समवायदूषणार्थमाह—“तन्तुष्वि”त्यादि ।
तन्तुष्वेव पटोऽमीषु वीरणेषु कटः पुनः ।
इत्यादीहमतेर्भावात्समवायोऽवगम्यते ॥ ८२३ ॥
अयुतसिद्धानामाधार्याधारभूतानामिहबुद्धिहेतुर्यः सम्बन्धः स समवायः, स चायमिह तन्तुषु पट इत्यादीहबुद्धिविशेषतो द्रव्यादिभ्योऽर्थान्तरत्वेनावगम्यते । यथाहिसत्ताद्रव्यत्वादीनां स्वाधारेष्वात्मानुरूपप्रत्ययकर्तृत्वात्स्वाश्रयादिभ्यः परस्परतश्चार्थान्तरभावस्तथा समवायस्यापि पञ्चसु पदार्थेषु—इह तन्तुषु पटः, इह द्रव्ये गुणकर्मणी, इह द्रव्यगुणकर्मसु सत्ता, इह द्रव्ये द्रव्यत्वम्, इह गुणेषु गुणत्वम्, इह कर्मणि कर्मत्वम्, इह द्रव्येष्वन्त्या विशेषा, इत्यादिप्रत्ययदर्शनात्पञ्चभ्यः पदार्थेभ्योऽर्थान्तरत्वं गम्यते । प्रयोगः—यो येषु यदाकारविलक्षणः प्रत्ययः, स तदर्थान्तरनिबन्धनः, यथा देवदत्ते दण्डीति प्रत्ययः, तथाचायं पञ्चसु पदार्थेष्विहप्रत्यय इति स्वभावहेतुं मन्यते ॥ ८२३ ॥
प्रतिबन्धमस्य दर्शयन्नाह—“तस्याभाव” इत्यादि ।
तस्याभावे स चेत्किं हि मतेरस्या निबन्धनम् ।
न विशेषमतिर्दृष्टा निमित्तान्तरवर्जिता ॥ ८२४ ॥
इहबुद्ध्यविशेषाच्च योगवन्न विभिद्यते ।
सर्वस्मिन्भाववत्त्वेष एक एव प्रतीयते ॥ ८२५ ॥
कारणानुपलब्धेश्च नित्यो भाववदेव सः ।
न ह्यस्य कारणं किञ्चित्प्रमाणेनोपलभ्यते ॥ ८२६ ॥
निबन्धनमन्तरेण भवतो नित्यं सत्तादिप्रसङ्गो बाधकं प्रमाणम् । एवं तावद्वैशेषिकाणां मतेन—इहबुद्धिलिङ्गानुमेयः समवायः, नैयायिकमतेन तु—इहबुद्धिप्रत्यक्षगम्य एव । तथाहि ते—अक्षव्यापारे सतीह तन्तुषु पट इत्यादिप्रत्ययोत्पत्तेः प्रत्यक्षत्वमाचक्षते । स चायं समवायो यथा संयोगः सम्बन्धेषु भिन्नस्तथा नायं भिद्यते, किं तर्हि ? भाववत् सत्तावत्, तल्लिङ्गाविशेषाद्विशेषलिङ्गाभावात्सर्वत्रैक एवसमवायः । “योगव”दिति । वैधर्म्यदृष्टान्तः । अकारणत्वाच्च भाववदेव नित्यः सिद्धः, अकारणत्वं च प्रमाणतः कारणानुपलब्धेः सिद्धम् ॥ ८२४ ॥ ८२५ ॥ ८२६ ॥
“तदेत”दित्यादिना दूषणमारभते ।
तदेतदिहविज्ञानं परेषामेव वर्त्तते ।
स्वसिद्धान्तानुरागेण न दृष्टं लौकिकं तु तत् ॥ ८२७ ॥
तदनेन हेतोराश्रयासिद्धतामाह । इह तन्तुषु पट इत्यादिका हि धियः स्वसिद्धान्तानुरागोपकल्पिता एव । नतु लोके तथोत्पद्यमानाः संवेद्यन्त इत्यतः साध्यधर्मी नसिद्धः ॥ ८२७ ॥
