१७ प्रत्यक्षलक्षण-परीक्षा

तत्र प्रमाणे स्वरूपफलगोचरसङ्ख्यासु परेषां विप्रतिपत्तिश्चतुर्विधा । तन्निराकरणेन स्पष्टं प्रमाणलक्षणमादर्शयितुं स्पष्टलक्षणसंयुक्तप्रमाद्वितयनिश्चितमित्येतत्समर्थनार्थमाह—“प्रत्यक्ष”मित्यादि ।

प्रत्यक्षमनुमानं च यदुपाधिप्रसिद्धये ।
परैरुक्तं न तत्सिद्धमेवंलक्षणकं हि तत् ॥ १२१३ ॥

“उपाधिप्रसिद्धय” इति । गुणद्रव्यक्रियाजातिसमवायाद्युपाधिप्रसिद्धये । परैरिति । वैशेषिकादिभिः । “एव”मिति । वक्ष्यमाणम् ॥ १२१३ ॥

तत्र सविकल्पकमज्ञानस्वभावं वा चक्षुरादिकं प्रत्यक्षं प्रमाणमिति प्रत्यक्षस्वरूपविप्रतिपत्तिः, तन्निराकरणेन तल्लक्षणमाह—“प्रत्यक्षं कल्पनापोढमभ्रान्तमि”ति ।

प्रत्यक्षं कल्पनापोढमभ्रान्तमभिलापिनी ।
प्रतीतिः कल्पना क्लृप्तिहेतुत्वाद्यात्मिका न तु ॥ १२१४ ॥

तत्र ज्ञानस्य कल्पनापोढत्वमभ्रान्तत्वं चानूद्य प्रत्यक्षत्वं विधीयते, सर्वत्रैव लक्ष्यस्य विधीयमानत्वात् । यथा—यः कम्पते सोऽश्वत्थ इति । लक्ष्यमत्र प्रत्यक्षम् ।तल्लक्षणस्यैव प्रस्तुतत्वात् । नतु कल्पनापोढाभ्रान्तलक्षणं प्रकृतं, येन तद्विधीयत इति स्यात् । कल्पनाप्रतिषेधाच्च ज्ञानस्य सामर्थ्यलब्धत्वात्, अवत्सा धेनुरानीयतामिति यथा वत्सप्रतिषेधेन गोधेनोः, इत्यतो ज्ञानमिति नोक्तम् । का पुनरत्र कल्पनाऽभिप्रेता ? यदपोढं ज्ञानं प्रत्यक्षमित्याह—“अभिलापिनी प्रतीतिः कल्पने”ति । अथ यस्यां क्लृप्तिहेतुत्वाद्यात्मिकायां शङ्करस्वामिप्रभृतयो विस्तरेण दोषमुक्तवन्तः सापि किं गृहीतव्या उत नेत्याह—“क्लृप्तिहेतुत्वाद्यात्मिका नत्वि”ति । गृह्यत इति शेषः । तेन तदाश्रयेण ये दोषाः परेणोक्तास्ते तत्पक्षानङ्गीकारादेव नावतरन्तीत्युक्तं भवति । क्लृप्तिर्व्यपदेशस्तद्धेतुत्वं जात्यादीनामिति बोद्धव्यम्, यतो जात्यादिविशेषमन्तरेण न व्यपदेशोऽस्ति । आदिशब्देन शब्दसंसर्गचित्तौदारिकसूक्ष्मताहेतू वितर्कविचारौ तथा ग्राह्यग्राहककल्पनेत्येवमादि ग्रहीतव्यम् । अभिलापो—वाचकः शब्दः, स च सामान्याकारः, स विद्यते यस्याः प्रतिभासतः सा तथोक्ता ॥ १२१४ ॥

कुतः पुनरीदृशी प्रतीतिः सिद्धेत्याह—“शब्दार्थे”त्यादि ।

शब्दार्थघटनायोग्या वृक्ष इत्यादिरूपतः ।
या वाचामप्रयोगेऽपि साभिलापेव जायते ॥ १२१५ ॥

वृक्ष इत्यादिरूपतो या वाचामप्रयोगेऽपीति सम्बन्धः । यदि वा—पूर्वेण शब्दार्थघटनायोग्या वृक्ष इत्यादिरूपत इति सम्बन्धः । अनेन प्रत्यक्षत एव कल्पनायाः सिद्धिमादर्शयति सर्वप्राणभृतामनुसिद्धत्वाद्विकल्पस्य ॥ १२१५ ॥

तथाह्याबालमसावितिकर्त्तव्यताहेतुतया सिद्धैवेति दर्शयति—“अतीते”त्यादि ।

अतीतभवनामार्थभावनावासनान्वयात् ।
सद्योजातोऽपि यद्योगादितिकर्त्तव्यतापटुः ॥ १२१६ ॥

अतीतो भवः—अतीतं जन्म, तत्र नामार्थभावना—शब्दार्थाभ्यासः, तेनाहिता या वासना—सामर्थ्यं, तस्या अन्वयः—अनुगमो यतो बालस्याप्यस्ति, तेनाभिलापिनी प्रतीतिस्तस्यापि भवत्येव । यस्याः—कल्पनाया योगात् इतिकर्त्तव्यतायां स्मितरुदितस्तनपानप्रहर्षादिलक्षणायां, पटुः—चतुरो भवति । अतोऽनया कार्यभूतया यथोक्ता कल्पना बालस्याप्यनुमीयत एव । यथोक्तम्—इतिकर्त्तव्यता लोके सर्वशब्दव्यपाश्रया । यां पूर्वाहितसंस्कारो बालोऽपि प्रतिपद्यत इति । सा पुनः सन्मूर्च्छिताक्षराकारध्वनिविशिष्टमन्तर्मात्राविपरिवर्त्तिनमर्थं बहिरिवादर्शयन्ती तेषां समुपजायते, यया पश्चात्सङ्केतग्रहणकुशला भवन्ति ॥ १२१६ ॥

“चिन्ते”त्यादिना भूयः प्रत्यक्षतः कल्पनासिद्धिमाह ।

चिन्तोत्प्रेक्षादिकाले च विस्पष्टं या प्रवेद्यते ।
अनुविद्धेव सा शब्दैरपह्नोतुं न शक्यते ॥ १२१७ ॥

“तस्याश्चे”त्यादिना शाब्दव्यवहाराख्यकार्यलिङ्गतोऽपि सिद्धिमाह ।

तस्याश्चाध्यवसायेन भ्रान्ता शब्दार्थयोः स्थितिः ।
अन्यायोगादसत्त्वेऽस्याः सेदृश्यपि च सम्भवेत् ॥ १२१८ ॥

यतस्तात्त्विकी शब्दार्थव्यवस्था पूर्वैर्निषिद्धा, भ्रान्तेति च व्यवस्थापिता । यदि चास्याः कल्पनाया असत्त्वं स्यात्तदा सा—शब्दार्थव्यवस्था, ईदृश्यपि—भ्रान्तापि, न सम्भवेत्, तदभिप्रायवशात्तस्याव्यवस्थानात् । अन्येषां च स्वलक्षणादीनां बाह्यानां वाच्यत्वेनायोगस्य प्रतिपादितत्वात् ॥ १२१८ ॥

ननु चान्येऽपि न केवलमभिलापिनीं प्रतीतिं कल्पनां वर्णयन्ति, किन्तु जातिगुणक्रियादिसम्बन्धयोग्यामपि । सा कस्मान्न गृह्यत इत्याह—“जात्यादी”त्यादि ।

जात्यादियोजनायोग्यामप्यन्ये कल्पनां विदुः ।
सा जात्यादेरपास्तत्वाददृष्टेश्च न सङ्गता ॥ १२१९ ॥

“अदृष्टेश्चे”ति । जात्यादेरिति सम्बन्धः । अयं चाभ्युपगम्य जात्यादीन्परिहार उक्तः ॥ १२१९ ॥

“जात्यादी”नामित्यादिना तदेवादृष्टत्वं समर्थयते ।

जात्यादीनामदृष्टत्वात्तद्योगाप्रतिभासनात् ।
क्षीरोदकादिवच्चार्थे घटना घटते कथम् ॥ १२२० ॥

“क्षीरोदकादिवच्चे”ति । यथा क्षीरोदकादेर्मिश्रीभूतस्य विवेकेनाप्रतिभासनान्न घटना शक्यते कर्तुं तद्वज्जात्यादीनां सत्त्वेऽपि विवेकेनाश्रयादप्रतिभासनान्न शक्यते तदाश्रयेण सहेत्यर्थः ॥ १२२० ॥

यदि तर्हि जात्यादियोजना कल्पना न युक्तैव, तत्कथं लक्षणकारेणोक्तं नाम जात्यादियोजना कल्पनेति, आह—“हेये”त्यादि ।

हेयोपादेयविषयकथनाय द्वयोक्तितः ।
परापरप्रसिद्धेयं कल्पना द्विविधोदिता ॥ १२२१ ॥

तत्र हेया जात्यादियोजना परप्रसिद्धा कल्पना, उपादेया स्वप्रसिद्धा नामयोजनाकल्पना, इति दर्शनाय द्विप्रकाराऽपि कल्पना निर्दिष्टा । कथमवगम्यत इत्याह— द्वयोक्तितः—यस्मान्नाम च जात्यादयश्च नामजात्यादयस्तेषां योजनेत्येवं वर्गद्वयमुक्तम्, अन्यथा नामादियोजना यदि वा जात्यादियोजनेत्येव वाच्यं स्यात् । नचेदं परिगणनम्, आदिशब्दवैफल्यप्रसङ्गात् ॥ १२२१ ॥

ननु च कल्पना ज्ञानधर्मः, तद्विरहप्रतिपादनमेव प्रकृतं, प्रत्यक्षाधिकारात्, नार्थधर्मविरहप्रतिपादनम् । नामजात्यादीनां च या योजना तद्वद्भिः साऽर्थगतो धर्मः, न ज्ञानस्य, ततश्चाप्रस्तुताभिधायित्वं लक्षणकारस्येति चोद्यमाशङ्क्याह—“नामादियोजना चेय”मिति ।

नामादियोजना चेयं स्वनिमित्तमनन्तरम् ।
आक्षिप्य वर्त्तते येन तेन नाप्रस्तुताभिधा ॥ १२२२ ॥

अनन्तरम्—अव्यवहितं निमित्तं, यत्तस्याः कारणम् । तत्पुनराविष्टाभिलापा प्रतीतिः । सा च वस्तुद्वयानुसम्धानाकारोत्पत्तितस्तथा योजनेति व्यपदिश्यते, नैव तु कश्चित्कञ्चिद्योजयति, निर्व्यापारत्वात्सर्वधर्माणाम् । तस्याक्षेपो द्वाभ्यां प्रकाराभ्याम् । ताभ्यां योजना यतो भवति सा तथोक्ता । गमकत्वाद्वैयधिकरण्येऽपि च बहुव्रीहिः । कारणे कार्योपचाराद्वा । उपचारस्य न प्रयोजनं तदन्यकारणेभ्यो विशिष्टकार्यकारिणः स्वभावख्यापनम् ॥ १२२२ ॥

अथवा—योज्यतेऽनयेति योजना, नामजात्यादीनां योजनेति समासं कृत्वाऽभिलापिन्येव कल्पना निर्दिष्टेत्यदोष इति दर्शयति—“नामजात्यादय” इत्यादि ।

नामजात्यादयः सर्वे योज्यन्ते वाऽनयेति सा ।
तथोक्ता कल्पना प्रोक्ता प्रतीतिरभिलापिनी ॥ १२२३ ॥

यद्वेत्यादिना परिहारान्तरमाह—

यद्वा स्वमतसिद्धैव केवला कल्पनोदिता ।
सर्वत्र नाम्ना युक्तोऽर्थ उच्यत इति योजनात् ॥ १२२४ ॥

यद्येवं कथमयमाचार्यीयो वृत्तिग्रन्थो नीयते । तद्यथा—यदृच्छाशब्देषु नाम्ना विशिष्टोऽर्थ उच्यते डित्थ इति, जातिशब्देषु जात्या गौरिति, गुणशब्देषु गुणेनशुक्ल इति, क्रियाशब्देषु क्रियया पाचक इति, द्रव्यशब्देषु द्रव्येण दण्डी विषाणीति । अनेन हि ग्रन्थेन जात्यादिविशेषणयुक्तस्याप्यर्थस्योच्यमानत्वं पृथक्प्रकाशितमित्यत आह—“सर्वत्रे”त्यादि । “सर्वत्रे”ति । जात्यादिशब्देष्वपि । एतदुक्तं भवति—यथा यदृच्छाशब्देषु प्रयुज्यमानेषु नाम्ना विशिष्टोऽर्थ उच्यते, एवं जात्यादिशब्देषु गौरित्यादिषु नाम्ना विशिष्टोऽर्थ उच्यते इत्येतत् सर्वत्र ग्रन्थे योजनीयमिति ॥ १२२४ ॥

कथं तर्हि जात्या गुणेन क्रियया द्रव्येण वेत्येतदपरं तृतीयान्तं योजनीयमित्याह —“तैस्त्वि”त्यादि ।

तैस्तु करणविभक्त्या साफल्यमनुभूयते ।
नाम्नो जात्यादिभिः सेयमित्यर्थोऽध्यवतिष्ठते ॥ १२२५ ॥

जात्या करणभूतया नाम्ना विशिष्टोऽर्थ उच्यते गौरिति, तथा गुणादिभिः, इत्येवं तैर्ज्जात्यादिभिः करणविभक्त्या सम्बन्धात्साफल्यमनुभूयते । यद्येवं, नामजात्यादियोजनेत्यत्र सूत्रे कथं सम्बन्धः कार्य इत्याह—“नाम्नो जात्या”दिभिरिति योजनेति शेषः । “सेय”मिति । अनेन समासार्थलभ्यां कल्पनामेव निर्दिशति । जात्यादिभिर्योजना जात्यादियोजना, नाम्नो जात्यादियोजना सेयं नामजात्यादियोजनेत्ययंसमासार्थोऽध्यवतिष्ठत इति यावत् ॥ १२२५ ॥

यद्येवं यदृच्छाशब्देषु जात्यादीनां प्रवृत्तिनिमित्तानामभावादव्यापिनी व्यवस्था भवेदित्याशङ्क्याह—“यदृच्छाशब्दवाच्याया” इति ।

यदृच्छाशब्दवाच्याया जातेः सद्भावतो न च ।
अव्याप्तिरस्य मन्तव्या प्रसिद्धेस्तु पृथक्श्रुतिः ॥ १२२६ ॥

एतदुक्तं भवति—येऽप्येते डित्थादयः शब्दा यदृच्छाशब्दत्वेन प्रतीतास्तेऽपि जन्मनः प्रभृत्यामरणक्षणादनुवर्त्तमानाः प्रतिक्षणभेदभिन्नमसाधारणभेदेन वस्तु गमयितुमशक्ताः कालप्रकर्षमर्यादावच्छिन्नवस्तुसमवेतां जातिमभिधेयत्वेनोपाददते । अन्यथा हि बालाद्यवस्थाभेदपरिच्छिन्नवस्तुभागविषयतया निरूढाः कथं वृद्धाद्यवस्थोपहितभेदमपि वस्तु प्रतिपादयेयुः । येषामपि न क्षणिको देहः—किं तर्हि ? कालान्तरावस्थायीति दर्शनम्, तेषामपि यथाकालमपचीयमानावयवसम्बन्धादवयवापचयाद्वाऽन्यदन्यद्द्रव्यमवस्थाभेदेष्विति सिद्धम् । परिणतिदर्शनेऽपि यदवस्थाभेदसम्बद्धं वस्तु तच्छब्दवाच्यतया प्रतिज्ञातं ततश्चावस्थान्तरं समाश्रयेत तदेव वस्तु तेन शब्देन नाभिधीयेत, यथा पयसि विनिश्चिताभिधानशक्तिः क्षीरशब्दो न दध्नि प्रवर्त्तते, तथा शरीरेऽपि नावस्थान्तरे प्रवर्त्तेतेति जातिरवश्याभ्युपगन्तव्या । अथवामा भूद्वस्तुभूता जातिस्तथाऽपि नाव्यापिनी व्यवस्था । तथाहि—त एव भेदा अवि वक्षितभेदाः सामान्यमिति सर्वत्र जातिशब्दैरुपादीयन्त इति यदृच्छाशब्दा जातिशब्देभ्यः पृथग्लक्षणकारेण निर्दिष्टा इत्याह—“प्रसिद्धेस्त्वि”ति । गवादयो हि शब्दालोके जातिशब्दतया प्रतीताः, चित्राङ्गदादयस्तु सञ्ज्ञाशब्दत्वेनेति पृथग्वचनम् १२२६

