अनुमानस्येदानीं लक्षणमाह—“स्वपरे”त्यादि ।
स्वपरार्थविभागेन त्वनुमानं द्विधेष्यते ।
स्वार्थं त्रिरूपतो लिङ्गादनुमेयार्थदर्शनम् ॥ १३६२ ॥
त्रिरूपलिङ्गवचनं परार्थं पुनरुच्यते ।
एकैकद्विद्विरूपोऽर्थो लिङ्गाभासस्ततो मतः ॥ १३६३ ॥
अनुमानं स्वार्थपरार्थभेदेन द्विविधम् । तत्र स्वार्थं यत्रिरूपाल्लिङ्गात्पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाच्च सर्वतो व्यावृत्तिरित्येवंलक्षणादनुमेयार्थविषयं ज्ञानं तदात्मकं बोद्धव्यम् । परार्थं तु यथोक्तत्रिरूपलिङ्गप्रकाशकवचनात्मकं द्रष्टव्यम् । अथानुमानाभासस्य किं लक्षणं नोक्तमित्याह—“एकैके”त्यादि । नित्यः शब्दः कृतकत्वान्मूर्त्तत्वादप्रमेयत्वादित्येकैकरूपो यथाक्रमं पक्षधर्मत्वसपक्षसत्त्वविपक्षव्यावृत्तिमात्रस्य विद्यमानत्वात् । तत्र द्विद्विरूपो यथा—ध्वनिरनित्यश्चाक्षुषत्वाच्छ्रावणत्वादमूर्तत्वादिति यथाक्रमं पक्षसत्त्वसपक्षसत्त्वविपक्षव्यावृत्तिमात्राभावात् । तदुक्तम्— कृतकत्वाद्ध्वनिर्नित्यो मूर्त्तत्वादप्रमेयतः । अमूर्त्तश्रावणत्वाभ्यामनित्यश्चाक्षुषत्वतः ॥ इति ॥ ॥ १३६२ ॥ १३६३ ॥
“अन्यथे”त्यादिना पात्रस्वामिमतमाशङ्कते—
अन्यथाऽनुपपन्नत्वे ननु दृष्टा सुहेतुता ।
नासति त्र्यंशकस्यापि तस्मात्क्लीबास्त्रिलक्षणाः ॥ १३६४ ॥
स ह्याह । अन्यथाऽनुपपन्नत्वं एव शोभनो हेतुर्न तु पुनस्त्रिलक्षणः । तथाह्यसत्यन्यथानुपपन्नत्वे त्र्यंशकस्यापि तत्पुत्रत्वादेर्न दृष्टा सुहेतुता । तस्मात् क्लीबाः—असक्ताः, त्रिलक्षणा हेतव इति । “अन्यथे”ति । साध्येन विनाऽनुपपन्नत्वं, हेतोः साध्य एव सत्त्वमित्यर्थः ॥ १३६४ ॥
“अन्यथे”त्यादिना सविस्तरमन्वयव्यतिरेकसन्दर्शनेनान्यथानुपपन्नत्वैकलक्षणं हेतुं समर्थयते ।
अन्यथाऽनुपपन्नत्वं यस्यासौ हेतुरिष्यते ।
एकलक्षणकः सोऽर्थश्चतुर्लक्षणको न वा ॥ १३६५ ॥
एकं लक्षणमन्यथाऽनुपपन्नत्वं यस्यास्ति स एकलक्षणः । स एव लौकिकैः परीक्षकैर्वा हेतुरिष्यते, नान्यः । अर्थापत्त्या तु पक्षधर्मत्वादित्रयमनेनैवाक्षिप्यत इतिचतुर्लक्षणकोऽपि वा भवतु । न वा चतुर्लक्षणो यस्मात्क्वचिदेकलक्षणो द्विलक्षणस्त्रिलक्षणोऽपि वा न्याय्यः, यस्मादन्यथानुपपत्तिरेकं लक्षणं तेनैकलक्षण इति व्यपदिश्यते, अन्यथाऽनुपपत्तिसहितां सजातीयसिद्धतां विजातीयव्यावृत्तिं चाभिसमीक्ष्य द्विलक्षणः, अन्यथानुपपन्नत्वं सजातीयवृत्तिः साध्यविपक्षाच्च व्यावृत्तिरिति त्रिलक्षणः । न तु पक्षधर्मत्वादिलक्षणधर्मत्रययोगात्रिलक्षणहेतुरिष्यते । तस्य सम्यग्ज्ञानं प्रति हेतुत्वानुपपत्तेः ॥ १३६५ ॥
अथवा प्राधान्यादन्यथाऽनुपपत्तिनामधेयेनैवैकलक्षणव्यपदेशो न तु पक्षधर्मत्वादिभिस्तेषामप्राधान्यादकिञ्चित्करत्वाद्वेत्येतद्दर्शयन्नाह—“यथे”त्यादि ।
यथा लोके त्रिपुत्रः सन्नेकपुत्रक उच्यते ।
तस्यैकस्य सुपुत्रत्वात्तथेहापि च दृश्यताम् ॥ १३६६ ॥
ननु चाविनाभावसम्बन्धात्रिरूपस्यैव सहेतुता युक्तेत्याह—“अविने”त्यादि ।
अविनाभावसम्बन्धस्त्रिरूपेषु न जातुचित् ।
अन्यथाऽसम्भवैकाङ्गहेतुष्वेवोपलभ्यते ॥ १३६७ ॥
अन्यथासम्भव एकमङ्गं येषां ते तथोक्तास्ते च ते हेतवश्चेत्यन्यथासम्भवैकाङ्गहेतवः ॥ १३६७ ॥
“अन्यथे”त्यादिना यथोक्तमेवार्थं निगमयति ।
अन्यथानुपपन्नत्वं यस्य तस्यैव हेतुता ।
दृष्टान्तौ द्वावपि स्तां वा मा वा तौ हि न कारणम् ॥ १३६८ ॥
नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ।
अन्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम् ॥ १३६९ ॥
“दृष्टान्ता”विति । साधर्म्यवैधर्म्यलक्षणौ । “न कारण”मिति । साध्यप्रतिपत्तेः । अन्यथाऽनुपपन्नत्वं यत्रेत्यस्यानन्तरं नान्यथानुपपन्नेत्यस्यार्द्धस्य पाठः कर्त्तव्यः ॥ ॥ १३६८ ॥ १३६९ ॥
त्रिरूपेऽविनाभावसम्बन्धाभावं दर्शयन्नाह—“स श्याम” इत्यादि ।
स श्यामस्तस्य पुत्रत्वाद्दृष्टा श्यामा यथेतरे ।
इति त्रिलक्षणो हेतुर्न निश्चित्यै प्रवर्त्तते ॥ १३७० ॥
“तत्रैके”त्यादिनैकलक्षणस्यैव हेतोः सामर्थ्यं दर्शयत्युदाहरणप्रपञ्चेन—
तत्रैकलक्षणो हेतुर्दृष्टान्तद्वयवर्जितः ।
कथिञ्चिदुपलभ्यत्वाद्भावाभावौ सदात्मकौ ॥ १३७१ ॥
भावाभावौ कथञ्चित्सदात्मकौ कथञ्चिदुपलभ्यत्वात् । अत्र न साधर्म्यवैधर्म्यदृष्टान्तौ बहिर्भूतौ प्रयोगात्मकावर्थात्मकौ वा विद्येते । भावाभावात्मकस्य सर्वपदार्थराशेः पक्षीकृतत्वात् । तद्व्यतिरिक्तस्य चान्यस्याभावात् । पक्षधर्मस्यान्यथानुपपन्नत्वादव्यतिरेकाच्चैकलक्षण एवायम् । “कथञ्चि”दिति । ज्ञेयत्वादिना केनचित्पर्यायेणेत्यर्थः । “सदात्मका”विति । अत्रापि कथञ्चिदिति सम्बन्धनीयम् । तेनायमर्थो भवति—कथञ्चिदुपलभ्यत्वात्कथञ्चित्सदात्मकाविति ॥ १३७१ ॥
इदानीं द्विलक्षणस्य हेतोरुदाहरणान्याह—
चन्द्रत्वेनापदिष्टत्वान्नाचन्द्रः शशलाञ्छनः ।
इति द्विलक्षणो हेतुरयं चापर उच्यते ॥ १३७२ ॥
पतत्कीटकृतेयं मे वेदनेत्यवसीयते ।
पतत्कीटकसंस्पर्शप्रतिलब्धोदयत्वतः ॥ १३७३ ॥
चक्षू रूपग्रहे कार्ये सदाऽतिशयशक्तिमत् ।
तस्मिन्व्यापार्यमाणत्वाद्यदि वा तस्य दर्शनात् ॥ १३७४ ॥
कथञ्चिदसदात्मानो यदि वाऽत्मघटादयः ।
कथञ्चिन्नोपलभ्यत्वात्खरसम्बन्धिशृङ्गवत् ॥ १३७५ ॥
कथञ्चन सदात्मानः शशशृङ्गादयोऽपि च ।
कथञ्चिदुपलभ्यत्वाद्यथैवात्मघटादयः ॥ १३७६ ॥
त्वदीयो वापि तत्रास्ति वेश्मनीत्यवगम्यते ।
भावत्कपितृशब्दस्य श्रवणादिह सद्मनि ॥ १३७७ ॥
अन्यथाऽनुपपत्त्यैव शब्ददीपादिवस्तुषु ।
अपक्षधर्मभावेऽपि दृष्टा ज्ञापकताऽपि च ॥ १३७८ ॥
तेनैकलक्षणो हेतुः प्राधान्याद्गमकोऽस्तु नः ।
पक्षधर्मादिभिस्त्वन्यैः किं व्यर्थैः परिकल्पितैः ॥ १३७९ ॥
नाचन्द्रः शशी चन्द्रः शशीति वा पक्षः, लोके सम्प्रदायप्रसिद्धचन्द्रव्यपदेशाच्चन्द्रत्वेनापदिष्टत्वादिति वा हेतुः, वैधर्म्येण लोष्टादि । अयं चापरो द्विलक्षण उच्यते —पतत्कीटककृतेयं मम वेदना पतत्कीटकसंस्पर्शप्रतिलब्धोदयत्वात् । पततः कीटकस्य पतङ्गस्य स्पर्शेन प्रतिलब्ध उदय उत्पादो ययेत्यर्थः । सामान्यविवक्षा चात्रान्यपदार्थे द्रष्टव्या, तेन टाब्न भवति । विद्यमानरूपग्रहणसाधकतमशक्तिकं चक्षुः, अनुपहतत्वे सति रूपदिदृक्षायां प्रेक्षापूर्वकारिणा करणत्वेन व्यापार्यमाणत्वात्, रूपपरिच्छेदनदर्शनाद्वा । वैधर्म्येण श्रोत्रादि । “तस्ये”ति । रूपस्य । अत्र त्रिष्वपि हेतुष्वसत्याषु साधर्म्यदृष्टान्ताभावाद्द्विरूपत्वम् । आत्मघटादयः कथञ्चिदसदात्मानः कथञ्चिदनुपलभ्यमानत्वात्खरविषाणवत् । अत्र वैधर्म्यदृष्टान्तो न विद्यते । घटादिः सर्वोभावात्मको राशिः कथञ्चिदसदात्मकत्वेन प्रतिज्ञानः, अभावश्च साधर्म्यदृष्टान्तत्वेनोपन्यस्तः । न च भावाभावव्यतिरिक्तं तृतीयमस्ति, यत्र साध्यव्यवच्छेदपूर्वकः साधनव्यवच्छेदो निर्दिश्येत । खरविषाणादयो वा कथञ्चित्सदात्मकाः कथञ्चिदुपलभ्यमानत्वादात्मघटादिवत् । अत्रापि पूर्वकयैव युक्त्या वैधर्म्यदृष्टान्ताभावो योजनीयः । प्रतिपद्यमानत्वदीयपितृकमिदं गृहं, श्रूयमाणत्वदीयपितृकस्वरत्वात् । अत्र किल साधर्म्यदृष्टान्तो नास्तीति द्विरूपता । तथा शब्ददीपादीनां धूमादिलिङ्गवज्ज्ञापकत्वं दृष्टमसत्यपि पक्षधर्मत्वे, न हि शब्ददीपादयो घटाद्यर्थगता धर्माः, अथच प्रतीयते शब्दादेः सकाशादर्थ इति विपक्षाभावोऽन्यथानुपपन्नत्वं चेति द्विरूम्पो हेतुः ॥ १३७२ ॥ १३७३ ॥ १३७४ ॥ १३७५ ॥ १३७६ ॥ १३७७ ॥ १३७८ ॥ ॥ १३७९ ॥
“त”दित्यादिना प्रतिविधत्ते ।
तदिदं लक्षणं हेतोः किं सामान्येन गम्यते ।
जिज्ञासितविशेषे वा धर्मिण्यथ निदर्शने ॥ १३८० ॥
