदत्तो दिवा न भुङ्क्ते इत्यस्यैव वाक्यस्यायमर्थः प्रतीयते रात्रौ भुङ्क्त इत्यत आह—“न रात्र्यादिपदार्थश्चे”ति ।
न रात्र्यादिपदार्थश्च दिवावाक्ये च गम्यते ।
न दिवादिपदार्थानां संसर्गो रात्रिभोजने ॥ १५९३ ॥
न भेदो येन तद्वाक्यं तस्य स्यात्प्रतिपादकम् ।
अन्यार्थव्यापृतत्वाच्च न द्वितीयार्थकल्पना ॥ १५९४ ॥
तस्माद्वाक्यान्तरेणायं बुद्धिस्थेन प्रतीयते ।
तेनानागामिकत्वेऽपि यत्तद्वाक्यं प्रतीयते ॥ १५९५ ॥
प्रमाणं तस्य वक्तव्यं प्रत्यक्षादिषु यद्भवेत् ।
नत्वनुच्चरिते वाक्ये प्रत्यक्षं तावदिष्यते ॥ १५९६ ॥
नानुमानं नहीदं हि दृष्टान्तेन सह क्वचित् ।
यदि त्वनुपलब्धेपि सम्बन्धे लिङ्गतेष्यते ॥ १५९७ ॥
तदुच्चारणमात्रेण सर्ववाक्यगतिर्भवेत् ।
सम्बन्धरहितत्वेन नान्यतस्तद्विशिष्यते ॥ १५९८ ॥
द्विविधो हि वाक्यार्थो भवेत्, यदुत संसर्गो भेदश्च । तत्र संसर्गः परस्परं पदार्थानामभेदः क्षीरोदकवत् । भेदश्च व्यवच्छेद्यव्यवच्छेदकभावेनावस्थानम् । यद्वानियतसाध्यसाधनसम्बन्धः संसर्गः । भेदो विजातीयव्यावृत्तिः । सोऽयं द्विप्रकारोऽपि वाक्यार्थो न सम्भवति । तथाहि—दिवादीनां पदानां येऽर्था दिवादयस्तेषां न संसर्गरूपो रात्रिभोजनार्थः, अत्यन्तविलक्षणत्वात् । नापि भेदरूपो दिवादिपदानामरात्र्यादिव्यवच्छेदेनाप्रवृत्तेः । अथ मतम्—रात्रौ भुङ्क्त इत्ययमपरो द्वितीयोऽर्थोदिवादिवाक्यस्यैवेत्याह—“अन्यार्थे”ति । दिवादिभोजनप्रतिषेध एवोपक्षीणत्वान्नशक्रोत्यपरं तदैव रात्र्यादिभोजनप्रतिपादनं कर्तुमिति न द्वितीयार्थकल्पना । तस्माद्वाक्यान्तरस्यायमर्थो रात्रौ भुङ्क्त इति । “बुद्धिस्थेने”ति । अशाब्दत्वं दर्शयति—“अनागमिकत्वे”पीति । अशाब्दत्वेऽपि । यथोक्तनीत्या शाब्दत्वाभावस्य प्रतिपादितत्वात् । यत्तद्रात्रौ भुङ्क्त इत्येतद्वाक्यं प्रतीयते तस्य वाक्यस्य ग्राहकं प्रमाणं वक्तव्यम् । यत्प्रमाणं प्रत्यक्षादीनामन्यतमद्भवेत् । नच भवति । तस्मात्प्रमाणान्तरमेवेदमिति भावः । तदेव प्रत्यक्षादीनामन्यतमत्वमस्य निराकुर्वन्नाह—“नत्वि”त्यादि । तत्रानुच्चारितस्य रात्रिभोजनवाक्यस्य न युक्तं प्रत्यक्षत्वमश्रूयमाणत्वात् । नाप्यनुमानत्वं सम्बन्धाभावात् । तथाहि—नेदं रात्रिभोजनवाक्यं तेन दिवावाक्येन सह क्वचिद्दृष्टं, येन सम्बन्धो भवेत् । नाप्यन्यल्लिङ्गमस्ति । अथापि स्यादनुपलब्धेऽपि सम्बन्धे लिङ्गत्वमस्य भविष्यतीत्याह—“यदी”ति । यदि ह्यसिद्धसम्बन्धस्य लिङ्गत्वं भवेत्तदादिवावाक्योच्चारणादशेषवाक्यप्रतिपत्तिर्भवेत्, न रात्रिभोजनवाक्यस्यैव । कस्मात ? । यतः सम्बन्धरहितत्वे सत्यन्यतो वाक्याद्रात्रिभोजनवाक्यं न विशिष्यते । सम्बन्धाभावात्सर्वमेव वाक्यमविशिष्टमिति यावत् ॥ १५९३ ॥ १५९४ ॥ १५९५ ॥ ॥ १५९६ ॥ १५९७ ॥ १५९८ ॥
उपमानपूर्विकामाह—“गवये”त्यादि ।
गवयोपमिता या गौस्तज्ज्ञानग्राह्यशक्तता ।
उपमाबलसम्भूतसामर्थ्येन प्रतीयते ॥ १५९९ ॥
गवयेनोपमितस्य गोपिण्डस्य येयमुपमानज्ञानेन ग्राह्यशक्तता सा उपमानबलेन यत्सम्भूतं सामर्थ्यमर्थापत्तिस्तेन मीयते ॥ १५९९ ॥
अर्थापत्तिपूर्विकामाह—“अभिधे”त्यादि ।
अभिधा नान्यथा सिद्ध्येदिति वाचकशक्तताम् ।
अर्थापत्त्याऽवगम्यैव तदनन्यगतेः पुनः ॥ १६०० ॥
अर्थापत्त्यन्तरेणैव शब्दनित्यत्वनिश्चयः ।
अनित्यो हि न सङ्केतव्यवहारानुवृत्तिमान् ॥ १६०१ ॥
अभिधानमभिधा । अर्थप्रतिपादनमिति यावत् । सा शब्दस्य अन्यथा—वाचकशक्त्या विना, न सिद्ध्येदित्येवं बोधकशक्ताम्, अवगम्य—बुद्ध्वा, तदनन्यगतेः—तस्याबोधकशक्तेरन्या गतिर्नास्ति शब्दनित्यत्वमन्तरेणेति, पुनरर्थापत्त्यन्तरेणैव शब्दस्य नित्यत्वनिश्चयः । कथं पुनर्नित्यत्वमन्तरेणाभिधा न सिद्ध्यतीत्याह—“अनित्यो ही”त्यादि । तथाहि—सङ्केतकाले दृष्टस्य यदि व्यवहारकालेऽनुवृत्तिर्न भवेत् । तदा सङ्केतकरणमनर्थकमेव स्यात् । व्यवहारार्थत्वात्तस्य । यश्चानुवर्त्तते व्यवहारकाले शब्दस्तेन सह पूर्वं सम्बन्धस्यागृहीतत्वात् । अथवा—“तदनन्यगते”रिति । तस्य —व्यवहारकालभाविनः शब्दस्य, सङ्केतकालदृष्टाच्छाब्दादनन्यगतेरव्यतिरेकनिश्चयात् । कथमव्यतिरेकनिश्चय इत्याह—“अनित्यो ही”त्यादि ॥ १६०० ॥ १६०१ ॥
अभावपूर्विकामर्थापत्तिमाह—“प्रमाणे”त्यादि ।
प्रमाणाभावनिर्णीतचैत्राभावविशेषितात् ।
गेहाच्चैत्रबहिर्भावसिद्धिर्या त्विह वर्णिता ॥ १६०२ ॥
तामभावोत्थितामन्यामर्थापत्तिमुदाहरेत् ।
पक्षधर्माद्यनङ्गत्वाद्भिन्नैषाऽप्यनुमानतः ॥ १६०३ ॥
बहिर्देशविशिष्टेऽर्थे देशे वा तद्विशेषिते ।
प्रमेये यो ग्रहाभावः पक्षधर्मस्त्वसौ कथम् ॥ १६०४ ॥
जीवतश्च गृहाभावः पक्षधर्मोऽत्र कल्प्यते ।
तत्संवित्तिर्बहिर्भावं न चाबुद्ध्वोपजायते ॥ १६०५ ॥
गेहाभावस्तु यः शुद्धो विद्यमानत्ववर्जितः ।
स मृतेष्वपि दृष्टत्वाद्बहिर्वृत्तेर्न साधकः ॥ १६०६ ॥
प्रत्यक्षादेः प्रमाणस्याभावेन निवृत्त्या निर्णीतो निश्चितो यश्चैत्राभावस्तेन विशेषिताद्गेहात्, इह गेहे चैत्रो नास्तीत्यतः, चैत्रस्य जीवने सति, या बहिर्भावसिद्धिः— बहिश्चैत्रो विद्यत इत्येवन्निश्चयरूपा, इह—भाष्ये, वर्णिता—शबरस्वामिना, तदन्यासामर्थापत्तीनामुपलक्षणार्थमुदाहृतेति यावत् । यथा—जीवति देवदत्ते, गृहेऽदर्शनेन बहिर्भावस्यादृष्टस्य कल्पनेति । इदमभावपूर्विकाया अर्थापत्तेरुदाहरणम् ।प्रायेणास्यास्तार्किकैरनुमानत्वमिष्टमिति तन्निराकरणमाह—“पक्षे”त्यादि । यतः पक्षधर्मादयोऽस्या नाङ्गं न कारणम्, अतो भिन्नैवैषाऽनुमानात्, प्रत्यक्षवत् । तथाहि— बहिर्देशेन विशिष्टोऽर्थश्चैत्रादिः, चैत्रादिना वा विशिष्टो बहिर्देशः, तस्मिन् द्विविधेऽपि प्रमेये सति, गृहे चैत्रादेरर्थस्याभावो यः कथं व्यधिकरणः सन्पक्षधर्मो भवेत् । नैव भवेदित्यभिप्रायः । अपि च गृहाभावः पक्षधर्मत्वेन कल्प्यमानः कदाचिज्जीवतोदेवदत्तस्य यो गृहाभावः स कल्प्यते, सामान्येन वेति पक्षद्वयम् । तत्र प्रथमे पक्षे दोषमाह—“जीवत” इत्यादि । “तत्संवित्तिरिति” । तस्य—जीवतो देवदत्तस्य संवित्तिः— निश्चयः, सा देवदत्तस्य बहिर्भावमबुद्ध्वा न जायते । अनेन हेतोरसिद्धतां सिद्धौ वा सिद्धसाध्यतामाह । द्वितीयेऽपि पक्षे हेतोरनैकान्तिकत्वं, मृतेष्वपि देवदत्तादिषु तेषां गृहाभावस्य दृष्टत्वादिति दर्शयन्नाह—“गेहाभाव”स्त्विति । “विद्यमानत्वे”ति । जीवत्ता ॥ १६०२ ॥ १६०३ ॥ १६०४ ॥ १६०५ ॥ १६०६ ॥
एवं षट्प्रकाराऽर्थापत्तिः । तत्र चतसृभिः शक्तिः प्रमेया, एकया शब्दनित्यता, अपरया बहिर्व्यवस्थितं द्रव्यम् । “तत्रे”त्यादिना दूषणमाह—अत्र लक्षणं तावदयुक्तम् । तथाहि—तेनादृष्टेन विना दृष्टश्रुतादिकोऽर्थो नोपपद्यत इत्यदृष्टकल्पना । तत्रेदं निरूप्यते । किं तेनादृष्टेन सह क्वचिद्दृष्टश्रुतस्यार्थस्य सम्बन्धो दृष्टो अथ न ? । यदि तु दृष्टः, अनुमानत्वप्रसङ्गः, सम्बन्धदर्शनोपायत्वात् । अथ न संसिद्धः, एवं तर्हि वह्नेर्दाहकत्ववददाहकत्वमपि कल्पनीयम्, अदृष्टसम्बन्धत्वेनाविशेषात् । अथ मतमदाहकत्वेन सह वह्नेरदृष्टत्वान्नादाहकत्वं कल्प्यत इति । एवं तर्हि दाहकत्वमपि न कल्पनीयम्, तेनापि सह क्वचिददृष्टत्वात् । तस्मात्सम्बन्धे सिद्धे सति सम्बन्धिनमविनाभाविनं दृष्ट्वा द्वितीयस्य सम्बन्धिनः कल्पना युक्ता । एवं च कल्प्यमाने सम्बन्धदर्शनोपायत्वादनुमान एवान्तर्भावः स्यात् । उदाहरणान्यप्ययुक्तानि । तत्र तावत्प्रत्यक्षादिप्रसिद्धस्यार्थस्य चतसृभिरर्थापत्तिभिः शक्तिः प्रतीयत इत्यत्र साधारणं दूषणमाह—“तत्र शक्तातिरेकेणे”त्यादि ।