“नानात्वे”त्यादिना—तामेव धर्म्यसिद्धिं समर्थयते ।
नानात्वलक्षणे हि स्यादाधाराधेयभूतयोः ।
इदमत्रेति विज्ञानं कुण्डादौ श्रीफलादिवत् ॥ ८२८ ॥
नैव तन्तुपटादीनां नानात्वेनोपलक्षणम् ।
विद्यते येन तेषु स्युरिदमत्रेति बुद्धयः ॥ ८२९ ॥
ययोर्हि नानात्वमुपलक्षितं भवेत्तयोरेवाधाराधेयभावे सतीहबुद्धिरुद्भवन्ती लोके दृष्टा, यथेह कुण्डे श्रीफलानीति, नच तन्तुपटोर्नानात्वमुपलक्षितं विद्यते च, तत्कथन्तत्रेहबुद्धिर्भवेत् ॥ ८२८ ॥ ८२९ ॥
स्यादेतद्यदि नामाऽस्माभिः सिद्धान्तबलादुपकल्पितेयमिहमतिस्तथाप्यस्या भवद्भिर्निबन्धनं वक्तव्यमित्याह—“स्वेच्छे”त्यादि ।
स्वेच्छया रचिते वाऽस्मिन्कल्पितेष्विव वस्तुषु ।
न कारणनियोगोऽयं परं प्रत्युपपद्यते ॥ ८३० ॥
यो हि यत्कारणमेव नेच्छति स कथं कार्यं स्वयमुपकल्प्य तत्कारणं पर्यनुयुज्यते, आत्मैव हि भवता पर्यनुयोक्तव्यः, येनेदं कार्यमुपकल्पितमिच्छावशात्, नैवेच्छानां वस्तुस्वभावानुरोधः, स्वातन्त्र्यवृत्तित्वादासाम्, नातो वस्तुसिद्धिरनवस्थाप्रसङ्गात् । तथाहि—भवदुप़कल्पितस्यापि हि वस्तुनः कैश्चिदन्यथाऽपि कल्पयितुं शक्यत्वात् ॥ ८३० ॥
अपिच न केवलमिह तन्तुषु पट इत्यादिका धियो लोके न सिद्धाः, किन्तु तद्विपरीता एव प्रसिद्धा इति दर्शयन्नाह—“वृक्ष” इत्यादि ।
वृक्षे शाखाः शिलाश्चाग इत्येषा लौकिकी मतिः ।
अगाख्यपरिशिष्टाङ्गनैरन्तर्योपलम्भनात् ॥ ८३१ ॥
तौ पुनस्तास्विति ज्ञानं लोकातिक्रान्तमुच्यते ।
घटे रूपं क्रियादीति तादात्म्यं त्ववगच्छति ॥ ८३२ ॥
रूपकुम्भादिशब्दा हि सर्वावस्थाभिधायकाः ।
तद्विशेषाभिधानाय तथा ते विनिवेशिताः ॥ ८३३ ॥
तानाश्रित्यैषु विज्ञानं तेनाकारेण वर्त्तते ।
समवायान्न भेदस्य सर्वेषामप्यनीक्षणात् ॥ ८३४ ॥
वृक्षे शाखाः पर्वते शिला इत्येवं लोके दृश्यते, नतु शाखायां वृक्षः शिलासु पर्वत इति । सापि च वृक्षे शाखेत्यादिका मतिर्न समवायवशात्, किन्तु—अगाख्यानि यानि परिशिष्टानि—विवक्षितशाखाशिलाव्यतिरिक्तान्यधोव्यवस्थितानि स्कन्धादीन्यङ्गानि, तेषां नैरन्तर्योपलम्भात् । अगशब्देनात्र न गच्छन्तीति कृत्वा तरवो गिरयश्चाभिप्रेताः । “तावि”ति । अगवृक्षौ । “तास्वि”ति । शिलाशाखासु । यत्तर्हीदमिह घटे रूपरसगन्धस्पर्शाश्चलनं चेत्यादि