तत्र साध्येनाविनाभावित्वं हेतोः सामान्येन वा स्याद्धर्मिविशेषपरिग्रहाद्विशेषेण वा स्यात् । धर्मिविशेषप“रि”ग्रहाद्विशेषेऽपि जिज्ञासितविशेषसाध्यधर्मिणि वा स्याद्दृष्टान्तधर्मिणि वेतीयन्तः पक्षाः सम्भाव्यन्ते ॥ १३८० ॥
तत्र प्रथमे पक्षे दोषमाह—“सामान्येने”त्यादि ।
सामान्येन गते तस्मिन्नेवं चेत्साध्यधर्मिणि ।
हेतोः सत्त्वं प्रकाश्येत न विवक्षितसिद्धिभाक् ॥ १३८१ ॥
न ह्यविनाभावित्वमात्रेणैव विना पक्षधर्मत्वं शब्दे धर्मिणि चाक्षुषत्वमनित्यत्वस्य गमकं दृष्टमित्ययुक्तः प्रथमः पक्षः । “न विवक्षितसिद्धिभागि”ति । साध्यधर्मिणि न विवक्षितां सिद्धिं भजेदित्यर्थः ॥ १३८१ ॥
कथमित्याह—“तद्यथे”ति ।
तद्यथा चाक्षुषत्वस्य नाशेनाव्यभिचारिता ।
सामान्येन गता तच्च ध्वनौ तस्य न साधनम् ॥ १३८२ ॥
तस्य धर्मिणि सद्भावः ख्याप्यते चेत्तथा सति ।
सैव त्रिरूपताऽऽयाता भवतामपि दर्शने ॥ १३८३ ॥
“तच्चे”ति । चाक्षुषत्वम् । “तस्ये”ति । नाशस्य । साधनम्—गमकम् । अथ माभूद्यथोक्तदोष इति तस्य हेतोः साध्यधर्मिणि सद्भाव आश्रीयते । एवं सति तदेव त्रिरूपत्वं हेतुलक्षणमस्मदीय भवद्दर्शनेऽपि जातम् ॥ १३८२ ॥ १३८३ ॥
कथमित्याह—“अन्यथे”त्यादि ।
अन्यथाऽनुपपत्त्या दि(हि ?) व्यतिरेकान्वयौ गतौ ।
तस्य धर्मिणि सद्भावात्पक्षधर्मत्वसंश्रयः ॥ १३८४ ॥
अन्वयः—सपक्षे सत्त्वं, व्यतिरेकः—विपक्षासत्त्वम्, संश्रयणं संश्रयः, परिग्रह इति यावत् ॥ १३८४ ॥
“आचार्यै”रित्यनेन तन्मताविरोधं प्रतिपादयति ।
आचार्यैरपि निर्द्दिष्टमीदृक्सङ्क्षेपलक्षणम् ।
ग्राह्यधर्मस्तदंशेन व्याप्तो हेतुरितीदृशम् ॥ १३८५ ॥
“ग्राह्यधर्म” इति । ग्राह्यस्य साध्यधर्मिणो धर्मः पक्षधर्म इति यावत ॥ १३८५ ॥
“अथे”ति द्वितीयं पक्षमाह—
अथेदं लक्षणं हेतोर्धर्मिण्येवावगम्यते ।
यतः प्रमाणान्नासिद्धिः साध्यस्यापि ततो न तु ॥ १३८६ ॥
साध्यस्याप्रतिपत्तौ हि हेतोरपि न निश्चयः ।
अतो निरर्थको हेतुरन्यतः साध्यसिद्धितः ॥ १३८७ ॥
अन्योन्याश्रयदोषश्च हेतोः साध्यस्य निश्चये ।
द्वयोरन्यरासिद्धावन्यस्याप्यविनिश्चये ॥ १३८८ ॥
अथ साध्यधर्मिण्येव साध्याविनाभावित्वं हेतोर्यत्तदेव हेतुलक्षणं यथाह— “विना” साध्याददृष्टस्य दृष्टान्ते हेतुतेष्यते । परैर्मया पुनर्धर्मिण्यसम्भूष्णोर्विनाऽमुना ॥ अर्थापत्तेश्च शाबर्या भैक्षवाश्चानुमानतः । अन्यदेवानुमानं नो नरसिंहवदिष्यते ॥ “धर्मि”णीति । साध्यधर्मिणि । अमुना साध्यधर्मेण विना साध्यधर्मिण्यसम्भवनशीलस्येत्यर्थः । एवं तर्हि यत एव प्रमाणाद्धेतुः साध्याविनाभूतः साध्यधर्मिणि सिद्धस्तत एव साध्यमपि सिद्धमिति व्यर्थो हेतुः । अथ साध्यं न सिद्धं तदा हेतुरपि न सिद्ध एव, यस्मात्साध्यधर्मिणि साध्याविनाभाविता हेतुलक्षणम्, तच्चाविनाभावित्वं साध्यासिद्धौ न सिद्धमित्यसिद्धो हेतुः, उभयसिद्धिनान्तरीयकत्वादविनाभावित्वस्य । अन्यतः प्रमाणात्साध्यसिद्धौ हेतुः सिद्ध इति चेत्, किं तदानीं हेतुना, साध्यस्य सिद्धत्वात् । हेतोः सकाशात्साध्यस्य निश्चये कर्त्तव्येऽन्योन्याश्रयदोषश्च स्यात् । कथमित्याह—“द्वयो”रित्यादि । हेतुसिद्धिपूर्विका साध्यसिद्धिः, तदर्थत्वाद्धेतोः, हेतोश्च साध्याविनाभावलक्षणस्य साध्यसिद्धिपूर्विका सिद्धिरिति व्यक्तमितरेतराश्रयत्वम् ॥ १३८६ ॥ १३८७ ॥ १३८८ ॥
तृतीयपक्षमाह—“निदर्शनेऽपी”ति ।
निदर्शनेऽपि तत्सिद्धौ न स्याद्धर्मिणि साध्यधीः ।
न हि सर्वोपसंहारात्तस्य व्याप्तिर्विनिश्चिता ॥ १३८९ ॥
निदर्शने—साध्यधर्मिव्यतिरिक्ते दृष्टान्तधर्मिणीत्यर्थः । “तत्सिद्धा”विति । हेतुसिद्धौ । एतदुक्तं भवति—यदि साध्यधर्मिव्यतिरेकेणान्यत्रैव दृष्टान्तधर्मिणि हेतोरविनाभावित्वमिष्यते, नतु सर्वोपसंहारेण सह साध्यधर्मिणा,तत्कथं साध्यधर्मिणि हेतोः सकाशात्साध्यप्रतिपत्तिः स्यात् । कथञ्च न स्यादित्याह—“नही”त्यादि ॥ १३८९ ॥
“योऽपी”त्यादिना साम्प्रतमुदाहरणानि दूषयते ।
योऽप्ययं हेतुरत्रोक्तः कथञ्चिदुपलम्भतः ।
इति नास्त्येव विषयः सन्दिग्धोऽस्येति निष्फलः ॥ १३९० ॥
योऽयं कथञ्चिदुपलम्भत इति हेतुरुक्तः, असौ निष्फलः, सन्दिग्धस्य विषयस्याभावात् । सिद्धसाध्यत्वादिति यावत् । न हि सिद्धो विषयो हेतोरिष्यते । किं तर्हि ? ।सन्दिग्धः । तथाहि—सन्दिग्धे हेतुवचनात् । व्यस्तवत्सिद्धोऽपि हेतोरनाश्रय एव, सिद्धत्वात्साध्यस्येति ॥ १३९० ॥
अथ स्यात्—सन्दिग्ध एव हेतोरत्रापि विषयोऽस्तीति, अत आह—“भावस्ये”त्यादि ।
भावस्य हि तदात्मत्वं सर्वैरेव विनिश्चितम् ।
कथञ्चित्तस्य साध्यत्वं किमित्थमभिधीयते ॥ १३९१ ॥
कथञ्चित्सदात्मकत्वं भावस्य सर्वैर्यदा निश्चितमेव तदा भवता किमित्थमभिधीयते कथञ्चित्सदात्मको भाव इति । “तदात्मत्व”मिति । सदात्मत्वम् । भावस्येत्युपलक्षणमभावस्यापि । कथञ्चित्—प्रमेयादिरूपेण सदात्मत्वं निश्चितमेवेति व्यर्थो हेतुः ॥ १३९१ ॥
अथ साङ्ख्यादीनामसिद्धमतः साध्यत इत्याह—“सर्वे”त्यादि ।
सर्वभावैक्यवादेऽपि विकारात्मादिभेदतः ।
केनचिद्विशदात्मत्वमात्मना सम्प्रकाश्यते ॥ १३९२ ॥
सर्वभावगतं येऽपि निःस्वभावत्वमाश्रिताः ।
तेऽपि तत्त्वत इत्यादि विशेषणमुपाश्रिताः ॥ १३९३ ॥
सर्वभावानामैक्यवादः साङ्ख्यीयो यस्मिन्वादे स्थितस्तैरेव साङ्ख्यैः केनचिदात्मना स्वभावेन तदात्मत्वं सम्प्रकाश्यत एव । कथमित्याह—“विकरात्मादिभेदत” इति । विकारात्मा विकारस्वभावः । आदिशब्देन प्रकृतिरसङ्कीर्णा सुखदुःखादिस्वभावा पुरुषाश्च परस्परतः प्रकृतेश्च भिन्ना गृह्यन्ते । येऽपीति । माध्यमिकाः । तेऽपि तत्त्वत इति सविशेषणं सर्वभावानां निस्स्वभावत्वमाश्रिताः, नतु सर्वथा । दर्शन(स)मुत्पादादीनामभ्युपगमाच्च । “तत्त्वत” इति । न्यायतः । आदिशब्दात्परमार्थत इत्यादेर्ग्रहणम् । अवश्यं चैतदभ्युपगन्तव्यं सर्वैरेव भावस्य कथञ्चित्सदात्मत्वं निश्चितमिति ॥ १३९२ ॥ १३९३ ॥
कथञ्चिदुपलभ्यत्वमन्यथा नहि सिध्यति ।
व्यवहारस्य साध्यत्वे प्रसिद्धं स्यान्निदर्शनम् ॥ १३९४ ॥
अन्यथैवमनिष्यमाणे कथञ्चिदुपलभ्यमानत्वादित्ययं हेतुरपि न सिध्यति । पूर्वं सिद्धसाध्यता हेतुदोष उक्तः । इदानीं त्वसिद्धतोक्ता । अथ व्यवहारः साध्यते, तदा यत्र पूर्वं व्यवहारः कृतस्तत्प्रसिद्धं निदर्शनं सम्भवतीति त्रिरूप एव स्यात् । अन्यथा निदर्शनाभावे सोपि व्यवहारो न सिद्ध्येत् ॥ १३९४ ॥
द्वितीयप्रयोगे दूषणमाह—“चन्द्रे”त्यादि ।
चन्द्रत्वेनापदिष्टत्वं सपक्षेऽप्यनुवर्त्तते ।
क्वचिन्माणवके यद्वा कर्पूररजतादिके ॥ १३९५ ॥
“माणवक” इति । पुरुषे ॥ १३९५ ॥
ननु च यदि चन्द्रप्रसाधनाय त्रिरूपो हेतुः सम्भवति । कथं तर्हि योऽचन्द्रत्वं शशिनि प्रतिजानीते तं प्रति चन्द्रत्वसाधनाय लोकस्य ब्रुवतोऽनुमानाभाव आचार्येणोक्तो यत्राप्यसाधारणत्वादनुमानाभावे शाब्दप्रसिद्धेन विरुद्धेनार्थेनापोह्यते यथाऽचन्द्रः शशी सत्त्वादिति नासौ पक्षइत्येतेन ग्रन्थेनेत्याशङ्क्याह—“चन्द्रत्वसाधन” इति ।
चन्द्रत्वसाधने हेतावसाधारणता भवेत् ।
प्रसिद्धिव्यतिरेके च वस्तुरूपसमाश्रये ॥ १३९६ ॥
“वस्तुरूपसमाश्रय” इति । वस्तुसदसत्तानुरोधिनि साधने । अत्रासाधारणोक्ता, नतु प्रसिद्धिलक्षणे हेतौ । तस्येच्छानुरोधित्वादस्त्येवान्वयः । यस्मादसौ विप्रतिपन्नः सर्वप्रतीत्यपलापी न शक्यते प्रसिद्धिलक्षणेन चन्द्रत्वं प्रतिपादयितुम् । न चान्यल्लिङ्गमस्ति वस्तुबलप्रवृत्तं, येन चन्द्रत्वं शशिनि प्रतिपाद्येत, चन्द्रादिव्यपदेशस्येच्छामात्रानुरोधित्वेनावस्तुधर्मत्वादिति तं प्रत्यदृष्टान्तकमनुमानमुक्तम् । यथोक्तम् चन्द्रतां शशिनोऽनिच्छन्कां प्रतीतिं स वाञ्छति । इति तं प्रत्यदृष्टान्तं तदसाधारणं मतम् इति । अचन्द्रसाधन इति क्वचित्पाठः । तत्रैवमिति सम्बन्धः । पूर्वपक्षवादिना य उक्तोऽचन्द्रः शशी सत्त्वादिति हेतुस्तस्मिन्नचन्द्रसाधनहेतौ पूर्वपक्षवादिना प्रोक्ते सति चन्द्रत्वसाधनाय तं प्रति प्रवृत्तस्योत्तरपक्षवादिनोऽसाधारणताऽनुमानाभावे कारणमाचार्येणोदितं यत्राप्यसाधारणत्वादनुमानाभाव इत्यादिना प्रसिद्धिव्यतिरिक्तं वस्तुबलप्रवृत्तं लिङ्गमाश्रित्येति ॥ १३९६ ॥