तत्र शक्तातिरेकेण न शक्तिर्नाम काचन ।
याऽर्थापत्त्याऽवगम्येत शक्तश्चाध्यक्ष एव हि ॥ १६०७ ॥
यतः शक्तिरन्या न वस्तुनः सकाशात्, स च शक्तः पदार्थः प्रत्यक्ष एवेति गृहीतग्रहणादेव न प्रमाणम् । अध्यक्षग्रहणमुपलक्षणम् ॥ १६०७ ॥
“दाहा”दीनामित्यादिना प्रत्यक्षपूर्विकाया अर्थापत्तेरुदाहरणस्य विशेषेण दूषणमाह—
दाहादीनां तु यो हेतुः पावकादिः समीक्ष्यते ।
असंशयाविपर्यासं शक्तिः काऽन्या भवेत्ततः ॥ १६०८ ॥
व्यतिरिक्ते तु कार्येषु तस्या एवोपयोगतः ।
भावोऽकारक एव स्यादुपयोगे न भेदिनी ॥ १६०९ ॥
अर्थक्रियासमर्थं हि स्वरूपं शक्तिलक्षणम् ।
एवमात्मा च भावोऽयं प्रत्यक्षाद्व्यवसीयते ॥ १६१० ॥
“असंशयाविपर्यास”मिति क्रियाविशेषणमेतत् । अथ व्यतिरिक्ता शक्तिरभ्युपगम्यते—तदा कार्येषु शक्तेरेवोपयोगाद्भावस्याकारकत्वं प्राप्नोति ततश्चावस्तुत्व प्रसङ्गः । अर्थक्रियाकारित्वलक्षणत्वाद्वस्तुत्वस्य । अथ माभूदवस्तुत्वप्रसङ्ग इत्युपयोगोऽङ्गीक्रियते तदा तस्मिन्नुपयोगेऽङ्गीक्रियमाणे न तर्हि सा शक्तिर्भेदिनी—भिन्ना । कस्मात् ? । येनार्थक्रियासमर्थं यद्रूपं—स्वभावः, सैव शक्तिर्नान्यदपरं शक्तिलक्षणम् । यस्तु भावस्य शक्तिरिति व्यतिरेकिवद्व्यपदेशः स भेदान्तरप्रतिक्षेपेण तन्मात्रजिज्ञासायां भाव एव तथोच्यते ॥ १६०८ ॥ १६०९ ॥ १६१० ॥
स्यादेतन्नार्थक्रियाकारित्वं शक्तेर्लक्षणं, किं तर्हि ? । अन्यदेवेत्याह—“अन्ये”त्यादि
अन्यलक्षणसंसिद्धौ प्रमाणं नच किञ्चन ।
ज्ञातेनापि न तेनार्थो रूपात्तत्कार्यसिद्धितः ॥ १६११ ॥
अन्यस्य शक्तिलक्षणस्य संसिद्धौ न किञ्चित्प्रमाणमस्ति यत्प्रमाणमभावात्सर्वसामर्थ्यविरहलक्षणादेनां शक्तिं विशेषयेत् । नच तेन तथाभूतेनार्थक्रियार्थिनां ज्ञातेनकिञ्चित्प्रयोजनमस्ति । रूपात्—उपयोगिनो भावस्य स्वभावादेव, अर्थक्रियासिद्धेः ।यथोक्तम्—अर्थक्रियासमर्थस्य विचारैः किं तदर्थनाम् । शण्ढस्य रूपवैरूप्ये कामिन्याः किं परीक्षयेति ॥ १६११ ॥
कार्यार्थापत्तिगम्यं चेदपरं शक्तिलक्षणम् ।
न कार्यस्यान्यथाभावाद्भवत्येतद्धि भावतः ॥ १६१२ ॥
स्यादेतत्—अस्त्येवान्यच्छक्तेर्लक्षणम्—यदुत नित्यं कार्यान्यथानुपपत्त्या यद्गम्यं रूपं सा शक्तिरिति, कार्यानुमेयत्वं शक्तेर्लक्षणम् । नैतद्युक्तं शक्तिलक्षणम् । कस्मात् ? । कार्यस्यान्यथाभावात् । अन्यथापि—व्यतिरिक्तशक्तिमन्तरेण, कार्यस्योपपत्तेः । कथमित्याह—“भवत्येतद्धि भावत” इति । एतत्कार्यं यस्मात् भावात्—पदार्थात्,भवति—उत्पद्यते, तस्मादन्यथाऽपि कार्यस्यास्तित्वसम्भव इति किं व्यतिरिक्तया शक्त्या कल्पितया ॥ १६१२ ॥
जलादिव्यतिरिक्तो हि प्रत्यक्षः पावकः क्षमः ।
दाहादौ तत्किमन्येन सामर्थ्येन प्रयोजनम् ॥ १६१३ ॥
एतदेवार्थं स्पष्टीकुर्वन्नाह—“जलादी”त्यादि ॥ १६१३ ॥
नैकान्तेन विभिन्ना चेच्छक्तिः साऽप्युभयात्मिका ।
न विरोधाद्भवेत्सा च प्रत्यक्षाऽनन्यताऽपि यत् ॥ १६१४ ॥
स्यादेतत्—भवत्येष दोषो यद्यस्माभिरेकान्तेन पदार्थाच्छक्तिर्भिन्नाऽभ्युपगम्यते । किं तर्हि ? । भिन्नाभिन्नत्वेनोभयात्मिकेत्येतच्च न युक्तम् । कस्मादित्याह—विरोधात् । यदि व्यतिरिक्ता, कथमव्यतिरिक्ता तदैव, अथाव्यतिरिक्ता, कथं व्यतिरिक्तेति,व्याहतमेतद्यदन्योन्यपरिहारस्थितलक्षणयोर्धर्मयोरेकस्मिन्धर्मिणि युगपदुपलयनम् । इदमेव खल्वन्यत्वं यत्तन्न भवत्यात्मान्तरवदित्यावेदितमेतत् । भवतु नामोभयात्मत्वं शक्तेः, तथाऽपि सा शक्तिरुभयात्मिका प्रत्यक्षैव, यस्मादनन्यताऽपि शक्तेः पदार्थाद्दृष्टा, नैकान्तेनान्यत्वमेव, येनाप्रत्यक्षता भवेत् । ततश्च नित्यं कार्यगम्यत्वं शक्तेरित्येतद्व्याहन्येत ॥ १६१४ ॥
प्रत्यक्षत्वे स्थिते चास्यामनुमेयत्ववारणम् ।
क्षतये नैव येनास्मिन्विषये नानुमेष्यते ॥ १६१५ ॥
अपिच— शक्तयः सर्वभावानां कार्यार्थापत्तिसाधना इत्यादि यदेतदनुमेयत्ववारणं शक्तेः कृतम्, तत्र क्षतयेऽस्माकम् । कस्मात् ? येन—यस्मात् अस्मिन्प्रत्यक्षविषये नानुमानमिष्यतेऽस्माभिः, परोक्षार्थप्रतिपत्तिरूपत्वादनुमानस्य । अनेनसिद्धसाध्यतामाह ॥ १६१५ ॥
यदुक्तं— श्रोत्रादिशक्तिपक्षे चेति, अत्राह—“ये त्वि”त्यादि ।
ये तु श्रोत्रादयो भावाः प्रत्यक्षस्य न गोचराः ।
तेषां सत्तैव लिङ्गेन गम्यते शक्तिलक्षणा ॥ १६१६ ॥
ननु च सत्ता तु साध्यत एवेति पूर्वं प्रतिपादितम्, तत्कथं सत्ता गम्यत इत्युच्यत इत्याह—“कारणान्तरे”त्यादि ।
कारणान्तरसापेक्षं तद्धि शब्दादिवेदनम् ।
भावेऽप्यन्यस्य तद्धेतोरभावादङ्कुरादिवत् ॥ १६१७ ॥
नह्याहत्य सत्ता साध्यते किं तर्हि ? कारणान्तरसापेक्षत्वं श्रोत्रादिज्ञानस्य धर्मिणः साध्यते, अन्यस्य मनस्कारादेस्तद्धेतोः श्रोत्रादिज्ञानहेतोर्भावेऽप्यभावाच्छ्रोत्रादिज्ञानस्य । प्रयोगः—यद्यस्मिन्सत्यपि कदाचिद्भवति, तत्कारणान्तरसापेक्षं, यथा क्षित्यादौ सत्यपि कदाचिदङ्कुरः । सत्यपि मनस्कारादौ कदाचिद्भवति श्रोत्रज्ञानमिति स्वभावहेतुः । तस्मिन् कारणान्तरसापेक्षत्वे साधिते यत्कारणान्तरं तत् श्रोत्रादि प्रसिद्धमित्यनेन प्रकारेण सत्ता गम्यत इत्युच्यते, न त्वाहत्येत्यदोषः ॥ १६१७ ॥
यदुक्तम्— अनुमितात्सूर्ये यानादिति, अत्राह—“उपादाने”त्यादि ।
उपादानासमाने च देशे जातिर्निरन्तरम् ।
रवेर्देशान्तरव्याप्त्या ज्वालादेरिव गम्यते ॥ १६१८ ॥
स्थिरात्मनो विशेषत्वान्नान्यथेयं प्रसज्यते ।
तस्य देशान्तरप्राप्तिः शक्तिस्त्वन्या निराकृता ॥ १६१९ ॥
अनेनानुमानान्तर्भावमाह । तथाहि—यस्य यस्य देशान्तरप्राप्तिरुपलभ्यते, तस्य स्वोपादानकारणदेशपरिहारेण जातिः, यथा ज्वालादेर्देशान्तरं प्राप्नुवतः, देशान्तरप्राप्तिश्च रबेरिति स्वभावहेतुः । न चायमनैकान्तिकः, यतः स्थिरात्मन एकरूपस्य भावस्य नेयं देशान्तरप्राप्तिर्युक्ता, पूर्वदेशाप्रतिनियतस्वभावापरित्यागात् । त्यागे वाऽपूर्वोत्पत्तिरेवेति । इदमेव बाधकं प्रमाणम् । स्यादेतच्छक्तौ साध्यायामियमर्थापत्तिरुदाहृता, नोत्पत्तौ, तत्कथमस्या अर्थापत्तेरनुमानान्तर्भाव उच्यत इत्याह—“शक्तिस्त्वन्या निराकृ”तेति ॥ १६१८ ॥ १६१९ ॥
पीनो दिक्त्योदौ श्रुतार्थापत्त्युदाहरणे प्राह—“पीन” इत्यादि ।
पीनो दिवा न भुङ्क्ते चेत्यस्मिन्नर्थे न निश्चयः ।
द्वेषमोहादिभिर्योगादन्यथाऽपि वदेत्पुमान् ॥ १६२० ॥
अनेन शाब्दप्रमाणपूर्वकत्वस्यासिद्धतामाह ॥ १६२० ॥
स्यादेतन्नहि वाक्येनार्थगतिमपेक्ष्य वाक्यान्तराक्षेपः क्रियते । किं तर्हि ? । केवलेनैव । तच्च प्रत्यक्षतः सिद्धमेवेत्याह—“अर्थगत्यनपेक्षेणे”ति ।
अर्थगत्यनपेक्षेण यदि वाक्यान्तरं पुनः ।
सार्थमाक्षिप्यते तेन स्यादाक्षेपो वचोन्तरे ॥ १६२१ ॥
अर्थगतिर्नापेक्ष्यत इत्यर्थगत्यनपेक्षं वाक्यं, तेन केवलेन वाक्यमात्रेण यदि सार्थकंवाक्यान्तरमाक्षिप्यते, तदा स्यादाक्षेपो वचोऽन्तरे—रात्रिभोजनवाक्यादन्यस्यापिवाक्यान्तरस्याक्षेपः प्राप्नोति । सम्बन्धरहितत्वेनाविशेषात् । अथ वस्तुप्रतिबन्धादर्थमाक्षिपतीत्यर्थगत्यपेक्षणे तद्दोषः ॥ १६२१ ॥
“अथे”त्यादिना—पाराभिप्रायमाशङ्कते ।
अथोपगमरूपेण तत्रार्थगतिरिष्यते ।
प्रमाणान्तरतो यद्वा भवत्वर्थगतिस्ततः ॥ १६२२ ॥
अथ माभूदतिप्रसङ्ग इति न्यायादर्थगतिमपेक्ष्य परोपगमनरूपेणार्थगतिरिष्यते, परस्य वक्तुराप्तत्वेनाभ्युपगतत्वात् । यद्वा—प्रमाणान्तरतः प्रत्यक्षादेर्ज्ञानं पीनो देवदत्तो दिवा न भुङ्क्त इति । अत्र प्रतिविधत्ते—“भवत्वि”त्यादि । भवत्वर्थस्य रात्रिभोजनस्य गतिस्ततः—दिवाभोजनवैकल्येन विशेषितात्पीनत्वात् । नतु वाक्यान्तरस्यबुद्धिस्थस्य गमकत्वम्, एवं सत्यनुमान एवान्तर्भावान्न प्रमाणान्तरत्वं स्यादित्यभिप्रायः ॥ १६२२ ॥
