आरोपिताकारशब्दप्रत्ययगोचरत्वसमर्थनार्थं प्रस्तावमारचयन्नाह—“यदी”त्यादि ।
यदि नोपाधयः केचिद्विद्यन्ते (परमार्थतः) ।
(दण्डी शुक्लश्चलत्यस्ति गौ)रिहेत्यादिधी(ध्वनी) ॥ ८६७ ॥
(स्यातां) किंविषयावेतौ नानिमित्तौ च तौ मतौ ।
सर्वस्मिन्नविभागेन तयोर्वृत्तिरसम्भवी ॥ ८६८ ॥
वस्त्वेव हि परमार्थतः शब्दप्रत्ययग्राह्यम्, अतः शब्दैः साक्षाद्विधिनिषेधाभ्यांवस्तुस्वभावप्रतिपादनाद्विधिरेव शब्दार्थ इति विधिशब्दार्थवादिनां दर्शनम् । अपोहवादिनां तु न परमार्थतः शब्दानां किञ्चिद्वाच्यं वस्तुस्वरूपमस्ति । सर्व एव हि शब्दप्रत्ययो भ्रान्तो भिन्नेष्वर्थेष्वभेदाकाराध्यवसायेन प्रवृत्तेः, यत्र तु पारम्पर्येण वस्तुप्रतिबन्धः, तत्रार्थासंवादो भ्रान्तत्वेऽपीति दर्शनम् । तत्र यत्तदारोपितं विकल्पधियाऽर्थेष्वभिन्नं रूपं तदन्यव्यावृत्तपदार्थानुभवबलायातत्वात्स्वयं चान्यव्यावृत्ततया प्रख्यानाद्भ्रान्तैश्चान्यव्यावृत्तार्थेन सहैक्येनाध्यवसितत्वादन्यापोढपदार्थाधिगतिफलत्वाच्चा न्यापोढ इत्युच्यते । तेनापोहः शब्दार्थ इति प्रसिद्धम् । तत्र विधिवादिनश्चोदयन्ति । यदि भवतां द्रव्यगुणकर्मसामान्यविशेषसमवायलक्षणा उपाधयो विशेषणानि शब्दप्रत्ययं प्रति निमित्तानि परमार्थतो न सन्ति, तत्कथं लोके दण्डीत्यभिधानप्रत्ययाःप्रवर्त्तन्ते द्रव्याद्युपाधिनिमित्ताः । तथाहि—दण्डी विषाणीत्यादिधीध्वनी लोके द्रव्योपाधिकौ प्रसिध्दौ, शुक्लः कृष्ण इति गुणोपाधिकौ, चलति भ्रमतीति कर्मनिमित्तौ, अस्ति विद्यत इति सत्ताप्रवृत्तिनिमित्तकौ, गौरश्वो हस्तीति सामान्यविशेषोपाधी, इह तन्तुषु पट इति समवायबलात् । तत्रैषां द्रव्यादीनामभावे दण्डीत्यादिधीध्वनी निर्विषयौ स्यातामिति । आदिग्रहणं प्रत्येकमभिसम्बध्यते । तेन प्रत्येकं छत्री विषाणीत्यादिसमानजातीयधीध्वनीनां ग्रहणं भवति । अन्त्यास्तु विशेषा योगिनामेव ग्राह्याइति न तेषामादिशब्देन परिग्रहः । न चानिमित्तावेतौ युक्तौ, सर्वत्राविशेषेण सर्वदा तयोर्वृत्तिप्रसङ्गात् । न चाविभागेन तयोः प्रवृत्तिरस्ति । तस्मात्सन्ति द्रव्यादय इति परः । प्रयोगः—ये परस्परमसङ्कीर्णप्रवृत्तयस्ते सनिमित्ताः, यथा श्रोत्रादिप्रत्ययाः, असङ्कीर्णप्रवृत्तयश्च दण्डीत्यादिशब्दप्रत्यया इति स्वभावहेतुः । अनिमित्तत्वे सर्वत्राविशेषेण प्रवृत्तिप्रसङ्गो बाधकं प्रमाणम् ॥ ८६७ ॥ ८६८ ॥
“उच्यत” इत्यादिना प्रतिविधत्ते ।
उच्यते विषयोऽमीषां धीध्वनीनां न कश्चन ।
अन्तर्मात्रानिविष्टं तु बीजमेषां निबन्धनम् ॥ ८६९ ॥
तत्र यदि मुख्यतो बाह्येन विषयभूतेन सनिमित्तत्वमेषां साधयितुमिष्टं तदाऽनैकान्तिकता हेतोः साध्यविपर्यये बाधकप्रमाणाभावात् । अथ येन केनचिन्निमित्तेन सनिमित्तत्वमिष्यते तदा सिद्धसाध्यता । तथा ह्यस्माभिरिष्यत एवैषामन्तर्जल्पवासनाप्रबोधो निमित्तम्, न तु विषयभूतं, भ्रान्तत्वेन पूर्वस्य शाब्दप्रत्ययस्य निर्विषयत्वात् ।“अन्तर्मात्रानिविष्ट”मिति । विज्ञानसन्निविष्टं, वासनेति यावत् ॥ ८६९ ॥
एतदेवागमेन संस्पन्दयन्नाह—“यस्य यस्ये”त्यादि ।
यस्य यस्य हि शब्दस्य यो यो विषय उच्यते ।
स स (संविद्य)ते नैव वस्तूनां सा हि धर्मता ॥ ८७० ॥
“यो यो विषय” इति । स्वलक्षणसामान्यादिः । सा हि धर्मतेति । सा—प्रकृतिः, सर्ववाक्पथातीतत्वं वस्तूनां स्वभाव इति यावत् । यथोक्तम्— येन येन हि नाम्ना वै यो यो धर्मोऽभिलप्यते । न स संविद्यते तत्र धर्माणां सा हि धर्मतेति ॥ ८७० ॥
अथशब्दप्रत्ययस्य भ्रान्तत्वाविषयत्वयोः किं प्रमाणमिति चेत्, उक्तमत्र प्रमाणमस्माभिर्यद्भिन्नेष्वभेदाध्यवसायेन प्रवृत्तेः सर्व एवायं शाब्दप्रत्ययो भ्रान्त इति । तथाहि—योऽतस्मिंस्तदिति प्रत्ययः स भ्रान्तो यथा मरीचिकायां जलप्रत्ययः, तथा चायं भिन्नेष्वर्थेष्वभेदाध्यवसायी शाब्दप्रत्यय इति स्वभावहेतुः । नच सामान्यं वस्तुभूतं ग्राह्यमस्यास्ति, येनासिद्धता हेतोरिति स्यात्, तस्य पूर्वं विस्तरेण निरस्तत्वात् । भवतु वा सामान्यं, तथापि तस्य भेदेभ्योऽर्थान्तरत्वे भिन्नेष्वभेदाध्यवसायो भ्रान्तिरेव, न ह्यन्येनान्ये समाना युक्तास्तद्वन्तो नाम स्युः । अनर्थान्तरत्वेऽपि सामान्यस्य सर्वमेव विश्वमेकमेव वस्तु परमार्थत इति तत्र सामान्यस्य प्रत्ययो भ्रान्तिरेव । नह्येकवस्तुविषयः सामान्यप्रत्ययः, भेदग्रहणपुरःसरत्वात्तस्य । भ्रान्तत्वे च सिद्धे निर्विषयत्वमपि सिद्धम् । स्वाकारार्पणेन जनकस्य कस्यचिदर्थस्यालम्बनलक्षणप्राप्तस्याभावात् । अथवा—अन्यथा निर्विषयत्वं साध्यते । यत्रैव हि कुतसमया ध्वनयः, स एव तेषामर्थो युक्तो नान्योऽतिप्रसङ्गात् । न च क्वचिद्वस्तुन्येषां परमार्थतः समयः समस्तीत्यतो निर्विषया धीध्वनयः । प्रयोगः—ये यत्र भावतः कृतसमया न भवन्ति, न ते परमार्थतस्तमभिदधति, यथा सास्नादिमति पिण्डेऽश्वशब्दोऽकृतसमयः, न भवन्ति च भावतः कृतसमयाः सर्वस्मिन्वस्तुनि सर्वे ध्वनय इति व्यापकानुपलब्धेः । कृतसमयत्वेनाभिधायकत्वस्य व्याप्तत्वात्, तस्य चेहाभावः । नचायमसिद्धो हेतुरित्यादर्शयन्नाह—“यत” इत्यादि ।
यतः स्वलक्षणं जातिस्तद्योगो जातिमांस्तथा ।
बुद्ध्याकारो न शब्दार्थे घटामञ्चति तत्त्वतः ॥ ८७१ ॥
तथाहि गृहीतसमयं वस्तु शब्दार्थत्वेन व्यवस्थाप्यमानं कदाचित्स्वलक्षणं वा व्यवस्थाप्यते, जातिर्वा, तद्योगो वा, तया—जात्या, योगः—सम्बन्धः, यद्वा जातीमान्,पदार्थबुद्धेर्वा आकार, इति विकल्पाः । तत्र सर्वेष्वेव समयासम्भवान्न युक्तं शब्दार्थत्वम् । तत्त्वत इत्यनेन सांवृतस्य शब्दार्थस्याप्रतिषेधं दर्शयति । तेन स्ववचनव्याघातो न भवति । अन्यथा हि प्रतिज्ञायाः स्ववचनविरोधः स्यात् । तथा ह्येतान्स्वलक्षणादीन्शब्देनाप्रतिपाद्य न शक्यमशब्दार्थत्वमेषां प्रतिपादयितुम् । तत्प्रतिपिपादयिषया च शब्देन स्वलक्षणादीनुपदर्शयता शब्दार्थत्वमेषामभ्युपेतं स्यात् । पुनश्च तदेव प्रतिज्ञया प्रतिषिद्धमिति स्ववचनव्याघातः । एतेन यदुक्तमुद्योतकरेण अवाचकत्वे श ब्दानां प्रतिज्ञाहेत्वोर्व्याघात इति तदपि प्रत्युक्तं भवति, नहि सर्वथा शब्दार्थापवादोऽस्माभिः क्रियते, तस्यागोपालमपि प्रतीतत्वात् । किन्तु तात्त्विकत्वं धर्मो यः परैस्तत्रारोप्यते तस्य निषेधः क्रियते । न तु धर्मिणः ॥ ८७१ ॥
तत्र स्वलक्षणे तावत्सङ्केतसम्भवोपदर्शनादशब्दार्थत्वं प्रतिपादयन्नाह—“तत्रे”त्यादि ।
तत्र स्वलक्षणं तावन्न शब्दैः प्रतिपाद्यते ।
सङ्केतव्यवहाराप्तकालव्याप्तिवियोगतः ॥ ८७२ ॥
“न शब्दैः प्रतिपाद्यत” इति । तत्र सङ्केताभावादिति भावः । कथं सङ्केताभाव इत्याह—“सङ्केते”त्यादि । सङ्केतव्यवहाराभ्यामाप्तः प्राप्तो यः कालस्तस्य व्याप्तिर्व्यापनं तया वियोगात्कारणात् । न तत्र स्वलक्षणे समय इति शेषः । एतदुक्तं भवति—समयो हि व्यवहारार्थं क्रियते, न व्यसनितया, तेन यस्यैव सङ्केतव्यवहाराप्तकालव्यापकत्वमस्ति तत्रैव समयो व्यवहर्तॄणां युक्तो नान्यत्र । न च स्वलक्षणस्य सङ्केतव्यवहाराप्तकालव्यापकत्वमस्ति । तस्मान्न तत्र समय इति ॥ ८७२ ॥
कस्मात्पुनः स्वलक्षणस्य सङ्केतव्यवहाराप्तकालव्यापकत्वं न सम्भवतीत्याह—“व्यक्त्यात्मान” इत्यादि ।
व्यक्त्यात्मानोऽनुयन्त्येते न परस्पररूपतः ।
देशकालक्रियाशक्तिप्रतिभासादिभेदतः ॥ ८७३ ॥
तस्मात्सङ्केतदृष्टोऽर्थो व्यवहारे न दृश्यते ।
नचागृहीतसङ्केतो (बोध्येता)न्य इव ध्वनेः ॥ ८७४ ॥
सावलेयादयो हि व्यक्तिभेदा देशादिभेदेन परस्परतोऽत्यन्तव्यावृत्तमूर्त्तयो नैते परस्परमन्वाविशन्ति । तत्रैकत्र कृतसमयस्य पुंसोऽन्यैर्व्यवहारो न स्यात् । प्रतिभासादीत्यादिशब्देन वर्णसंस्थानावस्थाविशेषादिपरिग्रहः । “व्यवहारो न दृश्यत” इति । तेन तत्र समयाभावान्नासिद्धता हेतोरिति भावः । न चाप्यनैकान्तिकत्वमिति दर्शयन्नाह —“नचागृहीते”त्यादि । गृहीतः सङ्केतो यत्र स तथा, न गृहीतसङ्केतोऽगृहीतसङ्केतः । “अन्य इवे”ति । विजातीयार्थवत् । “ध्वने”रिति । शब्दात् । एतदुक्तं भवति ।यद्यगृहीतसङ्केतमर्थं शब्दः प्रतिपादयेत्तदा गोशब्दोऽप्यश्वं प्रतिपादयेत् । सङ्केतकरणानर्थक्यं च स्यात् । तस्मादतिप्रसङ्गापत्तिर्बाधकं प्रमाणमिति सिद्धा व्याप्तिः । अयमेव चाकृतसमयत्वादिति हेतुराचार्यदिग्नागेन न जातिशब्दो भेदानां वाचक आनन्त्यादित्यनेन निर्दिष्टः । तथाह्यानन्त्यादित्यनेन समयासम्भव एव दर्शितः । तेन यदुद्योतकरेणोक्तम्— यदि शब्दान्पक्षयसि, तदाऽनन्त्यादित्यस्य वस्तुधर्मत्वाद्व्यधिकरणो हेतुः । अथ भेदा एव पक्षीक्रियन्ते, तदा नान्वयी न व्यतिरेकी दृष्टान्तोऽस्तीत्यहेतुरानन्त्यमिति, तत्प्रत्युक्तं भवति । पुनः स एवाह— यस्य निर्विशेषणा भेदाः शब्दैरभिधीयन्ते, तस्यायं दोषः, अस्माकं तु सत्तादिविशेषणानि द्रव्यगुणकर्माण्यभिधीयन्ते । तथाहि—यत्र यत्र सत्तादिकं सामान्यं पश्यति तत्र तत्र सदादिशब्दं प्रयुङ्क्ते । एकमेव च सत्तादिकं सामान्यम्, अतः सामान्योपलक्षितेषु भेदेषु समयक्रियासम्भवादकारणमानन्त्यमिति । तदेतदसम्यक्—न हि सत्तादिकं वस्तुभूतं सामान्यं तेभ्यो भिन्नमभिन्नं वाऽस्तीति प्रसाधितमेतत् । भवतु वा सामान्यं,तथाऽप्येकस्मिन्भेदेऽनेकसामान्यसम्भवादसाङ्कर्येण सदादिशब्दप्रयोजनं न स्यात् । नच शब्देनानुपदर्श्य सत्तादिकं तेन सत्तादिना भेदान्परमुपलक्षयितुं समयकारः शक्रुयात् । न चाकृतसमयेषु सत्तादिशब्दप्रवृत्तिरस्ति । ततश्चेतरेतराश्रयदेषः स्यात् । अथापि स्यात्—स्वयमेव प्रतिपत्ता व्यवहारोपलम्भादन्वयव्यतिरेकाभ्यां सदादिशब्दैः समयं प्रतिपद्यत इति । तदेतदसम्यक् । न ह्यनन्तरभेदविषयं निःशेषं कश्चिद्व्यवहारमुपलभते । एकदा सत्तादिमत्सु भेदेष्वसकृद्व्यवहारमुपलभ्यादृष्टेष्वपि तज्जातीयेषु ताच्छब्द्यं प्रतिपद्यत इति चेन्न । अदृष्टत्वात् । नह्यदृष्टेष्वतीतानागतभेदभिन्नेष्वनन्तेषु भेदेषु समयः सम्भवत्यतिप्रसङ्गात् । विकल्पबुद्ध्या व्याहृत्य तेषु प्रतिपद्यत एवेति चेत् । एवं तर्हि विकल्पसमारोपितार्थविषय एव शब्दसन्निवेशनं, न परमार्थतो भेदेष्विति प्राप्तम् । तथाह्यतीतानागतयोरसत्त्वेनासन्निहितत्वात्तत्र विकल्पबुद्धिर्भवन्ती निर्विषयैवेति तथा व्याहृतमसदेव । ततश्च तत्र भवन्समयः कथं परमार्थतो वस्तुभूतो भवेदित्यलं बहुना । सपक्षे भावान्नापि हेतोर्विरुद्धतेति सिद्धं स्वलक्षणाविषयत्वं शब्दानाम् ॥ ८७३ ॥ ८७४ ॥
स्यादेतद्ये हिमाचलादयो भावास्तेषां स्थिरैकरूपत्वान्न देशकालभेदादिभेदः सम्भवत्यतः सङ्केतव्यवहाराप्तकालव्यापकत्वात्तेषु समयः सम्भवतीत्यतः पक्षैकदेशासिद्धता हेतोरित्यत आह—“हिमाचलादय” इत्यादि ।
हिमाचलादयो येऽपि देशकालाद्यभेदिनः ।
(दृष्टास्तेष्वणवो भिन्नाः) क्षणिकाश्च प्रसाधिताः ॥ ८७५ ॥
आदिशब्देन मलयादिपरिग्रहः । एते ह्यनेकाणुप्रचयस्वभावाः, अतो नैषामशेषावयवपरिग्रहेण समयः समस्ति । प्रसाधितोदयानन्तरविनाशाश्च । तेनैतेष्वपि समयकालपरिदृष्टस्य स्वभावस्य न व्यवहारकालेष्वन्वयोऽस्तीति नासिद्धता हेतोः ॥ ८७५ ॥
एवं तावत्स्वलक्षणे व्यवहारानुपपत्तेः समयवैयर्थ्यप्रसङ्गान्न समय सम्भवतीति प्रतिपादितम् । साम्प्रतमशक्यक्रियत्वादेव न सम्भवतीति प्रतिपादयन्नाह—“अशक्य”मित्यादि ।
अशक्यं समय(स्यास्य जातेऽजाते च कल्पनम् ।)
नाजाते समयो युक्तो भाविकोऽश्वविषाणवत् ॥ ८७६ ॥
उप(नापि?)जाते गृहीता(नां पूर्वं) वाचामनुस्मृतौ ।
क्रियते समयस्तत्र चिरातीते(कथं नु तत्) ॥ ८७७ ॥
सर्व एव भावाः पूर्वं प्रसाधितोदयानन्तरापवर्गास्तेषु समयः क्रियमाणः कदाचिदनुत्पन्नेषु वा क्रियेत, उत्पन्नेषु वा । तत्र न तावदनुत्पन्नेषु परमार्थेन समयो युक्तः, असतः सर्वोपाख्याविरहलक्षणत्वेनाधारत्वानुपपत्तेः । भाविकग्रहणं सांवृतनिषेधार्थम् । तेनाजातेऽपि पुत्रादौ समयदर्शनान्न दृष्टविरोधः, तस्य विकल्पनिर्मितार्थविषयत्वेनाभाविकत्वात् । “अश्वविषाणव”दिति । सप्तम्यन्ताद्वतिः । नाप्युत्पन्ने समयो युक्तः, तथाहि—तस्मिन्ननुभवोत्पत्तौ सत्यां तत्पूर्वके च नामभेदस्मरणे सति समयः कार्यो नान्यथाऽतिप्रसङ्गात् । ततश्च नामभेदस्मरणकाले क्षणध्वंसितया चिरनिरुद्धं स्वलक्षणमिति, नाजातवज्जातेऽपि भाविकः समयः समस्ति, समयक्रियाकाले द्वयोरप्यसन्निहितत्वात् । तथाह्यनुभवावस्थायामपि तावत्तत्कारणतया स्वलक्षणं क्षणिकं न सन्निहितसत्ताकं भवति । किं पुनरनुभवोत्तरकालभाविनामभेदाभोगस्मरणोत्पादकाले भविष्यति ॥ ८७६ ॥ ८७७ ॥
अथापि स्यात्तज्जातीये तत्सामर्थ्यबलोपजाते समयक्रियाकालभाविनि क्षणे समयः करिष्यत इति, अत आह—“यश्चापी”त्यादि ।
यश्चापि (तत्सजातीयस्तद्ब)लेन तदापरः ।
न तत्र समयाभोगः सादृश्यं च विकल्पितम् ॥ ८७८ ॥
यद्यपि समयक्रियाकाले सन्निहितं क्षणान्तरमस्ति, तथापि तत्र समयाभोगासम्भवान्न समयो युक्तः, न ह्यश्वमुपलभ्य तन्नामस्मरणोपक्रमपूर्वकं समयं कुर्वाणस्तत्काल सन्निहिते गवादावाभोगाविषयीकृतेऽश्व इति समयं समयकृत्कश्चित्करोति । अथापि स्यात्—सर्वेषां स्वलक्षणक्षणानां सादृश्यमस्ति तेनैकत्वमध्यवसाय समयः करिष्यत इत्याह—“सादृश्यं च विकल्पित”मिति । विकल्पबुद्धिसमारोपितं हि सादृश्यं, तस्य च ध्वनिभिः प्रतिपादने सति स्वलक्षणमवाच्यमेव स्यात् । तदेवं न स्वलक्षणे समयः सम्भवति । नापि शब्दस्वलक्षणस्य, तथाहि समयकारः स्मृत्युपस्थापितमेव नामभेदमर्थे योजयति । न च स्मृतिर्भावतोऽनुभूतमेवाभिलापमुपस्थापयितुं शक्नोति, तस्य चिरनिरुद्धत्वात् । यच्चोच्चारयति तस्य पूर्वमननुभूतत्वान्न तत्र स्मृतिः, नचाविषयीकृतस्तया समुपस्थापयितुं शक्यः । अतः स्मृत्युपस्थापितमनुसन्धीयमानं विकल्पनिर्मितत्वेनास्वलक्षणमेवेति न स्वलक्षणस्य समयः । तस्मादव्यपदेश्यं स्वलक्षणमिति सिद्धम् ॥ ८७८ ॥
अत्रैव स्वलक्षणावाच्यत्वसिद्ध्यै प्रमाणान्तरमाह—“उष्णादी”त्यादि ।
(उष्णादिप्रतिपत्तिर्या) नामादिध्वनिभाविनी ।
विस्पष्टा(भासते नैषा) तदर्थेन्द्रियबुद्धिवत् ॥ ८७९ ॥
यथा ह्युष्णाद्यर्थविषयेन्द्रियबुद्धिः स्फुटप्रतिभासा वेद्यते न तथोष्णादिशब्दभाविनी, न ह्युपहतनयनरसनघ्राणादयो मातुलिङ्गादिशब्दश्रवणात्तद्रूपरसाद्यनुभाविनो भवन्ति यथाऽनुपहतनयनादय इन्द्रियधियाऽनुभवन्तः । यथोक्तम्— अन्यथैवाग्निसम्बन्धाद्दाहं दग्धोऽभिमन्यते । अन्यथा दाहशब्देन दाहार्थः सम्प्रकाश्यते ॥ इति ।“तदर्थेन्द्रियबुद्धिव”दिति वैधर्मोदाहरणम् । तदर्था चासाविन्द्रियबुद्धिश्चेति विग्रहः ॥ ८७९ ॥
यदि नाम सा तथा न भवति, तथापि किमिति शब्दस्य स्वलक्षणमर्थो न भवतीत्याह—“न स तस्ये”त्यादि ।
न स तस्य च शब्दस्य युक्तो योगो न तत्कृते ।
प्रत्यये सति भात्यर्थो रूपबोधे तथा रसः ॥ ८८० ॥
प्रयोगः—यो हि तत्कृते प्रत्यये न प्रतिभासते न स तस्यार्थः, यथा रूपजनिते प्रत्यये रसः, न प्रतिभासते च शाब्दे प्रत्यये स्वलक्षणमिति स्थापकानुपलब्धिः ।अत्र चातिप्रसङ्गो बाधकं प्रमाणम् । तथाहि—शब्दस्य तद्विषयज्ञानजनकत्वमेव तद्वाचकत्वमुच्यते नान्यत्, नच यद्विज्ञानं यदाकारशुन्यं तत्तद्विषयं युक्तमतिप्रसङ्गात् । नचैकस्य वस्तुनो रूपद्वयमस्ति स्पष्टास्पष्टं, येनास्पष्टं वस्तुगतमेव रूपं शब्दैरभिधीयत इति । स्यात् । एकस्य द्वित्वविरोधात्, भिन्नसमयस्थायिनां च परस्परविरुद्धस्वभावप्रतिपादनात् ॥ ८८० ॥
नैयायिकास्तु ब्रुवते व्यक्त्याकृतिजातयस्तु पदार्थ इति । पदस्यार्थः पदार्थः, शब्दार्थ इति यावत् । तत्र व्यक्तिशब्देन द्रव्यगुणविशेषकर्माण्यभिधीयन्ते । तथाच सूत्रं व्यक्तिर्गुणविशेषाश्रयो मूर्त्तिरिति । अस्यार्थो वार्त्तिककारमतेन तावदुच्यते—विशेष्यत इति विशेषः, गुणेभ्यो विशेषो गुणविशेषः, कर्माभिधीयते । द्वितीयश्चात्र गुणविशेषशब्द एकशेषं कृत्वा निर्दिष्टः, तेन गुणपदार्थो गृह्यते । गुणाश्च तेविशेषाश्चेति गुणविशेषाः, विशेषग्रहणमाकृतिनिरासार्थम् । तथा ह्याकृतिः संयोगविशेषः, स्वस्वभावात्, संयोगश्च गुणपदार्थान्तर्गतः, ततश्चासति विशेषग्रहणे आकृतेरपि ग्रहणं स्यात् । नच तस्या व्यक्तावन्तर्भाव इष्यते, पृथक्शब्देन तस्या उपादानात् । आश्रयशब्देन द्रव्यमभिधीयते, तेषां गुणविशेषाणामाश्रयस्तदाश्रयो द्रव्यमित्यर्थः । सूत्रे तच्छब्दलोपं कृत्वा निर्देशः कृतः । एवं विग्रहः कर्त्तव्यः—गुणविशेषाश्च गुणविशेषाश्चेति गुणविशेषाः, गुणविशेषाश्च तदाश्रयश्चेति गुणविशेषाश्रयः, समाहारद्वन्द्वश्चायम्, लोकाश्रयत्वाल्लिङ्गस्येति नपुंसकलिङ्गानिर्देशः । तेनायमर्थो भवति—योऽयं गुणविशेषाश्रयः सा व्यक्तिश्चोच्यते मूर्त्तिश्चेति । तत्र यदा द्रव्येमूर्त्तिशब्दस्तदाऽधिकरणसाधनो द्रष्टव्यः, मूर्च्छन्त्यस्मिन्नवयवा इति मूर्त्तिः । यदा तु रूपादिषु तदा कर्तृसाधनः, मूर्च्छन्ति द्रव्ये समवयन्तीति रूपादयो मूर्त्तिः । व्यक्तिशब्दस्तु द्रव्ये कर्मसाधनो रूपादिषु करणसाधनः । भाष्यकारमतेन तु यथाश्रुतिसूत्रार्थः—गुणविशेषाणामाश्रयो द्रव्यमेव व्यक्तिर्मूर्तिश्चेति तस्येष्टम् । यथोक्तम् — गुणविशेषाणां रूपरसगन्धस्पर्शानां गुरुत्वद्रवत्वघनत्वसंस्काराणामव्यापिनश्च परिमाणविशेषस्याश्रयो यथासम्भवं तद्द्रव्यं मूर्त्तिर्मूर्च्छितावयवत्वादिति । आकृतिशब्देन प्राण्यवयवानां पाण्यादीनां तदवयवानां चाङ्गुल्यादीनां संयोगोऽभिधीयते । तथाच सूत्रम्— आकृतिर्जातिलिङ्गाख्या इति । अस्य भाष्यम्— यया जातिर्जातिलिङ्गानि चाख्यायन्ते तामाकृतिं विद्यात्, सा च नान्या सत्त्वावयवानां तदवयवानां च नियताद्व्यूहात् इति । व्यूहशब्देन संयोगविशेष उच्यते । नियतग्रहणेन कृत्रिमसंयोगनिरासः । तत्र जातिलिङ्गानि प्राण्यवयवाः शिरःपाण्यादयः, तैर्हि गोत्वादिलक्षणा जातिर्लिङ्ग्यते । आकृत्या तु कदाचित्साक्षाज्जातिर्व्यज्यते—यदा शिरःपाण्यादिसन्निवेशदर्शनाद्गोत्वं व्यज्यते । कदाचिज्जातिलिङ्गानि—यदा विषाणादिभिरवयवैः पृथक्पृथक्स्वावयवसन्निवेशाभिव्यक्तैर्गोत्वादिर्व्यज्यते । तेन जातेस्तल्लिङ्गानां च प्रख्यापिका भवत्याकृतिः । जातिशब्देनाभिन्नाभिधानप्रत्ययप्रसवनिमित्तं सामान्याख्यं वस्तूच्यते । तथाच सूत्रं समानप्रसवात्मिका जातिरिति समानप्रत्ययोत्पत्तिकारणं जातिरित्यर्थः । तत्र व्यक्त्याकृत्योरेतेनैव स्वलक्षणस्य शब्दार्थत्वनिराकरणेन शब्दार्थत्वनिराकरणं बोद्धव्यमिति दर्शयन्नाह—“एतेनैवेत्यादि” ।
एतेनैव प्रकारेण व्यक्त्याकृत्योर्निराकृतिः ।
स्वलक्षणात्मतैवेष्टा तयोरपि यतः परैः ॥ ८८१ ॥
जातेस्तु पश्चान्निराकरणं भविष्यतीत्यभिप्रायः । “निराकृति”रिति । शब्दार्थत्वेनेति शेषः । कस्मादित्याह—“स्वलक्षणात्मतैवे”त्यादि । “तयो”रिति । व्यक्त्याकृत्योः । तेन यथा स्वलक्षणस्याकृतसमयत्वादशब्दार्थत्वं तथा तयोरपीत्यतोऽकृतसमयत्वादित्यस्यहेतोर्नासिद्धिर्नाप्यनैकान्तिकतेति भावः ॥ ८८१ ॥
किञ्च—व्यक्तिर्द्रव्यगुणविशेषकर्मलक्षणा, आकृतिश्च संयोगात्मिका, एते च द्रव्यादयः प्रागेव प्रतिषिद्धा इत्यतोऽपि शब्दार्थत्वमनयोरसद्भावान्न युक्तमिति दर्शयति—“द्रव्यादी”त्यादि ।
द्रव्यादियोगयोः प्राक्तु प्रतिषेधाभिधानतः ।
न तात्विकी तयोर्युक्ता शब्दार्थत्वव्यवस्थितिः ॥ ८८२ ॥
एवं तावत्स्वलक्षणे समयासम्भवं प्रतिपाद्य जात्यादिषु त्रिषु समयासम्भवं प्रतिपादयन्नाह—“जातिसम्बन्धयो”रित्यादि ।
जातिसम्बन्धयोः पूंर्व व्यासतः प्रतिषेधनात् ।
नानन्तराः प्रकल्प्यन्ते शब्दार्थास्त्रिविधाः परे ॥ ८८३ ॥
“अनन्तरा” इति । स्वलक्षणमुक्ता जातिस्तद्योगो जातिमानिति जातितद्योगयोरभावात्तद्वतोऽप्यसम्भव एव, तत्कृतत्वात्तद्व्यपदेशस्य, तद्वतश्च स्वलक्षणात्मकत्वात् । तत्पक्षभावी दोषः समान एवेति भावः । जातिः पदार्थ इति वाजा ( का ? ) त्यायनः, द्रव्यमिति व्याडिः, उभयं पाणिनिः । तदप्यनेनैव निरस्तम्, जातेरयोगाद्द्रव्यस्य च स्वलक्षणात्मकत्वात्तत्पक्षभाविदोषानिवृत्तेः ॥ ८८३ ॥
उपसंहरन्नाह—“तद्व्यक्त्याकृती”त्यादि ।
तद्व्यक्त्याकृतिजातीनां पदार्थत्वं यदुच्यते ।
तदसम्भवि सर्वासामपि नीरूपता यतः ॥ ८८४ ॥
“त”दिति । तस्मात् । “नी”रूपतेति । निःस्वभावता ॥ ८८४ ॥
बुद्ध्याकारश्च बुद्धिस्थो नार्थबुद्ध्यन्तरानुगः ।
नाभिप्रेतार्थकारी च सोऽपि वाच्यो न तत्त्वतः ॥ ८८५ ॥
बुद्ध्याकारो हि तादात्म्येन बुद्धावेवावस्थित इति नासौ तद्बुद्धिस्वरूपवत्प्रतिपाद्यमर्थं बुद्ध्यन्तरं वाऽनुगच्छति, ततश्च सङ्केतव्यवहाराप्तकालाव्यापकत्वात्स्वलक्षणवन्न तत्रापि समयः सम्भवति, भवतु वा तस्य व्यवहारकालान्वयस्तथापि न तत्र समयो व्यवहर्तृणां युक्तः । तथा हि—अपि नामेतः शब्दादर्थक्रियार्थी पुमानर्थक्रियाक्षमानर्थान्विज्ञाय प्रवर्त्तिष्यते तेष्विति मन्यमानैर्व्यवहर्तृभिरभिधायकानि योज्यन्ते, नव्यसनितया, न चासौ विकल्पबुद्ध्याकारोऽभिप्रेतं शीतापनोदादि कार्यं तदर्थिनः सम्पादयितुमलम्, तदनुभवोत्पत्तावपि तदभावात् । तेन तत्रापि समयाभावान्नासिद्धोऽकृतसमयत्वादिति हेतुः ॥ ८८५ ॥
स्यादेतत्—अस्त्यर्थादयोऽपरे शब्दार्थाः सन्ति । ततश्च तत्र समयसम्भवादसिद्धतैव हेतोरित्यत आह—“येऽन्येऽन्यथैवे”त्यादि ।
येऽन्येऽन्यथैव शब्दार्थमस्त्यर्थादीन्प्रचक्षते ।
निरस्ता एव तेऽप्येतैस्तथापि पुनरुच्यते ॥ ८८६ ॥
“एतै”रिति । स्वलक्षणादिशब्दार्थप्रतिषेधैः । तेषां स्वलक्षणादिष्वेवान्तर्भावादिति भावः ॥ ८८६ ॥
के पुनस्तेऽस्त्यर्थादय इति दर्शयन्नाह—अस्त्यर्थ इत्यादि ।
अस्त्यर्थः सर्वशब्दानामिति प्रत्याय्यलक्षणम् । अपूर्वदेवतास्वर्गैः सममाहुर्गवादिषु ॥ ८८७ ॥
इतिशब्दो भिन्नक्रमः अस्त्यर्थ इत्यस्यानन्तरे सम्बध्यते । तेनायमर्थो भवति— अस्त्यर्थ इति यदेतत्प्रतीयते, तत्सर्वशब्दानां प्रत्या्य्यस्याभिधेयस्य लक्षणम् । शब्दार्थस्य लक्षणमिति यावत्। तेन गवादिष्वर्थेषु विषयभूतेषु यद्गवादिशब्दप्रत्याय्यं तदपूर्वदेवतास्वर्गैस्तुल्यमित्याहुः । अपूर्वादिशब्दार्थैस्तत्तुल्यमित्येवमाहुरित्यर्थः । यथैव ह्यपूर्वादिशब्दा नार्थाकारविशेषं बुद्धिषु सन्निवेशयन्ति, केवलं तत्रैतावत्प्रतीयते—सन्ति केऽप्यर्था येष्वपूर्वादयः शब्दाः प्रयुज्यन्त इति, तथा दृष्टार्थेष्वपि गवादिशब्देषु तुल्यम् । यतस्तेभ्योऽप्येवं प्रतीयते—अस्ति कोऽप्यर्थो गवादिशब्दाभिधेयो गोत्वादिसामान्यसम्बद्धो वेति । यस्तु तत्राकारविशेषपरिग्रहः केषाञ्चिदुपजायते, स तेषांसिद्धान्तबलात् ॥ ८८७ ॥
आदिशब्देनोपात्ताञ्शब्दार्थान्दर्शयन्नाह—“समुदाय” इत्यादि ।
समुदायोऽभिधेयो वाऽप्यविकल्पसमुच्चयः ।
असत्यो वाऽपि संसर्गः शब्दार्थः कैश्चिदुच्यते ॥ ८८८ ॥
केचिद्ब्राह्मणादिशब्दैस्तपोजातिश्रुतादिसमुदायो विना विकल्पसमुच्चयाभ्यामभिधीयत इत्याहुर्यथा वनादिशब्दैर्धवादय इति । तथाहि—वनमित्युक्ते धवो वा खदिरो वा पलाशो वेति न विकल्पेन प्रतीतिर्भवति, नापि धवश्च खदिरश्च पलाशश्चेति समुच्चयेन, अपितु सामान्येन प्रतीयन्ते धवादयः । तथा ब्राह्मण इत्युक्ते तपो वा जातिर्वा श्रुतं वा, तपश्च जातिश्च श्रुतं चेति, न प्रतिपत्तिर्भवति । अपि तु साकल्येनसम्बन्ध्यन्तरव्यवच्छिन्नास्तपःप्रभृतयः संहताः प्रतीयन्त इति । तत्र बहुष्वनियतैकसमुदायिभेदावधारणं विकल्पः, एकत्र युगपदभिसम्बध्यमानस्य नियतस्यानेकस्य स्वरूपभेदावधारणं समुच्चयः । अविद्यमानौ विकल्पसमुच्चयौ यस्य स तथोक्तः । अन्ये तु द्रव्यत्वादिभिरनिर्द्धारितरूपैर्यः सम्बन्धो द्रव्यादीनां स शब्दार्थः, स च सम्बन्धिनां शब्दार्थत्वेनासत्यत्वादसत्य इत्युच्यते । यद्वा—तपःश्रुतादीनां मेचकवर्णवदैक्येन भासनादेषामेव परस्परमसत्यः संसर्गः । तथाह्येते प्रत्येकं समुदिता वा न स्वेन रूपेणोपलभ्यन्ते, किन्त्वलातचक्रवदेषां समूहः स्वरूपमुत्क्रम्यावभासत इति ॥ ८८८ ॥
असत्योपाधि यत्सत्यं तद्वा शब्दनिबन्धनम् ।
शब्दो वाऽप्यभिजल्पत्वमागतो याति वाच्यताम् ॥ ८८९ ॥
अन्ये त्वाहुः—यदसत्योपाधि सत्यं स शब्दार्थ इति । तत्र शब्दार्थत्वेनासत्या उपाधयो विशेषा वलयाङ्गुलीयकादयो यस्य सत्यस्य, सर्वभेदानुयायिनः सुवर्णादेस्सामान्यात्मनः, तत्सत्यमसत्योपाधि । “शब्दनिबन्धन”मिति । शब्दप्रवृत्तिनिमित्तमभिधेयमित्यर्थः । अन्ये तु ब्रुवते—शब्द एवाभिजल्पत्वमागतः शब्दार्थ इति ॥ ८८९ ॥
तत्र कोऽसावभिजल्प इत्याह—“सोऽय”मित्यादि ।
सोऽयमित्यभिसम्बन्धाद्रूपमेकीकृतं यदा ।