तृतीयेऽपि हेतावाह—“पतदि”त्यादि ।
पतत्कीटकृतत्वस्य न विशेषः समीक्ष्यते ।
पतत्कीटकसंस्पर्शप्रतिलब्धोदयस्य च ॥ १३९७ ॥
“न विशेषः समीक्ष्यत” इति । हेतुप्रतिज्ञयोः । प्रतिज्ञार्थैकदेशो हेतुरिति यावत् । तथाहि—अत्र विशिष्टकीटहेतुत्वं वेदनायाः साध्यत्वेनेष्टम्, तदेव च शब्दान्तरेण हेतुनोक्तमिति न विशेषो हेतुप्रतिज्ञयोः ॥ १३९७ ॥
अथ मतम्—यदा पतत इत्येतद्विशेषणं नोपादीयते प्रतिलब्धोदयत्वादित्येव तु सामान्यं हेतुरुच्यते तदा न प्रतिज्ञार्थैकदेशतेत्याह—“पतत” इत्यादि ।
पततोऽस्येति कार्यं हि ध्रुवं हेतोर्विशेषणम् ।
अन्यथा व्यभिचारित्वं दुर्निवारं प्रसज्यते ॥ १३९८ ॥
कीटान्तरकृतया वेदनया व्यभिचारो मा भूदिति विशेषणं कार्यम् ॥ १३९८ ॥
कार्यताव्यवहारस्तु तस्य विस्मरणे सति ।
यदि साध्यस्त्रिरूपः स्यात्पूर्वसिद्धनिदर्शनात् ॥ १३९९ ॥
अथ कार्यकारणव्यवहारो विस्मृतं प्रति साध्यते, तथासति त्रिरूपो हेतुः स्यादग्निधूमादेः प्रसिद्धकार्यकारणस्य दृष्टान्तत्वेन विद्यमानत्वात् ॥ १३९९ ॥
चक्षूरूपेत्यादावाह—“चक्षुष” इत्यादि ।
चक्षुषो धर्मिरूपस्य सत्ता तावदनिश्चिता ।
तस्याश्च साधनं युक्तं नासिद्ध्यादिप्रसङ्गतः ॥ १४०० ॥
तस्याश्च साधनं युक्तं नेति छेदः । असिद्ध्यादीत्यादिशब्देन व्यभिचारविरोधयोर्ग्रहणम् । सत्तायां साध्यायां सर्वो हेतुर्दोषत्रयं नातिवर्त्तते । तथाहि—भावे धर्मे हेतावसिद्धता, उभयधर्मेऽनैकान्तिकता, अभावधर्मे विरुद्धता । यथोक्तम्— नासि द्धेर्भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः । धर्मो विरुद्धो भावश्च सा सत्ता साध्यते कथम् ॥ इति । अथ चक्षुषि धर्मिणि चक्षुर्विज्ञानोत्पादनशक्तिः साध्यते, तदापि शक्तिः सत्तेत्यादेः पर्यायत्वात्तत्साधने सत्तासाधनप्रसङ्गः । व्यतिरेकेऽपि तस्या अतीन्द्रियत्वेनासिद्धत्वादाश्रयासिद्धो हेतुः स्यात् । एवं रूपग्रहणादित्ययमप्यपक्षधर्मत्वादसिद्धो द्रष्टव्यः ॥ १४०० ॥
कथं तर्हि भवतामपि चक्षुरादीन्द्रियसिद्धिरित्याह—“किन्त्वि”त्यादि ।
किन्तु रूपादिभावेऽपि चक्षुर्ज्ञानं न जायते ।
कदाचित्तेन तन्मात्रं न हेतुरिति गम्यते ॥ १४०१ ॥
“कदाचिदि”ति । निमीलितलोचनावस्थायाम् । न ह्यस्माभिराहत्य चक्षुरादीदन्तया साध्यते, अपितु ज्ञानं केषुचिद्रूपादिषु सत्स्वन्वयव्यतिरेकावनुभवदृश्यते, तस्य कारणान्तरापेक्षिता तन्मात्रासम्भविता च साध्यत इति तदेव ज्ञानं धर्मीति नासिद्ध्यादिदोषः । यत्तत्कारणान्तरं तच्चक्षुरिति व्यवह्रियते । सिद्धान्ताश्रयस्तु भेदव्यवहारः ॥ १४०१ ॥
स्यादेतत्—भवतु यथोक्तया नीत्या विज्ञानस्य धर्मित्वम्, तथापि द्विरूप एव हेतुरित्याह—“स्वहेत्वि”ति ।
स्वहेतुनियतोद्भूतिरङ्कुरादिश्च विद्यते ।
तस्मिन्दृष्टान्त एवं च वैलक्षण्यमतिस्फुटम् ॥ १४०२ ॥
स्वहेतुनियता—हेतुप्रतिबद्धा,उद्भूतिर्यस्यासौ स तथोक्तः । एवम्भूताः स्वकारणायत्तजन्मानोऽङ्कुरादयः कादाचित्का दृष्टान्तत्वेन सम्भवन्तीति यावत् । एवं च प्रयोगः कार्यः । ये यत्सन्निधाने कादाचित्कास्ते न तन्मात्रसम्भविनः, कारणान्तरसव्यपेक्षकाश्च, तद्यथा—सत्स्वपि क्षित्यादिषु बीजसन्निधानासन्निधानाभ्यामन्न्वयव्यतिरेकिणोऽङ्कुरादयः, सत्स्वपि रूपादिषु कादाचित्कं चक्षुर्ज्ञानं निमीलितानिमीलितावस्थायामिति व्यापकविरुद्धोपलब्धिः प्रतिषेधे । विधौ तु स्वभावहेतुः ॥ १४०२ ॥
कथञ्चिदित्यादावाह—“कथं”चिदिति ।
कथञ्चिदसदात्मत्वसाधने च घटादिषु ।
पूर्ववद्धेतुवैफल्यमप्रसिद्धिश्च दृश्यते ॥ १४०३ ॥
अत्रापि सिद्धसाध्यता, केनचित्प्रकारेण घटादीनामसत्त्वस्य सिद्धत्वात् । अथ न सिद्धम्, अनुपलभ्यमानत्वादित्ययं हेतुरपि न सिध्यतीत्यसिद्धो हेतुरिति पूर्ववद्वाच्यं दूषणं यथा सदात्मत्वसाधने हेतावुक्तम् ॥ १४०३ ॥
यदुक्तं विपक्षाभावाद्वैधर्म्यदृष्टान्तो नास्तीत्यत्राह—“अस्ति चे”त्यादि ।
अस्ति चात्रापि विस्पष्टं वैधर्म्येण निदर्शनम् ।
तदेव तेषां स्वं रूपं प्रयाति हि विपक्षताम् ॥ १४०४ ॥
कथञ्चन सदात्मत्वसाधनेपि निरात्मसु ।
इष्टसिद्धिरसिद्धिश्च वैधर्माप्तिस्तथैव च ॥ १४०५ ॥
येन रूपेणोपलभ्यन्ते घटादयस्तेन रूपेण सदात्मत्वं तेषामिष्टमेव यदा तदा स एव स्वभावस्तेषां वैधर्म्यदृष्टान्तो भवेदेव । तस्मिन्स्वभावेऽनुपलभ्यमानत्वस्य हेतोर्निवृत्तत्वात् । एवं कथञ्चनेत्यत्रापि प्रयोगे तुल्या इष्टसिद्ध्यादयः । “निरात्म”स्विति ।अभावेषु । “वैधर्म्याप्ति”रिति वैधर्म्यस्य साध्यनिवृत्तिलक्षणस्य साधनाभावेनाप्तिर्व्याप्तिः ।“तथैवे”ति । स्वभावस्य वैधर्म्यसम्भवेन ॥ १४०४ ॥ १४०५ ॥
त्वदीयेत्यादावाह—“पितृशब्दे”त्यादि ।
पितृशब्दश्रुतेर्याऽपि वेश्मनः प्रतिपाद्यते ।
पितृसम्बन्धिता तत्र व्यक्तो हेतुस्त्रिलक्षणः ॥ १४०६ ॥
क्वचिद्विप्रतिसम्बद्धः स्वरः प्रागुपलक्षितः ।
तस्याननुभवे पूर्वं दुर्द्धरा हेत्वसिद्धता ॥ १४०७ ॥
“तस्ये”ति । पितृसम्बद्धस्यान्यत्र क्वचित्प्रदेशेऽननुभवे सत्यसिद्धो हेतुः स्यात् ॥ १४०६ ॥ १४०७ ॥
“यस्मि”न्नित्यादिना तदेव त्रैरूप्यमादर्शयति ।
यस्मिन्प्रागुपलब्धश्च नोपलब्धश्च यत्र सः ।
अन्वयो व्यतिरेको वा विस्पष्टं तत्र दृश्यते ॥ १४०८ ॥
शब्दस्तु ज्ञापयत्यर्थं नैव बाह्यं कथञ्चन ।
अन्यथासम्भवाभावाद्विलक्षागमकस्त्वसौ ॥ १४०९ ॥
तस्यां च प्रतिपाद्यायां वैलक्षण्यमतिस्फुटम् ।
विवक्षासम्मुखीभावे न हि शब्दः प्रयुज्यते ॥ १४१० ॥
दीपस्तु ज्ञापको नैव नीलादेर्लिङ्गभावतः ।
ज्ञानोत्पादनयोग्यस्य जननात्तु तथोच्यते ॥ १४११ ॥
ज्ञापके लिङ्गरूपे च पक्षधर्मादि चिन्त्यते ।
अन्यथा चक्षुरादीनां कस्मादेतन्न चोद्यते ॥ १४१२ ॥
अन्यथानुपपत्त्याऽपि चाक्षुषत्वं न साधकम् ।
पक्षधर्मवियोगेन क्लीबास्तेनैकलक्षणाः ॥ १४१३ ॥
एकरूपतयोक्तानां द्वैरूप्यं चोपलक्षितम् ।
द्विरूपत्वेन चोक्तानां त्रैरूप्यं पक्षधर्मतः ॥ १४१४ ॥
अन्यथाऽनुपपत्त्यैव चाक्षेपादिति चेन्न तत् ।
शब्दादावन्यथापीष्टे चाक्षुषत्वेऽथ नास्त्यसौ ॥ १४१५ ॥
शब्दस्य बाह्यार्थापेक्षयाऽन्यथानुपपन्नत्वमसिद्धमिति तं प्रत्यलिङ्गत्वमिच्छामात्रवृत्तित्वात्तस्य, अथ बुद्धिपरिवर्त्तिनमर्थमपेक्ष्य,तदा त्रैलक्षण्यमस्त्येव धूमस्येव, यतो विवक्षाया असम्मुखीभावे शब्दस्याप्रयोगात्तत्कार्यत्वाद्धूमवज्जातवेदसे गमक इष्ट एव, नतु वाचकरूपेण । प्रदीपस्तु लिङ्गद्वारेण धूमवन्न ज्ञापक इष्टः । किं तर्हि ? ।विज्ञानजननयोग्यघटाद्युत्पादनेन ज्ञापको रूढो नतु लिङ्गत्वेनेति तस्य लिङ्गभूतस्य पक्षधर्मत्वादिचिन्ता न युक्तैव । अन्यथा चक्षुरादीनामपि पक्षधर्मत्वादि चोदनीयंस्यात् । अन्यथेत्यादि प्रकृतार्थोपसंहारः । यतश्चाक्षुषत्वमनित्यत्वाविनाभाव्यपि शब्देतदनित्यत्वं न साधयति, यतश्चावश्यं सर्वत्र पक्षधर्मत्वमाश्रयणीयम्, अतः पक्षधर्मत्वाश्रयणादेकरूपतयोक्तानां द्वैरूप्यमावश्यकं, द्विरूपतया चोक्तानां त्रैरूप्यं तत एव पक्षधर्मत इत्येकलक्षणा एव क्लीबा हेतवः । न चैतद्वक्तव्यमन्यथानुपपत्त्यैव पक्षधर्मादय आक्षिप्ता अतः पृथक् स्वातन्त्र्येण न तेषां लक्षणत्वमिति । यतः पक्षधर्मत्वमन्तरेणाप्यन्यथानुपपन्नत्वमस्तीति स्वयमेवोक्तम्— अन्यथानुपपत्त्यैव शब्दादिवस्तुष्वपक्षधर्मभावेऽपि दृष्टा ज्ञापकतापि चेति । चाक्षुषत्वे चानित्यत्वान्यथानुपपन्नेऽप्यसौ पक्षधर्मो नास्तीत्यनेकान्त एव ॥ १४०८ ॥ १४०९ ॥ १४१० ॥ १४११ ॥ ॥ १४१२ ॥ १४१३ ॥ १४१४ ॥ १४१५ ॥