तमेवान्तर्भावं दर्शयन्नाह—“क्षपे”त्यादि ।
क्षपाभोजनसम्बन्धी पुमानिष्टः प्रतीयते ।
दिवाभोजनवैकल्यपीनत्वेन तदन्यवत् ॥ १६२३ ॥
इष्टः—विवक्षितः पुरुषविशेषो रात्रिभोजनविशिष्टः । भोजनवैकल्ये सति पीनत्वादिति हेतुः । तदन्यपुरुषवदिति दृष्टान्तः । कार्यहेतुश्चायम् ॥ १६२३ ॥
कथमत्र कार्यकारणभावः सिद्ध इत्याह—“भोजने” इत्यादि ।
भोजने सति पीनत्वमन्वयव्यतिरेकतः ।
निश्चितं तेन सम्बद्धाद्वस्तुनो वस्तुतो गतिः ॥ १६२४ ॥
अग्निधूमयोरिवान्वयव्यतिरेकाभ्यां पीनत्वभोजनयोः कार्यकारणभावो निश्चितो यतस्तस्माद्वस्तुनः पीनत्वात्कार्यत्वेन सम्बन्धाद्वस्तुतो भोजनस्य गतिर्युक्ता । नतु वाक्यादप्रतिबद्धाद्वाक्यान्तरस्य प्रतीतिर्युक्ताऽतिप्रसङ्गात् ॥ १६२४ ॥
तमेवातिप्रसङ्गं दर्शयितुमाह—“सर्वसम्बन्धे”त्यादि ।
सर्वसम्बन्धशून्यं हि कथं वाक्यं प्रतीयते ।
एकस्माद्वाक्यतः सर्वं प्रतीयेतान्यथा पुनः ॥ १६२५ ॥
सर्वेण सम्बन्धेन तादात्म्यतदुत्पत्तिलक्षणेन शून्यं रहितं वाक्यं कथं प्रतीयेत । नैव । अन्यथा यदि सर्वसम्बन्धशून्यमपि प्रतीयेत तदा यतःकुतश्चिदेकस्माद्वस्तुनो घटादेः सर्वं घटादि प्रतीयेत । नचैवम् । तस्मात्प्रतिबन्धात्प्रतिपत्तिरभ्युपगन्तव्या ॥ १६२५ ॥
“तथाही”त्यतिप्रसङ्गमेव समर्थयते ।
तथाह्यसति सम्बन्धे सति चानवधारिते ।
गम्यमानमिदं वाक्यं प्रसज्येताप्रमाणकम् ॥ १६२६ ॥
सति सम्बन्ध इत्यभ्युपगमः । एकदा तावन्नास्त्येव वाक्यस्य वाक्यान्तरेण स म्बन्धः, सन्नप्यनवधारितः सम्बन्धोऽसत्प्रख्य एव । ततश्चानवधारिते सम्बन्धे प्रतीयमानमप्रमाणकं स्यात्—निर्निबन्धनप्रतीतिकं ( स्यात् ) निर्निबन्धना चेत्प्रतीतिः सर्वं सर्वस्मात्प्रतीयेतेत्यतिप्रसङ्गोऽनिवार्य एव ॥ १६२६ ॥
“सम्बद्धस्ये”त्यादिना परवचनावकाशमाशङ्कते ।
सम्बद्धस्य प्रमाणत्वं स्थितं नो चेन्नृपाज्ञया ।
प्रत्यक्षस्य प्रमाणत्वं कथं वा सङ्गतिं विना ॥ १६२७ ॥
तत्र परो ब्रूते सम्बद्धस्य प्रामाण्यमिति यदि, परं नृपाज्ञैवेयम्, नत्वत्र काचिद्युक्तिः । तथाहि—सम्बद्धस्य प्रमाणत्वमिति यदि नृपाज्ञा न भवेत्, कथं तर्हि प्रत्यक्षस्य प्रामाण्यं सङ्गतिं विना—सम्बन्धमन्तरेणेति वक्तव्यम् ॥ १६२७ ॥
अत्रोत्तरमाह—“नन्वि”ति ।
नन्वसम्बद्धगम्यत्वे किमन्यस्यापि नो गतिः ।
नहि सम्बन्धशून्यत्वे विशेषः कश्चनेक्ष्यते ॥ १६२८ ॥
सम्बन्धादेव मानत्वमध्यक्षेऽपि व्यवस्थितम् ।
संवादो हि प्रमाणत्वं स चार्थादात्मलाभतः ॥ १६२९ ॥
नन्वसम्बद्धं यदि गम्येत तदाऽतिप्रसङ्गः स्यादविशेषादित्यत्र भवता न किञ्चिदुत्तरं दत्तम् । यच्चोक्तं कथं प्रत्यक्षस्य विना सम्बन्धेन प्रामाण्यमिति, तदप्यसङ्गतमेव । तथाहि—सम्बन्धं विना न केनचित्प्रत्यक्षप्रामाण्यमभ्युपगतम् । किं तर्हि ? । सम्बन्धादेव मानत्वमध्यक्षेपि—प्रत्यक्षेपि व्यवस्थितम् । अत्रोपपत्तिमाह—“संवादोही”त्यादि । अर्थप्रापणशक्तिः संवादः प्रामाण्यम् । स च संवादो नियमेन प्रत्यक्षस्य कथं युक्तो यदि ततोऽर्थात्तस्यात्मलाभो न भवेत् ॥ १६२८ ॥ १६२९ ॥
अन्यथा को दोष इत्याह—“अतद्धेतो”रिति ।
अतद्धेतोरहेतोश्च तत्संवादो न युज्यते ।
नियमेन समस्तानां संवादो वाऽन्यथा भवेत् ॥ १६३० ॥
सोऽर्थो हेतुर्यस्य स तथा, न तद्धेतुरतद्धेतुः । अन्यहेतुक इति यावत् । तस्मादतद्धेतोः प्रत्यक्षादहेतोर्वा सर्वहेतुवैकल्येन तत्संवादः—अर्थसंवादः, न नियमेन स्यात् । किं तर्हि ? । समस्तानां—सर्वेषामर्थानां, संवादः स्यादित्यत्रापि समानः प्रसङ्गः ॥ १६३० ॥
अथवा—पीनो देवदत्तो दिवा न भुङ्क्त इत्येतदन्वयवाक्यं कार्यलिङ्गमात्मीयं कारणं विविक्षां विशिष्टामनुमापयन्हेतुधर्मानुमानेन धूमे वन(धूमेनेन्धन ?)विकारवत्सामर्थ्याद्रात्रौ भुङ्क्त इत्येतद्व्यतिरेकवाक्यमपि गमयति, नतु साक्षादिति प्रतिपादयन्नाह—“द्वितीये”त्यादि ।
द्वितीयवाक्यनिर्भासा विवक्षा वाऽनुमीयते ।
एतेनान्वयवाक्याच्च व्यतिरेकगतिर्मता ॥ १६३१ ॥
“एतेने”ति । हेतुधर्मानुमानेन नतु साक्षात् । यस्मादन्वयवाक्यात्तादृशी विवक्षा गम्यते, यस्यां व्यतिरेकवाक्यमपि निर्भासते । अन्यथा यदि रात्रिभोजनं विवक्षायां नारूढं स्यात्, भोजनप्रतिषेधमात्रं केवलं प्रतिपादयितुमिष्टं तदा देवदत्तो न भुङ्क्त इत्येवोक्तं स्यात् । नतु दिवा, पीन इति । “व्यतिरेकगति”रिति । व्यतिरेकवाक्यगतिः ॥ १६३१ ॥
गवयोपमिता या गौरित्यत्राह—“उपमाया” इति ।
उपमायाः प्रमाणत्वे विस्तरेण निराकृते ।
अर्थापत्तेस्तदुत्थाया वारितैव प्रमाणता ॥ १६३२ ॥
भवतु चोपमायाः प्रामाण्यम्, तथाप्युपमानपूर्विकाया अर्थापत्तेर्गृहीतग्रहणान्न युक्तं पृथक्प्रामाण्यं, व्यतिरिक्तस्य शक्तिलक्षणस्य प्रमेयस्याभावादिति प्रतिपादयन्नाह—“उपमाने”त्यादि ।
उपमानप्रमाणस्य गौस्त्वालम्बनमिष्यते ।
स्वसत्तयैव चालम्ब्यं स्वज्ञानजनकं मतम् ॥ १६३३ ॥
तत्किमत्रान्यया शक्त्या यद्गत्यर्थमपेक्ष्यते ।
अर्थापत्तेः प्रमाणत्वमुपमानसमाश्रयम् ॥ १६३४ ॥
“यद्गत्यर्थ”मिति । शक्तिप्रतीत्यर्थम् । शेषं सुबोधम् ॥ १६३३ ॥ १६३४ ॥
अभिधानान्यथेत्यादावर्थापत्तिपूर्विकाया अर्थापत्तेरुदाहरणस्यानैकान्तिकत्वमाह—“अनन्यत्वे”त्यादि ।
अनन्यत्ववियोगेऽपि शब्दानां न विरुध्यते ।
अर्थप्रत्यायनं यद्वत्पाणिकम्पादिकारणम् ॥ १६३५ ॥
यथाह्यनित्यानामपि पाणिकम्पाक्षिनिकोचादीनामर्थप्रत्यायनं न विरुद्धं तथा श ब्दानामनन्यत्ववियोगेऽपि न विरुध्यत एवेत्यनैकान्तिकमेवैतदुदाहरणम् । तत्रान्यत्वमनित्यत्वं, नान्यत्वमनन्यत्वं—नित्यत्वमिति यावत् ॥ १६३५ ॥
ननु चोक्तम्—अनित्यो हि न सङ्केतव्यवहारानुवृत्तिभागिति, अत्राह—“तुल्ये”त्यादि ।
तुल्यप्रत्यवमर्शस्य हेतुत्वात्कम्पनं यथा ।
प्रत्यायकत्वं शब्दानां तथैव न विरुध्यते ॥ १६३६ ॥
यद्यपि स्वलक्षणानां क्षणिकत्वादन्वयो नास्ति, तथाऽपि कानिचित्स्वलक्षणानि प्रकृत्या पारम्पर्येणाभेदाकारस्य भ्रान्तस्य प्रत्यवमर्शज्ञानस्य कारणानि भवन्ति सन्त्येकत्वेन गृह्यमाणानि प्रत्यायकानि भवन्ति सङ्केतवशात् । “यथाकम्पनम्” । प्रत्यायकमिति शेषः ॥ १६३६ ॥
यथा कम्पनमित्यस्य दृष्टान्तस्य परः साध्यविकलतामुद्भावयन्नाह—“प्रत्यक्षे”त्यादि ।
प्रत्यक्षद्रव्यवर्त्तिन्यो दृश्यन्ते ननु याः क्रियाः ।
तासां वर्णवदेवेष्टं नित्यत्वं प्रत्यभिज्ञया ॥ १६३७ ॥
यथा वर्णानां प्रत्यभिज्ञया नित्यत्वमिष्टमस्माभिः । तथा पाण्यादिकर्मणामपीत्यनित्यत्वेन साध्येन विकलो दृष्टान्त इत्यव्यभिचार एव ॥ १६३७ ॥
यद्येवं नित्यत्वे सति पाण्यादिकर्मणां किमिति नित्यमुपलब्धिर्न जायत इत्यत्राह —“व्यञ्जके”त्यादि ।
व्यञ्जकाभावतश्चासां सन्ततानुपलम्भता ।
यदेवोत्पादकं वः स्यात्तदेव व्यञ्जकं मतम् ॥ १६३८ ॥
“आसा”मिति । क्रियाणाम् । “सन्ततानुपलम्भता” । यथा भवतामुत्पादकाभावान्नित्योपलब्धिर्न भवति, तथाऽस्माकं व्यञ्जकाभावादिति समानः परिहार इति परस्याभिप्रायः ॥ १६३८ ॥
“नैव”मित्यादिना प्रतिविधत्ते ।
नैवमप्रतिबद्धे हि सामर्थ्ये सन्ततं भवेत् ।
तज्ज्ञानं तद्वियोगे तु नैव स्यात्तत्कदाचन ॥ १६३९ ॥
ततश्च व्यञ्जकास्तासां सङ्गच्छन्ते न हेतवः ।
प्रत्यभिज्ञा तु नित्यत्वे पूर्वमेव निराकृता ॥ १६४० ॥