“नन्वि”त्यादिना परश्चोदयति ।

नन्वन्यापोहवाच्यत्वाज्जातिशब्दस्तु केवलः ।
विवक्षापरतन्त्रत्वाद्विवक्षाशब्द एव वा ॥ १२२७ ॥

“सत्यमित्या”दिना प्रतिविधत्ते ।

सत्यं लोकानुवृत्त्येदमुक्तं न्यायविदेदृशम् ।
इयानेव हि शब्दोऽस्मिन्व्यवहारपथं गतः ॥ १२२८ ॥

“इयानेव ही”ति । पञ्चप्रकारः सञ्ज्ञाजातिगुणक्रियाद्रव्यशब्दभेदेन ॥ १२२८ ॥

ननु यदि स्वमतसिद्धैव कल्पनाऽभिप्रेता किमर्थं तर्हि अन्ये त्वर्थशून्यैः शब्दैरेव विशिष्टोऽर्थ उच्यते इत्यनेन ग्रन्थेन पृथक्खमतसिद्धा कल्पना पश्चादुपवर्णिताऽऽचार्येणेत्याह—“ते तु जात्यादय” इति ।

ते तु जात्यादयो नेह लोकवद्वयतिरेकिणः ।
इत्येतत्प्रतिपत्त्यर्थमन्ये त्वित्यादिवर्णितम् ॥ १२२९ ॥

एतदुक्तं भवति—न सावलेयादिव्यक्तिव्यतिरिक्ता जात्यादयः पारमार्थिकाः सन्ति सांवृतास्त इत्यस्यार्थस्य प्रतिपादनार्थमुक्तमिदं लक्षणकारेण, नतु पृथगपराङ्कल्पनां दर्शयितुमिति । “अन्य” इति । बौद्धाः । अर्थशून्यैरिति । जात्यादिनिरपेक्षैरपोहमात्रगोचरैः शब्दैः । इत्याचार्यग्रन्थस्यार्थः ॥ १२२९ ॥

न केवलमस्माभिरियमभिलापिनी प्रतीतिः कल्पनाऽभ्युपगता, परैरप्यवश्याभ्युपगन्तव्या, अन्यथा जगदव्यवहार्यमेव स्यादिति दर्शयन्नाह—“जात्यादियोजनांयेऽपी”ति ।

जात्यादियोजनां येऽपि कल्पनां समुपाश्रिताः ।
तैरभ्युपेया नियतं प्रतीतिरभिलापिनी ॥ १२३० ॥

अन्यथा योजनाभावाद्युक्तयोरिव भावयोः ।
स्वातन्त्र्येण परिच्छेदात्कल्पना नैव कल्प्यते ॥ १२३१ ॥

एवं वा व्यवहार्यं स्यात्सर्वं विश्वमिदं ततः ।
जात्यादिरूपसंसृष्टं व्यवहार्यमिदं मतम् ॥ १२३२ ॥

जात्यादियोजना शब्दयोजनाऽव्यभिचारिणी ।
एवं चोच्यत इत्येतत्फलवज्जायते वचः ॥ १२३३ ॥

जातिगुणक्रियाद्रव्ययोजनायामपि कल्पनायां परैरभ्युपगतायां नामयोजनैव कल्पना । तथाहि—तत्र जात्यादिव्यवच्छिन्नं वस्तु नाम्नैव विशिष्टं गृह्यते, अन्यथा हि स्वातन्ञ्येणानेकपदार्थग्रहणवद्योजनाभावात्कथं कल्पना भवेत्, ततश्च मूकमेव जगत्स्यात् । अतएव च दण्डयुक्तं पुरुषं पश्यन्नपि न तावद्दण्डीति योजयति यावन्ननामभेदं स्मरति । यत एव शब्दयोजनया सर्वा योजनाव्याप्ता, अतएव चाचार्यीयञ्जात्या विशिष्टोऽर्थ उच्यते गौरित्यादिषु यदुच्यत इति वचनं तत्सफलं भवेत् । अन्यथा विना नाम्ना कथमुच्यत इति स्यात् । अभिधानक्रियायाः शब्दधर्मत्वात् ॥ १२३० ॥ १२३१ ॥ १२३२ ॥ १२३३ ॥

तस्मादित्यादिना कल्पनासिद्धिमुपसंहरति ।

तस्मात्समस्तसिद्धान्तसंस्थितानां प्रवादिनाम् ।
अविवादादयत्नेन साध्येयं कल्पना मया ॥ १२३४ ॥

लक्षणकारस्य कल्पनां सिद्धिरूपां निर्दिशतोऽभिप्रायमाह—“एतदागूर्ये”ति ।

एतदागूर्य सकलं नामजात्यादिवर्णनम् ।
मतयोः स्वान्ययोरित्थमुपादानमिहाकरोत् ॥ १२३५ ॥

तेभ्योऽस्माकभियानेव भेद इत्येवमब्रुवन् ।
अन्ये त्वित्यादिकं वाक्यमनन्तरमदो जगौ ॥ १२३६ ॥

हेयोपादेयविषयकथनं जात्यादियोजनां विना नामयोजनां विना भाविनीत्यादि पूर्वोपवर्णितम् । “नामजात्यादिवर्णन”मिति । अकरोदिति सम्बन्धः । स्वान्ययोस्तु मतयोरुपादानं हेयोपादेयविषयकथनाय ॥ १२३५ ॥ १२३६ ॥

न्यायमुखग्रन्थस्तर्हि कथं नेय इत्याह—“एव”मित्यादि ।

एवं न्यायमुखग्रन्थो व्याख्यातव्यो दिशाऽनया ।
ज्ञानमित्यभिसम्बन्धात्प्रतीतिस्तत्र चोदिता ॥ १२३७ ॥

तत्रायं न्यायमुखग्रन्थः— यत् ज्ञानमर्थरूपादौ विशेषणभिधायकाभेदोपचारेणाविकल्पकं तदक्षमक्षं प्रति वर्त्तत इति प्रत्यक्षम् विशेषणं जात्यादि, अभिधायकं नाम, तयोरभेदोपचारो जात्यादिमद्भिः सञ्ज्ञिना च । अभेदोपचारग्रहणमुपलक्षणम् यत्रापि भेदेन ग्रहणमस्य गोत्वमस्येदं नामेति, तत्रापि कल्पनेष्यत एव । ननु चानुप्रतीतिः कल्पनेति नोक्तं, तत्कथं यथोक्तकल्पना लभ्यत इत्याह—“ज्ञानमित्यभिसम्बन्धा”दिति । एतदुक्तं भवति—कल्पनावैपरीत्येन ज्ञानमेव प्रत्यक्षत्वेन दर्शयता ज्ञानधर्मत्वं कल्पनाया दर्शितम् । तथाचायमर्थो भवति—यज्ज्ञानं नामाद्यभेदोपचारेणाविकल्पकं तत्प्रत्यक्षं, यत्तु ज्ञानं तथाविकल्पकं तत्कल्पनात्मकत्वान्न प्रत्यक्षमिति सामर्थ्यादभिलापिनी प्रतीतिः कल्पनेति प्रत्यक्षवैपरीत्येन सिध्यति एवं परापरमतङ्ग्रहो दर्शित इति ॥ १२३७ ॥

यद्वा स्वमतोपवर्णनमेव केवलमाचार्येण कृतमित्यादर्शयति—“यद्वे”त्यादि ।

यद्वा विशेषणं भेदो येनान्यापोहकृच्छ्रुतिः ।
जात्यादीनां व्यवच्छेदमनेन च करोत्ययम् ॥ १२३८ ॥

भेदो विशेषणं व्यावृत्तिरित्यर्थः । तस्याभिधायकं, न जात्यादीनां, तस्याभेदोपचार इति विग्रहः ॥ १२३८ ॥

ननु च यदि प्रतीतिरभिलापिनी कल्पना, सा धर्मिणी, नच धर्म्यन्तरे धर्म्यन्तरस्य प्रसङ्गो येन तन्निषेधस्तद्धर्मतया क्रियत इत्यसम्बन्धाभिधानम् । तथा यदि प्रत्यक्षं कल्पनापोढम्, कत्वं (थं ?) तत्प्रत्यक्षशब्देनोच्यत इति, अनभिधेयार्थः किल कल्पनापोढार्थ इति मन्वानाः परे भर्गभारद्वाजप्रभृतयश्चोदयन्ति । एतच्च सर्वं परिहृतमेवेति योजयन्नाह—“एवं प्रतीतिरूपा चे”त्यादि ।

एवं प्रतीतरूपा च यदेवं कल्पना मता ।
तादात्म्यप्रतिषेधश्च प्रत्यक्षस्योपवर्ण्यते ॥ १२३९ ॥

तदाऽध्यक्षादिशब्देन वाच्यत्वेऽपि न बाध्यते ।
कल्पनाविरहोऽध्यक्षे न हि सा शब्दवाच्यता ॥ १२४० ॥

अन्यथा रूपगन्धादेः सविकल्पकता भवेत् ।
अतो नास्पदमेवेदं यदाहुः कुधियः परे ॥ १२४१ ॥

यदि प्रत्यक्षशब्देन प्रत्यक्षमभिधीयते ।
कथं तत्कल्पनापोढमयुक्तं गम्यते कथम् ॥ १२४२ ॥

“तादात्म्यप्रतिषेध” इति । यत्रैषा कल्पना नास्ति तत्प्रत्यक्षमित्यनेन ग्रन्थेनलक्षणकारस्तादात्म्यप्रतिषेधं करोति । एवम्भूतं कल्पनात्मकं यज्ज्ञानं न भवतीत्यर्थः । नत्वाधेयनिषेधमिति प्रथमं तावदचोद्यम् । द्वितीयमप्यचोद्यमेव, यतो नानभिधेयार्थः कल्पनापोढार्थो वर्णितः । किं तर्हि ? अविकल्पकार्थः । अविकल्पकमपि ज्ञानं यद्यप्यभिधीयते शब्देनाध्यवसायानुरोधात् । तथापि रूपादिवन्न विकल्पकतां यास्यतीति यत्किञ्चिदेतत् ॥ १२३९ ॥ १२४० ॥ १२४१ ॥ १२४२ ॥

स्यादेतत्—भवत्वेवं यथोपवर्णिता कल्पना । कल्पनापोढं तु कथं सिद्धमित्याह —“प्रत्यक्षमि”त्यादि ।

प्रत्यक्षं कल्पनापोढं वेद्यतेऽतिपरिस्फुटम् ।
अन्यत्रासक्तमनसाऽप्यक्षैर्नीलादिवेदनात् ॥ १२४३ ॥

अनेन स्वसंवित्त्या प्रत्यक्षतः कल्पनाविरहः सिद्ध इत्यादर्शयति ॥ १२४३ ॥

स्यादेतदसावेव विषयान्तरव्यासक्तो विकल्पः पुरस्थं नीलादि प्रतिपद्यत इत्याह —“नासावेवे”त्यादि ।

नासावेव विकल्पो हि तमर्थं प्रतिपद्यते ।
अतीताद्यभिधात्यागात्तन्नामघटनाप्तितः ॥ १२४४ ॥

यदि हि स एव विकल्पस्तमर्थं प्रतिपद्येत तदाऽतीताद्यर्थाभिधानत्यागेन तस्यैव नीलादेर्नाम योजयेत् । एकत्राभिलापद्वयसंसर्गाप्रतीतेरतीताद्यभिधात्यागादित्युक्तम् । तस्याभिमुखीभूतस्य नाम, तन्नाम, तस्य घटना—योजना, तस्या आप्तिः— प्राप्तिः । प्रसङ्ग इति यावत् ॥ १२४४ ॥

स्यान्मतम्—अन्य एव तर्हि विकल्पस्तदा तमर्थं प्रतिपद्यत इत्येवं कस्मान्न विज्ञायत इत्याह—“तदा तन्नामे”त्यादि ।

तदा तन्नामसंसर्गी विकल्पोऽस्त्यपरो न च ।
दृश्यस्याप्रतिसंवित्तेरनिष्टेश्च द्वयोः सकृत् ॥ १२४५ ॥

अनेन यथाक्रमं प्रत्यक्षविरोधम्, अभ्युपगमविरोधं च सकृद्विकल्पद्वयप्रतिज्ञायामाह—“द्वयो”रिति । विकल्पयोरिति शेषः ॥ १२४५ ॥

विकल्पेत्यादिनोपसंहरति ।

विकल्पकमतो ज्ञानसहभाव्यनुभूयते ।
तस्मादिन्द्रियविज्ञानमकल्पनमिदं स्फुटम् ॥ १२४६ ॥

विकल्पसहभावित्वमसिद्धमिति कदाचित्परो ब्रूयादतस्तदाशङ्कयन्नाह—“क्रमेणे”त्यादि ।

क्रमेणैवोपजायन्ते विज्ञानानीति चेन्मतम् ।
सकृद्भावाभिमानस्तु शीघ्रवृत्तेरलातवत् ॥ १२४७ ॥

यदि क्रमेणोपजायन्ते कथं युगपत्प्रवेद्यन्त इत्याह—“सकृद्भावाभिमान”स्त्विति । अलात इवालातवत् । यथाऽलाते शीघ्रभ्रमणात्सकृच्चक्राकारा प्रतीतिस्तद्दर्शनानां घटनादेवं ज्ञानानां शीघ्रोत्पत्तितः सकृद्भावाभिमान इति । अथवा—अलातशब्देन विषयिणि ज्ञाने विषयोपचारात्तद्विषयाणि ज्ञानान्युच्यन्ते । पूर्ववद्वतिः ॥ १२४७ ॥

नेति पूर्वपक्षं प्रतिक्षिपति ।

न तदाऽभिमुखीभूतभावनामानुषङ्गवान् ।
विकल्पो विद्यते दृश्य इत्येवोक्तं न॰॰ना ॥ १२४८ ॥

एवं मन्यते—न सकृद्भावप्रसाधनमत्र प्रकृतम्, किं तर्हि ? । धियः कल्पनाविरहः । स चान्यत्र गतचित्तस्याप्यभिमुखीभूतपदार्थानुभवकाले तन्नामसंसर्गिणो विकल्पस्योपलब्धिलक्षणप्राप्तस्यानुपलब्ध्या सिध्यतीति नात्र किञ्चिद्दूषणमुक्तम् । तथाहि यदि नाम क्रमेण ज्ञाने संवेद्येते नतु विकल्पः संवेद्यत इति न प्रकृतस्य व्याघातः ॥ १२४८ ॥

न चायं सकृद्भावाभिमानोऽपि भ्रान्त इत्यादर्शयन्नाह—“भ्रान्ति”रित्यादि ।

भ्रान्तिस्तदभिमानश्च तद्व्यक्तं च निरन्तरम् ।
तदेव चार्थविज्ञानयौगपद्यमतः स्फुटम् ॥ १२४९ ॥

भ्रान्तिर्नेति प्रकृतं सम्बन्धनीयम् । “तदभिमान” इति । तस्य—सकृद्भावस्याभिमान इति विग्रहः । बाधकप्रमाणवशाद्विभ्रान्तिव्यवस्थानं, नचात्र बाधकमस्ति, येन भ्रान्तिः स्यात् । कथं नास्तीत्याह—“तद्व्यक्तं च निरन्तर”मिति । तदित्यभिमुखीभूतार्थसंवेदनं निरन्तरविषयान्तरासक्तचित्तसमकालं स्पष्टमनुभूयते । तदेव चेदृशमर्थविज्ञानं प्रत्यक्षमुच्यत इति कुतो भ्रान्तिः ॥ १२४९ ॥

न केवलं सकृद्भावस्य भ्रान्तत्वव्यवस्थां प्रति न किञ्चित्साधकमस्ति, प्रत्युत बाधकमस्तीति दर्शयन्नाह—“नर्त्तकी”त्यादि ।

नर्त्तकीदृष्ट्यवस्थादावखिलं वेद्यते सकृत् ।
बहुभिर्व्यवधानेऽपि भ्रान्तिःसा चा(श्चेदा?)शुवृत्तितः १२५०

लतातालादिबुद्धीनामत्यर्थं लघुवर्त्तनम् ।
सकृद्भवाभिमानोऽतः किमत्रापि न वर्त्तते ॥ १२५१ ॥

शुद्धे च मानसे कल्पे व्यवसीयेत न क्रमः ।
अल्पा च सर्वबुद्धीनामाशुवृत्तिश्चिरास्थितेः ॥ १२५२ ॥

अतः सर्वत्र विषये न क्रमग्रहणं भवेत् ।
सकृद्ग्रहणभासस्तु भवेच्छब्दादिबोधवत् ॥ १२५३ ॥