शब्दस्यार्थेन तं शब्दमभिजल्पं प्रचक्षते ॥ ८९० ॥
शब्द एवार्थ इत्येवं शब्देऽर्थस्य निवेशनं सोऽयमित्यभिसम्बन्धः, तस्मात्कारणाद्यदा शब्दस्यार्थेन सहैकीकृतं रूपं भवति तं स्वीकृतार्थाकारं शब्दमभिजल्प्यमित्याहुः ॥ ८९० ॥
अन्ये तु बुद्ध्यारूढमेवाकारं बाह्यवस्तुविषयं बाह्यवस्तुतया गृहीतं बुद्धिरूपत्वेनाविर्भावितं शब्दार्थमाहुः—तद्दर्शयति—“यो वे”त्यादि ।
यो वाऽर्थो बुद्धिविषयो बाह्यवस्तुनिबन्धनः ।
स बाह्यं वस्त्विति ज्ञातः शब्दार्थः कैश्चिदिष्यते ॥ ८९१ ॥
“बुद्धिविषय” इति । बुद्धौ विपरिवर्त्तमानः, बुद्धिस्थ इति यावत् । “बाह्यवस्तुनिबन्धन” इति । सदसद्बाह्यं वस्तु निबन्धनमक्षरचिह्नस्थानीयं स्वरूपमुपदर्शयितुं प्रक्रम्यते यस्य, स बाह्यवस्तुनिबन्धनः । “बाह्यं वस्त्वितिज्ञात” इति । बुद्धिरूपत्वेनाविर्भावितो बाह्यतयाध्यवसित इत्यर्थः । तथाहि—यावद्बुद्धिरूपमर्थेष्वप्रत्यस्तं बुद्धिरूपमेवेति तत्त्वभावनया गृह्यते, तावत्तस्य शब्दार्थत्वं नावसीयते, तत्र क्रियाविशेषसम्बन्धाभावात् । न हि गामानय इधि खादेत्यादिकाः क्रियास्तादृशि बुद्धिरूपे सम्भवन्ति, क्रियायोगसम्भवी चार्थः शब्दैरभिधीयते । अतो बुद्धिरूपतया गृहीतोऽसौ न शब्दार्थः । यदा तु बाह्यवस्तुनि प्रत्यस्तो भवति तदा तस्मिन् प्रतिपत्ता बाह्यतया विपर्यस्तः क्रियासाधनसामर्थ्यं तस्य मन्यत इति भवति शब्दार्थः । ननु चापोहवादिपक्षादस्य को विशेषः ? तथाहि—अपोहवादिनाऽपि बुद्ध्याकारो बाह्यरूपतया गृहीतः शब्दार्थ इति भाष्यत एव । यथोक्तम्—तद्रूपारोपगत्यान्यव्यावृत्त्यधिगतेः पुनः । शब्दार्थोऽर्थः स एवेति वचने न विरुध्यते ॥ इति । नैतदस्ति—अयं हिबुद्ध्याकारवादी बाह्ये वस्तुन्यभ्रान्तं सविषयं द्रव्यादिषु पारमार्थिकेष्वध्यस्तं बुद्ध्याकारं परमार्थतः शब्दार्थमिच्छति । ननु निरालम्बनं भिन्नेष्वभेदाध्यवसायेन प्रवृत्तेर्भ्रान्तमितरेतरभेदनिबन्धनमिच्छति । यदि तु यथाऽस्माभिरुच्यते— सर्वो मिथ्यावभासोऽयमर्थेष्वेकात्मना ग्रहः । इतरेतरभेदोऽस्य बीजं सञ्ज्ञा यदर्थिका ॥ इति । तदा सिद्धसाध्यता । तथा च वक्ष्यति— इतरेतरभेदोऽस्य बीजं चेत्पक्ष एष नः इति । न चापोहवादिना परमार्थतः किञ्चिद्वाच्यं बुद्ध्याकारोऽन्यो वा शब्दानामि ष्यते । तथाहि—य एव शाब्दे प्रत्यये व्यवसीयमानतया प्रतिभासते स शब्दार्थः ।नच बुद्ध्याकारः शाब्दप्रत्ययेन व्यवसीयते, किं तर्हि ? बाह्यमेवार्थक्रियाकारि वस्तु । नचापि तेन बाह्यं परमार्थतो व्यवसीयते, यथातत्त्वमनध्यवसायात्, यथाव्यवसायमतत्त्वात् । अतः समारोपित एव शब्दार्थः । यच्च समारोपितं तन्न किञ्चिदिति न किञ्चिद्भावतोऽभिधीयते शब्दैः । यत्पुनरुक्तम्— शब्दार्थोऽर्थः स एवेति तत्समारोपितमेवार्थमभिसन्धाय । बुद्ध्याकारवादिना तु बुद्ध्याकारः परमार्थतो वाच्य इष्यत इति महान्विशेषः ॥ ८९१ ॥
अन्ये त्वाहुरभ्यासात्प्रतिभाहेतुः शब्दो न तु बाह्यार्थप्रत्यायक इति ( तदेतत् ) दर्शयति—अभ्यासादित्यादि ।
अभ्यासात्प्रतिभाहेतुः सर्वः शब्दः समासतः ।
बालानां च तिरश्चां च यथाऽर्थप्रतिपादने ॥ ८९२ ॥
शब्दस्य क्वचिद्विषये पुनः पुनः प्रवृत्तिदर्शनमभ्यासः । नियतसाधनावच्छिन्नक्रियाप्रतिपत्त्यनुकूला प्रज्ञा प्रतिभा । सा प्रयोगदर्शनावृत्तिसहितेन शब्देन जन्यते । प्रतिवाक्यं प्रतिपुरुषं च सा भिद्यते । स तु तस्या अपरिमाणो भेदः शब्दव्यवहारस्यानन्त्यान्न शक्यते विधातुमित्यत आह—“बालानां च तिरश्चां” चेत्यादि । यथैव ह्यङ्कुशाभिघातादयो हस्त्यादीनामर्थप्रतिपत्तौ क्रियमाणायां प्रतिभाहेतवो भवन्ति । तथा सर्वेऽर्थवत्सम्मता वृक्षादयः शब्दा यथाभ्यासं प्रतिभामात्रोपसंहारहेतवो भवन्ति, न त्वर्थं साक्षात्प्रतिपादयन्ति । अन्यथा हि कथं परस्परपराहताः प्रवचनभेदा उत्पाद्यकथाप्रबन्धाश्च स्वविकल्पोपरचितपदार्थभेदद्योतकाः स्युरिति ॥ ८९२ ॥
तत्रेत्यादिना प्रतिविधत्ते ।
तत्रास्त्यर्थोऽभिधेयोऽयं किं स्वलक्षणमिष्यते ।
जातिर्योगोऽथ यद्वाऽन्य( त् ) बुद्धेर्वा प्रतिबिम्बकम् ॥ ८९३ ॥
एते स्वदोषाः पूर्वोक्ता अस्त्यर्थे केवलेऽपि च ।
प्रतिपाद्ये न भेदेन व्यवहारोऽवकल्पते ॥ ८९४ ॥
यद्यस्त्यर्थः पूर्वोदितस्वलक्षणादिस्वभाव इष्यते । तदा पूर्वोदितदोषप्रसङ्गः ।किञ्चानिर्धारितरूपविशेषत्वादस्त्यर्थस्य तस्मिन्केवले शब्दैः प्रतिपद्यमाने गौर्गवयो गज इत्यादिभेदेन व्यवहारो न स्यात्, तस्य शब्दैरप्रतिपादितत्वात् ॥ ८९३ ॥ ८९४ ॥
गोत्वेत्यादिना परस्योत्तरमाशङ्कते ।
गोत्वशब्दविशिष्टार्थसत्तामात्रगतेर्भवेत् ।
विषाणाकृतिनीलादिभेदाख्यातेस्तु तन्मतम् ॥ ८९५ ॥
स्यादेतत्—गोत्वशब्दाभ्यां विशिष्टस्यार्थसत्तामात्रस्य सावलेयत्वादिभेदरहितस्यगोशब्दाद्गतेः—प्रतीतेः कारणात् । भेदेन व्यवहारो भविष्यतीति । यद्येवं कथं तर्हि शब्दार्थत्वमस्त्यर्थमात्रस्य मतं यावता गवादिविशेषः प्रतिपाद्योऽस्त्येवेत्याशङ्क्य परः परिहारमाह—“विषाणाकृती”त्यादि । विषाणादेर्विशेषस्य शब्दादख्यातेरप्रतीतेः कारणात्तदुक्तम्—अस्ति कश्चिदर्थः प्रत्याय्य इति, न तु गोत्वादिगोत्वादिशब्दयोर्विशेषणभूतयोरप्रतीतेरित्यदोषः ॥ ८९५ ॥
“नन्वेव”मित्यादिना प्रतिविधत्ते ।
नन्वेवं तद्वतोऽर्थस्य भेदानां चाभिधा भवेत् ।
तद्भावे तत्र दोषश्च नान्योऽस्त्यर्थश्च दृश्यते ॥ ८९६ ॥
यदा गोत्वादिना विशिष्टमर्थमात्रमुच्यते इति मतं, तदा तद्वतोऽर्थस्याभिधानमङ्गीकृतं स्यात् । तत्र च जातेस्तत्समवायस्य च निषेधात्तद्वतोऽर्थस्यासम्भव इति पूर्वोक्तो दोषः । किञ्च—तद्वतोऽर्थस्य स्वलक्षणात्मकत्वादशक्यसमयत्वमव्यवहार्यत्वमस्पष्टावभासप्रसङ्गश्च पूर्ववदापद्यते एव । स्वलक्षणादिव्यतिरेकेणान्य एवास्त्यर्थ इति चेदाह—“नान्योऽस्त्यर्थश्च दृश्यत” इति । स्वलक्षणादिव्यतिरेकेणान्योऽस्त्यर्थो निरुप्यमाणो न बुद्धेर्गोचरतामवतरति ॥ ८९६ ॥
समुदायाभिधानपक्षे दोषमाह—“समुदायाभिधानेऽपी”त्यादि ।
समुदायाभिधानेऽपि जातिभेदाभिधा स्फुटा ।
तपोजातिक्रियादीनां सामस्त्येनाभिधानतः ॥ ८९७ ॥
समुदायाभिधानपक्षे स्फुटतरमेव जातेर्भेदानां च तपःप्रभृतीनामभिधानमङ्गीकृतमिति प्रत्येकाभिधानपक्षभाविनो दोषाः समुदायाभिधाने सर्वे युगपत्प्राप्नुवन्ति ॥ ८९७ ॥
असत्यो वाऽपीत्यादिपक्षद्वये दोषमाह—“निर्द्धारिते”त्यादि ।
निर्द्धारितस्वरूपाणां द्रव्यादीनां तु योगतः ।
सम्बन्धो यच्च सामान्यं सत्यं तद्वारितं पुरा ॥ ८९८ ॥
भेदजात्यादिरूपेण शब्दार्थानुपपत्तितः ।
अर्थेनैकीकृतं रूपं न शब्दस्योपपद्यते ॥ ८९९ ॥
जल्पो बुद्धिस्थ एवायं बाह्ययोगविभेदतः ।
ततः को भेद एतस्य त्रुटिपक्षादनन्तरात् ॥ ९०० ॥
बुद्ध्याकारोऽपि शब्दार्थः प्रागेव विनिवारितः ।
ज्ञानादव्यतिरिक्तस्य व्यापकत्ववियोगतः ॥ ९०१ ॥
पूर्वं षट्पदार्थपरीक्षायां संयोगसमवायलक्षणस्य वारितत्वात्, सामान्यस्य च त्रिगुणात्मकस्य सत्यस्याव्यतिरिक्तस्य साङ्ख्यपरीक्षायां, व्यतिरिक्तस्यापि षट्पदार्थपरीक्षायां निरस्तत्वान्नासत्यसंयोगो नाप्यसत्योपाधिसामान्यं वाच्यम् । अभिजल्पपक्षेऽप्याह—यदि शब्दस्य कश्चिदर्थः सम्भवेत्, तदा तेन सहैकीकरणं भवेत्, यावतास्वलक्षणादिरूपस्य शब्दार्थस्यासम्भवः पूर्वं प्रतिपादितस्तत्कथं तेनैकीकरणं भवेत् । अपिचायमभिजल्पो बुद्धिस्थ एव—तथाहि बाह्ययोः शब्दार्थयोर्भिन्नेन्द्रियग्राह्यत्वादिभ्यो भेदस्य सिद्धेस्तयोरैक्यापादनमयुक्तमेव भाविकम् । अतो बुद्धिस्थयोरेव शब्दार्थयोरेकबुद्धिगतत्वादेकीकरणं युक्तम् । तथाह्युपगृहीताभिधेयाकारस्तिरोभूतशब्दस्वभावो बुद्धौ विपरिवर्त्तमानः शब्दात्मा स्वरूपानुगतमर्थविभागेनान्तःसन्निवेशयन्नभिजल्प उच्यते । स च बुद्धेरात्मगत एवाकारो युक्तो न बाह्यस्तस्यैकान्तेन परस्परं विविक्तस्वभावत्वात् । ततश्च बुद्धिशब्दार्थपक्षादनन्तरोक्तादस्य को भेदः ?—नैव कश्चित् । उभयत्रापि बौद्ध एवार्थः । एतावन्मात्रं तु भिद्यते, शब्दार्थावेकीकृताविति । दोषस्तु समान एव ज्ञानादव्यतिरिक्तं च कथमर्थान्तरं व्रजेदिति । तदेव दर्शयति —“बुद्ध्याकारोऽपी”त्यादि ॥ ८९८ ॥ ८९९ ॥ ९०० ॥ ९०१ ॥
प्रतिभापक्षे दोषमाह—
प्रतिभाऽपि च शब्दार्थो बाह्यार्थविषया यदि ।
एकात्मनियते बाह्ये विचित्राः प्रतिभाः कथम् ॥ ९०२ ॥
अथ निर्विषया एता वासनामात्रभावतः ।
प्रतिपत्तिः प्रवृत्तिर्वा बाह्यार्थेषु कथं भवेत् ॥ ९०३ ॥
बाह्यरूपाधिमोक्षेण स्वाकारे यदि ते मते ।
शब्दार्थोऽतात्त्विकः प्राप्तस्तथा भ्रान्त्या प्रवर्त्तनात् ॥ ९०४ ॥
निर्बीजा न च सा युक्ता सर्वत्रैव प्रसङ्गतः ।
इतरेतरभेदोऽस्य बीजं चेत्पक्ष एष नः ॥ ९०५ ॥
यदि प्रतिभा परमार्थतो बह्यार्थविषया तदैकत्र वस्तुनि शब्दादौ विरुद्धसमयावस्थायिनां विचित्राः प्रतिभा न प्राप्नुवन्ति, एकस्यानेकस्वभावसम्भवात् । अथ निर्विषयास्तदाऽर्थे प्रवृत्तिप्रतिपत्ती न प्राप्नुतः, अतद्विषयत्वाच्छब्दस्य । अथ स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन भ्रान्त्या ते प्रवृत्तिप्रतिपत्ती भवतस्तदा भ्रान्तः शब्दार्थः प्राप्नोति । तस्याश्च भ्रान्तेर्बीजं कारणं वक्तव्यम्, अन्यथा निर्बीजा भ्रान्तिर्भवन्ती सर्वतः सर्वदैव स्यात् । अथ भावानां परस्परतो भेद एव बीजमस्या अभ्युपगम्यते, तदाऽस्मत्पक्षमेव भवान् साधयतीति सिद्धसाध्यता ॥ ९०२ ॥ ९०३ ॥ ९०४ ॥॥ ९०५ ॥
साम्प्रतं सर्वेष्वेव पक्षेषु समानं दूषणमाह—“यदि वे”त्यादि ।
यदि वा सर्वमेवेदं क्षणिकं स्यन्न वा तथा ।
क्षणिकत्वेऽन्वयायोगः क्रमिज्ञानं च नान्यथा ॥ ९०६ ॥
सर्वमेतत्स्वलक्षणजात्यादि क्षणिकं वा स्यादक्षणिकं वा ? तत्राद्ये पक्षे सङ्केतकालदृष्टस्य व्यवहारकालेऽन्वयासम्भवान्न तत्र समयः । अक्षणिकपक्षे च नाक्रमात् क्रमिणो भाव इति शब्दार्थविषयस्य क्रमिज्ञानस्याभावप्रसङ्गः । “अन्यथेति” । अक्षणिकत्वे ॥ ९०६ ॥
अन्ये त्वाहुः—अर्थविवक्षां शब्दोऽनुमापयतीति । यथोक्तम्— अनुमानं विवक्षायाः शब्दादन्यन्न विद्यत इति । अत्राह—“एतेनैवे”त्यादि ।
एतेनैव विवक्षाऽपि शब्दगम्या निराकृता ।
शब्दार्थासम्भवे हीत्थं क्व विवक्षा क्व वा श्रुतिः ॥ ९०७ ॥
यदि पारमार्थतो विवक्षा पारमार्थिकशब्दार्थविषयेष्यते, तदसिद्धम्, स्वलक्षणादेः शब्दार्थस्य कस्यचिदसम्भवात् । अतो न क्वचिदर्थे परमार्थतो विवक्षाऽस्ति, अन्वयिनोऽर्थस्याभावात् । नापि तत्प्रतिपादकः शब्दोऽस्ति, तदाह—“क्व वा श्रुतिरि”ति ।श्रुतिः—शब्दः । विवक्षायां न प्रतिपाद्यायां श्रुतेः शब्दाद्बहिरर्थे प्रवृत्तिर्न प्राप्नोति ।तस्याचोदितत्वादर्थान्तरवत् ॥ ९०७ ॥
अथ मतं यो विवक्षाविपरिवर्त्ती रूपादिरर्थो यश्च बाह्यस्तयोः सारूप्यमस्त्यतः सारूप्यादचोदिते बाह्ये प्रवृत्तिर्भविष्यतिं यमलकवदित्यय आह—“सारूप्या”दिति ।
( सारूप्याच्च ) श्रुतेर्वृत्तिःकथं वा (ऽशब्द)चोदिते ।
सारूप्या (द्यमलकव) न्नामाद्येतेन दूषितम् ॥ ९०८ ॥
एवं सति सर्वदा बाह्ये प्रवृत्तिर्न प्राप्नोति, कदाचिद्विवक्षापरिवर्त्तिन्यपि चोदितेप्रवृत्तिर्भवेत् । यथा यमलकयोरिव । योऽपि वैभाषिकः शब्दविषयं नामाख्यं निमित्ताख्यं चार्थचिह्नरूपं विप्रयुक्तं संस्कारमिच्छति, तदप्येतेनैव दूषितं द्रष्टव्यम् । तथाहि—तन्नामादि यदि क्षणिकं तदाऽन्वयायोगः, अक्षणिकत्वे क्रमिज्ञानानुपपत्तिः, बाह्ये च प्रवृत्त्यभावप्रसङ्गः, सारूप्या(च्च) न सर्वदेति सर्वं यथोक्तं दूषणमखण्डमेवावतरति । अथवा—“एतेने”ति । यथासम्भवं स्वलक्षणादिदूषणेन । तथाह्यत्राप्येवं वक्तव्यम्— अशक्यसमयो ह्यात्मा नामादीनामनन्यभाक् । तथा मतो न वाच्यत्वङ्कथञ्चिदुपपद्यते ॥ इति ॥ ९०८ ॥
यदुक्तं विवक्षासमारूढार्थद्योतकत्वे शब्दानां बाह्ये प्रवृत्तिर्न प्राप्नोति । अत्र परस्योत्तरमाशङ्कयन्नाह—“विवक्षे”त्यादि ।
विवक्षानु(मितिश्लिष्टमाकारं बाह्यभावतः ।
व्यवस्ततोः प्रवृत्ति)श्चेत्तदेवास्मन्मतं पुनः ॥ ९०९ ॥
विवक्षा च वक्तृसन्तानवर्त्तिनी, तस्या एव विवक्षाया अनुमितिश्च श्रोतृसन्तानगतेति विवक्षानुमिती ताभ्यां श्लिष्टः—सम्बद्धः, तत्प्रतिभासीत्यर्थः । तमाकारं बाह्यतया व्यवस्यतोर्वक्तृश्रोत्रोरत्र बाह्ये प्रवृत्तिर्भविष्यति । एतदुक्तं भवति—परमार्थतः स्वप्रतिभासानुभवेऽपि वक्तुरेवमध्यवसायो भवति, मयाऽस्मै बाह्य एवार्थः प्रतिपाद्यते । श्रोतुरप्येवं भवति, ममायं बाह्यमेव प्रतिपादयतीति । अतस्तैमिरिकद्वयद्विचन्द्रदर्शनवदयं सर्वः शाब्दो व्यवहार इति । यद्येवमस्मत्पक्ष एव पतितोऽसीति सिद्धसाध्यता । पूर्वं प्रतिभाद्वारेणागतत्वादित्यतः पुनरित्याह । तदेवमकृतसमयत्वादित्यस्य हेतोर्नासिद्धतेति प्रतिपादितम् । अनैकान्तिकत्वविरुद्धत्वे तु पूर्वमेव निरस्ते । तस्मात्सिद्धा यथोक्तापोहकृतः शब्दा इति ॥ ९०९ ॥
अत्र परोऽपोहशब्दश्रवणाच्छलितमतिरविदितविवक्षितापोहस्वरूपः प्रतिज्ञायाः प्रतीत्यादिविरोधमुत्पादयन्नाह—“नन्वन्यापोहकृच्छब्दो युष्माभिः कथमुच्यत” इति ।
नन्वन्यापोहकृच्छब्दो युष्माभिः कथमुच्यते ।
निषेधमात्रं नैवेह प्रतिभासेऽवगम्यते ॥ ९१० ॥
किन्तु गौर्गवयो हस्ती वृक्षश्चे(त्या)दिशब्दतः ।
विधिरूपावसायेन मतिः शाब्दी प्रवर्त्तते ॥ ९११ ॥
अन्यापोहकृच्छब्द इत्यत्रेतिशब्दोऽध्याहार्यः । अन्यापोहकृच्छब्द इत्येवं कथमभिधीयत इत्यर्थः । कस्मान्नाभिधेयमित्याह—“निषेधमात्र”मित्यादि । निषेधमात्रमेव किलान्यापोहोऽभिप्रेतः, नचेह शाब्दे प्रतिभासे निषेधमात्रं गम्यते । किं तर्हि वस्तुरूपाध्यवसायेनैव शाब्दी धीः प्रवर्त्तमाना समालक्ष्यते । नच शाब्दे ज्ञाने यो न प्रत्यवभासते स शब्दार्थो युक्तोऽतिप्रसङ्गात् । तस्मात्प्रतीतिविरोधः प्रतिज्ञायाः ॥ ९१० ॥ ९११ ॥
“यदि गौ”रित्यादिना श्लोकत्रयेण भामहस्य मतेन प्रतीत्यादिबाधामुद्भावयति ।
यदि गौ ( रितिशब्दोऽयं भवेद ) न्यनिराकृतौ ।
जनको गवि गोबुद्धेर्दृश्यतामपरो ध्वनिः ॥ ९१२ ॥
यदि गोशब्दोऽन्यव्यवच्छेदप्रतिपादनपरस्तदा तस्य तत्रैव चरितार्थत्वात्सास्नादिमति पदार्थे गोशब्दात्प्रतीतिर्न प्राप्नोति, ततश्च सास्नादिमत्पदार्थविषयाया गोबुद्धेर्जनकोऽपरो ध्वनिरन्वेषणीयः स्यात् ॥ ९१२ ॥
स्यादेतदेकेनैव गोशब्देन बुद्धिद्वयस्य जन्यमानत्वान्नापरो ध्वनिर्मृग्यत इत्याह—“न त्वि”त्यादि ।
न तु ज्ञानफलाः ( शब्दा न चैकस्य फलद्व )यम् ।
अपवादविधि(ज्ञानं फलमेकस्य वा कथम्) ॥ ९१३ ॥
विधिविषयं प्रतिषेधविषयं च ज्ञानं फलं येषां ते तथोक्ताः । ततः किमित्याह—“न चैकस्ये”त्यादि । न ह्येकस्य विधिकारिणः प्रतिषेधकारिणे वा शब्दस्य युगपद्विज्ञानद्वयलक्षणं फलम् । उपलभ्यत इति शेषः । नचापि परस्परविरुद्धमपवादविधिज्ञानं फलं युक्तम् ॥ ९१३ ॥
“प्रा”गित्यादिनोपचयहेतुमाह ।
प्रागगौरिति विज्ञानं गोशब्दश्राविणो भवेत् ।
येनागोः प्रतिषेधाय प्रवृत्तो गौरिति ध्वनिः ॥ ९१४ ॥
यदि च गोशब्देनागोनिवृत्तिर्मुख्यतः प्रतिपाद्यते तदा गोशब्दश्रवणानन्तरं प्रथमतरमगौरित्येषा श्रोतुः प्रतिपत्तिर्भवेत् । यत्रैव ह्यव्यवधानेन शब्दात्प्रत्यय उपजायते स एव शब्दार्थो व्यवस्थाप्यते । नचाव्यवधानेनागोव्यवच्छेदे मतिरुपजायते । अतोगोबुद्ध्यनुत्पत्तिप्रसङ्गात्प्रथमतरमगोप्रतीतिप्रसङ्गाच्च नापोहः शब्दार्थ इति ॥ ९१४ ॥
“अगोनिवृत्ति”रित्यादिना कुमारिलमतेन प्रतिज्ञादोषमुद्भावयति ।
अगोनिवृत्तिः सामान्यं वाच्यं यै ( रुररीकृतम् । )
(वाच्यं) वस्त्वेव तैरुक्त(मेतया हि गिरा स्फुटम्) ॥ ९१५ ॥
स ह्येवमाह—अपोहलक्षणं सामान्यं वाच्यत्वेनाभिधीयमानं कदाचित्पर्युदासलक्षणं वाऽभिधीयते प्रसज्यलक्षणं वा । तत्र प्रथमे पक्षे सिद्धसाध्यता प्रतिज्ञादोषः—तथाह्यस्माभिर्गोत्वाख्यं सामान्यं गोशब्देन वाच्यमित्येवमिष्यते, भवता चागोनिवृत्तिलक्षणं सामान्यं गोशब्देनोच्यत इति ब्रुवता तदेव शब्दान्तरेणाभिधीयत इति केवलं नाम्नि विवादः ॥ ९१५ ॥
अथं कथं तदेव शब्दान्तरेणाभिहितमित्याह—“भावान्तरात्मक” इत्यादि ।
भावान्तरात्मकोऽभावो येन सर्वो व्यवस्थितः ।
तत्राश्वादिनिवृत्तात्माऽभावः स(क?)इति कथ्यताम् ॥ ९१६ ॥
येन यस्मात्प्रागभावादिलक्षणश्चतुर्विधः सर्व एवाभावो भावान्तरात्मको व्यवस्थितः । यच्चोक्तम्— क्षीरे दध्यादि यन्नास्ति प्रागभावः स खथ्यते । नास्तिता पयसो दध्नि प्रध्वंसाभावलक्षणम् ॥ गवि ह्यश्वाद्यभावश्च सोऽन्योन्याभाव उच्यते । शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः ॥ शशशृङ्गादिरूपेण ( रूपाणां ? ) सोऽत्यन्ताभाव उच्यते । न चावस्तुन एते स्युर्भेदास्तेनास्य वस्तुता ॥ इति । एतेन क्षीरादय एव च दध्यादिरूपेणाविद्यमानाः प्रागभावादिव्यपदेशभाज इति दर्शितं भवति । तत्रैवमभावस्य भावान्तरात्मकत्वे स्थिते सति कोऽयं भवद्भिरश्वादिनिवृत्तिस्वभावोऽभावोऽभिप्रेत इति कथ्यताम् ॥ ९१६ ॥
स्यान्मतम्—किमत्र कथ्यते, गवादिस्वलक्षणात्मैवासावित्यत आह—“नेष्ट” इत्यादि ।
(नेष्टोऽसाधारणात्मा वो) विशेषो निर्विकल्पनात् ।
तथा च शाबलेयादिरसामान्यप्रसङ्गतः ॥ ९१७ ॥
तस्मात्सर्बेषु यद्रूपं प्रत्येकं परिनिष्ठितम् ।
गोबुद्धिस्तन्निमित्ता स्या॥॥॥॥स्ति तत् ॥ ९१८ ॥
योऽसावसाधारणो विशेषः सोऽश्वादिनिवृत्त्यात्मा नेष्टो भवतां । कस्मादित्याह— निर्विकल्पनात् । तत्र सर्वविकल्पप्रत्यस्तमयात् । विकल्पज्ञानगोचरः सामान्यमेवेष्यते, असाधारणस्त्वर्थः सर्वविकल्पानामगोचरः । यथोक्तम्—स्वसंवेद्यमनिर्देश्यं रूपभिन्द्रियगोचर इति । विशेषात्मकत्वे कारणमसाधारणात्मकता, असाधारणात्मतया यो विशेष इत्यर्थः । एवमविशेषेणोक्तम् । साम्प्रतं विशेषेणैनमेवार्थमाह—“तथाचे”त्यादि । यथैव भवतामसाधारणो विशेषोऽश्वादिनिवृत्त्यात्मा गोशब्दाभिधेयो नेष्टस्तथैव शाबलेयादिशब्दवाच्यतया नेष्टोऽश्वादिनिवृत्त्यात्मा भाव इत्यत्राप्यनुवर्त्तते । कस्मादित्याहि—“असामान्यप्रसङ्गत” इति । यदीष्येत तदा सामान्यं शब्दवाच्यं न स्यात्, तस्यानन्वयात् । यत एवमश्वादिनिवृत्त्यात्मा भावोऽसाधारणो न घटते,तस्मात्सर्वेषु सजातीयेषु शाबलेयादिपिण्डेषु यत्प्रत्येकं परिसमाप्तं तन्निबन्धना गोबुद्धिः । तच्च गोत्वाख्यमेव सामान्यम् । तस्यागोऽपोहशब्देनाभिधानात्केवलं नामान्तरमित्यतः सिद्धसाध्यता प्रतिज्ञादोषः ॥ ९१७ ॥ १९८ ॥
अथ प्रसज्यलक्षणमिति पक्षस्तत्राह—“निषेधमात्ररूपश्चे”त्यादि ।
निषेधमात्ररूपश्च शब्दर्थौ यदि कल्प्यते ।
अभावशब्द(वाच्या स्याच्छून्यताऽन्यप्रकारिका) ॥ ९१९ ॥
“अभावशब्दवाच्ये”ति । अगोऽपोहलक्षणोऽ ( णा ?) भाववाचकः शब्दोऽभावशब्दस्तद्वाच्य बहिरर्थशून्यता स्यात्, वस्तुरूपापह्नवात् । “अन्यप्रकारिके”ति । पूर्वं विज्ञानमात्रवादोपन्यासकाले भवद्भिरुपन्यस्ता, निरस्ता चास्माभिः, पुनरप्यत्र शब्दर्थचिन्ताप्रस्तावे सैवापोहव्याजेनाभिहिता, प्रतितिसिद्धस्यार्थस्यापवादात् ॥ ९१९ ॥
ततश्च को दोष इत्याह—“तस्यां चे”त्यादि ।
तस्यां चाश्वादिबुद्धीनामात्मांशग्रहणं भवेत् ।
तत्रान्यापोहवाच्यत्वं मुधैवाभ्युपगम्यते ॥ ९२० ॥
तस्याम्—शून्यतायां वाच्यायां, शाब्दीनामश्वादिबुद्धीनामात्मांशग्रहणं प्राप्नोति, बाह्यवस्तुस्वरूपाग्रहात् । एवं च सति को दोष इत्याह—“तत्रे”त्यादि । तत्रैवं स्थिते सति, अपोहस्य वाच्यत्वं मुधैवाभ्युपगतं स्यात् । बुद्ध्याकारस्यानपेक्षितबाह्यार्थावलम्बनस्य विधिरूपस्यैव शब्दार्थत्वापत्तेः । ततश्चाभ्युपगमबाधा प्रतिज्ञाया इति भावः ॥ ९२० ॥
एतदेव दर्शयति—“सामान्यमि”त्यादि ।
सामान्यं ( वस्तुरूपं हि बुद्ध्या)कारो भविष्यति ।
शब्दार्थ॥॥॥॥॥॥॥॥॥॥॥॥॥॥प्रकल्पितः ॥ ९२१ ॥
बुद्ध्याकार एव वस्तुरूपं सामान्यं शब्दार्थो भविष्यतीति सम्बन्धः ॥ ९२१ ॥
स्यादेनालम्बनापि सा बुद्धिर्विजातीयगवादिबुद्धिभ्यो व्यावृत्तरूपा प्रवर्त्तते तेनापोहकल्पना युक्तैवेत्यत आह—व“स्तुरूपे”त्यादि ।
वस्तुरूपा च सा बुद्धिः शब्दार्थेषूपजायते ।
तेषु वस्त्वेव ( कल्प्येत वाच्यं ) बुद्ध्यनपोहकम् ॥ ९२२ ॥
“वस्तुरूपे”ति विधिरूपावसायिनी । “सा बुद्धि”रिति । अनालम्बनाऽश्वादिबुद्धिः ।“शब्दार्थे”ष्विति । अश्वादिष्वध्यवसितेषु । वस्त्वेवेति । अश्वादिपिण्डाध्यवसायिबुद्ध्यात्मकम् । अवधारणफलं दर्शयति—बुध्द्यनपोहकमिति । अविद्यमानोऽपोहो यत्र वाच्ये बुद्ध्यात्मके वस्तुनि तत्तथोक्तम् । बुद्धेरनपोहकम् । बुद्ध्यन्तरापोहरहितमित्यर्थः । अथवाअपोहत इत्यपोहकं, नापोहकमनपोहकं, बुद्धेरनपोहकं बुद्ध्यनपोहकमिति समासः । एतदुक्तं भवति । यद्यपि बुद्धिर्बुद्ध्यन्तराद्व्यवच्छिन्ना, तथापि सा न बुद्ध्यन्तरव्यवच्छेदावसायिनी जायते । किं तर्हि ? अश्वादिष्वर्थेषु विधिरूपावसायिनी, तेन वस्त्वेवविधिरूपं वाच्यं कल्पेत युक्तिमत्, नापोहः, बुद्ध्यन्तरस्य बुद्ध्यन्तरानपोहकत्वात् ॥ ९२२ ॥
किञ्च योऽयं भवद्भिरपोहः पदार्थत्वेन कल्पितः स वाक्यादपोद्धृत्य कल्पितस्य पदस्यार्थ इष्टो वाक्यार्थस्तु प्रतिभालक्षण एव । यथोक्तम्— अपोद्धारे पदस्यायं वाक्यादर्थो विवेचितः । वाक्यार्थः प्रतिभाख्योऽयं तेनादावुपजन्यते ॥ इति । अत्रोच्यते—“असत्यपी”त्यादि ।
( असत्यपि च वाक्यार्थः प्रतिभालक्षणो ) यथा ।
पदार्थोऽपि तथैव स्यात्किमपोहः प्रकल्प्यते ॥ ९२३ ॥
यथा बाह्येऽर्थे शब्दवाच्यत्वेनासत्यपि वाक्यार्थो भवद्भिः प्रतिभालक्षण एव वर्ण्यते नापोहलक्षणस्तथा पदार्थोऽपि वाक्यार्थवत्प्रतिभालक्षण एव स्यादित्यपोहःपदार्थतया किमिति कल्प्यते । द्वयोरपि पदवाक्यार्थयोर्विधिरूपत्वमेवास्त्विति भावः ॥ ९२३ ॥
स्यादेतत्प्रतिभायाः प्रतिभान्तराद्विजातीयाद्व्यवच्छेदोऽस्तीत्यतोऽपोहः कल्प्यत इत्याह—“बुद्ध्यन्तरा”दित्यादि ।
बुद्ध्यन्तरा(द्व्यवच्छेदो न च बुद्धौ) प्रतीयते ।
स्वरूपोत्पादमात्राच्च ( विधिरूपावसायिनी ) ॥ ९२४ ॥
यद्यप्यसौ न प्रतीयते तथाऽप्यस्त्येवेति चेदाह—“स्वरूपोत्पादे”त्यादि । यद्यपिबुद्धेर्बुद्ध्यन्तराद्व्यावृत्तिरस्ति, तथापि तस्यां न शब्दव्यापारोऽस्ति । तथाहि—शब्दादियं बुद्धिरुत्पद्यमाना न स्वरूपोत्पादव्यतिरेकेणान्यं बुद्ध्यन्तरव्यवच्छेदलक्षणं शब्दादवसीयमानमंशं बिभ्रती लक्ष्यते, किं तर्हि ? विधिरूपावसायिन्येवोत्पद्यत इत्यर्थः । न च शब्दादवसीयमानो वस्त्वंशः शब्दार्थो युक्तोऽतिप्रसङ्गत् । तस्मात्प्रतीतिबाधितत्वं प्रतिज्ञाया इति भावः ॥ ९२४ ॥
पुनरपि प्रसङ्गापादनेन प्रतीत्यादिबाधितत्वमेव दर्शयन्नाह—“भिन्ने”त्यादि ।
भिन्नसामान्यवचना विशेषवचनाश्च ये ।
सर्वे भवेयुः पर्याया यद्यपोहस्य वाच्यता ॥ ९२५ ॥
ये हि भिन्नसामान्यवचना गवाश्वादयो ये च विशेषवचनाः शाबलेयादयस्ते सर्वे भवतां पर्यायाः प्राप्नुवन्त्यर्थभेदाभावात्, वृक्षपादपादिशब्दवत् ॥ ९२५ ॥
कस्मात्पुनरर्थमेदो न स्म्भवतीत्याह—“संसृष्टे”त्यादि ।
संसृष्टैकत्वनानात्वविकल्प(रहितोहि सः ।
अवस्तुत्वादपोहानां) नैव भेदोऽपि विद्यते ॥ ९२६ ॥
वस्तुन्येव हि संसृष्टत्वैकत्वनानात्वविकल्पाः सम्भवन्ति, नावस्तुनि, अपोहानां चावस्तुत्वान्न परस्परं संसृष्टत्वादिविकल्पो युक्तः, तत्कथमेषां परस्परं भेदः सिद्ध्यति ॥ ९२६ ॥
अथ भेदस्तेषामभ्युपगम्यते, तथा सति नियमेन वस्तुत्वमापद्यत इति दर्शयति —“यदि वे”त्यादि ।
यदि वा भिद्यमानत्वा (द्वस्तु साधारणांशवत्) ।
अवस्तुत्वे (त्वनानात्वा) त्पर्यायत्वान्न मुच्यते ॥ ९२७ ॥
वस्त्विति साध्यनिर्देशः । प्रयोगः—ये परस्परं विभिद्यन्ते ते वस्तु, यथा स्वलक्षणानि, परस्परं विभिद्यन्ते चापोहा इति स्वभावहेतुः । ततश्च वस्तुत्वे सति विधिरेव शब्दार्थ इति सिद्धम् । एतेन चानुमानबाधितत्वं प्रतिज्ञाया उक्तं भवति । अथावस्तुत्वमभ्युपगम्यतेऽपोहानां तदा नानात्वाभावात्पूर्ववत्पर्यायत्वप्रसङ्ग इत्येकान्त एषः ॥ ९२७ ॥
अत्र परो बौद्धस्य परिहारमाशङ्कते—“ननु चे”त्यादि ।
ननु चाश्वादिभेदेन भेदोऽपोहस्य सेत्स्यति ।
यथोक्तम्— अपोह्यभेदाद्भिन्नार्थाः स्वार्थभेदगतौ जडा इति । ततश्च स्वतोभेदाभावेऽप्यपोह्यस्याश्वादेर्भेदादपोहस्यागवादिव्यावृत्तिरूपस्य भेदे सिद्धे न पर्यायत्वं भविष्यते ।
“न विशेष” इत्यादिना परो दूषणमाह—
न विशेषः स्वतस्तस्य परतश्चोपजायते ॥ ९२८ ॥
स्वतो न तस्यापोहस्य विशेषो नानात्वमस्ति अभावैकरसत्वात् । परतोऽप्यसौ भवन्काल्पनिकः स्यान्न पारमार्थिकः । न हि स्वतोऽसतो भेदस्य परतः सम्भवो युक्तः ॥ ९२८ ॥