अत्र द्वयी कल्पना, यास्ताः क्रिया अभिव्यङ्ग्या इष्टस्ताः प्रकृत्या ज्ञानोत्पादनसमर्था वा स्युर्नवा । तत्र सामर्थ्ये सति, सन्ततं—नित्यं, तद्भावि ज्ञानं प्राप्नोति । तासां समर्थस्य स्वभावस्य नित्यत्वेन केनचिदप्रतिबद्धत्वात् । अनाधेयातिशयस्य विशेषमनाधाय प्रतिबद्धुमशक्यत्वात् । अथासामर्थ्यं, तदा तद्वियोगे—सामर्थ्यवियोगे, नैव तद्भावि ज्ञानं स्यादिति किं व्यञ्जकस्य सामर्थ्यम् । तस्मात्तासां क्रियाणां नित्यत्वेनेष्टानां न कथञ्चित्सङ्गच्छन्ते व्यञ्जकत्वेन कल्पिता हेतवः । अनित्यानां त्वपूर्वस्वभावोत्पत्तिर्व्यञ्जकादिति न्याय्यास्तान् प्रति व्यञ्जकाः । यच्चोक्तम्— तासां वर्णवदेवेष्टं नित्यत्वं प्रत्यभिज्ञयेत्यत्राह—“प्रत्यभिज्ञे”ति । नित्यत्वे साध्ये हेतुत्वेन प्रत्यभिज्ञोपन्यस्ता सा पूर्वं स्थिरभावपरीक्षायां निराकृता ॥ १६३९ ॥ १६४० ॥
यदुक्तम्— प्रमाणाभावनिर्णीतचैत्राभावविशेषितात् इत्यत्राह—“गेहे”त्यादि ।
गेहाभावात्तु चैत्रस्य बहिर्भावो न युज्यते ।
मरणाशङ्कया यस्मादन्यथाऽप्युपपद्यते ॥ १६४१ ॥
जीवतश्चेद्गृहाभावो बहिर्भावप्रसिद्धये ।
अर्थापत्त्यावहो ह्येतन्नैव तत्राप्यनिश्चयात् ॥ १६४२ ॥
वेश्मन्यपश्यतश्चैत्रं न ह्यर्वाग्दर्शितः प्रमा ।
तस्य जीवनसम्बन्धे कथञ्चिदपि वर्त्तते ॥ १६४३ ॥
“अन्यथाऽपी”ति । बहिर्भावमन्तरेणोपपद्यते गेहे चैत्राभावः । अनेनानैकान्तिकत्वमाह । अथ जीवतो देवदत्तस्य यो गृहाभावः स इहार्थापत्त्युदाहरणे हेतुत्वेनोच्यते नाभावमात्रम् । नैवं युक्तम् । कस्मात् ? । तत्रापि देवदत्तजीवने संशयात्सन्दिग्धासिद्धता हेतोः स्यात् । अनिश्चये कारणमाह—“वेश्मनी”ति । तस्य चैत्रस्य जीवने निश्चायकप्रमाणाभावादर्वाग्दर्शिनः संशय एव ॥ १६४१ ॥ १६४२ ॥ १६४३ ॥
अथापि स्यात्—यदि नामार्वाग्दर्शिनः प्रत्यक्षप्रमाणं चैत्रस्य जीवनविषये नास्ति, अनुमानादि तु विद्यत एवेत्याह—“अथे”त्यादि ।
अथ शब्दादिना तस्य जीवत्तानिश्चये सति ।
सद्मन्यभावेऽभावाच्च निश्चितेऽस्याः प्रमाणता ॥ १६४४ ॥
“शब्दा”दिनेति । तदुच्चारितशब्दः श्रूयते, प्रत्ययितो वा तस्मिन्काले कुड्याद्यन्तरितस्तपस्यन्कथयति जीवति चैत्र इति । अभावाच्च—प्रमाणात्प्रत्यक्षादिनिवृत्तिरू पात्, सद्मनि—गृहे, चैत्राभावनिश्चये सति, सिद्धो जीवनविशिष्टश्चैत्राभाव इति,भवेदेवास्या अभावोत्थाया अर्थापत्तेः प्रमाणता ॥ १६४४ ॥
“तदाऽपी”त्यादिना प्रतिविधत्ते ।
तदाऽपि गेहायुक्तत्वं दृष्ट्याऽदृष्टेर्विनिश्चितम् ।
अतस्तत्र बहिर्भावो लिङ्गादेवावसीयते ॥ १६४५ ॥
सद्मना यो ह्यसंसृष्टो नियतं बहिरस्त्यसौ ।
गेहाङ्गणस्थितो दृष्टः पुमान् द्वारि स्थितैरिव ॥ १६४६ ॥
विपक्षोऽपि भवत्यत्र सदनान्तर्गतो नरः ।
अर्थापत्तिरियं तस्मादनुमानान्न भिद्यते ॥ १६४७ ॥
इत्यर्थापत्तिपरीक्षा ।
अनेनानुमानान्तर्भावमाह । तथाहि—चैत्रोऽत्र धर्मी, तस्य बहिर्भावः साध्यः, जीवने सति गृहासङ्गो हेतुः कार्यः । गृहाङ्गणस्थितः पुमान् साधर्म्यदृष्टान्तः । गृहान्तर्गतस्तु वैधर्म्यदृष्टान्तः । सदनं—गृहम् । व्याप्तिर्दृष्टान्ताभ्यामेव निश्चिता । नचासिद्धो हेतुः । यतो गेहायुक्तत्वं तावद्दृश्यानुपलब्ध्या निश्चितम्, जीवनं तु पराभ्युपगमात्सिद्धम् । परमार्थतस्तु सन्दिग्धो हेतुः । नहि जीवत्तानिश्चायकं किञ्चित्प्रमाणमस्ति । ननु च शब्दादिरस्तीत्युक्तम् । एवं तर्हि यत एव शब्दादेः प्रमाणाज्जीवनं निश्चितं तत एव बहिर्भावः सिद्ध इति किमर्थापत्त्या कर्त्तव्यम् । तस्मात्—पराभ्युपगमात् । सिद्धं हेतुमभ्युपगम्यानुमानेऽन्तर्भावः प्रतिपादित अर्थापत्तेः ॥ १६४५ ॥ १६४६ ॥ १६४७ ॥
इत्यर्थापत्तिपरीक्षा ।
अभावविचारः
अभावमधिकृत्याह—“प्रमाणे”त्यादि ।
प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते ।
वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता ॥ १६४८ ॥
तत्र मीमांसकानां सदसल्लक्षणयोर्भावाभावयोर्वस्तुत्वं, सर्वस्य च पदार्थस्य सदसद्रूपेण द्व्यात्मकत्वमित्यभ्युपगमः । तत्र सदसद्रूपेणोभयात्मके वस्तुनि व्यवस्थिते,यस्मिन्वस्तुरूपे—वस्त्वंशेऽसद्रूपाख्ये, प्रमाणपञ्चकमर्थापत्तिपर्यन्तं न जायते । किमर्थम् ? । वस्तुसत्ताऽवबोधार्थम्—वस्तुनः सत्तांशावबोधार्थम् । तत्र—अभावांशे प्रमेये, अभावस्य प्रमाणता । अनेन विषयोऽस्य केवलो निर्दिष्टो नतु स्वरूपम् ॥ १६४८ ॥
स्वरूपमस्य तर्हि कीदृशमित्याह—“प्रत्यक्षादे”रित्यादि ।
प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव इष्यते ।
साऽऽत्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनि ॥ १६४९ ॥
प्रत्यक्षादेरर्थापत्तिपर्यन्तस्यानुत्पत्तिः प्रमाणाभाव इष्यते । प्रमाणाभाव इति षष्ठीतत्पुरुषः कर्मधारयो वा । क्वचित्पाठः प्रमाणेऽभाव इति । तत्र निर्धारणे सप्तमी, जातावेकवचनम् । प्रमाणानां मध्येऽभावः प्रमाणमित्यर्थः । यथोक्तं शबरस्वामिना—अभावोऽपि प्रमाणाभावो नास्तीत्यर्थस्यासन्निकृष्टस्येति । अथ केयमनुत्पत्तिरित्याह—“साऽऽत्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनी”ति । सा—प्रत्यक्षादेरनुत्पत्तिः, निषेध्याभिमतघटादिपदार्थज्ञानरूपेणापरिणतं साम्यावस्थमात्मद्रव्यमुच्यते ।घटादिविविक्तभूतलज्ञानं वा ॥ १६४९ ॥
ननु चाभाव इति वस्तुविरह उच्यते । तत्कथं वस्तुत्वमस्य, नहि वस्तु विरहो भवतीत्याशङ्क्य वस्तुत्वमभावस्य प्रतिपादयन्नाह—“प्रमाभावा”दिति ।
प्रमाभावाच्च वस्तूनामभावः सम्प्रतीयते ।
चतुर्धा च विभिन्नोऽसौ प्रागभावादिभेदतः ॥ १६५० ॥
यदि प्रमाणाभावो वस्तु न भवेत्ततश्च सर्वसामर्थ्यशून्यत्वादस्येति ततो नाभावप्रतीतिः स्यात्, प्रागभावादिभेदेन चतुर्धा च भेदोऽभावस्य न स्यात्, नचैवम्,तस्मादभावप्रतीत्यन्यथानुपपत्त्या चतुर्धा भेदेन लोकस्य व्यवहारान्यथानुपपत्त्या चाभावस्य वस्तुत्वम् । एतच्चार्थापत्त्याख्यं प्रमाणद्वयमित्येके । अन्ये तु चतुर्धा च विभिन्नोऽसावित्येतदनुमानमिति वर्णयन्ति । एवं च प्रमाणयन्ति—अभावो वस्तु,भिद्यमानत्वात्, घटादिवदिति ॥ १६५० ॥
कथं पुनरस्य चतुर्धा भेद इति प्रतिपादयन्नाह—“क्षीरे दधी”त्यादि ।
क्षीरे दध्यादि यन्नास्ति प्रागभावः स कल्प्यते ।
नास्तिता पयसो दध्नि प्रध्वंसाभावलक्षणम् ॥ १६५१ ॥
गवि योऽश्वाद्यभावश्च सोऽन्योन्याभाव उच्यते ।
पररूपं न तस्यास्ति नास्तिताऽस्यात्मना ततः ॥ १६५२ ॥
शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः ।
शशशृङ्गादिरूपेण सोऽत्यन्ताभाव इष्यते ॥ १६५३ ॥
न च स्याद्व्यवहारोऽयं कारणादिविभागशः ।
प्रागभावादिभेदेन नाभावो विद्यते यदि ॥ १६५४ ॥
क्षीरमृदादौ कारणे दधिघटादिलक्षणं कार्यं नास्तीत्येवं यत्प्रतीयते लोके स प्रागभाव उच्यते । यदि तु प्रागभावो न भवेत्, क्षीरादौ दध्यादिकार्यं भवेदेव । एवन्दध्नि क्षीराख्यस्य यन्नास्तित्वमयं प्रध्वंसाभावः । अन्यथा दध्नि क्षीरं भवेदेव । गवादौ वस्त्वादेरभावोऽन्योन्याभाव उच्यते । यस्मात्तस्य गवादेः पररूपमश्वादिस्वभावो नास्ति, तस्मात्तयोरन्योन्याभाव उच्यते । अन्यथा गवादौ भवेदेवाश्वादि यद्यन्योन्याभावो न भवेत् । शशशिरसोऽवयवा निम्ना वृद्धिकाठिन्याभ्यां रहिता विषाणादिरूपेणात्यन्तमसन्तोऽत्यन्ताभाव उच्यते । यद्यपि चात्र वस्तुवृत्तेरन्योन्याभावस्तथाऽपि लोकप्रसिद्ध्योक्तमत्यन्ताभाव इति । प्रायेण हि लोके सामानाधिकरण्येनैवेतरेतराभावव्यवहारः, यथा—गौरयं नाश्व इति । नतु शशीयं न विषाणमित्येवम् । यदि त्वत्यन्ताभावो न भवेत्, शशे शृङ्गं भवेदेव । तथाचाह कृमारिलः— क्षीरे दधि भवेदेव दध्नि क्षीरं घटे पटः । शशे शृङ्गं पृथिव्यादौ चैतन्यं मूर्त्तिरात्मनि ॥ अप्सु गन्धो रसश्चाग्नौ वायौ रूपेण तौ सह । व्योम्नि सस्पर्शकास्ते च न चेदस्य प्रमाणता ॥ इति । तत्र—चैतन्यम्—आत्मा । मूर्त्तिः—काठिन्यम् । रूपेण तौ सहेति । तौ—गन्धरसौ, रूपसहितौ वायौ स्याताम् । सस्पर्शकास्त इति । ते—रूपरसगन्धाः सह स्पर्शेन व्योम्नि—आकाशे स्युः । किञ्च—नच स्यात्कारणादिविभागेन लोकव्यवहारो यद्यभावस्य प्रागभावादिभेदेन भेदो न स्यात् । यथा—यो दध्यर्थी स क्षीरोपादानं करोति, नतु क्षीरार्थी दध्युपादानम्, तथा गवार्थी नाश्वमुपादत्ते, नाप्यश्वार्थी गाम् । इत्येवमादिकारणादिविभागेन व्यवहारः ॥ १६५१ ॥ ॥ १६५२ ॥ १६५३ ॥ १६५४ ॥