एकैका धीः पञ्चभिर्धीभिर्व्यवधीयमानाऽपि नर्त्तकीदर्शनाद्यवस्थायामव्यवहितेवप्रतिभाति । तथाहि—यदैव नर्त्तकीमुत्पश्यति तदैव गीतादिशब्दं शृणोति, कर्पूरादिरसमास्वादयति, नासिकापुटविन्यस्तकुसुमामोदं जिघ्रति, व्यजनानिलादिस्पर्शं च स्पृशति, वस्त्राभरणादिदानादि च चिन्तयति । ततश्च यदि बहुभिर्व्यवधानेऽपि बुद्धीनां सकृद्भावभ्रान्तिराशूत्पत्तिबलादुपजायते, तदा लता तालः सरो रस इत्येवमादावेकैकज्ञानव्यवधानाद्वर्णश्रुतीनामत्यर्थं लघुवर्त्तनमस्तीति सकृद्वर्णप्रतिभासः प्राप्नोति । ततश्च सरो रस इत्यादौ शब्दे श्रूयमाणे श्रुतिभेदोऽर्थप्रतीतिभेदश्च न स्यात् । किञ्च—बुद्धेर्विजातीयचक्षुरादिविज्ञानाव्यवहिते नानाविद्यार्थचिन्तारूपे विकल्पे समुत्पद्यमाने शीघ्रवृत्तिरस्तीति न क्रमव्यवसायः प्राप्नोति । सर्वासां च बुद्धीनां क्षणिकत्वेन चिरानवस्थानादाशुवृत्तिरस्तीति कस्यचिदर्थस्य न क्रमवती प्रतीतिः स्यात् । “शब्दादिबोधव”दिति । नर्त्तकीप्रेक्षावस्थायां शब्दादिसंवेदनवत् ॥ १२५० ॥ ॥ १२५१ ॥ १२५२ ॥ १२५३ ॥

यश्चायमलातवदिति दृष्टान्तः स साध्यविकल इति दर्शयन्नाह—“अलातेऽपी”त्यादि ।

अलातेऽपि सकृद्भ्रान्तिश्चक्राभासा प्रवर्त्तते ।
न दृशां प्रतिसन्धानाद्विस्पष्टं प्रतिभासनात् ॥ १२५४ ॥

तथाहि प्रतिसन्धानं स्मृत्यैव क्रियते नतु ।
दर्शनेन व्यतीतस्य विषयस्यानवग्रहात् ॥ १२५५ ॥

यश्चास्या विषयो नासौ विनष्टत्वात्परिस्फुटः ।
ततः परिस्फुटो नायं चक्राभासः प्रसज्यते ॥ १२५६ ॥

यतो नेयं मानसी भ्रान्तिः क्रमवर्त्तिनी दर्शनानि घटयन्ती समुपजायते, किं तर्हि ?, सकृदेकैवेन्द्रियजा चक्राकारा भ्रान्तिः सामग्रीविशेषबलादुत्पद्यते, विस्पष्टप्रतिभासत्वात् । नहि विकल्पानुबद्धस्य स्पष्टप्रतिभासित्वं युक्तम् । तथाहि—घटना क्रियमाणा स्मृत्यैव क्रियते, नेन्द्रियज्ञानेन, तस्य वस्तुसन्निधानबलभाविनोऽतीतार्थग्रहणासामर्थ्यात् । यश्चास्याः स्मृतेर्विषयो नासौ परिस्फुटः, कस्मात् ? विनष्टत्वात् । तस्मादस्पष्टाभत्वप्रसङ्गान्नेयं मानसी भ्रान्तिः । किं तर्हि ?, इन्द्रियजा, इति साध्यविकलो दृष्टान्तः ॥ १२५४ ॥ १२५५ ॥ १२५६ ॥

एवं प्रत्यक्षतो धियः कल्पनाविरहं प्रतिपाद्य साम्प्रतमनुमानतः प्रतिपादयति—“यदि चे”त्यादि ।

यदि चाप्यस्य भावस्य यद्रूपस्थितिकारणम् ।
न विद्यते न तत्त्वेन स व्यवस्थाप्यते बुधैः ॥ १२५७ ॥

अविद्यमानसास्नादिर्यथा कर्को गवात्मना ।
विशेषणविशिष्टार्थं ग्रहणं न च विद्यते ॥ १२५८ ॥

सविकल्पकभावस्य स्थितेराक्षे निबन्धनम् ।
विपक्षः शाबलेयादिरन्यथाऽतिप्रसज्यते ॥ १२५९ ॥

नचाप्रसिद्धता हेतोर्जात्यादेः प्रतिषेधतः ।
भेदेन चापरिच्छेदान्नचास्त्येवं विशेषणम् ॥ १२६० ॥

प्रयोगः—यस्य यद्रूपं व्यवस्थितौ निमित्तं नास्ति न तत्तथा प्रेक्षावद्भिर्व्यवहर्तृभिर्व्यवस्थाप्यते, तद्यथा—अविद्यमानगोप्रज्ञप्तिनिमित्तभूतककुदादिसमुदायः कर्को गोत्वेन । नास्ति च प्रत्यक्षस्य नीलाद्यसाधारणविषयबलेनोत्पद्यमानस्य सविकल्पकभावव्यवस्थितौ विशेषणविशिष्टार्थग्रहणं निमित्तमिति कारणानुपलब्धिः । वैधर्म्येण शाबलेयबाहुलेयादयः । सर्वथा सर्वस्य व्यवस्थानप्रसङ्गो व्यवस्थापयितुश्चाप्रेक्षापूर्वकारिताप्रसङ्गो बाधकं प्रमाणमिति सङ्क्षेपार्थः । कर्कः—शुक्लोऽश्वः । “जात्यादे”रिति । विशेषणस्येति शेषः । सन्तु नाम वस्तुभूता जात्यादयस्तथाऽपि नासिद्धतेति दर्शयन्नाह—“भेदेन चापरिच्छेदा”दिति । विशेष्यत्वेनाभिमताद्रूपादेरित्यध्याहार्यम् । यदि नाम भेदेनापरिच्छेदो जातस्तथापि विशेषणं कस्मान्न भवतीत्याह—“नचास्त्येव”मिति । भेदेनापरिच्छिन्नम् । तस्माद्विशेषणविशिष्टार्थग्रहणं न विद्यत इत्यस्य हेतोर्नासिद्धता ॥ १२५७ ॥ १२५८ ॥ १२५९ ॥ १२६० ॥

स्यादेतन्माभूज्जात्यादिकं विशेषणं, शब्दस्वरूपमेव तु विशेषणं भविष्यतीत्याह—“नामापी”त्यादि ।

नामपि वाचकं नैव यच्छब्दस्य स्वलक्षणम् ।
स्वलक्षणस्य वाच्यत्ववाचकत्वे हि दूषिते ॥ १२६१ ॥

अध्यारोपितमेवातो वाच्यवाचकमिष्यते ।
अनारोपितमर्थं च प्रत्यक्षं प्रतिपद्यते ॥ १२६२ ॥

स्वलक्षणस्य सद्भावे सद्भावात्तदभावतः ।व्यवधानादिभावे च तस्यापि व्यतिरेकतः ॥ १२६३ ॥

नहि स्वलक्षणे सङ्केतः, नापि शब्दस्वलक्षणे, तयोर्व्यवहारकालेऽनन्वयात् । नच स्वलक्षणव्यतिरेकेणान्यच्छब्दस्वरूपमस्ति । नचासङ्केतितोऽर्थः शब्देन योज्यतेऽतिप्रसङ्गात् । नापि शब्दयोजनमन्तरेण विकल्पः । तस्मादध्यारोपित एव वाच्यवाचकभावो न पारमार्थिकः । स्यादेतदारोपितेमेवार्थं तर्हि प्रत्यक्षं प्रतिपद्यमानं सविकल्पकं भविष्यतीत्याह—“अनारोपितमि”त्यादि । “तदभावत” इति । तस्यापि व्यतिरेकत इति सम्बन्धः । तस्य स्वलक्षणस्याभावात्तस्यापि प्रत्यक्षस्य व्यतिरेकतोऽभावादिति यावत् । कदा स्वलक्षणस्याभाव इत्याह—“व्यवधानादी”ति । आदिशब्देनदेशकालविप्रकर्षादिः ॥ १२६१ ॥ १२६२ ॥ १२६३ ॥

“अशक्यसमय” इत्यादिना प्रमाणान्तरमप्याह—

अशक्यसमयो ह्यात्मा नीलादीनामनन्यभाक् ।
तेषामतश्च संवित्तिर्नाभिजल्पानुषङ्गिणी ॥ १२६४ ॥

नीलादीनामात्मा—स्वभावः, अशक्यसमयः—अशक्यसङकेतः । कथमिति प्रश्ने कारणमाह—“अनन्यभागि”ति । अनन्यभाक्—असाधारणः । व्यवहारकालाप्रत्युपस्थायीति यावत् । व्यवहारार्थत्वात्समयस्येति नात्र शब्दसङ्केतः । किञ्च—विषयीकृते चायं समयो भवति नाविषयीकृते, न तावदनुत्पन्नं प्रत्यक्षं नीलाद्यत्मानंविषयीकरोति, उत्पन्नं चाभिलापमादाय योजयेत् । उत्पत्तिकालेऽभिलापग्रहणकाले च क्षणिकत्वान्न विषयेणापि प्रत्यक्षं विषयीति केन कुत्र योजनमित्यतोऽप्यशक्यसमयो नीलादीनामात्मा । “तेषा”मिति । नीलादीनाम् । “नाभिजल्पानुषङ्गिणी”ति । नाविष्टाभिलापा । तत्र प्रयोगः—यद्यत्रागृहीतसमयं न तत्तत्र सविकल्पकं भवति, तद्यथा—चक्षुर्विज्ञानं गन्धे, अगृहीतसमयं च प्रत्यक्षं नीलाद्यात्मनीति व्यापकविरुद्धोपलम्भः ॥ १२६४ ॥

“नन्वि”त्यादिना प्रथमे हेतौ सुमतेर्दिगम्बरस्य मतेनासिद्धतामाशङ्कते ।

ननु नामादिकं माभूत्तस्य ग्राह्यं विशेषणम् ।
तथाऽप्यसिद्धता हेतोर्नैव व्यावर्त्तेते यतः ॥ १२६५ ॥

अर्थान्तरव्यवच्छिन्नरूपेणाग्रहणं यदि ।
अर्थमात्रग्रहो वा स्यादग्रहो वा घटे यथा ॥ १२६६ ॥

घटान्तरव्यवच्छिन्नरूपेणाग्रहणं यदि ।
घटमात्रग्रहो वा स्यादग्रहो वा घटस्य वै ॥ १२६७ ॥

स हि सामान्यविशेषात्मकत्वेनोभयरूपं सर्वं वस्तु वर्णयति । सामान्यं च द्विरूपम् । विशेषेणावच्छिन्नं यथा गोत्वादि, अनवच्छिन्नं यथा सत्तावस्तुत्वादि । तत्र यदनवच्छिन्नमेकरूपं तदालोचनामात्रस्य निर्विकल्पकप्रत्यक्षस्य गोचरः । इतरत्पुनः सविकल्पकस्येत्येषा तस्य प्रक्रिया । कुमारिलस्तु—आलोचनाज्ञानं निर्विकल्पकं व्यक्तिस्वलक्षणविषयं वर्णयति । सामान्यविषयं तु सविकल्पकं प्रत्यक्षम् । तत्र सुमतिःकुमारिलाद्यभिमतालोचनामात्रप्रत्यक्षविचारणार्थमाह । तद्वादीदं प्रष्टव्यः । किं तदिन्द्रियस्य पुरःस्थितमर्थमात्रं स्वेन रूपेणार्थान्तराऽसम्भविना विशिष्टं गृह्यते ? नेति । यद्यसौ ब्रूयान्नेति । अत्रोच्यते—अर्थान्तरव्यवच्छिन्नरूपेणाग्रहणं यदि—विवक्षितादर्थाद्यदर्थान्तरं, ततो व्यवच्छिन्नं—तत्राविद्यमानं विवक्षितार्थस्थं रूपं—स्वभावः, तेन विशिष्टस्य यदि तस्यार्थस्याग्रहणमिष्यते, तदा तदर्थमात्रग्रहो वा स्यात्—यत्तदर्थमात्रमर्थान्तरासम्भवि—स्वभावरहितं तस्यैव ग्रहणं स्यात् । अथ तदपि न गृह्यते, तदा, अग्रहो वा—अग्रहणमेव स्यात् । घटे यथेति निदर्शनमुक्तं तच्छ्लोकान्तरेण व्याचष्टे—“घटान्तरे”त्यादि । अवधीकृतघटासम्भविना रूपेण यदि तस्य घटस्याग्रहणं तदा घटमात्रग्रहो वा स्यात्—केनचिद्राजतताम्रादिना विशेषेणाविशिष्टस्य घटमात्रस्य ग्रहणं स्यात् । घटमात्रस्यापि ग्रहणं न भवति तदा कस्यचिदप्यभिमतस्यापि न ग्रहणं स्यादित्यग्रहो वा घटस्य वै । एवमत्रापि दार्ष्टान्तिके विशेषाग्रहणेऽर्थमात्रग्रहणं न ग्रहणं वा स्यादित्येकान्तः ॥ १२६५ ॥ १२६६ ॥ १२६७ ॥

अथ पूर्वकः पक्षः, अत्राह—“ग्राह्यान्तरे”त्यादि ।

ग्राह्यान्तरव्यवच्छिन्नं भावेन ग्राहि चेन्मतम् ।
सविकल्पकविज्ञानं भवेद्वृक्षादिबोधवत् ॥ १२६८ ॥

यदि परत्रासम्भविना स्वरूपेण विशिष्टार्थग्राहीन्द्रियज्ञानमभिप्रेतं तदा सविकल्पकं प्राप्नोति, केनचिद्रूपेण विशिष्टार्थग्राहित्वात्, वृक्षोयमित्यादिबोधवत् ॥ १२६८ ॥

स्यान्मतम्—नार्थमात्रं नाम किञ्चिदस्ति यत्स्वरूपेण विशिष्य गृह्यते । किं तर्हि ? यत्तद्विशिष्टं रूपं तव मम विशेषाभिमतं तदेवास्ति गृह्यते चेति, अत आह—“विशेषोऽस्पष्टसामान्यो नच कश्चन विद्यत” इति ।

विशेषोऽस्पृष्टसामान्यो न च कश्चन विद्यते ।
ग्रहणे चेत्तदस्पष्टं विभावत्वान्न गृह्यते ॥ १२६९ ॥

अत्र मात्रं नाम सामान्यमुच्यते, यत्तत्सत्तेत्याख्यायते, तन्निरपेक्षो न कश्चिद्विशेषो विद्यते, यो गृह्येत तत्र । एतत्स्यात्—त्वन्मत्या यद्यपि तदस्ति सामान्यं,ग्रहणकाले तु तन्न स्पृश्यत इत्याह—“ग्रहणे चेत्तदस्पष्टं विभावत्वान्न गृह्यत” इति । ग्रहणकाले यदि तत्सामान्यं सत्ताख्यं इन्द्रियज्ञानेन न स्पृश्यते, विशेषमात्रमेव गृह्यते, तदा तद्विशेषमात्रं गृह्यमाणं भावरहितं सत्ताख्यस्वभावविकलं निःस्वभावं प्राप्तमिति नेन्द्रियज्ञानग्राह्यं स्यात्, विभावत्वात्—विगतभावत्वात् । वियत्पुष्पवदिति ॥ १२६९ ॥

विशिष्टविषयो बोधः कल्पना नेति साहसम् ।
न विशेषणसम्वन्धादृते वैशिष्ट्यसम्भवः ॥ १२७० ॥

तस्माद्विशिष्टविषयो बोधोऽथ न कल्पना नास्तीति साहसमेतद्भवतां प्रमाणबाधितमभ्युपगच्छतामित्युपसंहारः । अत्रैवोपपत्तिमाह—“न विशेषणे”त्यादि । नहि दण्डसम्बन्धमन्तरेण तद्वान्भवति, तद्वद्विशिष्टोऽपि विशेषसम्बन्धमन्तरेण न युक्तइति भावः । तस्माद्यद्विशेषणसम्बन्धग्रहणं तत्सविकल्पमिति । प्रयोगः—विनादास्पदीभूतं विशिष्टविषयं ज्ञानं सविकल्पकं, विशिष्टविषयत्वात्, पटोऽयमित्यादिज्ञानवदिति ॥ १२७० ॥

“सजातीये”त्यादिना प्रतिविधत्ते ।

सजातीयविजातीयव्यावृत्तार्थग्रहान्मतः ।
विशिष्टविषयो बोधो न विशेषणसङ्गतेः ॥ १२७१ ॥