लोके प्रसिद्धं ज्ञानं तस्य समवायं मुक्त्वा कोऽन्यो विषय इत्याह—“घट” इत्यादि । तादात्म्यं—घटस्वभावत्वं, रूपादीनामवगच्छति—ज्ञानं लोको वेति शेषः । घटे रूपं—घटस्वभावं रूपं, न घटाद्यात्मकमित्यर्थः । बहुषु रूपादिषु साधारणशक्तिविशेषप्रतिपादनेच्छया तदन्यरूपादिव्यवच्छेदेन घटादिश्रुतेर्निवेशः, रूपादिश्रुतिस्तु प्रत्येकमसाधारणचक्षुर्विज्ञानादिकार्यनिर्वर्तनसामर्थ्यद्योतनाय निवेशितेत्यतो घटादिश्रुती रूपादिभेदानाक्षिपतीति सामानाधिकरण्याभावाद्व्यैयधिकरण्येनैव तादात्म्यं प्रतीपाद्यते । उभयोस्तु किमर्थं प्रयोग इत्याह —“रूपकुम्भे”त्यादि । रूपादिशब्दा हि सर्वावस्थस्य रूपादेर्वाचकाः । तथाहि—यथाघटात्मनाऽवस्थितरूपादि रूपादीत्युच्यते तथा पटाद्यात्मनाऽवस्थितमपि, ततश्च केवलेभ्यो रूपादिशब्देभ्यो न विशेषः प्रतीयते किमवस्था रूपादय इति, घटे रूपादयइत्येवं तु प्रयोगे घटात्मकास्त इति पटादिव्यवच्छेदेन प्रतीयन्ते । तथा घटशब्दोऽपि सर्वावस्थं घटं ब्रूते, शुक्लं पीतं चलं निश्चलमित्यादिकम्, अतः केवलान्न विशेषप्रतीतिः, घटे शुक्लं रूपमित्यादिप्रयोगे तु तदन्यरूपादिव्यवच्छेदेन प्रतिपत्तिर्भवति, ततश्च तस्यैवम्भूतस्य विशेषस्याभिधानाय यथा तथा घटे रूपमिति ते निवेशिताः । शब्दा इति शेषः । तान् शब्दानाश्रित्यैषु घटादिषु तेनाकारेण घटे रूपमित्यादिना प्रवर्त्तते ज्ञानं, नतु समवायमाश्रित्य वर्त्तत इति सम्बन्धः । अत्र कारणमाह—“भेदस्ये”त्यादि । नहि समवायघटरूपादीनां सर्वेषां परस्परतो भेद उपलभ्यते । येनेयं समवायनिबन्धना बुद्धिर्भवेत् । एतेन हेतोरनैकान्तिकत्वं प्रतिज्ञायाश्चानुमानादिबाधितत्वमुक्तम् ॥ ८३१ ॥ ८३२ ॥ ८३३ ॥ ८३४ ॥
यच्चोक्त मिहबुद्ध्यविशेषा दित्यादि, तत्राह—“यद्येक” इत्यादि ।
यद्येकः समवायः स्यात्सर्वेष्वेव च वस्तुषु ।
कपालादिष्वपि ज्ञानं पटादीति प्रसज्यते ॥ ८३५ ॥
गजादिष्वपि गोत्वादि समस्तीत्यनुषज्यते ।
ततो गवादिरूपत्वममीषां शावलेयवत् ॥ ८३६ ॥
पटस्तन्तुषु योऽस्तीति समवायात्प्रतीयते ।
अस्ति चासौ कपालेषु तस्येति न तथेति किम् ॥ ८३७ ॥
नाश्रितः स कपाले चेन्ननु तन्तुष्वपीष्यते ।
आश्रितः समवायेन स कपालेऽपि नास्ति किम् ॥ ८३८ ॥
तन्तोर्यः समवायो हि पटस्येत्यभिधीयते ।
स घटस्य कपालेषु तद्धीरनवधिर्भवेत् ॥ ८३९ ॥