अथापि स्याद्यदि नाम चतुर्द्धा भेदोऽस्य जातस्तथापि वस्तुत्वेन भवितव्यमेतत्कुत इत्याह—“न चावस्तुन” इत्यादि ।
न चावस्तुन एते स्युर्भेदास्तेनास्य वस्तुता ।
कार्यादीनामभावः स यो भावः कारणादिना ॥ १६५५ ॥
न ह्यवस्तुनो भेदो युक्तो वस्त्वधिष्ठानत्वात्तस्य । तस्मादभावो वस्तु । कीदृशं पुनरस्य वस्तुत्वमित्याह—“कार्यादीना”मिति । क्षीरादेः कारणस्य यो भावः स एव दध्यादेः कार्यस्याभावः, कार्यस्य दध्यादेर्यो भावः स एव क्षीरादेः कारणस्याभावइत्येतदभाववस्तुत्वम् ॥ १६५५ ॥
पुनरप्यनुमानेन वस्तुत्वमस्य प्रतिपादयन्नाह—“यद्वे”त्यादि ।
यद्वाऽनुवृत्तिव्यावृत्तिबुद्ध्योर्ग्राह्यो यतः स्वयम् ।
तस्माद्गवादिवद्वस्तु प्रमेयत्वाच्च गम्यताम् ॥ १६५६ ॥
अभावो वस्त्विति पक्षः, अनुवृत्तिव्यावृत्तिबुद्धिग्राह्यत्वात्प्रमेयत्वाच्चेति हेतुद्वयं, गवादिवदिति दृष्टान्तः ॥ १६५६ ॥
तत्रानुवृत्तिबुद्धिश्चतुर्ष्वप्यभावोऽभाव इत्येकाकारः प्रत्ययः । व्यावृत्तिबुद्धिः प्रागभावोऽयं न प्रध्वंसाभाव इत्यादिभेदाकारः प्रत्ययः । तत्र कुमारिलेन त्रिविधोऽभावो वर्णितः । आत्मनोऽपरिणाम एकः, पदार्थान्तरविशेषज्ञानं द्वितीयः, साऽऽत्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनीति वचनात्, प्रमाणनिवृत्तिमात्रात्मकस्तृतीयः,त्रिलक्षणेन या बुद्धिर्जन्यते साऽनुमेष्यते । नचानुत्पत्तिरूपस्य कारणाधीनता क्वचिदिति वचनात् । तत्रैतस्मिंस्तृतीयेऽभावे चोद्यमाशङ्क्य परिहरन्नाह—“मानं कथमभावश्चे”दिति ।
मानं कथमभावश्चेत्प्रमेयं चात्र कीदृशम् ।
मेयो यद्वदभावो हि मानमप्येवमिष्यताम् ॥ १६५७ ॥
अथोच्यते कथं प्रत्यक्षानुत्पत्तिलक्षणोऽभावः प्रमाणमिति । अत्रोच्यते—“प्रमेयञ्चात्र कीदृश”मिति । अभावरूपं प्रमेयमिति चेत् । एवं तर्हि यथाभूतं प्रमेयं तथाभूतमेव प्रमाणमितीष्यताम् । तत्किमुच्यते—मानं कथमभाव इति । नहि लक्षणं प्रमाणं (न) युक्तम् ॥ १६५७ ॥
भवत्वभावस्य प्रामाण्यं प्रत्यक्षादिभ्यस्तु भेदोऽस्य कथम्मित्याह—“अभावे”त्यादि ।
अभावशब्दवाच्यत्वात्प्रत्यक्षादेश्च भिद्यते ।
प्रमाणानामभावो हि प्रमेयाणामभाववत् ॥ १६५८ ॥
अभावो वा प्रमाणेन स्वानुरूपेण मीयते ।
प्रमेयत्वाद्यथा भावस्तस्माद्भावात्मकात्पृथक् ॥ १६५९ ॥
प्रत्यक्षादीनां प्रमाणानामभावः प्रमाणं प्रत्यक्षादिभ्यो भिन्नम्, अभावशब्दवाच्यत्वात्, प्रमेयाभाववत् । अथवा—अभावाख्यप्रमेयो धर्मी, तस्य स्वानुरूपप्रमाणप्रमेयत्वं साध्यं, प्रमेयत्वादिति हेतुः, भावाख्यप्रमेयो दृष्टान्तः । यच्च स्वानुरूपं प्रमाणं तद्भावात्मकात्प्रत्यक्षादेरन्यदिति सिद्धम् ॥ १६५८ ॥ १६५९ ॥
“तदत्रे”त्यादिना प्रतिविधत्ते ।
तदत्र नित्यसत्त्वस्य परिणामो निराकृतः ।
तद्विपर्ययसद्भावः कादाचित्को न युज्यते ॥ १६६० ॥
अनेनात्मनोऽपरिणामो वेति प्रथमस्याभावलक्षणस्यासम्भवितामाह । तथाहि— पर्युदासवृत्त्या परिणामविपरीतोऽपरिणामः कादाचित्कोऽभिप्रेतो लक्षणत्वेन । अन्यथा हि यदि कादाचित्को नाभिप्रेतः पर्युदासवृत्त्या स्यात्, तदा सर्वदैव वस्तुनोऽस्तित्वप्रतीतिः स्यात् । स चापरिणामो यथोक्तो न सम्भवत्यात्मनः, यस्मान्नित्यसत्त्वस्य परिणामो निराकृतस्तस्मात्कुतस्तस्य विपरीतस्यापरिणामस्य पर्युदासवृत्त्या संश्रयणं भवेत् । तत्र—सत्त्व आत्मा, नित्यश्चासौ सत्त्वश्चेति नित्यसत्त्वः । यद्वा— नित्यं सत्त्वं—सत्ता यस्य स तथोक्तः । नित्य इति यावत् । “तद्विपर्ययसद्भाव” इति । तस्य परिणामस्य विपर्ययोऽपरिणामः स कादाचित्को न युक्तः । किं तर्हि सर्वदा भवेन्नित्यैकरूपत्वादात्मैकः ॥ १६६० ॥
अथ मतम्—अपरिणामो न परिणामविपरीतवस्त्वात्मकः । किं तर्हि? । परिणामप्रतिषेधमात्रात्मकः । तेन नासम्भवि लक्षणं भवतीति, अत्राह—“तत्प्रतिक्षेपे”त्यादि ।
तत्प्रतिक्षेपमात्रात्मा स चेदत्र विवक्षितः ।
सर्वदा वस्तुताऽस्तित्वे गम्येतास्यानिवर्त्तनात् ॥ १६६१ ॥
तस्य परिणामस्य प्रतिक्षेपः प्रतिषेधः, स एव तन्मात्रं, तदेवात्मा स्वभावो यस्याऽपरिणामस्य स तथोक्तः । अस्येति । प्रतिक्षेपात्मनोऽपरिणामस्य नित्यैकरूपत्वादात्मनः परिणामाभावात् ॥ १६६१ ॥
“अस्तु वे”त्यभ्युपगम्यापरिणाममतिव्यापितां लक्षणदोषमाह ।
अस्तु वाऽपरिणामोऽस्य तथापि व्यभिचारिता ।
स्वापमूर्च्छाद्यवस्थासु तद्भावेऽप्यर्थसम्भवात् ॥ १६६२ ॥
प्रत्ययान्तरसद्भावे तद्विविक्तान्यदर्शनात् ।
घटज्ञानादिरूपेण तस्यासाविष्यते यदि ॥ १६६३ ॥
द्वितीयादस्य कः पक्षाद्विशेषोऽभिहितस्तदा ।
यद्विकल्पेन निर्दिष्टं पक्षद्वयमिदं त्वया ॥ १६६४ ॥
“व्यभिचारिते”ति । अतिव्यापिता । मूर्च्छादीत्यादिशब्देन व्यवधानपराङ्मुखाद्यवस्था गृह्यन्ते । “तद्भावेऽ”पीति । घटादिज्ञानरूपेणापरिणतात्मद्रव्यसद्भावेऽपि । अर्थालम्बनप्रत्ययव्यतिरिक्तप्रत्ययान्तरसद्भावे सति घटादिविविक्तप्रदेशज्ञानमेवापरिणामइष्यते । घटादिज्ञानरूपेणापरिणतत्वात् । “तस्ये”ति । आत्मनः । “असा”विति । अपरिणामः । एवं सति विज्ञानं वाऽन्यवस्तुनीत्येतस्माद्द्वितीयात्पक्षादस्य विशेषो नोक्तः स्यात् । ततश्च पक्षद्वयनिर्देशोऽनर्थकः स्यात् ॥ १६६२ ॥ १६६३ ॥ १६६४ ॥
अन्यवस्तुनीत्यादिना द्वितीयेऽभावलक्षणे व्यभिचारितामाह ।
अन्यवस्तुनि विज्ञाने वृत्ते सर्वस्य नास्तिता ।
अदृश्यस्यापि गम्येत द्वितीयाभावसंश्रये ॥ १६६५ ॥
“अदृश्यस्यापी”ति । देशकालस्वभावविप्रकृष्टस्य । “द्वितीयाभाव” इति । विज्ञानं वाऽन्यवस्तुनीत्येतस्मिन् ॥ १६६५ ॥
तत्तुल्ययोग्यरूपस्य कारणान्तरसन्निधौ ।
तद्विविक्तान्यविज्ञाने नास्तिता चेत्प्रतीयते ॥ १६६६ ॥
अथापि स्यान्न सर्वस्यादृष्टस्याभावः साध्य इष्टः । किं तर्हि ? । तत्तुल्ययोग्यरूपस्य—तेनोपलभ्येन घटादिविविक्तप्रदेशेन तुल्यं रूपं योग्यता यस्य स तथोक्तः । उपलब्धिलक्षणप्राप्तस्येति यावत् । “तद्विविक्तान्यविज्ञान” इति घटादिविविक्तप्रदेशज्ञाने ॥ १६६६ ॥
“शक्ये”त्यादिना प्रतिविधत्ते ।
शक्यदर्शनवस्त्वाभप्रत्यक्षस्यैव नास्तिता ।
एवं सति समाख्येयो नान्येषां व्यभिचारिणी ॥ १६६७ ॥
अन्यवस्तुनि विज्ञानं जातं वा ज्ञायते कथम् ।
अप्रत्यक्षा मता बुद्धिर्येनार्थापत्तितो यदि ॥ १६६८ ॥
सापि ज्ञानात्मिकैवेति तस्या अपि कुतो गतिः ।
अर्थापत्त्यन्तरप्रोक्तावनवस्था प्रसज्यते ॥ १६६९ ॥
यदि वस्तु प्रमाभावो मेयाभावस्तथैव च ।
प्रत्यक्षेऽन्तर्गतो भावस्तथासति कथं न ते ॥ १६७० ॥