यदुक्तं स श्यामस्तत्पुत्रत्वादित्येष त्रिलक्षणेऽपि न निश्चित्यै प्रवर्त्तत इत्यत्राह—“तत्पुत्रे”त्यादि ।
तत्पुत्रत्वादिहेतूनां सन्दिग्धव्यतिरेकतः ।
न त्रैलक्षण्यसद्भावो विजातीयाविरोधतः ॥ १४१६ ॥
तत्पुत्रश्च भविष्यति नच श्याम इति नात्र कश्चिद्विरोध इति सन्दिग्धविपक्षव्यावृत्तिकत्वान्नायं त्रिलक्षण इत्यसिद्धो दृष्टान्तः ॥ १४१६ ॥
स्यादेतत—अस्त्येव विरोधः । कारणाभेदे सति यदि कार्यं भिद्देत निर्हेतुकं स्यादित्याह—“कर्मे”त्यादि ।
कर्माहारादिहेतूनां सर्वथापि विशेषतः ।
सम्भाव्यतेऽन्यथाभावस्तत्पुत्रत्वेऽपि तस्य हि ॥ १४१७ ॥
नायं स्वभावः कार्यं वा दृश्यस्यादृष्टिरेव वा ।
नच तद्व्यतिरिक्तस्य भवत्यव्यभिचारिता ॥ १४१८ ॥
शुभादिकर्मविशेषादुष्णशीताद्याहारावस्थाभेदाच्चान्यथाभावो गौरादित्वं सम्भाव्यत इति कुतो विरोधः, कारणभेदस्य सिद्धत्वात् । अपिच तत्पुत्रत्वादिति नायं स्वभावहेतुर्यथा कृतकत्वं, नहि कृतकत्वस्यान्यत्तत्त्वमस्ति मुक्त्वाऽनित्यत्वम् नव्वेवं तत्पुत्रत्वस्यान्यः स्वभावो नास्ति, यतः पञ्चोपादानस्कन्धात्मकस्य कञ्चिदपेक्ष्य तत्पुत्र इति व्यपदेशो नतु श्यामत्वस्य । नापि कार्यहेतुः । कार्यकारणभावासिद्धेः । नाप्यनुपलब्धिर्विधिविषयत्वात् । विरोधाभावाच्च न श्यामेतरवर्णाभावसिद्धिः । नचैतद्व्यतिरिक्तं लिङ्गमस्त्यन्यत्र प्रतिबन्धाभावात् । नच प्रतिबन्धमन्तरेण गमकत्वमतिप्रसङ्गात्तस्मान्नायं हेतुर्नापि त्रिलक्षण इति कुतोऽव्यभिचारः । दृश्यस्यादृष्टिरुपलब्धिलक्षणप्राप्तानुपलब्धिः ॥ १४१७ ॥ १४१८ ॥
“न”नु चेत्यादिनाऽव्यापितां लक्षणदोषमाह—
ननु चाव्यभिचारित्वमन्येषामपि दृश्यते ।
कुमुदानां विकासस्य वृद्धिश्च जलधेर्यथा ॥ १४१९ ॥
लिङ्गं चन्द्रोदयो दृष्ट आतपस्य च भावतः ।
छायायाः परभागेषु सद्भावः सम्प्रतीयते ॥ १४२० ॥
तमस्युल्मुकदृष्टौ च धू्म आरात्प्रतीयते ।
कृत्तिकोदयतश्चापि रोहिण्यासत्तिकल्पना ॥ १४२१ ॥
यथा चन्द्रोदयात्कुमुदविकाससमुद्रवृद्ध्योरनुमानम् । आदिग्रहणात्सूर्योदयात्पद्मविकाशस्य, आतपसद्भावात्पर्वतादिषु परभागे च्छायानुमितिः, एवं दूरात्तमस्युल्मुकमर्द्धदग्धकाष्ठखण्डकं दृष्ट्वा धूमप्रतीतिः, तथा कृत्तिकानक्षत्रोदयाद्रोहिणीनक्षत्रस्यास न्नत्वं प्रतीयते यतोऽश्विनीमारभ्य यथापाठं क्रमेणैव नक्षत्राणामुदय इति प्रसिद्धम् । न चास्य सर्वस्य हेतुत्रयान्तर्भावोऽस्तीति तत्किमुच्यते न तद्व्यतिरिक्तस्य भवत्यव्यभिचारितेति ॥ १४१९ ॥ १४२० ॥ १४२१ ॥
अत्रोत्तरमाह—“तदत्रे”त्यादि ।
तदत्र हेतुधर्मस्य तादृशोऽनुमितैर्मताः ।
जातास्तदेककालास्ते सर्वे बोधादयोऽपरे ॥ १४२२ ॥
कार्यात्कारणसंसिद्धिरियमेवंविधानतः ।
सम्बन्धानुपपत्तौ च सर्वस्यापि गतिर्भवेत् ॥ १४२३ ॥
यस्मात्कारणात्ते बोधादयः—कुमुदविकाशादयो जाताः—उत्पन्नाः । किंविशिष्टाः ? । तदेककालाः—तैश्चन्द्रोदयातपोल्मुकैरेककालास्तादृशस्य हेतुधर्मस्य—हेतुविशेषस्यानुमितैर्मताः । एतदुक्तं भवति—यदेव कारणं चन्द्रोदयादीनां कुमुदबोधादिसमानकालोत्पन्नानां तदेव कुमुदबोधादिषु सहकारिकारणतां प्रतिपद्यत इति ते चन्द्रोदयादयस्तथाभूतं स्वकारणमनुमापयन्तोऽर्थान् समानकालभावीन्यपि कुमुदबोधादीन्यनुमापयन्ति, नतु साक्षादित्येवंविधं कार्यहेतावेवान्तर्भवतीति । अवश्यं चैतद्वोद्धव्यम्—यदि पुनरप्रतिबन्धादेव गमयन्ति तदा यत्किञ्चिद्गमयेयुरप्रतिबद्धत्वेनाविशिष्टत्वात् । तस्मादत्रापि प्रतिबन्धो वाच्यः । स च यथोक्तकार्यकारणभावलक्षण एव भवति ॥ १४२२ ॥ १४२३ ॥
रोहिण्यासत्त्या तर्हि कृत्तिकोदयस्य कः प्रतिबन्ध इत्याह—“प्रभञ्जने”त्यादि ।
प्रभञ्जनविशेषश्च कृत्तिकोदयकारणम् ।
यः स एव हि सन्तत्या रोहिण्यासत्तिकारणम् ॥ १४२४ ॥
हेतुधर्मप्रतीतिश्च तत्प्रतीतिरतो मता ।
तत्प्रतीतिः स्वतन्त्राऽस्ति न तु काचिदिहापरा ॥ १४२५ ॥
प्रभञ्जनो वायुः । अत्राप्येकसामग्र्यधीनत्वाद्धेतुधर्मानुमानमिति । यथोक्तम्—एकसामग्र्यधीनत्वं स्वरूपादेस्सतो गतिः । हेतुधर्मानुमानेन धूमेन्धनविकारवत् ॥ इति ॥ १४२४ ॥ १४२५ ॥
अथ प्रतिबिम्बाद्बिम्बस्य या गतिस्तस्या न क्वचिदन्तर्भावोऽस्त्यवस्तुत्वात्प्रतिबिम्बस्य । तस्मादव्यापि लक्षणमित्याशङ्क्याह—“लिङ्गा”च्चेत्यादि ।
लिङ्गाच्च प्रतिबिम्बाख्यादनुमानं प्रवर्त्तते ।
यद्बिम्बविषयं युक्तं तत्रान्यत्कार्यलिङ्गजात् ॥ १४२६ ॥
“सहैकत्रे”त्यादिना चोदकाभिप्रायमाशङ्कते ।
सहैकत्र द्वयासत्त्वान्न वस्तुप्रतिबिम्बकम् ।
तत्कथं कार्यता तस्य युक्ता चेत्पारमार्थिकी ॥ १४२७ ॥
अवस्तुत्वे हेतुः सहैकत्र द्वयासत्त्वादिति । यत्रैव प्रदेशे आदर्शरूपं दृश्यते प्रतिबिम्बकं च तत्रैव, न चैकत्र प्रदेशे रूपद्वयस्यास्ति सहभावः, सप्रतिघत्वात्, अतः सहैकत्र द्वयो रूपयोः सत्त्वं न प्राप्नोति । तस्माद्भ्रान्तिरियम् । अथवा—“सहैकत्र द्वयासत्त्वा”दिति । कतमस्य द्वयस्य ? । आदर्शतलस्य चन्द्रप्रतिबिम्बस्य च । अन्यत्रैव देशे आदर्शतलं भवति, अन्यत्रैवान्तर्गतं चन्द्रप्रतिबिम्बकं दृश्यते कूप इवोदकम् । अन्यत्र चोत्पद्यमानं किमित्यन्यत्रोपलभ्यते । अतो नास्त्येव किञ्चिद्वस्तुभूतं प्रतिबिम्बकं नाम । सामग्र्यास्तु तस्यास्तादृशः प्रभावोऽयं तथा तद्दर्शनम् । अचिन्त्या हिधर्माणां शक्तिप्रभेदा इति ॥ १४२७ ॥
“मूर्त्ते”त्यादिना परिहरति ।
मूर्त्तस्य प्रतिबिम्बस्य यद्यप्यस्य न वस्तुता ।
तदाभासं तु विज्ञानं केनावस्तु भविष्यति ॥ १४२८ ॥
तस्यैव चात्र लिङ्गत्वं कार्यं चेष्टं तदेव हि ।
बिम्बाधिपत्यादेतद्धि निरालम्बं प्रवर्त्तते ॥ १४२९ ॥
ज्ञानमेवात्र तथाभूतं कार्यं लिङ्गमभिप्रेतं, नतु बाह्यं प्रतिबिम्बाख्यं वस्तु ॥ १४२८ ॥ ॥ १४२९ ॥
कथमुक्तं त्रिरूपलिङ्गवचनं परार्थं पुनरुच्यत इति,यावता पक्षनिगमोपनयवचनमप्यन्यैः परार्थमनुमानं कीर्त्तितम् । एतदेव दर्शयन्नाह—“प्रतिज्ञे”त्यादि ।
प्रतिज्ञादिवचोऽप्यन्यैः परार्थमिति वर्ण्यते ।
असाधनाङ्गभूतत्वात्प्रतिज्ञाऽनुपयोगिनी ॥ १४३० ॥
“असाधने”त्यादिना प्रतिविधत्ते । सिद्धिः साधनं, प्रमेयाधिगतिरिति यावत्, तस्याङ्गभूतम्—कारणम्, तस्य प्रतिषेधोऽसाधनाङ्गभूतत्वम् । तस्मादसाधनाङ्गभूतत्वादनुपयोगिनी न प्रयोक्तव्येत्यर्थः । अनुपयोगिनी—अकारणभूतेतिव्याख्यानेप्रतिज्ञार्थैकदेशः स्यात् ॥ १४३० ॥
कथमसाधनाङ्गमित्याह—“असम्बन्धा”दित्यादि ।
असम्बन्धान्न साक्षाद्धि सा युक्तार्थोपपादिका ।
असक्तसूचनान्नापि पारम्पर्येण युज्यते ॥ १४३१ ॥
साध्यसाधनधर्मस्य विषयस्योपदर्शनात् ।
दृष्टान्तपदवत्त्वेष साधनाङ्गं यदीष्यते ॥ १४३२ ॥
अभ्यनुज्ञादिवाक्येन नन्वत्र व्यभिचारिता ।
निष्फलं च तदा यत्र विषयस्योपदर्शनम् ॥ १४३३ ॥