यदत्र यदि व्यतिरिक्तविशेषणसम्बन्धात् (इति) विशिष्टविषयत्वादिति हेत्वर्थः, तदा न सिद्धो हेतुः, तथाहि—न बौद्धस्य विशेषणं नाम किञ्चिदस्ति । येन तत्स म्बन्धग्रहणाद्विशिष्टविषयो बोधः स्यात्, किं तर्हि सजातीयविजातीयेभ्यो व्यावृत्तस्यार्थमात्रस्य ग्रहात्—ग्रहणान्मतो विशिष्टविषयो बोधः ॥ १२७१ ॥

कथं तर्हि विशिष्टत्वमस्य वैशिष्ट्यमस्येत्यादि व्यपदेशो व्यतिरेकीवेत्याह—“भेद” इत्यादि ।

भेदो वैशिष्ट्यमुक्तं हि न विशेषणसङ्ग्तिः ।
भिन्नमित्यपि तद्वाचा नानुविद्धं प्रतीयते ॥ १२७२ ॥

भेदः सजातीयविजातीयेभ्यो व्यावृत्तिः । सा च नान्या व्यावृत्ताद्भावात्, भाव एव हि भेदान्तरप्रतिक्षेपेण तन्मात्रजिज्ञासायां तथोच्यते । स्यादेतत्—यदि विजातीयसजातीयेभ्यो भिन्नस्य वस्तुनो ग्रहणं नियमेन तर्हि सविकल्पकं ग्रहणं प्राप्तम्भिन्नमेतदित्येवमाकारप्रवृत्तत्वात् । अन्यथा कथं तद्विषयं स्याद्यद्यन्याकारप्रवृत्तं भवेत्, नह्यन्याकारप्रवृत्तं तद्विषयं युक्तमतिप्रसङ्गादित्याशङ्क्याह—“भिन्नमित्यपि तदि”त्यादि ॥ १२७२ ॥

कथं तर्हि भिन्नमित्यभिधीयत इत्याह—“स्वभावापरे”त्यादि ।

स्वभावापरनिःशेषपदार्थव्यतिरेकिणि ।
गृहीते सति तस्मिंस्तु विकल्पो जायते तथा ॥ १२७३ ॥

स्वभावादपरे ये निःशेषाः पदार्थास्तेभ्यो व्यतिरेकिणि व्यावृत्ते गृहीते सत्यसाधारणनीलाद्याकारप्रतिभासनात्पश्चाद्भेदाध्यवसायी शब्दाकारानुस्मृतो भिन्नमित्यभिलपन्नुत्पद्यते विकल्पः । नचेदस्त्वभिलापस्वभावं तत्संसृष्टात्मतत्त्वं वा, येन भिन्नमित्यभिन्नमिति नाम्ना संयोज्यग्रहणे सति गृहीतं स्यात् । तस्मादसिद्ध एव हेतुः १२७३

अथ व्यावृत्तिवशाद्विशिष्ट इति कृत्वा विशिष्टविषयत्वादिति हेत्वर्थः, नार्थान्तरविशेषणसम्बन्धात् । तदाऽपि स्वतो नैकान्तिको हेतुरिति दर्शयन्नाह—“विशेषणे”त्यादि ।

विशेषणानवच्छिन्नं परैः सामान्यमिष्यते ।
निर्विकल्पकविज्ञानग्राह्यं तत्राप्यतः समम् ॥ १२७४ ॥

द्विरूपं हि सामान्यं विशेषणावच्छिन्नरूपमनवच्छिन्नरूपं च । तत्र यदनवच्छिन्नरूपं तन्मिर्विकल्पकविज्ञानग्राह्यमिष्टम् । तत्रापि—सामान्ये । अत एतद्विकल्पकविज्ञानग्राह्यत्वं तुल्यम् ॥ १२७४ ॥

कथमित्याह—“विशेषाद्धी”त्यादि ।

विशेषाद्धि विशिष्टं तत्सामान्यमवगम्यते ।
तद्ग्राहकमतः प्राप्तं विज्ञानं सविकल्पकम् ॥ १२७५ ॥

यद्ध्यस्माद्विशेषाद्विशिष्टं—व्यावृत्तं, तत्सामान्यं प्रतीयते । अन्यथा सामान्यमेव न स्यात्ततो यदि न व्यावर्त्तेत । ततश्चास्यापि सामान्यस्य विशेषाद्व्यावृत्तस्य ग्राहङ्क विज्ञानं सविकल्पकं प्राप्नोति, विशिष्टविषयत्वात् । न च भवति त्वन्मतेन । तत्मात्स्वतोऽनैकान्त इति ॥ १२७५ ॥

अत्र किल तेनैन सुमतिना स्वयमाशङ्क्य सामान्येन हेतोरनैकान्तिकत्वं परिहृतं तदेवादर्शयति—“निर्विशेष”मित्यादि ।

निर्विशेषं गृहीतश्चेद्भेदः सामान्यमुच्यते ।
ततो विशेषात्सामान्यविशिष्टत्वं न युज्यते ॥ १२७६ ॥

नहि सामान्यं किञ्चिदस्ति विशेषेभ्यो व्यतिरिक्तस्वरूपं, यत्स्वरूपेण विशिष्टं गृह्यमाणं सविकल्पकविज्ञानगोचरः स्यात्, किन्तु निर्विशेषं गृहीता भेदा एव सामान्यमित्युच्यन्ते । प्रतिनियतस्वरूपनिरपेक्षाः प्रतीयमानाः सामान्यशब्दाभिधेया इति यावत् । ततश्च कुतस्तस्माद्विशेषात्सामान्यस्य विशिष्टत्वम्, येन तद्ग्राहकस्य सविकल्पना भवेत् ॥ १२७६ ॥

कथं तर्हि सामान्यविशेषयोरसङ्कीर्णा व्यवस्थेत्याह—“वैषम्ये”त्यादि ।

वैषम्यसमभावेन ज्ञायमाना इमे किल ।
प्रकल्पयन्ति सामान्यविशेषस्थितिमात्मनि ॥१२७७ ॥

एत एव हि भेदाः समविषमतया सम्प्रज्ञायमाना यथाक्रमं सामान्यविशेषाभिधानाभिधेयतामनुभूय सामान्यविशेषव्यवहारयोर्विषयभेदं प्रकल्पयन्ति ॥ १२७७ ॥

“वैषम्यसमभावोऽय”मित्यादिना प्रतिविधत्ते ।

वैषम्यसमभावोऽयं प्रविभक्तो यदीष्यते ।
सामान्यस्य विशिष्टत्वं तदवस्थं विशेषतः ॥ १२७८ ॥

अथाविभक्त एवायमसङ्कीर्णा स्थितिः कथम् ।
अन्योन्यापरिहारेण स्थितेर्गत्यन्तरं नच ॥ १२७९ ॥

“प्रविभक्त” इति । अमिश्रः । अन्यदेव सामान्यमन्य एव विशेष इति यावत् । सामान्यस्य विशेषतो विशिष्टत्वमित्युपलक्षणम् । तथा विशेषस्यापि सामान्यतो विशिष्टत्वमेव । द्वयोरपि परस्परस्वभावविवेकेन प्रविभक्तत्वात् । “असङ्कीर्णा स्थिति”रिति । अमिश्रीभूता । यथोक्तं तेनैव सुमतिना—सत्तादिसामान्यस्वभावानुविद्ध एव विशेषः साक्षात्क्रियते नान्यथा, ततो विशष्टविषयत्वमेव विशेष्यस्य युक्तं रूपम्, सामान्यं पुनरशेषविशेषनिरपेक्षं साक्षात्कर्तुं शक्यत इत्यविरुद्धमस्याविकल्पविषयत्व मिति । इयमसङ्कीर्णा स्थितिर्न स्यात् । न प्रविभक्तो नाप्रविभक्त इष्यत इति चेदाह—“अन्योन्ये”त्यादि । अन्योन्यापरिहारस्थितिलक्षणानामेकस्वभावनिषेधस्यापरविधिनान्तरीयकत्वान्न राश्यन्तरमस्ति ॥ १२७८ ॥ १२७९ ॥

अपि च निर्विशेषं गृहीता भेदा इति परस्परव्याहतमिति दर्शयन्नाह—“विशेषात्मातिरेकेणे”त्यादि ।

विशेषात्मातिरेकेण नापरं भेदलक्षणम् ।
तद्रूपास्पर्शने तेषु ग्रहणं कथमुच्यते ॥ १२८० ॥

तद्रूपस्पर्शने चापि भेदान्तरविभेदिनः ।
गृहीता इति विज्ञानं प्राप्तमेषु विकल्पकम् ॥ १२८१ ॥

भेदेभ्यो हि नान्यो विशेषः, तस्य च विशेषस्य सामान्यग्राहिणा ज्ञानेनासंस्पर्शे कथं भेदास्तेन गृहीता भवेयुः, अगृहीतस्वभावाव्यतिरेकात्तेप्यगृहीता एवेति भावः । अथ गृहीता इति मतम्, तदा तद्रूपसंस्पर्शने—भेदरूपसंस्पर्शने ग्रहणे, गृहीताव्यतिरेकाद्गृहीतस्वभाववद्विशेषोऽपि गृहीत एवेति, एषु—भेदेषु, यत्सामान्यविषयत्वेनाभिमतं ज्ञानं तद्विकल्पकं प्राप्तम् ॥ १२८० ॥ १२८१ ॥

किं च—माभून्नाम सामान्यस्य विशेषाव्यतिरेकात्ततो विशिष्टत्वं, तथापि शशविषाणादेर्निरूपाख्यात्तस्य विशिष्टत्वमस्त्येवेति विकल्पज्ञानग्राह्यं स्यात्, नच भवति, तस्मादनैकान्तिकत्वमेवेति दर्शयन्नाह—“निरुपाख्याच्चे”त्यादि ।

निरुपाख्याच्च सामान्यं विशेषं सम्प्रतीयते ।
अतो विकल्पकज्ञानग्राह्यं तदपि ते भवेत् ॥ १२८२ ॥

नासतस्तद्विशिष्टं चेत्किभिदानीं तदात्मकम् ।
नो चेत्तथापि वैशिष्ट्यं तस्मादस्य न किं मतम् ॥ १२८३ ॥

स्यादेतत्—सामान्यस्याभावतो न विशेषः सम्भवति, नापि सादृश्यम् । तथाहि— यन्न किञ्चित्सोऽभावः कल्प्यते, तच्च तादृशं सामान्यतो नैव विशिष्टं नापि समं, भावत्वप्रसङ्गात् । तथाहि—यदि तच्छून्यं सामान्यतो विशिष्टं स्यात्तदपि वस्त्वेव स्यात् । नह्यवस्तुनो विशेषाख्यस्वभावः सम्भवति, न च विशेषाख्यं स्वभावमन्तरेण विशिष्टं शक्यं वक्तुम् । नापि समं वस्तुत्वप्रसङ्गात् । नह्यवस्तुनः केनचित्समानं रूपं भवति, नच समानरूपमन्तरेण समं युक्तमतिप्रसङ्गात् । तस्मात्सामान्यस्य शून्यमवधिं कृत्वा न समत्वं विशिष्टत्वं वा युक्तम् । तथाहि—यो यमवधिं कृत्वा समो विशिष्टो वा भवति तेन सोऽप्यवधिः समो विषमश्च दृश्यते । यदि हि सोऽवधिस्तेन समो विषमो वा न दृश्येत, इतरोप्यवधिमान्समो विषमो वा न दृश्येत ॥ १२८२ ॥ १२८३ ॥

किञ्च नाभावो नाम कश्चिद्भावव्यतिरिक्तोऽस्ति भाव एव तु भावान्तरं न भवतीत्यभाव आख्यायते, तत्कुतोऽस्य वैशिष्ट्यमित्येतत्सर्वं सुमतिनोक्तमागूर्याह—“अतदात्मकमेवेद”मित्यादि ।

अतदात्मकमेवेदं वैशिष्ट्यं वस्तुनोऽपि हि ।
नासद्रूपं च सामान्यं तद्विशिष्टं न ते कथम् ॥ १२८४ ॥

तस्मात्स्वलक्षणे ज्ञानं यत्किञ्चित्सम्प्रवर्त्तते ।
वाक्पथातीतविषयं सर्वं तन्निर्विकल्पकम् ॥ १२८५ ॥

वस्तुनोऽपि हि सकाशाद्यदवस्तुनो विशिष्टत्वं तत्खलु नान्यत् किञ्चित् । किं तर्हि तत्त्वनिषेधः, अतदात्मत्वमेव, लक्षणभेद इति यावत् । तच्चासतोऽपि शशविषाणादेःसकाशात्सामान्स्य तुल्यमेव । तथाहि—असच्छशविषाणादि सर्वार्थक्रियाविरहलक्षणं, सामान्यं तु न तथेष्टमिति विस्पष्टमस्य ततो वैशिष्ट्यम् । ततश्चासतोऽपिसकाशाद्वैशिष्ट्यं स्यान्नच वस्तुत्वप्रसङ्गोऽसत इति यत्किञ्चिदेतत् । यदुक्तं—नाभावो नामान्य एवेत्यादि, तत्र तेन स्वभाषितस्यैवार्थो न विवेचितः । तथाहि—भाव एव तु भावान्तरं न भवतीत्युक्ते भावान्तरात्तस्य विशेष उक्तो भवति, ततो व्यावृत्तिसङ्कीर्तनात् । तदेतद्ध्यान्ध्यविजृम्भितमित्यलं प्रसङ्गेन । “तस्मा”दित्यादिना प्रमाणफलोपसंहारः ॥ १२८४ ॥ १२८५ ॥

“अस्ति ह्यालोचनाज्ञान”मित्यादिना कौमारिलमतोपदर्शनेन यस्य यद्रूपव्यवस्थितौ निमित्तं नास्तीत्यादौ प्रयोगे हेतोः पक्षैकदेशासिद्धत्वमाशङ्कते ।

अस्ति ह्यालोचनाज्ञानमाद्यं चेन्निर्विकल्पकम् ।
बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥ १२८६ ॥

न विशेषो न सामान्यं तदानीमनुभूयते ।
तयोराधारभूता तु व्यक्तिरेवावसीयते ॥ १२८७ ॥

ततः परं पुनर्वस्तु धर्मैर्जात्यादिभिर्यया ।
बुद्ध्याऽवसीयते सापि प्रत्यक्षत्वेन सम्मता ॥ १२८८ ॥

तथाहि—सर्वं प्रत्यक्षं पक्षीकृतं, तत्र च सर्वत्र प्रत्यक्षाख्ये धर्मिणि सविकल्पकव्यवस्थितौ नास्ति च विशेषणविशिष्टार्थग्रहणं निमित्तमित्यस्य हेतोरसिद्धिः, आलोचनाज्ञानव्यतिरेकेणान्यत्र प्रत्यक्षे सामान्यादिविशेषणविशिष्टार्थग्रहणस्य विद्यमानत्वात् । अथालोचनाज्ञानमेव पक्षीकृत्य हेतुरभिधीयते तदा सिद्धसाध्यतेति मन्यते, परः । “बालमूकादिविज्ञानसदृश”मिति । बालविज्ञानसदृशं मूकादिविज्ञानसदृशम् । आदिशब्देन सम्मूर्छितपरिग्रहः । अभिलापविशेषरहितत्वमात्रेण साम्यम् । शुद्धत्वं पुनर्वस्तुनः सामान्यद्वयविविक्तत्वात् । तदेव द्वितीयेन श्लोकेन स्पष्टयति—“न विशेष” इत्यादि । “विशेष” इति । अवान्तरसामान्यं गोत्वादि । “सामान्य”मिति । महासामान्यं वस्तुत्वादि । “तयोराधारभूते”ति । अनेन शुद्धं वस्तु दर्शितम् । “ततः पर”मित्यादिना तामेव पक्षैकदेशासिद्धतां हेतोरभिव्यनक्ति—“ततः पर”मिति । शुद्धवस्तुग्रहणोत्तरकालं यया बुद्ध्या वस्तु व्यवसीयते जात्यादिभिर्विशेषणैः सापि प्रत्यक्षत्वेन सम्मतेति योज्यम् । जात्यादिभिरित्यनेन विशेषणविशिष्टार्थग्रहणं दर्शयति । अनेन चानधिगतार्थाधिगन्तृत्वं हेतोश्चासिद्धतोक्ता भवति ॥ १२८६ ॥ १२८७ ॥ ॥ १२८८ ॥

पुनः पुनर्विकल्पेऽपि यावानधिगमो भवेत् ।
तत्सम्बन्धानुसारेण सर्वं प्रत्यक्षमिष्यते ॥ १२८९ ॥

“पुनः पुन”रिति । तृतीयादौ क्षणे । “यावा”निति । अनधिगतार्थाधिगन्तेति शेषः ।“तत्सम्बन्धानुसारेणे”ति । तस्याक्षस्य सम्बन्धानुसारेण ॥ १२८९ ॥