शक्यदर्शनस्य—उपलब्धिलक्षणप्राप्तस्य वस्तुनः, आभा-आकारो यस्य तत्तथा, शक्यदर्शनवस्त्वाभं च तत्प्रत्यक्षं चेति कर्मधारयः । “नान्येषा”मिति । अनुमानादीनाम् । यतस्तेषां परोक्ष एवार्थो विषयः । नच तेषां निवृत्तौ परोक्षस्य देशकालस्वभावविप्रकृष्टस्य निवृत्तिरस्तीति । अतो व्यभिचारिणी तेषां निवृत्तिः । ततश्च प्रत्यक्षादेरनुत्पत्तिरित्यत्रादिग्रहणमनर्थकं स्यात् । अपिच तदन्यवस्तुनि विज्ञानं यदि निश्चितं भवेदेवं प्रतियोगिनोऽभावं साधयतीत्येवमवश्याभ्युपगन्तव्यम् । अन्यथा हि सत्तामात्रेण ततोऽभावसिद्धौ सत्यां सर्वस्य पुंसस्तस्मादेकपुरुषोत्पन्नादपि ज्ञानादभावसिद्धिप्रसङ्गः स्यात् । तत्र येन मीमांसकेनाप्रत्यक्षा बुद्धिरभ्युपगता तेन तदेव तदन्यवस्तुनि जातं विज्ञानं कथं ज्ञायेत । नैव । “अर्थापत्तितो यदी”ति । ज्ञायत इति प्रकृतेन सम्बन्धः । यथोक्तम्—अज्ञातेऽर्थे बुद्धेरसिद्धेरर्थज्ञानाल्लिङ्गात्तद्बुद्धिरनुमीयत इति । अत्र हि लिङ्गवचनमन्यथाऽनुपपत्तिवाचकम् । अर्थज्ञानादन्यथाऽनुपपन्नादित्यर्थः । अनुमीयते—प्रमीयत इति यावत् । एवं तर्हि साऽप्यर्थापत्तिर्ज्ञानात्मिकेति तस्या अपि कुतो गतिरिति वक्तव्यम् । अन्यस्या अर्थापत्तेरिति चेदेवं सत्यनवस्था स्यात् । किञ्च—यदि वस्तुत्वमभावस्याभ्युपगम्यते तदा यथा प्रमाणाभावो वस्तु तथा प्रमेयाभावोऽपीति, ततश्चाभावो वस्तुत्वात्प्रत्यक्ष एव किमिति नाभ्युपगम्यते । येन तदधिगतयेऽन्यत्प्रमाणान्तरमभावाख्यं परिकल्प्येत ॥ १६६७ ॥ १६६८ ॥ ॥ १६६९ ॥ १६७० ॥
“कार्यादीना”मित्यादिना प्रत्यक्षान्तर्गतत्वमेव समर्थयते ।
कार्यादीनामभावो हि भावो यः कारणादिना ।
स चापरविविक्तात्मा प्रत्यक्षेणैव गम्यते ॥ १६७१ ॥
तथाचोक्तम्—कार्यादीनामभावो हि भावो यः करणादिनेति, स च कारणादेर्भावोऽपरविविक्तात्मा—कार्यादिविविक्तस्वभावः, प्रत्यक्ष एवेति किमभावस्यापरं प्रमेयमस्ति येन प्रमाणान्तरं स्यात् । प्रयोगः—यस्य यतो व्यतिरिक्तं प्रमेयं नास्ति तत्ततो न प्रमाणान्तरं, यथा सप्तमं प्रमाणं, नास्ति च प्रमेयं प्रत्यक्षप्रमेयाद्व्यतिरिक्तमभावस्येति व्यापकानुपलब्धिः ॥ १६७१ ॥
अत्र परो हेत्वसिद्धिमुद्भावयन्नाह—“स्वरूपे”त्यादि ।
स्वरूपपररूपाभ्यां नित्यं सदसदात्मके ।
वस्तुनि ज्ञायते किञ्चिद्रूपं कैंश्चित्कदाचन ॥ १६७२ ॥
प्रत्यक्षाद्यवतारश्च भावांशो गृह्यते यदा ।
व्यापारस्तदनुत्पत्तेरभावांशे जिघृक्षिते ॥ १६७३ ॥
स्यात्प्रमेयाभावो यद्येकात्मकमेव वस्तु स्यात्, यावता स्वरूपपररूपाभ्यां यथाक्रमं सदसदात्मत्वेनोभयात्मकं वस्तु, तस्मिन्नुभयात्मके वस्तुनि स्थिते, किञ्चिद्रूपं— स्वभावः, कैश्चित्प्रमाणैर्ज्ञायते, न सर्वं सर्वैः । एतदेव दर्शयति—“प्रत्यक्षे”त्यादि ।भावांशो यदा गृह्यते तदा प्रत्यक्षादीनां पञ्चानां व्यापारो नाभावस्य, अभावांशे ग्रहीतुमिष्टे, तदनुत्पत्तेर्व्यापारः—तेषां प्रत्यक्षादीनामनुत्पत्तेरभावस्येति यावत् ॥ १६७२ ॥ ॥ १६७३ ॥
स्यादसिद्धता हेतोर्यद्येकस्योभयात्मकत्वं स्यात्, यावता विरुद्धमेकस्योभयात्मत्वमिति प्रतिपादयन्नाह—“स्वरूपमेवे”त्यादि ।
स्वरूपमेव वस्तूनां ननु व्यावृत्तमिष्यते ।
तेनात्मना सदेतच्च प्रत्यक्षममुनाऽत्मना ॥ १६७४ ॥
नहि पररूपेण वस्तु वस्त्वन्तराद्व्यावृत्तं, किं तर्हि ?, स्वरूपेण, अतश्च स्वरूपमेव —स्वभाव एव वस्तूनां वस्त्वन्तराद्व्यावृत्तमुपलभ्यते । स्वस्वभावावस्थानात् । येन चात्मना व्यावृत्तं तेन तद्वस्तु सदेव नासत् । एतच्च वस्तु प्रत्यक्षममुनाऽन्यव्यावृत्तेनात्मनेति न द्वितीयरूपोपलब्धिः ॥ १६७४ ॥
एवं तावत्प्रत्यक्षविरुद्धमुभयात्मकत्वप्रतिज्ञानमुद्भावितम्, इदानीमनुमानविरुद्धं प्रतिपादयन्नाह—“अर्थक्रिये”ति ।
अर्थक्रियासमर्थं च सदन्यदसदुच्यते ।
समावेशो न चैकत्र तयोर्युक्तो विरोधतः ॥ १६७५ ॥
स्वसाध्यायां समर्थं चेदन्यस्यामक्षमं ननु ।
तदेतद्धि द्विरूपत्वं नैवैकत्रास्ति वस्तुनि ॥ १६७६ ॥
अन्यदेवासमर्थं तु यद्यन्यस्याभितीष्यते ।
द्वे तदा वस्तुनी प्राप्ते तन्नैकस्य द्विरूपता ॥ १६७७ ॥
यदर्थक्रियाकारि तत्सत्, यथा सत्त्वेनाभिमतं रूपं, अ(न)र्थक्रियाकारि चासत्त्वेनाभिमतं रूपमिति स्वभावहेतुः । यौ च परस्परविरुद्धौ न तयोरेकस्मिन्वस्तुनियुगपदुपलयनं, यथा छायातपयोः शीतोष्णयोर्वा, परस्परविरुद्धे च सदसद्रूपे, इति व्यापकविरुद्धोपलब्धिः । “स्वसाध्याया”मित्यादिना परो हेतोरसिद्धिमुद्भावयति । तथाहि—तदेवैकं वस्तु स्वसाध्यायामर्थक्रियायां समर्थम्, अन्यसाध्यायां त्वसमर्थं, ततश्चार्थक्रियाकारित्वलक्षणो हेतुरसिद्धः । नहि परसाध्यामर्थक्रियामपेक्ष्यार्थक्रियाकारित्वं वस्तुनः सिद्धम् । नच सदसद्रूपयोः परस्परविरोधः, अपेक्षाभेदात् । तथाहि—स्वसाध्यामर्थक्रियामपेक्ष्य सदुच्यते, अन्यसाध्यां त्वपेक्ष्यासदिति, यदि तु स्वसाध्यामेवापेक्ष्यासदुच्येत स्यात्परस्परविरोधः । अत्र परिहारमाह—“ननु तदेवे”ति । यदेव स्वसाध्यायां समर्थं वस्तुस्वरूपं तदेव परसाध्यायामसमर्थं नान्यत् । नह्यपेक्षाभेदेन शब्दभेदाद्वस्तु भिद्यते । निरंशत्वात्तस्य । तदिति । तस्मादर्थे तत् । तस्मात् नैकत्र द्विरूपत्वमस्ति । अथान्यदेव रूपमन्यसाध्यायामर्थक्रियायामसमर्थं नतु तदेवेत्याह—“अन्य”देवेति । एवं तर्हि यदर्थक्रियासमर्थं तदेकं वस्तु, यच्चासमर्थं तद्द्वितीयमिति वस्तुद्वयमेव केवलं भवता प्रतिपादितम्, नत्वेकस्योभयात्मत्वम् ॥ १६७५ ॥ ॥ १६७६ ॥ १६७७ ॥
प्रमाणनिवृत्तिमात्रात्मके तृतीयेऽभावलक्षणे दूषणमाह—“अभावस्ये”त्यादि ।
अभावस्य च वस्तुत्वे पूर्वमङ्गीकृते सति ।
नीरूपता पुनस्तस्य किमर्थमुपवर्ण्यते ॥ १६७८ ॥
“पूर्वमङ्गीकृत” इति । साऽत्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनीति वचनात् । “नीरूपता पुनस्तस्ये”ति । मानमप्येवमिष्यतामिति वचनाद्विषयाधिगमलक्षणत्वात्प्रमाणस्य न युक्तं नीरूपस्य प्रामाण्यमिति वक्ष्यमाणोऽभिप्रायः ॥ १६७८ ॥
तमेवाभिप्रायं दर्शयन्नाह—“नीरूपस्ये”त्यादि ।
नीरूपस्य हि विज्ञानरूपहानौ प्रमाणता ।
न युज्यते प्रमेयस्य सा हि संवित्तिलक्षणा ॥ १६७९ ॥।
सेति । प्रमाणता । यत्प्रमेयाधिगतिरूपं न भवति न तत्प्रमाणं, यथा घटादि, प्रमेयाधिगतिशून्यश्चाभाव इति व्यापकानुपलब्धिः ॥ १६७९ ॥
स्यादेतच्चक्षुरादयो न प्रमेयाधिगतिरूपाः, अथ च प्रमेयाधिगतिहेतुत्वात्प्रमाणमुच्यन्ते, तद्वदभावोपीत्यनैकान्तिको हेतुरित्याह—“तद्धेतुत्वा”दित्यादि ।
तद्धेतुत्वात्प्रमाणं चेच्चक्षुरादिवदुच्यते ।
न नीरूपस्य हेतुत्वसम्भवोऽस्ति कदाचन ॥ १६८० ॥
ज्ञानरूपविविक्तश्च सोऽभावो गम्यते कथम् ।
तद्गोचरप्रमाभावादेवं तर्ह्यनवस्थितिः ॥ १६८१ ॥
वस्त्वभावात्प्रमाणस्य प्रमाभावाच्च वस्तुनः ।
नास्तिता यदि गम्येत भवेदन्योन्यसंश्रयः ॥ १६८२ ॥
तस्मादेकस्य या दृष्टिः सैवान्यादृष्टिरुच्यते ।
सा च स्वतन्त्रसंसिद्धिः स्वरूपेणाजडत्वतः ॥ १६८३ ॥
नच प्रमाणहेतुत्वादुपचारेण कल्पना युक्ता, यतो नीरूपस्य सर्वसामर्थ्यविरहलक्षणत्वान्न हेतुत्वसम्भवो युक्तः । सम्भवे वा नीरूपताहानिप्रसङ्गात् । तस्याविशेषात्तद्भावे विज्ञानानुपरमप्रसङ्गाच्च । किञ्च—नासिद्धस्य गमकत्वं युक्तमतिप्रसङ्गादिति पूर्वमुक्तम्, सा च तस्याभावस्य सिद्धिः कथमिति वक्तव्यम्, न तावत्स्वत एव तस्य सिद्धिः, प्रमेयाभावस्यापि स्वत एव सिद्धिप्रसङ्गात् । ततश्चाभावकल्पना व्यर्थास्यात्, प्रमेयाभावसिद्ध्यर्थत्वात्तस्याः, तस्य च प्रमेयाभावस्य प्रमाणाभाववत्स्वत एव सिद्धत्वात् । नापि स्वसंवित्त्या तस्य सिद्धिः, यतो ज्ञानरूपविविक्तोऽसौ कथं स्वसंवित्त्या गम्येत । ज्ञानात्मन एव तयाधिगमात् । अथान्यस्मात्तद्विषयप्रमाणाभावात्तत्सिद्धिः, तस्यापि तद्विषयस्य प्रमाणाभावस्य कथं सिद्धिः ?, तस्याप्यन्यतः सिद्धावनवस्था स्यात् । यथोक्तम्—अन्यथार्थस्य नास्तित्वं गम्यतेऽनुपलम्भतः । उपलम्भस्य नास्तित्वमन्येनेत्यनवस्थितिरिति । अथ माभूदनवस्थितिः, प्रमेयाभावात्तस्य सिद्धिरभ्युपगम्यते । एवं सतीतरेतराश्रयत्वं प्राप्नोति । तथाहि—वस्तुनः प्रमेयस्याभावात्प्रमाणाभावसिद्धिः तस्य सिद्धौ च प्रमेयाभावसिद्धिरिति स्फुटतरमेवात्रावतरतीतरेतराश्रयदोषः । तदयं गडुप्रवेशेऽक्षताराविनिर्गमः । तस्मादेकोपलब्धिरेवान्यस्यानुपलब्धिरिति नाभावो नाम पृथक्प्रमाणं प्रत्यक्षात् । स्यादेतत्साऽप्येकोपलब्धिः कथं सिद्धा, तत्राप्यभाववत्समानप्रसङ्ग इत्याह—“सा चे”त्यादि । सा चैकस्य दृष्टिः स्वयमेव स्वतन्त्रा सिद्धा नान्यत इति नानवस्थाप्रसङ्गः । कस्मात् ? । स्वरूपेण—प्रकृत्यैव, अजडरूपत्वात्—प्रकाशस्वभावत्वात् । नच सत्तामात्रेण संवित्तावतिप्रसङ्गोऽन्येषामतद्रूपत्वात् ॥ १६८० ॥ १६८१ ॥ १६८२ ॥ १६८३ ॥