असक्तसंसूचकत्वं तु साध्यस्यैवाभिधानात् । एतदुक्तं भवति—शब्दानामर्थेन सह सम्बन्धाभावान्न तावत्साक्षादुपयुज्यते, नापि हेतुवचनवत्पारम्पर्येण, सक्तासंसूचकत्वादिति । यथोक्तम्— तत्पक्षवचनं चक्रुरभिप्रायनिवेदने । प्रापणं संशयोत्पत्तेस्ततः साक्षान्न साधनम् ॥ साध्यस्यैवाभिधानेन पारम्पर्येण नाप्यलम् ॥ इति । केचिन्मन्यन्ते—साध्यसाधनधर्मयोर्विषयोपदर्शनार्थमनवयवभूताऽपि सती दृष्टान्तपदवत्प्रतिज्ञा प्रयोक्तव्येति । यतो रूपद्वयं शेषं दृष्टं तेन प्रदर्श्यते इति वचनात् । दृष्टान्तपदं पृथगनवयवभूतमपि पक्षधर्मव्यतिरिक्तरूपद्वयप्रदर्शनार्थमेव प्रयुज्यत इति । तान्प्रत्याह—“दृष्टान्ते”त्यादि । अभ्यनुज्ञावाक्यम्—एवं कुरु शब्दमनित्यं साधयेति । आदिशब्देनाज्ञाभ्यर्थनावाक्यं गृह्यते । एवम्भूतस्यापि वाक्यस्य प्रयोगनिर्देशार्थं निर्देशः स्यात्, नह्येभिरपि विनाऽकाण्ड एव साधनस्य प्रवृत्तिः सम्भवतीति । “निष्फल”मिति । विनापि तेन साध्यप्रतीतेः । तथाहि—यत्कृतकं तत्सर्वमनित्यं कृतकश्च शब्द इत्येतावन्मात्रे प्रोक्तेऽनित्यः शब्द इति प्रतीतिर्भवत्यन्तरेणापि प्रतिज्ञावचनम् ॥ १४३१ ॥ १४३२ ॥ १४३३ ॥
सपक्षादिंव्यवस्था चेत्कथं पक्षाप्रयोगतः ।
नातस्त्रैरूप्यमप्यस्ति तदपेक्षानिबन्धनम् ॥ १४३४ ॥
सपक्षादिव्यवस्था तर्हि कथम् । तथाहि—साध्यधर्मसामान्येन समानोऽर्थः सपक्ष इत्युच्यते । तदभावः प्रसाधितश्चासपक्ष इति । असति हि प्रतिज्ञानिर्देशे तदपेक्षानिबन्धनं सपक्षाश्रयनिबन्धनं त्रैरूप्यमपि नास्तीति सर्वमालूनविस्ती(की ?)र्णं स्यादिति ॥ १४३४ ॥
“ने”त्यादिना प्रतिविधत्ते ।
न साधनाभिधानेस्ति सपक्षादिविकल्पना ।
शास्त्रे तु प्रविभज्यन्ते व्यवहाराय ते तथा ॥ १४३५ ॥
तथाह्यव्युत्पन्नसपक्षादिव्यवहारो भटादिरपि यत्र धूमस्तत्र वह्निर्धूमश्चात्रेत्येतावन्मात्रमुक्तोऽवधारितान्वयव्यतिरेकः सपक्षादिव्यवहारमन्तरेणैव वह्निं प्रतिपद्यत एव, तस्मान्न साधनकाले सपक्षादिव्यवस्थाऽस्ति । कुत्र तर्हि सपक्षादिव्यवहार इत्याह—“शास्त्रे” त्विति ॥ १४३५ ॥
यदि वा साधनाभिधानकालेऽपि तद्व्यवस्था क्रियमाणा न विरोधिनीति प्रतिपादयति—“प्रकृते”त्यादि ।
प्रकृतार्थाश्रया साऽपि यदि वा न विरुध्यते ।
न वाद्यकाण्ड एवाह परस्यापि हि साधनम् ॥ १४३६ ॥
यद्यपि साधनाभिधानकाले प्रतिज्ञाप्रयोगो नास्ति, तथापि प्रकृतमर्थं साध्यधर्मिणं समाश्रित्य सा व्यवस्था क्रियमाणा न विरुध्यत एव । नचैतद्वक्तव्यं साधनकाले प्रकृत एवार्थो नास्तीति, यतो न, अकाण्ड एव—अप्रस्ताव एव, परस्यापि— प्रतिज्ञाप्रयोगवादिनः, वादी साधनमाह ॥ १४३६ ॥
भवतु नाम जिज्ञासितविशेषो धर्मी प्रकृतः, तथापि सा क्रियमाणा व्यवस्था प्रकृतं धर्मिणमाश्रित्य कथं कर्त्तव्येत्याह—“जिज्ञासिते”ति ।
जिज्ञासितविशेषे हि वर्त्तनात्पक्षधर्मता ।
सपक्षस्तत्समानत्वाद्विपक्षस्तदभावतः ॥ १४३७ ॥
सुबोधम् ॥ १४३७ ॥
उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनय इत्युपनयलक्षणम् । तत्रोपनयवचनं न साधनम्, उक्तहेत्वर्थप्रकाशत्वात्, द्वितीयहेतुवचनवदित्याचार्यदिग्नागपादैः प्रमाणिते, भाविविक्तादयो हेत्वसिद्ध्यर्थमाहुः—न स्वलु पक्षधर्मत्वं प्रतिज्ञानन्तरभाविना हेतुवचनेन प्रकाश्यते, कारणमात्राभिधानात् । अनित्यः शब्दो भवति कृतकत्वात्, तत्पुनः कृतकत्वं किं शब्देऽस्ति नास्तीति चेति, तस्यास्तित्वमुपनयात्प्रतीयते । अथवा प्रतिबिम्बनार्थमुपनयनं, पूर्वं हि हेतुवचनेन निर्विशेषं कृतकत्वं शब्दे निर्दिष्टं, तेन दृष्टान्ते प्रदर्शितसाध्याविनाभावित्वस्य कृतकत्वस्योपनयेनप्रतिबिम्बनमुषनसा ( मुपनयात् ? ) दर्श्यते—तथाच कृतकः शब्द इति । तस्माद्विशेषद्योतनान्न पुनरुक्ततेति । अत्राह—“प्रतिज्ञे”त्यादि ।
प्रतिज्ञानभिधाने च कारणानभिधानतः ।
कर्त्तव्योपनयस्योक्तिर्न सद्भावप्रसिद्धये ॥ १४३८ ॥
प्रागुक्ते भावमात्रे च पश्चाद्व्याप्तेः प्रकाशनात् ।
विवक्षितार्थसंसिद्धेर्विफलं प्रतिबिम्बकम् ॥ १४३९ ॥
“सद्भावप्रसिद्धय” इति । हेतोर्धर्मिणीति शेषः । अयमत्रार्थः—प्रतिज्ञाप्रयोगस्य यथोक्तया नीत्या निषिद्धत्वात्तत्समनन्तरभाविकृतकत्वादिकारणाभिधानं नास्त्येव । ततश्च कारणाभिधानपूर्वस्योपनयस्योक्तिर्न कर्त्तव्यैव । अथोपनयस्योक्तिः पक्षधर्मत्वप्रसाधनाय क्रियते, तदा कारणाभिधानस्य फलमन्यद्वक्तव्यम् । तत्रैतत्स्यात्कारणत्वप्रतिपादनमेव फलमिति । तन्न । तेनैव तावत्प्रतिपादितेन कोऽर्थो यतोऽन्यथाऽपि साध्यसिद्धिर्भवत्येवेति दर्शितमेव । तस्मात्पक्षधर्मत्वप्रतिपादनं मुक्त्वा नान्यत्फलं शक्यते हेतुवचनस्य वक्तुम् । तदा प्रथमतस्तेनैव हेतुवचनेन पक्षधर्मत्वे प्रतिपादिते तत्प्रतिपादनायोपनयनमुपादीयमानं स्फुटतरमेव पुनरूक्ततां प्रकाशयतीति कुतोऽसिद्धता हेतोः । प्रतिबिम्बनमपि व्यर्थमेव, यतस्तस्मिन्पक्षधर्ममात्रे हेतुवचनेन प्रागुक्ते सति साध्यधर्मेण च तस्य व्याप्तौ कथितायां विवक्षितार्थसंसिद्धेरुच्यमानं स्फुटतरमेव पुनरुक्ततामावहतीति कुतोऽत्राप्यसिद्धता हेतोः ॥ १४३८ ॥ १४३९ ॥
तत्र हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनमिति निगमनलक्षणम् । तस्मादनित्य इत्यादौ तस्मादित्यनेन हेतोः सामर्थ्यमुदाहरणप्रसिद्धमपदिश्य यत्प्रतिज्ञार्थं पुनर्वचनं क्रियते तन्निगमनम् । निगम्यन्तेऽनेन प्रतिज्ञाहेतूदाहरणोपनया एकार्थतया समर्थ्यन्ते सम्बध्यन्त इति निगमनम् । तत्र प्रतिज्ञाप्रयोग एव तावन्नास्ति, कुतस्तदनुवादात्मकस्य निगमनस्येत्यतो निगमनं न साधनावयवः । तत्राचार्यदिङ्नागपादैरुक्तम्—निगमनं पुनरुक्तत्वादेव न साधनमिति । अत्रोद्योतकरादयः प्राहुः—न पौनरुक्त्यमत्र, यस्मात्साध्यनिर्देशः प्रतिज्ञा, निगमनं तु सिद्धनिर्देशः, । न च निगमनेन विना सिद्धिरस्ति । तथाहि—तेन विना तदन्यावयवोक्तावपि शङ्का न निवर्त्तते किमनित्यः शब्द इति, अतस्तदाशङ्कानिवृत्त्यर्थं वाच्यं, निगमनं पृथगिति । तदत्राह—“त्रिरूपे”त्यादि ।
त्रिरूपहेतुनिर्देशसामर्थ्यादेव सिद्धितः ।
न विपर्ययशङ्कास्ति व्यर्थं निगमनं ततः ॥ १४४० ॥
अनित्यत्वेन प्रदर्शिताविनाभावि कृतकत्वं यदा शब्दे धर्मिणि निश्चितं, कुतस्तत्र विपर्ययस्य नित्यत्वस्य शङ्का, नहि ज्वलज्ज्वलनज्वालाकलापपरिगते परिनिश्चितात्मनि भूतत्त्वे शैत्याशङ्का कर्तुं युक्ता स्वस्थचेतसः । नापि निगमनाद्वचनमात्रान्निर्युक्तिकात्तु सा विनिवर्त्तते ॥ १४४० ॥
अविद्धकर्णस्त्वाह— विप्रकीर्णैश्च वचनैर्नैकार्थः प्रतिपाद्यते । तेन सम्बन्धसिध्यर्थं वाच्यं निगमनं पृथक् । इति अत्राह—“सम्बद्धै”रिति ।
सम्बद्धैरेव वचनैरेकोऽर्थः प्रतिपाद्यते ।
नातः सम्बन्धसिद्ध्यर्थं वाच्यं निगमनं पृथक् ॥ १४४१ ॥
हेतोः साध्येन तादात्म्यतदुत्पत्तिलक्षणे सम्बन्धे प्रतिपादितेऽर्थद्वारेण सम्बद्धैरेव पक्षधर्मान्वयव्यतिरेकवचनैरेकोऽर्थः सामर्थ्याद्यथासमीहितः प्रतिपाद्यत इति । यद्यपि विप्रकीर्णानि वचनानि, तथापि सम्बद्धान्येवैकार्थोपसंहारेणेति न तत्सम्बन्धसिद्धये पृथग्निगमनं वाच्यम् ॥ १४४१ ॥
द्वैविध्यमनुमानस्य केचिदेवं प्रचक्षते ।
विशेषदृष्टसामान्यपरिदृष्टत्वभेदतः ॥ १४४२ ॥
“केचि”दिति । “कुमारिलादयः” । ते हि—द्विविधमनुमानं विशेषतोदृष्टं सामान्यतोदृष्टं चेति वर्णयन्ति ॥ १४४२ ॥
तत्र विशेषतोदृष्टं कतरदित्याह—“प्रत्यक्षे”त्यादि ।
प्रत्यक्षदृष्टसम्बन्धं ययोरेव विशेषयोः ।
गोमयेन्धनतद्देशविशेषादिमतिः कृता ॥ १४४३ ॥
तद्देशस्थेन तेनैव गत्वा कालान्तरेऽपि तम् ।
यदाऽग्निं बुध्यते तस्य पूर्वबोधात्पुनः पुनः ॥ १४४४ ॥
सन्दिह्यमानसद्भाववस्तुबोधात्प्रमाणता ।
विशेषदृष्टमेतच्च लिखितं विन्ध्यवासिना ॥ १४४५ ॥
अग्निधूमान्तरत्वे तु वाच्ये सामान्यतोमितौ ।
सामान्यदृष्टमेकान्ताद्गन्तेत्यादित्य उच्यते ॥ १४४६ ॥