कस्मान्न युक्त इत्याह—“संसर्गिण” इत्यादि ।
संसर्गिणोऽपि ह्याधारा यं न भिन्दन्ति रूपतः ।
अपोह्यै(र्बहिरङ्गैस्स भिद्येतेत्य) तिकल्पना ॥ ९२९ ॥
तथाहि—संसर्गिणः—सम्बन्धिनः शाबलेयादयः, आधारा—अन्तरङ्गा अपि सन्तो, यम्—अपोहं, रूपतः—स्वभावतो भेत्तुमशक्ताः, बहुष्वपि शाबलेयादिष्वेकस्यागोव्यवच्छेदलक्षणस्यापोहस्य प्रवृत्तेरिष्टत्वात्, स कथं बहिरङ्गभूतैरपोह्यैरश्वादिभिर्भिद्येत । न हि यस्यान्तरङ्गोऽप्यर्थो न भेदकस्तस्य बहिरङ्गो भविष्यति । बहिरङ्गत्वहानिप्रसङ्गात् । तस्मादतिशयवती कल्पनेयमित्युपहसति ॥ ९२९ ॥
एवं तर्ह्यन्तरङ्गा एवाधाराः संसर्गिणो भेदका न भविष्यन्तीति चेदाह—“तथैवे”त्यादि ।
तथैवाधारभेदेनाप्यस्य भेदो न युज्यते ।
न हि सम्बन्धिभेदेन भेदो वस्तुन्यपीष्यते ॥ ९३० ॥
किमुतावस्त्वसंसृष्टमव्यावृत्तं निवर्त्तते ।
अ(त एवा)विशेषांशं य (द्धिम) त्यनिरूपितम् ॥ ९३१ ॥
अस्येति । अपोहस्य । कस्मान्न युज्यत इत्याह—“न ही”त्यादि । आस्तां तावद्यदवस्तु सम्बन्धिभेदान्न भिद्यत इति, तस्य निःस्वभावत्वात् । वस्तुन्यपि हि यावत्सम्बन्धिभेदाद्भेदो नोपलभ्यत एव । तथाहि—देवदत्तादिकमेकं वस्तु युगपत्क्रमेणवाऽनेकैरासनादिभिः सम्बध्यमानमनासादितभेदमेवोपलभ्यते, किं पुनर्यदन्यव्यावृत्ति रूपमवस्तु । अवस्तुत्वादेव च क्वचिदसंसृष्टम्—असम्बद्धम्, अन्यतश्च विजातीयादव्यावृत्तमवस्तुत्वादेव । अत एवानधिगतविशेषांशं तत्तादृशं सम्बन्धिभेदादपि कथमिव भेदमश्नवीत ॥ ९३० ॥ ९३१ ॥
किञ्च—भवतु नाम सम्बन्धिभेदाद्भेदस्तथापि वस्तुभूतसामान्यानभ्युपगमे भवतां स एवापोहाश्रयः सम्बन्धी न सिद्ध्यति । यस्य भेदात्तद्भेदोऽवकल्प्यत इति दर्शयति -“न चाप्रसिद्धे”त्यादि ।
न चाप्रसिद्धसारूप्यमपोहविषयात्मना ।
शक्तः कश्चिदपि ज्ञातुं गवादीन॥॥॥॥तः ॥ ९३२ ॥
यदि हि गवादीनां वस्तुभूतं सारूप्यं प्रसिद्धं भवेत्तदाऽश्वाद्यपोहश्रयत्वमेषामविशेषेण सिद्ध्येन्नान्यथा, ततश्चापोहविषयत्वमेषामिच्छताऽवश्यं सारूप्यमङ्गीकर्त्तव्यम्, तदेव सामान्यं वस्तुभूतं शब्दवाच्यं भविष्यतीत्यपोहकल्पना निरर्थकैवेति भावः । विषयशब्दोऽत्राश्रयवचनः, जलविषया मत्स्या इति यथा ॥ ९३२ ॥
यैरप्यपोह्यभेदेन भेदः कल्प्यते, तेषां सोऽपि वस्तुभूतसामान्यमन्तरेण न सिध्यतीति दर्शयति—“अपोह्यानपी”त्यादि ।
अपोह्यानपि चाश्वादीनेकधर्मा(न्व)यादृते ।
न निरूपयितुं शक्तिस्तदपोहो न सिद्ध्यति ॥ ९३३ ॥
यदि ह्यश्वादीनामेकः कश्चित्सर्वव्यक्तिसाधारणो धर्मोऽनुगामी स्यात्तदा ते सर्वे गवादिशब्दैरविशेषेणापोह्येरन्, नान्यथा, विशेषापरिज्ञानात् । साधारणधर्माभ्युपगमे चापोहकल्पनावैयर्थ्यम्, तत्—तस्मात्, अपोहो न सिद्ध्यति ॥ ९३३ ॥
अपि चापेहः शब्दलिङ्गाभ्यामेव प्रतिपाद्यत इति भवद्भिरिष्यते । तयोश्च शब्दलिङ्गयोर्वस्तुभूतसामान्यमन्तरेण प्रवृत्तिर्न युक्ता । ततश्च केनापोहः प्रतिपाद्यतामित्येतद्दर्शयति—“न चान्वये”त्यादि ।
न चान्वयविनिर्मुक्ता प्रवृत्तिः शब्दलिङ्गयोः ।
ताभ्यां च न विनाऽपोहो न चासाधारणेऽन्वयः ॥ ९३४ ॥
“अन्वयविनिर्मुक्ते”ति । अन्वयमन्तरेणेत्यर्थः । “ताभ्या”मिति । शब्दलिङ्गाभ्यां विना नापोहः । गम्यत इति शेषः । स्वलक्षणेनैवान्वयं कृत्वा शब्दलिङ्गयोः प्रवृत्तिः करिष्यत इति चेदाह—“न चासाधारणेऽन्वय” इति । स्वलक्षणमसाधारणमनन्य भाक्, तत्कथं तेनान्वयो भवेत् । तदेवमपोहकल्पनायां शब्दलिङ्गयोः प्रवृत्तिरेव नप्राप्नोति ॥ ९३४ ॥
भवतु वा प्रवृत्तिस्तथाऽप्यनयोः प्रामाण्यमभ्युपगतं हीयत इति दर्शयति—“अपोहश्चे”त्यादि ।
अपोहश्चाप्यनिष्पन्नः साहचंर्य क्व कथ्यताम् ।
तस्मिन्नदृश्यमाने च न तयोः स्यात्प्रमाणता ॥ ९३५ ॥
प्रतिपाद्यार्थाव्यभिचारे सति शब्दलिङ्गयोः प्रामाण्यं स्यात्, प्रतिपाद्यश्चार्थोऽपोहस्त्वयेष्यते, स चाभावरूपत्वादनिष्पन्नो निःस्वभावतः । ततश्च साहचर्यमव्यभिचारित्वं क्व कस्मिन्विषये कथ्यतां शब्दलिङ्गयोः । किं तेन कथितेनेति चेदाह—“तस्मिन्नि”त्यादि । “तस्मिन्नि”ति । साहचर्ये । “तयो”रिति । शब्दलिङ्गयोः । अविसंवादलक्षणत्वात्प्रामाण्यस्येति भावः ॥ ९३५ ॥
अथापि स्याद्विजातीयादर्शनमात्रेणैव शब्दलिङ्गे अगृहीतसादचर्ये एतत्स्वमर्थं गमिष्यत इत्याह—“न चादर्शनमात्रेणे”त्यादि ।
न चादर्शनमात्रेण ताभ्यां प्रत्यायनं भवेत् ।
सर्वत्रैव ह्यदृष्टत्वात्प्रत्ययो न विशिष्यते ॥ ९३६ ॥
मात्रग्रहणमन्वयदृष्टिव्यवच्छेदार्थम् । कस्मान्न भवेदित्याह—“सर्वत्रैवे”त्यादि ।सर्वत्र—सजातीये विजातीये स्वार्थे च । ततश्चायं स्वार्थोऽयं परार्थ इत्येवं प्रत्ययो ज्ञानं न विशिष्येत । स्वार्थमपि न गमयेत्, तत्राप्यदृष्टत्वात्परार्थवदिति यावत् । क्वचित्प्रत्याय्य इति पाठः । तत्र प्रत्याय्योऽभिधेयोऽर्थो न विशिष्यते—न भिद्यतइत्यर्थः । तदेवं शब्दलिङ्गयोः प्रवृत्तिप्रामाण्याभ्युपगमहानिप्रसङ्गन्नापोहः शब्दार्थो युक्तः ॥ ९३६ ॥
यदुक्तं न चाप्रसिद्धसारूप्यमित्यादि, तत्र परस्योत्तरमाशङ्कते—“अथासत्यपी”त्यादि ।
अथासत्यपि सारूप्ये स्यादपोहस्य कल्पना ।
गवाश्वयोरयं कस्मादगोऽपोहो न कल्प्यते ॥ ९३७ ॥
यदि सारूप्यमन्तरेण शाबलेयादिष्वगोपोहस्य कल्पना स्यात्तदा गवाश्वयोरपि कस्मान्न प्रकल्प्येत, अविशेषात् । गवाश्वप्रभृतीनि चेत्यस्य लक्षणस्य विस्मृतत्वाद्विप्रेण गवाश्वयोरित्युक्तम् ॥ ९३७ ॥
तमेवाविशेषं दर्शयति—“शाबलेयाच्चे”त्यादि ।
शाबलेयाच्च भिन्नत्वं बाहुलेयाश्वयोः समम् ।
सामान्यं नान्यदिष्टं चेत्क्वागोऽपोहः प्रवर्त्तताम्— ॥ ९३८ ॥
“क्वागोऽपोहः प्रवर्त्ततामि”ति । यथैव शाबलेयाद्वैलक्षण्यादश्वे न प्रवर्त्तते, तथाबाहुलेयस्यापि ततो वैलक्षण्यमस्तीति तत्रापि न प्रवर्त्तेत । एवं शाबलेयादिष्वपि योज्यम्, सर्वत्र वैलक्षण्याविशेषात् ॥ ९३८ ॥
अपि च—यदा स्वलक्षणादिषु समयासम्भवान्न शब्दर्थत्वं युक्तं तथाऽपोहेऽपीति दर्शयन्नाह—“इन्द्रियै”रित्यादि ।
इन्द्रियैर्नाप्यगोऽपोहः प्रथमं व्यवसीयते ।
नान्यत्र शब्दवृत्तिश्च किं दृष्ट्वा स प्रयुज्यताम् ॥ ९३९ ॥
स्वयं निश्चितार्थो हि समयकृत्समयं करोति, नचापोहः केनचिदिन्द्रियैर्व्यवसीयते । प्रथमम्—व्यवहारकालात्पूर्वम्, सञ्ज्ञासञ्ज्ञिसम्बन्धकाल इत्यर्थः । तस्यावस्तुत्वादिन्द्रियाणां च वस्तुविषयत्वादिति भावः । स्यादेतदन्यव्यावृत्तस्वलक्षणमुपलभ्य शब्दः प्रयोक्ष्यत इत्यत आह—“नान्यत्रे”त्यादि । अन्यापोहादन्यत्र स्वलक्षण इत्यर्थः ॥ ९३९ ॥
माभूदिन्द्रियैरपोहस्य व्यवसायोऽनुमानेन भविष्यतीति चेदाह—“पूर्वोक्तेने”त्यादि ।
पूर्वोक्तेन प्रबन्धेन नानुमाऽप्यत्र विद्यते ।
सम्बन्धानुभवोऽप्यस्य तेन नैवोपपद्यते ॥ ९४० ॥
तत्र पूर्वोक्तः प्रबन्धः— न चान्वयविनिर्मुक्ता प्रवृत्तिः शब्दलिङ्गयोरित्यादिः ।“सम्बन्धानुभवोऽपी”ति । शब्देन सहेति शेषः । न केवलं पूर्वोक्ताश्च(श्व?) वैलक्षण्यादिर्नोपपद्यत इत्यपिशब्देन दर्शयति । “तेने”ति । तस्मात् । तदेवमकृतसमयत्वादित्यस्य हेतोरनैकान्तिकत्वं प्रतिपादितम् । अकृतसमयत्वेऽप्यपोहे शब्दप्रवृत्त्यभ्युपगमात् ॥ ९४० ॥
पुनरप्यपोहे सङ्केतासम्भवं प्रतिपादयन्नाह—“अगोशब्दाभिधेयत्व”मित्यादि ।
अगोशब्दाभिधेयत्वं(भव)तां च कथं पुनः ।
न दृष्टो यत्र गोशब्दः सम्बन्धानुभवक्षणे ॥ ९४१ ॥
इदं हि भवान्वक्तुमर्हति । कथमश्वादीनाम् अगोशब्दाभिधेयत्वं—गोशब्दानभि धेयत्वं भवद्भिरवगम्यत इति । बौद्ध आह—“न दृष्टो यत्रे”त्यादि—“सम्बन्धानुभवक्षण” इति । सङ्केतप्रतिपत्तिवेलायामित्यर्थः ॥ ९४१ ॥
“एकस्मा”दित्यादिना परो दूषणमाह ।
एकस्मान्न हि गोपिण्डाद्यदन्यत्सर्वमेव तत् ।
भवेदपोह्यमित्येतन्न सामान्यस्य वाच्यता ॥ ९४२ ॥
यदि हि यदेव सङ्केतानुभववेलायामुपलब्धं ततोऽन्यत्र गोशब्दप्रवृत्तिर्नेष्यतेष, तदैकस्मात्सङ्केतेन विषयीकृताच्छाबलेयादिकाद्गोपिण्डात्सकाशाद्यदन्यद्बाहुलेयादि तदपि गोशब्देनापोह्यं भवेत् । ततश्च सामान्यं वाच्यमित्येतन्न सिद्ध्येत् ॥ ९४२ ॥
इतश्चेतरेतराश्रयदोषप्रसङ्गादपोहे सङ्केतोऽशक्यक्रिय इति दर्शयन्नाह—“सिद्धश्चे”त्यादि ।
सिद्धश्चागौरपोह्येत गोनिषेधात्मकश्च सः ।
तत्र गौरेव वक्तव्यो नञा यः प्रतिषिध्यते ॥ ९४३ ॥
स चेदगोनिवृत्त्यात्मा भवेदन्योन्यसंश्रयः ।
सिद्धश्चेद्गौरपोहांर्थ वृथाऽपोहप्रकल्पनम् ॥ ९४४ ॥
अगोव्यवच्छेदेन गोप्रतिपत्तिः, सचागौर्गोनिषेधात्मा, ततश्चागौरित्यत्रोत्तरपदार्थो वक्तव्यो यो न गौरगौरित्यत्र नञा प्रतिषिध्येत । न ह्यनिर्ज्ञातस्वरूपस्य निषेधः शक्यते कर्तुम् । अथापि स्यात्किमत्र वक्तव्यमगोनिवृत्त्यात्माऽसौ गौरित्यत आह—“स चे”त्यादि । स इति । गौः । तथाह्यगोनिवृत्तिस्वभावत्वाद्गोरगोप्रतिपत्तिद्वारेणैव प्रतीतिः, अगोश्च गोप्रतिषेधात्मकत्वाद्गोप्रतिपत्तिद्वारिकैव प्रतीतिरिति स्फुटतरमवतरतीतरेतराश्रयत्वम् । अथापि स्यादगोशब्देन यो गौर्निषेध्यते स विधिरूप एव सिद्धोऽपोहार्थम्—अगोव्यवच्छेदलक्षणापोहसिध्यर्थं, तेनेतरेतराश्रयत्वं न भविष्यतीत्यत आह—“सिद्धश्चेदि”त्यादि । यद्येवं, सर्वस्य शब्दस्यापोहोऽर्थ इत्येवमपोहकल्पनं वृथा, विधिरूपस्य शब्दार्थस्य भावात् । तस्मान्न कश्चिद्विधिरूपः शब्दार्थः सिद्धोऽङ्गीकर्त्तव्यस्तदनङ्गीकरणे चेतरेतराश्रयदोषो दुर्निवारः ॥ ९४३ ॥ ९४४ ॥
तदेवेतरेतराश्रयत्वमुपसंहरन्नाह—“गव्यसिद्ध” इत्यादि ।
गव्यसिद्धे त्वगौर्नास्ति तदभावे तु गौः कुतः ।
नाधाराधेयवृत्त्यादिसम्बन्धश्चाप्यभावयोः ॥ ९४५ ॥
“तदभाव” इति । गोरभावे । आचार्यदिङ्न्ागेन विशेष्यविशेषणभावसमर्थनार्थमुक्तम्—नीलोत्पलादिशब्दा अर्थान्तरनिवृत्तिविशिष्टानर्थानाहुरित्यादि । तदेतदयुक्तमिति दर्शयन्नाह—“नाधाराधेये”त्यादि । यस्य हि येन सह कश्चिद्वास्तवः सम्बन्धः सिद्धो भवेत्तत्तेन विशिष्टमिति युक्तं वक्तुम् । न च नीलोत्पलयोरनीलोत्पलव्यवच्छेदरूपत्वेनाभावरूपयोराधाराधेयादिसम्बन्धः सम्भवति नीरूपत्वात् । आदिग्रहणेन संयोगसमवायैकार्थसमवायादिसम्बन्धग्रहणम् । न चासति वास्तवे सम्बन्धे तद्विशिष्टस्य प्रतिपत्तिर्युक्ताऽतिप्रसङ्गात् ॥ ९४५ ॥
अथापि स्यान्नैवास्माकमनीलादिव्यावृत्त्या विशिष्टोऽनुत्पलादिव्यवच्छेदोऽभिमतो यतोऽयं दोषः स्यात् । किं तर्हि ? अनीलानुत्पलाभ्यां व्यावृत्तं वस्त्वेव तथा व्यवस्थितम् । तदर्थान्तरनिवृत्त्या विशिष्टं शब्देनोच्यत इत्ययमर्थोऽत्राभिप्रेत इत्यत आह —“न चासाधारणं वस्त्वि”त्यादि ।
न चासाधारणं वस्तु गम्यतेऽपोहवत्तया ।
कथं वा परिकल्प्येत सम्बन्धो वस्त्ववस्तुनोः ॥ ९४६ ॥
स्वलक्षणस्यावाच्यत्वात्तत्पक्षभाविदोषप्रसङ्गाच्चेति भावः । गम्यतां नामासाधारणं वस्तु, तथाऽपि तस्यान्यव्यावृत्त्या विशिष्टत्वं न सिध्यतीति दर्शयति—“कथं वे”त्यादि । अवस्तु अपोहः, असाधारणं तु वस्तु, न चावस्तुवस्तुनोः सम्बन्धो युक्तो वस्तुद्वयाधारत्वात्तस्य ॥ ९४६ ॥
अपि च—भवतु नाम सम्बन्धस्तथापि विशेषणत्वमपोहस्य न युक्तमिति दर्शयति—“स्वरूपे”त्यादि ।
स्वरूपसत्त्वमात्रेण न स्यात्किञ्चिद्विशेषणम् ।
स्वबुद्ध्या रज्यते येन विशेष्यं तद्विशेषणम् ॥ ९४७ ॥
नहि सत्तामात्रेणोत्पलादीनां नीलादि विशेषणं भवति । किं तर्हि ? ज्ञातं सद्यत्स्वाकारानुरक्तया बुद्ध्या विशेष्यं रञ्जयति तद्विशेषणमुच्यते ॥ ९४७ ॥
नचापोहेऽयं प्रकारः सम्भवतीति दर्शयति—“न चापी”त्यादि ।
न चाप्यश्वादिशब्देभ्यो जायतेऽपोहबोधनम् ।
विशेष्यबुद्धिरिष्टेह न चाज्ञातविशेषणा ॥ ९४८ ॥
न ह्यश्वादिबुद्ध्याऽपोहो व्यवसीयते किं तर्हि ? वस्त्वेव । ततश्चापोहस्य बोधास म्भवान्न तेन स्वबुद्ध्या रज्यतेऽश्वादिः । स्यादेतदज्ञातोऽप्यपोहो विशेषणं भविष्यतीत्याह—“विशेष्ये”त्यादि । न ह्यगृहीतविशेषणा विशेष्ये बुद्धिर्भवति । न ज्ञातं विशेषणं यस्याः सा तथोक्ता ॥ ९४८ ॥
भवतु नामापोहबोधनम्, तथापि वस्तुनि तदाकारबुद्ध्यभावात्तस्य तद्विशेषणमयुक्तमिति दर्शयन्नाह—“न चान्यरूप”मित्यादि ।
न चान्यरूपमन्यादृक्कुर्याज्ज्ञानं विशेषणम् ।
कथं चान्यादृशे ज्ञाने तदुच्येत विशेषणम् ॥ ९४९ ॥
सर्वमेव हि विशेषणं स्वाकारानुरूपं विशेष्ये बुद्धिं जनयद्दृष्टम् । न त्वन्यादृशं विशेषणमन्यादृशीं बुद्धिं विशेष्ये जनयति । न हि नीलमुत्पले रक्तमिति प्रत्ययमुत्पादयति, दण्डो वा कुण्डलीति । न चात्राश्वादिष्वभावानुरक्ता शाब्दी बुद्धिरुपजायते । किं तर्हि ? भावाकाराध्यवसायिनी । स्यादेतदन्यादृशमपि ज्ञानं जनयद्विशेषणमुच्यत इत्याह—“कथं चान्यादृश” इत्यादि । अन्यादृशे—विशेषणाननुरूपे ॥ ९४९ ॥
यदि स्यात्को दोष इत्याह—“अथान्यथे”त्यादि ।
अथान्यथा विशेष्येऽपि स्याद्विशेषणकल्पना ।
तथा सति हि यत्किञ्चित्प्रपद्येत विशेषणम् ॥ ९५० ॥
अथ यदि भवतो विशेषणाननुरूपतयाऽन्यथा व्यवस्थितेऽपि विशेषे स्याद्विशेषणकल्पना, तथा सति सर्वमेव नीलादि सर्वस्य विशेषणं स्यात्, ततश्चाव्यवस्था स्यात् ॥ ९५० ॥
अथ स्यादपोहेनापि स्वबुद्ध्या विशेष्यं वस्तु रज्यत इत्याह—“अभावगम्ये”त्यादि ।
अभावगम्यरूपे च न विशेष्येऽस्ति वस्तुता ।
विशेषितमपोहेन वस्तु वाच्यं न तेऽस्त्यतः ॥ ९५१ ॥
अभावोऽपोहः, तेनापोहेन ताद्रूप्याद्गम्यम्—अभावगम्यम्, अभावगम्यं रूपं स्वभावो यस्य वस्तुनस्तत्तथोक्तम् । यद्यभावरूपेण वस्तुनः प्रतीतिः स्यात्तदा तस्यवस्तुत्वमेव न स्यात्, भावाभावयोर्विरोधात् । प्रकृतमुपसंहरन्नाह—“विशेषित”मित्यादि ॥ ९५१ ॥
स्यादेतदन्यव्यावृत्त एव वस्तुनि शब्दलिङ्गयोः प्रवृत्तिर्दृश्यते, नापोहरहिते, तेना पोहः शब्दलिङ्गाभ्यां प्रतिपाद्यत इत्यभिधीयते, नतु प्रसज्यमात्रप्रतिपादनात्, तेन यथोक्तः सर्वः प्रतीत्यादिविरोधो न भविष्यतीत्याशङ्क्याह—“यद्यपी”त्यादि ।
यद्यप्यपोहनिर्मुक्ते न वृत्तिः शब्दलिङ्गयोः ।
युक्तस्तथापि बोधस्तु ज्ञातुं वस्त्ववलम्बते ॥ ९५२ ॥
यदि नाम तद्वस्त्वन्यतो व्यावृत्तं, तथापि तत्रोत्पद्यमानः शब्दलिङ्गोद्भवो बोधोऽन्यव्यावृत्तिं सतीमपि नावलम्बते, किं तर्हि ? वस्त्वंशमेवाभिधावति, तत्रैवानुरागात् । य एवांशो वस्तुनः शाब्देन लैङ्गिकेन वा प्रत्ययेनावसीयते, स एव तस्य विषयो नानवसीयमानः सन्नपि, नहि मालतीशब्दस्य गन्धादयो विद्यमानतया वाच्या ब्यवस्थाप्यन्ते ॥ ९५२ ॥
न चाप्येतद्युक्तम्, यदन्यव्यावृत्ते वस्तुनि शब्दलिङ्गयोः प्रवृत्तिरित्येतद्दर्शयति—“न चे”त्यादि ।
न चासाधारणं वस्तु बुद्धौ विपरिवर्त्तते ।
न चापि निर्विकल्पत्वात्तस्य युक्ताऽधिगम्यता ॥ ९५३ ॥
अन्यव्यावृत्तं हि वस्तु भवद्भवतां मतेन स्वलक्षणमसाधारणमेव भवेत्, नच तच्छब्दलिङ्गजायां बुद्धौ विपरिवर्त्तत इति भवतां मतम् । तस्य निर्विकल्पबुद्धिग्राह्यत्वात् । शब्दलिङ्गजबुद्धेश्च सामान्यलक्षणविषयत्वात् । अथापि स्वलक्षणविषयत्वमस्या अभ्युपगम्यते, तदपि युक्त्या न सङ्गच्छत इति दर्शयन्नाह—“न चापी”त्यादि । न ह्यसाधारणं वस्तु शब्दलिङ्गजप्रत्ययाधिगम्यं, तत्र सर्वविकल्पानां प्रत्यस्तमयात् । तथाहि—विकल्पो जात्यादिविशेषणसंस्पर्शेनैव प्रवर्त्तते नच शुद्धवस्तुपरिग्रहेण ॥ ९५३ ॥
अथापि स्याच्छब्देनागम्यमानमप्यसाधारणं वस्तु व्यावृत्त्या विशिष्टमित्युच्यत इत्याह—“शब्देनागम्यमानं चे”त्यादि ।
शब्देनागम्यमानं च विशेष्यमिति साहसम् ।
तेन सामान्यमेष्टव्यं विषयो बुद्धिशब्दयोः ॥ ९५४ ॥
प्रकारान्तरेणापि सामान्यस्य वस्तुत्वं साधयन्नाह—“यदे”त्यादि ।
यदा चाशब्दवाच्यत्वं न व्यक्तीनामपोह्यता ।
तदाऽपोह्येत सामान्यं तस्यापोहाच्च वस्तुता ॥ ९५५ ॥
“व्यक्तीना”मिति । असाधारणवस्तुरूपाणामवाच्यत्वान्नापोह्यता, अनुक्तस्य निराकर्तुमशक्यत्वात् । “अपोह्येत सामान्य”मिति । तस्य वाच्यत्वादिति भावः ॥ ९५५ ॥
स्यादेतद्यदि नाम सामान्यमपोह्येत, तथापि कथं तस्य वस्तुत्वं सिध्यतीत्यत आह —“नापोह्यत्व”मित्यादि ।
नापोह्यत्वमभावानामभावाभाववर्जनात् ।
व्यक्तोऽपोहान्तरापोहस्तस्मात्सामान्यवस्तुनः ॥ ९५६ ॥
“अभावाना”मिति । अपोहानां । यदि भवेद्वस्तुत्वमेव स्यात् । अत्रोपपत्तिमाह—“अभावाभाववर्जना”दिति । अभावानामभावरूपत्यागादित्यर्थः । एतदुक्तं भवति— यद्यपोहानामपोह्यत्वं भवेत्, तदैषामभावरूपत्वं प्रतिषिद्धं भवेत्, तत्प्रतिषेधे च भवत्यभावैरभावरूपत्वं त्यक्तं स्यात् । ततश्चाभावानामपोहलक्षणानामभावरूपत्यागाद्वस्तुत्वमेव भवेदित्येके । अन्ये त्वाहुः—“अभावाभाववर्जना”दिति । अभावानामभावाभावादित्यर्थः । न ह्यभावस्वभावा अपोहा अपोह्या युज्यन्ते । वस्तुविषयत्वात्प्रतिषेधस्येति यावत् । तस्माद्व्यक्तः स्फुटोऽपोहान्तरेऽश्वादावपोहान्तरस्य गवादेरपोहो भवन्सामान्यभूतस्यैवेति निश्चीयते । अतः सिद्धमपोह्यत्वाद्वस्तुत्वं सामान्यस्येति ॥ ९५६ ॥
अपिचापोहानां परस्परतो वैलक्षण्यं वा स्यादवैलक्षण्यं वा, तत्राद्ये पक्षे तावद्दोषमाह—“अभावस्य चे”त्यादि ।
अभावस्य च योऽभावः स चेत्तस्माद्विलक्षणः ।
भाव एव भवेन्नो चेद्गौरगौस्ते प्रसज्यते ॥ ९५७ ॥
अभावस्य—अगोशब्दाभिधेयस्य अभावो यो गोशब्दाभिधेयोऽर्थः । स चेत्तस्मात्पूर्वोक्तादभावाद्विलक्षणोऽन्य इत्यर्थः । तदानीं भाव एव भवेत्, अभावनिवृत्तिमात्ररूपत्वाद्भावस्य । नो चेद्विलक्षणस्तदा गौरप्यगोर्भवतः प्रसज्यते तदवैलक्षण्येन तादात्म्यप्रतिपत्तेः ॥ ९५७ ॥
स्यादेतद्गवाश्वादिशब्दैः स्वलक्षणान्येव परस्परतो व्यावृत्तान्यपोह्यन्ते, नाभावाः, तेनाऽऽपोह्यत्वेन तेषां वस्तुत्वप्रसङ्गापादानं नानिष्टमित्यत आह—“यद्यपी”त्यादि ।
यद्यप्यन्येषु शब्देषु वस्तुनः स्यादपोह्यता ।
सच्छब्दस्य त्वभावाख्यान्नापोह्यं भिन्नमिष्यते ॥ ९५८ ॥
यद्यपि सच्छब्दादन्येषु गवादिशब्देषु वस्तुनः पर्वतादेरपोह्यता सिध्यति, सच्छब्दस्य त्वभावाख्यादपोह्यान्नान्यदपोह्यमस्ति, अभाव एवापोह्य इत्यर्थः । असद्व्यवहारव्यवच्छेदेन सच्छब्दस्य प्रवृत्तत्वात् ॥ ९५८ ॥
ततश्च को दोष इत्याह—“तत्रासतो”ऽपीत्यादि ।
तत्रासतोऽपि भावत्वमिति क्लेशो महान्भवेत् ।
तदसिद्धौ न सत्ताऽस्ति न वा सत्ता प्रसिद्ध्यति ॥ ९५९ ॥
पूर्ववदभावाभाववर्जनादसतोऽपोहे वस्तुत्वमेव स्यात् । ततश्चापोहवादिनोऽभ्युपगमादिविरुद्धमसतोऽपि वस्तुत्वं प्रसक्तमिति महद्बत कष्टमापतितम् । अस्त्वभावस्यापि वस्तुत्वमिति चेदाह—“तदसिद्धावि”त्यादि । तस्याभावस्यासिद्धौ सत्यां न सत्ता कस्यचिद्भावस्य सिद्ध्येत् । अभावव्यवच्छेदेन तस्य भवन्मतेन स्थितलक्षणत्वात् । तस्यचाभावस्यापोह्यत्वे सति वस्तुत्वप्रसङ्गेन स्वरूपासिद्धेरसत्तापि न सिद्ध्यति, तस्याः सत्ताव्यवच्छेदरूपत्वात्, सत्तायाश्च यथोक्तेन प्रकारेणायोगात् ॥ ९५९ ॥
यत्पूर्वमुक्तम्— अपोह्यैः स बहिःसंस्थैर्भिद्येतेत्यादि, यच्चोक्तम्— अवस्तुत्वादपोहानां नैव भेद इत्यादि । तत्र केचिद्बौद्धाः परिहारमाहुः—न खल्वपोह्यभेदा ( दा ) धारभेदाद्वाऽपोहानां भेदोऽपि त्वनादिकालप्रवृत्तविचित्रवितत्त्वार्थविकल्पवासनाभेदान्वयैस्तत्त्वतो निर्विषयैरपि भिन्नविषयालम्बिभिरिव प्रत्ययैर्भिन्नेष्वर्थेषु बाह्येषु भिन्ना इवार्थात्मान इवास्वभावा अप्यपोहाः समारोप्यन्ते, ते च तथा तैः समारोपिता भिन्नाः सन्तश्च प्रतिभासन्ते, तेन वासनाभेदाद्भेदः सद्रूपता चापोहानां भविष्यतीत्यत्राह—“न चापी”त्यादि ।
न चापि वासनाभेदाद्भेदः सद्रूपताऽपि वा ।
अपोहानां प्रकल्प्येत न ह्यवस्तुनि सा मता ॥ ९६० ॥
न ह्यवस्तुनि वासनेत्येवं मन्यते । निर्विषयो न कश्चित्प्रत्ययोऽस्तीति निर्लोडितमेतद्विज्ञानवादविचारे । ततश्च वितथार्थानां विकल्पानामयोगात्तदाहिताऽपि वासनाकुतो भविष्यति । “अवस्तु”नीति । आलम्बनभूते वस्तुन्यसति निर्विषयविज्ञानायोगेनवासनाधायकविज्ञानाभावात्कुतो वासनेत्यर्थः । ततश्च वासनाभावात्कुतो वासनाकृतोऽपोहानां भेदः सद्रूपता वा भविष्यतीति भावः ॥ ९६० ॥
एवं तावद्वाच्याभिमतमपोहं निराकृत्य वाचकाभिमतमपि निराकर्तुमाह—“भवद्भिरि”त्यादि ।
भवद्भिः शब्दभेदोऽपि तन्निमित्तो न लभ्यते ।
न ह्यसाधारणः शब्दो वाचकः प्रागदृष्टितः ॥ ९६१ ॥
तत्र शब्दान्तरापोहे सामान्ये परिकल्पिते ।
तथैवावस्तुरूपत्वाच्छब्दभेदो न कल्प्यते ॥ ९६२ ॥
वाचकानां यथा नैव वाच्यवाचकयोर्मिथः ।
न चाप्यपोह्यभेदेन भेदोऽस्तीत्युपपादितम् ॥ ९६३ ॥
शब्दानां भिन्नसामान्यवचनानां विशेषवचनानां च परस्परतो भेदः शब्दभेदः ।“तन्निमित्त” इति । स वासनाभेदो वाच्यापोहभेदो वा निमित्तं कारणमस्येति तन्निमित्तः । ननु प्रत्यक्षत एव शब्दानां कारणभेदाद्विरुद्धधर्माध्यासाच्च भेदः प्रसिद्ध एवेत्याह—“न ह्यसाधारण” इत्यादि । वाचकं हि शब्दमधिकृत्यैतदुच्यते, न चश्रोत्रज्ञानावसेयो यः स्वलक्षणात्माऽसाधारणशब्दो वाचकः । कस्मादित्याह—“प्रागदृष्टित” इति । यो हि व्यवहारकालावस्थायी शब्दः स व्यवहारकालात्प्राक् सङ्केतकाले न दृष्टः, यो दृष्टस्तस्य चिरनिरुद्धत्वान्न तेन व्यवहारः, न च सङ्केतकाले यो न दृष्टस्तेन व्यवहारो युक्तोऽतिप्रसङ्गात् । तस्मान्न स्वलक्षणस्य वाचकत्वम् । भवतामपि चात्र विवाद एव । यथोक्तम्— नार्थशब्दविशेषस्य वाच्यवाचकतेष्यते । तस्य पूर्वमदृष्टत्वात्सामान्यं तूपदेक्ष्यते ॥ इति । तस्माद्वाचकं शब्दमधिकृत्याभिधानाददोषः ।तत्रैवमवस्थिते सति शब्दान्तरापोहः शब्दसामान्यं वाचकं यदि कल्प्यते, यथार्थान्तरापोहोऽर्थसामान्यं, तदा तथैव—पूर्वोक्तेन विधिना संसृष्टैकत्वनानात्वेत्यादिनोक्तेन, वाच्यापोहानामिव शब्दापोहानामपि परस्परतो भेदो न घटते । नीरूपत्वात् । यथाच वाचकानां परस्परतो भेदो न सङ्गच्छते, एवं वाच्यवाचकयोरपि मिथः परस्परतो भेदो न कल्प्यते, निःस्वभावत्वात् । स्यादेतदपोह्यभेदेन भेदो भविष्यतीत्यत आह—“न चापी”त्यादि । यथा चापोह्यभेदादपि भेदो न विकल्प्यते तथा न विशेषः स्वतस्तस्येत्यादिना प्रतिपादितम् ॥ ९६१ ॥ ९६२ ॥ ९६३ ॥
तदेवं प्रतिज्ञायाः प्रतीत्यभ्युपेतबाधा प्रतिपादिता । साम्प्रतं वाच्यवाचकत्वाभावप्रसङ्गापादनाभ्युपेतबाधादिदोषं प्रतिपिपादयिषुः प्रमाणयन्नाह—“न गम्ये”त्यादि ।
न गम्यगमकत्वं स्यादवस्तुत्वादपोहयोः ।
भवत्पक्षे यथा लोके खपुष्पशशशृङ्गयोः ॥ ९६४ ॥
ये अवस्तुनी च तयोर्गम्यगमकत्वमस्ति, यथा खपुष्पशशशृङ्गयोः, अवस्तुनी च वाच्यवाचकापोहौ भवेतामिति व्यापकविरुद्धोपलब्धेः ॥ ९६४ ॥
ननु च मेघाभावाद्वृष्ट्यभावप्रतीतेरनैकान्तिकता हेतोरित्याह—“वृष्टिमेघासतोरि”त्यादि ।
वृष्टिमेघासतोर्दृष्ट्वा यद्यनैकान्तिकं वदेत् ।
वस्त्वस्त्वेवात्र मत्पक्षे भवत्पक्षेऽप्यदः कुतः ॥ ९६५ ॥
वृष्टिमेघयोरसती—असत्त्वे, अभावाविति यावत् । भावप्रधानत्वान्निर्देशस्य । तयोर्दृष्ट्वा—गम्यगमकमित्यधिकृतम् । यद्यनैकान्तिकमवस्तुत्वादिति हेतुं वदेद्बौद्धस्तदप्ययुक्तम्, यस्मात्तद्विविक्ताकाशालोकात्मकं वस्तु मत्पक्षेऽत्रापि वृष्टिमेघाभावप्रयोगेऽस्त्येव । अभावस्य वस्तुत्वप्रतिपादनात् । भवतस्तु बौद्धस्य पक्षे अदोऽपि—एतद्वृष्टिमेघाभावयोर्गम्यगमकत्वं कुतः—नैव । अपिशब्दो भिन्नक्रमः, अद इत्यस्यानन्तरं सम्बध्यते । तेनायमर्थो भवति । न केवलमपोहयोर्विवादास्पदीभूतयोर्गम्यगमकत्वं भवतो न युक्तम्, एतदपि वृष्टिमेघाभावयोर्गम्यगमकत्वं न युज्यत एवेति ॥ ९६५ ॥
किञ्च—यदेतद्भवद्भिरन्वयोपसर्जनयोर्व्यतिरेकप्रधानयोः शब्दलिङ्गयोः स्वविषयप्रतिपादकत्वं वर्ण्यते, यच्च—अदृष्टेरन्यशब्दार्थे स्वार्थस्यांशेऽपि दर्शनात् । श्रुतेः सम्बन्धसौकर्यं न चास्ति व्यभिचारितेत्यादि वर्णितम्, तदपोहाभ्युपगमे न युक्तमित्येतत्प्रतिपादयन्नाह—“विधिरूपश्चे”त्यादि ।
विधिरूपश्च शब्दार्थो येन नाभ्युपगम्यते ।
न भवेद्व्यतिरेकोऽपि तस्य तत्पूर्वको ह्यसौ ॥ ९६६ ॥
“तत्पूर्वक” इति । विधेः पूर्वकः । विधेर्निवृत्तिलक्षणत्वाद्व्यतिरेकस्येति भावः ।किञ्च—नीलोत्पलादिशब्दानां विशेषणविशेष्यभावः सामानाधिकरण्यं च यदेतल्लोकप्रतीतं तस्यापह्नवोऽपोहवादे प्राप्नोति ॥ ९६६ ॥
यच्चेदमुच्यते—विशेषणविशेष्यत्वसामानाधिकरण्यसमर्थनार्थम्—अपोह्यभेदाद्भिन्नार्थाः स्वार्थभेदगतौ जडाः । एकत्राभिन्नकार्यत्वाद्विशेषणविशेष्यकाः ॥ तन्मात्राकाङ्क्षणाद्भेदः स्वसामान्येन नोज्झितः । नोपात्तः संशयोत्पत्तेः साम्ये चैकार्थतातयोः ॥ इति । तदेतन्नोपपद्यत इति दर्शयन्नाह—“अपोहमात्रवाच्यत्व”मित्यादि ।