यद्येकस्त्रैलोक्ये समवायः स्यात्तदा कपालेषु (पट) इत्यादयोऽपि धियः प्रसूयेरन् । अश्वादिषु च गोत्वादिर्विद्यत इत्येवं स्यात् । ततश्च सावलेयादिभेदवद्गजादिष्वपि गवादिप्रत्ययो भवेत् । तथाहि—तन्तुषु पट इति यत्समवायबलात्प्रतीतिरुपवर्णिता स समवायस्तस्य पटस्य कपालादिष्वप्यस्तीति किमिति तथा प्रतीतिर्न भवेत् । स्यादेतत् न कपाले पट आश्रितस्तेन तथा प्रत्ययो न भवतीति । एतदपि मिथ्या । यतस्तन्तुष्वपि पट आश्रित इति यत्समवायबलादुपवर्ण्यते, स समवायः कपालेषु किं नास्ति, येन तत्र तन्तुष्विव पटोऽस्तीति तद्बुद्धिर्न भवेत् । किन्तु य एव तन्तौ पटस्य समवाय इति निर्दिश्यते स एव पटस्य समवायः कपालेषु, तत्कथं सङ्करो न स्यात् ।तत्—तस्मात्, धीरनवधिः—अवधिरहिता भवेत् । ततश्च द्रव्यगुणकर्मणां द्रव्यत्वगुणत्वकर्मत्वादिविशेषणैः सम्बन्धस्यैकत्वात् । पञ्चपदार्थविभागो न स्यात् ॥ ८३५ ॥ ॥ ८३६ ॥ ८३७ ॥ ८३८ ॥ ८३९ ॥
“एव”मित्यादिना गजादिषु गवादिबुद्धिप्रसङ्गं समर्थयते ।
एवं यश्च गजत्वादिसमवायो गजादिषु ।
गोत्वादिजातिभेदानां स एव स्वाश्रयेष्वपि ॥ ८४० ॥
“आधारे”त्यादिनाऽत्र प्रशस्तमतेरूत्तरमाशङ्कते ।
आधाराधेयनियमः स चैकत्वेऽपि विद्यते ।
द्रव्येष्विव हि तज्जातिकर्मस्वेव च कर्मता ॥ ८४१ ॥
स ह्याह—यद्यप्येकः समवायस्तथापि पञ्चपदार्थसङ्करो न भवति, आधाराधेयनियमात् । तथाहि—द्रव्येष्वेव द्रव्यत्वं, गुणेष्वेव गुणत्वं, कर्मस्वेव कर्मत्वम्, इत्येवन्द्रव्यत्वादीनां प्रतीनियताधारावच्छेदेन प्रतिपत्तिरुपजायते ॥ ८४१ ॥
यद्येवं तर्हि समवायः प्रतिपदार्थं भिन्नः प्राप्नोतीत्याह—“इहे”त्यादि ।
इहेति समवायोत्थविज्ञानान्वयर्शनात् ।
सर्वत्र समवायोऽयमेक एवेति गम्यते ॥ ८४२ ॥
द्रव्यत्वादिनिमित्तानां व्यतिरेकस्य दर्शनात् ।
धियां द्रव्यादिजातीनां नियमस्त्ववसीयते ॥ ८४३ ॥
इहेति समवायनिमित्तस्य प्रत्ययस्य सर्वत्राभिन्नाकारतयाऽन्वयदर्शनात्सर्वत्रैकःसमवाय इति गम्यते । सत्यपि चैकत्वे द्रव्यत्वादिनिमित्तानां धियां प्रतिनियताधारावच्छेदेनोत्पत्तेः व्यतिरेकस्यानन्वयलक्षणस्य दर्शनाद्द्रव्यत्वादिजातीनां व्यतिरेको विज्ञायते । तेन पञ्चपदार्थसङ्करो न भवति ॥ ८४२ ॥ ८४३ ॥
कथं पुनः सम्बन्धाविशेषेऽप्यमीषामाधाराधेयप्रतिनियमो युज्यत इत्याह—“तद्यथे”त्यादि ।