अथ परतो बुद्धिसंसिद्धौ कः प्रद्वेष इत्याह—“बुद्धेरि”त्यादि ।
बुद्धेरपरतः सिद्धिर्लिङ्गाद्बुद्ध्यन्तरादपि ।
अन्यथाऽनुपपत्तेर्वा सर्वथाऽपि न सम्भवः ॥ १६८४ ॥
त्रयपर्यनुयोगस्य प्रत्येकं सति सम्भवे ।
अनवस्थितयो बह्व्यो विसर्पिण्यः स्युरत्र ते ॥ १६८५ ॥
तुल्ययोग्यात्मनस्तस्मादेकस्यैवोपलम्भनात् ।
असन्निश्चययोग्यत्वमन्येषां सम्प्रतीयते ॥ १६८६ ॥
एकस्य कस्य संवित्तावचन्द्रं गम्यते नभः ।
सर्वशब्दविवेकश्च क्वचिन्निश्चीयते कथम् ॥ १६८७ ॥
केचिल्लिङ्गसमधिगम्यां बुद्धिमिच्छन्ति, तच्च लिङ्गमर्थज्ञानं वा क्रियारूपं इन्द्रियार्थो वा व्यक्तो वा विषय इत्यादिकम् । केचिद्बुद्ध्यन्तरप्रत्यक्षां बुद्धिमिच्छन्ति, न स्वसंविद्रूपां, स्वात्मनि कारित्व(कर्मत्व ?)विरोधात् । केचिज्ज्ञातार्थान्यथानुपपत्त्या, ज्ञातोऽर्थो न सिद्ध्यति यदि बुद्धिर्न भवेत्, तस्य स्वयं जडरूपत्वात् । अतः पक्षत्रयमुक्तम् । तस्य लिङ्गादित्रयस्य यः प्रत्येकं पर्यनुयोगः, तस्यापि लिङ्गादेः कुतः सिद्धिरिति, तस्य सम्भवे सति बह्व्योऽनवस्थितयः प्रसर्पन्ति । तथाहि—तदपि लिङ्गादित्रयं बुद्धेरसिद्धावसिद्धमिति तस्यापि परतः सिद्धिरन्वेष्टव्या, तत्राप्यपरलिङ्गादिसमाश्रयणे सर्वत्र पर्यनुयोगे चानवस्थाप्रसङ्गः । तस्मादेकस्योपलम्भादन्येषामसत्त्वं प्रतीयते, तद्देशकालस्य निषेधे कर्त्तव्ये तुल्ययोग्यात्मनामेव निषेधः कार्यः । अन्येषां तत्र निषेद्धुमशक्यत्वात् । तादात्म्यनिषेधे तु सर्वस्यैव निषेधः कार्यो दृष्टः, तदन्यत्वेन सर्वस्य व्यवस्थापनात् । तदात्मा न परात्मेति कृत्वा । ननु चाकाशे चन्द्राभावंयदाऽध्यवस्यति तदा नैकस्य तत्रोपलम्भः येनोच्यते एकोपलाम्भादन्याभावसिद्धिरिति, न ह्याकाशं नाम किञ्चित्परमार्थतोऽस्ति, यच्चन्द्रविविक्तं दृश्येत । यदपि परैर्वस्तु सत्कल्पितं, तदप्यतीन्द्रियं, यश्च क्वचित्प्रदेशे शब्दाभावनिश्चयः, स कस्योपलम्भात् । न तावद्भूभागोपलम्भादिति वक्तव्यम्, तस्य शब्देनातुल्ययोग्यावस्थत्वात् । तथाहि—भूभागश्चाक्षुषः, शब्दस्तु श्रावणः, तुल्ययोग्यावस्थयोश्च परस्परापेक्षमन्यत्वमिष्टम्, एकज्ञानसंसर्गिणोऽपरस्परापेक्षमन्यत्वमिति वचनात् । नापि कालस्योपलम्भादिति वाच्यम्, नहि परा(दा ?)र्थव्यतिरिक्तः कालोऽस्ति यस्योपलम्भः स्यात् । योऽपि परैरिष्टांश(स्सोऽ)प्यतीन्द्रियः ॥ १६८४ ॥ १६८५ ॥ १६८६ ॥ १६८७ ॥
“प्रकाशे”त्यादिना प्रतिविधत्ते ।
प्रकाशतमसो राशेस्तमेव व्योम मन्यते ।
प्रतिपत्ता यतोऽन्यस्य न सत्त्वं न च दर्शनम् ॥ १६८८ ॥
सर्वशब्दविवेकोऽपि कार्यादृष्टेः प्रतीयते ।
सा च सिद्धाऽन्ततोऽन्येषां विज्ञानानां स्ववेदनात् ॥ १६८९ ॥
“राशे”रिति । संवित्ताविति सम्बन्धः । यस्मात्तमेव प्रकाशतमसो राशिमाकाशमिति प्रतिपत्ता प्रतिपद्यते, नान्यत् । तथाहि—दिवा निशि वेदमिन्द्रनीलसङ्काशमिदं जलधरनिकाशमिति वा प्रतिपद्यते । न चाकाशस्य परिकल्पितस्य वर्णसंस्थानादिरस्ति ।“ततोऽन्यस्ये”ति । प्रकाशतमोराशिव्यतिरेकेण परपरिकल्पितस्याकाशस्यासत्त्वात् ।सत्त्वेवाऽतीन्द्रियत्वात् । सर्वशब्दविवेकोऽपि श्रोत्रज्ञानस्य कार्यस्यानुपलब्ध्या गम्यते । सा चानुपलब्धिरन्येषां चक्षुरादिज्ञानानां संवेदनात्सिद्धेत्यस्त्येवात्राप्येकोपलम्भोऽन्यविज्ञानसंवेदनलक्षणः । ननु नहि कार्यसत्तया कारणसत्ता व्याप्ता, येन सा कार्यसत्ता निवर्त्तमाना तामपि निवर्त्तयेत् । यतो नावश्यं कारणानि वर्द्धति (अर्थवन्ति ?) भवन्ति । न ब्रूमः सर्वा कारणसत्ता कार्यसत्तया व्याप्तेति, किं तर्हि ?, विशिष्टैवाऽप्रतिबद्धसामर्थ्यलक्षणा, तस्या एवात्र निषेधः क्रियते, न सर्वस्याः । तथाहि—यत्रापि केवलप्रदेशोपलम्भाद्धटाभावसिद्धिः, सापि घटोपलम्भाख्यकार्यानुपलब्धिरेव । यत उपलब्धिलक्षणप्राप्तस्यैव घटस्याभावः साध्यते, न सर्वस्य । कश्चोपलब्धिलक्षणप्राप्तः ? । य एवाप्रतिबद्धसामर्थ्यः । यत उपलब्धिलक्षणं स्वभावविशेषो वर्णितः—यः स्वभावः स प्रत्यक्ष एव भवतीति । अन्यथा ह्यत्रापि घटोपलब्ध्या घटसत्ता न व्याप्ता स्यात्ततश्चाव्यापकस्य निवृत्तौ नाव्याप्तस्य निवृत्तिरिति ततो घटाभावो न सिद्ध्येत् ।तस्मात्सर्वैव स्वभावानुपलब्धिरसद्व्यवहारहेतुः । परमार्थतः कार्यानुपलब्धिरेव द्रष्टव्या ॥ १६८८ ॥ १६८९ ॥
“इत्थ”मित्यादिनाऽभावशब्दवाच्यत्वादित्यस्य हेतोरनैकान्तिकत्वमाह—
इत्थं च वस्तुरूपत्वे स्थितेऽभावप्रमात्मनः ।
अभावशब्दवाच्यत्वमन्तर्भावेऽप्यबाधितम् ॥ १६९० ॥
इत्थमिति । एकस्य या दृष्टिः सैवान्या दृष्टिरुच्यत इत्यादिना । “अन्तर्भावेऽप्यबाधि”तमिति । अभावस्य प्रत्यक्षान्तर्भावेऽप्यभावशब्दवाच्यत्वमविरुद्धमित्यर्थः । एतेन हेतोर्विपक्षादव्यावृत्तिमाह ॥ १६९० ॥
अभावो वा प्रमाणेन स्वानुरूपेण मीयते ।
इत्यत्र सिद्धसाध्यत्वं तादृश्यस्त्यनुरूपता ॥ १६९१ ॥
इत्यभावविचारः ।
“तादृश्यस्त्यनुरूपतेति” । अन्योपलब्धिलक्षणानुपलब्धिरभावः ( इति ) । यच्चाप्येके चोदयन्ति—ननु वस्त्वभावमात्रालम्बनस्य प्रत्ययस्य प्रत्यक्षादौ न क्वचिदन्तर्भावोऽस्ति, वस्तुविरहमात्रालम्बनत्वादस्य, प्रत्यक्षादेश्च वस्तुविषयत्वात् । नचास्याप्रामाण्यमविसंवादित्वात्, नहि भवद्भिर्वस्तूनां निरन्वयं विनाशमिच्छद्भिर्वस्तुविरहो नेष्यत इति । तदप्यनेन प्रत्युत्त्कम्। नही तेन विकल्पे(न) तद्देशकालादिविशेषणरहितमभावमात्रमालम्ब्यते । किं तर्हि । क्वचिद्देशादौ घटादि नास्तीत्यनेन रूपेण सविशेषणमेव । तच्च केवलस्यैव देशादेर्ग्रहणसामर्थ्यादेवं भवतीति न पृथगस्य प्रामाण्यम्, प्रत्यक्षगृहीतस्यैव केवलस्य देशादेस्तथा विकल्पनात् । सत्यपि वा निर्विशेषणस्याभावस्य ग्रहणे न तद्ग्राहिणो ज्ञानस्य प्रामाण्यं युक्तमवस्तुविषयत्वात् । अर्थक्रियार्थिनां च प्रमाणचिन्ताया वस्त्वधिष्ठानत्वादिति यत्किञ्चिदेतत् ॥ १६९१ ॥
इत्यभावविचारः ।
युक्त्यनुपलब्धिविचारः
युक्त्यनुपलब्धी अधिकृत्याह—“अस्मिन्सती”त्यादि ।
अस्मिन्सति भवत्येव न भवत्यसतीति च ।
तस्मादतो भवत्येव युक्तिरेषाऽभिधीयते ॥ १६९२ ॥
प्रमाणान्तरमेवेयमित्याह चरको मुनिः ।
नानुमानमियं यस्माद्दृष्टान्तोऽत्र न लभ्यते ॥ १६९३ ॥
उपलब्ध्या यया योऽर्थो ज्ञायते तदभावतः ।
नास्तित्वं गम्यते तस्यानुपलब्धिरियं मता ॥ १६९४ ॥
प्रमाणान्तरमेषाऽपि दृष्टान्ताद्यनपेक्षणात् ।
दृष्टान्तेऽपि हि नास्तित्वमनयैव प्रसिद्ध्यति ॥ १६९५ ॥
तद्भावभावित्वेन यत्कार्यताप्रतिपत्तिरियं युक्तिः, इयं च सविकल्पकत्वान्न प्रत्यक्षं, नाप्यनुमानं, दृष्टान्ताभावात्, तथाहि—दृष्टान्तोऽपि—अत एव तद्भावभावित्वात्तत्कार्यताप्रतिपत्तिः, तत्रापि दृष्टान्तोऽन्वेषणीयस्तत्राप्यपर इत्यनवस्था स्यात्, तस्मात्प्रमाणान्तरमेवेयमित्याह चरको—वैद्यः। तथा या चोपलब्धिनिवृत्त्या नास्तित्वप्रतीतिरियमनुपलब्धिः । अस्या अपि प्रमाणान्तरत्वे युक्तिवदेव न्यायोऽन्वेषणीयः ॥ १६९२ ॥ १६९३ ॥ १६९४ ॥ १६९५ ॥