अपोहमात्रवाच्यत्वं यदिहाभ्युपगम्यते ।
नीलोत्पलादिशब्देषु शबलार्थाभिधायिषु ॥ ९६७ ॥
विशेषणविशेष्यत्वसामानाधिकरण्ययोः ।
न सिद्धिर्न ह्यनीलत्वव्युदासेऽनुत्पलच्युतिः ॥ ९६८ ॥
नापि तत्रेतरस्तस्मान्न विशेष्यविशेषणे ।
शब्दयोर्नापि ते स्यातामभिधेयानपेक्षयोः ॥ ९६९ ॥
पूर्वमर्थयोरेव विशेष्यविशेषणभावो निरस्तः । इदानीं शब्दयोरपि निरस्यत इति न पुनरुक्तता । तत्र परस्परं व्यवच्छेदकभावो विशेषणविशेष्यभावः, स च वाक्य एव व्यवस्थाप्यते, यथा नीलमुत्पलमिति । तथा व्यधिकरणयोरपि भवति, यथा राज्ञः पुरुष इत्यादौ । भिन्ननिमित्तप्रयुक्तयोस्त्वेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम्, तच्च नीलोत्पलमित्यादौ वृत्तावेव व्यवस्थाप्यते । तत्र नीलोत्पलादिशब्देषु शबलार्थाभिधायिषु यदेतत्सामानाधिकरण्यादि, तस्य न सिद्धिः । शबलोर्थः—चित्रः, यथोक्तम्— न हि तत्केवलं नीलं न च केवलमुत्पलम् । समुदायाभिधेयत्वात् इति । कस्मात्सिद्धिर्न भवतीत्याह—“न ही”त्यादि । यस्मादनीलत्वव्युदासेऽनु्त्पलव्युदासो नास्ति । तत्र—अनुत्पलच्युतौ । इतरः—नीलव्युदासः । क्वचिदितरेति स्त्रीलिङ्गस्य पाठः । स च्युतिशब्दापेक्षया द्रष्टव्यः । इतरा—अनीलच्युतिरित्यर्थः । नानयोःपरस्परमाधाराधेयसम्बन्धोऽस्ति, नीरूपत्वादिति यावत् । नचासति सम्बन्धे विशेष्यविशेषणभावो युक्तोऽतिप्रसङ्गादित्युक्तम् । एतेन युष्मन्मते शबलार्थाभिधायित्वमेव नास्ति, सर्वेषामभाववाचित्वादित्युक्तं भवति । तस्मान्न विशेष्यविशेषणे युक्ते ।स्यादेतन्माभूदर्थयोर्विशेष्यविशेषणभावस्तद्वाचकयोस्तु शब्दयोः किमिति न भवतीत्यत आह—“शब्दयो”रित्यादि । अभिधेयद्वारेणैव हि तदभिधायिनोः शब्दयोर्विशेष्यविशेषणभाव उपचर्यते, अभिधेये च तस्यासम्भवे सत्यभिधानेऽपि कुतस्तदारोपः ॥ ९६७ ॥ ९६८ ॥ ९६९ ॥
सामानाधिकरण्यं दूषयन्नाह—“सामानाधिकरण्यं” चेति ।
सामानाधिकरण्यं च न भिन्नत्वादपोहयोः ।
अर्थतश्चेत्तदिष्येत कीदृश्याधेयता तयोः ॥ ९७० ॥
एकस्मिन्नर्थे वृत्तौ सत्यां सामानाधिकरण्यं भवति । न च नीलोत्पलशब्दयोरेक स्मिन्नर्थे वृत्तिः सम्भवति । तद्वाच्ययोरनीलानुत्पलव्यवच्छेदलक्षणयोरपोहयोर्भिन्नत्वात् । तथाहि—भवद्भिरेवोक्तमपोह्यभेदाद्भिन्नार्था इति । प्रयोगः—न नीलोत्पलादिशब्दाः सामानाधिकरण्यव्यवहारविषयाः, भिन्नविषयत्वात्, घटपटादिशब्दवत् । अथापि स्याद्यत्रैव ह्यनुत्पलव्युदासो वर्त्तते तत्रैवानीलव्युदासोऽपि स्थित इत्यतोनीलोत्पलशब्दवाच्ययोरपोहयोरेकस्मिन्नर्थे वृत्तेरर्थद्वारकं सामानाधिकरण्यं शब्दयोरपि निर्दिश्यत इत्यत आह—“अर्थतश्चे”त्यादि । “त”दिति । सामानाधिकरण्यम् ।“तयो”रिति—अनीलानुत्पलव्युदासयोः । नैव काचिद्वास्तवी तयोराधेयता सम्भवति, नीरूपस्य क्वचिदवस्थानासम्भवात्, यथा वन्ध्यापुत्रस्येति भावः ॥ ९७० ॥
किञ्च—भवतु नाम नीलोत्पलादिष्वर्थेषु तयोराधेयता, तथापि सा विद्यमानापि सती न शब्दैः प्रतिपाद्यत इति दर्शयति—“न चे”त्यादि ।
न चासाधारणं वस्तु गम्यतेऽन्यच्च नास्ति ते ।
अगम्यमानमैकार्थ्यं शब्दयोः क्वोपयुज्यते ॥ ९७१ ॥
यस्मात्तदेव तावदसाधारणं नीलोत्पलादि वस्तु न शब्देन गम्यते, तत्र सर्वविकल्पानां प्रत्यस्तमयादित्युक्तम् । ततश्च तस्मिन्नाधारभूते वस्तुन्यज्ञाते तदधिकरणयोरपोहयोस्तदाधेयता कथं ग्रहीतुं शक्यते, धर्मिग्रहणनान्तरीयकत्वाद्धर्मग्रहणस्येतिभावः । अथापि स्यादसाधारणार्थव्यतिरेकेण तयोरन्यदेवाधिकरणमस्त्यतोऽयमदोष इत्यत आह—“अन्यच्चे”त्यादि । “त” इति । त(व) । स्यादेतद्यदि नामैकार्थ्यं न गम्यते, तथापि वस्तुस्थित्याऽवस्थितमेवेत्याह—“अगम्यमान”मित्यादि । “ऐकार्थ्य”मिति । सामानाधिकरण्यम् । “क्वोपयुज्यत” इति । न क्वचिदित्यर्थः । सतोऽप्यज्ञातस्य शाब्दे व्यवहारेऽनङ्गत्वात् ॥ ९७१ ॥
अथापि स्यात्—यदि व्यावृत्तिमात्रं शब्देनोच्येत तदाऽयं दोषः स्यात्, यावता व्यावृत्तिमद्वस्तु वाच्यम्, अतो व्यावृत्तिद्वयोपाधिकयोः शब्दयोरेकस्मिन्नपोहवतिवस्तुनि वृत्तेः सामानाधिकरण्यमस्त्येवेत्यत आह—“अथे”त्यादि ।
अथाप्यपोहवद्वस्तु वाच्यमित्यभिधीयते ।
तत्रापि परतन्त्रत्वाद्व्याप्तिः शब्देन दुर्लभा ॥ ९७२ ॥
“तत्रापी”ति । अपोहवति वस्तुनि वाच्यत्वेनाङ्गीक्रियमाणेऽनीलादिभेदानामुत्पलादीनां नीलादिशब्दैर्व्याप्तिराक्षेपो दुर्लभः, किं कारणम् ? परतन्त्रत्वान्नीलादिशब्दस्य, स हि व्यावृत्त्युपसर्जनं तद्वन्तमर्थमाह, न साक्षात् । ततश्च साक्षादनभिधानात्तद्गतभेदाक्षेपो नास्ति, यथा मधुरशब्देन शुक्लादेः । यद्यपि वस्तुस्थित्या शुक्लादीनां (अ)मधुरादिभेदत्वमस्ति । तथापि शब्दस्य साक्षादभिहितार्थगतस्यैव भेदस्याक्षेपसामर्थ्यं न तु पारतन्त्र्येणाभिहितार्थगतस्येति भावः । ततश्च नीलादिशब्देन तद्गतभेदानाक्षेपादुत्पलादीनामतद्भेदत्वं स्यात्, अतद्भेदत्वे च सामानाधिकरण्यं न प्राप्नोति । तेन जातिमन्मात्रपक्षे यो दोष उक्तो भवता तद्वतो न बाधकः शब्दोऽस्वतन्त्रत्वादिति, स व्यावृत्तिमन्मात्रपक्षेऽपि तुल्य इति दर्शितं भवति । तथाहि—जातिमन्मात्रे शब्दार्थे—सच्छब्दो जातिस्वरूपोपसर्जनं द्रव्यमाह न साक्षादिति तद्गतघटादिभेदानाक्षेपादतद्भेदत्वे सामानाधिकरण्याभावप्रसङ्ग उक्तः, स व्यावृत्तिमन्मात्रपक्षेऽपि समानः, तत्रापि हि सच्छब्दो व्यावृत्त्युपसर्जनं द्रव्यमाह न साक्षादिति, तद्गतभेदानाक्षेपोऽत्रापि समान एव, को ह्यत्र विशेषो जातिर्व्यावृत्तिर्जातिमान्व्यावृत्तिमानिति ॥ ९७२ ॥
दोषान्तरमाह—“लिङ्गे”त्यादि ।
लिङ्गसङ्ख्यादिसम्बन्धो न चापोहस्य विद्यते ।
व्यक्तेश्चाव्यपदेश्यत्वात्तद्द्वारेणापि नास्त्यसौ ॥ ९७३ ॥
लिङ्गानि—स्त्रीत्वपुंस्त्वनपुंसकानि, सङ्ख्या—एकत्वद्वित्वबहुत्वानि, आदिग्रहणेन क्रियाकालादिसम्बन्धपरिग्रहः । एभिः सम्बन्धो नास्त्यपोहस्य, अवस्तुत्वात्, एषाञ्च वस्तुधर्मत्वात् । न च लिङ्गादिविविक्तः पदार्थः शक्यः शब्देनाभिधातुम् । अतः प्रतीतिबाधाप्रसङ्गः प्रतिज्ञाया इति भावः । अथापि स्याद्व्यावृत्त्याधारभूताया व्यक्तेर्वस्तुत्वाल्लिङ्गादिसम्बन्धोऽस्ति, एतद्द्वारेणापोहस्यापि व्यवस्थाप्यत इत्याह—“व्यक्तेश्चे”त्यादि । सा हि व्यक्तिर्निर्विकल्पत्वाल्लिङ्गसङ्ख्यादिसम्बन्धेन व्यपदेष्टुं न पार्यते, ततः कथमपोहे तद्द्वारेण तद्व्यवस्था सिद्ध्येत् ॥ ९७३ ॥
अव्यापित्वं चापोहशब्दार्थव्यवस्थयोर्दर्शयन्नाह—“आख्याते”ष्वित्यादि ।
आख्यातेषु च नान्यस्य निवृत्तिः सम्प्रतीयते ।
न पर्युदासरूपं हि निषेध्यं तत्र विद्यते ॥ ९७४ ॥
आख्यातेषु—तिङन्तेषु पचति गच्छतीत्येवमादिषु क्रियाप्रधानेषु शब्देषु, नान्यव्यवच्छेदो गम्यते, कस्मादित्याह—“न पर्युदासरूपं” हीत्यादि । यथा सुबन्तेषु घटादिशब्देषु निष्पन्नरूपमघटादिकं पर्युदासरूपं निषेध्यमस्ति न तथा पचतीत्यादिषु, प्रतियोगिनो निष्पन्नस्य कस्यचिदप्रतीतेः ॥ ९७४ ॥
स्यादेतन्माभूत्पर्युदासरूपं निषेध्यं, न पचतीत्येवमादि प्रसज्यरूपं पचतीत्यादेर्निषेध्यं भविष्यतीत्याह—“न ने”ति हीत्यादि ।
न नेति ह्युच्यमानेऽपि निषेधस्य निषेधनम् ।
पचतीत्यनिषिद्धं तु स्वरूपेणैव तिष्ठति ॥ ९७५ ॥
साध्यत्वप्रत्ययश्चात्र तथा भूतादिरूपणम् ।
निष्पन्नत्वादपोहस्य निर्निमित्तं प्रसज्यते ॥ ९७६ ॥
न न पचतीत्येवमुच्यमानेऽपि प्रसज्यप्रतिषेधस्य निषेधनमेवोक्तं स्यात् । ततश्च को दोष इत्याह—“पचतीत्यनिषिद्ध”मित्यादि । प्रतिषेधद्वयस्य विधेर्विषयत्वात्पचतीत्येतत्स्वरूपेणैव विध्यात्मनैव तिष्ठतीति विधिरेव शब्दार्थः स्यात् । किञ्च—अत्र पचतीत्यादौ साध्यत्वं प्रतीयते । यस्याः क्रियायाः केचिदवयवा निष्पन्नाः केचिदनिष्पन्नाः सा पूर्वापरीभूतावयवा क्रिया साध्यत्वप्रत्ययविषया । तथाऽभूद्भविष्यतीत्यादौभूतादिकालविशेषप्रतीतिरस्ति । नचापोहस्य साध्यत्वादिसम्भवः, निष्पन्नत्वादभावैकरसत्वेन । तस्मादपोहशब्दार्थपक्षे साध्यत्वप्रत्ययो भूतादिप्रत्ययश्च निर्निमित्तः प्राप्नोतीति प्रतीतिबाधा । “भूतादिरूपण”मिति । भूतादीनामवधारणं प्रत्यय इति यावत् ॥ ९७५ ॥ ९७६ ॥
पुनरप्यव्यापिनं दर्शयन्प्रतीतिबाधामेव दर्शयति—“विध्यादा”वित्यादि ।
विध्यादावर्थराशौ च नान्यापोहनिरूपणम् ।
नञश्चापि नञा युक्तावपोहः कीदृशो भवेत् ॥ ९७७ ॥
चादीनामपि नञ्योगो नैवास्तीत्यनपोहनम् ।
वाक्यार्थेऽन्यनिवृत्तिश्च व्यपदेष्टुं न शक्यते ॥ ९७८ ॥
अनन्यापोहशब्दादौ वाच्यं न च निरूप्यते ।
प्रमेयज्ञेयशब्दादेरपोह्यं कुत एव तु ॥ ९७९ ॥
आदिशब्देन निमन्त्रणामन्त्रणादीनां ग्रहणम्—अन्यापोहस्य—अन्यव्यवच्छेदस्य न निरूपणमुपलम्भोऽस्ति । न पर्युदासरूपं हि निषेध्यं तत्र विद्यत इत्येतत्पूर्वोक्तमेवात्र कारणमिति भावः । न न पचति देवदत्त इत्यादौ नञोऽपरेण नञा योगे सति कीदृशोऽपोहो भवेत् । नैव कश्चित् । प्रतिषेधद्वये विधेरेव संस्पर्शनात् । अपिच चादीनां निपातोपसर्गकर्मप्रवचनीयानां पदत्वमिष्टम्, नचैषां नञा सम्बन्धोऽस्त्यसत्त्ववचनत्वात् । तथाहि—यथा घटादिशब्दानामघट इत्यादौ नञा सम्बन्धे सत्यर्थान्तरस्य पटादेः परिग्रहात्तद्व्यवच्छेदेन नञा रहितस्य घटशब्दस्यार्थोऽवकल्प्यते, न तथा चादीनां नचेत्यादि नञा सम्बन्धोऽस्ति । नचासम्बध्यमानस्य नञाऽपोहनं युक्तम् । अतश्चादिष्वनपोहनम् । अपोहाभाव इत्यर्थः । किञ्च—वाक्यार्थः कल्माषवर्णवच्छबलैकरूप इष्यते, अतस्तत्रान्यनिवृत्तिर्व्यपदेष्टुं न शक्यते । निष्पन्नरूपस्य प्रतियोगिनोऽप्रतीतेः । या चात्र चैत्र गामानयेत्यादावचैत्रादिव्यवच्छेदरूपान्यनिवृत्तिरवयवपरिग्रहेण वर्ण्यते, सा पदार्थ एव स्यान्न वाक्यार्थः । तस्यानवयवस्येत्थं विवेक्तुमशक्यत्वादित्यव्यापिनी शब्दार्थव्यवस्था । अपि च—नान्यापोहोऽनन्यापोह इत्यादौ शब्दे विधिरूपादन्यद्वाच्यं न निरूप्यते—नोपलभ्यत इत्यर्थः । तथाहि— नापोहरूपमात्रं वाच्यं गम्यते, प्रतिषेधद्वयेन विधेरेवावसायात् । आदिशब्देनाऽनन्यव्यावृत्तिरनन्यव्यवच्छेद इत्यादिपर्यायग्रहणम् । ननु च नञश्चापि नञा युक्तावित्यनेनैव गतत्वात्पुनरुक्तमेतत् । सत्यमेतत् । किन्त्वन्यापोहः शब्दार्थ इत्येवं वादिना स्ववचनेनैव विधिरिष्ट इति ज्ञापनार्थं पुनरुच्यते । तथा ह्यन्यापोहशब्दस्यानन्यापोहशब्दार्थो व्यवच्छेद्यः, स च विधेर्नान्यो लक्ष्यते । ये च प्रमेयज्ञेयाभिधेयादयः शब्दास्तेषां न किञ्चिदपोह्यमस्ति । सर्वस्यैव प्रमेयत्वादिस्वभावत्वात् । तथाहि—यन्नाम किञ्चिद्व्यवच्छेद्यमेषां कल्प्यते, तत्सर्वं व्यवच्छेदाकारेणालम्ब्यमानं ज्ञेयादिस्वभावमेवावतिष्ठते, नह्यविषयीकृतं व्यवच्छेत्तुं शक्यते । ततश्चैषामपोह्यार्थाभावादव्यापिनी व्यवस्था ॥ ९७७ ॥ ९७८ ॥ ९७९ ॥
ननु हेतुमुखे निर्दिष्टम्—अज्ञेयं कल्पितं कृत्वा तद्व्यवच्छेदेन ज्ञेयेऽनुमानमिति । तत्कथमव्यापित्वं शब्दार्थव्यवस्थाया इत्याह—“अपोह्ये”त्यादि ।
अपोह्यकल्पनायां च वरं वस्त्वेव कल्पितम् ।
ज्ञानाकारनिषेधाच्च नान्तरार्थोऽभिधीयते ॥ ९८० ॥
नचाप्यपोह्यता तस्मान्नापोहस्तेषु सिद्ध्यति ।
एवमित्यादिशब्दानां न चापोह्यं निरूप्यते ॥ ९८१ ॥
यदि ज्ञेयमपि सर्वं ज्ञेयत्वेनापोह्यमस्य कल्प्यते तदा वरं वस्त्वेव विधिरूपमेव शब्दार्थत्वेन विकल्पितं भवेद्यदध्यवसीयते लोकेन । एवं ह्यदृष्टारोपो दृष्टार्थापलापश्च न कृतः स्यादिति भावः । अत एव वरमित्युक्तम् । ये त्वाहुर्विकल्पप्रतिबिम्बकमेव सर्वशब्दानामर्थस्तदेव चाभिधीयते व्यवच्छिद्यत इति चोच्यत इति । तान्प्रतीदमाह —“ज्ञानाकारनिषेधाच्चे”त्यादि । निराकारा बुद्धिराकारवान्बाह्योऽर्थः, स च बहिर्देशसम्बन्धो विस्पष्टमुपलभ्यत इत्येवमस्माभिर्ज्ञानाकारो निषिद्धः, तस्मादान्तरस्यबुद्ध्यारूढस्याकारस्यासत्त्वात्तदभिधायकत्वं शब्दानामयुक्तम् । नापि तस्यान्तरस्यार्थस्यापोह्यत्वं युक्तम्, असत्त्वादेव । “तेष्वि”ति । प्रमेयादिशब्देषु । ये च—एवमित्थमित्यादयः शब्दास्तेषामपि न किञ्चिदपोह्यमुपलभ्यते, कस्यचित्प्रतियोगिनः पर्युदासरूपस्याभावात् । अथापि स्यात्—नैवमित्यादि प्रसज्यरूपं निषेध्यं भवतीति । नैतदस्त्युक्तमत्र । तथाहि—अत्रापि न नैवमिति निर्देशे निषेधस्य निषेधनम्, एवमित्यनिषिद्धं तु स्वरूपेणैव तिष्ठतीति सैव पूर्वोक्ता नीतिरवतरति ॥ ९८० ॥ ९८१ ॥
एतत्सर्वं कुमारिलोक्तमुपन्यस्तम्, साम्प्रतं “सर्वशब्दस्ये”त्यादिनोद्योतकारोक्तमपोहदूषणमाशङ्कते—
सर्वशब्दस्य कश्चार्थो व्यवच्छेद्यः प्रकल्प्यते ।
नासर्वनाम किञ्चिद्धि भवेद्यस्य निराक्रिया ॥ ९८२ ॥
एकाद्यसर्वमिति चेदर्थापोहः प्रसज्यते ।
अङ्गानां प्रतिषिद्धत्वादनिष्टेश्चाङ्गिनः पृथक् ॥ ९८३ ॥
एवं समूहशब्दार्थे समुदायिव्यपोहतः ।
अन्यानिष्टेश्च सर्वेऽपि प्राप्नुवन्ति निरर्थकाः ॥ ९८४ ॥
द्व्यादिशब्दा इहेष्टाश्च ये समुच्चयगोचराः ।
एकादिप्रतिषेधेन न भवेयुस्तथाविधाः ॥ ९८५ ॥
नागौरिति च योऽपोहो गोशब्दस्यार्थ उच्यते ।
स किं भावोऽथवाऽभावो भावो गौर्वाऽथवाऽप्यगौः ॥ ९८६ ॥
गौश्चेन्नास्ति विवादोऽयमर्थस्तु विधिलक्षणः ।
अगौर्गोशब्दवाच्यश्चेदतिशब्दार्थकौशलम् ॥ ९८७ ॥
अभावोऽपि न युक्तोऽयं प्रैषादीनामसम्भवात् ।
न हि गोशब्दतः कश्चिदभावं प्रतिपद्यते ॥ ९८८ ॥
स ह्याह । अपोहः शब्दार्थ इत्ययुक्तमेतत्, अव्यापकत्वात् । यत्र द्वैराश्यं भवति तत्रेतरप्रतिषेधादितरत्प्रतीयते—यथा गौरिति पदे गौः प्रतीयमानोऽगौर्निषेध्यमानः । न पुनः सर्वपदे एतदस्ति । न ह्यसर्वं नाम किञ्चिदस्ति, यत्सर्वशब्देन निवर्त्त्येत । अथ मन्यसे—एकाद्यसर्वं तत्सर्वशब्देन निवर्त्त्यत इति । तन्न, स्वार्थापवाददोषप्रसङ्गात् । एवं ह्येकादिव्युदासेन प्रवर्त्तमानः सर्वशब्दोऽङ्गप्रतिषेधादङ्गव्यतिरिक्तस्याङ्गिनोऽनभ्युपगमादनर्थकः स्यात् । अङ्गशब्देनैकदेश उच्यते । एवं सर्वे समुदायशब्दा एकदेशप्रतिषेधरूपेण प्रवर्त्तमानाः समुदायिव्यतिरिक्तस्यान्यस्य समुदायस्यानभ्युपगमादनर्थकाः प्राप्नुवन्ति । द्व्यादिशब्दानां च विषयसमुच्चयत्वादेकादिप्रतिषेधेप्रतिषिध्यमानानामर्थानामसुच्चयत्वादनर्थकत्वम्, तद्दर्शयति—“न भवेयुस्तथाविधा” इति । इष्टास्ते समुच्चयगोचरास्तथाविधा न भवेयुरित्यर्थः । यश्चायमगोऽपोहोगौर्न भवतीति गोशब्दस्यार्थः स किं भावोऽथाभावः ? यदि भावः स किं गौरथाऽगौरिति । यदि गौः, नास्ति विवादः । अथागौः, गोशब्दस्यागौरर्थ इत्यतिशब्दार्थकौशलम् । अथाभावः, तन्न युक्तम्, प्रैषसम्प्रतिपत्त्योरविषयत्वात् । न हि शब्दश्रवणादभावे प्रैषः सम्प्रतिपत्तिश्च भवेत् । तदेतद्दर्शयति—“अभावोऽपि न युक्तोऽयमि”त्यादि । प्रैषणं प्रैषः, प्रतिपादकेन श्रोतुरर्थे विनियोगः, सोऽयं प्रतिपादकधर्मः । सम्प्रतिपत्तिः श्रोतृधर्मः । आदिशब्देन भावधर्माः सर्वे वाहदोहादयो गृह्यन्ते । अपि च शब्दार्थः प्रतीत्या प्रतीयते, न च गोशब्दादभावं कश्चित्प्रतिपद्यते ॥ ९८२ ॥ ९८३ ॥ ९८४ ॥ ९८५ ॥ ९८६ ॥ ९८७ ॥ ९८८ ॥
किञ्च क्रियारूपत्वादपोहस्य विषयो वक्तव्यः, तत्रागौर्न भवतीत्ययमपोहः किं गोविषयोऽथागोविषयः । यदि गौर्विषयः, कथं गोर्गव्येवाभावः । अथागौर्विषयः,कथमन्यविषयादपोहादन्यत्र प्रतिपत्तिः, नहि खदिरे च्छिद्यमाने पलाशे छिदा भवति । अथागोर्गवि प्रतिषेधो गौरगौर्न भवतीति, केनागोत्वं प्रसक्तं यत्प्रतिषिध्यत इति । तदत्र प्रथमौ विकल्पावत्यसम्बद्धाविति मत्वा तृतीयमेव दर्शयन्नाह—“नागौर्गौरि”त्यादि ।
नागौर्गौरिति शब्दार्थः कस्माच्चापोह इष्यते ।
केन ह्यगोत्वमासक्तं गौर्येनैतदपोह्यते ॥ ९८९ ॥
अगौरपोहो यश्चायं गवि शब्दार्थ उच्यते ।
स किं गोर्व्यतिरिक्तो वाऽव्यतिरिक्त उपेयते ॥ ९९० ॥
विभिन्नोऽप्याश्रितो वा स्यादथवा स्यादनाश्रितः ।
आश्रितत्वे गुणः प्राप्तो न द्रव्यवचनं ततः ॥ ९९१ ॥
अतो गौरितिशब्देन गुणमात्राभिधानतः ।
सामानाधिकरण्यं स्यान्न गौर्गच्छति तिष्ठति ॥ ९९२ ॥
अथानाश्रित एवायं यद्यर्थस्तस्य को भवेत् ।
येनासौ प्रतिषेधाय गौरिति व्यपदिश्यते ॥ ९९३ ॥
अथ चाव्यतिरिक्तोऽयमन्यापोहस्त्वयेष्यते ।
गौरेवायमतः प्राप्तः किमुक्तमधिकं ततः ॥ ९९४ ॥
चशब्दः समुच्चये । कस्माच्च भवता गौरित्येतस्य नागौरित्येषोऽपोहलक्षणः शब्दार्थ उच्यत इति वाक्यार्थः । कस्मात्पुनर्न वक्तव्या इत्याह—“केने”त्यादि । इतश्चायुक्तोऽपोहो विकल्पानुपपत्तेः । तथाहि—योऽयमगोरपोहो गवि स किं गोव्यतिरिक्तः ? आहोस्विदव्यतिरिक्तः ? यद्यतिरिक्तः स किमाश्रितोऽथानाश्रितः । यद्याश्रितस्तदाऽऽश्रितत्वाद्गुणः प्राप्तः, ततश्च गोशब्देन गुण एवाभिधीयते नागौरिति गौस्तिष्ठति गौर्गच्छतीती सामानाधिकरण्यं न प्राप्नोति । अथानाश्रितस्तदा केनार्थेनागोरपोह इति षष्ठी स्यात् । अथाव्यतिरिक्तस्तदा गौरेवासाविति न किञ्चित्कृतं भवति ॥ ९८९ ॥ ॥ ९९० ॥ ९९१ ॥ ९९२ ॥ ९९३ ॥ ९९४ ॥
प्रतिभावमपोहोऽयमेकोऽनेकोऽपिवा भवेत् ।
यद्येकोऽनेकगोयुक्तो गोत्वमेव भवेदसौ ॥ ९९५ ॥
अनेकत्वेऽपि चानन्त्यं पिण्डवत्सम्प्रयुज्यते ।
तेन भेदवदेवास्य वाच्यता नोपयुज्यते ॥ ९९६ ॥
अयं चापोहः प्रतिवस्त्वेकोऽनेको वेति वक्तव्यम् । यद्येकस्तदाऽनेकगोद्रव्यसम्बन्धी गोत्वमेवासौ भवेत् । अथानेकस्ततः पिण्डवदानन्त्यादाख्यानानुपपत्तेरवाच्य एव स्यात् ॥ ९९५ ॥ ९९६ ॥
अन्यापोहश्च किं वाच्यः किं वाऽवाच्योऽयमिष्यते ।
वाच्योऽपि विधिरूपेण यदि वाऽन्यनिषेधतः ॥ ९९७ ॥
विध्यात्मनाऽस्य वाच्यत्वे त्याज्यमेकान्तदर्शनम् ।
सर्वत्रान्यनिरासोऽयं शब्दार्थ इति वर्णितम् ॥ ९९८ ॥
अथापोहव्युदासेन यद्यपोहोऽभिधीयते ।
तत्र तत्रैवमिच्छायामनवस्था भवेत्ततः ॥ ९९९ ॥
अथाप्यवाच्य एवायं यद्यपोहस्त्वयेष्यते ।
तेनान्यापोहकृच्छब्द इति बाध्येत ते वचः ॥ १००० ॥
किञ्चेदं तावत्प्रष्टव्यो भवति भवान्, किमपोहो वाच्योऽथावाच्य इति । वाच्यत्वे विधिरूपेण वा वाच्यः स्यादन्यव्यावृत्त्या वा । तत्र यदि विधिरूपेण तदा नैकान्तिकः शब्दार्थोऽन्यापोहः शब्दार्थ इति । अथान्यव्यावृत्त्येति पक्षस्तदा तस्याप्यन्यव्यवच्छेदस्यापरेणान्यव्यवच्छेदरूपेणाभिधानं तस्याप्यपरेणेत्यव्यवस्था स्यात् । अथावाच्यस्तदाऽन्यशब्दार्थापोहं शब्दः करोतीति व्याहन्येत ॥ ९९७ ॥ ९९८ ॥ ॥ ९९९ ॥ १००० ॥
एतत्सर्वमुद्योतकरेणोक्तमुपन्यस्तम्, तत्राचार्यदिग्नागेनोक्तम्—सर्वत्राभेदादाश्रयस्यानुच्छेदात्कृत्स्नार्थपरिसमाप्तेश्च यथाक्रमं जातिधर्मा एकत्वनित्यत्वप्रत्येकपरिसमाप्तिलक्षणा अपोह एवावतिष्ठन्ते, तस्माद्रुणोत्कर्षादप्यर्थान्तरापोह एव शब्दार्थः साधुरिति । एतदाशङ्क्य कुमारिल उपसंहरन्नाह—“अपि चैकत्वे”त्यादि ।
अपि चैकत्वनित्यत्वप्रत्येकसमवायिनः ।
निरुपाख्येष्वपोहेषु कुर्वतोस्तत्र कः परः ॥ १००१ ॥
तस्माद्येष्वेव शब्देषु नञ्योगस्तेषु केवलम् ।
भवेदन्यनिवृत्त्यंशः स्वात्मैवान्यत्र गम्यते ॥ १००२ ॥
“येष्वेव शब्देषु नञ्योग” इति । अभक्ष्यो ग्रामसूकर इत्यादिषु । “स्वात्मैवे”ति । स्वरूपमेव विधिलक्षणम् । “अन्यत्रे”ति । नञ्रहिते ॥ १००१ ॥ १००२ ॥
एवं यथाप्रधानं परमतमाशङ्क्य, “अन्यापोहापरिज्ञाना”दित्यादिना समाधानमारभते ।
अन्यापोहापरिज्ञानादेवमेते कुदृष्टयः ।
स्वयं तुष्टा दुरात्मानो नाशयन्ति परानपि ॥ १००३ ॥
तथाहि द्विविधोऽपोहः पर्युदासनिषेधतः ।
द्विविधः पर्युदासोऽपि बुद्ध्यात्मार्थात्मभेदतः ॥ १००४ ॥
“पर्युदासनिषेधत” इति । पर्युदासान्निषेधाच्च पर्युदासलक्षणः प्रसज्यप्रतिषेधश्चेति यावत् । “बुद्ध्यात्मार्थात्मभेदत” इति । बुद्ध्यात्मभेदादर्थात्मभेदादित्यर्थः । तत्र बुद्ध्यात्मा—बुद्धिप्रतिभासोऽर्थेष्वनुगतैकरूपत्वेनाध्यवसितः अर्थात्मा—अर्थस्वभावोविजातीयव्यावृत्तमर्थस्वलक्षणमित्यर्थः । अनयोर्भेदो विभाग इति समासः ॥ १००३ ॥ ॥ १००४ ॥
तत्र बुद्ध्यात्मनः स्वरूपं दर्शयन्नाह—“एके”त्यादि ।
एकप्रत्यवमर्शस्य य उक्ता हेतवः पुरा ।
अभयादिसमा अर्थाः प्रकृत्यैवान्यभेदिनः ॥ १००५ ॥
तानुपाश्रित्य यज्ज्ञाने भात्यर्थप्रतिबिम्बकम् ।
कल्पकेऽर्थात्मताऽभावेऽप्यर्था इत्येव निश्चितम् ॥ १००६ ॥
“पुरे”ति । पूर्व सामान्यपरीक्षायां यथा धात्र्यभयादीनामित्यादिनोक्ताः । तत्रोक्तम्—यथा हरीतक्यादयो बहवोऽन्तरेणापि सामान्यमेकं ज्वरादिशमनलक्षणं कार्य कुर्वन्ति । तथा सावलेयादयोऽप्यर्थाः सत्यपि भेदे प्रकृत्यैकाकारप्रत्यवमर्शस्य हेतवो भविष्यन्त्यन्तरेणापि वस्तुभूतं सामान्यमिति । “अभयादिसमा” इति । हरीतक्यादितुल्याः । एकार्थकारितया साम्यम् । “तानुपाश्रित्ये”ति । तानभयादिसमानर्थानाश्रित्य हेतूकृत्य तदनुभवबलेन यदुत्पन्नं विकल्पकं ज्ञानं तत्र यदर्थाकारतयार्थप्रतिबिम्बकमर्थाभासो भाति तादात्म्येन, तत्रान्यापोह इत्येषा सञ्ज्ञोक्तेति सम्बन्धः । “कल्पक” इति । विकल्पके, सविकल्प इति यावत् । एतच्च ज्ञान इत्यनेन समानाधिकरणम् । “अर्थात्मताऽभावेऽपी”ति । बाह्यार्थात्मताया अभावेऽपि । “निश्चित”मिति ।अध्यवसितम् ॥ १००५ ॥ १००६ ॥
अथ कथं तस्यापोह इत्येष व्यपदेश इत्याह—“प्रतिभासान्तरा”दित्यादि ।
प्रतिभासान्तराद्भेदादन्यव्यावृत्तवस्तुनः ।
प्राप्तिहेतुतयाऽश्लिष्टवस्तुद्वारा गतेरपि ॥ १००७ ॥
विजातीयपरावृत्तं तत्फलं यत्स्वलक्षणम् ।
तस्मिन्नध्यवसायाद्वा तादात्म्येनास्य विप्लुतैः ॥ १००८ ॥
तत्रान्यपोह इत्येषा सञ्ज्ञोक्ता सनिबन्धना ।
चतुर्भिर्निमित्तैरपोह इति तस्याख्या । विकल्पान्तरारोपितप्रतिभासान्तराद्भेदेनस्वयं प्रतिभासनान्मुख्यतः । अपोह्यत इत्यपोहोऽन्यस्मादपोहोऽन्यापोह इति व्यु त्पत्तेः । उपचारात्तु त्रिभिः । (१) कारणे कार्यधर्मारोपाद्वा, य(त?)दाह—“अन्यव्यावृत्त वस्तुनः प्राप्तिहेतुतये”ति । (२) कार्ये वा कारणधर्मोपचारात्, तद्दर्शःयति—“अश्लिष्टवस्तुद्वारा गतेरपी”ति । अश्लिष्टम्—अन्यासम्बद्धम्, अन्यतो व्यावृत्तमिति यावत् । तदेव वस्तुद्वारमुपायः, तदनुभवबलेन तथाविधविकल्पोत्पत्तेः । (३) विजातीयापोहपदार्थेन सहैक्येन भ्रान्तैः प्रतिपतृभिरध्यवसितत्वाच्चेति चतुर्थ कारणम, तद्दर्शयति—“विजातिये”त्यादि । “अस्ये”ति । विकल्पबुद्ध्यारूढस्यार्थप्रतिबिम्बस्य । “सनिबन्धने”ति । सह निबन्धनेने प्रतिभासान्तराद्भेदादिनोक्तेन चतुर्विधेन वर्त्तत इति सनिबन्धना ॥ १००७ ॥ १००८ ॥
अर्थात्मनोपोहस्य स्वरूपं दर्शयन्नाह—“स्वलक्षणेऽपी”त्यादि ।
स्वलक्षणेऽपि तद्धेतावन्यविश्लेषभावतः ॥ १००९ ॥
अन्यापोह इत्येषा सञ्ज्ञोक्ता सनिबन्धनेति प्रकृतेन सम्बन्धः । तत्र निबन्धनमाह—“अन्यविश्लेषभावत” इति । अन्यस्माद्विजातीयाद्विश्लेषो व्यावृत्तिस्तस्य भावात् । विजातीयविश्लेषस्य विद्यमानत्वादिति यावत् । एतेन मुख्यत एव स्वलक्षणेऽन्यापोहव्यपदेश इत्युक्तं भवति ॥ १००९ ॥
प्रसज्यप्रतिषेधलक्षणस्यापोहस्य स्वरूपं दर्शयति—“प्रसज्ये”त्यादि ।
प्रसज्यप्रतिषेधश्च गौरगौर्न भवत्ययम् ।
अतिविस्पष्ट एवायमन्यापोहोऽवगम्यते ॥ १०१० ॥
तदेवं त्रिविधमपोहं प्रतिपाद्य प्रकृते शब्दार्थत्वे योजयन्नाह—“तत्राय”मित्यादि ।
तत्रायं प्रथमः शब्दैरपोहः प्रतिपाद्यते ।
बाह्यार्थाध्यवसायिन्या बुद्धेः शब्दात्समुद्भवात् ॥ १०११ ॥
“प्रथम” इति । यथोक्तार्थप्रतिबिम्बात्मा । तत्र कारणमाह—“बाह्यार्थाध्यवसायिन्या” इत्यादि । यदेव हि शाब्दे ज्ञाने प्रतिभासते स एव शब्दार्थो युक्तः, न चात्रप्रसज्यप्रतिषेधाध्यवसायोऽस्ति न चापीन्द्रियज्ञानवत्स्वलक्षणप्रतिभासः, किं तर्हि ? बाह्यार्थाध्यवसायिनी केवलं शाब्दी बुद्धिरुपजायते । तेन तदेवार्थप्रतिबिम्बकं शाब्दे ज्ञाने साक्षात्तदात्मतया प्रतिभासनाच्छब्दार्थो युक्तो नान्य इति भावः ॥ १०११ ॥
यश्चापि शब्दस्यार्थेन सह वाच्यवाचकभावलक्षणः सम्बन्धः प्रसिद्धो नासौ कार्यकारणभावादन्योऽवतिष्ठते, अपितु कार्यकारणभावात्मक एवेति दर्शयति—“तद्रूपप्रतिबिम्बस्ये”त्यादि ।
तद्रूपप्रतिबिम्बस्य धियः शब्दाच्च जन्मनि ।
वाच्यवाचकभावोऽयं जातो हेतुफलात्मकः ॥ १०१२ ॥
तत्—अध्यवसितबहिर्भावत्वलक्षणं रूपं—स्वभावो यस्य तत्तथोक्तम्, तद्रूपं च तत्प्रतिबिम्बं चेति समासः, तस्य तद्रूपप्रतिबिम्बस्य धियः सम्बन्धिनः शब्दाज्जन्मन्युत्पादे सति स वाच्यवाचकलक्षणो निरूप्यमाणः कार्यकारणभावात्मक एव जातः । तथाहि—शब्दप्रतिबिम्बस्य जनकत्वाद्वाचक उच्यते, तच्च प्रतिबिम्बं शब्देनजन्यमानत्वाद्वाच्यम् । तेन, यदुक्तम्—निषेधमात्रं नैवेह शाब्दे ज्ञानेऽवभासते इति, तदसङ्गतम्, निषेधमात्रस्य शब्दार्थत्वानभ्युपगमादिति भावः ॥ १०१२ ॥