अयमर्थः—पूर्वं कश्चित्क्वचित्प्रदेशविशेषे वह्निधूमविशेषौ प्रत्यक्षेण गृहीत्वा कालान्तरेण दूरं गतो वा यदा पुनःपुनस्तमेव धूमविशेषं दृष्ट्वा तमेव वह्निं पूर्वं परि गृहीतमनुमिमीते तद्विशेषतोदृष्टमनुमानम्, पूर्वप्रत्यक्षगृहीतविशेषविषयत्वात् । नचगृहीतग्राहित्वादप्रमाणम्, यतः किं वह्निरास्ते परिनिवृत्तो वेति सन्देहविनिवृत्तेरधिकाया विद्यमानत्वात् । इति पिण्डार्थः । अवयवार्थस्तूच्यते—“प्रत्यक्षदृष्टसम्बन्ध”मिति । कः सम्बन्धः । अत्रोच्यते । शबरस्वामिनाऽनुमानलक्षणमुक्तम्—अनुमानं ज्ञातसम्बन्धस्यैकदेशदर्शनादेकदेशान्तरेऽसन्निकृष्टे बुद्धिः । तद्द्विविधं प्रत्यङ्क्षदृष्टसम्बन्धं सामान्यतोदृष्टसम्बन्धं च । प्रत्यक्षदृष्टसम्बन्धो यथा—धूमाकृतिदर्शनादग्न्याकृतेर्विज्ञानम् । सामान्यतोदृष्टं यथा—देवदत्तस्य गतिपूर्विकां देशान्तरप्राप्तिमुपलभ्यादित्यस्य गतिस्मरणमिति । तत्र कुमारिल एतत्प्रत्यक्षतोदृष्टसम्बन्धमनुमानं व्याचिख्यासुराह—“प्रत्यक्षे”त्यादि । प्रत्यक्षे दृष्टसम्बन्धमनुमानमेवं प्रचक्षत इति सम्बन्धः । यतः पूर्वस्मिन्ननन्तरश्लोके एवं प्रचक्षत इति प्रकृतम् । “ययो”रिति । ययोरेवाग्निधूमविशेषयोर्विषयभूतयोर्गोमयेन्धनविशेषबुद्धिः कृता—उत्पादिता पुरुषेण—गोमयेन्धनप्रभवावेतावग्निधूमाविति, तथा पर्वतादिदेशविशेषमतिः कृता—एतत्पर्वतादिदेशविशेषस्थाबेतावग्निधूमाविति । गोमयमिन्धनं ययोरग्निधूमयोस्तौ गोमयेन्धनौ, स देशो ययोस्तौ तद्देशौ गोमयेन्धनौ च तौ तद्देशौ चेति विग्रहः । तावेव विशेषौ तावादी येषां सर्जसरलसल्लकीवनप्रभृतीनां वह्न्यादिविशेषान्तराणां तानि गोमयेन्धनतद्देशविशेषादीनि । तेषु मतिरिति सप्तमी(ति)योगविभागात्समासः । सा—एवम्भूताप्रत्यक्षा मतिर्येन प्रमात्रा कृता—उत्पादिता, स तद्देशस्थेन तेनैव धूमादिना लिङ्गेन तमेवाग्निं कालान्तरेण यदा बुध्यते । पुनः पुनरिति सम्बन्धः । तदा तस्य बोधस्य पूर्वबोधात्प्रत्यक्षात्मकात्प्रमाणता—प्रमाणान्तरतेत्यर्थः । अथवा—पूर्वबोधात्कारणात्तमेव वह्निं बुध्यत इति सम्बन्धः । किमास्ते वह्निराहोस्विन्निवृत्त इत्येवं सन्दिह्यमानः सद्भावो यस्य वस्तुनस्तत्तथा, तच्च तद्वस्तु चेति तत्तथा, तस्य बोध इति विग्रहः । एतच्च यथोक्तं प्रत्यक्षदृष्टसम्बन्धमनुमानं विशेषतो दृष्टमनुमानमित्येवं विन्ध्यवासिना गदितम् । सामान्यतो दृष्टमाह—“अग्निधूमे”त्यादि । भाष्यकारेण हि सामान्यतोदृष्टानुमाने देशान्तरप्राप्त्याऽऽदित्यगतिस्मरणमुदाहृतम् । तत्रेदं चोद्यं भवति—“ननु” चाग्न्यन्तरे धूमान्तरे च सामान्यधर्मसमाश्रयेण यदाऽनुमितिः क्रियते तदा सामान्यतोदृष्टमनुमानमग्निधूमयोरस्त्येव, किमिति भाष्यकारेणाग्निधूमौ बुद्धौ विपरिवर्त्तमानत्वेन प्रत्यासन्नावृत्सृज्याऽऽदित्य एव सामान्यतोदृष्टावुदाहृत इत्येतच्चोद्यमाशङ्क्य कुमारिलो भाष्यकाराभिप्रायं वर्णयन्नाह—“अग्निधूमान्तर” इति । सामान्य तोऽनुमितौ—सामान्यतोदृष्टानुमाने उदाहरणत्वेनाग्निधूमान्तरत्वे वाच्ये यद्भाष्यकारेणादित्योदाहरणं कृतं तत्सर्वकालमादित्यगतेरप्रत्यक्षत्वादेकान्तेन । अत्राऽऽदित्यगतौ सामान्यतोदृष्टमेवानुमानं सम्भवति न विशेषतोदृष्टमिति मन्यमानेनासङ्कीर्णंविषयं दर्शयितुमादित्य एवोदाहरणत्वेनोच्यते, न पुनरग्निधूमयोः सामान्यतोदृष्टस्यैवानुमानस्याभावादिति ॥ १४४३ ॥ १४४४ ॥ १४४५ ॥ १४४६ ॥
“तदत्रे”त्यादिना दूषणमाह—
तदत्र क्षणभङ्गस्य व्यापिनः प्रतिपादनात् ।
प्राक्तनस्यैव तेनैव नानुमानस्य सम्भवः ॥ १४४७ ॥
कल्पितं चेत्तदेकत्वं प्रबन्धैक्यविवक्षया ।
न तस्यावस्थितिः काचिद्वस्तुत्वं नच भाविकम् ॥ १४४८ ॥
“व्यापिन” इति । अग्निधूमादिसकलपदार्थव्यापकस्य ।सत्यपि क्षणिकत्वे प्रबन्धैकत्वादेकत्वमिति चेदाह—“कल्पित”मिति । तदा कल्पितमेकत्वं न पारमार्थिकं, परमार्थतस्तु न कस्यचिदवस्थितिः । ततश्च तद्देशस्थेन तेनैवेत्येतन्न युज्यते । नापिकल्पितस्य वस्तुत्वं, ततश्च सन्दिह्यमानसद्भाववस्तुबोधादित्यसम्बद्धं स्यात् ॥ १४४७ ॥ ॥ १४४८ ॥
अथापि स्यात्कल्पनासमारोपितमेवैक्यमाश्रित्य विशेषतो दृष्टमाख्यातम्, न भाविकमित्याह—“नचे”त्यादि ।
नच निर्विषयं ज्ञानं युष्माभिरनुमन्यते ।
विकल्पितार्थतायां च व्यक्तं निर्विषयं भवेत् ॥ १४४९ ॥
स्यादेतद्यद्यपि व्यक्तिर्विनाशिनी जातिस्त्वनपायिनी विद्यते,ततश्च भाविकमेकत्वं भविष्यति, नच निर्विषयत्वमित्याह—“व्यक्तिरूपे”त्यादि ।
व्यक्तिरूपस्य नाशेऽपि तिष्ठत्येवाकृतिस्तयोः ।
यदि न क्षणभङ्गाप्तेर्भावे तस्या अपि ध्रुवम् ॥ १४५० ॥
प्रत्यक्षदृष्टः सम्बन्धो ययोरेव विशेषयोः ।
इत्ययं नियमश्चोक्तो युष्माभिः केन हेतुना ॥ १४५१ ॥
दृष्ट्वैकदानुमानेन तस्यैव ह्यनुमा पुनः ।
प्रमाणं नेष्यते कस्मात्को विशेषो हि पूर्वके ॥ १४५२ ॥
विज्ञातार्थाधिगन्तृत्वान्न प्रमाणमिदं यदि ।
स्मार्त्तवत्प्राक्तनोऽप्येतत्समानं किं न वीक्ष्यते ॥ १४५३ ॥
अन्तरालप्रवृत्तस्य सन्देहस्य निवर्त्तनात् ।
आधिक्यं तत्र चेदेतदत्रापि सदृशं न किम् ॥ १४५४ ॥
तस्मात्किमस्ति नास्तीति सन्देहविनिवृत्तिकृत् ।
स एवेति निराकाङ्क्षमेतत्सामान्यदर्शनम् ॥ १४५५ ॥
आकृतिः—जातिः । यदीत्यभ्युपगमे । जातिव्यक्त्योः परेणैक्यस्येष्टत्वात्कुतो व्यक्तिविनाशे जातेरवस्थानं सम्भवति, अन्यथा भिन्नयोगक्षेमत्वादेकान्तेन तयोर्भेदोऽभ्युपगन्तव्यः स्यात् । “भाव” इति । अयमभ्युपगमवाद एव । एकदा तावज्जातिर्विस्तरेण निरस्तैवेति कुतस्तस्याः सत्त्वम् । भावेऽपि—सत्त्वेऽपि । तस्या अपि क्षणभङ्गः प्राप्नोति । व्यापिनः क्षणभङ्गस्य प्रसाधनात् । अपि च—यदाऽनुमानपरिच्छिन्नं पुनरपि तत एव लिङ्गात्तमेव वह्निं परिच्छिनत्ति, तदाऽपि विशेषतो दृष्टं किं न वर्णितम्, येन प्रत्यक्षतो दृष्ट इति विशेषणमिष्टम् । अधिगतार्थाधिगन्तृत्वादिति चेत् । न । प्रत्यक्षदृष्टेऽपि तत्तुल्यम् । अन्तरालवर्त्तिसन्देहनिवर्त्तनमधिकं प्रत्यक्षदृष्टेऽस्तीति चेन्न । अनुमानदृष्टेऽपि समानमाधिक्यम् । तस्मात्सर्वत्रैव सामान्यतो दृष्टमेव क्षणक्षयिषु भावेष्वनुमानं न विशेषतो दृष्टं नाम ॥ १४५० ॥ १४५१ ॥ ॥ १४५२ ॥ १४५३ ॥ १४५४ ॥ १४५५ ॥
न प्रमाणमिति प्राहुरनुमानं तु केचन ।
विवक्षामर्पयन्तोऽपि वाग्भिराभिः कुदृष्टयः ॥ १४५६ ॥
“केचि”दिति । बार्हस्पत्यादयः । “आभि”रिति । नानुमानं प्रमाणमित्येवंरूपाभिः । अनेन स्ववचनविरोधमाह । तथाहि—वचनाल्लिङ्गाद्विवक्षा प्रतीयत इति मन्यमानेन परस्मै स्वाभिप्रायनिवेदनाय व्याहरता दर्शितमनुमानस्य प्रामाण्यम्, नच तत्प्रमाणमिति ब्रुवता तदेव प्रतिषिद्धमितीतरेतरव्याघातः । एतच्च दूषणं पश्चाद्व्यक्तीकरिष्यते ॥ १४५६ ॥
त्रिरूपलिङ्गपूर्वत्वात्स्वार्थं मानं न युज्यते ।
इष्टघातकृता जन्यं मिथ्याज्ञानं यथा किल ॥ १४५७ ॥
भावादननुमानेऽपि न चानुमितिकारणम् ।
द्वैरूप्यमिव लिङ्गस्य त्रैरूप्यं नास्त्यतोऽनुमा ॥ १४५८ ॥
अनुमानविरोधस्य विरुद्धानां च साधने ।
सर्वत्र सम्भवात्किञ्च विरुद्धाव्यभिचारिणः ॥ १४५९ ॥
तत्र तावच्चार्वाकाः प्रमाणयन्ति—स्वार्थानुमानं प्रमाणं न भवति, त्रिरूपलिङ्गपूर्वत्वान्मिथ्याज्ञानवत् । परार्थाश्चक्षुरादयः सङ्घातत्वाच्छयनासनाद्यङ्गवदित्येतस्येष्टविघातकृतः किल त्रिरूपत्वान्मिथ्याज्ञानमेतज्जन्यं त्रिरूपलिङ्गजमिति । नच त्रैरूप्यमनुमितिकारणम्, अननुमानेऽपि भावाद्द्वैरूप्यवत् । अपिच सर्वत्र साधनेऽनुमानविरोधः सम्भवति । तद्यथा—विवक्षितसाध्यधर्मो धर्मिविशेषणं न भवति एतत्समुदायैकदेशत्वाद्धर्मिस्वरूपवत् । अनेन हि सर्वमनुमानं निरनुमानीकृतम् । सर्वत्र चानुमाने कृते विशेषविरुद्धानां सम्भवस्तद्यथा—अनित्यः शब्दः कृतकत्वाद्घटवदिति कृते कश्चिद्विशेषविरुद्धमुद्भावयेत् । यथाऽयं हेतुरनित्यत्वं साधयति तथाऽऽकाशगुणत्वाभावमपीत्येवमादि । सर्वत्र च विरुद्धाव्यभिचारी सम्भवति । तद्यथा—अनित्यः शब्दः कृतकत्वाद्घटवदिति कृते कश्चिद्विरुद्धाव्यभिचारिणमाह—नित्यः शब्दः श्रावणत्वाच्छब्दत्ववदिति । एवमादिस्तत्त्वटीकायामुदाहरणप्रपञ्चो द्रष्टव्यः ॥ १४५७ ॥ १४५८ ॥ ॥ १४५९ ॥