“कार्ये”त्यादिना प्रतिविधत्ते ।
कार्यकारणताभावप्रतिपत्तिर्न संयता ।
तदत्रास्यां न भेदोऽस्ति साध्यसाधनयोर्यतः ॥ १६९६ ॥
कार्यकारणभावोऽभावश्चेति कार्यकारणताभावौ, तयोः प्रतिपत्तिरिति विगृह्य समासः, तत्र कार्यकारणताप्रतिपत्तिर्युक्त्या, अभावप्रतिपत्तिरनुपलब्ध्येति यथाक्रमं सन्बन्धः । “अस्या”मिति । युक्तावनुपलब्धौ च प्रमाद्वयेऽपि न साध्यसाधनयोर्भेदः ॥ १६९६ ॥
कथमित्याह—“तद्भावे”त्यादि ।
तद्भावभावितां मुक्त्वा न हेतुफलताऽपरा ।
दृश्यादृष्टिं विहायान्या नास्तिता न प्रतीयते ॥ १६९७ ॥
युक्तौ तावन्न साध्यसाधनयोर्भेदः, तथाहि—तद्भावभाविता हेतुः, कार्यकारणता साध्या, न चानयोर्भेद उपलभ्यते, पर्यायत्वात्तरुपादपवत् । अनुपलब्धावपि च न भेदः, तथाहि—यद्युपलम्भनिवृत्तिमात्रं विवक्षितं तदा तस्यासिद्धत्वात्पूर्ववदनवस्थादिदोषो वाच्यः । अथान्योपलब्धिरेवानुपलब्धिस्तदा दृश्यानुपलब्धावेवान्तर्भावः । अनया च नाभावः साध्यते, तस्य प्रत्यक्षेणैव सिद्धत्वात् । अत एवाह—दृश्यादृष्टिं विहायेत्यादि ॥ १६९७ ॥
अथ मतं नाभ्यां कार्यकारणताऽभावौ साध्येते, किं तर्हि, व्यवहार इति, तत्राह —“तद्भावव्यवहार” इत्यादि ।
तद्भावव्यवहारे तु योग्यतायाः प्रसाधने ।
सङ्केतकाले विज्ञातो विद्यतेऽर्थो निदर्शनम् ॥ १६९८ ॥
इति युक्त्यनुपलब्धिविचारः ।
तयोर्हेतुफलताभावयोर्भावस्तद्भावस्तत्र व्यवहारो यः स तद्भावव्यवहारः । ज्ञानाभिधानप्रवृत्तिलक्षणमनुष्ठानं तस्मिन्योग्यता साध्यते । प्रयोगश्च—ये यद्व्यापारानन्तरनियतोपलभ्यस्वभावास्ते तत्कार्यव्यवहारयोग्याः, तद्यथा सङ्केतकालानुभूताःकुलालादिव्यापारानन्तरोपलभ्यस्वभावा घटादयः, तथाच ताल्वादिव्यापारानन्तरनियतोपलभ्यस्वभावाः शब्दा इति स्वभावहेतुः । तथानुपलब्धावपि व्यवहारेसाध्ये प्रयोगः—येषामुपलब्धिलक्षणप्राप्ताभिमतानां येष्वनुपलब्धिस्ते तदभावव्यवहारयोग्याः, तद्यथा विषाणाभावव्यवहारयोग्याः शशशमस्तकादयः, उपलब्धिलक्ष णप्राप्ताभिमतानां पराभिमतसामान्यादिपदार्थानामनुपलब्धिश्च तदाश्रयत्वेनेष्टेषु सावलेयादिष्विति स्वभावानुपलब्धिः । तद्विविक्तानां सावलेयादीनामुपलम्भान्नासिद्धिः, नाप्यनैकान्तिकता हेतोरभिव्यक्तेर्निराकरिष्यमाणत्वात्, एतावन्मात्रनिबन्धनत्वाच्चाभावव्यवहृतेः, नापि विरुद्धता सपक्षे भावादिति ॥ १६९८ ॥
इति युक्त्यनुपलब्धिविचारः ।
सम्भवविचारः
तत्र सम्भवश्च लक्षणया समुदायः । सम्भवप्रतिपत्तौ समुदायिप्रतिपत्तिः । यथा— सहस्रसद्भावे ज्ञाते शतादिसत्ताप्रतिपत्तिः । इदं च किल दृष्टान्ताभावान्नानुमानम् ।
अत्र दूषणमाह—“समुदाये”त्यादि ।
समुदायव्यवस्थाया हेतवः समुदायिनः ।
शतादिसम्भवज्ञानं सहस्रात्कार्यलिङ्गजम् ॥ १६९९ ॥
इति सम्भवविचारः ।
यस्मात्समुदायिभ्योऽन्यस्य समुदायस्याभावात्समुदायव्यवस्थायाः समुदायिन एव कारणं तस्मात्सहस्राच्छतादिसम्भवप्रतीतिः कार्यलिङ्गजैव ॥ १६९९ ॥
इति सम्भवविचारः ।
ऐतिह्यादिविचारः
अन्ये त्वैतिह्यादि च प्रमाणान्तरमिच्छन्ति, तत्रानिर्दिष्टवक्तृकं प्रवादपारम्पर्यमैतिह्यम् । यथा—इह वटे यक्षः प्रतिवसतीति । अनियतदेशकालमाकस्मिकं सदसत्सूचकं ज्ञानं प्रतिभा । यथा—कुमार्या ए भवति, अद्य मे भ्राता आगमिष्यतीति । तच्च किल तथैव भवतीति प्रमाणम् । अत्र दूषणमाह—“ऐतिह्ये”त्यादि ।
ऐतिह्यप्रतिभादीनां भूयसा व्यभिचारिता ।
नैवेदृशां प्रमाणत्वं घटतेऽतिप्रसङ्गतः ॥ १७०० ॥
इत्यैतिह्यादिविचारः ।
आदिशब्देन प्रत्यभिज्ञादीनां ग्रहणम् । तेषामपि परैः कैश्चित्प्रमाणत्वेन गृहीतत्वात् । “अतिप्रसङ्गत” इति । स्वप्नान्तिकस्यापि कदाचित्सत्यतादर्शनात्प्रमाणान्तरत्वंस्यात् ॥ १७०० ॥
इत्यैतिह्यादिविचारः ।
एवं विस्तरेण प्रमाणान्तरं निराकृत्य सङ्क्षेपेण निराकुर्वन्नाह—“अथवे”त्यादि ।
अथवाऽस्थान एवायमायासः क्रियते यतः ।
प्रत्यक्षश्च परोक्षश्च द्विधैवार्थो व्यवस्थितः ॥ १७०१ ॥
द्विविध एव ह्यर्थः प्रत्यक्षः परोक्षश्च ॥ १७०१ ॥
ननु चापरोऽप्यस्ति प्रत्यक्षाप्रत्यक्षः, नैव प्रत्यक्षो नाप्यप्रत्यक्ष इत्याह—“उभये”त्यादि ।
उभयानुभयात्मा हि नैवासौ युज्यते परः ।
एकस्यैकत्र विज्ञाने व्याहते हि क्रियाक्रिये ॥ १७०२ ॥
साक्षाद्धि ज्ञानजनकः प्रत्यक्षो ह्यर्थ उच्यते ।
यथोक्तविपरीतस्तु परोक्षः कृतिभिर्मतः ॥ १७०३ ॥
आद्यार्थविषयं तावन्नेदं शाब्दोपमादिकम् ।
प्रत्यक्षेऽन्तर्गतिप्राप्तेर्वैफल्यं वा स्मृतेरिव ॥ १७०४ ॥
परोक्षविषयत्वेऽपि सर्वेषां विषयः कथम् ।
यदि साक्षात्परोक्षोऽयं न स्यात्प्रत्यक्षवस्तुवत् ॥ १७०५ ॥
परव्यपाश्रयेणापि प्रतिपत्तौ किमस्य सा ।
सम्बद्धेतरतो नो वा भेदाभासा न वा तथा ॥ १७०६ ॥
असम्बद्धात्तदुद्भूतावव्यवस्था प्रसज्यते ।
न च सङ्गच्छते व्याप्तिर्भेदाभासा भवेद्यदि ॥ १७०७ ॥
परोक्षविषया यावत्सम्बद्धार्थसमाश्रया ।
अपरामृष्टतद्भेदा प्रतीतिरनुमा स्फुटा ॥ १७०८ ॥
इति प्रमाणान्तरपरीक्षा ।
न ह्येकस्यान्योन्यप्रत्यनीकानेकधर्मसम्पातो युक्तः, एकत्वहानिप्रसङ्गात्, तथाहि—विशिष्टस्याव्यवधानेन यथागृहीतार्थावसायकारणस्य ज्ञानस्य साक्षाल्लिङ्गादिव्यवधानं विना जनकोऽर्थः प्रत्यक्ष उच्यते । एवं च कृत्वा क्षणिकः शब्द इत्यादिज्ञानमप्रत्यक्षार्थमिति सिद्धम् । नचैकस्य पदार्थस्यैकत्र क्रियाक्रिये युक्ते, येन विज्ञानजनकत्वाजनकत्वाभ्यां प्रत्यक्षाप्रत्यक्षस्वभावो भवेत् । नाप्यनुभयस्वभावो युक्तः, एकस्वभावनिषेधस्यापरस्वभावविधिनान्तरीयकत्वाद्वस्तुनः । अनेकस्य तु नैकत्र क्रिया क्रियाविरोधः, यथा रूपरसयोश्चक्षुर्विज्ञाने, तथैकस्यानेकस्मिन्, यथा रूपस्य चक्षुःश्रोत्रविज्ञानयोः, तदर्थ“मेकस्यैकत्रे”ति चाह । तस्माद्द्विविध एवार्थः । तत्र शब्दादीनां प्रामाण्यं भवत्प्रत्यक्षे वार्थे भवेत्परोक्षे वेति पक्षद्वयम् । न तावदाद्येऽर्थे, कस्मात्प्रत्यक्षेन्तर्गतिप्राप्तेः, शाब्दादीनामभिन्नार्थविषयत्वात्। अथ प्रत्यक्षेणाधिगते सत्युत्तरकालं तैः पुनरधिगमः क्रियते, अत आह—“वैफल्यं वा” । गृहीतग्रहणात्स्मृतिवदप्रामाण्यप्रसङ्गात् । द्वितीयेऽपि पक्षे स परोक्षोऽर्थो विषयो भवन्साक्षाद्वा स्याद्व्यवधानाद्वापराश्रयेण, तत्र तावन्न साक्षात्तस्यापरेक्षत्वप्रसङ्गात्प्रत्यक्षार्थवत् । यस्मादत एवासौ परोक्ष उच्यते यतः साक्षान्न ज्ञानं जनयति, साक्षात्स चेज्ज्ञानं जनयेत्कथमसौ परोक्ष इति वचनीयमेतत् । पराश्रयेणापि परोक्षार्थप्रतिपत्तिः सम्बद्धाद्वा स्यादसम्बद्धाद्वा, भेदाभासा वा स्यादभेदाभासा वेति चत्वारः पक्षाः सम्भवन्ति । भेदाभासायथा—धूमसामान्यात्तार्णपार्णादिवह्निविशेषप्रतीतिः । अभेदाभासा यथा—धूमाद्विजातीयपरावृत्तवह्निमात्राध्यवसायिनी । तत्रासम्बन्धात्प्रतिपत्तावव्यवस्था स्यात्,यतः कुतश्चित्सर्वः प्रतीयेत । अथ भेदाभासा, तदा व्याप्तिः साध्येन हेतोर्न सङ्गच्छेत, विशेषेणान्वयायोगात् । ततश्चानैकान्तिकं स्यात् । अथाभेदाभासा तदाऽनुमान एवान्तर्भाव इति प्रतिपादयन्नाह—“परोक्षविषये”त्यादि । “अपरामृष्टतद्भेदे”ति । भेदप्रतिभासशून्या विजातीयपरावृत्तार्थमात्राध्यवसायिनी । यथा धूमाद्वह्निमात्रप्रतीतिः । एवम्भूता चेत्स्पष्टमेवानुमानं, सम्बन्धदर्शनोपायत्वात्, धूमाद्वह्निप्रतीतिवत् ॥ १७०२ ॥ १७०३ ॥ १७०४ ॥ १७०५ ॥ १७०६ ॥ १७०७ ॥ १७०८ ॥
इति प्रमाणान्तरपरीक्षा ।