स्यादेतत्—यदि प्रथमतोऽक्षव्यापारकाले सकलजात्यादिधर्मसमन्वितं वस्तु न भासते, तत्तर्ह्युत्तरकालमपि न भासेताविशेषादित्याह—“न हि प्रविष्टमात्राणा”मित्यादि ।

न हि प्रविष्टमात्राणामुष्णाद्गर्भगृहादिषु ।
अर्था न प्रतिभान्तीति गम्यन्ते नेन्द्रियैः पुनः ॥ १२९० ॥

“उष्णा”दिति । प्रभास्वरात् । प्रविष्टमात्राणामिति योज्यम् । “गम्यन्ते नेन्द्रियै”रिति । अपि तु गम्यन्त एवेति काक्वा दर्शयति ॥ १२९० ॥

एवं दृष्टान्तं प्रसाध्य दार्ष्टान्तिके उपसंहरन्नाह—“यथे”त्यादि ।

यथा त्वाभासमात्रेण पूर्वं ज्ञात्वा स्वरूपतः ।
पश्चात्तत्र विबुद्ध्यन्ते तथा जात्यादिधर्मतः ॥ १२९१ ॥

यथा गर्भगृहे आभासमात्रं गृहीत्वा पश्चाद्विशेषतो नीलमित्यादिना जानाति, एवं स्वरूपतः पूर्वं ज्ञात्वा पश्चाज्जात्यादिधर्मतः प्रत्यक्षवान्भविष्यतीत्यदोषः ॥ १२९१ ॥

एवं तर्हि यद्यालोचनाज्ञानादूर्ध्वं पुनः पुनर्यावानधिगमस्तस्य प्रामाण्यं तदाऽऽलोचनाज्ञानेन यदि कश्चिदालोच्य पश्चादक्षिणी निमील्य जात्यादिधर्मतो विकल्पयति, तदाऽस्यापूर्वाधिगमोस्तीति तस्यापि प्रत्यक्षता स्यादित्याह—“यदि त्वि”त्यादि ।

यदि त्वालोच्य सम्मील्य नेत्रे कश्चिद्विकल्पयेत् ।
न स्यात्प्रत्यक्षता तस्य सम्बन्धाननुसारतः ॥ १२९२ ॥

“आलोच्ये”ति । आलोचनाज्ञाने ज्ञात्वा । “नेत्रे” इति । सम्मील्येति सम्बन्धः ।“सम्बन्धाननुसारत” इति । अक्षसम्बन्धद्वारेणानुत्पत्तेः । यथोक्तं तेनैव कुमारिलेन— एवं समानेऽपि विकल्पमात्रे यत्राक्षसम्बन्धफलानुसारः । प्रत्यक्षता तस्य, तथा च लोके विनाप्यदो लक्षणतः प्रसिद्धमिति ॥ १२९२ ॥

“तदि”त्यादिना प्रतिविधत्ते ।

तदयुक्तं यदि ज्ञानं तत्प्रवृत्तं स्वलक्षणे ।
अनाविष्टाभिलापं तज्जात्यादिग्रहणेऽपि हि ॥ १२९३ ॥

तथा(चा)वाच्यमेवेदं साधितं प्राक् स्वलक्षणम् ।
तस्मिन्वृत्तं च विज्ञानं नियतं निर्विकल्पकम् ॥ १२९४ ॥

जात्यादिग्रहणेऽपीत्यपिशब्दोऽभ्युपगमे । एकदा तावज्जात्यादीनां निरस्तत्वान्न सन्त्येव न इति कुतस्तद्गहणे प्रामाण्यम्, सन्तु नाम, तथापि तद्ग्रहणे आलोचनाज्ञानवदुत्तरकालभाविनां ज्ञानानां स्वलक्षणविषयत्वादविकल्पतैव, जात्यादीनां स्वलक्षणादव्यतिरेकस्याभ्युपगतत्वादिति भावः । प्रयोगः—यत्स्वलक्षणग्रार्हि तदविक ल्पकं, यथाऽऽलोचनाज्ञानम्, स्वलक्षणग्राहि चोत्तरप्रत्यक्षत्वेनाभिमतं ज्ञानमितिस्वभावहेतुः । प्रसङ्गसाधनं चेदं, नचानैकान्तिकता हेतोः, यतोऽवाच्यमेवेदं स्वलक्षणमिति प्रागन्यापोहे प्रसाधितम् । नापि विरुद्धता सपक्षे भावात् ॥ १२९३ ॥ ॥ १२९४ ॥

स्यादेतत्—जातिमात्रविषयत्वादसिद्धो हेतुरित्याह—“जातिमात्रे”त्यादि ।

जातिमात्रग्रहे तु स्यादेकान्तेन विभिन्नता ।
विशेषणस्य नैतच्च परैरिष्टं यथोदितम् ॥ १२९५ ॥

“एकान्तेन विभिन्नता विशेषणस्ये”ति । विशेष्यादिति शेषः । “नैतश्च परैरिष्टमि”ति । एकान्तेन विशेषणविशेष्ययोर्विभिन्नत्वम् । कथं नेष्टमित्याह—“यथोदित”मिति । तेनैवेति शेषः ॥ १२९५ ॥

किं तदित्याह—“यदी”त्यादि ।

यदि ह्येकान्ततो भिन्नं विशेष्यात्स्याद्विशेषणम् ।
स्वानुरूपां तदा बुद्धिं विशेष्ये जनयेत्कथम् ॥ १२९६ ॥

पर्यायेण भेदस्याप्यभ्युपगतत्वा“देकान्तत” इत्याह । तथाहि—भिन्नाभिन्नस्वभावाजात्यादयस्तस्येष्टा नैकान्ततो भिन्ना नाप्यभिन्नाः । तथाचाह— बुद्धिभेदान्न चैकत्वं रूपादीनां प्रसज्यते । एकानेकत्वमिष्टं वा सत्तारूपादिभेदत इति । पुनश्चोक्तम्—स्थितं नैव हि जात्यादेः परत्वं व्यक्तितो हि न इति । परत्वमिति । अन्यत्वम् ।“स्वानुरूपा”मिति । विशेषणस्वरूपोपरक्ताम् । यतो विशेषणोपरक्तं विशेष्यं ग्राहयद्विशेषणमुच्यते, अन्यथा विशेषण(त्व)स्यानुपपन्नत्वादिति भावः । यथोक्तम्— स्वबुद्ध्या येन रज्येत विशेष्यं तद्विशेषणम् इति ॥ १२९६ ॥

अथापि स्यात्—स्वसामान्यलक्षणविषयत्वेनोभयविषयत्वात्केवलस्वलक्षणमात्रविषयत्वमसिद्धमेवोत्तरेषां ज्ञानानामित्याह—“स्वसामान्यात्मनो”रित्यादि ।

स्वसामान्यात्मनोर्युक्तं ज्ञानं चैकं न वेदकम् ।
सविकल्पान्यथाभावे प्राक्तनापरविन्न हि ॥ १२९७ ॥

स्वलक्षणसामान्यलक्षणयोर्नैकं ज्ञानं वेदकं युक्तम् । तथाहि—तदेकं ज्ञानं सविकल्पकं वा स्यादविकल्पकं वा, तत्र सविकल्पकभावे—सविकल्पकत्वे सति, प्राक्तनस्य—पूर्वोक्तस्य स्वलक्षणस्य, वित्—वेदनं, न प्राप्नोति । “अन्यथाभाव” इति ।निर्विकल्पकपक्षे । “अपर”स्येति । सामान्यात्मनः, वित्—वित्तिर्न स्यात् ॥ १२९७ ॥

एवं तावत्स्वलक्षणविषयत्व इतरेषां ज्ञानानामविकल्पता प्राप्नोतीति साधितम् । इदानीं भवतु नाम सविकल्पत्वं तथापि गृहीतग्राहित्वान्न तेषां प्रामाण्यं युक्तमितिप्रतिपादयन्नाह—“एकान्तेने”त्यादि ।

एकान्तेनान्यताभावाज्जात्याद्याद्येन चेद्गतम् ।
विज्ञातार्थाधिगन्तृत्वात्स्मार्त्तज्ञानसमं परम् ॥ १२९८ ॥

तथाहि—जात्यादेर्व्यक्तितो नैवान्यत्वमेकान्तेनेष्टम् । यथोक्तम्—स्थितं नैव हि जात्यादेः परत्वं व्यक्तितो हि न इति । ततश्चाद्येनैवालोचनाज्ञानेन जात्यादि गृहीतमिति स्मार्त्तज्ञानवदधिगतार्थाधिगन्तृत्वात्परं जात्यादिधर्मनिश्चयज्ञानमप्रमाणमेव युक्तमिति । प्रयोगः—यद्गृहीतग्राहि ज्ञानं न तत्प्रमाणं, यथा स्मृतिः, गृहीतग्राही च प्रत्यक्षपृष्ठभावी विकल्प इति व्यापकविरुद्धोपलब्धिः ॥ १२९८ ॥

तदत्र यदि समारोपविषयव्यवच्छेदन गृहीतमिति हेत्वर्थस्तदा हेतोरसिद्धता, अथ यथाकथञ्चिद्गृहीतत्वादिति हेत्वर्थस्तदाऽनुमानेनानेकान्त इत दर्शयन्नाह—“सम्मुग्धे”त्यादि ।

सम्मुग्धानेकसामान्यरूपेणाधिगमे सति ।
नैव चेन्निश्चितं वस्तु निश्चयस्तूत्तरोत्तरः ॥ १२९९ ॥

समारोपव्यवच्छेदविषयत्वाद्यथाऽनुमा ।
समारोपव्यवच्छेदविषयो निश्चयस्तथा ॥ १३०० ॥

तथाहि—प्रथमं सम्भुग्धरूपेणालोचनाज्ञानेनाधिगतं, नहि निश्चितरूपेण, उत्तरोत्तरस्तु निश्चयः प्रमाणं, समारोपव्यवच्छेदविषयत्वादनुमानवत् । यथा प्रत्यक्षेण गृहीते शब्दादौ धर्मिणि कृतकत्वादिनाऽनित्यत्वनिश्चयो भवन्प्रमाणं भवति, तथा समारोपव्यवच्छेदविषयो निश्चयो भविष्यति । तथाहि भवतामत्राविवादः—“समारोपव्यवच्छेदविषयो निश्चय” इति । यथोक्तम्— निश्चयारोपमनसोर्बाध्यबाधकभावतः । समारोपविवेकेऽस्य प्रवृत्तिरिति गम्यते ॥ इति ॥ १२९९ ॥ १३०० ॥

“ने”त्यादिना प्रतिविधत्ते ।

न समारोपविच्छेदविषयत्वेन मानता ।
अनुमायाः प्रमाणत्वप्रसङ्गेन स्मृतेरपि ॥ १३०१ ॥

प्रत्यक्षानन्तरोद्भूतसमारोपणवारणात् ।
इष्टं तु लैङ्गिकं ज्ञानं प्रमाणं न तदस्ति ते ॥ १३०२ ॥

गौःशुक्लश्चलतीत्यादौ प्रत्यक्षानन्तरं न हि ।
समारोपोऽत्र विज्ञाने वेद्यते यन्निषिध्यते ॥ १३०३ ॥

प्रवृत्तसमारोपव्यवच्छेदेनानुमानस्य प्रामाण्यं, न तु पुनः समारोपविषयव्यवच्छेदमात्रेण, स्मृतेरपि प्रामाण्यप्रसङ्गात्, नच तत्प्रत्यक्षसमनन्तरभाविनो गौः शुक्लश्चलतीत्यादेर्विकल्पस्य प्रवृत्तसमारोपनिवारणमस्ति, अन्तरा समारोपस्यानुत्पन्नत्वात् । कथमनुत्पन्नत्वमिति चेदाह—“गौरि”त्यादि । नहि विकल्पोऽसंविदित उत्पद्यत इत्युपलब्धिलक्षणप्राप्तस्यानुपलब्ध्या सिद्धमनुत्पन्नत्वं समारोपस्य ॥ १३०१ ॥ १३०२ ॥ ॥ १३०३ ॥

एवं तावदेतत्सर्वं जात्यादिकमभ्युगम्योक्तम्, इदानीं जात्यादयः परमार्थतो न सन्त्येव कुतस्तद्विषयतया प्रत्यक्षस्य सविकल्पता भविष्यतीति दर्शयन्नाह—तत्त्वेत्यादि ।

तत्त्वान्यत्वोभयात्मानः सन्ति जात्यादयो न च ।
यद्विकल्पकविज्ञानं प्रत्यक्षत्वं प्रयास्यति ॥ १३०४ ॥

अन्वयासत्वतो भेदाद्भेदेनाप्रतिभासनात् ।
अन्योन्यपरिहारेण स्थितेश्चान्यत्वतत्त्वयोः ॥ १३०५ ॥

व्यक्तिभ्यो हि जात्यादयः कदाचिदव्यतिरिक्ता व्यतिरिक्ता वा व्यतिरिक्ताव्य“तिरि”क्तत्वेनोभयात्मानो वा । न तावदाद्यः पक्षः—अन्वयासत्वतः—अन्वयाभावात् । अनेकवस्त्वनुगतं हि रूपं सामान्यमुच्यते, न चैवं व्यक्तयः परस्परमन्वाविशन्ति, येन ता एव सामान्यं भवेयुः । अन्वावेशे वा विश्वमेकमेव रूपं जातमितिसामान्यस्यैवाभावप्रसङ्गः, अनेकाधारत्वात्तस्य । नापि द्वितीयः पक्षः—भेदाद्भेदेनाप्रतिभासनात्—“भेदा”दिति । व्यक्तेः । नचाप्रतिभासमानं प्रत्यक्षीभवति । यथोक्तम्— व्यक्तयो नानुयन्त्यन्यदनुयायि न भासते । ज्ञानादव्यतिरिक्तं च कथमर्थान्तरं व्रजेत् ॥ इति । नापि तृतीयः पक्षः—अन्योन्यपरिहारेण स्थितेरन्यत्वतत्त्वयोः पक्षयोः । यौहि परस्परपरिहारेण स्थितलक्षणौ तयोर्य एकः प्रतिषेधः सोऽपरविधिनान्तरीयकः । परस्परपरिहारेण वाऽन्यत्वतत्त्वे व्यवस्थिते, अन्यतरस्वभावव्यवच्छेदेनान्यतरस्य परिच्छेदात् । तस्मान्नास्ति तृतीयराशिसम्बन्धः ॥ १३०४ ॥ ॥ १३०५ ॥

ननु च यद्यविकल्पं प्रत्यक्षं कथं तेन व्यवहारः, तथाहि—इदं सुखसाधनमिदं दुःखस्येति यदि निश्चिनोति तदा तयोः प्राप्तिपरिहाराय प्रवर्त्तते । किञ्च—अनुमानानुमेयव्यवहाराभावश्च प्राप्नोति । तथाहि—अनुमानकालेऽवश्यं धर्मी धर्मो वा प्रमाणान्तरेण निश्चितो गृहीतव्यः । स च न प्रत्यक्षेणानिश्चयात्मकेन निश्चितो गृहीतुं शक्यते । नाप्यनुमानेन, अनवस्थादोषात् । नचान्यत्प्रमाणान्तरमस्तीति सर्वव्यवहारोच्छेदः प्राप्नोति । तस्मादनुमानादिव्यवहारप्रवृत्तितो लिङ्गादनुमानबाधितेयमविकल्पकप्रतिज्ञेति यश्चोदयेत्तं प्रत्याह—“अविकल्पमपी”त्यादि ।

अविकल्पमपि ज्ञानं विकल्पोत्पत्तिशक्तिमत् ।
निःशेषव्यवहाराङ्गं तद्द्वारेण भवत्यतः ॥ १३०६ ॥