तद्यथा कुण्डदध्नोश्च संयोगैक्येऽपि दृश्यते ।
आधाराधेयनियमस्तथेह नियमो मतः ॥ ८४४ ॥
व्यङ्ग्यव्यञ्जकसामर्थ्यभेदाद्द्रव्यादिजातिषु ।
समवायैकभावेऽपि नैव चेत्स विरुध्यते ॥ ८४५ ॥
यथाहि कुण्डदध्नोः संयोगैकत्वेऽपि भवत्याश्रयाश्रयिप्रतिनियमः, तथा द्रव्यत्वादीनां समवायैकत्वेऽपि व्यङ्ग्यव्यञ्जकशक्तिभेदादाधाराधेयप्रतिनियम इति । स इत्याधाराधेयनियमः ॥ ८४४ ॥ ८४५ ॥
“आधाराधेय” इत्यादिना—प्रतिविधत्ते ।
आधाराधेयनियमो नन्वेकत्वेऽस्य दुर्घटः ।
द्रव्यत्वं द्रव्य एवेष्टं कथं तत्समवायतः ॥ ८४६ ॥
तस्यासौ समवायश्च गुणादिष्वपि विद्यते ।
गुणजात्यादिसम्बन्धादेक एव ह्ययं तयोः ॥ ८४७ ॥
न ह्यस्माकं रूपत्वादीनां रूपादिष्वाधेयनियमः सिद्धः, किन्तु भवतामेव, स च सर्वत्र समवायमेकमेवाभ्युपगच्छतां दुर्घट इत्यादिप्रसङ्गापादानं क्रियते । तथाहि द्रव्य एव द्रव्यत्वमित्येवं यो नियम इष्यते स समवायबलादेव, तस्य च द्रव्यत्वादेर्यः समवायः स एव गुणादिष्वप्यस्ति, गुणत्वादिजात्या तेषां सम्बन्धत्वात् । यदि नाम सम्बन्धस्तथापि स एव तत्र समवायोऽस्तीति कथमवसीयत इत्याह—“एक” एवेत्यादि । “तयो”रिति । द्रव्यत्वगुणादिजात्योः । ततश्चाभिन्ननिमित्तत्वात्तत्सङ्करप्रसङ्गो दुर्निवार इति भावः ॥ ८४६ ॥ ८४७ ॥
अन्यथा गुणजात्यादिभिन्न एव भवेदयम् ।
योगिभेदात्प्रतिव्यक्ति यथा योगो विभिद्यते ॥ ८४८ ॥
“अन्यथे”ति । यदि द्रव्ये द्रव्यत्वस्य यः समवायः स एव गुणादिषु गुणत्वादीनां न भवेत्तदा संयोगवत्प्रत्याधारं समवायो भिद्यते ॥ ८४८ ॥
यच्चोक्तं द्रव्यत्वादिनिमित्तानामित्यादि, तत्राह—“द्रव्यत्वादी”त्यादि ।
द्रव्यत्वादिनिमित्तानां व्यतिरेको न युज्यते ।
धियां निमित्तसद्भावादतस्तन्नियमोऽपि न ॥ ८४९ ॥
न ह्यविकले निमित्ते सति कार्यस्य व्यतिरेकोऽभावो युक्तोऽतत्कार्यत्वप्रसङ्गात् । ततश्च धियां व्यतिरेकायोगात्तस्याप्याधाराधेयभावस्य नियमो न युक्तः ॥ ८४९ ॥
ननु द्रव्य एव द्रव्यत्वमाश्रितं स्थितमित्यादिव्यपदेशतो नियमो भविष्यतीत्याह —“तदाश्रितत्वे”त्यादि ।
तदाश्रितत्वस्थानादि तस्मादेवाभिधीयते ।
समवायादतश्चैतन्न युक्तं तन्नियामकम् ॥ ८५० ॥