तथा भर्तृहरिराह—
अवस्थादेशकालानां भेदाद्भिन्नासु शक्तिषु ।
भावानामनुमानेन प्रसिद्धिरतिदुर्लभा ॥ १४६० ॥
विज्ञातशक्तेरप्यस्य तां तामर्थक्रियां प्रति ।
विशिष्टद्रव्यसम्बन्धे सा शक्तिः प्रतिबध्यते ॥ १४६१ ॥
यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ १४६२ ॥
अवस्थादेशकालभेदेन पदार्थानां शक्तयो भिन्नाः । अतो न शक्यतेऽनुमानात्तद्भावनिश्चयः कर्तुम्, न ह्येवं शक्यतेऽनुमानात्प्रत्येतुम्—देवदत्तो भारोद्वहनसमर्थो न भवति, देवदत्तत्वाद्बालावस्थदेवदत्तवदिति । अत्र ह्यवस्थाभेदेन शक्तिभेदसम्भवाद्व्यभिचारः । तथा देशभेदेनामलकीखर्जूरादीनां रसवीर्यविपाकभेदो दृश्यते, तत्र नैवं शक्यते कर्तुम्—सर्वाऽऽमलकी कषायफला, अनुभूयमानामलकीवदिति । तथा कालभेदेन कूपोदकादीनां शीतोष्णादिभेदः सम्भवति, तत्र सर्वा आपः शीता इति न शक्यते निश्चयः कर्तुम् । इत्येवमादि । “अवस्थादेशकालाना”मिति भेदादित्येतदपेक्ष्य षष्ठी । भावानामिति प्रसिद्ध्यपेक्षया । तथा तृणादिषु निश्चितदहनसामर्थ्यस्याग्नेरभ्रपटले तत्सामर्थ्यं प्रतिहन्यते, न च तत्रैवमनुमातुं शक्यते—अभ्रपटलमग्निना दह्यते पार्थिवत्वात्तृणादिवदिति । तथाऽन्येनान्यथा प्रतिपादितोऽर्थः पुनरभियुक्ततरेणान्येनान्यथा प्रतिपाद्यत इत्यनिष्टा ॥ १४६० ॥ १४६१ ॥ १४६२ ॥
परार्थमनुमानं तु न मानं वक्रपेक्षया ।
अनुवादान्न तेनासौ स्वयमर्थं प्रपद्यते ॥ १४६३ ॥
श्रोतृव्यपेक्षयाऽप्येतत्स्वार्थमेवोपपद्यते ।
श्रोत्रदर्शनमूलायाः को विशेषो हि संविदः ॥ १४६४ ॥
न परार्थानुमानत्वं वचसः श्रोत्रपेक्षया ।
श्रोतृसन्तानविज्ञानहेतुत्वज्ञापकत्वतः ॥ १४६५ ॥
यथेन्द्रियस्य साक्षाच्च नानुमेयप्रकाशनम् ।
तस्मादस्याविनाभावसम्बन्धज्ञानवन्न तत् ॥ १४६६ ॥
अथोच्यते परार्थत्वं परव्यावृत्त्यपेक्षया ।
तदप्ययुक्तं स्वार्थेपि परार्थत्वप्रसङ्गतः ॥ १४६७ ॥
अन्यः पुनराह—परार्थमनुमानं वक्रपेक्षयाऽनुवादत्वान्न प्रमाणम् । श्रोत्रपेक्षया तु स्वार्थमेव, को हि विशेषः श्रोत्रद्वारेण तमर्थं प्रतिपद्यते दर्शनद्वारेण चेति । यथा दर्शनेन्द्रियस्य व्यापारे सति परार्थव्यपदेशो न भवति, एवं श्रोत्रेन्द्रियव्यापारोऽपि माभूदिति । दर्शनम्—चक्षुरिन्द्रियम् । दृश्यतेऽनेनेति कृत्वा । “संविद” इति । ज्ञानस्य । तथा न श्रोत्रपेक्षया वचनस्य परार्थानुमानत्वम्, श्रोतृसन्तानवर्त्तिज्ञानहेतुत्वात्, ज्ञापकत्वाद्वा, इन्द्रियवदिति । श्रोतृसन्तानविज्ञानहेतुत्वं च ज्ञापकत्वं चेतिद्बन्द्वेन हेतुद्वयनिर्देशः । यथेन्द्रियस्येति दृष्टान्तनिर्देशः । अयमपरः प्रयोगः—न परार्थानुमानत्वं वचनस्य श्रोत्रपेक्षया, साक्षादनुमेयाऽप्रकाशकत्वात्, अविनाभावसम्बन्धज्ञानवत् । “तस्मा”दिति । साक्षादनुमेयाप्रकाशकत्वात् । यस्मात्साक्षादनुमेयाप्रकाशकत्वं तस्मान्न श्रोत्रपेक्षया वचसः प्रामाण्यमविनाभावसम्बन्धज्ञानवदितिवाक्यार्थः । अविनाभावः साध्येन साधनस्य, स एव सम्बन्धः साध्येन यस्य लिङ्गस्य तस्य ज्ञानमिति विग्रहः । अथ परव्यापारापेक्षया तदुच्यते परार्थ इति । तथा ऽप्ययुक्तं, स्वार्थेऽपि परार्थत्वप्रसङ्गात्, आपेक्षिकत्वात्परत्वस्य, पारावारवत् ॥ १४६३ ॥ ॥ १४६४ ॥ १४६५ ॥ १४६६ ॥ १४६७ ॥
“त्रिरूपलिङ्गे”त्यादिना प्रतिविधत्ते—
त्रिरूपलिङ्गपूर्वत्वं ननु संवादिलक्षणम् ।
तल्लक्षणं च मानत्वं तत्किं तस्मान्निषिध्यते ॥ १४६८ ॥
तत्र प्रथमे प्रयोगे त्रिरूपलिङ्गपूर्वत्वादित्यस्य हेतोर्विरुद्धतामाह—“संवादिलक्षण”मिति । संवादित्वमनेन लक्ष्यत इति कृत्वा । यतस्त्रिरूपलिङ्गजं यज्ज्ञानं तत्पारम्पर्येण वस्तुनि प्रतिबद्धमतोऽविसंवादकं प्रत्यक्षवत् । यथाह—लिङ्गलिङ्गिधियोरेवं पारम्पर्येण वस्तुनि । प्रतिबन्धात्तदाभासशून्ययोरप्यवञ्चनम् ॥ इति । “तल्लक्षणं चे”ति । अविसंवादलक्षणम् । यथाह—प्रमाणमविसंवादिज्ञानमिति । नहि प्रत्यक्षेऽपि तत्प्रमाणवादिनाऽन्यत्प्रमाणव्यवस्थानिबन्धनं शक्यमादर्शयितुमन्यत्राविसंवादात् । स च त्रिरूपलिङ्गजन्येऽप्यस्तीति किमिति तस्मात्रिरूपलिङ्गपूर्वत्वादविसंवादित्वहेतोः प्रामाण्यं निषिध्यते । एतेन साध्यसाधनयोरर्थतो विरोध उक्तः । तथाहि —यत्र त्रिरूपलिङ्गपूर्वत्वं तत्राविसंवादित्वं यत्राविसंवादित्वं तत्र प्रामाण्यं, प्रामाण्याप्रामाण्ययोश्च परस्परपरिहारस्थितलक्षणो विरोध इति सामर्थ्याद्विरुद्धो हेतुर्निर्दिष्टः ॥ १४६८ ॥
“मिथ्याज्ञान”मित्यादिना दृष्टान्तस्य साध्यविकलतामाह ।
मिथ्याज्ञानं समानं च पूर्वपक्षव्यपेक्षया ।
इष्टघातकृता जन्यं ज्ञानमुक्तं न वस्तुतः ॥ १४६९ ॥
वस्तुस्थित्या हि तज्ज्ञानमविसंवादि निश्चितम् ।
वादीष्टविपरीतस्य प्रमाणमत एव तत् ॥ १४७० ॥
अतो विरुद्धता हेतोर्दृष्टान्ते चाप्यसाध्यता ।
एतेनैव प्रकारेण द्वितीये हेत्वसिद्धता ॥ १४७१ ॥
यतो वादीष्टविपरीतसाधनात्तदपि प्रमाणमेव, अन्यथा हि साध्यान्तरमपेक्ष्य सर्वदैव सर्वस्य यद्यप्रामाण्यं व्यवस्थाप्येत, प्रत्यक्षेऽपि प्रसङ्गः स्यात् । पूर्वपक्षापेक्षया तु तन्मिथ्याज्ञानमुक्तम् न वस्तुस्थित्या । पूर्वस्य—प्रथमवादिनः पक्षः, पूर्वपक्षः— तस्य व्यपेक्षेति विग्रहः । यो ह्यनाधेयातिशयैकपरा(दा ?)र्थत्वं चक्षुरादीनामिच्छति तदभिप्रायापेक्षया मिथ्याज्ञानमुच्यते । अनित्यानेकविज्ञानादिहेतुत्वेन चक्षुरादीनांसिद्धत्वात् । “विरुद्धते”ति । त्रिरूपलिङ्गपूर्वत्वस्याप्रमाणे क्वचिदप्यभावात् । प्रमाणे तु तत्रैवेष्टविघातकृता जन्ये ज्ञाने भावात् । ननु च लोकायतं प्रति विरुद्धसाधने कर्त्तव्येदृष्टान्तो न सिद्ध एव । नहीष्टविघातकृज्जन्यं ज्ञानं प्रमाणमिच्छति परः, नचान्यतरासिद्धो दृष्टान्तो भवति । य एव तूभयनिश्चितवाची स एव साधनदूषणमिति न्याय(यात् ?) उच्यते—यद्यपि परेणात्र प्रामाण्यं नेष्टं वाचा, तथाप्यसंवादित्वं त्वशक्यापह्नवत्वादिष्टमेव, तदिच्छतां सामर्थ्यात्प्रामाण्यमपि तेन वस्तुस्थित्याऽभ्युपगन्तव्यमिति वस्तुबलप्रकृत्या विरुद्ध उद्भाव्यते न पराभ्युपगमानुरोधेन । अथवा विरुद्धहेतुसंसूचनाद्विरुद्धः । तत्र विरुद्धो हेतु—यदविसंवादि तत्प्रमाणं यथा प्रत्यक्षं, संवादि च त्रिरूपलिङ्गजन्यं ज्ञानमिति स्वभावहेतुः । नचासिद्धो निःस्वभावत्वानिर्हेतुत्वप्रसङ्गात्, प्रत्यक्षाप्रामाण्यप्रसङ्गान्नैकान्तिकः । “असाध्यते”ति । नात्र साध्यमस्तीत्यसाध्यस्तद्भावोऽसाध्यता । साध्यविकलतेति यावत् । “द्वितीय” इति । नच त्रैरूप्य इत्यादौ । “हेत्वसिद्धते”ति । अननुमाने क्वचिदप्यभावात् । “एतेनैवे”ति ।त्रिरूपलिङ्गेत्यादिना न्यायेन ॥ १४६९ ॥ १४७० ॥ १४७१ ॥
अनुमानविरोधस्येत्यादौ परिहारमाह—“यत्तादात्म्ये”त्यादि ।
यत्तादात्म्यतदुत्पत्त्या सम्बन्धं परिनिश्चितम् ।
तदेव साधनं प्राहुः सिद्धये न्यायवादिनः ॥ १४७२ ॥
अनुमानविरोधादिरीदृशेऽस्ति न साधने ।
नैव तद्ध्यात्महेतुभ्यां विना सम्भवति क्वचित् ॥ १४७३ ॥
परस्परविरुद्धौ न धर्मौ नैकत्र वस्तुनि ।
युज्येते सम्भवो नातो विरुद्धाव्यभिचारिणः ॥ १४७४ ॥