“तद्द्वारेणे”ति । विकल्पद्वारेणाविकल्पकमपि निश्चयहेतुत्वेन सकलव्यवहाराङ्गं भवति । तथाहि—प्रत्यक्षं कल्पनापोढमपि सजातीयविजातीयव्यावृत्तमनलादिकमर्थं तदाकारनिर्भासोत्पत्तितः परिच्छिन्ददुत्पद्यते । तच्च नियतरूपव्यवस्थितवस्तुग्राहित्वाद्विजातीयव्यावृत्तवस्त्वाकारानुगतत्वाच्च तत्रैव वस्तुनि विधिप्रतिषेधावाविर्भावयति—अनलोऽयं नासौ कुसुमस्तबकादिः, इति । तयोश्च विकल्पयोः पारम्पर्येण वस्तुनि प्रतिबन्धादसंवादित्वेऽपि न प्रामाण्यमिष्टम् । दृश्यविकल्पयोरेकत्वाध्यवसायेन प्रवृत्तेरनधिगतवस्तुरूपाधिगमाभावात् । अतएव विकल्पद्वयहेतुत्वात्तृतीयप्रकाराभावसूचनायापि निमित्ततां प्रतिपद्यते । तथाहि—यद्यत्र क्वचित्प्रवृत्तं त(त्त)त्प्रतिभासित्वात्तत्परिच्छिनत्ति, तदन्यस्य तत्रानुपलम्भात्ततस्तद्व्यवच्छिनत्ति । सर्वभावानां च दृश्यतदन्यत्वेन द्वैराश्ये व्यवस्थापनात्प्रकारान्तराभावं च सूचयति । यद्येवं—प्रत्यक्षेणैव शब्दादौ धर्मिणि गृहीतत्वादनित्यत्वादेः तत्रानुमानविकल्पः प्रवर्त्तमानः प्रमाणं न प्राप्नोति । नैष दोषः । प्रत्यक्षमुत्पन्नमपि यत्रांशेऽवसायं जनयति स एवांशो व्यवहारयोग्यो गृहीत इत्यभिधीयते, यत्र तु भ्रान्तिनिमित्तवशात्समारोपप्रवृत्तेर्न व्यवसायं जनयितुमीशं स व्यवहारायोग्यत्वाद्गृहीतोऽप्यगृहीतप्रख्य इति तत्रानुमानस्य प्रवृत्तसमारोपव्यवच्छेदाय प्रवर्त्तमानस्य प्रामाण्यं भवति, न पुनःप्रत्यक्षानन्तरभाविविकल्पस्य, तस्य प्रवृत्तसमारोपव्यवच्छेदाभावात् । किं पुनः कारणं—सर्वतो भिन्ने वस्तुरूपे अनुभवोत्पत्तावपि तथैव न स्मार्त्तो निश्चयो भवति । उच्यते । कारणान्तरापेक्षत्वात्, न ह्यनुभूत इत्येव निश्चयो भवति । तस्याऽभ्यासार्थित्वापाटवादिकारणान्तरापेक्षत्वात् । यथा जनकाध्यापकाविशेषेऽपि पितरमायान्तं द्दष्ट्वा पिता मे आगच्छति नोपाध्याय इति निश्चिनेति ॥ १३०६ ॥

अत्र भाविविक्तादयो विकल्पोत्पादद्वारेणापि व्यवहाराङ्गत्वं विघटयन्तो यत्प्रमाणयन्ति तद्दर्शयति—“नाविकल्प”मित्यादि ।

नाविकल्पं विकल्पे चेच्छक्तं(च शक्तं ?) विषयभेदतः । अकल्पत्वाच्च रूपादिज्ञानवच्चक्षुरादिवत् ॥ १३०७ ॥

नेन्द्रियविज्ञानं सविकल्पकमनोविज्ञानकारणं भिन्नविषयत्वाद्रूपस्पर्शादिज्ञानवत्,निर्विकल्पकत्वाच्च, चक्षुरादिवदिति । विषयभेदक इत्यत्र हेतौ दृष्टान्तो रूपादिज्ञानवदिति, अकल्पत्वादित्यत्र तु चक्षुरादिवदिति ॥ १३०७ ॥

“तदत्रे”त्यादिना दूषणमाह—

तदत्र न विरोधोऽस्ति विकल्पेन सहानयोः ।
नचापि विषयो भिन्नस्तदर्थाध्यवसायतः ॥ १३०८ ॥

उभयोरपि हेत्वोरनैकान्तिकता, साध्यविपर्ययेण सह हेत्वोर्विरोधानुपदर्शनात् ।“अनयो”रिति । हेत्वोः । “नचापि विषयो भिन्न” इत्यनेन सत्यपि सविषयत्वे विकल्पस्य विषयभेदत इत्यस्य हेतोरसिद्धतामाह ॥ १३०८ ॥

परमार्थतस्तु निर्विषयो विकल्पस्तदापि सुतरामसिद्धतेति दर्शयन्नाह—“वस्तुतस्त्वि”त्यादि ।

वस्तुतस्तु निरालम्बो विकल्पः सम्प्रवर्त्तते ।
तस्यास्ति विषयो नैव यो विभिद्येत कश्चन ॥ १३०९ ॥

“रूपशब्दादी”त्यादिना रूपादिज्ञानवदित्यस्य दृष्टान्तस्य साध्यविकलतामाह ।

रूपशब्दादिबुद्धीनामस्त्येवान्योन्यहेतुता ।
ततोऽप्रसिद्धसाध्योऽयं दृष्टान्तः समुदीरितः ॥ १३१० ॥

रूपशब्दादिज्ञानानां परस्परसमनन्तरप्रत्ययभावेन कारणत्वस्य विद्यमानत्वात् ॥ १३१० ॥

पुनरपि विषयभेदत इत्यस्य हेतोर्विपक्षे सद्भावोपदर्शनेनानैकान्तिकतामाह—“अग्निधूमादी”त्यादि ।

अग्निधूमादिबुद्धीनां कार्यकारणभावतः ।
व्यभिचारोऽपि विस्पष्टमेतस्मिन्नुपलभ्यते ॥ १३११ ॥

“एतस्मिन्नि”ति । विषयभेदत इत्यत्र हेतौ । यथाग्न्यादिलिङ्गिबुद्धेर्धूमादिलिङ्गबुद्धिर्विषयभेदेऽपि कारणं तथात्रापि भविष्यतीति हेतोरनैकान्तिकत्वम् ॥ १३११ ॥

एवं कल्पनापोढत्वं प्रत्यक्षस्य प्रसाध्याभ्रान्तग्रहणे प्रयोजनमाह—“केशोण्ड्रके”त्यादि ।

केशोण्ड्रकादिविज्ञाननिवृत्त्यर्तमिदं कृतम् ।
अभ्रान्तग्रहणं तद्धि भ्रान्तत्वान्नेष्यते प्रमा ॥ १३१२ ॥

अभ्रान्तमत्राविसंवादित्वेन द्रष्टव्यम्, नतु यथाऽवस्थितालम्बनाकारतया । अन्यथा हि योगाचारमतेनालम्बनासिद्धेरुभयनयसमाश्रयेणेष्टस्य प्रत्यक्षलणस्याव्यापिता स्यात् । अविसंवादित्वं चाभिमतार्थक्रियासमर्थार्थप्रापणशक्तिकत्वम्, नतु प्रापणमेव प्रतिबन्धादिसम्भवात् । यद्येवमभ्रान्तग्रहणमेवास्तु, किं कल्पनापोढग्रहणेनेति चेत् । न । अनुमानविकल्पस्यापि प्रत्यक्षत्वप्रसङ्गात् ॥ १३१२ ॥

“मानसं तदपीत्येक” इति ।

मानसं तदपीत्येक नैतदिन्द्रियभावतः ।
भावात्तद्विकृतावस्य विकृतेश्चोपलम्भतः ॥ १३१३ ॥

सर्पादिभ्रान्तिवच्चेदमनष्टेऽप्यक्षविप्लवे ।
निवर्त्तेत मनोभ्रान्तेः स्पष्टं च प्रतिभासनात् ॥ १३१४ ॥

न तदर्थमभ्रान्तग्रहणं युक्तं कर्तुमिति तेषामभिप्रायः । ननु च भवतु नाम मानसम्, तथाप्यभ्रान्तग्रहणं कर्त्तव्यमेव, नह्यनेनेन्दियज्ञानस्यैव प्रत्यक्षलक्षणं कर्तुमारब्धम्, किं तर्हि ? मानसस्यापि योगिज्ञानादेः, तत्र च स्वप्नान्तिकस्यापि निर्विकल्पकत्वमस्ति स्पष्टप्रतिभासित्वात्, नत्वभ्रान्तत्वमिति तन्निवृत्त्यर्थमभ्रान्तग्रहणं युक्तमेव । सत्यमेतत् । किन्त्विन्द्रियभ्रान्तिरपि सम्भवत्यतोऽयमयुक्तं एषां पक्ष इतीन्द्रियजत्वप्रतिपादनायाह—“नैत”दित्यादि । इन्द्रियभावे सति भावादिन्द्रियविकारे चोपघातलक्षणे विकारस्योपहतिलक्षणस्योपलम्भात्तदन्येन्द्रियबुद्धिवदिन्द्रियजेयं केशोण्ड्रकादिबुद्धिः । किञ्च—यदि मनोभ्रान्तिः स्यात्ततो मनोभ्रान्तेरेव कारणान्निवर्त्तेतानिवृत्तेऽप्यक्षविप्लवे । “सर्पादिभ्रान्तिव”दिति दृष्टान्तः । स्पष्टप्रतिभासा च न प्राप्नोतीत्ययमपरः प्रसङ्गः । नहि विकल्पानुविद्धस्तु स्पष्टार्थप्रतिभासिता, सामान्योल्लेखेनैव तस्य प्रवृत्तेः ॥ १३१३ ॥ १३१४ ॥

“तद्भावे”त्यादिना परकीयं दूषणमाशङ्कते ।

तद्भावभाविता साक्षादसिद्धा व्यभिचारिणी ।
पारम्पर्येण सा तस्यां स्मृतिबुद्धौ समन्वयात् ॥ १३१५ ॥

तद्विकारविकारित्वं पारम्पर्योद्भवेष्वपि ।
कार्येषु दृश्यते लोके व्यक्तं वेगसरादिषु ॥ १३१६ ॥

मानस्यो भ्रान्तयः सर्वा निवर्त्तन्ते विचारतः ।
इत्यस्मिन्व्यभिचारित्वं भावसामान्यबुद्धिभिः ॥ १३१७ ॥

वस्तुस्वलक्षणे नैताः प्रवर्त्तन्ते स्वभावतः ।
एवं तद्विनिवृत्तिश्चेत्तुल्यं चन्द्रद्वयादिषु ॥ १३१८ ॥

न सत्ताविनिवृत्तिश्चेत्समं सामान्यबुद्धिषु ।
नचेश्वरादिभ्रान्तीनां तन्मताभिनिवेशिनाम् ॥ १३१९ ॥

युक्तिकोटिश्रवेऽप्यस्ति निवृत्तिः प्रत्युत स्वयम् ।
नैता युक्तय इत्येवं ते वदन्ति जडाः पुनः ॥ १३२० ॥

अत्र यदि साक्षात्तद्भावभावित्वं हेतुस्तदाऽन्यतरासिद्धता हेतोः, नहि परस्य साक्षादिन्द्रियादुत्पत्तिर्भ्रान्तेः सिद्धा, तस्या एव साध्यत्वात् । अथ सामान्येन तद्भावभावित्वं हेतुस्तदाऽनैकान्तिकता, स्मृतिबुद्धौ विपक्षभूतायामपि तद्भावभावित्वस्य समन्धया(पारम्पर्या ?)द्विद्यमानत्वात् । यच्च तद्विकारविकारित्वं तदपि साक्षादसिद्धम्, पारम्पर्येणाप्युपादीयमानमनैकान्तिकमेव । यतोऽश्वायां गर्दभेन जातस्य वेगसरस्य कललाद्यवस्थाव्यवधानेऽपि गर्दभरूपानुकारेण तद्विकारित्वस्य पश्चाद्दर्शनादतो नास्मात्साक्षादुत्पत्तिः सिध्यति । मानसी च भ्रान्तिर्विचारान्निवर्तत इत्यत्राप्यनैकान्तिकत्वं भावसामान्यबुद्धिभिः । नहि भवतां युक्त्या सामान्याभावमवगच्छतामपि भावेषु घटादिषु भाव इति वा सामान्यमिति वा सामान्याकारो विकल्पोनिवर्त्तते । अथ मन्यसे—निवर्त्तन्त एव युक्त्या विचारयतः सामान्यबुद्धयः स्वलक्षणे नैताः प्रवर्त्तन्त इत्यनेनाकारेणेति । तदैतदप्यनुत्तरम् । चन्द्रद्वयादिबुद्धयोऽपि युक्त्या विचारयतः स्वलक्षणे नैताः प्रवर्त्तन्त इत्यनेनाकारेण निवर्त्तन्त एव । नच तावता मानस्यो भवन्ति । सत्ता तासां न निवर्त्तत इति चेत्तत्तुल्यं सामान्यबुद्धिभिः । नहि तासामपि स्वभावो निवर्त्तते ॥ १३१५ ॥ १३१६ ॥ १३१७ ॥ ॥ १३१८ ॥ १३१९ ॥ १३२० ॥

“तद्भावभाविते”त्यादिना प्रतिविधत्ते ।

तद्भावभाविता साक्षान्न सिद्धाऽभ्रान्तचेतसा ।
व्यवधानं न सिद्धं हि न हि तद्वेद्यतेऽन्तरा ॥ १३२१ ॥

अन्यार्थासक्तचित्तोऽपि द्विचन्द्रादि समीक्षते ।
अविच्छिन्नमतो नास्ति पारम्पर्यसमुद्भवः ॥ १३२२ ॥

भावसामान्यबुद्धीनां प्रतिसंहारसम्भवे ।
निवृत्तिः सम्भवत्येव स्वेच्छयेशमतेरपि ॥ १३२३ ॥

नासिद्धा, अपि तु सिद्धैव, कस्मात् ?, अभ्रान्तेनैकचन्द्रचेतसा व्यवधानासिद्धेः ।तस्योपलभ्यस्यान्तरासेऽनुपलभ्यमानत्वात् । एतदेवा“न्यार्थे”त्यादिना स्पष्टीकुरुते ।अविच्छिन्नं द्विचन्द्रादीति सम्बन्धनीयम् । अत एव तद्विकारविकारित्वस्याप्यव्यभिचारः । नहि तदपि व्यवहितं, येन वेगसरादिभिर्व्यभिचारः स्यात् । भावसामान्यबुद्धीनामपि यदेच्छाया संहारं कुरुते तदा निवृत्तिरस्त्येव । नतु केशोण्ड्रकादिबुद्धीनामिच्छया संहारः सम्भवतीति नानैकान्तिकता । इन्द्रियज्ञानस्यापि चक्षुषीच्छया निमीलिते निवृत्तिरिच्छावशात्सम्भवतीति चेत् । नहि समनन्तरमिच्छानिवृत्तौ निवर्त्तते चक्षुर्विज्ञानम् । किं तर्हि ? । चक्षुर्निमीलनं तावदिच्छावशाद्भवति, ततो निवृत्ते चक्षुषि तज्ज्ञानं निवर्त्तते, मानसी तु भ्रान्तिः साक्षादिच्छावशान्निवर्त्तत इति न समानम् । इत्थं चैतदवसेयं—यतः प्रणिहिते चक्षुषि द्रष्टुमनिष्यमाणोऽप्यर्थो दृश्यत एवातो नेच्छायाश्चक्षुरादिज्ञाने साक्षात्सामर्थ्यम् ॥ १३२१ ॥ १३२२ ॥ १३२३ ॥

पीतशङ्खादिबुद्धीनां विभ्रमेऽपि प्रमाणताम् ।
अर्थक्रियाऽविसंवादादपरे सम्प्रचक्षते ॥ १३२४ ॥

केचित्तु स्वयूथ्या एवाभ्रान्तग्रहणं नेच्छन्ति । भ्रान्तस्यापि पीतशङ्खादिज्ञानस्य प्रत्यक्षत्वात् । तथाहि न तदनुमानमलिङ्गजत्वात् । प्रमाणं चाविसंवादित्वात् । अत एवाचार्यदिङ्न्ागेन लक्षणे न कृतमभ्रान्तग्रहणम् । भ्रान्ति(:) संवृत्ति(:)साज्ञानमनुमानेत्यादिना प्रत्यक्षाभासनिर्देशादविसंवादिकल्पनापोढमित्येवन्धमिष्टमाचार्यस्य लक्षणम् । सतैमिरमिति तु तिमिरशब्दोऽयमज्ञानपर्यायः । तिमिरघ्नं च मन्दानामिति यथा । तिमिरे भवं तैमिरं विसंवादकमित्यर्थः ॥ १३२४ ॥

“तन्ने”त्यादिना प्रतिविधत्ते ।

तन्नाध्यवसिताकारप्रतिरूपा न विद्यते ।
तत्राप्यर्थक्रियावाप्तिरन्यथाऽतिप्रसज्यते ॥ १३२५ ॥

केशादिप्रतिभासे च ज्ञाने संवादिभावतः ।
आलोकादेरतस्तस्य दुर्निवारा प्रमाणताः ॥ १३२६ ॥