एवं तावत्प्रतिबिम्बलक्षणोऽपोहः साक्षाच्छब्दैरुपजन्यमानत्वान्मुख्यः शब्दार्थ इति दर्शितम्, शेषयोरप्यपोहयोर्गौणं शब्दार्थत्वमुपवर्ण्यमानमविरुद्धमेवेति दर्शयन्नाह—“साक्षा”दित्यादि ।
साक्षादाकार एतस्मिन्नेवं च प्रतिपादिते ।
प्रसज्यप्रतिषेधोऽपि सामर्थ्येन प्रतीयते ॥ १०१३ ॥
न तदात्मा परात्मेति सम्बन्धे सति वस्तुभिः ।
व्यावृत्तवस्त्वधिगमोऽप्यर्थादेव भवत्यतः ॥ १०१४ ॥
तेनायमपि शब्दस्य स्वार्थ इत्युपचर्यते ।
न तु साक्षादयं शाब्दो द्विविधोऽपोह उच्यते ॥ १०१५ ॥
“एवं चे”ति । जन्यत्वेन । कस्मात्पुनः सामर्थ्येन प्रसज्यप्रतिषेधः प्रतीयत इति दर्शयन्नाह—“न तदात्मे”ति । तस्य गवादिप्रतिबिम्बस्यात्मा यः परस्याश्वादिप्रतिबिम्बस्यात्मा स्वभावो न भवतीति कृत्वा । एवं प्रसज्यलक्षणापोहस्य नान्तरीयकतया प्रतीतेर्गौणं शब्दार्थत्वं प्रतिपाद्य स्वलक्षणस्यापि प्रतिपादयन्नाह—“सम्बन्धे सती”त्यादि । तत्र सम्बन्धः शब्दस्य वस्तुनि पारम्पर्येण कार्यकारणलक्षणः प्रतिबन्धः । प्रथमं यथास्थितवस्त्वनुभवस्ततो विवक्षा ततस्ताल्वादिपरिस्पन्दस्ततः शब्द इत्येवं परम्परया यदा शब्दस्य वस्तुभिर्बाह्यैरग्न्यादिभिः सम्बन्धः स्यात्तदा तस्मिन्सम्बन्धे सति विजातीयव्यावृत्तस्यापि वस्तुनोऽर्थापत्तितोऽधिगमो भवति । अतो द्विविधोऽपि प्रसज्यप्रतिषेधोऽन्यव्यावृत्तवस्त्वात्मा चापोहः शब्दार्थ इत्युपचर्यते । “अय”मिति । स्वलक्षणात्मा । अपिशब्दात्प्रसज्यात्मा च ॥ १०१३ ॥ १०१४ ॥ १०१५ ॥
आचार्यदिङ्न्ागस्योपरि यदुद्योतकरेणोक्तम्—यदि शब्दस्यापोहोऽभिधेयोऽर्थस्तदाऽभिधेयार्थव्यतिरेकेणास्य स्वार्थो वक्तव्यः, अथ स एवास्य स्वार्थस्तथापि व्याहतम्, एतदन्यशब्दार्थापोहं हि स्वार्थे कुर्वती श्रुतिरभिधत्त इत्युच्यत इति, अस्य हि वाक्यस्यायमर्थस्तदानीं भवति, अभिदधानाऽभिधत्त इति । तदेतद्वाक्यार्थापरिज्ञानादुक्तमिति दर्शयन्नाचार्यीयवाक्याविरोधं प्रतिपादयति—“अर्थान्तरे”त्यादि ।
अर्थान्तरव्यवच्छेदं कुर्वती श्रुतिरुच्यते ।
अभिधत्त इति स्वार्थमित्येतदविरोधि तत् ॥ १०१६ ॥
स्वलक्षणमपि हि शब्दस्योपचारात्स्वार्थ इति प्रतिपादितमतस्तस्मिन्स्वलक्षणात्मकेस्वार्थेऽर्थान्तरव्यवच्छेदं प्रतिबिम्बान्तराद्व्यावृत्तं प्रतिबिम्बात्मकमपोहं कुर्वती जनयन्ती श्रुतिरभिधत्त इत्युच्यते इत्येतदाचार्यीयं वचनमविरोधि ॥ १०१६ ॥
“बाह्यार्थे”त्यादिनैतदेवाचार्यीयं वचनमाचष्टे ।
बाह्यार्थाध्यवसायेन प्रवृत्तं प्रतिबिम्बकम् ।
उत्पादयति येनेयं तेनाहेत्यपदिश्यते ॥ १०१७ ॥
नतु स्वलक्षणात्मानं स्पृशत्येषा विभेदिनम् ।
तन्मात्रांशातिरेकेण नास्त्यस्या अभिधाक्रिया ॥ १०१८ ॥
अयमाचार्यस्याभिप्रायः । न शब्दस्य बाह्यार्थाध्यवसायिविकल्पप्रतिबिम्बोत्पादव्यतिरेकेणान्यो बाह्याभिधानव्यापारः सम्भवति । निर्व्यापारत्वात्सर्वधर्माणाम् । अतो बाह्यार्थाध्यवसायेन प्रवृत्तविकल्पप्रतिबिम्बं जनयन्ती, श्रुतिः स्वार्थमभिधत्त इत्युच्यत इति । नतु विभेदिनं सजातीयविजातीयव्यावृत्तं स्वलक्षणमेषा स्पृशति,अकिञ्चित्करत्वात् । “तन्मात्रांशातिरेकेणे”ति । तथाविधप्रतिबिम्बजनकत्वव्यतिरेकेण नापरा श्रुतेरभिधाक्रियाऽस्तीत्यर्थः ॥ १०१७ ॥ १०१८ ॥
एवमपोहस्य स्वरूपमभिधाय साम्प्रतं परोक्तानि दूषणान्युद्धर्तुमारभते । तत्र यदुक्तंयदि गौरिति शब्दश्चेदित्यादि, तत्राह—“तस्य” चेत्यादि ।
तस्य च प्रतिबिम्बस्य गतावेवानुगम्यते ।
सामर्थ्यादन्यविश्लेषो नास्यान्यात्मकता यतः ॥ १०१९ ॥
गोबुद्धिमेव हि शब्दो जनयति, अन्यविश्लेषस्तु सामर्थ्याद्गम्यते, नतु शब्दात्, तस्य गोप्रतिबिम्बस्य प्रतिभासान्तरात्मरहितत्वात्, अन्यथा नियतरूपस्य तस्य प्रति पत्तिरेव न स्यात् । तेनापरो ध्वनिर्गोबुद्धेर्जनको न मृग्यते । तेनैव गोशब्देन गोबुद्धेर्जन्यमानत्वात् ॥ १०१९ ॥
ननु ज्ञानफलाः शब्दा इत्यादावाह—“दिवाभोजने”त्यादि ।
दिवाभोजनवाक्यादेरिवास्यापि फलद्वयम ।
साक्षात्सामर्थ्यतो यस्मान्नान्वयोऽव्यतिरेकवान् ॥ १०२० ॥
यथाहि दिवा न भुङ्क्ते पीनो देवदत्त इत्यस्य वाक्यस्य साक्षाद्दिवाभोजनप्रतिषेधः स्वार्थाभिधानं, गम्यस्तु रात्रिभोजनविधिः, न साक्षात्, तद्वद्गौरित्यादेरन्वयप्रतिपादकस्य शब्दस्यान्वयज्ञानं साक्षात्फलम्, व्यतिरेकगतिस्तु सामर्थ्यात् । अत्र कारणमाह—“यस्मादि”त्यादि । यस्मादन्वयो विधेरव्यतिरेकवान्नास्ति । किं तर्हि ? विजातीयव्यवच्छेदाव्यभिचार्येव । नहि विजातीयादव्यावृत्तस्य कस्यचित्सम्भवोऽस्ति ।तेनैकस्य शब्दस्य फलद्वयमविरुद्धमेव ॥ १०२० ॥
कस्मादित्याह—“नाभिमुख्येने”त्यादि ।
नाभिमुख्येन कुरुते यस्माच्छब्द इदं द्वयम् ।
स्वार्थाभिधानमन्यस्य विनिवृत्तिं च वस्तुनः ॥ १०२१ ॥
यदि साक्षादेकस्य शब्दस्य विधिनिषेधज्ञानलक्षणं फलद्वयं युगपदभिप्रेतं भवेत्तदा स्याद्विरोधः । यदि तु दिवाभोजनवाक्यवदेकं साक्षात्, अपरं सामर्थ्यलभ्यं फलमितीष्टं, तदा न विरोधः । यच्चोक्तं प्रागगौरिति विज्ञानमित्यादि । तदपि निरस्तम् । अनभ्युपगमात् । न ह्यगोप्रतिषेधमाभिमुख्येन गोशब्दः करोतीत्यभ्युपगतमस्माभिः । किं तर्हि ? सामर्थ्यादिति प्रतिपादितम् ॥ १०२१ ॥
यदुक्तमगोनिवृत्तिः सामान्यमित्यादि, तत्राह—“तादृश” इत्यादि ।
तादृशः प्रतिभासश्च सामान्यं गोत्वमिष्यते ।
सर्वत्र शाबलेयादौ समानत्वावसायतः ॥ १०२२ ॥
“तादृश” इति । बाह्यरूपतयाऽध्यस्तै बुद्ध्यारूढः । अत्रोपपत्तिमाह—“सर्वत्रे”त्यादि । सर्वत्र शाबलेयादौ गौर्गौरिति समरूपतयाऽवसानात्तेषां तत्सामान्यमित्युच्यते ॥ १०२२ ॥
बाह्यवस्तुरूपत्वमपि तस्य भ्रान्तप्रतिपत्तृवशाद्व्यवह्रियते, न परमार्थत इति दर्शयति—“वस्त्वित्यध्यवसायाच्चे”ति ।
वस्त्वित्यध्यवसायाच्च वस्त्वित्यपि तदुच्यते ।
झटित्येव हि तज्ज्ञानं भ्रान्तं जातं स्वबीजतः ॥ १०२३ ॥
ननु यदि कदाचिन्मुख्यवस्तुभूतं सामान्यं बाह्यवस्त्वाश्रितमुपलब्धं भवेत्तदा साधर्म्यदर्शनात्तत्र सामान्यं भ्रान्तिर्भवेत्, यावता मुख्यार्थासम्भवे सैव भवतां सामान्यभ्रान्तिरनुपपन्नेत्याशङ्क्याह—“झटित्येव ही”त्यादि । झटिति—सामान्यदर्शनाद्यनपेक्ष्य द्विचन्द्रादिज्ञानादिवदन्तरुपप्लवादेतज्जातं ज्ञानम् । नहि सर्वा भ्रान्तयः साधर्म्यदर्शनादेव भवन्ति । किं तर्हि ? अन्तरुपप्लवादपीत्यदोषः ॥ १०२३ ॥
तेन सिद्धसाध्यतादोषो न भवतीति दर्शयन्नाह—“स एवे”त्यादि ।
स एव च तदाकारशब्दार्थोऽपोह उच्यते ।
सामान्यं वस्तुरूपं च तथा भ्रान्त्याऽवसायतः ॥ १०२४ ॥
स एव बुद्ध्याकारो बाह्यतयाऽध्यस्तोऽपोह इति शब्दार्थ इति बाह्यवस्तुभूतं सामान्यमिति चोच्यते । अत्र कारणमाह—“तथा भ्रान्त्यावसायत” इति । सामान्यरूपत्वेन वस्तुरूपत्वेन चावसायात् । शब्दार्थत्वापोहरूपत्वयोः प्रागेव कारणमुक्तम् — बाह्यार्थाध्यवसायिन्या बुद्धेः शब्दात्समुद्भवात् । प्रतिभासान्तराद्भेदात् इत्यादिना ॥ १०२४ ॥
कस्मात्पुनः परमार्थतः सामान्यं तन्न भवतीत्याह—“सामान्ये”त्यादि ।
सामान्यवस्तुरूपत्वं न युक्तं त्वस्य भाविकम् ।
बुद्धेरनन्यरूपं हि यायादर्थान्तरं कथम् ॥ १०२५ ॥
परमार्थतो हि बुद्धेरव्यतिरिक्तोऽसौ, तत्कथमर्थान्तरं व्रजेत, येनार्थानां तत्सामान्यं भावतो भवेत् । यथोक्तं ज्ञानादव्यतिरिक्तं च कथमर्थान्तरं व्रजेत् इति । तस्मात्सिद्धसाध्यतादोषो न भवति, न हि भवद्भिर्बुद्ध्याकारो गोत्वाख्यं सामान्यमवस्तुरूपमिष्टम्, किं तर्हि ? बाह्यशाबलेयादिगतमेकमनुगामि पारमार्थिकं गोत्वादिसामान्यमुपकल्पितमतो न सिद्धसाध्यतेति भावः । यच्चोक्तम् निषेधमात्ररूपश्चेत्यादि, तस्यानभ्युपगतत्वादेव न दोषः ॥ १०२५ ॥
यच्चेदमुक्तम्— तस्यां चाश्वादिबुद्धीनाम् इत्यादि, तत्राह—“यद्यपी”त्यादि ।
यद्यप्यव्यतिरिक्तोऽयमाकारो बुद्धिरूपतः ।
तथापि बाह्यरूपत्वं भान्तैस्तस्यावसीयते ॥ १०२६ ॥
सुबोधम् ॥ १०२६ ॥
यच्चोक्तम् शब्दार्थोऽर्थानपेक्ष इति तत्राह—“तस्ये”त्यादि ।
तस्य नार्थानपेक्षत्वं पारम्पर्यात्तदागतेः ।
तेनात्मना च वस्तुत्वं नैवास्तीत्युपपादितम् ॥ १०२७ ॥
यत्र हि पारम्पर्याद्वस्तुनि प्रतिबन्धोऽस्ति तस्य भ्रान्तस्यापि सतो विकल्पस्य मणिप्रभायां मणिबुद्धिवन्न बाह्यार्थानपेक्षत्वमस्ति । अतोऽसिद्धं बाह्यार्थानपेक्षत्वम् । यदुक्तं वस्तुरूपा च सा बुद्धिः इत्यादि, तत्राह—“तेने”त्यादि । यद्यपि वस्तुरूपा सा बुद्धिस्तथापि तस्यास्तेन बाह्यात्मना बुद्ध्यन्तरात्मना च वस्तुत्वं नास्तीत्युपपादितम् न तदात्मा परात्मा इत्यादिना । तेन बुद्धेर्बुद्ध्यन्तरापोहो न गम्यत इत्यसिद्धं सामर्थ्येन गम्यमानत्वादिति भावः ॥ १०२७ ॥
असत्यपि च बाह्यार्थे इत्यत्राह—“प्रतिबिम्बात्मक” इत्यादि ।
प्रतिबिम्बात्मकोऽपोहः पदादप्युपजायते ।
प्रतिभाख्यो झटित्येव पदार्थोऽप्ययमेव नः ॥ १०२८ ॥
यथैव हि प्रतिबिम्बात्मकप्रतिभाख्योऽपोहो बाह्यार्थोऽस्माभिरुपवर्णितस्तथैव पदार्थोऽपि । यस्मात्पदादपि प्रतिबिम्बात्मकोऽपोह उत्पद्यत एव तेनात्माकमयमेव प्रतिबिम्बात्मकोऽपोहः पदार्थोऽपि मतो न केवलं बाह्यार्थ इत्यपिशब्दः । तेन विप्रतिपत्तेरभावान्नोपालम्भो युक्त इति भावः ॥ १०२८ ॥
बुद्ध्यन्तराद्व्यवच्छेदो नच बुद्धेः प्रतीयत इत्यत्राह—“स्वरूपोत्पादमात्राद्धी”त्यादि ।
स्वरूपोत्पादमात्राद्धि नान्यमंशं बिभर्त्ति सा ।
बुद्ध्यन्तराद्व्यवच्छेदस्तेन बुद्धेः प्रतीयते ॥ १०२९ ॥
यत एव हि स्वरूपोत्पादमात्रादन्यमंशं सा बुद्धिर्न बिभर्त्ति तत एव स्वस्वभावव्यवस्थितत्वाद्बुद्धेर्बुद्ध्यन्तराद्व्यवच्छेदः प्रतीयते, अन्यथा ह्यन्यस्य रूपं बिभ्रती कथं ततो व्यवच्छिन्ना प्रतीयते । “तेने”ति । स्वव्यतिरिक्तपदार्थस्वरूपानवधारणेना ॥ १०२९ ॥
भिन्नसामान्यवचना इत्यादावाह—“यथैवे”त्यादि ।
यथैवाविद्यमानस्य न भेदः पारमार्थिकः ।
अभेदोऽपि तथैवेति तेन पर्यायता भवेत् ॥ १०३० ॥
यथैव ह्यपोहस्य निःस्वभावत्वादविद्यमानरूपस्य परस्परतो भेदो नास्तीत्युच्यते तथैवाभेदोऽपीति तत्कथमभिन्नार्थाभावे पर्यायत्वप्रसञ्जनं क्रियते ॥ १०३० ॥
एतदेव स्पष्टीकुर्वन्नाह—“अभेदो ह्येकरूपत्व”मिति ।
अभेदो ह्येकरूपत्वं नीरूपेषु च तत्कुतः ।
एकत्वेऽर्थस्य पर्यायाः प्राप्नुवन्ति च वाचकाः ॥ १०३१ ॥
यदि नाम नीरूपेष्वेकरूपत्त्वं नास्ति तथापि किमिति पर्यायता न भवेदिति चेदाह—“एकत्वेऽर्थस्ये”त्यादि ॥ १०३१ ॥
स्यादेतद्यदि नाम नीरूपेष्वेकरूपत्वं भावतो नास्ति तथापि काल्पनिकमस्ति तेन पर्यायताप्रसञ्जनं युक्तमेवेत्यत आह—“रूपाभावेऽपी”त्यादि ।
रूपाभावेऽपि चैकत्वं कल्पनानिर्मितं यथा ।
विभेदोऽपि तथैवेति कुतः पर्यायता ततः ॥ १०३२ ॥
“रूपाभावेऽपी”ति । स्वभावाभावेऽपीत्यर्थः ॥ १०३२ ॥
यद्येवं पर्यायापर्यायव्यवस्था कथं शब्दानां प्रसिद्धेत्याह—“भावतस्त्वि”त्यादि ।
भावतस्तु न पर्याया नापर्यायाश्च वाचकाः ।
नह्येकं बाह्यमेतेषामनेकं चेति वर्णितम् ॥ १०३३ ॥
यदि हि परमार्थतो भिन्नमभिन्नं वा किञ्चिद्वाच्यं वस्तु शब्दानां स्यात्तदाऽपर्यायता पर्यायता वा भवेत् । यावता स्वलक्षणं जातिस्तद्योगो जातिमांस्तथेत्यादिना वर्णितं यथैषां न किञ्चिद्वाच्यमस्तीति ॥ १०३३ ॥
कथं सा तर्हि पर्यायादिव्यवस्थेत्याह—“किन्त्वि”त्यादि ।
किन्त्वनेकोऽपि यद्येककार्यकारी य ईक्ष्यते ।
तत्रैकधर्मारोपेण श्रुतिरेका निवेश्यते ॥ १०३४ ॥
तत्रान्तरेणापि सामान्यं सामान्यशब्दत्वव्यवस्थाया इदं निबन्धनम्, यद्बहूनामेकार्थक्रियाकारित्वम् । प्रकृत्यैव हि केचिद्भावा बहवोऽप्येकार्थक्रियाकारिणो भवन्ति । तेषामेकार्थक्रियासामर्थ्यप्रतिपादनाय व्यवहर्तृभिर्लाघवार्थमेकरूपाध्यारोपेणैका श्रुतिर्निवेश्यते । यथा बहुषु रूपादिषु मधूदकाद्याहरणलक्षणैकार्थक्रियासमर्थेषु घट इत्येषा श्रुतिर्निवेश्यते ॥ १०३४ ॥
कथं पुनरेकेनानुगामिना विना बहुष्वेका श्रुतिर्युज्यत इत्याह—“लोचनादा”वित्यादि ।
लोचनादौ यथा रूपविज्ञानैकफले क्वचित् ।
कश्चिद्यदि श्रुतिं कुर्याद्विनैकेनानुगामिना ॥ १०३५ ॥
इच्छामात्रप्रतिबद्धो हि शब्दानामर्थेषु नियोगः, तथाहि—चक्षूरूपालोकमनस्कारेषुरूपविज्ञानैकफलेषु यदि कश्चिदिच्छावशाद्विनाप्येकेनागुमिना सामान्येन ॰ ॰ ॰ इत्यादिकां श्रुतिं निवेशयेत्, तत्किं तस्य कश्चित्प्रतिरोद्धा भवेत् । नहि तेषु लोचनादिष्वेकं चक्षुर्विज्ञानजनकत्वं नाम सामान्यमस्ति । यतः सामान्यविशेषसमवाया अपि भवद्भिश्चक्षुर्विज्ञानजनका इष्यन्ते । तेषु न सामान्यसमवायोऽस्ति निःसामान्यत्वात्सामान्यस्य, समवायस्य च द्वितीयसमवायाभावात् ॥ १०३५ ॥
ननु च घटादिरेककार्यकारी कथमुच्यते । यावता तत्कार्यमुदकधारणादि तद्ग्राहकं च विज्ञानं स्वलक्षणभेदाद्भिद्यत एवेत्यत आह—“घटादीनां” चेत्यादि ।
घटादीनां च यत्कार्यं जलादेर्धारणादिकम् ।
यच्च तद्विषयं ज्ञानं भिन्नं यद्यपि तद्द्वयम् ॥ १०३६ ॥
एकप्रत्यवमर्शस्य हेतुत्वादेकमुच्यते ।
ज्ञानं तथापि तद्धेतुभावादर्था अभेदिनः ॥ १०३७ ॥
यद्यपि स्वलक्षणभेदात्तत्कार्यं भिद्यते । तथापि ज्ञानाख्यं तावत्कार्यमेकार्थाध्यवसायिपरामर्शज्ञानहेतुतयैकमित्युच्यते तस्य च ज्ञानस्य हेतुभावादर्था अपि मधूदकाद्याहरणादिलक्षणा घटादिव्यक्तिलक्षणाश्चाभेदिन इत्युच्यन्ते, तद्दर्शयति—“तथापि तद्धेतुभावादर्था अभेदिन” इति । उच्यत इति प्रकृतं वचनपरिणामाद्बहुवचनान्तंसम्बध्यते । अपिशब्दो भिन्नक्रमोऽर्थाइत्यनन्तरं सम्बन्ध्यते । तेनैकार्थक्रियाकारित्वमुपपद्यत एव । ननु चैवमनवस्था प्राप्नोति । तथाहि—योऽसौ प्रत्यवमर्शप्रत्ययस्तस्यापि स्वलक्षणभेदेन भिद्यमानत्वादेकत्वमसिद्धम् । ततश्च तस्याप्येकत्वसिद्धये परमेकाकारप्रत्यवमर्शकार्यमनुसरतोऽनवस्था स्यात् । ततश्चानवस्थितैककार्यतया न क्वचिदेकश्रुतिनिवेशः सिद्ध्येत् । नैतदस्ति । नहि प्रत्यवमर्शप्रत्ययस्यैककार्यतयैकत्वमुच्यते । किं तर्हि ? एकार्थाध्यवसायितया, तेन नानवस्था भविष्यति । स्वत एव सर्वेषां प्रत्यवमर्शप्रत्ययानामेकार्थाध्यवसायित्वस्य सिद्धत्वात् । तेनायमर्थो भवति । एकाकारप्रत्यवमर्शहेतुत्वात् ज्ञानाख्यं कार्यमेकमित्युच्यते, तद्धेतुभावाच्चार्था अपि घटादय एकत्वव्यपदेशभाज इति ॥ १०३६ ॥ १०३७ ॥
तेन विनापि सामान्यं वस्तुभूतं सामान्यवचना घटादयः सिद्ध्यन्तीति निगमयन्नाह—“तत्रे”त्यादि ।
तत्र सामान्यवचना उक्ताः शब्दा घटादयः ।
विजातीयव्यवच्छिन्नप्रतिबिम्बैकहेतवः ॥ १०३८ ॥
एकस्मिन्नपि वस्तुन्यन्तरेणापि सामान्यविशेषमसङ्कीर्णानेकशब्दप्रवृत्तिर्भवत्येवेति दर्शयन्नाह—“तथे”त्यादि ।
तथाऽनेकार्थकारित्वादेको नैक इवोच्यते ।
अतत्कार्यपरावृत्तिबाहुल्यपरिकल्पितः ॥ १०३९ ॥
कश्चिदेकोऽपि सन्प्रकृत्यैव सामाग्र्यन्तरान्तःपातवशादनेकार्थक्रियाकारी भवति । तत्रान्तरेणापि वस्तुभूतसामान्यादिधर्मभेदमतत्कार्यपदार्थभेदबाहुल्यादनेकधर्मसमारोपादनेका श्रुतिर्निवेश्यते ॥ १०३९ ॥
अत्रोदाहरणमाह—“यथे”त्यादि ।
यथा सप्रतिघं रूपं सनिदर्शनमित्यपि ।
प्रयत्नानन्तरज्ञातो यथा वा श्रावणो ध्वनिः ॥ १०४० ॥
स्वदेशे परस्योत्पत्तिप्रतिबन्धकारित्वाद्रूपं सप्रतिघमित्युच्यते । निदर्शनं—चक्षुर्विज्ञानं, तज्जनकत्वात्, सह तेन वर्त्तत इति सनिदर्शनम् । द्वितीयमप्युदाहरणमाह —“प्रयत्ने”त्यादि । यथाहि ध्वनिरेकोऽपि सन्प्रयत्नान्तरज्ञानफलतया प्रयत्नानन्तरं ज्ञात इत्युच्यते । श्रोत्रज्ञानफलत्वाच्च श्रावणः । श्रवणं हि श्रुतिः श्रोत्रज्ञानमिति यावत् । तत्प्रतिभासितया तत्र भवः श्रावणः । यद्वा श्रवणेन गृह्यत इति श्रावणः ॥ १०४० ॥
एवमतत्कार्यभेदेनैकस्मिन्नप्यनेका श्रुतिर्निवेश्यत इति दर्शितम्, इदानीमतत्कारणभेदेनापि क्वचित् श्रुतिर्निवेश्यत इति दर्शयति—“अतत्कारणभेदेने”त्यादि ।
अतत्कारणभेदेन क्वचिच्छब्दो निवेश्यते ।
प्रयत्नोत्थो यथाशब्दो भ्रामरं वा यथा मधु ॥ १०४१ ॥
“भ्रामरमि”ति । भ्रमरकृतम्, क्षुद्रादिकृतान्मधुनो व्यावृत्तम् ॥ १०४१ ॥
एवमतत्कार्यकारणपदार्थभेदादेकस्मिन्वस्तुनि श्रुतिभेदो दर्शितः । इदानीं तत्कार्यकारणपदार्थव्यवच्छेदमात्रप्रतिपादनेच्छयाऽन्तरेणापि सामान्यं श्रुतेर्भेदनिवेशनं दर्शयत्राह—“तत्कार्ये”त्यादि ।
तत्कार्यहेतुविश्लेषात्क्वचिच्छ्रुतिरिहोच्यते ।
अश्रावणं यथा रूपं विद्युद्वाऽयत्नजा यथा ॥ १०४२ ॥
तौ—पूर्वोक्ता, कार्यहेतू येषां ते तथोक्ताः । तेभ्यो विश्लेषो—व्यावृत्तिः । का पुनरसौ श्रुतिरित्याह—“अश्रावण”मित्यादि । श्रोत्रज्ञानफलशब्दव्यवच्छेदेनाश्रावणं रूपमित्युच्यते । तथा प्रयत्नकारणघटादिपदार्थव्यवच्छेदेन विद्युदप्रयत्नजेत्यभिधीयते ॥ १०४२ ॥
एवमन्तरेणापि सामान्यादिकं वस्तुभूतं व्यावृत्तिकृतमेव शब्दानां भेदेन निवेशनमिति प्रतिपाद्य पर्यायत्वप्रसङ्गाभावं दर्शयन्नाह—“इत्यादिने”त्यादि ।
इत्यादिना प्रभेदेन विभिन्नार्थनिबन्धनाः ।
व्यावृत्तयः प्रकल्प्यन्ते तन्निष्ठाः श्रुतयस्तथा ॥ १०४३ ॥
यथासङ्केतमेवातोऽसङ्कीर्णार्थाभिधायिनः ।
शब्दा विवेकतो वृत्ताः पर्याया न भवन्ति नः ॥ १०४४ ॥
आदिग्रहणेनावस्थाविशेषवाचका बालादिशब्दा नैरात्म्यादिशब्दाश्च गृह्यन्ते ।“विभिन्नार्थनिबन्धना” इति । विभिन्नस्ततस्ततो व्यावृत्तोऽर्थो निबन्धनं यासां व्यावृत्तीनां तास्तथोक्ताः । “तथे”ति । व्यावृत्तिवत् । “तन्निष्ठा” इति । व्यावृत्तार्थनिष्ठाः । प्रणालिकया तथाविधपदार्थाधिगतिहेतुत्वात् । “श्रुतय” इति । शब्दाः ॥ १०४३ ॥ ॥ १०४४ ॥
स्यादेतत्—माभूत्पर्यायत्वमेषाम्, अर्थभेदस्य परिकल्पितत्वात्, सामान्यविशेषवाचित्वव्यवस्था तु विना सामान्यविशेषाभ्यां कथमेषां सिद्ध्यतीत्यत आह—“बह्वल्पे”त्यादि ।
बह्वल्पविषयत्वेन तत्सङ्केतानुमानतः ।
सामान्यभेदवाच्यत्वमप्येषां न विरुध्यते ॥ १०४५ ॥
वृक्षशब्दो हि सर्वेष्वेव धवखदिरपलाशादिष्ववृक्षव्यवच्छेदमात्रानुमानं प्रतिबिम्बकं जनयति । तेनास्य बहु(विष)यत्वात् सामान्यं वाच्यमुच्यते । धवादिशब्दस्य तु खदिरादिव्यावृत्तिः कतिपयपादपावसायिविकल्पोत्पादकत्वाद्विशेषो वाच्य उच्यते ॥ १०४५ ॥
ननु चापोह्यभेदेनत्यादावाह—“ताश्चे”त्यादि ।
ताश्च व्यावृत्तयोऽर्थाना कल्पनामात्रनिर्मिताः ।
नापोह्याधारभेदेन भिद्यन्ते परमार्थतः ॥ १०४६ ॥
यदि हि पारमार्थिकोऽपोह्यभेदेनाधारभेदेनापोहभेदोऽभीष्टः स्यात्तदैतद्दूषणं स्यात्, यावता कल्पनया सजातीयविजातीयपदार्थभेदनिबन्धना व्यावृत्तयो भिन्नाः, कल्प्यन्ते न परमार्थतः ॥ १०४६ ॥
ताश्च कल्पनावशाद्व्यतिरिक्ता एव वस्तुनो भासन्ते न परमार्थत इति दर्शयति—“तासां ही”त्यादि ।
तासां हि बाह्यरूपत्वं कल्पितं तन्न वास्तवम् ।
भेदाभेदौ च तत्त्वेन वस्तुन्येव व्यवस्थितौ ॥ १०४७ ॥
कस्माद्वास्तवं न भवतीत्याह—“भेदाभेदौ चे”त्यादि ॥ १०४७ ॥
परमार्थतस्तु विकल्पा एव भिद्यन्त इति दर्शयति । “स्वबीजानेके”त्यादि ।
स्वबीजानेकविश्लिष्टवस्तुसङ्केतशक्तितः ।
विकल्पास्तु विभिद्यन्ते तद्रूपाध्यवसायिनः ॥ १०४८ ॥
नैकात्मतां प्रपद्यन्ते च भिद्यन्ते च खण्डशः ।
स्वलक्षणात्मका अर्था विकल्पः प्लवते त्वसौ ॥ १०४९ ॥
स्वबीजं—वातादिविकल्पवासना, अनेकस्माद्विश्लिष्टं वस्तु च सङ्केतश्चेति विग्रहः, तेषां शक्तिः—सामर्थ्यम्, ततो विजातीयानेकपदार्थव्यावृत्तवस्तुव्यवसायिनो विकल्पा भिद्यन्ते । नत्वर्थाः । तथाहि—वृक्षत्वादिसामान्यरूपेण नैकात्मतां धवादयः प्रतिपद्यन्ते नापि क्षणिकात्मकादिधर्मभेदेन खण्डशो भिद्यन्ते । केवलं विकल्प एव तथा प्लवते नत्वर्थः । यथोक्तम्— संसृज्यन्ते न भिद्यन्ते स्वतोऽर्थाः पारमार्थिकाः । रूपमेकमनेकं च तेषु बुद्धेरुपप्लवः ॥ इति ॥ १०४८ ॥ १०४९ ॥
यच्चोक्तं— नचाप्रसिद्धसारूप्यानित्यादि, तत्राह—“एकधर्मान्वयासत्वेऽपी”त्यादि ।
एकधर्मान्वयासत्त्वेऽप्यपोह्यापोहगोचराः ।
वैलक्षण्येन गम्यन्ते भिन्नप्रत्यवमर्शतः ॥ १०५० ॥
अपोह्यश्चापोहगोचराश्चेति विग्रहः । तत्रापोह्या अश्वादयः, गोशब्दस्य तदपोहेन प्रवृत्तत्वात् । अपोहगोचराः शाबलेयादयः, तद्विषयत्वादगोपोहस्य । तेन यद्यप्ये कस्य सामान्यरूपस्यान्वयो नास्ति, तथाप्यभिन्नप्रत्यवमर्शहेतवो ये ते प्रसिद्धसारूप्या भवन्ति, ये तु विपरीतास्ते विपरीता इति ॥ १०५० ॥
स्यादेतत्—तस्यैवैकप्रत्यवमर्शस्य हेतवोऽन्तरेण सामान्यमेकं कथमर्था भिन्नाः सिद्ध्यन्तीत्यत आह—“एकप्रत्यवमर्शे ही”त्यादी ।
एकप्रत्यवमर्शे हि केचिदेवोपयोगिनः ।
प्रकृत्या भेदवत्त्वेऽपि नान्य इत्युपपादितम् ॥ १०५१ ॥
प्रतिपादितमेतत्सामान्यपरीक्षायाम्, यथा धात्र्यादयोऽन्तरेणापि सामान्यमेकार्थक्रियाकारिणो भवन्ति, तथैव प्रत्यवमर्शहेतवो भिन्ना अपि भावाः केचिदेव भविष्यन्तीति ॥ १०५१ ॥
नचान्वयविनिर्मुक्तेत्यादावाह—“अतद्रूपे”त्यादि ।
अतद्रूपपरावृत्तं वस्तुमात्रं स्वलक्षणम् ।
यत्नेन क्रियमाणोऽयमन्वयो न विरुध्यते ॥ १०५२ ॥
यद्यपि सामान्यं वस्तुभूतं नास्ति, तथापि विजातीयव्यावृत्तस्वलक्षणमात्रेणैवान्वयः क्रियमाणो न विरुध्यते ॥ १०५२ ॥
कथमित्याह—“यस्मि”न्नित्यादि ।
यस्मिन्नधूमतो भिन्नं विद्यते हि स्वलक्षणम् ।
तस्मिन्ननग्नितोऽप्यस्ति परावृत्तं स्वलक्षणम् ॥ १०५३ ॥
यथा महानसे चेह विद्यतेऽधूमभेदि तत् ।
तस्मादनग्नितो भिन्नं विद्यतेऽत्र स्वलक्षणम् ॥ १०५४ ॥
यस्मिन्निति । प्रदेशे । इह च विद्यते स्वलक्षणमधूमतो भेदीति पक्षधर्मोपदर्शनम् ।“तस्मा”दित्यादिना प्रमाणफलोपदर्शनम् । यदि वाऽ(यद्वाऽ ?) बयवपञ्चकमपि स्वलक्षणेनान्वये क्रिमाणे शय्यो(क्यो ?)पदर्शनमिति दर्शयति ॥ १०५३ ॥ १०५४ ॥
इदं च कार्यहेतावुक्तम् । स्वभावहेतावाह—“असत” इत्यादि ।
असतो नरशृङ्गादेर्यच्च भिन्नं स्वलक्षणम् ।
बुद्धिदीपादिवत्सर्वं व्यावृत्तं तत्स्थिरादपि ॥ १०५५ ॥
असद्रूपं तथा चेदं न शब्दादिस्वलक्षणम् ।
इत्थं निर्दिष्टभेदेन भवत्येवान्वयोऽमुना ॥ १०५६ ॥
यदसतो व्यावृत्तं स्वलक्षणमताद्रूप्यात्तत्सर्वं स्थिरादपि व्यावृत्तं, यथा बुद्धिदीपादयः । तथाचेदं शब्दादिस्वलक्षणमसद्रूपं न भवतीति । अतोऽमुना न्यायेन विशेषासंस्पर्शात्स्वलक्षणेनान्वयः क्रियमाणो न विरुध्यते । अयं च सत्त्वादित्यस्य हेतोरन्वये दर्शितः ॥ १०५५ ॥ १०५६ ॥
यद्येवं स्वलक्षणेनैवान्वयः, कथमिदानीं सामान्यलक्षणविषयमनुमानं सिध्यतीत्यत आह—“अविवक्षितभेदं चे”त्यादि ।
अविविक्षतभेदं च तदेव परिकीर्त्तितम् ।
सामान्यलक्षणत्वेन नानिष्टेरपरं पुनः ॥ १०५७ ॥
तदेव हि स्वलक्षणमविवक्षितभेदं सामान्यलक्षणमित्युक्तम् । सामान्येन—भेदापरामर्शेन, लक्ष्यते—व्यवसीयत इति सामान्यलक्षणम् । “नापरं पुन”रिति । तीर्थिकाभिमतम्, तस्यानिष्टत्वात् । यथोक्तम्— तस्यैव स्वपररूपाभ्यां गतेर्मेयद्वयम्मतम् इति । तथाऽपरमुक्तम्—अतद्रूपपरावृत्तवस्तुमात्रसमाश्रयात् । सामान्यविषयं प्रोक्तं लिङ्गं भेदाप्रतिष्ठितेः ॥ इति । तेन साहचर्यमपि लिङ्गशब्दयोः स्वलक्षणेनैव कथ्यते । नचाप्यदर्शनमात्रेणास्माभिर्विपक्षे लिङ्गस्याभावोऽवसीयते । किं तर्हि ? अनुपलम्भविशेषादिति भावः ॥ १०५७ ॥
यच्चोक्तं साबलेयाच्च भिन्नत्वमित्यादि, तत्राह—“शबलापत्यत” इत्यादि ।
शबलापत्यतो भेदे बाहुलेयाश्वयोः समे ।
तुरङ्गपरिहारेण गोत्वं किं तत्र वर्त्तते ॥ १०५८ ॥
इदं हि भवान्वक्तुमर्हति, साबलेयाच्च बाहुलेयाच्च तुल्येऽपि भेदे सति किमिति तुरङ्गमपरिहारेण गोत्वं तत्रैव साबलेयादौ वर्त्तते नाश्व इति ॥ १०५८ ॥
स्यादेतत्—किमत्र वक्तव्यं, तस्य हि गोत्वस्याभिव्यक्तौ साबलेयादिरेव समर्थो नाश्वादिरतस्तत्रैव तद्वर्त्तते नान्यत्र । नचायं पर्यनुयोगो युज्यते, कस्मात्तस्याभिव्यक्तौ स एव साबलेयादिः समर्थो भवति, (इति) यतो वस्तुस्वभावप्रतिनियमोऽयं, नहि वस्तूनां स्वभावः पर्यनुयोगमर्हति । तेषां स्वहेतुपरम्पराकृतत्वात्स्वभावभेदप्रतिनियमस्येति, अत्राह—“तस्य व्यक्तावि”त्यादि ।
तस्य व्यक्तौ समर्थात्मा स एवेति यदीष्यते ।
तुल्यप्रत्यवमर्शेऽपि स शक्तो न तुरङ्गमः ॥ १०५९ ॥