तस्मादेव हि समवायादाश्रितत्वादिव्यवस्थानमुपवर्ण्यते भवद्भिः, तस्य च सर्वत्राविशिष्टत्वे कथमेष नियमो योक्ष्यते । तस्मादेतदप्याश्रितत्वादि न तस्याधाराधेयभावस्य नियामकं युक्तम्, आधाराधेयभावेन सहैकयोगक्षेमत्वादेषाम् ॥ ८५० ॥
व्यङ्ग्यव्यञ्जकशक्तिप्रतिनियमात्तर्हि नियमो भविष्यतीत्याह—“व्यङ्ग्ये”त्यादि ।
व्यङ्ग्यव्यञ्जकसामर्थ्यभेदोऽपि समवायतः ।
नान्यतस्तु स नित्यानामुत्पादानुपपत्तितः ॥ ८५१ ॥
द्रव्यत्वादिसामान्यव्यञ्जकत्वं द्रव्यादीनां यदुच्यते तत्समवायबलादेव । तथाहि —यस एव द्रव्यत्वं द्रव्ये समवेतं तत एव तेन तद्व्यज्यत इत्युच्यते । “अन्यत” इति । सौगतोपवर्णितात् ज्ञानोत्पादनयोग्यस्वभावोत्पादनात् । यस्मान्नित्यानामपि सत्तादीनां समवाय इष्टः, न च नित्यानामुत्पत्तिर्युक्ता ॥ ८५१ ॥
एतदेव “न ही”त्यादिना समर्थयते ।
नहि दीपादिसद्भावाज्जायन्ते यादृशा इमे ।
विज्ञानजनने योग्या घटाद्या जातयस्तथा ॥ ८५२ ॥
यश्चापि दधिकुण्डसंयोगो दृष्टान्तत्वेनोक्तः, सोऽप्यस्माकमसिद्ध इति दर्शयति—“कुण्डदध्नो”रित्यादि ।
कुण्डदध्नोश्च संयोग एकः पूर्वं निराकृतः ।
न चासौ नियतस्तस्माद्युज्यते(तिप्रसङ्ग्तः) ॥ ८५३ ॥
“पूर्व”मिति । संयोगपदार्थदूषणे । भवतु नाम संयोग एकः, तत्रापि तुल्य एव प्रसङ्ग इति दर्शयति—“न चासा”वित्यादि । “तस्मा”दिति । संयोगात् । दध्नि कुण्डमित्यादिबुद्धिप्रसङ्गोऽतिप्रसङ्गः । संयोगस्य निमित्तस्य निर्विशिष्टत्वात् ॥ ८५३ ॥
यच्चोक्तं कारणानुपलब्धेर्नित्यः समवाय इति तत्राह—“नित्यत्वेने”त्यादि ।
नित्यत्वेनास्य सर्वेऽपि नित्याः प्राप्ताः (घटादयः) ।
आधारेषु सदा तेषां समवायो न संस्थितेः ॥ ८५४ ॥
यदि हि समवायो नित्यः स्यात्तदा घटादीनामपि नित्यत्वप्रसङ्गः, स्वाधारेषु तेषां सर्वदाऽवस्थानात् । तथाहि—समवायास्तित्वादेवैषां स्वाधारेष्ववस्थानमिष्यते, स च समवायो नित्य इति किमिति सदाऽमी न सन्तिष्ठेरन् ॥ ८५४ ॥
स्वारम्भकेत्यादिना परस्योत्तरमाशङ्कते ।
स्वारम्भकविभागाद्वा यदि वा तद्विनाशतः ।
ते नश्यन्ति क्रियाद्या (दीव) योगादेरिति चेन्न तत् ॥ ८५५ ॥
स्वाधारैस्समवायो हि तेषामपि सदा मतः ।
तेषां विनाशभावे तु नियताऽस्यापि नाशिता ॥ ८५६ ॥