प्रामाण्यं हि भवद्द्वाभ्यामाकाराभ्यां भवति, यथाप्रतिभासमविसंवादाद्यथाध्यवसायं वा । तत्रेह न यथाप्रतिभासमविसंवादः पीतस्य प्रतिभासनात्तस्य यथाभूतस्याप्राप्तेः । नापि यथाध्यवसायमविसंवादः, पीतस्यैव विशिष्टार्थक्रियाकारित्वेनाध्यवसायात्, न च तद्रूपार्थक्रियाप्राप्तिरस्ति । न चानध्यवसितार्थाविसंवादेनापि प्रामाण्यमतिप्रसङ्गत् । केशादिज्ञानेऽपि ह्यनध्यवसिताऽऽलोकादिप्राप्तेः ॥ १३२५ ॥ ॥ १३२६ ॥

अथ मन्यसे—यद्यपि वर्णोऽध्यवसितो न प्राप्यते, संस्थानं तु प्राप्यत एवेत्यत आह—“न वर्णे”त्यादि ।

न वर्णव्यतिरिक्तं च संस्थानमुपपद्यते ।
भासमानस्य वर्णस्य न च संवाद इष्यते ॥ १३२७ ॥

सुबोधम् ॥ १३२७ ॥

“यद्याकार”मित्यादिनोपचयमाह—

यद्याकारमनादृत्य प्रामाण्यं च प्रकल्प्यते ।
अर्थक्रियाऽविसंवादात्तद्रूपो ह्यर्थनिश्चयः ॥ १३२८ ॥

इत्यादिगदितं सर्वं कथं न व्याहतं भवेत् ।
वासनापाकहेतूत्थस्तस्मात्संवादसम्भवः ॥ १३२९ ॥

नैव ह्यर्थक्रियाऽविसंवादित्वमात्रेणाकारमनपेक्ष्य प्रामाण्यं कल्पनीयम्, विषयाकारस्याप्रामाण्यप्रसङ्गत् । “तद्रुप” इति । ज्ञानस्थाभासरूपः । आदिशब्देन यथा यथा ह्यर्थस्याकारः शुभ्रादित्वेन सन्निविशते तद्रूपः स विषयः प्रमीयत इत्यादिकमाचार्यीयं वचनं विरुध्यत इति दर्शयति । अर्थक्रियासंवादस्तु पूर्वार्थानुभवबासनापरिपाकादेव प्रमाणान्तराद्भवतीत्यवसेयम् । पीतशङ्खज्ञानस्य वासनापरिपाकहेतुः शुक्ल एव शङ्खस्तदाधिपत्येन तत्परिपाकात् । वासनापरिपाकहेतुतः समुत्थानं यस्याविसंवादस्य स तथोक्तः ॥ १३२८ ॥ १३२९ ॥

सुखादीनां कथं संवेदनप्रत्यक्षतेत्याह—“मानसे”त्यादि ।

मानसेन्द्रियविज्ञाननिर्विकल्पत्वसाधने ।
यो न्यायः स सुखादीनामविकल्पत्वसाधकः ॥ १३३० ॥

“यो न्याय” इति । अशक्यसमयत्वादिः । मानसस्य यद्यपि नोक्तो न्यायस्तथापि य इन्द्रियज्ञाने न्यायोऽशक्यसमयत्वं स तस्यापि तुल्य एव । यद्वा योगिज्ञानमिह मानसं, तच्च वक्ष्यमाणम् । सिद्धान्तप्रसिद्धत्वान्मानसस्यात्र न लक्षणं कृतं । प्रमाणेनाबाधितत्वमाचार्येणैव प्रतिपादितमिति न प्रतिपाद्यत इति भावः ॥ १३३० ॥

“अवेदका” इत्यादिना वैशेषिकमतमाशङ्कते ।

अवेदकाः परस्यापि स्वविद्भाजः कथं नु ते ।
एकार्थाश्रितविज्ञानवेद्यास्त्वेते भवन्ति चेत् ॥ १३३१ ॥

न केवलं स्वसंवेदना न भवन्ति, बाह्यस्याप्यर्थस्यावेदकाः ॥ न ज्ञानस्वभावा इति यावत् । एकस्मिन्नात्मनि समवेतेन तु ज्ञानेन वेद्यन्त इति तेषां सिद्धान्तः ॥ १३३१ ॥

“नैरन्तर्ये”त्यादिना प्रतिविधत्ते ।

नैरन्तर्यप्रवृत्ते हि बाह्यवस्तूपलम्भते ।
सुखादि वेद्यते कस्मात्तस्मिन्काले निरन्तरम् ॥ १३३२ ॥

मानसेनैव यद्वेद्यमिष्यते चेतसा न च ।
तत्काले तस्य सद्भावः क्रमजन्मोपवर्णनात ॥ १३३३ ॥

जन्मैव यौगपद्येन नेष्यते न पुनः स्थितिः ।
इति चेन्न स्थितिस्तस्य क्षणभङ्गप्रसाधनात् ॥ १३३४ ॥

आशुवृत्तेः सकृद्भ्रान्तिरिति चेत्साऽप्यपाकृता ।
विस्पष्टप्रतिभासो हि न स्यात्स्मरणगोचरे ॥ १३३५ ॥

शाताशातादिरूपा च सा भ्रान्तिर्यदि कल्प्यते ।
तदा प्राप्ता सुखादीनां सत्ता तन्मात्रलक्षणा ॥ १३३६ ॥

यदा च योगिनोऽन्येषामध्यक्षेण सुखादिकम् ।
विदन्ति तुल्यानुभवात्तद्वत्तेऽपि स्युरातुराः ॥ १३३७ ॥

स्वस्मिन्नपि हि दुःखस्य सत्तैवानुभवो न ते ।
किं तु तद्विषयं ज्ञानं तच्चास्ति परसन्ततौ ॥ १३३८ ॥

परदुःखानुमाने च तुल्यमेतत्तथाहि तत् ।
(अनुमानं स)विषयं वर्ण्यते न त्वगोचरम् ॥ १३३९ ॥

अनेन प्रतिज्ञायाः प्रत्यक्षविरुद्धतामाह । यदा बाह्यवस्त्ववलम्बनज्ञानसमकालंसुखादयोऽनुभूयन्ते, तदा कतमेनैकार्थाश्रयिणा ज्ञानेन वेद्येरन्, न तावत्तेनैव बाह्या लम्बने न चक्षुरादिज्ञानेन, तस्य बाह्यालम्बनत्वात्, अन्तःसंवेद्यमानत्वाच्च सुखादीनां मानसेनैव चेतसा वेद्यत्वेनेष्टत्वात् । नच तस्मिन्काले मानसस्य चेतसः सम्भवः, क्रमेणैव ज्ञानान्युत्पद्यन्त इत्यभ्युपगम्यते । अथापि स्याज्जन्मैव ज्ञानानां क्रमेणाभ्युपगतं न स्थितिरिति । एतच्चासम्यक् । सर्वजन्मिनां क्षणिकत्वस्य प्रसाधितत्वात् । आशु वृत्त्या सकृद्भ्रान्तिरपि या साऽपास्तैव पूर्वम् । किञ्च—आह्लादपरितापिरूपेण स्पष्टः प्रतिभासो न प्राप्नोति, विकल्पविषयत्वे सति सुखादीनां मानसेनैव चेतसा वेद्यत्वेनाभ्युपगपगमात् । तस्य च सविकल्पकत्वात् । न च विकल्पानुबद्धस्य स्पष्टार्थप्रतिभासिता । अस्माभिस्तु स्वविषयानन्तरविषयसहकारिणोन्द्रियज्ञानेन जनितस्यैव प्रत्यक्षत्वेनाभ्युपेतत्वात् । अपि च ग्राह्यत्वे सति सुखादीनां विच्छिन्नप्रतिभासिता स्यान्नीलादिवत् । न च ज्ञानाद्विच्छिन्नस्य शातादिरूपस्योपलब्धिः । ज्ञानाभेदेन शातादिरूपस्य ग्रहणं भ्रान्तिरिति चेत् । एवं तर्हि सिद्धा सुखादीनां सत्ता स्वसंविद्रूपा । शातादिरूपमात्रलक्षणत्वात्सुखादीनाम् । तद्रूपता चेज्ज्ञानस्य सिद्धा, सिद्धा ज्ञानस्वभावाः सुखादयः । व्यतिरिक्तानां त्वसिद्धत्वाद्भ्रान्त्यसिद्धेः ।शातेत्यनुकूला, तद्विपरीता त्वशाता, आदिशब्देनोपेक्षा गृह्यते । यदि च स्वसन्तानोत्पत्तिलक्षणैव सुखादीनां सत्ता स एव तेषामनुभव इति नाभ्युपगम्यते । किन्तुतद्विषयज्ञानोत्पत्तिस्तदा योगिनां परकीयं सुखादि गृह्णतां तदनुभविनामिव तुल्यातुरावस्था स्यात् । भिन्नसन्तानवर्त्तित्वान्न तुल्यावस्थेति न वक्तव्यम् । नहि स्वसन्तानवर्त्तित्त्वं तेषामनुगमोऽभ्युपगतः । किं तर्हि ? । तद्विषयज्ञानोत्पत्तिः । साच परसन्तानग्राहिणामप्यस्तीति समानः प्रसङ्गः । अथोभयमनुभवे सुखादीनां कारणमङ्गीक्रियते तदा स्वसन्तानवर्त्तित्वेनानुभवे सिद्धं सुखादीनामात्मसंवेदनम् । एवं हि स्वसन्तानवर्त्तित्वं निमित्तं परसन्तानवर्त्तिभ्यश्च विशेषकं भवति । यदि स्वसंविद्रूपा भवन्ति येषां तर्हि न योगिनः सिद्धा मीमांसकादीनां तेषां कथं तैः प्रसङ्ग इत्याह —“परे”त्यादि । नहि बौद्धानामिव परेषां निर्विषयं परमार्थतोऽनुमानम् । ततश्च परदुःखानुमाने तुल्योऽनुभवोऽनुमातुरपि स्यात् ॥ १३३२ ॥ १३३३ ॥ १३३४ ॥ ॥ १३३५ ॥ १३३६ ॥ १३३७ ॥ १३३८ ॥ १३३९ ॥

सुखादीत्येव गम्यन्ते सुखदुःखादयो न तु ।
ज्ञानमित्येव गम्यन्ते तन्न ज्ञानं घटादिवत् ॥ १३४० ॥

शङ्करस्वाम्याह—न ज्ञानस्वभावाः सुखादयः, ज्ञानमित्यव्यपदेश्यत्वात्, घटादिवदिति ॥ १३४० ॥

“यद्येव”मित्यादिना दूषणमाह—

यद्येवं समयान्यत्वे ज्ञानमित्यपि नो गतिः ।
चेतस्यस्ति ततः प्राप्ता तत्राप्यज्ञानता तदा ॥ १३४१ ॥

यदि सङ्केतान्यत्वेन स्वभावान्यत्वं स्यात्, एवं सति यदा ज्ञानेऽपि कश्चिदज्ञानमिति समयं कुर्यात्तदा ज्ञानमित्यपि चेतसि व्यपदेशो नास्तीति प्राप्ता ज्ञानेऽप्यज्ञानता भवतः ॥ १३४१ ॥

व्यक्तं प्रकाशरूपत्वान्नो चेदेवं प्रसज्यते ।
सुखदुःखादिके तुल्यं तच्च सर्वमिदं न किम् ॥ १३४२ ॥

भूतार्थभावनोद्भूतं कल्पनाभ्रान्तिवर्जितम् ।
वक्ष्यामो योगिविज्ञानं साधनैर्विमलैरलम् ॥ १३४३ ॥

अथ प्रकाशात्मकं ज्ञानं स्पष्टमनुभूयत इति नाज्ञानता स्यादेव सति सुखादिष्वपि सर्वमेतत्समानम् । हेतुश्चानेनैव व्यभिचारी(ति)न किञ्चिदेतत् । “वक्ष्याम” इति । सर्वज्ञसिद्धौ ॥ १३४२ ॥ १३४३ ॥

प्रमाणफलविप्रतिपत्तिनिराकरणायाह—“विषये”त्यादि ।

विषयाधिगतिश्चात्र प्रमाणफलमिष्यते ।
स्ववित्तिर्वा प्रमाणं तु सारूप्यं योग्यतापि वा ॥ १३४४ ॥

बाह्येऽर्थे प्रमेये विषयाधिगमः प्रमाणफलं, सारूप्यं तु प्रमाणम् । स्वसंवित्तावपि सत्यां यथाकारमस्य प्रथनात् । ज्ञानात्मनि तु प्रमेये स्वसंवित्तिः फलम्, योग्यता प्रमाणम् । सव्यापारप्रतीततामुपादाय ज्ञानस्यैव सा तादृशी योग्यता । येन तदेवात्मानं वेदयते न घटादय इति योग्यतया करणभूतयैवात्मप्रकाशकं लक्ष्यते ज्ञानमिति योग्यतायाः स्वसंवेदने प्रामाण्यम् । तदुक्तम्— तत्राप्यनुभयात्मत्वात्ते योग्याःस्वात्मसंविदः । इति सा योग्यता मानमात्मा मेयः फलं स्ववित् ॥ इति ॥ १३४४ ॥

“छेदन” इत्यादिना कौमारिलचोद्यमाशङ्कते ।

छेदने स्वदिरप्राप्ते पलाशे न छिदा यथा ।
तथैव परशोर्लोके छिदया नैकतेति चेत् ॥ १३४५ ॥

भिन्नप्रमाणफलवादिनं प्रति बौद्धेनोक्तम्—यदि प्रमाणफलयोर्भेदोऽभ्युपगम्यते तदा भिन्नविषयत्वं स्यात्प्रमाणफलयोः । न चैतद्युक्तम् । नहि परश्वादिके छेदने खदिरप्राप्ते सति पलाशे छेदो भवति । तस्मात्प्रमाणफलयोरेकविषयत्वादभेद इति ।अत्रोक्तं कुमारिलेन— विषयैकत्वमिच्छंस्तु यः प्रमाणं फलं वदते । साध्यसाधनयोर्भेदो लौकिकस्तेन बाधितः ॥ छेदने स्वदिरप्राप्ते न पलाशे छिदा यथा । तथैव परशोर्लोके छिदया सह नैकता ॥ इति । छेद्यतेऽनेनेति छेदनम् ॥ १३४५ ॥

“ने”त्यादिनोत्तरमाह ।

न व्यवस्थाश्रयत्वेन साध्यसाधनसंस्थितिः ।
निराकारे तु विज्ञाने सा संस्था न हि युज्यते ॥ १३४६ ॥

नीलास्पदं संवेदनं न पीतस्येति विषयावगतिव्यवस्थाया अर्थसारूप्यमेव निबन्धनं नान्यदिति व्यवस्थाप्यव्यवस्थापकभावेन साध्यसाधनव्यवस्था, नोत्पद्योत्पादकभावेन, यस्मान्न पारमार्थिकः कर्तृकरणादिभावोऽस्ति, क्षणिकत्वेन निर्व्यापारत्वात्सर्वधर्माणाम् । ज्ञानं हि विषयाकारमुत्पद्यमानं विषयं परिच्छिन्ददिव सव्यापारमिवाभाति । अयमेवार्थप्रापणव्यापारो ज्ञानस्य, न त्वविनाभावित्वमात्रम् । नहिबीजाद्यविनाभाविनोऽङ्कुरादयो न भवन्ति । ये(न) ज्ञानमेव प्रमाणं स्यात् । तस्मात्साकारमेव ज्ञानं प्रमाणं न निराकारमिति व्यवस्थया प्रामाण्येन प्रदर्श्यते । व्यवस्था च तत्पृष्टलब्धेन विकल्पेन वेदितव्या ॥ १३४६ ॥

“अत उत्प्रेक्षित” इत्यादिना लोकप्रसिद्ध्यबाधामाह ।

अत उत्प्रेक्षितो भेदो विद्यते धनुरादिवत् ।
उत्पाद्योत्पादकत्वेन व्यवस्थेयं तु नेष्यते ॥ १३४७ ॥

“धनुरा”दिवदिति । धनुर्विध्यति धनुषा विध्यति धनुषो निःसृत्य शरो विध्यतीति यच्चैकस्य धनुषः कर्तृत्वादयः कल्पिता न विरुध्यन्ते तथेहापीति ॥ १३४७ ॥

विश्लिष्यमाणसन्धौ च दर्वादौ परशुच्छिदा ।
प्रविशन्नुच्यते तेन तत्रैकत्वमवस्थितम् ॥ १३४८ ॥

परशुना च वृक्षादेश्छिदा निरूप्यमाणा छेद्यद्रव्यानुप्रवेशलक्षणैवावतिष्ठते स चानुप्रवेशः परशोरात्मगत एव धर्म इति परमार्थतश्छिदया सहैकत्वमिति नास्ति विरोधः ॥ १३४८ ॥