“ईदृश इति” । तादात्म्यतदुत्पत्तिप्रतिबद्धे । “आत्महेतुभ्या”मिति । स्वभावेन कारणेन च विना यथाक्रमं तल्लिङ्गं न भवति निःस्वभावत्वनिर्हेतुत्वप्रसङ्गात् । यदुक्तम्—विवक्षितः साध्यधर्मो न धर्मिविशेषणमिति, तत्र यदि साध्यधर्मो न धर्मिविशेषणं तदा समुदाय एव नास्तीति ततश्चैतत्समुदायैकदेशत्वादित्यसिद्धो हेतुःस्यात् । यच्चोक्तम्—सर्वत्रानुमाने विशेषविरुद्धानां सम्भव इति तदयुक्तम् । यतः साध्यविपर्ययसाधनाद्बिरुद्ध इष्यते, नच विशेषः साधयितुमिष्टः । वस्तुबलप्रवृत्ता नुमाने विषये न विरुद्धाव्यभिचारी च सम्भवति । एकस्मिन्धर्मिणि परस्परविरुद्धधर्मद्वयप्रसङ्गात् ॥ १४७२ ॥ १४७३ ॥ १४७४ ॥
यदुक्तमवस्थादेशकालानामित्यादि, तत्राह—“अभ्यस्ते”त्यादि ।
अभ्यस्तलक्षणानां च सम्यग्लिङ्गविनिश्चये ।
अनुमावृत्तिरन्या तु नानुमेत्यभिधीयते ॥ १४७५ ॥
अवस्थादेशकालानां भेदाद्भिन्नासु शक्तिषु ।
भावानामनुमानेन नातः सिद्धिः सुदुर्लभा ॥ १४७६ ॥
यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।
नान्यथा साध्यते सोऽन्यैरभियुक्ततरैरपि ॥ १४७७ ॥
सुपरिनिश्चितं लिङ्गं गमकमिष्यते न सन्दिग्धम्, नहि धूमो बाष्पादिरूपेण सन्दिह्यमानो वह्नेर्निश्चायको भवति । लिङ्गनिश्चय एव कथमिति चेत् । अभ्यासात् । यथा मणिरूपादिषु तद्विदाम् । तथाहि—विवेचयन्त्येव बाष्पादिभ्यो धूमादीनभ्यस्ततत्स्वलक्षणाः । अ(थ)विवेच्य प्रवृत्ताश्चैते प्राप्नुवन्त्येव वह्निम् । तस्माद्यतः सुविवेचितं लिङ्गं न व्यभिचरति, तेनावस्थादिभेदभिन्नानां सिद्धिर्न दुर्लभा । नापि सुविवेचिताल्लिङ्गात्परिनिश्चितोऽर्थोऽन्यथा शक्यते कर्तुम् । नहि धूमात्सुपरिनिश्चितादनुमितस्य वह्नेरन्यथाभावः शक्यते कर्तुम्, एकस्य विरुद्धस्वभावद्वयायोगात् । यच्चोक्तं —न देवदत्तो भारोद्वहनसमर्थ इत्यादि, यच्चाभ्रपटलं वह्निना दह्यत इति, तल्लिङ्गमेव न भवति त्रैरूप्याभावात् । नह्यदर्शनमात्रेण विपक्षाद्धेतोर्व्यावृत्तिः शक्यते कर्तुम् ।यदाह— नचादर्शनमात्रेण विपक्षाद्व्यतिरेकिता इति । किं तर्हि । तादात्म्यतदुत्पत्तिसम्बन्धनियमादविनाभावनियमः । यदाह— कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमोऽदर्शनान्न न दर्शनात् इति ॥ नचात्र तादात्म्यतदुत्पत्तिसम्बन्धोऽस्ति ॥ १४७५ ॥ १४७६ ॥ १४७७ ॥
स्यादेतत्—सुपरिनिश्चितं लिङ्गं न व्यभिचरतीत्येतदेव कुतो नह्यत्र युक्तिरस्तीत्याह—“नहि स्वभाव” इत्यादि ।
नहि स्वभावः कार्यं वा स्वभावात्कारणादृते ।
भेदानिमित्तताप्राप्तेस्ते विनाऽस्ति न चानुमा ॥ १४७८ ॥
द्विविधमेव हि लिङ्गं यदुत स्वभावः कार्यमिति । अनुपलब्धेस्तु स्वभावेऽन्त र्भावः । नच स्वभावकारणाख्येन लिङ्गिना विना तयोर्लिङ्गयोः सम्भवोऽस्ति, येन व्यभिचारः स्यात् । कस्मान्न सम्भत्र इत्याह—भेदानिमित्तताप्राप्तेः—भेदश्चानिमित्तता च तयोः प्राप्तिः । स्वभावहेतोर्भेदोऽस्वभावता प्राप्नोति, कार्यहेतोरनिमित्तत्वं निर्हेतुकत्वं प्राप्नोति, नच स्वभावकार्यव्यतिरेकेणान्यल्लिङ्गमिष्टमन्यत्राप्रतिबन्धादविनाभावायोगात् । “ते विने”ति । स्वभावकार्ये । द्विवचनान्तमेतत् ॥ १४७८ ॥
यदुक्तं परार्थनुमानं तु मानमिति तत्राह—“त्रिरूपलिङ्गे”त्यादि ।
त्रिरूपलिङ्गवचसः सक्तसंसूचकत्वतः ।
यत्परार्थानुमानत्वमुक्तं तच्छ्रोत्रपेक्षया ॥ १४७९ ॥
गौणं साङ्केतिकं चैवमनुमानत्वमाश्रितम् ।
सक्तसंसूचकत्वेन तेन नातिप्रसज्यते ॥ १४८० ॥
नानुमानं प्रमाणं चेद्विफला व्याहतिस्तव ।
न कश्चिदपि वादो हि विवक्षां प्रतिपद्यते ॥ १४८१ ॥
वचनस्य यत्परार्थानुमानत्वमुक्तं तच्छ्रोत्रपेक्षा, तेन वक्रपेक्षाभावी दोषो न भवति । श्रोत्रपेक्षयाऽपि त्रिरूपलिङ्गसूचनादुपचारेणानुमानकारणत्वात्समयाद्वाऽनुमानत्वमुक्तम् । सक्तसंसूचक एवानुमानसञ्ज्ञानिवेशात् । तेनेन्द्रियस्याविनाभावित्वसम्बन्धज्ञानस्य च परार्थानुमानत्वप्रसङ्गादतिप्रसङ्गो न भवति, तयोः सक्तसंसूचकत्वाभावात् । अत एव दर्शनमूलयोः संविदः सकाशादस्या विशेषः । तथाहि —दर्शनज्ञानेन साक्षाद्धूमादेर्लिङ्गस्य प्रतीतिर्न तु श्रोत्रज्ञानेन, तेन हि शब्द एव साक्षाद्गृह्यते, नच शब्दो धूमवद्बास्यार्थस्य लिङ्गं विवक्षाप्रतिबद्धस्य बाह्येन सम्बन्धासिद्धेः । केवलं तस्य धूमादेर्लिङ्गस्य संसूचकत्वेन सङ्केतवशात्तथाध्यव(सा)यिविकल्पोत्पत्तेर्बाह्यार्थापेक्षया परार्थमिति वर्ण्यते । विवक्षायां तु गम्यायां श्रोत्रपेक्षया स्वार्थमेव भवति । तथाहि—तत्कार्यत्वाद्धूमवद्विवक्षायां गमक इष्यते । न वाचकत्वेन । ततो ज्ञानाप्रतीतेः । “विफला व्याहृति”रिति । नानुमानं प्रमाणमित्येषा । तथाहि न कश्चित्प्रतिपाद्यस्तद्वचनाद्विवक्षां प्रतिपद्यते । अनेन स्ववचनविरोधमाह । एतच्च पूर्व वर्णितमेव ॥ १४७९ ॥ १४८० ॥ १४८१ ॥
पुरन्दरस्त्वाह—लोकप्रसिद्धमनुमानं चार्वाकैरपीष्यत एव, यत्तु कैश्चिल्लौकिकं मार्गमतिक्रम्यानुमानमुच्यते तन्निषिध्यत इति । एतदाशङ्क्य दूषयन्नाह—“लौकिक”मित्यादि ।
लौकिकं लिङ्गमिष्टं चेन्न त्वन्यैः परिकल्पितम् ।
ननु लोकोऽपि कार्यादेर्हेत्वादीनवगच्छति ॥ १४८२ ॥
तत्त्वतस्तु तदेवोक्तं न्यायवादिभिरप्यलम् ।
तल्लौकिकाभ्यनुज्ञाते किं त्यक्तं भवति स्वयम् ॥ १४८३ ॥
“ननु लोकोऽपी”ति । हेत्वादीनवगच्छतीति सम्बन्धः । कार्यादेरित्यादिशब्दात्स्वभावग्रहणम् । एवं हेत्वादीनित्यत्रापि स्वभावग्रहणमेव । बहुवचनं तु व्यक्तिभेदात् । यदेव लिङ्गं तादात्म्यतदुत्पत्तिप्रतिबद्धाल्लोकार्थ प्रतिपद्यते तदेवोक्तं लिङ्गमस्माभिः, तदभ्यनुज्ञाने किं त्यक्तं स्याद्यस्यानुमानत्वनिषेधो भवेत् ॥ १४८२ ॥ १४८३ ॥
अथापि स्यान्नैवास्माकं किञ्चिदनुमानमिष्टं, किन्तु परेण तत्प्रमाणमिष्टं,तदभ्युपगमान्मम विफला व्याहृतिर्न भवतीति, अत्राह—“अप्रमाणेने”त्यादि ।
अप्रमाणेन चैतेन परः किं प्रतिपद्यते ।
अप्रमाणकृतश्चासौ प्रत्ययः कीदृशो भवेत् ॥ १४८४ ॥
कुतश्चायं निश्चयो जातः परेण तत्प्रमाणमभ्युपगतमिति, नहि पराभ्युपगमः प्रत्यक्षः, न चान्यत्तव प्रमाणमस्ति, येन निश्चयः स्यात् । भवतु नाम निश्चयः, तथाऽपि तेनाप्रमाणेन पराभ्युपगतेन किमिति परः प्रतिपद्यते, न वै व्यसनमेतत् । अथापि स्याद्यथा रिपुहस्तादाच्छिद्य खङ्गं तेनैव स एव रिपुर्निपात्यते, एवं परेणयत्प्रमाणत्वेनाभ्युपगतं तदेव गृहीत्वा परो निराक्रियत इत्याशङ्क्याह—“अप्रमाणकृत” इति । एतदुक्तं भवति—यदि मोहात्परेणाप्रमाणमेव प्रमाणमिति कृत्वा सङ्गृहीतङ्कथं तेनाप्रमाणेन परस्य सम्यग्ज्ञानोत्पादनं शक्यते कर्तु, सम्यग्ज्ञानफलत्वात्प्रमाणस्य । नहि मोहात्खड्ग इति कृत्वा गृहीतेन येनकेनचिच्छेदकेन परश्छेत्तुं शक्यत इति न समानो दृष्टान्तः ॥ १४८४ ॥
अविद्धकर्णस्तत्वटीकायामाह—ननु वा प्रमाणेन किमिति परः प्रतिपाद्यते, उभयसिद्धं हि प्रतिपादकं भवतीति । तदेतदयुक्तम् । यस्माद्वचनात्मकमनुमानं नच वक्तुः प्रमाणम्, अथ च वक्ता तेन परं प्रचिपादयति,परप्रतिपादनार्थत्वात्प्रयासस्य । नावश्यमुभयसिद्धेन प्रयोजनमिति । तदाशङ्कते—“अनुमान”मित्यादिना ।
अनुमानं प्रमाणं चेच्चक्रुर्न वचनात्मकम् ।
प्रकाशयति तेनायं यथा तद्वदिदं भवेत् ॥ १४८५ ॥
अज्ञातार्थाप्रकाशत्वादप्रमाणं तदिष्यते ।
नाशक्तसूचकत्वेन तावकीनं तथा ननु ॥ १४८६ ॥
इत्यनुमानपरीक्षा ।
“अय”मिति । वक्ता । “तेनेति” । वचनात्मकेन । “अज्ञाते”त्यादिना दूषणमाह— नहि वचनस्य वक्रपेक्षया संसूचनादप्रामाण्यमिष्टं, किं तर्हि ? । अज्ञातार्थाप्रकाशनात् । सक्तसूचकत्वमस्यास्त्येव । त्वदीयं त्वनुमानं न सक्तसंसूचकमित्यसमानमेतत् । अन्यथा ह्युभयसिद्धमेव भवेत् । तस्मान्न्यायादनपेतं प्रमाणं सर्वेषां युक्तं प्रत्यक्षवदिति न्याय्यम् ॥ १४८५ ॥ १४८६ ॥
इत्यनुमानपरीक्षा ।