“तस्ये”ति । गोत्वस्य । “स एवे”ति । सावलेयादिर्न पुनरश्वः । यद्येवं सत्यपि भेदेसामान्यमन्तरेणापि तुल्यप्रत्यवमर्शोत्पादने सावलेयादिरेव शक्तो न तुरङ्गम इत्ययमस्मत्पक्षो न विरुध्यत एव ॥ १०५९ ॥
ततश्च किं जातमित्याह—“तादृगि”त्यादि ।
तादृक्प्रत्यवमर्शश्च विद्यते यत्र वस्तुनि ।
तत्राभावेऽपि गोजातेरगोऽपोहः प्रवर्त्तते ॥ १०६० ॥
यत्र साबलेयादौ वस्तुनि तादृक्—गौर्गौरिति, प्रत्यवमर्शः—प्रत्ययो जायते । तत्रैवासत्यामपि गोजातौ वस्तुभूतायामगोपोहः प्रतिबिम्बात्मा प्रवर्त्तते ॥ १०६० ॥
यच्चोक्तमिन्द्रियैरित्यादि, तदसिद्धमिति दर्शयन्नाह—“अगोभिन्नं चे”त्यादि ।
अगोभिन्नं च यद्वस्तु तदक्षैर्व्यवसीयते ।
प्रतिबिम्बं तदध्यस्तं स्वसंवित्त्याऽवगम्यते ॥ १०६१ ॥
इदं दृष्ट्वा च लेकेन शब्दस्तत्र प्रयुज्यते ।
सम्बन्धानुभवोऽप्यस्य व्यक्तं तेनोपपद्यते ॥ १०६२ ॥
तत्र स्वलक्षणात्मा तावदपोह इन्द्रियैरवगम्यत एव । यत्स्वार्थप्रतिबिम्बात्माऽपोहः स परमार्थतो बुद्धिस्वभावत्वात्स्वसंवेदनप्रत्यक्षत एव सिद्धः । चकारोऽनुक्तार्थसमुच्चये । तेन प्रसज्यात्मापि सामर्थ्यात्प्रतीयत एव न तदात्मा परात्मेति दर्शितं भवति । तेनेदमेव स्वलक्षणादिरूपमपोहं दृष्ट्वा शब्दो लोकेन प्रयुज्यते, नतु सामान्यं वस्तुभूतं, तस्यासत्त्वादप्रतिभासनाच्च । यदेव च दृष्ट्वा लोकेन शब्दः प्रयुज्यते, तेनैव तस्य सम्बन्धोऽवगम्यते नान्येनातिप्रसङ्गात् ॥ १०६१ ॥ १०६२ ॥
यदुक्तम् अगोशब्दाभिधेयत्वं च कथं पुनरिति, अत्राह—“तादृगि”त्यादि ।
तादृक्प्रत्यवमर्शश्च यत्र नैवास्ति वस्तुनि ।
अगोशब्दाभिधेयत्वं विस्पष्टं तत्र गम्यते ॥ १०६३ ॥
यच्चोक्तं सिद्धश्चागौरपोह्येतेत्यादि तत्राह—“गावोऽगावश्चे”त्यादि ।
गावोऽगावश्च संसिद्धा भिन्नप्रत्यवमर्शतः ।
शब्दस्तु केवलोऽसिद्धो यथेष्टं सम्प्रयुज्यते ॥ १०६४ ॥
न ह्यन्यग्रहणं वस्तु भिन्नं वित्तावपेक्षते ।
अन्योन्याश्रयदोषोऽयं तस्मादस्मिन्निरास्पदः ॥ १०६५ ॥
स्वत एव हि गवादयो भावा भिन्नप्रत्यवमर्शं जनयन्तो विभागेन सम्यङ्न्िश्चिताः । तेषु व्यवहारार्थं व्यवहर्तृभिर्यथेष्टं शब्दोऽसिद्धः प्रयुज्यते । तथाहि—यदि भिन्नवस्तुत्वरूपं प्रतिपत्त्यर्थमन्यपदार्थग्रहणमपेक्षते तदा स्यादितरेतराश्रयदोषः, यावताऽन्यग्रहणमन्तरेणैव भिन्नं वस्तु संवेद्यते, तस्मिन्भिन्नाकारप्रत्यवमर्शहेतुया विभागेन सिद्धे सति गौरगौरिति च यथेष्टं सङ्केतः क्रियत इति कथमितरेतराश्रयत्वं भवेत् ।“वित्ता”विति । वित्त्यर्थम् ॥ १०६४ ॥ १०६५ ॥
यच्चोक्तं नाधाराधेयवृत्त्यादि ( इति ) तत्राह—अवेद्यबाह्यतत्त्वापीत्यादि ।
अवेद्यबाह्यतत्त्वाऽपि प्रकृष्टोपप्लवादियम् ।
स्वोल्लेखं बाह्यरूपेण शब्दधीरध्यवस्यति ॥ १०६६ ॥
एतावत्क्रियते शब्दैर्नार्थं शब्दाः स्पृशन्त्यपि ।
नापोहेन विशिष्टश्च कश्चिदर्थोऽभिधीयते ॥ १०६७ ॥
नहि परमार्थेन कश्चिदपोहेन विशिष्टोऽर्थः शब्दैरभिधीयते । यतः प्रतिपादितमेतत्, यथा न किञ्चिदपि शब्दैर्वस्तु संस्पृश्यते, क्वचिदपि सामग्र्यभावादिति । तथाहि शाब्दी बुद्धिरबाह्यार्थविषयापि सती स्वोल्लेखं स्वाकारं बाह्यार्थतयाऽध्यवस्यन्ती जायते, न परमार्थतो वस्तुस्वभावं स्पृशति, यथातत्त्वमनध्यवसायात् ॥ १०६६ ॥ ॥ १०६७ ॥
यद्येवं कथमाचार्येणोक्तं नीलोत्पलादिशब्दा अर्थान्तरनिवृत्तिविशिष्टानर्थानाहुरित्यत आह—“अर्थान्तरे”त्यादि ।
अर्थान्तरनिवृत्त्याऽहुर्विशिष्टानिति यत्पुनः ।
प्रोक्तं लक्षणकारेण तत्रार्थोऽयं विवक्षितः ॥ १०६८ ॥
कोऽसावर्थो विवक्षित इत्याह—“अन्यान्यत्वेने”त्यादि ।
अन्यान्यत्वेन ये भावा हेतुना करणेन वा ।
विशिष्टा भिन्नजातीयैरसङ्कीर्णा विनिश्चिताः ॥ १०६९ ॥
वृक्षादीनाहतान्ध्वानस्तद्भावाध्यसायिनः ।
ज्ञानस्योत्पादनादेतज्जात्यादेः प्रतिषेधनम् ॥ १०७० ॥
द्विविधो ह्यर्थो बाह्यो बुद्ध्यारूढश्च । तत्र बाह्ये न परमार्थतोऽभिधानं शब्दैः, केवलं तदध्यवसायिविकल्पोत्पादादुपचारादुक्तं शब्दोऽर्थानाहेति । उपचारस्य च प्रयोजनं जात्यभिधाननिराकरणमिति समुदायार्थः । अवयवार्थस्तूच्यते—“अन्यान्यत्वेने”ति । अन्यस्मादन्यत्वं व्यावृत्तिः, तेनान्यान्यत्वेन हेतुना करणेन वा वृक्षादयो भावा विशिष्टा निश्चिताः । अन्यतो व्यावृत्ता निश्चिता इति यावत् । एतेनार्थान्तरनिवृत्तिविशिष्टानित्यत्र पदे निवृत्त्येति तृतीयार्थो व्याख्यातः । “ध्वान” इति । शब्दः ॥ १०७० ॥
यस्तु बुद्ध्यारूढोऽर्थस्तस्य मुख्यत एव शब्दैरभिधानमिति दर्शयति—“बुद्धा”वित्यादि ।
बुद्धौ ये वा विवर्त्तन्ते तानाहाभ्यन्तरानयम् ।
निवृत्त्या च विशिष्टत्वमुक्तमेषामनन्तरम् ॥ १०७१ ॥
“अय”मिति । ध्वानः । अथार्थान्तरनिवृत्तिविशिष्टत्वं कथमेषां योजनीयमित्याह—“निवृत्त्या चे”त्यादि । “अनन्तर”मिति । अन्यान्यत्वेनेत्यादिना तेषामपि बुद्धिसमारूढानामर्थानामन्यतोव्यावृत्ततया प्रतिपादनात् ॥ १०७१ ॥
ननु यदि न कश्चिदेव वस्त्वंशः शब्देन प्रतिपाद्यते तत्कथमुक्तमाचार्येणार्थान्तरनिवृत्त्या कश्चिदेव वस्तुनो भागो गम्यत इत्यत आह—“अर्थान्तरपरावृत्त्ये”त्यादि ।
अर्थान्तरपरावृत्त्या गम्यते तस्य वस्तुनः ।
कश्चिद्भाग इति प्रोक्तं तदेव प्रतिबिम्बकम् ॥ १०७२ ॥
ननु बुद्धिधर्मत्वात्प्रतिबिम्बस्य कथं वस्तुभागत्वमुपपद्यत इत्यत आह—“अर्थान्तरपरावृत्ते”त्यादि ।
अर्थान्तरपरावृत्तवस्तुदर्शनसंश्रयात् ।
आगतेस्तत्र चारोपात्तस्य भागोऽपदिश्यते ॥ १०७३ ॥
अर्थान्तरपरावृत्तवस्तुदर्शनद्वारायातत्वात्तत्रार्थान्तरपरावृत्ते वस्तुनि भ्रान्तैस्तादात्म्येनारोपितत्वात्तदेव प्रतिबिम्बकमुपचाराद्वस्तुनो भाग इति व्यपदिश्यते ॥ १०७३ ॥
अत्राप्यर्थान्तरपरावृत्त्येति तृतीयार्थं योजयन्नाह—“हेत्वर्थ” इत्यादि ।
हेत्वर्थः करणार्थश्च पूर्ववत्तेन वात्मना ।
यदि वस्तु विजातीयान्न स्याद्भिन्नं न तत्तथा ॥ १०७४ ॥
“पूर्वव”दिति । यथाऽर्थान्तरनिवृत्तिविशिष्टानाहेत्यत्रान्यान्यत्वेनेत्यादिना दर्शितं त(था)त्रापि योजनीयमित्यर्थः । अथवा सर्वत्रैवेत्थम्भूतलक्षणा तृतीयेयमिति दर्श यति—“तेन वात्मने”ति । ननु बाधान्तरनिवृत्तिर्बाह्यवस्तुगतो धर्मः, सा कथं प्रतिबिम्बाधिगमे हेतुभावं करणभावं वा प्रतिपद्यत इत्यत्राह—“यदि वस्तु विजातीया”दित्यादि । यदि हि विजातीयात्पदार्थाद्व्यावृत्तं वस्तु न स्यात्तदा न तत्प्रतिबिम्बात्मकं तथा विजातीयपरावृत्तवस्त्वात्मना व्यवसीयेत, तस्मादर्शान्तरपरावृत्तेर्हेतुभावः करणभावश्च युज्यत इति भावः ॥ १०७४ ॥
नचान्यरूपमन्यादृक्कुर्याज्ज्ञानं विशेषणम् इत्यादावाह—“अगोनिवृत्तिरन्यत्व”मित्यादि ।
अगोनिवृत्तिरन्यत्वं तस्य चात्मगतैव सा ।
भेदोक्तावप्यभावस्तु केवलो न निवर्त्तते ॥ १०७५ ॥
तद्विशेषणभावेऽपि वस्तुधीर्न विहीयते ।
कल्पनानिर्मितं चेदमभेदेऽपि विशेषणम् ॥ १०७६ ॥
सोपकृष्य ततो धर्मः स्थापितो भेदवानिव ।
येन दण्डादिवत्तस्य जायते हि विशेषणम् ॥ १०७७ ॥
यदि ह्यन्यव्यावृत्तिर्भावरूपा वस्तुनो विशेषणत्वेनाभिप्रेता स्यात्तदैतत्सर्वं दूषणमुपपद्यते, यावता वस्तुस्वरूपैवान्यनिवृत्तिर्विशेषणत्वेनोपादीयते, तेन विशेषणानुरूपैव विशेष्यबुद्धिर्भवत्येव । तथाहि—अगोनिवृत्तिर्या गोरभिधीयते साऽश्वादिभ्योगोर्यदन्यत्वं तत्स्वभावैव नान्या । ततश्च यद्यप्यसौ व्यतिरेकेणागोनिवृत्तिर्गोरित्यभिधीयते भेदान्तरप्रतिक्षेपमात्रजिज्ञासायां, तथापि परमार्थतस्तस्य गोरात्मगतैव सा, यथाऽन्यत्वम्, नह्यन्यत्वं नामान्यस्माद्वस्तुनोऽन्यत्, अपितु तदेव । अन्यथा तद्वस्तु ततोऽन्यस्मिन्न सिद्ध्येत् । तत्—तस्मात्, विशेषणभावेऽप्यन्यव्यावृत्तेर्विशेष्ये वस्तुधीर्भवत्येव । स्यादेतद्व्यतिरिक्तमेव हि विशेष्याद्विशेषणं लोके प्रसिद्धम्, यथा दण्डः पुरुषस्य, व्यावृत्तिश्चाव्यतिरिक्ता वस्तुनः, तत्कथमसौ तस्य विशेषणं युज्यत इत्याह —“कल्पने”त्यादि । नहि परमार्थेन न किञ्चित्कस्यचिद्विशेषणं युक्तम्, अनुपकारकस्य विशेषणत्वायोगात्, उपकारकत्वे चाङ्गीक्रियमाणे कार्यकाले कारणस्यानवस्थानादयुगपत्कालभाविनोर्न विशेषणविशेष्यभावो युक्तः, युगपत्कालभावित्वेतु तदानीं सर्वात्मना परिनिष्पत्तेर्न परस्परमुपकारोऽस्तीति न युक्तो विशेषणविशेष्यभावः । तत्तस्मात्सर्वभावानां स्वस्वभावस्थितत्वेनायःशलाकाकल्पत्वात्केवलं कल्पनयाऽमीषां मिश्रीकरणम् । तेन परमार्थतो यद्यपि व्यावृत्तितद्वतोरभेदस्तथापि कल्पनारचितम्भेदमाश्रित्य विशेष्यविशेषणभावो भविष्यति ॥ १०७५ ॥ १०७६ ॥ १०७७ ॥
यच्चोक्तम्— यदा धीशब्दवाच्यत्वान्न व्यक्तीनामपोह्यतेइत्यादि । तत्राह—“प्रतिभासश्चे”त्यादि ।
प्रतिभासश्च शब्दार्थ इत्याहुस्तत्त्वचिन्तकाः ।
दृश्यकल्पाविभागज्ञो लोको बाह्यं तु मन्यते ॥ १०७८ ॥
तस्यातोऽध्यवसायेन व्यक्तीनामेव वाच्यता ।
तत्त्वतश्च न शब्दानां वाच्यमस्तीति साधितम् ॥ १०७९ ॥
व्यक्तीनामवाच्यत्वादित्यसिद्धम् । तथाहि—यद्व्यक्तीनामवाच्यत्वमस्माभिर्वर्णितन्तत्परमार्थचिन्तायाम्, न पुनः संवृत्त्यापि, संवृत्त्या तु व्यक्तीनामेव वाच्यत्वमविचाररमणीयतया प्रसिद्धमित्यसिद्धो हेतुः । दृश्यः—बाह्यः स्वलक्षणात्मा, (कल्पः—)विकल्प्यो विकल्पज्ञानपरिवर्त्ती प्रतिभासः । अथ पारमार्थिकमवाच्यत्वं हेतुत्वेनोपादीयते तदाऽपोह्यत्वमपि व्यक्तीनां परमार्थतो नेष्टमित्यतः सिद्धसाध्यतेति दर्शयति —“तत्त्वतश्चे”त्यादि ॥ १०७८ ॥ १०७९ ॥
इत्थमित्यादिना हेतोरसिद्धतामेव निगमयति ।
इत्थं च शब्दवाच्यत्वाद्व्यक्तीनामस्त्यपोह्यता ।
सामान्यस्य तु नापोहो न चापोहेऽपि वस्तुता ॥ १०८० ॥
यच्चोक्तम्— तदाऽपोह्यो न सामान्यं तस्यापोहाच्च वस्तुता । इति, तत्राप्यपोह्यत्वादित्यस्य हेतोरसिद्धत्वमनैकान्तिकत्वं चेति दर्शयति—“सामान्यस्ये”त्यादिना ।“अपोह” इति । व्यक्तीनामेवापोहस्य प्रतिपादितत्वात् । “न चापोहेऽपि वस्तुते”ति । साध्यविपर्यये हेतोर्बाधकप्रमाणाभावादिति भावः ॥ १०८० ॥
यच्चोक्तं नापोह्यत्वमभावानामित्यादि, तत्राह—“नाभाव” इत्यादि ।
नाभाबोऽपोह्यते ह्येवं नाभावोऽभाव इत्ययम् ।
भावस्तु न तदात्मेति तस्येष्टैवमपोह्यता ॥ १०८१ ॥
अभावो नाभाव इत्येवमभावो नापोह्यते येनाभावरूपतायास्त्यागः स्यात् । किं तर्हि ? । भावो यः स विधिरूपत्वादभावरूपविवेकेनावस्थित इति सामर्थ्यादपोह्यत्वं तस्याभावस्येष्टम् ॥ १०८१ ॥
एतदेव स्पष्टीकुर्वन्नाह—“यो नामे”त्यादि ।
यो नाम न यदात्मा हि स तस्यापोह उच्यते ।
न भावोऽभावरूपश्च तदपोहे न वस्तुता ॥ १०८२ ॥
“तदपोह” इति । तस्याभावस्यैवमपोहे सति न वस्तुता प्राप्नोति ॥ १०८२ ॥
अत्रोभयपक्षप्रसिद्धोदाहरणोपदर्शनेनानैकान्तिकतामेव स्फुटयन्नाह—“प्रकृतीशादिजन्यत्व”मित्यादि ।
प्रकृतीशादिजन्यत्वं वस्तूनां नेति चोदिते ।
प्रकृतीशादिजन्यत्वं नहि वस्तु प्रसिद्ध्यति ॥ १०८३ ॥
तथाहि प्रकृतीश्वरकालादिकृतत्वं भावानां भवद्भिर्मीमांसकैरपि नेष्यत एव । तस्य च प्रतिषेधे सत्यपि यथा न वस्तुत्वमापद्यते तथाऽपोह्यत्वेऽप्यभावस्य वस्तुत्वापत्तिर्न भविष्यतीत्यनेकान्तः ॥ १०८३ ॥
यदुक्तम्— तत्रासतोऽपि वस्तुत्वमिति क्लेशो महान्भवेत् इति । तदप्यनेनैवानैकान्तत्वप्रतिपादनेन प्रतिविहितमिति दर्शयति—“नातोऽसतोऽपी”त्यादि ।
नातोऽसतोऽपि भावत्वमिति क्लेशो न कञ्चन ।
तस्य सिद्धौ च सत्ताऽस्ति सा चासत्ता प्रसिध्यति ॥ १०८४ ॥
तदसिद्धौ न सत्तास्ति नचासत्स प्रसिद्ध्यतीत्यत्राह—“तस्य सिद्धौ च सत्ताऽस्ती”त्यादि । तस्याभावस्य यथोक्तेन प्रकारेण सिद्धौ सत्यामपि भावस्य सत्ता सिद्ध्यत्वेव तस्य स्वस्वभावव्यवस्थितत्वात् । या चाभावस्य यथोक्तेन प्रकारेण सिद्धिः सैवासत्तेति प्रसिद्ध्यति । एतच्च प्रतिसमाधानस्य समानत्वादिति कृत्वाऽत्रैव प्रतिविहितम् ॥ १०८४ ॥
इदानीं यथानुक्रममेव प्रतिसमाधानमाह । तत्र यदुक्तम् अभावस्य च योऽभावइत्यादि, तत्राह—“अगोत” इत्यादि ।
अगोतो विनिवृत्तिश्च गौर्विलक्षण इष्यते ।
भाव एव ततो नायं गौरगोर्मे प्रसज्यते ॥ १०८५ ॥
भाव एव स चेदित्येतन्नानिष्टत्वापादनमिष्टत्वात् । तथाहि—अगोरूपादश्वादेर्गोर्भावविशेषरूप एव विलक्षण इष्यते, नाभावात्मा, तेन भाव एव भवेत् । अगोतश्च गोर्वैलक्षण्यस्येष्टत्वादगोर्न गोत्वप्रसङ्गः ॥ १०८५ ॥
यच्चोक्तम्— न ह्यवस्तुनि सा मता इति तदसिद्धमनैकान्तिकं चेति दर्शयन्नाह —“अवस्तुविषयेऽप्यस्ती”त्यादि ।
अवस्तुविषयेऽप्यस्ति चेतोमात्रविनिर्मिता ।
विचित्रकल्पनाभेदरचितेष्विव वासना ॥ १०८६ ॥
ततश्च वासनाभेदाद्भेदः सद्रूपतापि च ।
प्रकल्प्यते ह्यपोहानां कल्पनारचितेष्विव ॥ १०८७ ॥
अवस्तुविषयं चेतो नास्तीत्येतदसिद्धम् । तथाहि—उत्पाद्यकत्वा(ल्प ?)विषयसमुद्भूतवस्त्वाकारसमारोपेण प्रवर्त्तत एव चेतः । तच्चानागतसजातीयविकल्पोत्पत्तयेऽनन्तरचेतसि वासनामाधत्त एव । यतः पुनरपि सन्तानपरिपाकवशात्प्रबोधकं प्रत्ययमासाद्य तथाविधमेव चेतः समुपजायते, तद्वदपोहानामपि परस्परतो भेदः सद्रूपता च कल्पनावशाद्भविष्यतीत्यनैकान्तिकता । अवयवार्थस्तु सुबोधत्वान्न विभक्तः ॥ १०८६ ॥ १०८७ ॥
यच्चोक्तं भवद्भिः— शब्दभेदोऽपि तन्निमित्तो न लभ्यत इति, तत्राह—“यादृश” इत्यादि ।
यादृशोऽर्थान्तरापोहो वाच्योऽयं प्रतिपादितः ।
शब्दान्तरव्यपोहोऽपि तादृगेवावगम्यताम् ॥ १०८८ ॥
“यादृश” इति । प्रतिबिम्बात्मा । तस्य च प्रतिबिम्बान्तराद्भेदः स्फुटतरमेव संवेद्यत इति । अतो विस्तरेण यदुक्तं तत्सर्वमसङ्गतमिति भावः ॥ १०८८ ॥
न गम्यगमकत्वं स्यादित्यादिप्रयोगे प्रतिविधानमाह—“वस्त्वि”त्यादि ।
वस्त्वित्यध्यवसायत्वान्नावस्तुत्वमपोहयोः ।
प्रसिद्धं सांवृते मार्गे तात्त्विके त्विष्टसाधनम् ॥ १०८९ ॥
यद्यवस्तुत्वादिति सामान्येनोपादीयते तदा हेतुरसिद्धः, यतः प्रतिबिम्बात्मनोर्वाच्यवाचकापोहयोर्बाह्यवस्तुत्वेन भ्रान्तैरध्यवसितत्वात्सांवृतं वस्तुत्वमस्त्येव ॥ १०८९ ॥
अथ पारमार्थिकमवस्तुत्वमाश्रित्य हेतुरभिधीयते तदा सिद्धसाध्यता । नहि परमार्थतोऽस्माभिः किञ्चिद्वाच्यं वाचकं चेष्यते । एतदेव दर्शयति—“न वाच्य”मित्यादि ।
न वाच्यं वाचकं वापि परमार्थेन किञ्चन ।
क्षणभङ्गिषु भावेषु व्यापकत्ववियोगतः ॥ १०९० ॥
“व्यापकत्ववियोगत” इति । क्षणिकत्वेन सङ्केतव्यवहाराप्तकालव्यापकत्वाभावात्स्वलक्षणस्येत्यर्थः । स्यादेतन्नास्माभिस्तात्त्विको वाच्यवाचकभावो निषिध्यते । किं तर्हि तात्त्विकीमपोहयोरवस्तुतामाश्रित्य सांवृतमेव गम्यगमकत्वं निषिध्यते, न भाविकम्, तेन न हेतोरसिद्धता नापि सिद्धसाध्यता प्रतिज्ञादोषो भविष्यति ॥ १०९० ॥
द्वयोरपि सांवृतत्वे तात्त्विकत्वे चाश्रीयमाणे स्यादेतद्दोषद्वयमित्यत आह—“तद्गम्यगमकत्वं चे”त्यादि ।
तद्गम्यगमकत्वं चेत्सांवृतं प्रतिषिध्यते ।
तात्त्विकीं समुपाश्रित्य विनिवृत्त्योरवस्तुताम् ॥ १०९१ ॥
तथापि व्यभिचारित्वं दुर्वारमनुषज्यते ।
विकल्परचितैरर्थैः शब्दैस्तद्वाचकैरपि ॥ १०९२ ॥
एवं सति हेतोरनैकान्तिकता, कल्पनारचितेषु महाश्वेतादिष्वर्थेषु तद्वाचकेषु च शब्देषु परमार्थतो वस्तुत्वाभावेऽपि सांवृतस्य वाच्यवाचकभावस्य दर्शनात् । तद्दर्शयति—“विकल्परचितै”रित्यादि ॥ १०९१ ॥ १०९२ ॥
स्यादेतत्—तत्रापि महाश्वेतादिषु सामान्यं वाच्यं वाचकं च परमार्थतोऽस्त्येव । ततो न तैर्व्यभिचार इत्याशङ्क्याह—“न ही”त्यादि ।
न हि तेष्वस्ति सामान्यं वाच्यं तस्य च वाचकम् ।
न वाचकत्वं शब्दस्य क्षणभङ्गि स्वलक्षणम् ॥ १०९३ ॥
सामान्यपरीक्षायां सामान्यस्य विस्तरेण निरस्तत्वान्न तेषु सामान्यं वाच्यं वाचकं चास्तीत्यनैकान्तिकता हेतोः । “तस्ये”ति । सामान्यस्य । वाचकमित्यत्रापि सामान्यमिति प्रकृतेन सम्बध्यते । स्यादेतद्यद्यपि तत्र वस्तुभूतं नास्ति वाच्यं, वाचकं तुमहाश्वेतादिशब्दस्वलक्षणमस्त्येवेत्यत आह—“न वाचकत्वं शब्दस्ये”त्यादि । सर्वपदार्थव्यापिनः क्षणभङ्गस्य प्रतिपादितत्वान्न शब्दस्वलक्षणस्य वाचकत्वं, क्षणभङ्गित्वेन तस्य सङ्केतासम्भवात् । व्यवहारकालानन्वयाच्चेति प्रतिपादितम् ॥ १०९३ ॥
“तस्मादि”त्यादिनोपसंहरति ।
तस्मात्तद्द्वयमेष्टव्यं प्रतिबिम्बादि सांवृतम् ।
तेषु तद्व्यभिचारित्वं दुर्निवारमवस्थितम् ॥ १०९४ ॥
“द्वय”मिति । वाच्यं वाचकं च । “प्रतिबिम्बादी”त्यादिशब्देन निराकारज्ञानाभ्युप गमेऽपि स्वगतमन्यत्किञ्चित्प्रतिनियतमनर्थेऽर्थाध्यवसायिरूपस्य विज्ञानस्यावश्यमङ्गीकर्त्तव्यमिति दर्शयति—“तेष्वि”ति । कल्पनोपरचितेष्वर्थेषु । “त”दिति । तस्मात् । तस्य वा हेतोर्व्यमिचारित्वम् ॥ १०९४ ॥
विधिरूपश्च शब्दार्थो येन नाभ्युपगम्यते इत्यत्राह—“विधिरूपश्चे”त्यादि ।
विधिरूपश्च शब्दार्थो येन नाभ्युपगम्यते ।
तदाभं जायते चेतः शब्दादर्थावसायि हि ॥ १०९५ ॥
स्वार्थाभिधाने शब्दानामर्थादन्यनिवर्त्तनम् ।
तद्योगो व्यतिरेकोऽपि मम तत्पूर्वको ह्यसौ ॥ १०९६ ॥
न ह्यस्माभिः सर्वथा विधिरूपः शब्दार्थो नाभ्युपगम्यते, येनैतद्भवताऽनिष्टप्रसङ्गापादनं क्रियते । यावता शब्दादर्थाध्यवसायिनश्चेतसः समुत्पादात्सांवृतो विधिरूपः शब्दार्थोऽभीष्यत एव । तत्त्वतस्तु न किञ्चिद्वाच्यमस्ति शब्दानामिति विधिरूपस्तात्त्विको निषिध्यते । तेन सांवृतस्य विधिरूपस्य शब्दार्थस्येष्टत्वात्स्वार्थाभिधाने विधिरूपे सत्यन्यव्यतिरेकस्य सामर्थ्यादधिगतेर्विधिपूर्वको व्यतिरेको युज्यत एव ॥ १०९५ ॥ ॥ १०९६ ॥
स्यादेतद्यदि विधिरूपः शब्दार्थोऽभ्युपगम्यते, कथं तर्हि हेतुमुखे लक्षणकारेणासम्भवो विधेरित्युक्तमित्यत आह—“असम्भव” इत्यादि ।
असम्भवो विधेरुक्तः सामान्यादेरसम्भवात् ।
शब्दानां च विकल्पानां वस्तुनो विषयत्वतः ॥ १०९७ ॥
सामान्यलक्षणादेर्वाच्यस्य वाचकस्य च परमार्थतोऽसम्भवाच्छब्दानां विकल्पानां च वस्तुतः परमार्थतो विषयासम्भवात्परमार्थमाश्रित्य विधेरसम्भव उक्त आचार्येणेत्यविरोधः ॥ १०९७ ॥
अपोहमात्रवाच्यत्व मित्यादावाह—“नीलोत्पलादी”त्यादि ।
नीलोत्पलादिशब्देभ्य एक एवावसीयते ।
अनीलानुत्पलादिभ्यो व्यावृत्तं प्रतिबिम्बकम् ॥ १०९८ ॥
एकमेवानीलानुत्पलव्यावृत्तमर्थाकारमुभयरूपं प्रतिबिम्बकं नीलोत्पलशब्दो वदति नाभावभात्रम्, अतः सबलार्थाभिधायित्वमध्यवसायवशान्नीलोत्पलादिशब्दानामस्त्येवेति तदनुरोधात्सामानाधिकरण्यमुपपद्यत एव ॥ १०९८ ॥
यदुक्तम्— अथान्यापोहवद्वस्तु वाच्यमित्यभिधीयते इति अत्राह—“नत्वन्यापोहवदि”त्यादि ।
नत्वन्यापोहवद्वस्तु वाच्यमस्माभिरिष्यते ।
व्यावृत्तादन्यतोऽभावान्नान्याद्व्यावृत्तिरस्ति नः ॥ १०९९ ॥
तत्पारतन्त्र्यदोषोयं जाताविव न सङ्गतः ।
अवदातमिति प्रोक्ते शब्दस्यार्थेऽपृथक्त्वतः ॥ ११०० ॥
विशेषणविशेष्यत्वसामानाधिकरण्ययोः ।
तस्मादपोहे शब्दार्थे व्यवस्था न विरुध्यते ॥ ११०१ ॥
यदि हि व्यावृत्ताद्भावाद्व्यावृत्तिर्नामान्या भवेत्तदा स्यात्तद्वत्पक्षोदितदोषप्रसङ्गः,यावताऽन्यतो व्यावृत्ताद्भावान्नास्माकमन्या व्यावृत्तिरस्ति, अपि तु व्यावृत्त एव भावोभेदान्तरप्रतिक्षेपमात्रजिज्ञासायां तथाऽभिधीयते । तेन यथाजातौ प्राधान्येन वाच्यायां पारतन्त्र्येण तद्वतोऽभिधानात्तद्गतभेदानाक्षेपात्तेन सह सामानाधिकरण्यादेरभावप्रसङ्गः उक्तः, तद्वदपोहपक्षे नावतरति व्यतिरिक्तान्यापोहवतोऽनभिधानात् ।तद्दर्शयति—“तत्पारतन्त्र्यदोषोय”मित्यादि । “त”दिति । तस्मात् । “अवदातमिति प्रोक्त” इति । विशुद्धधियाऽऽचार्यदिङ्न्ागेन प्रोक्तेऽपोहलक्षणे शब्दार्थे । अत्र कारणमाह—“अपृथक्त्वत” इति । तस्यान्यापोहलक्षणस्य शब्दार्थस्याऽन्यापोढात्पदार्थादपृथक्त्वादव्यतिरेकादिति यावत् । “विशेषणविशेष्ये”त्यादि । सुबोधम् ॥ १०९९ ॥ ॥ ११०० ॥ ११०१ ॥
यथा च न विरुध्यते सामानाधिकरण्यादि तथा दर्शयन्नाह—“केवलादि”त्यादि ।
केवलान्नीलशब्दादेर्विशिष्टं प्रतिबिम्बकम् ।
कोकिलोत्पलभृङ्गादौ प्लवमानं प्रवर्त्तते ॥ ११०२ ॥
पिकाञ्जनाद्यपोहेन विशिष्टविषयं पुनः ।
तदिन्दीवरशब्देन स्थाप्यते परिनिश्चितम् ॥ ११०३ ॥
सामानाधिकरण्यादिरेवमस्तिन्न बाधितः ।
परपक्षे तु सर्वेषां तद्व्यवस्थातिदुर्घटा ॥ ११०४ ॥
तथाहि—नीलमित्युक्ते पीतादिव्यावृत्तान्यपदार्थव्यवसायिभ्रमरकोकिलाञ्जनादिषु संशय्यमानरूपं विकल्पप्रतिबिम्बकमुदेति । तच्चोत्पलशब्देन कोकिलादिभ्यो व्यवच्छेद्यानुत्पलव्यावृत्तवस्तुविषये व्यवस्थाप्यमानं परिनिश्चितात्मकं प्रतीयते । तेन परस्परं यथोक्तबुद्धिप्रतिबिम्बकापेक्षया व्यवच्छेद्यव्यवच्छेदकभावान्नीलोत्पलशब्दयोर्विशेष्यविशेषणभावो न विरुध्यते । द्वाभ्यां वाऽनीलानुत्पलव्यावृत्तैकप्रतिबिम्बात्मकवस्तुप्रतिपादनादेकार्थवृत्तितया सामानाधिकरण्यं च भवतीति समुदायार्थः । अवयावार्थस्तूच्यते—“प्लवमान”मिति । अलभमानप्रतिष्ठं संशयरूपमिति यावत् । पिकशब्दः कोकिलपर्यायः । शेषं सुबोधम् । स्यादेतस्मत्पक्षेऽपि सामानाधिकरण्यादिरविरुद्ध एवेत्यत आह—“परपक्षे त्वि”त्यादि । “तद्व्यवस्थे”ति । तस्यसामानाधिकरण्यादेर्व्यवस्था तद्व्यवस्था ॥ ११०२ ॥ ११०३ ॥ ११०४ ॥
कथं दुर्घटेत्याह—“तथाही”त्यादि ।
तथाह्येकेन शब्देन सर्वथोक्तं स्वलक्षणम् ।
तथाचाभिहिते तस्मिन्कस्माद्भेदान्तरेऽभतिः ॥ ११०५ ॥
यदर्थमपरः शब्दः प्रयुज्येतात्र वस्तुतः ।
सर्वथाऽभिहिते नो चेत्तदनेकं प्रसज्यते ॥ ११०६ ॥
विधिशब्दार्थवादिपक्षे नीलादिशब्देनैवैकेनोत्पलादिस्वलक्षणेऽभिहिते किमुत्पलमाहोस्विदञ्जनमित्येवमज्ञानं विशेषान्तरे न प्राप्नोति, सर्वात्मना तस्य वस्तुनः प्रतिपादितत्वात् । एकस्यैकदैकप्रतिपत्रपेक्षया ज्ञाताज्ञातत्वविरोधात् । तद्दर्शयति—“कस्माद्भेदान्रतेऽमति”रिति । अमतिरज्ञानम् । कुत्सिता सा मतिरमतिः । संशयो विपर्यासश्चेति यावत् । ततश्च संशयविपर्यासाभावादुत्पलादिशब्दान्तरप्रयोगाकाङ्क्षा प्रयोक्तुश्च न प्राप्नोतीति दर्शयति—“यदर्थ”मित्यादि । “यदर्थ”मिति । यस्या अमतेर्निवृत्त्यर्थमित्यर्थः । अथापि स्यात्—तद्वस्त्वेकदेशेनाभिहितं न सर्वात्मना, तेन स्वभावान्तरभिधानायापरः शब्दोऽन्वेष्यत एवेत्यत आह—“सर्वथे”त्यादि । न ह्येकस्य वस्तुन एकदेशाः सन्ति, येनैकदेशेनाभिधानं स्यात्, एकत्वानेकत्वयोः परस्परपरिहारस्थितलक्षणत्वात् । ततश्च यावन्तश्चैकदेशास्तावन्त्येव केवलं भवता वस्तूनि प्रतिपादितानीति नैकमनेकं सिध्येत् ॥ ११०५ ॥ ११०६ ॥
स्यादेतत्र नीलशब्देन द्रव्यमभिधीयते, किं तर्हि ? नीलाख्यो गुणस्तत्समवेता वानीलत्वजातिः,उत्पलशब्देनाप्युत्पलजातिरेवोच्यते, न द्रव्यं, तेन भिन्नार्थाभिधानादुत्पलशब्दान्तराकाङ्क्ष युज्यत एवेत्यत आह—“नीलजाति”रित्यादि ।
नीलजातिर्गुणो वाऽपि नीलशब्देन चेद्गतः ।
अन्येन्दीवरजातिस्तु व्यवसेयोत्पलश्रुतेः ॥ ११०७ ॥
एवं सति तयोर्भेदाद्बकुलोत्पलशब्दवत् ।
सामानाधिकरण्यादि सुतरां नोपपद्यते ॥ ११०८ ॥
“अन्येन्दीवरजाति”स्त्विति । अन्या चासाविन्दीवरजातिश्चेति समासः । “व्यवसेये”ति । व्यवसातव्या । उत्पलश्रुतेरिति पञ्चम्यन्तम् । अस्मिन्पक्षे सुतरामेव सामानाधिकरण्यमनुपपन्नं बकुलोत्पलशब्दयोरिवैकस्मिन्नर्थे नीलोत्पलशब्दयोर्वृत्त्यभावात् । नहि भवति बकुलमुत्पलमिति ॥ ११०७ ॥ ११०८ ॥
स्यादेतत्—नीलशब्दो यद्यपि जातिगुणविशेषवचनः, तथापि तद्द्वारेण नीलगुणतज्जातिभ्यां सम्बद्धं द्रव्यमपि तेनाभिधीयते तथोत्पलशब्देनापि जातिद्वारेण तदेव द्रव्यमभिधीयत इति । अतस्तयोरेकार्थवृत्तिसम्भवात्सामानाधिकरण्यं भविष्यति, न बकुलोत्पलशब्दयोरित्यत आह—“गुणतज्जाती”त्यादि ।
गुणतज्जातिसम्बद्धं द्रव्यं चेत्प्रतिपाद्यते ।
नीलशब्देन यद्येवं व्यर्था स्यादुत्पलश्रुतिः ॥ ११०९ ॥
ताभ्यां यदेव सम्बद्धं तदेवोत्पलजातिमत् ।
नीलश्रुत्यैव तत्रोक्तं व्यर्था नीलोत्पलश्रुतिः ॥ १११० ॥