स्यादेतत्—घटादीनां ये स्वारम्भकावयवास्तेषां विभागाद्विनाशाद्वा घटादीनां विनाशः । यथा घटस्योद्वेष्टनपाकावस्थयोः क्रियादयः स्पर्शवद्द्रव्यसंयोगादिभ्यो विनश्यन्ति । यथोक्तम्—स्पर्शवद्द्रव्यसंयोगात्कर्मणो नाशः कार्यविरोधि च कर्मेति । तथा बुद्धेर्बुद्ध्यन्तराद्विनाशः शब्दस्य शब्दान्तरादिति परप्रक्रिया । तेन सत्यपि समवायेऽवस्थितिहेतौ सहकारिकारणान्तराभावाद्विरोधिप्रत्ययोपनिपाताच्च न नित्यत्वप्रसङ्गो घटादीनामिति परस्य भावः । “न त”दित्यादिना प्रतिषेधति । नैतद्युक्तं, यतस्तेषामपि स्वारम्भकावयवानां कपालादीनां स्वारम्भकेष्ववयवान्तरेषु समवायः सर्वदाऽस्त्येवेति कुतो विनाशो विभागो वा । न केवलं तदारब्धानां द्रव्याणां क्रियादीनां चेत्यपिशब्देन दर्शयति । यदि तु स्वारम्भकाणामवयवानां विनाशोऽभ्युपगम्येत, तदा नियतमस्य समवायस्यापि विनाशः प्राप्नोति ॥ ८५५ ॥ ८५६ ॥
कस्मादित्याह—“सम्बन्धिनो निवृत्तौ ही”त्यादि ।
सम्बन्धिनो निवृत्तौ हि सम्बन्धोऽस्तीति दुर्घटम् ।
नहि संयुक्तनाशेऽपि संयोगो नोपतिष्ठते ॥ ८५७ ॥
यथा संयोगभावे तु संयुक्तानामवस्थितिः ।
समवायस्य सद्भावे तथा स्यात्समवायिनाम् ॥ ८५८ ॥
एतदेव घटयन्नाह—“नही”त्यादि । ततश्च विनष्टसम्बन्धित्वान्नष्टसंयोगिसंयोगवदनित्यः समवायः प्राप्नोतीत्युक्तं भवति । सम्बन्धिनां वा स्थितिः प्राप्नोति, अविनष्टसम्बन्धत्वात्, अनुपरतसंयोगद्रव्यद्वयवत् । अन्यथा तत्सम्बन्धस्वभावहानिरुभयेषामपि प्रसज्येत ॥ ८५७ ॥ ८५८ ॥
“एकसम्बन्धनाशेऽपी”त्यादिना परः प्रत्यवतिष्ठते ।
एकसम्बन्धिनाशेऽपि समवायोऽवतिष्ठते ।
अन्यसम्बन्धिसद्भावाद्योगो नो चेन्न भेदतः ॥ ८५९ ॥
एवं मन्यते यदि प्रथमे हेतौ विनष्टाशेषसम्बन्धित्वादिति हेत्वर्थोऽभिप्रेतः । तदा पक्षैकदेशासिद्धता हेतोः । न ह्यशेषाणां सम्बन्धिनां विनाशः क्वचिदस्ति । प्रलयेऽपिपरमाण्वादीनामवशिष्यमाणत्वात् । अथ यथाकथञ्चिद्विनष्टसम्बन्धित्वसम्बन्धमधिकृत्यहेतुरुच्यते, तदाऽनैकान्तिकता, यदि नामैकः सम्बन्धी क्वचिद्विनष्टस्तथाऽप्यपरसम्बन्धिनिबन्धनावस्थितिरस्य भविष्यति । यद्येवं संयोगस्याप्यनया नीत्या नित्यत्वं प्राप्नो तीत्याशङ्क्य परः प्रतिविधत्ते—“न भेदत” इति । संयोगो हि प्रतिसंयोगि भिद्यते । तेनास्यानित्यत्वं युक्तं, समवायस्तु—इहप्रत्ययनिबन्धनस्याभिन्नत्वादेक एव जगति । तेनास्यानित्यत्वमयुक्तमन्यत्रापि सम्बन्ध्यन्तरे तस्योपलभ्यमानत्वात् ॥ ८५९ ॥