व्यवस्थायामित्यादिनैतद्दर्शयति ।

व्यवस्थायां तु जातायां कल्प्यतामन्यथापि हि ।
उत्पाद्योत्पादकत्वेन संस्थानविधिरुच्यते ॥ १३४९ ॥

यथा कुमारिलेन परिच्छेदफलत्वेत्यादिना ग्रन्थेनोत्पाद्योत्पादकभावेन प्रमाणफलव्यवस्थाकृता, तथाऽस्माकमप्यविरोधिन्येव । यथोक्तमाचार्येण— तत्रापि हि प्रत्यक्षत्वोपचारोऽविरुद्धश्चक्षुरादिषु तत्कारणेष्विति । एतावत्तु ब्रूमः—अवश्यमादौ व्यवस्थाद्वारेणैव साध्यसाधनसंस्था कर्त्तव्या, न ह्यव्यवस्थाप्य संविद्भेदं विषयभेदेन नियमेन प्रवृत्तिर्युक्ता, संविद्भेदव्यवस्थायाश्च सारूप्यमेव निबन्धनमिति सामर्थ्यादेवायातं सारूप्यस्य साधकतमत्वं, सारूप्यादेव चे ज्ञानस्य प्रवर्त्तकत्वम् । प्रवर्त्तकस्य च प्रमाणत्वं प्रवृत्तिकामेन निरूप्यते, न व्यसनितया । यथोक्तम्— अर्थक्रियार्थं हि सर्वः प्रमाणमप्रमाणं चान्वेषते प्रेक्षावानिति । यतो येनैवांशेन प्रवर्त्तकत्वं ज्ञानस्य भवति स एव दर्शनीयः, न चोत्पाद्योत्पादकभावेन प्रमाणफलव्यवस्थायां प्रवर्त्तकांशः सारूप्यं गम्यते, ततश्च निष्फलमेवोत्पादद्वारेण प्रमाणव्यवस्थानं स्यात् ।अतएवाचार्येणैतद्द्वारेण प्रमाणव्यवस्थानं न प्रवृत्त्यङ्गमिति मत्वैवोपचार आश्रितः । तस्माज्जातायां तु व्यवस्थायां साऽन्यथाऽप्युत्पाद्योत्पादकभावेन कल्प्यताम् । तथाऽप्यदोष एवेति ॥ १३४९ ॥

“परिच्छेदे”त्यादिना तदेव कौमारिलं फलव्यवस्थानं दर्शयति ।

परिच्छेदफलत्वेन वृत्तस्यानन्तरस्य हि ।
कारणत्वं मतं ज्ञाने प्रमाणे तु फलं परम् ॥ १३५० ॥

स्वसंवित्तिफलत्वं चेन्निषेधान्नैव युज्यते ।
माने च विषयाकारे भिन्नार्थत्वं प्रसज्यते ॥ १३५१ ॥

“वृत्तस्ये”ति । प्रवृत्तस्य चक्षुरादेरित्यर्थः । “फलं पर”मिति । हानोपादोनापेक्षाबुद्धिलक्षणम् । इदमपरमुक्तं कुमारिलेनैव—स्वसंवेदनस्य निषेधात्तस्य प्रमाणफलत्वमयुक्तम् । विषयाकारस्य च प्रामाण्ये सति प्रमाणफलयोर्भिन्नविषयत्वं प्रसज्यते । तथाहि—विषयाकारो बाह्यविषयः स्वसंवेदनं तु ज्ञानस्वरूपविषयमिति ॥ १३५० ॥ ॥ १३५१ ॥

सर्वेत्यादिना प्रतिविधत्ते—

सर्वावित्तिप्रसङ्गेन सा निषेद्धुं न शक्यते ।
भिन्नार्थत्वं न चेहास्ति स्वविदप्यर्थविन्मता ॥ १३५२ ॥

अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति इति सर्वार्थाप्रत्यक्षत्वप्रसङ्गान्न शक्यते स्वसंवित्तिर्निषेद्धुम् । नापि भिन्नविषयत्वप्रसङ्गो युक्तः, यतः स्वसंवित्तिरप्यर्थसंवित्तिरिष्टा, तत्कार्यत्वात् । नतु तन्मयत्वेन । स्वसंवित्तिस्तु ताद्रूप्यादिति न विरोधः ॥ १३५२ ॥

“स्वातिरिक्ते”त्यादिना शङ्करस्वामी प्रमाणयति ।

स्वातिरिक्तक्रियाकारि प्रमाणं कारकत्वतः ।
वास्यादिवच्चेद्वैफल्यमन्यद्ध्यपि फलं मतम् ॥ १३५३ ॥

उक्तन्यायेन वास्यादेरन्यदस्ति फलं न च ।
कारकत्वं च नो सिद्धं जनकत्वविवक्षया ॥ १३५४ ॥

स्थापकत्वविवक्षायां न विरोधोऽस्ति कश्चन ।
तेनानैकान्तिको हेतुर्विरोधाप्रतिपादनात् ॥ १३५५ ॥

आत्मव्यतिरिक्तक्रियाकारि प्रमाणं कारकत्वाद्वास्यादिवदिति । “वैफल्य”मित्यादिना दूषयति । विफलं, सिद्धसाध्यतादोषात् । यतोऽन्यदपि जन्यं फलं परिच्छेदेत्यादिना कथितम् । हिशब्दो हेतौ । वास्यादिवदिति च साध्यविकलो दृष्टान्तश्छिदया सहैकत्वस्य प्रतिपादितत्वात् । कारकत्वादिति च जन्यजनकत्वविवक्षायामसिद्धो हेतुः, स्थापकत्वेनैवेष्टत्वात् । साधनस्य स्थापकत्वविवक्षायामप्यनैकान्तिको विरोधाभावात् । सामान्यविवक्षायामनैकान्तिक एव, विरोधस्यानुपदर्शितत्वात् ॥ १३५३ ॥ ॥ १३५४ ॥ १३५५ ॥

ननु च यदि विषयाकारं ज्ञानं स्यात्तदा भवेद्विषयसारूप्यस्य प्रामाण्यम्, यावता ग्राह्यविषयसमानाकारं समानस्वभावं ज्ञानमुपपद्यते, नैव तथा, ग्राह्याज्जात्यन्तरत्वाद्रूपरसयोरिवेत्याह—“ग्राह्ये”त्यादि ।

ग्राह्यसाधारणाकारं तस्माज्जात्यन्तरत्वतः ।
रसरूपादिवज्ज्ञानं नैव चेदुपपद्यते ॥ १३५६ ॥

न्यायानुसरणे सर्वमस्माभिरुपवर्णितम् ।
इदमन्यच्च विस्पष्टं ग्राह्यग्रहविवेचने ॥ १३५७ ॥

विज्ञानवादन्यायानुसारिभिरस्माभिरेतदिष्टमेवेति न किञ्चित्क्षीयते । तथाहि—यत्किञ्चिदिदमस्पष्टं भवता ग्राह्यदूषणमभिहितम् । इदं तु स्पष्टं ग्राह्यविवेचनाय साधनमभिधीयतेऽस्माभिः । ग्राह्ये ग्रहोऽभिनिवेशस्तस्य विवेचनमपनयनम् ॥ १३५६ ॥ ॥ १३५७ ॥

किं तत्स्पष्टं साधनमित्याह—“सर्वे”त्यादि ।

सर्वात्मना हि सारूप्ये ज्ञानमज्ञानतां व्रजेत् ।
साम्यं केनचिदंशने सर्वं स्यात्सर्ववेदकम् ॥ १३५८ ॥

यावद्भ्यो विजातीयेभ्यो व्यावृत्तस्तावद्भ्य एव ज्ञानमपीतीदं सर्वात्मना सारूप्यम् । कतिपयपदार्थव्यावृत्तिस्त्वंशेन सारूप्यम् ॥ १३५८ ॥

कथं तर्ह्यर्थसारूप्यस्य प्रामाण्यमुक्तमित्याह—“किन्त्वि”त्यादि ।

किन्तु बाह्यार्थसद्भाववादे सारूप्यसम्भवः ।
ध्रुवमभ्युपगन्तव्य इत्यर्थं स प्रकाशितः ॥ १३५९ ॥

निर्भासिज्ञानपक्षे हि ग्राह्याद्भेदेऽपि चेतसः ।
प्रतिबिम्बस्य ताद्रूप्याद्भाक्तं स्यादपि वेदनम् ॥ १३६० ॥

येन त्विष्टं न विज्ञानमर्थासारूप्यभाजनम् ।
तस्यायमपि नैवास्ति प्रकारो बाह्यवेदने ॥ १३६१ ॥

इति प्रत्यक्षलक्षणपरीक्षा ।

“स” इति । सारूप्यसम्भव आकारो वा । निर्भासा—विषयसारूप्यं, तद्यस्यास्ति तन्निर्भासि । “ग्राह्या”दिति । बाह्यादर्थात् । “प्रतिबिम्बस्ये”ति । ज्ञानाकारस्य । “ताद्रूप्या”दिति । विषयसारूप्यात् । “भाक्त”मिति । उपचरितम् । “वेदन”मिति । अर्थस्येति शेषः । भाजनम्—आश्रयः । विषयविप्रतिपत्तिस्तु सामान्यस्य वस्तुभूतस्य निराकरणाद्वस्तुविषयत्वेनेष्टस्य प्रत्यक्षस्य नान्यः स्वलक्षणाद्विषयोऽस्तीति सामर्थ्यादुपदर्शितत्वान्न पृथङ्निराकृता । ये त्वाहुरयुक्तमेवेदं प्रत्यक्षलक्षणम्, लक्षणं हि प्रमाणस्य प्रणीयते, अपि नाम तेन रूपेणोपलक्ष्य प्रमाणं ततः परेषां प्रवृत्तिः स्यादिति, न तु व्यसनितया, न च कल्पनापोढत्वादिनोपलक्षितस्यापि प्रवर्त्तकत्वं निवर्त्तकत्वं वा समस्ति लोक इति । तदसम्यक् । नहि स्वेच्छया वस्तूनां स्वभावव्यवस्थानां कर्तुं लभ्यं, येनान्यथा प्रणीयेत लक्षणम्, अपि तु यथावस्थितमेव वस्तुस्वरूपमनूद्य प्रसि द्धस्वभावविशेषप्रतिपिपादयिषया लक्षणं प्रणयन्ति तद्विदः । यथा पृथिव्याः खष्खटस्वं (खरत्वम् ?) । अन्यथा ह्यसम्भवितादोषेण दुष्टं स्यात् । नच प्रत्यक्षस्य कल्पनापोढाभ्रान्तत्वाभ्यामन्यल्लक्षणमुपलक्षकमस्ति । तथाहि—तदवश्यमभ्रान्तमङ्गीकर्त्तव्यं प्रमाणत्वात् । कल्पनापोढं च साक्षात्स्वलक्षणविषयत्वात् । स्वलक्षणस्य चाशक्यसमयत्वेन तत्संवित्तेरनभिजल्पत्वस्य प्रसाधितत्वात् । अतो न्यायानुयातमेव लक्षणमेव तदाचक्षते कुशलाः । न चाप्यतो लक्षणात्प्रेक्षावतां प्रवृत्तिनिवृत्ती न भवतः । तथाहि—घटोत्क्षेपणसामान्यसङ्ख्यादिज्ञानस्य प्रत्यभिज्ञाप्रत्ययस्य च तथा पीतशङ्खादिज्ञानस्य परैः प्रत्यक्षत्वेनोपकल्पितस्य यथायोगं सविकल्पकत्वेन भ्रान्तत्वेन वा प्रत्यक्षत्वमवधार्य तद्विषयत्वेनोपकल्पितस्य सङ्ख्यादेर्वस्तुत्वाभिनिवेशान्निवर्तन्ते । यच्च निर्देश्यं नीलादि स्वलक्षणं तदेव वस्त्वित्यवसाय तत्र प्रवर्त्तन्ते । यथाच निर्विकल्पस्यापि प्रत्यक्षस्य प्रवर्त्तकत्वं तथा प्रागुक्तमेव । यद्येवं कल्पनापोढत्वमेवैकं लक्षणं कर्तुं युक्तं नत्वभ्रान्तमिति । तथाहि—प्रवृत्तेः प्राग्यदेव सिद्धं रूपं तदेवप्रवृत्तिकामानां लक्षणत्वेन प्रणेतुं युक्तं नाप्रसिद्धमसत्तुल्यत्वात्तस्य । नचाभ्रान्तत्वनिश्चयोऽर्थक्रियासंवादात्प्रागस्ति, न ह्यर्वाग्दर्शनास्तत्कार्याधिगममन्तरेण यथार्थतां ज्ञानस्य ज्ञातुमीशते, तेषां नित्यं पदार्थशक्तेः कार्यानुमेयत्वात् । यथोपदर्शितार्थप्रापणसामर्थ्यलक्षणत्वाच्च यथार्थतायाः । न चोत्तरकालं यथार्थतावधारणेऽपि साफल्यमस्ति, ततः पुनरप्रवृत्तेः । तदेतदचोद्यम् । तथाहि—केशोण्ड्रकादिबुद्धीनामपिप्रामाण्यप्रसङ्गान्माभूदतिव्यापिता लक्षणदोष इत्यतोऽवश्यकरणीयमभ्रान्तग्रहणमित्युक्तम् । यश्चापि प्रवृत्तेः प्रागनिश्चयहेतुरर्वाग्दर्शित्वमुच्यते, सोऽप्यनैकान्त एव । को ह्यत्र प्रतिबन्धो यदर्वाग्दर्शिभिर्न क्वचित्सामर्थ्यं निश्चितव्यमिति । एवं हि नकिञ्चित्तैर्निश्चेयमिति प्राप्तम् । ततश्चाचेतनत्वमेव तेषामायातम् । यावता पशुशिशवोऽप्यभ्यासबलादुद्भूतभूतज्ञानवासनावृत्तयः सुखस्य साधनमेतदेतदसुखस्येति प्रवृत्तेः प्रागपि निश्चित्य प्रपातादि परिहरन्तः स्तनादि चोपाददानाः सन्दृश्यन्त एव । तथाह्यभूतमपि भावयतां कामशोकभयाद्युपप्लुतचेतसामनपेक्षितसाधर्म्यादिस्मृतेरभ्यासस्य स्फुटप्रतिभासस्य ज्ञानोत्पादनसामर्थ्यमुपलभ्यत एव । यत्र तु पुनर्नाभ्यासस्तत्र तेषाङ्कार्यानुमेयैव शक्तिर्न तु सर्वत्र । एतेन धूमादिलिङ्गनिश्चयोऽपि व्याख्यातः । यतस्तत्रापि तद(दे ?)तत्कार्यस्य धूमादेः प्रकृत्या परस्परमत्यन्तविविक्तस्वभावत्वात्, तद्विवेकनिश्चयस्य चाभ्यासादिहेतुत्वाल्लिङ्गनिश्चयसम्भवादतो नानुमानप्रतिक्षेपः । न न्वाद्यायां प्रवृत्तौ सत्यामभ्यासः सिध्यति, यावता सैव कथं भवतीति वक्तव्यम् । उच्यते । संशयात् । संशयहेतोः प्रत्यक्षस्य कथं तत्र प्रामाण्यमिति चेत् । निश्चयहेतोरपि कथं प्रामाण्यम् । अवसायोत्पादनादर्थिनस्तत्र प्रवर्त्तनादिति चेत् । तदेतत्संशयहेतोरपि तुल्यम् । यद्यपि तत्र प्रतीयमानार्थितार्थाकारविपरीतो व्यवसायः, तथापि न तेनाकारेण तस्य प्रत्यक्षस्य प्रवर्त्तकत्वम्, तथाऽवसितस्यानर्थितत्वात् ।नापि निवर्त्तकत्वं, प्रतीयमानप्रार्थितार्थाध्यवसायहेतुत्वेनार्थिनः प्रवर्त्तनात् । अन्यथा हि संशयहेतोः प्रत्यक्षादर्थी न प्रवर्त्तेत नापि निवर्त्तेतेति प्राप्तं, न चैवं भवति, अपि त्वर्थिनामसम्भावितानर्थोदयानामर्थितया प्रवृत्तेरेव बलीयस्त्वम् । अनेन चांशेन निश्चयहेतोः प्रत्यक्षादस्य न कश्चिद्विशेषः । यत्र त्वेकान्तेन प्रतीयमानार्थविपरीताकारावसायहेतुत्वमेव, अवसायानुत्पादकत्वं वा, तत्र तस्य सर्वथार्थिनोऽप्रवर्त्तनादप्रामाण्यमेवेति युक्तं वक्तुं, नान्यत्रेत्यलम् ॥ १३५९ ॥ १३६० ॥ १३६१ ॥

इति प्रत्यक्षलक्षणपरीक्षा ।