गुणश्च नीलाख्यः, तज्जातिश्च नीलत्वाख्येति गुणतज्जाती, ताभ्यां सम्बद्धमिति विग्रहः । “व्यर्था स्यादुत्पलश्रुति”रिति । नीलशब्देनैव तस्य द्रव्यस्य प्रतिपादितत्वात् । एतदेव दर्शयति—“ताभ्या”मित्यादि । “ताभ्या”मिति । गुणतज्जातिभ्याम् । स्यादेतत्—यद्यपि नीलशब्देन गुणतज्जातिमद्द्रव्यमभिधीयते, तथापि तस्य नीलशब्दस्यानेकार्थवृत्तिदर्शनात्प्रतिपत्तुरुत्पलार्थे निश्चितरूपा न बुद्धिरुपजायते, कोकिलादेरपि नीलत्वात् । अतोऽर्थान्तरसंशयव्यवच्छेदादुत्पलश्रुतेः प्रयोगः सार्थक एवेति । तदसम्यक् प्रकृतार्थानभिज्ञतयाऽभिधानात् । विधिशब्दार्थपक्षे हि सामानाधिकरण्यादि नोपपद्यत इत्येतदत्र प्रकृतम् । यदि चोत्पलशब्दः संशयव्यवच्छेदायैव व्याप्रियते न द्रव्यप्रतिपत्तये, न तर्हि विधिः शब्दार्थः स्यात्, उत्पलशब्देन भ्रान्तिसमारोपिताकारव्यवच्छेदमात्रस्यैव प्रतिपादनात् । परस्परविरुद्धं चेदमभिधीयते —नीलशब्देनोत्पलादिकं द्रव्यमभिधीयते, अथ च प्रतिपत्तुस्तत्र निश्चयो न जायत इति । नहि यत्र संशयो जायते स शब्दार्थो युक्तोऽतिप्रसङ्गात् । नापि निश्चयेन विषयीकृते वस्तुनि संशयोऽवकाशं लभते । निश्चयारोपमनसोर्बाध्यबाधकभावात् ।स्यादेतत्—यद्यपि नीलोत्पलशब्दयोरेकस्मिन्नर्थे वृत्तिर्नास्ति, तदर्थयोस्तु गुणजात्योरेकस्मिन्द्रव्ये वृत्तिरस्तीति । अतोऽर्थद्वारकमनयोः सामानाधिकरण्यं भविष्यतीति तदेतदयुक्तमतिप्रसङ्गात् । एवं हि रूपरसशब्दयोरपि सामानाधिकरण्यं स्यात्, तदर्थयो रूपरसयोरेकस्मिन्पृथिव्यादिद्रव्ये वृत्तेः । किं च नीलमुत्पलमित्येकार्थविषया बुद्धिर्न प्राप्रोति, एकद्रव्यसमवेतयोर्गुणजात्योर्द्वाभ्यां पृथक्पृथगभिधानात्, न चैकार्थविषयज्ञानानुत्पादे शब्दयोः सामानाधिकरण्यमस्तीत्यलं बहुना ॥ ११०९ ॥ ॥ १११० ॥
स्यादेतत्—न यदेव नीलगुणतज्जातिभ्यां सम्बद्धं वस्तु तदेवोत्पलशब्देनोच्यते, किं तर्हि ? अन्यदेव, तेनोत्पलश्रुतिर्व्यर्था न भविष्यतीत्यत आह—“गुणतज्जातिसम्बद्धादि”त्यादि ।
गुणतज्जातिसम्बद्धादन्यदुत्पलजातिमत् ।
यदि भिन्नाश्रये स्यातां पुनर्नीलोत्पलश्रुती ॥ ११११ ॥
यदीत्यवच्छेदः । “भिन्नाश्रये स्याता”मिति । व्यधिकरणे स्यातामित्यर्थः ११११ ॥
अथापि स्यात्—यद्यपि तदेव द्रव्यं नीलशब्देनोच्यते, उत्पलशब्देनापि तदेव । तथापि नीलशब्दो नोत्पलजातिसम्बन्धिरूपेण द्रव्यमभिधत्ते, किं तर्हि ? नीलगुणतज्जातिसम्बन्धिरूपेणैव, तेनोत्पलत्वजातिसम्बन्धिरूपत्वमस्याभिधातुमुत्पलश्रुतिः प्रवर्त्तमाना नानार्थिका भविष्यतीति तदेतदाशङ्क्य परिहरति—“अथोत्पलत्वे”त्यादि ।
अथोत्पलत्वसम्बन्धिरूपत्वेन न चोदयेत् ।
गुणतज्जातिसम्बद्धं द्रव्यं नीलमिति ध्वनिः ॥ १११२ ॥
अथ नीलमिति ध्वनिरूत्पलत्वसम्बन्धिरूपत्वेन गुणतज्जातिसम्बद्धं द्रव्यं न चोदयेदिति सम्बन्धः ॥ १११२ ॥
स्यान्नामोत्पलतायोगिरूपत्वमतदात्मकम् ।
उत्पलत्वेन सम्बद्धं त्वाभ्यां सम्बद्धमेव तत् ॥ १११३ ॥
नीलश्रुत्या च तत्प्रोक्तं शाब्द्यात्र विषयीकृतम् ।
बुद्ध्या सर्वात्मना नांशौस्तदनर्थोत्पलश्रुतिः ॥ १११४ ॥
तदेतदसम्यक् । नहि नीलगुणतज्जातिसम्बन्धिरूपत्वादन्यदेवोत्पलजातिसम्बन्धिरूपत्वम्, येन नीलोत्पलादिसम्बन्धिरूपत्वाभिधाने द्रव्यस्योत्पलत्वजातिसम्बन्धिरूपत्वाभिधानं न भवेत् । यावतैकस्माद्द्रव्याद्वयोरपि सम्बन्धिरूपत्वयोरव्यतिरेकात्तद्वत्तयोरप्येकत्वमेवेत्ययुक्तमेकरूपाभिधानेऽपररूपानभिधानम् । किञ्चाभ्युपगम्योच्यते— भवतु नामोत्पलत्वसम्बन्धिरूपत्वं नीलतज्जातिसम्बन्धिरूपत्वादन्यत्, तथाप्युत्पलश्रुतिरनर्थकैव । तथाहि—यत्तदनंशं वस्तूत्पलजात्या सम्बद्धं तदेवाभ्यां नीलगुणतज्जातिभ्यां सम्बध्यते नान्यत् । तच्चानंशत्वात्सर्वात्मना नीलश्रुत्यैवाभिहितं शाब्द्या च बुद्ध्या व्यवसायात्मिकया विषयीकृतमिति किमपरमनभिहितमस्य स्वरूपमस्ति यदभिधानायोत्पलश्रुतिः सार्थिका भवेत् ॥ १११३ ॥ १११४ ॥
उद्योतकरस्त्वाह—निरंशे वस्तुनि सर्वात्मना विषयीकृतं नांशेनेत्येष विकल्पो नावतरति, सर्वशब्दस्यानेकार्थविषयत्वात्, एकशब्दस्य चावयववृत्तित्वादिति । तदेतदाशङ्क्य परिहरति—“नचे”दित्यादि ।
न चेद्भेदविनिर्मुक्ते कार्त्स्न्यभेदविकल्पनम् ।
न वाक्यार्थापरिज्ञानादिदं ह्यत्र विवक्षितम् ॥ १११५ ॥
प्रथमेनैव शब्देन सर्वथा तत्प्रकाशितम् ।
नात्मा कश्चित्परित्यक्तो यादृशं तत्तथोदितम् ॥ १११६ ॥
“भेदविनिर्मुक्तं” इति । निरवयवे वस्तुनीत्यर्थः । “कार्त्स्न्यभेदविकल्पन”मिति । सर्वात्मना विषयीकृतं वैकदेशेनेत्येवं कार्त्स्न्यभेदाभ्यां विकल्पनम् । तदेतद्वाक्यार्थापरिज्ञानादुक्तम् । तथाहि—प्रथमेनैव नीलशब्देन सर्वात्मना तत्प्रकाशितमित्यस्यायमर्थो विवक्षितः, यादृशं तद्वस्तु तादृशमेवाभिहितं, न तस्य कश्चित्स्वभावस्त्यक्तोयदभिधानायोत्पलश्रुतिर्व्याप्रियेत, निरंशत्वात्तस्य वस्तुन इत्यतो वाक्छलमेतत् ॥ १११५ ॥ १११६ ॥
एवं यथाचोत्पलश्रुतिरनर्थिका तथान्येषामप्यनित्यादिशब्दानां प्रयोगोऽनर्थकः प्राप्नोति, सति प्रयोगे पर्यायत्वमेव स्यात्तरुपादपादिशब्दवदित्यतिदेशं कुर्वन्नाह—“एतेनैवे”त्यादि ।
एतेनैव प्रकारेण नान्येषामप्युदीरणम् ।
सफलं तत्र शब्दानामुक्तौ पर्यायता ध्रुवम् ॥ १११७ ॥
उदीरणमिति । प्रयोगः । “उक्तावि”ति । उच्चारणे । तदुक्तम्— अन्यथैकेन शब्देन व्याप्त एकत्र वस्तुनि । बुद्ध्या वा नान्यविषय इति पर्यायता भवेदिति ॥ १११७ ॥
स्यादेतत्—भवत्पक्षेऽप्येकेन शब्देनाभिहिते वस्तुनि भेदान्तरे संशयविपर्यासाभावप्रसङ्गः, शब्दान्तराप्रवृत्तिप्रसङ्गश्च कस्मान्न भवतीत्यत आह—“अस्माकं” त्वित्यादि ।
अस्माकं तु न शब्देन बाह्यार्थः प्रतिपाद्यते ।
शब्दान्न चापि विज्ञानं बाह्यार्थविषयं मतम् ॥ १११८ ॥
यतः सर्वात्मना ताभ्यां विषयीतकरणात्परम् ।
शब्दज्ञानान्तरं तत्र पर्यायत्वं प्रयास्यति ॥ १११९ ॥
“ताभ्या”मिति । शब्दज्ञानाभ्याम् । “पर”मिति । उत्तरकालम् ॥ १११८ ॥ १११९ ॥
अथ सांवृते शब्दार्थे कस्मादेव सामानाधिकरण्याभावो दोषो न भवतीत्यत आह —“प्रतिबिम्बं त्वि”त्यादि ।
प्रतिबिम्बं तु शब्देन क्रमेणैवोपजन्यते ।
एकत्वेन च तद्भाति बाह्यत्वेन च विभ्रमात् ॥ ११२० ॥
सामानाधिकरण्यादि प्रतिबिम्बानुरोधतः ।
परमार्थेन शब्दास्तु मता निर्विषया इमे ॥ ११२१ ॥
नीलशब्देन हि प्रथमतरमनीलपदार्थव्यावृत्तमुत्पलादिषु प्लवमानरूपतया तेषामप्रतिक्षेपकमध्यवसितबाह्यरूपं विकल्पप्रतिबिम्बकमुपजन्यते, पुनरुत्पलश्रुत्या तदेवानुत्पलव्यावृत्तमारोपितबाह्यैकवस्तुस्वरूपमुपजन्यते, तदेवं क्रमेणानीलानुत्पलव्यावृत्तमध्यवसितबह्यैकरूपं भ्रान्तं विकल्पप्रतिबिम्बकमुपजन्यत इति तदनुरोधात्सांवृतं सामानाधिकरण्यादि युज्यत एव । परमार्थस्तु कस्मान्न युज्यत इत्याह —“परमार्थेने”त्यादि ॥ ११२० ॥ ११२१ ॥
यदुक्तं— लिङ्गसङ्ख्यादिसम्बन्धो न चापोहस्य विद्यत इति, अत्राह—“लिङ्गसङ्ख्यायादी”त्यादि ।
लिङ्गसङ्ख्यादियोगस्तु व्यक्तीनामपि नास्त्ययम् ।
इच्छारचितसङ्केतनिमित्तो नहि वास्तवः ॥ ११२२ ॥
वस्तुधर्मत्वमेषां लिङ्गसङ्ख्यादीनामसिद्धम् । स्वतन्त्रेच्छाविरचितसङ्केतमात्रभा वित्वात् । व्यक्तीनामपीत्यपिशब्दादपोहस्यापि । प्रयोगः—“यो” यदन्वयव्यतिरेकौनानुविधत्ते, नासौ तद्धर्मः, यथा शीतत्वमग्नेः, नानुविधत्ते च लिङ्गसङ्ख्यादि वस्तुतोऽन्वयव्यतिरेकाविति व्यापकानुपलब्धिः ॥ ११२२ ॥
नचायमसिद्धो हेतुरिति दर्शयन्नाह—“तटस्तटी”त्यादि ।
तटस्तटी तटं चेति नैरूप्यं न च वस्तुनः ।
शबलाभासताप्राप्तेः सर्वेषां तत्र चेतसाम् ॥ ११२३ ॥
यदि हि लिङ्गं वस्तुगमो धर्मः स्यात्, तदैकस्मिंस्तटाख्ये वस्तुनि तटस्तटी तटमिति लिङ्गत्रययोगिशब्दप्रवृत्तेरेकस्य वस्तुनस्त्रैरूप्यप्रसङ्गः स्यात् । नचैकस्य स्त्रीपुन्नपुंसकाख्यं स्वभावत्रयं युक्तमेकत्वहानिप्रसङ्गत् । विरुद्धधर्माध्यासितस्याप्येकत्वे सर्वं विश्वमेकमेव वस्तु स्यात् । ततश्च सहोत्पत्तिविनाशप्रसङ्ग । किञ्च—सर्वस्यैवैकशब्देन शब्दान्तरेण वा लिङ्गत्रयप्रतिपत्तिदर्शनात्ताद्विषयणां सर्वचेतसां मेचकादिरत्नवच्छबलाभासताप्रसङ्ग ॥ ११२३ ॥
अथापि स्यात्—सत्यपि लिङ्गत्रययोगित्वे सर्ववस्तूनां यदेव रूपं वक्तुमिष्टं प्रतिपादकेन तन्मात्रावभासान्येव विवक्षावशाच्चेतांसि भविष्यन्तीति न शबलाभासानीत्यत आह—“विवक्षानुगतत्वे वे”त्यादि ।
विवक्षानुगतत्वे वा न स्युस्तद्विषयाणि ते ।
तद्वशादेकरूपाणि नैकरूपं च वस्तु तत् ॥ ११२४ ॥
विवक्षानुगतत्वे वा चेतसामिति शेषः । यदि हि विवक्षावशादेकरूपाणि चेतांसि भवन्तीत्यङ्गीक्रियते, तदा तानि चेतांसि त्र्यात्मकवस्तुविषयाणि न प्राप्नुवन्ति, तदाकारशून्यत्वात्, चक्षुर्विज्ञानवच्छब्दविषयम् । “तद्वशा”दिति । विवक्षावशात् ॥ ११२४ ॥
योऽपि मन्यते संस्त्यानप्रसवस्थितिषु यथोक्तस्त्रीपुत्रपुंसकत्वव्यवस्थेति, तस्यापि न युक्तमित्यादर्शयन्नाह—“स्थिती”त्यादि ।
स्थितिप्रसवसंस्त्यानसंश्रया लिङ्गसंस्थितिः ।
यदि स्यादविभागेन विलिङ्गत्वं प्रसज्यते ॥ ११२५ ॥
लिङ्गसंस्थितिर्यदि स्यादित्यत्र छेदः । यदि हि स्थित्याद्याश्रया लिङ्गास्थितिर्लिङ्गव्यवस्था, तदा तटशृङ्खलादिवत्सर्वपदार्थेष्वविभागेन त्रीणि लिङ्गानि प्राप्नुवन्ति, सर्वत्र तटादिवत्स्थित्यादेर्विद्यमानत्वात् । अन्यथा तटस्तटीतटमित्यादावपि लिङ्गत्रयं नस्यात्, विशेषाभावात् । तस्मादतिव्यापिता लक्षणदोषः ॥ ११२५ ॥
व्यभिचारदर्शनाच्चाव्यापितेति दर्शयन्नाह—“अभाव” इत्यादि ।
अभावो निरुपाख्यत्वं तुच्छतेति यदुच्यते ।
तत्र स्थित्यादिसम्बन्धः कोऽसत्सु परिकल्प्यते ॥ ११२६ ॥
असत्यपि हि स्थित्यादिके शशविषाणादिष्वसद्रूपेष्वभावो निरुपाख्यत्वं तुच्छतेत्यादिभिः शब्दैर्लिङ्गत्रयप्रतिपत्तिदर्शनादव्यापिनीयं लिङ्गव्यवस्था ॥ ११२६ ॥
उत्पादः प्रसवश्चैषां नाशः संस्त्यानमिष्यते ।
आत्मरूपं तु भावानां स्थितिरित्यभिधीयते ॥ ११२७ ॥
तत्रोत्पादे न नाशोऽस्ति तत्किमुत्पत्तिरुच्यते ।
नात्माकारा स्थितिश्चास्ति तत्कथं जन्म गीयते ॥ ११२८ ॥
संस्त्याने न द्वयं चान्यत्तत्कथं व्यपदिश्यते ।
तिरोभावश्च नाशश्च तिरोभवनमित्यपि ॥ ११२९ ॥
स्थितौ स्थितिः स्वभावश्च हेतुना केन वोच्यते ।
अथाविभक्तमेवैषां रूपं स्यादेकलिङ्गता ॥ ११३० ॥
इतश्चाव्यापिनी, तेष्वेव स्थित्यादिषु प्रत्येकं लिङ्गत्रययोगिशब्दप्रवृत्तिदर्शनात् । तथाहि प्रसव उत्पाद उच्यते संस्त्यानं विनाशः आत्मस्वरूपं तु स्थितिः । तत्र प्रसवे स्थितिसंस्त्यानयोरभावात्कथमुत्पादे उत्पत्तिर्जन्मेत्यादेः स्त्रीनपुंसकलिङ्गस्य प्रवृत्तिर्भवेत् । तथा संस्त्याने स्थितिप्रसवयोरभावात्कथं तिरोभावो विनाशास्तिरोभवनमित्यादिभिः शब्दैर्व्यपदिश्येत । अपिशब्देन संस्त्यानमित्यपि स्वशब्देन कथं व्यपदिश्यत इति दर्शयति । तथा स्थितौ संस्त्यानप्रसवयोरसम्भवात् स्थितिस्वभावश्चेत्यादिभिः शब्दैः सा स्थितिः केन हेतुनोच्यत इति वाच्यम् । अथापि स्यादेषां स्थित्यादीनाम्परस्परमविभक्तरूपत्वात्प्रत्येकमेषु लिङ्गत्रययोग्यता भविष्यतीत्यत आह—“अथाविभक्त”मित्यादि । यदि ह्येषां परस्परमविभक्तं रूपं स्यात्तदैकमेव परमार्थतो लिङ्गं स्यान्न लिङ्गत्रयम् ॥ ११२७ ॥ ११२८ ॥ ११२९ ॥ ११३० ॥
अन्यस्त्वाह—सामान्यविशेषाः स्त्रीत्वादयो गोत्वादय इवेति, तं प्रत्याह—“गोत्वादय” इवेत्यादि ।
गोत्वादय इवैतेऽपि यदि स्त्रीत्वादयो मताः ।
सामान्यस्य निरासेन तेऽपास्ता एव तादृशाः ॥ ११३१ ॥
पूर्वं सामान्यपरीक्षायां सामान्यविशेषाणां निरस्तत्वात्, तद्रुपाणां स्त्रीत्वादीनामसम्भवादसम्भविलक्षणम् ॥ ११३१ ॥
किञ्च तेष्वेव सामान्यविशेषेष्वन्तरेणाप्यपरं सामान्यविशेषं जातिर्भावः सामान्यमित्यादि स्त्रीपुन्नपुंसकलिङ्गस्य शब्दस्य प्रवृत्तिदर्शनादव्यापिता च लक्षणस्येति दर्शयति—“जातिर्भाव” इत्यादि ।
जातिर्भावश्च सामान्यमिति वा तेषु सम्मतम् ।
न सामान्यानि युज्यन्ते सामान्येष्वपराणि हि ॥ ११३२ ॥
“न सामान्यानि युज्यन्ते सामान्येष्वपराणी”ति । निःसामान्यानि सामान्यानीति सिद्धान्तात् । एतच्च वैशेषिकसिद्धान्ताश्रयेणोक्तम् । यदा तु सामान्येष्वपराणि सामान्यानीष्यन्ते वैयाकरणैः, यथोक्तम्— अर्थजात्यभिधानेऽपि सर्वे जात्यभिधायिनः । व्यापारलक्षणा यस्मात्पदार्थाः समवस्थिताः ॥ नहि शास्त्रान्तरपरिदृष्टा जातिव्यवस्था नियोगतो वैयाकरणैरभ्युपेतव्या । प्रत्ययाभिधानान्वयव्यापारकार्योन्नीयमानरूपा हि जातयो नहि तासामियत्ता काचित् । अतो यच्चोदितकार्यदर्शनात् सामान्याधारा जातिः सती जातय इत्यस्याः श्रुतेर्निबन्धनमिति । व्यापारलक्षणा इति अभिधानप्रत्ययव्यापारतो व्यवस्थितलक्षणा इत्यर्थः । तदानन्तरोक्तमेव दूषणंसामान्यस्य निरासेन तेऽपास्ता एव तादृशा इति ॥ ११३२ ॥
इदं च साधारणं दूषणमाह—“अभाव” इत्यादि ।
अभावो निरुपाख्यत्वं तुच्छतेत्यादि वा कथम् ।
सामायिक्येव तेनैषा लिङ्गत्रितयसंस्थितिः ॥ ११३३ ॥
नह्यसत्सु शशविषाणादिषु जातिरस्ति, वस्तुधर्मत्वात्तस्येत्यतस्तेष्वभावादिशब्दप्रयोगो न प्राप्नोति । तस्मादव्यापिनी लिङ्गव्यवस्था । तेनेच्छारचितसङ्केतमात्रभाविन्येवेयं लिङ्गत्रितयव्यवस्थेति सिद्धम् ॥ ११३३ ॥
सङ्ख्याय अपि वस्तुगतान्वयव्यतिरेकानुविधानाभावं दर्शयन्नाह—“सङ्ख्यापी”त्यादि ।
सङ्ख्याऽपि सामायिक्येव कल्प्यते हि विवक्षया ।
भेदाभेदविवेकेपि दारादिविपिनादिवत् ॥ ११३४ ॥
सङ्ख्यापि सामायिक्येव, न वास्तवी । दारादिष्वसत्यपि वास्तवे भेदे विवक्षावशे नोपकल्पितत्वात् । अतो नासिद्धो हेतुः । तथाहि—बहुत्वैकत्वादिसङ्ख्या न वस्तुगतभेदाभेदलक्षणा, दाराः सिकता वर्षा इत्यादावसत्यपि वस्तुतो भेदे बहुत्वसङ्ख्या परिवर्त्तते । तथा वनं त्रिभुवनं जगत् षण्णगरीत्यादिष्वसत्यभेदेऽर्थस्यैकत्वसङ्ख्या व्यपदिश्यत इति । अतो नासिद्धता हेतोः । नाप्यनैकान्तिकः सर्वस्य सर्वधर्मत्वप्रसङ्गात् । सपक्षे भावाच्च न विरुद्धः ॥ ११३४ ॥
“नन्वि”त्यादिना कुमारिलमतेन हेतोरसिद्धतामाशङ्कते ।
ननु व्यक्तौ च जातौ च दारादिश्चेत्प्रयुज्यते ।
व्यक्तेरवयवानां वा सङ्ख्यामादाय वर्त्तते ॥ ११३५ ॥
वनशब्दः पुनर्व्यक्तीर्जातिसङ्ख्याविशेषिताः ।
बह्वीराहाथवा जातिं बहुव्यक्तिसमाश्रिताम् ॥ ११३६ ॥
सह्याह—दारादिशब्दः कदाचिज्जातौ प्रसज्यते कदाचिद्व्यक्तौ । तत्र यदा जातौ तदा व्यक्तिगतां सङ्ग्यामादाय वर्त्तते, व्यक्तयश्च बह्व्यो योषितः, यदा व्यक्तौप्रयुज्यते तदा तद्व्यक्त्यवयवानां पाणिपादादीनां बहुत्वसङ्ख्यामादाय वर्त्तते । वनशब्देन त्वाम्रखदिरपलाशादिविलक्षणव्यक्तयस्तत्समवेतवृक्षत्वजातिगतसङ्ख्याविशिष्टाः प्रतिपाद्यन्ते, तेन वनमित्येकवचनं भवति । जातिगतैकसङ्ख्याविशिष्टद्रव्याभिधानात् । अथवा—धवादिव्यक्तिसमाश्रिता जातिरेव वनशब्देनोच्यते, तेनैकवचनं भवति,जातेरेकत्वादिति ॥ ११३५ ॥ ११३६ ॥
“नन्वि”त्यादिना प्रतिविधत्ते ।
ननु चैतेन विधिना सर्वमेकं वचो हतम् ।
नान्यत्रास्ति विवक्षा चेत्सैवास्त्वस्य निबन्धनम् ॥ ११३७ ॥
एतेन यथोक्तेन विधिना सर्वं—वृक्ष इत्याद्येकवचनं—हतम्—उत्सन्नं स्यात्, सर्वत्रैवास्य न्यायस्य तुल्यत्वात् । तथा ह्यत्रापि शक्यमेवं वक्तुम्—तत्र व्यक्तौ च जातौ च वृक्षादिश्चेत्प्रयुज्यत इत्यादि । अथ मतम्—अन्यत्र—वृक्षादौ, व्यक्तेरवयवानां च सङ्ख्याविवक्षा नास्तीति, यद्येवं न तर्हि वस्तुगतान्वयाद्यनुविधायिनीसङ्ख्य, विवक्षाया एवान्वयव्यतिरेकानुविधानात् । ततश्च सैव विवक्षा दारा इत्यादिष्वस्य बहुवचनस्य निबन्धनमस्तु भेदाभावेप्येकमपि वस्तु बहुत्वेन विवक्ष्यच इत्यतो नासिद्धता हेतोः ॥ ११३७ ॥
यच्चोक्तं वनशब्दो जातिसङ्ख्याविशेषिता व्यक्तिराहेति, तत्राह—“जाते”रित्यादि ।
जातेरपि न सङ्ख्याऽस्ति भावे वा तद्विशेषिताः ।
कथं सम्बद्धसम्बन्धाद्यदि सम्बन्धतोऽपि वा ॥ ११३८ ॥
नहि जातेः सङ्ख्यास्ति, द्रव्यसमाश्रितत्वात्तस्याः । अथेयं वैशेषिकप्रक्रिया नाश्रीयते, तदा भावे वा सङ्खायास्तया कथं वा धवादिव्यक्तयो विशेषिताः सिद्ध्यन्ति । स्यादेतत्—सम्बन्धसम्बन्धात्तत्सम्बन्धाद्वा सिद्ध्यन्ति । तथाहि—यदा जातेर्व्यतिरेकिणी सङ्ख्या तदैकत्वसङ्ख्यासम्बद्धया जात्या धवादिव्यक्तीनां सम्बन्धात्पारम्पर्येण तया धवादिव्यक्तयो विशेष्यन्ते, यदा तु जातेरव्यतिरिक्तैव सङ्ख्या तदा साक्षादेव सम्बन्धात्तया विशेष्यन्त इत्यतो जातिसङ्ख्याविशेषिताः सिध्यन्ति ॥ ११३८ ॥
“यद्येव”मित्यादिना प्रतिविधत्ते ।
यद्येवमभिधीयेत वनमेकोऽपि पादपः ।
बहवोऽपि हि कथ्यन्ते सम्बन्धादेव सोऽस्ति च ॥ ११३९ ॥
यदि सम्बन्धसम्बन्धात्सम्बन्धतो वा धवादिव्यक्तिषु वनशब्दस्य प्रवृत्तिस्तदैकोऽपि पादपो वनमित्येवमुच्येत, प्रवृत्तिनिमित्तस्य विद्यमानत्वात् । तथाहि—बहवोऽपि धवादयो जातिसङ्ख्यासम्बन्धादेव वनमित्युच्यन्ते नान्यतः, स च सम्बन्धएकस्मिन्नपि पादपेऽस्तीति किमिति न तथोच्येत ॥ ११३९ ॥
अथवा जातिं बहुव्यक्तिसमाश्रितामित्यत्राह—“बहुव्यक्त्याश्रिते”त्यादि ।
बहुव्यक्त्याश्रिता या च सैवैकस्यामपि स्थिता ।
तन्निमित्तस्य तुल्यत्वात्तत्रापि वनधीर्भवेत् ॥ ११४० ॥
अस्मिन्नपि हि पक्षे एकस्यापि तरोर्वनमित्यभिधानं स्यात् । तथाहि—येनासौ वनशब्देन जातिर्बहुव्यक्त्याश्रिताऽभिधीयते । सैवैकस्यामपि धवादिव्यक्तौ व्यवस्थिता, ततश्च तस्या वनधियो निमित्तस्य सर्वत्र तुल्यत्वात्तत्रैकत्रापि पादपे किमिति वनधीर्न भवेत् ॥ ११४० ॥
“अन्वयव्यतिरेकाभ्या”मित्यादिना हेतुत्वमुपसंहरति ।
अन्वयव्यतिरेकाभ्यामेकादिवचसस्ततः ।
नियमोऽयं विवक्षातो नार्थात्तद्व्यभिचारतः ॥ ११४१ ॥
“तद्व्यभिचारत” इति । तस्यार्थस्य व्यभिचारात् ॥ ११४१ ॥
लिङ्गसङ्ख्यादिसम्बन्धो न चापोहस्य विद्यत इत्यत्रादिग्रहणेन यः क्रियाकालादिसम्बन्धो निर्दिष्टस्तत्राह—“क्रिये”त्यादि ।
क्रियाकालादियोगोऽपि पूर्वमेव निराकृतः ।
तस्मात्साङ्केतिका एते न व्यक्तिष्वपि भाविनः ॥ ११४२ ॥
पूर्वमेव कर्मकालादिपदार्थनिषेधे क्रियादियोगस्य निराकृतत्वादयुक्तमेषामपि वस्तुधर्मत्वम् । सङ्केते भवाः साङ्केतिकाः ॥ ११४२ ॥
भवतु वा वस्तुधर्मत्वमेषाम्, तथापि प्रतिबिम्बलक्षणस्यापोहस्य भ्रान्तैर्बाह्यव्यक्तिरूपत्वेनावसितत्वादध्यवसायवशाद्व्यक्तिद्वारको लिङ्गसङ्ख्यादिसम्बन्धो भविष्यति, तेन, यदुक्तम्— व्यक्तेश्चाव्यपदेशत्वात्तद्द्वारेणापि सास्त्यसौ इति तदनैकान्तिकं संवृतिपक्षे चासिद्धमिति दर्शयति—“व्यक्तिरूपावसायेने”त्यादि ।
व्यक्तिरूपावसायेन यदि वाऽपोह उच्यते ।
तल्लिङ्गाद्यभिसम्बन्धो व्यक्तिद्वारोऽस्य विद्यते ॥ ११४३ ॥
“अपोह उच्यत” इति । शब्देनेति शेषः । तदिति । तस्मात् । “अस्ये”ति । अपोहस्य ॥ ११४३ ॥
आख्यातेषु न चान्यस्येत्यादावाह—“अभिप्रेते निवेशार्थ”मित्यादि ।
अभिप्रेते निवेशार्थं बुद्धेः शब्दः प्रयुज्यते ।
अनभीष्टव्युदासोऽतः सामर्थ्येनैव सिद्ध्यति ॥ ११४४ ॥
आख्यातेष्वन्यनिवृत्तिर्न सम्प्रतीयत इत्यसिद्धम्—तथाहि—जिज्ञासिते कस्मिंश्चिदर्थे श्रोतुर्बुद्धेर्निवेशाय शब्दः प्रयुज्यते व्यवहर्तृभिर्न व्यसनितया, तेनाभीष्टार्थप्रतिपत्तौ सामर्थ्यादनभीष्टव्यवच्छेदः प्रतीयत एव । अभीष्टानभीष्टयोरन्योन्यव्यवच्छेदरूपत्वात् ॥ ११४४ ॥
सर्वमेवाभीष्टमिति चेदाह—“सर्वमेवे”त्यादि ।
सर्वमेव नचाभीष्टं सर्वार्थानियमाप्तितः ।
तत्पचत्यादिशब्दानां विनिवर्त्त्यं परिस्फुटम् ॥ ११४५ ॥
यदि सर्वमेवाभीष्टं स्यात्तदा प्रतिनियतः शब्दार्थो न प्राप्नोति, ततश्च या कस्यचिदर्थपरिहारेण श्रोतुः क्वचिदर्थे शब्दात्प्रवृत्तिः सा न प्राप्नोति, तस्मात्सर्वमेवाभीष्टमित्येतदयुक्तम् । तस्मात् पचतीत्यादिशब्दानामनभीष्टव्यवच्छेदः सामर्थ्यात्— तत्स्फुटतरमवगम्यत एव ॥ ११४५ ॥
“तथाही”त्यादिना तमेव सामर्थ्यगम्यमनभीष्टव्यवच्छेदं दर्शयति ।
तथाहि पचतीत्युक्ते नोदासीनोऽवतिष्ठते ।
भुङ्क्ते दीव्यति वा नेति गम्यतेऽन्यनिवर्त्तनम् ॥ ११४६ ॥
औदासीन्यमतश्चैवमस्त्यन्यच्च क्रियान्तरम् ।
पर्युदासात्मकापोह्यं नियतं यद्यदिष्यते ॥ ११४७ ॥
तस्मात्पचतीत्येतस्यौदासीन्यमन्यच्च भुङ्क्ते दीव्यति चेत्यादिक्रियान्तरपर्युदासात्मकमपोह्यमस्ति, तेन, यदुक्तं—पर्युदासरूपं हि निषेध्यं तन्न विद्यत इति तदसिद्धम् ।“पर्युदासात्मकापोह्य”मिति । पर्युदासात्मकं च तदपोह्यं चेति विग्रहः । “नियतं यद्यदिष्यत” इति । तस्य तस्यौदासीन्यादिपर्युदासात्मकमपोह्यमस्तीति सम्बन्धः ॥ ११४६ ॥ ॥ ११४७ ॥
यच्चोक्तं पचतीत्यनिषिद्धं तु स्वरूपेणैव तिष्ठतीति । तत्र स्ववचनव्याघातं परस्य प्रतिपादयन्नाह—“पचती”त्यादि ।
पचतीत्यनिषिद्धं तु स्वरूपेणैव तिष्ठति ।
इत्येतच्च भवद्वाक्यं परस्परपराहतम् ॥ ११४८ ॥
अन्यरूपनिषेधोऽयं स्वरूपेणैव तिष्ठति ।
इत्यन्यथा निरर्थं स्यात्प्रयुक्तमवधारणम् ॥ ११४९ ॥
कथं पुनरेतत्परस्परपराहतमित्याह—“अन्यरूपनिषेधोऽय”मित्यादि । पचतीत्येतस्यार्थस्वरूपेणैव तिष्ठतीत्यनेनावधारणेनाचरितरूपं दर्शयता पचतीत्येतस्यान्यरूपनिषेधेनात्मस्थितिरिति दर्शितं भवति । अन्यथा स्वरूपेणैवेत्येतदेवावधारणं भवत्प्रयुक्तमनर्थकं स्यात्, व्यवच्छेद्याभावात् ॥ ११४८ ॥ ११४९ ॥
यदुक्तं— साध्यत्वप्रत्ययश्चात्रेत्यादि, तत्राह—“निष्पन्नत्व”मित्यादि ।
निष्पन्नत्वमपोहस्य निरुपाख्यस्य कीदृशम् ।
गगनेन्दीवरादीनां निष्पत्तिर्नहि काचन ॥ ११५० ॥
वस्त्वित्यध्यवसायाच्चेत्सोपाख्यात्वेन भात्यसौ ।
ततः किं तुल्यधर्मत्वं वस्तुभिश्चास्य गम्यते ॥ ११५१ ॥
यद्यपोहो भवता निरुपाख्यस्वभावतया गृहीतस्तत्कथमिदमुच्यते निष्पन्नत्वादिति, नह्याकाशोत्पलादीनां काचिदस्ति निष्पत्तिः । सर्वोपाख्याविरहलक्षणत्वात्तेषां स्यादे तद्यद्यप्यसौ निरुपाख्यः परमार्थतस्तथापि भ्रान्तैः प्रतिपत्तृभिर्बाह्यवस्तुरूपतया व्यवसितत्वादसावपोहः सोपाख्यत्वेन भातीति । अत्राह—“ततः कि”मिति । यदि नामासौ सोपाख्यत्वेन भाति तथाऽपि किमत्र प्रकृतार्थानुकूलं जातमिति । अत्र पर आह—“तुल्यधर्मत्वं वस्तुभिश्चास्य गम्यत” इति । तेन, यथा वस्तु निष्पन्नरूपं प्रतीयते तथाऽपोहोऽपि वस्तुभिस्तुल्यधर्मतया ख्यातो निष्पन्न इव प्रतीयत इति सिद्धं निष्पन्नत्वादिति वचनम् ॥ ११५० ॥ ११५१ ॥
यद्येवं भवतैव साध्यत्वप्रत्ययस्य भूतादिप्रत्ययस्य च निमित्तमुपदर्शितमिति नच वक्तव्यमेतन्निर्निमित्तं प्रसज्यत इति, तदेतद्दर्शयन्नाह—“साध्यत्वप्रत्ययस्तस्मा”दित्यादि ।
साध्यत्वप्रत्ययस्तस्मात्तथाभूतादिरूपणम् ।
वस्तुभिस्तुल्यरूपत्वात्तन्निमित्तं प्रसज्यते ॥ ११५२ ॥
“तन्निमित्त”मिति । वस्तुभिस्तुल्यधर्मत्वावसायनिमित्तम् ॥ ११५२ ॥
यदुक्तम्— विध्यादावर्थराशौ च नान्यापोहनिरूपणम् इति, तत्राह—“विध्यादा”वित्यादि ।
विध्यादावर्थराशौ च नास्तितादि निषिध्यते ।
सामर्थ्यान्न तु शब्देन यदेव न विवक्षितम् ॥ ११५३ ॥
विध्यादेरर्थस्य निषेधादिव्यावृत्ततयाऽवस्थितत्वात्तत्प्रतिपत्तौ सामर्थ्यादविवक्षितं नास्तितादि निषिध्यत इत्यस्त्येवात्राप्यन्यापोहनिरूपणम् ॥ ११५३ ॥
नञश्चापि नञा युक्तावित्यत्राह—“नञश्चापी”त्यादि ।
नञश्चापि नञा युक्तावपोहस्तादृशो भवेत् ।
तच्चतुष्टयसद्भावे यादृशः सम्प्रतीयते ॥ ११५४ ॥
नञा योगे नञो ह्यर्थो गम्यते कस्यचिद्विधिः ।
तृतीयेन नञा तस्य विरहः प्रतिपाद्यते ॥ ११५५ ॥
निषेधायापरस्तस्य तुरीयो यः प्रयुज्यते ।
तस्मिन्विवक्षिते तेन ज्ञाप्यतेऽन्यनिवर्त्तनम् ॥ ११५६ ॥
“तच्चतुष्टयसद्भाव” इति । नञ्चतुष्टयसद्भावे । कीदृशोऽसौ प्रतीयत इत्याह—“नञा योग” इत्यादि । अर्थशब्दो विधिशब्देन सम्बन्धनीयः । “तस्य विरह” इति । तस्य विधेर्निषेधः । “निषेधायापरस्तस्ये”ति । तृतीयनञ्प्रतिपादितस्य विधिरहितस्य निषेधायेत्यर्थः । “तुरीय” इति । चतुर्थः । चतुरस्थयतावाद्यक्षरलोपश्चेत्यनेन पूरणार्थे यत्प्रत्ययविधानात् । “तस्मिन्विवक्षित” इति । तस्मिंश्चतुर्थे नञि प्रयुक्ते इत्यर्थः ।“तेने”ति । चतुर्थेन नञा । “ज्ञाप्यतेऽन्यनिवर्त्तन”मिति । तृतीयनञ्प्रतिपादितनिषेधविवेकेन विधिरूपस्यार्थप्रतिबिम्बकस्य प्रतिपादनात् ॥ ११५४ ॥ ११५५ ॥ ११५६ ॥
एतदेवोदाहरणेन स्फुटीकुर्वन्नाह—“नासौ न पचती”त्यादि ।
नासौ न पचनीत्युक्ते गम्यते पचतीति हि ।
औदासीन्यादियोगश्च तृतीयेन हि गम्यते ॥ ११५७ ॥
तुर्ये तु तद्विविक्तोऽसौ पचतीत्यवसीयते ।
तेनात्र विधिवाक्येन सममन्यनिवर्त्तनम् ॥ ११५८ ॥
“तद्विविक्तोऽसा”विति । औदासिन्यादिविविक्तः । “विधिवाक्येन सममन्यनिवर्त्तन”मिति । यथा पचतीत्यादौ विधिवाक्ये सामर्थ्यादौदासिन्यविनिवृत्तिरिष्यते तथा द्वितीयेऽपि नञीति सिद्धमत्राप्यस्य निवर्त्तनम् । स्पष्टार्थं तु नञ्चतुष्टयोदाहरणम् ॥ ११५७ ॥ ११५८ ॥
चादीनामपि नञ्योगो नैवास्तीत्यत्राह—“समुच्चयादि”रित्यादि ।
समुच्चयादिर्यश्चार्थः कश्चिच्चादेरभीप्सितः ।
तदन्यस्य विकल्पादेर्भवेत्तेन व्यपोहनम् ॥ ११५९ ॥
आदिशब्देन वाशब्दस्य विकल्पोऽर्थः, अपिशब्दस्य पदार्थसम्भावनान्ववसर्गादयः, तुशब्दस्य विशेषणम्, एवकारस्यावधारणमित्यादेर्ग्रहणम् । “तदन्यस्ये”ति । तस्मात्समुच्चयादेरन्यस्य । तेन—चादिना ॥ ११५९ ॥
वाक्यार्थेऽन्यनिवृत्तिश्च व्यपदेष्टुं न शक्यत इत्यत्राह—“वाक्यार्थ” इत्यादि ।
वाक्यार्थेऽन्यनिवृत्तिश्च सुज्ञातैव तथा ह्यसौ ।
पदार्था एव सहिताः केचिद्वाक्यार्थ उच्यते ॥ ११६० ॥
तेषां च ये विजातीयास्तेऽपोह्याः सुपरिस्फुटाः ।
वाक्यार्थस्यापि ते चैव तेभ्योऽन्यो नैव सोऽस्ति हि ॥ ११६१ ॥
“सहिता” इति । परस्परं कार्यकारणभावेन सम्बद्धा इत्यर्थः । “तेषा”मिति । पदार्थानाम् । ननु पदार्थोऽन्योऽन्यस्तुवाक्यार्थः, तत्कथमुच्यते य एव पदार्थानाम पोह्या वाक्यार्थस्यापि त एवेत्यत आह—“तेभ्योऽन्यो नैव सोऽस्ती”ति । नहि पदार्थव्यतिरिक्तो निरवयवः शबलात्मा वा कल्माषवर्णप्रख्यो वाक्यार्थोऽस्ति, उपलब्धिलक्षणप्राप्तस्य तादृशस्यानुपलब्धेरिति भावः ॥ ११६० ॥ ११६१ ॥
एतदेवोदाहरणेन स्फुटयन्नाह—“चैत्रे”त्यादि ।
चैत्र गामानयेत्यादिवाक्यार्थेऽधिगते सति ।
कर्तृकर्मान्तरादीनामपोहो गम्यतेऽर्थतः ॥ ११६२ ॥
नह्यस्मिन्वाक्ये चैत्रादिपदार्थव्यतिरेकेण बुद्धावन्योऽर्थः प्रतिवर्त्तते । चैत्रे ह्यर्थगते च सामर्थ्यादचैत्रादिव्यवच्छेदो गम्यते । अन्यथा यद्यन्यकर्त्रादिव्यवच्छेदो नाभीष्टः स्यात्तदा चैत्रादीनामुपादानमनर्थकमेव स्यात् । ततश्च न किञ्चित्कश्चिद्व्याहरेदिति निरीहमेव जगत्स्यात् ॥ ११६२ ॥
अनन्यापोहशब्दादौ वाच्यं न च निरूप्यत इत्यत्राह—“अनन्यापोहे”त्यादि ।
अनन्यापोहशब्दादौ न विधिर्व्यवसीयते ।
परैरभिमतः पूर्वं जात्यादेः प्रतिषेधनात् ॥ ११६३ ॥
नह्यत्र भवदभिमतो जात्यादिलक्षणो विधिरूपः शब्दार्थः परमार्थतोऽवसीयते, तस्य जात्यादेः पूर्वं—सामान्यपरीक्षादौ विस्तरेण निषिद्धत्वात् ॥ ११६३ ॥
किं तर्ह्यवसीयत इत्याह—“किन्त्वि”त्यादि ।
किन्तु विध्यवसाय्यस्माद्विकल्पो जायते ध्वनेः ।
पश्चादपोहशब्दार्थनिषेधे जायते मतिः ॥ ११६४ ॥
यद्यपोहशब्दार्थनिषेधे मतिर्जायत इतीष्यते, न तर्ह्यपोहशब्दार्थोऽभ्युपगन्तव्यः, तस्य निषिद्धत्वादित्यत आह—“स त्वसंवादकस्तादृगि”ति ।
स त्वसंवादकस्तादृग्वस्तुसम्बन्धहानितः ।
न शाब्दाः प्रत्ययाः सर्वे भूतार्थाध्यवसायिनः ॥ ११६५ ॥
“स” इति । अनन्यापोहशब्दादिः । “असंवादक” इति । न संवदतीत्यसंवादकः, न विद्यते वा संवादोऽस्येत्यसंवादकः । कस्मात् ? वस्तुसम्बन्धहानितः तथाभूतवस्तुसम्बन्धाभावात् । पूर्वं हि जात्यादिलक्षणस्य शब्दार्थस्य वस्तुनो निषिद्धत्वात् । यद्येवं कथं तर्ह्यनन्यापोहशब्दादिभ्योऽपोहशब्दार्थनिषेधे मतिर्जायत इत्याह—“न” “शाब्दा” इति । वितथविकल्पाभ्यासवासनाप्रभवतया हि केचन शाब्दाः प्रत्यया असद्भूतार्थाभिनिवेशिनो जायन्त एवेति न तद्वशाद्वस्तूनां सदसत्ता सिद्ध्यति ॥ ११६५ ॥
यदुक्तं प्रमेयज्ञेयशब्दादेरित्यादि, तत्राह—“प्रमेये”त्यादि ।
प्रमेयज्ञेयशब्दादौ कस्यापोह्यं न विद्यते ।
नह्यसौ केवलोऽकाण्डे प्रेक्षावद्भिः प्रयुज्यते ॥ ११६६ ॥
कस्य प्रमेयादिशब्दस्यापोह्यं नास्तीत्यभिधीयते, यदि तावदवाक्यस्थं केवलं पदान्तरसम्बन्धरहितं प्रमेयादिशब्दमाश्रित्योच्यते, तदा सिद्धसाध्यता, केवलस्य प्रयोगाभावादेव निरर्थकत्वात् । तद्दर्शयति—“नह्यसौ केवलोऽकाण्ड” इति । “केवल” इति । अन्यशब्दरहितः । “अकाण्ड” इति । प्रस्तावमन्तरेण । यतः श्रोतृजनानुग्रहाय प्रेक्षावद्भिः शब्दः प्रयुज्यते, न व्यसनितया, नच केवलेन सता श्रोतुरेकस्मिन् सन्देहविपर्यासनिवृत्तिलक्षणोऽनुग्रहः कृतो भवेत् । तथाहि—यदि श्रोतुः क्वचिदर्थे समुत्पन्नौ संशयविपर्यासौ निवर्त्त्य निःसन्दिग्धं प्रत्ययमुत्पादयेत्प्रतिपादकः, एवं तेनान्यानुग्रहः कृतो भवेत् । नच केवलेन प्रयुक्तेन तथाऽनुग्रहः शक्यते वक्तुम् ॥ ११६६ ॥
तस्मात्संशयादिनिवर्त्तने निश्चयोत्पादने च श्रोतुरनुग्रहात् शब्दप्रयोगसाफल्यमिति वाक्यस्थस्यैवास्य प्रयोग इति दर्शयति—“किन्त्वि”त्यादि ।
किन्त्वारेकविपर्याससम्भवे सति कस्यचित् ।
क्वचित्तद्विनिवृत्त्यर्थं धीमद्भिः स प्रयुज्यते ॥ ११६७ ॥
निःसन्देहविपर्यासप्रत्ययोत्पादनादतः ।
तेनैव तैः प्रयुक्तेन साफल्यमनुभूयते ॥ ११६८ ॥
आरेकः—संशयः । “कस्यवि”दिति । श्रोतुः । “क्वचि”दिति—अर्थे । “तद्विनिवृत्त्यर्थ”मिति । तयोरारेकविपर्यासयोर्विनिवृत्त्यर्थम् । “तेने”ति । ज्ञेयादिपदेन । “तै”रिति । प्रेक्षावद्भिः ॥ ११६७ ॥ ११६८ ॥
अथ वाक्यस्थमेव ज्ञेयादिशब्दमधिकृत्योच्यते, तदसिद्धमिति दर्शयति—“यत्तत्रे”ति ।
यत्तत्र जडचेतोभिराशङ्कास्पदमिष्यते ।
तदेव क्षिप्यते तेन विफलोच्चारणाऽन्यथा ॥ ११६९ ॥
किञ्चिद्ध्यशङ्कमानोऽसौ किमर्थं परिपृच्छति ।
अतत्संस्कारकं शब्दं ब्रुवन्वा स्वस्थधीः कथम् ॥ ११७० ॥
तत्र हि वाक्यस्थेन प्रमेयादिशब्देन यदेव जडचेतोभिः—मन्दमतिभिराशङ्क्यते तदेव निवर्त्यत इत्यतोऽसिद्धमेतत्प्रमेयादिशब्दानां निवर्त्त्यं नास्तीति । “अन्यथे”ति । यदि जडधीभिराशङ्कितं न निवर्त्तयेदित्यर्थः । स्यादेतत्—न हि श्रोत्रा किञ्चिच्छङ्कितमित्याह—“किञ्चिद्धी”त्यादि । यदि हि श्रोता न क्वचिदर्थे संशेते तत्किमिति परस्मादुपदेशमपेक्षते निश्चयार्थं हि परं पृच्छति, अन्यथोन्मत्तः स्यात् । स्यादेतत् यदि नाम श्रोतुराशङ्कास्थानमस्ति, तथापि तच्छब्देन न निवर्त्त्यतएवेत्याह—“अतत्संस्कारक”मित्यादि । तस्य श्रोतुरज्ञानादिनिवृत्तिलक्षणसंस्कारः—तत्संस्कारः —न विद्यते तत्संस्कारो यस्मिन्शब्द इति तदतत्संस्कारकं । शेषाद्विभाषेति कप् ।“ब्रुवन्नि”ति । प्रतिपादकः । “स्वस्थधीः कथ”मिति । उन्मत्तक एव स्यादित्यर्थः । श्रोतृसंस्कारायैव शब्दानां प्रयोगात् ॥ ११६९ ॥ ११७० ॥
अत्र कस्मिन्वाक्ये किं तन्मूढमतेराशङ्कास्थानं यन्निवर्त्त्यत इत्याह—“चक्षुर्ज्ञानादिविज्ञेय”मित्यादि ।
चक्षुर्ज्ञानादिविज्ञेयं रूपादीति यदुच्यते ।
तेनारोपितमेतद्धि केनचित्प्रतिषिध्यते ॥ ११७१ ॥
“तेने”ति । चक्षुर्ज्ञानादिविज्ञेयं रूपादीत्यनेन वाक्येन ॥ ११७१ ॥
किं तदारोपितमित्याह—“न चक्षुराश्रितेनैवे”त्यादि ।
न चक्षुराश्रितेनैव रूपं नीलादि वेद्यते ।
किन्तु श्रोत्राश्रितेनापि नित्येनैकेन चेतसा ॥ ११७२ ॥
श्रीत्राश्रितेनापि नित्येन चेतसा नीलादिरूपं वेद्यत इत्येवं यन्मन्दधिया॥॥ समारोपितं तच्चक्षुविञ्ज्ञानविज्ञेयं रूपमित्यनेन वाक्येन निषिध्यते । चक्षुराश्रितविज्ञानविज्ञेयमेव रूपं न श्रोत्रादिविज्ञानविज्ञेयमित्यर्थः ॥ ११७२ ॥
क्षणिकत्वादिरूपेण वि(किं ?)ज्ञेया इति विभ्रमे ।
सर्वज्ञज्ञानविज्ञेया धर्माश्चैते भवन्ति किम् ॥ ११७३ ॥
अभावा अपि किं ज्ञेया न ज्ञानं जनयन्ति ये ।
इत्यादिविभ्रमोद्भूतौ विज्ञेयपदमुच्यते ॥ ११७४ ॥
एवं सर्वधर्माः किं क्षणिकत्वादिरूपेण विज्ञेया ? आहोस्विन्न ?, किंवा सर्वज्ञचेतसा ग्राह्या ? उताहो न ?, अभावा हि सर्वोपाख्याविरहलक्षणा ये ज्ञानमपि न जन यन्ति ते किं विज्ञेया इति संशयोद्भूतौ सत्यामिदमुच्यते—क्षणिकत्वादिरूपेण ज्ञेयाःसर्वधर्माः, ते च सर्वज्ञज्ञानविज्ञेया, अभावा विज्ञेया इति । अत्र यदक्षणिकत्वादिना ज्ञेयत्वादिरूपमारोपितं धर्मेषु तन्निवर्त्त्यते ॥ ११७३ ॥ ११७४ ॥
कथं तद्वचनमात्रेण निवर्त्तयितुं शक्यत इत्येतदाह—“तादृगि”त्यादि ।
तादृग्ज्ञेयत्वमस्तेषां क्षणिकत्वादिसाधनात् ।
ज्ञेयोऽभावोऽपि संवृत्त्या स्थापनादमुनाऽऽत्मना ॥ ११७५ ॥
“तादृगि”ति । क्षणिकत्वादिरूपेण तस्य प्रमाणसिद्धत्वात् । अथाभावस्य कथं ज्ञेयत्वं सिद्धमित्यत आह—“ज्ञेय” इत्यादि । “अमुनाऽऽत्मने”ति । अभावरूपेण । अवस्तूनामपि कथञ्चिद्बुद्ध्या व्यवस्थापनादस्ति ज्ञेयत्वम्, अन्यथा तत्र व्यवहार एव न स्यादिति भावः ॥ ११७५ ॥
ननु च किमनित्यत्वेन शब्दाः प्रमेया आहोस्विन्नेति प्रस्तावे प्रमेया इति प्रयोगे तत्र यः प्रकरणानभिज्ञस्तस्यापि प्रतिपत्तुः प्रमेया इति केवलशब्दश्रवणात्प्लवमानरूपा शब्दादिषु बुद्धिरुपजायत एव, तद्यदि केवलस्य शब्दस्यार्थो नास्त्येव तत्कथमर्थप्रतिपत्तिर्भवतीत्यत आह—“प्रमेयज्ञेये”त्यादि ।
प्रमेयज्ञेयशब्दादेः प्रतियत्तिनिमित्तताम् ।
इत्थं वाक्यस्थितस्यैव दृष्ट्वा कालान्तरेष्वपि ॥ ११७६ ॥
केवलस्योपलम्भे या प्रतीतिरुपजायते ।
प्लवमानार्थभेदेषु सा तद्वाक्यानुसारतः ॥ ११७७ ॥
घटादिभ्योऽपि शब्देभ्यः साऽस्त्येव च तथाविधा ।
तस्माद्धटादिशब्देन ज्ञेयादिध्वनयः समाः ॥ ११७८ ॥
अयमत्र समुदायार्थः—नैव केवलशब्दश्रवणादर्थप्रतिपत्तिरस्ति, किन्तु वाक्येषूपलब्धस्यार्थवतः शब्दस्य सादृश्येनापहृतबुद्धेः केवलशब्दश्रवणादर्थप्रतिपत्त्यभिमानः । तथाहि—येष्वेव वाक्येषु प्रमेयशब्दमुपलब्धवान्श्रोता तदर्थेष्वेव सा बुद्धिरप्रतिष्ठितार्था प्लवमानरूपा समुपजायते । तच्च घटादिशब्दानामपि तुल्यम् । तथाहि—किङ्घटेनोदकमानयान्युताञ्जलिनेति प्रस्तावे घटेनेति प्रयोगे प्रस्तावानभिज्ञस्य यावत्सु वाक्येषु घटेनेति प्रयोगो दृष्टस्तावतामर्थेष्वाकाङ्क्षावती पूर्ववाक्यानुसारादेव प्रतिपत्तिर्भवति ( इति ) । तस्माद्यथाऽर्थवादिशब्दा विशिष्टार्थवचनास्तथा प्रमेयादिशब्दा अपीति दर्शयति—“तस्मादि”त्यादि ॥ ११७६ ॥ ११७७ ॥ ११७८ ॥
यदुक्तमपोह्यकल्पनायां चेत्यादि तत्राह—“अपोह्ये”त्यादि ।
अपोह्यकल्पनायां च वरं वस्त्वेव कल्पितम् ।
इत्येतद्व्याहतं प्रोक्तं नियमेनान्यवर्जनात् ॥ ११७९ ॥
वस्त्वेव कल्प्यते तत्र यदेव हि विवक्षितम् ।
क्षेपो विवक्षितस्यातो न तु सर्वं विवक्षितम् ॥ ११८० ॥
“वस्त्वेवे”त्यादि । वस्त्वेव ह्यध्यवसायवशाच्छब्दार्थत्वेन कल्पितमस्माभिर्यदेव हि विवक्षितं, नावस्तु । तेन तत्प्रतीतौ सामर्थ्यादविवक्षितस्याक्षेपो व्यावृत्तिरवगम्यत एवेति नाव्यापिनी शब्दार्थव्यवस्था । यदेव च मूढमतेराशङ्कास्थानं तदेवाधिकृत्योक्तमाचार्येणअज्ञेयं कल्पितं कृत्वा तद्व्यवच्छेदेन ज्ञेयेऽनुमानमिति ॥ ११७९ ॥ ११८० ॥
ज्ञानाकारनिषेधाच्चेत्यादावाह—“ज्ञानाकारे”त्यादि ।
ज्ञानाकारनिषेधस्तु स्ववेद्यत्वान्न शक्यते ।
विद्यते हि निरालम्बमारोपकमनेकधा ॥ ११८१ ॥
ज्ञानस्यात्मगतः कश्चिन्नियतः प्रतिगोचरम् ।
अवश्याभ्युपगन्तव्यः स्वभावश्च स एव च ॥ ११८२ ॥
अस्माभिरुक्त आकारः प्रतिबिम्बं तदाभता ।
उल्लेखः प्रतिभासश्च सञ्ज्ञाभेदस्त्वकारणम् ॥ ११८३ ॥
“न शक्यत” इति । कर्तुमिति शेषः । कथं स्वसंवेद्यत्वं सिद्धं ज्ञानाकारस्येत्याह—“विद्यते ही”त्यादि । स्वप्नादिष्वर्थमन्तरेणापि निरालम्बनमागृहीतार्थाकारमारोपकं ज्ञानमागोपालमतिस्फुटमेव स्वसंवेदनप्रत्यक्षसिद्धम् । नच देशकालान्तरावस्थितोऽर्थस्तेन रूपेण संवेद्यत इति युक्तं वक्तुं, तस्य तद्रूपाभावात् । न चान्येन रूपेणान्यस्य संवेदनं युक्तमतिप्रसङ्गात् । किञ्चावश्यं तद्भवद्भिर्ज्ञानस्यात्मगतः कश्चिद्विशेषोऽर्थकृतोऽभ्युपगन्तव्यो येन बोधरूपतासाम्येऽपि प्रतिविषयं नीलस्यैव संवेदनं न पीतस्येति विभागेन विभज्यते ज्ञानम् । तदभ्युपगमे च सामर्थ्यात्साकारमेव ज्ञानमभ्युपगतंस्यात् । आकारव्यतिरेकेणान्यस्य स्वभावविशेषत्वेनावधारयितुमशक्यत्वात् । अतो भवता स्वभावविशेष इति स एव शब्दान्तरेणोक्तेः, अस्माभिस्त्वाकार उल्लेख इत्यादिना शब्देनेति केवलं नाम्नि विवादः ॥ ११८१ ॥ ११८२ ॥ ११८३ ॥
एवमित्यादिशब्दानामित्यादावाह—“एवमित्यादिशब्दाना”मित्यादि ।
एवमित्यादिशब्दानां नैवमित्यादि विद्यते ।
अपोह्यमिति विस्पष्टं प्रकारान्तरलक्षणम् ॥ ११८४ ॥
एवमेतन्नैवमिति प्रकारान्तरमारोपितमेवमित्यादिशब्दैर्व्यवच्छिद्यमानं स्फुटतरनवसीयत एवेति नाव्यापिता शब्दार्थव्यवस्थायाः ॥ ११८४ ॥
एवं कुमारिलेनोक्तं दूषणं प्रतिविहितम्, इदानीमुद्योतकरोक्तं प्रतिविधीयते । तत्र यदुक्तं सर्वशब्दस्य कश्चार्थो व्यवच्छेद्यः प्रकल्प्यते इति । तत्राह—“व्यवहारोपनीते चे”त्यादि ।
व्यवहारोपनीते च सर्वशब्देऽपि विद्यते ।
व्युदास्यं तस्य चार्थोऽयमन्यापोहोऽभिधित्सितः ॥ ११८५ ॥
अत्रापि ज्ञेयादिपदवत्केवलस्य सर्वशब्दस्याप्रयोगाद्वाक्यस्थस्यैव नित्यं प्रयोग इति यदेव मूढमतेराशङ्कास्थानं तदेव निवर्त्त्यमस्ति । “अभिधित्सित” इति । अभिधातुमिष्टः ॥ ११८५ ॥
कोऽसावर्थोऽभिधातुमिष्ट इत्याह—“सर्वो धर्मा” इत्यादि ।
सर्वे धर्मा निरात्मानः सर्वे वा पुरुषा गताः ।
सामस्त्यं गम्यते तत्र कश्चिदंशस्त्वपोह्यते ॥ ११८६ ॥
कोऽसावंशोऽपोह्यत इत्याह—“केचिदेवे”ति ।
केचिदेव निरात्मानो बाह्या इष्टा घटादयः ।
गमनं कस्यचिच्चैवं भ्रान्तिस्तद्विनिवर्त्तते ॥ ११८७ ॥
एकाद्यसर्वमिति चेदित्यादावाह “सर्वाङ्गप्रतिषेधश्चे”त्यादि ।
सर्वाङ्गप्रतिषेधश्च नैव तस्मिन्विवक्षितः ।
स्वार्थापोहप्रसङ्गोऽयं तस्मादज्ञतयोच्यते ॥ ११८८ ॥
यदि हि सर्वस्याङ्गस्य प्रतिषेधः तस्मिन्व्यवहारोपनीते वाक्यस्थे सर्वशब्दे विवक्षितः स्यात्तदा स्वार्थापोहः प्रसज्यते । यावता यदेव मूढधिया शङ्कितं तदेव निषिध्यत इति कुतः स्वार्थापवादित्वदोषप्रसङ्गः । एवं ह्यादिशब्देष्वपि वाच्यम् ११८८
यच्चोक्तं किम्भावोऽथवाऽभाव इत्यादि, तत्राह—“न भाव” इत्यादि ।
न भावो नापि चाभावोऽपृथगेकत्वलक्षणः ।
नाश्रितानाश्रितोऽपोहो नैकानेकश्च वस्तुतः ॥ ११८९ ॥
कस्माद्भावो न भवतीत्याह—“तथाऽसौ नास्ती”त्यादि ।
तथाऽसौ नास्ति तत्त्वेन यथाऽसौ व्यवसीयते ।
तन्न भावो न चाभावो वस्तुत्वेनावसायतः ॥ ११९० ॥
बाह्यरूपतयाऽसौ भ्रान्तैरवसीयते, न चासौ तथाऽवस्थित इत्यतो बाह्यरूपत्वाभावान्न भावः । अथाभावः कस्मान्न भवतीत्याह—“न चाभावो वस्तुत्वेनावसायत” इति । बाह्यरूपतया दर्शितत्वान्नैकान्तेनाभाव इत्यपि शक्यं वक्तुम् ॥ ११९० ॥
अथ पृथक्त्वैकत्वादिलक्षणः कस्मान्न भवतीत्याह—“भेदाभेदादय” इत्यादि ।
भेदाभेदादयः सर्वे वस्तुसत्परिनिष्ठिताः ।
निःस्वभावश्च शब्दार्थस्तस्मादेते निरास्पदाः ॥ ११९१ ॥
भेदाभेदादयः—व्यतिरेकाव्यतिरेकादयः । आदिशब्देनाश्रितत्वादयो गृह्यन्ते, नहि वस्तुगता एव धर्मास्तत्कथमपोहे कल्पनाशिल्पिघटितविग्रहे प्रतिष्ठां लभेरन् ।यच्चोक्तं—क्रियारूपत्वादपोहस्य विषयो वक्तव्य इति, तदसिद्धम्, शब्दवाच्यस्यापोहस्य प्रतिबिम्बात्मकत्वात् । तच्च प्रतिबिम्बकमध्यवसितबाह्यवस्तुरूपत्वान्न प्रतिषेधमात्रम् । अतएव किं गोविषयोऽथागोवषय इत्यस्य विकल्पद्वयस्यानुपपत्तिः, गोविषयत्वेनैव तस्य विधिरूपतयाऽप्यवसीयमानत्वात् ॥ ११९१ ॥
यच्चोक्तं— केन ह्यगोत्वमासक्तं गोर्येनैतदपोह्यत इति, तत्राह—“अन्यार्थविनिवृत्तिं चे”त्यादि ।
अन्यार्थविनिवृत्तिं च साक्षाच्छब्दः करोति नः ।
कृते स्वार्थाभिधाने तु सामर्थ्यात्साऽवगम्यते ॥ ११९२ ॥
न तदात्मा परात्मेति विस्तरेणोपपादितम् ।
परपक्षानभिज्ञेन तस्मादेतदिहोच्यते ॥ ११९३ ॥
केन ह्यगोत्वमासक्तं गोर्येनैतदपोह्यते ।
इति नैवाभिमुख्येन शब्देनैतदपोह्यते ॥ ११९४ ॥
यदि हि प्रधानेनान्यनिवृत्तिमेवशब्दः प्रतिपादयेत्तदैतत्स्यात्, यावताऽर्थप्रतिबिम्बकमेव यथोक्तं प्रथमतरः शब्दः करोति, तद्गतौ च सामर्थ्यादेव निवर्त्तनं गम्यत इति सिद्धान्तानभिज्ञतया यत्किञ्चिदभिहितमेतदिति सङ्क्षेपार्थः । शेषं सुबोधम् ॥ ११९२ ॥ ११९३ ॥ ११९४ ॥
व्यतिरेकादिविकल्पः पूर्वमेव निरस्तः । यदुक्तं— क्रिमयमपोहो वाच्य इत्यादि, तत्राह—“कतमेने”त्यादि ।
कतमेन च शब्देन वाच्यत्वं परिपृच्छ्यते ।
अपोहस्य किमेतेन यदि वा किं घटादिना ॥ ११९५ ॥
शब्दार्थः किमपोहो वा विधिर्वेति निरूपणे ।
अपोह इति भात्येतद्यत्तदेवं प्रतीयते ॥ ११९६ ॥
प्रतिबिम्बं हि शब्दार्थ इति साक्षादियं मतिः ।
जात्यादिविधिहानिस्तु सामर्थ्यादवगम्यते ॥ ११९७ ॥
घटवृक्षादिशब्दाश्च तदेव प्रतिबिम्बकम् ।
ब्रुवन्ति जननात्साक्षादर्थादन्यत्क्षिपन्ति तु ॥ ११९८ ॥
तस्मान्न विधिदोषोऽस्ति नानिष्टा च प्रसज्यते ।
अवाच्यपक्षदोषस्तु तदनङ्गीकृतेर्न नः ॥ ११९९ ॥
तत्रान्यापोहवाच्यत्वविकल्पो यद्यन्योपोहशब्दमधिकृत्याधिक्रियते तदा विधिरूपेणैवासौ तेन शब्देन वाच्य इत्यभ्युपगमान्नानिष्टापत्तिर्युक्ता । तथाहि किं विधिः शब्दार्थ आहोस्विदन्यापोह इति प्रस्तावेऽन्यापोहः शब्दार्थ इत्युक्ते प्रतिपत्तुर्यथोक्तम्प्रतिबिम्बलक्षणान्यपोहाध्यवसायी प्रत्ययः समुपजायते । अर्थात्तु विधिरूपशब्दार्थनिषेधः । अथ घटादिशब्दमधिकृत्य तत्रापि यथोक्तप्रतिबिम्बलक्षणापोहः साक्षाद्धटादिशब्दैरुपजन्यमानत्वाद्विधिरूपेण च तैः प्रतिपाद्यते, सामर्थ्यात्त्वन्यनिवृत्तेरधिगम इति नानिष्टापत्तिः । न चाप्यव्यवस्थादोषः । सामर्थ्यादन्यनिवृत्तेर्गम्यमानत्वादनुवाच्यतयाऽवाच्यपक्षस्यानङ्गीकृतत्वादेव न तत्पक्षभाविदोषोदयावकाश इति दर्शयति—“अवाच्यपक्षदोषस्त्वि”ति ॥ ११९५ ॥ ११९६ ॥ ११९७ ॥ ११९८ ॥ ॥ ११९९ ॥
अपि चैकत्वनित्यत्वेत्यादावाह—“एकत्वे”त्यादि ।
एकत्वनित्यतादिश्च कल्पितो न तु तात्त्विकः ।
तदत्र हासकरणं महाविद्वत्त्वसूचकम् ॥ १२०० ॥
यदि हि पारमार्थिकमेकत्वाद्युपवर्णनं कृतं स्यात्तदा हास्यकारणमेव स्याद्भवतः, यदाहि भ्रान्तिप्रतिपत्त्यनुरोधेन काल्पनिकमेतदाचार्येणोपवर्णितं तदा कथमिव हा स्यकारणमवतरति विदुषः । किन्तु भावानेव विवक्षितमर्थमविज्ञाय दूषयन्विदुषामतीवहास्यास्पदमुपजायते ॥ १२०० ॥
तस्माद्येष्वेव शब्देषु नञ्योग इत्यादावाह—“अवधारणसामर्थ्या”दित्यादि ।
अवधारणसामर्थ्यादन्यापोहोऽपि गम्यते ।
स्वात्मैव गम्यते यत्र विफलो नियमोऽम्यथा ॥ १२०१ ॥
न केवलं यत्र नञ्योगस्तत्रान्यनिवृत्त्यंशोऽवगम्यते, यत्रापि हि नञ्योगो नास्ति तत्रापि गम्यत एवेति स्ववाचैवैतद्भवता प्रतिपादितं स्वात्मैव गम्यत इत्यवधारणं कुर्वता । अन्यथा चावधारणवैयर्थ्यमेव स्यात् । यस्माद्यत्र स्वात्मैव गम्यते तत्रावधारणसामर्थ्यादन्यापोहोऽपि गम्यत इति स्फुटतरमेवावसीयते ॥ १२०१ ॥
“यस्य तर्ही”त्यादिना परोऽपोहशब्दार्थव्यवस्थाया अव्यापितामेवोद्भावयति ।
यस्य तर्हि न बाह्योऽर्थोऽप्यन्यथावृत्त इष्यते ।
वन्ध्यासुतादिशब्दस्य तेन क्वाऽपोह उच्यते ॥ १२०२ ॥
तथाहि यस्य वन्ध्यासुतादिशब्दस्य बाह्यसुतादिकं वस्त्वन्यव्यावृत्तमपोहाश्रयो नास्त्येव, तस्य किमधिष्ठानोऽपोहो वाच्य उच्यते, अवश्यं हि वस्तुनाधिष्ठानभूतेनापोहस्य भवितव्यम्, तस्यान्यापोढपदार्थाव्यतिरेकात् ॥ १२०२ ॥
“रूपाभावा”दित्यादिना प्रतिविधत्ते ।
रूपाभावादभावानां शब्दा जात्यादिवाचकाः ।
नाशङ्क्या एव सिद्धास्ते निर्भासस्यैव सूचकाः ॥ १२०३ ॥
वन्ध्यासुतादीनामभावानां रूपस्य कस्यचित्स्वभावस्याभावान्न तद्विषयाः शब्दा जात्यादिवाचकत्वेनाशङ्क्याः, वस्तुवृत्तीनां हि शब्दानां किंरूपमभिधेयमाहोस्वित्प्रतिबिम्बकमिति शङ्का स्यात्, अभावश्च वस्तुविवेकलक्षण एवेति तद्वृत्तीनां शब्दानां कथमिव वस्तुविषयत्वाशङ्का भवेत् । अतो निर्विषयत्वं स्फुटतरमेव । तव(च्च ?) शब्दानां प्रतिबिम्बकमात्रोत्पादादवसीयत एवेत्यस्थानमाशङ्कायाः ॥ १२०३ ॥
एतदेव दर्शयति—“अर्थे”त्यादि ।
अर्थशून्याभिजल्पोत्थवासनामात्रनिर्मितम् ।
प्रतिबिम्बं यदाभाति तच्छब्दैः प्रतिपाद्यते ॥ १२०४ ॥
शब्दैरिति । वन्ध्यासुतादिशब्दैः ॥ १२०४ ॥
ये पुनर्वस्तुविषयाः शब्दास्तेषां प्रतिबिम्बकमात्रवाचकत्वसिद्धौ प्रमाणयन्नाह—“तन्मात्रे”त्यादि ।
तन्मात्रद्योतकाश्चेमे साक्षाच्छब्दाः ससंशयाः ।
सङ्केतसव्यपेक्षत्वात्कल्पितार्थाभिधानवत् ॥ १२०५ ॥
ये सङ्केतसव्यपेक्षास्तेऽर्थशून्याभिजल्पाहितवासनामात्रनिर्मितविकल्पप्रतिबिम्बकमात्रावद्योतकाः, यथा वन्ध्यापुत्रादिशब्दाः कल्पितार्थाभिधायिनः सङ्केतसव्यपेक्षाश्च ससंशया विवादास्पदीभूता घटादयः शब्दा इति स्वभावहेतुः ॥ १२०५ ॥
एवं स्वपक्षं प्रसाध्य परपक्षनिषेधाय प्रमाणयन्नाह—“परोपगते”त्यादि ।
परोपगतभेदादिविधानप्रतिपादकाः ।
न चैते ध्वनयस्तस्मात्तद्वदेवेति गम्यताम् ॥ १२०६ ॥
भेदः—स्वलक्षणम्, आदिशब्देन जात्यादिपरिग्रहः । “तस्मादि”ति । सङ्केतसा“पेक्ष”त्वात् । “तद्वदेवे”ति । कल्पितार्थाभिधानवत् ॥ १२०६ ॥
द्वयोरपि हेत्वोरनैकान्तिकतां परिहरन्नाह—“सङ्केतासम्भव” इत्यादि ।
सङ्केतासम्भवो ह्यत्र भेदादौ साधितः पुरा ।
वैफल्यं च न तद्धेत्वोः सन्दिग्धव्यतिरेकिता ॥ १२०७ ॥
अशक्यसमयत्वादनन्यभाक्त्वाच्चेति पूर्वं स्वलक्षणादौ सङ्केतासम्भवस्य सङ्केतवैफल्यस्य च प्रसाधितत्वात् । तत्—तस्मात् । हेत्वोर्द्वयोर्न सन्दिग्धविपक्षव्यतिरेकितेति ॥ १२०७ ॥
“नन्वि”त्यादिना परः प्रथमे हेतावनैकान्तिकतामुद्भावयति ।
ननु चापोहपक्षेऽपि कथं सङ्केतसम्भवः ।
साफल्यं च कथं तस्य न द्वयोः स हि सिद्ध्यति ॥ १२०८ ॥
वक्तृश्रोत्रोर्न हि ज्ञानं वेद्यते तत्परस्परम् ।
सङ्केते न च तद्दृष्टं व्यवहारे समीक्ष्यते ॥ १२०९ ॥
यथाहि स्वलक्षणादौ सङ्केतासम्भवो वैफल्यं च तथाऽपोहपक्षेऽपि समानम्, ततश्चाकृतसमयत्वात्तन्मात्रद्योतकत्वमपि शब्दानां न युक्तमित्यनैकान्तिकता हेतोः ।“साफल्यं च कथ”मिति । सम्भवतीति शेषः । “तस्ये”ति । सङ्केतस्य । कथं पुनस्तत्रसङ्केतासम्भव इत्याह—“न द्वयोः स हि सिद्ध्यती”ति । हिशब्दो हेतौ । यस्मा त्प्रतिबिम्बात्मकोऽपोहः सङ्केतविषययोर्द्वयोर्वक्तृश्रोत्रोरेको न सिद्ध्यति । कस्मादित्याह —“न हि ज्ञानमि”त्यादि । प्रत्यात्मसंवेदनीयमेवार्वाग्दर्शनानां ज्ञानम् । न ह्यन्यदीयज्ञानमपरोऽपरदर्शनः संवेदयते । ज्ञानादव्यतिरिक्तश्च परमार्थतः प्रतिबिम्बात्मकलक्षणापोहः । ततश्च वक्तृश्रोत्रोर्द्वयोरपि कस्यचिदेकस्य सङ्केतविषयस्यार्थस्यासिद्धेः कुत्र सङ्केतः क्रियते गृह्यते वा । न ह्यसिद्धे वस्तुनि वक्ता सङ्केतं कर्तुमीशानोऽपि श्रोता गृहीतुमतिप्रसङ्गात् । तथाहि—श्रोता यत्प्रतिपद्यते स्वविज्ञानारूढमर्थप्रतिबिम्बकं न तद्वक्रा संवेद्यते । यच्च वक्रा संवेद्यते न तच्छ्रोत्रा, स्वस्य स्वस्यैवावभासस्य वेदनात् आनर्थक्यं च प्रतिपादयन्नाह—“सङ्केते न चे”त्यादि । यत्सङ्केतकाले प्रतिबिम्बकमनुभूतं श्रोत्रा वक्रा वा न तद्व्यवहारकालेऽनुभूयते । तस्य क्षणक्षयित्वेन चिरनिरुद्धत्वात् । यच्च व्यवहारकालेऽनुभूयते न तत्सङ्केतकाले दृष्टम् । अन्यस्यैव तदानीमनुभूयमानत्वात् । नचान्यत्र सङ्केतादन्यत्र व्यवहारो युक्तोऽतिप्रसङ्गादिति ॥ १२०८ ॥ १२०९ ॥
“स्वस्य स्वस्ये”त्यादिना प्रतिविधत्ते ।
स्वस्य स्वस्यावभासस्य वेदनेऽपि स वर्त्तते ।
बाह्यार्थाध्यवसाये यद्द्वयोरपि समो यतः ॥ १२१० ॥
नहि परमार्थतो ज्ञानाकारोऽपि शब्दानां वाच्यतयाऽभीष्टो येन तत्र सङ्केतासम्भवश्चोद्यते, यतः सर्व एवायं शाब्दो व्यवहारः स्वप्रतिभासानुरोधेन तैमिरिकद्वयद्विचन्द्रदर्शनवद्भ्रान्त इष्यते, केवलमर्थशून्याभिजल्पवासनाप्रबोधाच्छब्देभ्योऽर्थावसायिविकल्पमात्रोत्पादात् । तत्प्रतिबिम्बकं शब्दानां वाच्यमित्यभिधीयते जननात्, नत्वभिधेयतया । तत्र यद्यपि स्वस्य स्वस्यैवावभासस्य वक्तृश्रोतृभ्यां परमार्थतः संवेदनं, तथापि तैमिरिकद्वयस्येव भ्रान्तिबीजस्य तुल्यत्वाद्द्वयोरपि वक्तृश्रोत्रोर्बाह्यार्थाध्यवसायस्तुल्य एव । तथापि वक्तुरयमभिमानो वर्त्तते—यमेवाहमर्थं प्रतिपद्ये तमेवायं प्रतिपद्यत इति । एवं श्रोतुरपि योज्यम् । एकार्थाध्यवसायित्वं कथमनयोर्वक्तृश्रोत्रोः परस्परं विदितमिति चेत्, यदि नाम परमार्थतो न विदितम्, तथापि भ्रान्तिबीजस्य तुल्यत्वादस्त्येव परमार्थतः स्वप्रतिभासानुरोधेन तैमिरिकद्वयवद्भ्रान्त एवायं व्यवहार इति निवेदितमेतत् । तेनैकार्थाध्यवसायवशात्सङ्केतकरणमुपपद्यत एव ॥ १२१० ॥
अत्र दृष्टान्तमाह—“तिमिरोपहताक्षो ही”त्यादि ।
तिमिरोपहताक्षो हि यथा प्राह शशिद्वयम् ।
स्वसमाय तथा सर्वा शाब्दी व्यवहृतिर्मता ॥ १२११ ॥
“स्वसमाये”ति । आत्मतुल्यायापरस्मै तैमिरिकायेत्यर्थः ॥ १२११ ॥
नचाप्यानर्थक्यं सङ्केतस्येति दर्शयति—“व्यापकत्वं चे”ति ।
व्यापकत्वं च तस्येदमिष्टमाध्यवसायिकम् ।
मिथ्यावभासिनो ह्येते प्रत्ययाः शब्दनिर्मिताः ॥ १२१२ ॥
इति शब्दार्थपरीक्षा ।
सङ्केतव्यवहाराप्तकालव्यापकत्वं च वक्तृश्रोतृभ्यामध्यवसितार्थप्रतिबिम्बकस्यावसायवशादेवेष्टं, न परमार्थतः, व्यवहारकालेऽपि वक्तृश्रोत्रोः पूर्वापरकालदृष्टयोरर्थयोरैक्याभिमानात् । अथ परमार्थतः कस्मान्नेष्टमित्याह—“मिथ्यावभासिन” इत्यादि ॥ १२१२ ॥
इति शब्दार्थपरीक्षा ।