“यद्ये”वमित्यादिना प्रतिविधत्ते ।
यद्येवं ये विनश्यन्ति घटाद्याः समवायिनः ।
तेषां वृत्त्यात्मको योऽसौ समवायः प्रकल्पितः ॥ ८६० ॥
स एव व्यवतिष्ठेत किं सम्बन्ध्यन्तरस्थितेः ।
अथान्य एव संयोग॥॥॥॥बहुतादिवत् ॥ ८६१ ॥
नाद्यस्तल्लक्षणस्यैव समवायस्य संस्थितौ ।
पूर्ववत्ते स्थिता एव प्राप्नुवन्ति घटादयः ॥ ८६२ ॥
न तेषामनवस्थाने तेषां (वृत्त्यात्मकः क्वचित्) ।
सम(वायोऽ)वतिष्ठेत सञ्ज्ञामात्रेण वा तथा ॥ ८६३ ॥
अतः प्रागपि सद्भावान्न ते वृत्ताः स्युराश्रये ।
पश्चादिव तथा ह्येषा वृत्तिस्तेषामवस्तुतः ॥ ८६४ ॥
तथाहि ये ते विनश्यन्ति घटादयः स्वकारणादिसमवायिनस्तेषां स्वकारणेषु वृत्त्यात्मको योऽसौ समवायः कल्पितः स एव किं तेषु विनष्टेषु सम्बन्ध्यन्तरेष्वस्ति, आहोस्विदन्य एव, यथा संयोगो बहुत्वं वा प्रतिसंयोगि भिद्यते । आदिशब्दाद्विभागादिपरिग्रहः । तत्र यद्याद्यः पक्षस्तदा प्रागवस्थावदप्रच्युतप्रवृत्तित्वादवस्थिता एवघटादयः प्राप्नुवन्ति, तेषां वा घटादीनामनवस्थानेऽनवस्थितप्रवृत्तित्वान्नावस्थितिः समवायस्य प्राप्नोति, अन्यथा न वृत्त्यात्मकः स्यात् । तथाभूतस्य च स्वतन्त्रत्स्यानुपकारिणो वृत्तिः समवाय इति वा नामकरणे सञ्ज्ञामात्रमेव स्यात्, न तु वस्तुतथाभावस्तथेति । तद्वृत्त्यात्मक इत्येवं ततः सञ्ज्ञामात्रान्वयो दोषस्तं दर्शयति—“अत” इत्यादि । प्रागपि सम्बन्धिनाशात् । अविनष्टसम्बन्ध्यवस्थायामपीत्यर्थः । ते घटादयः । स्वाश्रये वृत्तास्तस्य समवायस्य भावात्सद्भावबलान्न सिध्येयुः । पश्चादिव—विनष्टसमवायिकारणवत्, परमार्थतो वृत्त्यभावात् । “तथाही”त्यादिना हेत्वर्थं दर्शयति ॥ ८६० ॥ ८६१ ॥ ८६२ ॥ ८६३ ॥ ८६४ ॥
अथान्य एव संयोगविभागबहुतादिवत् ।
सम्बन्ध्यन्तरसद्भावे समवायोऽवतिष्ठते ॥ ८६५ ॥
संयोगादिवदेवं हि नन्वस्य बहुता भवेत् ।
एवमाद्यस्य सद्भावे बहु स्यादसमञ्जसम् ॥ ८६६ ॥
इति समवायपदार्थपरीक्षा ।
“अथान्य” एवेति द्वितीयः पक्षस्तदा संयोगादिवत्समवायबहुत्वं प्राप्नोति, ततश्च नसमवायो भेदवानित्यस्याभ्युपेतस्य हानिः । एवमादीत्यादिशब्देन कारणवैफल्यं, अनेकसूत्रविरोधः, प्रत्यक्षादिविरोधः, सर्वपदार्थानामक्रमोत्पत्तिरित्यादिदोषान्तरपरिग्रहः । तथाहि—स्वकारणसमवाय सत्तासमवायो वा जन्मोच्यते, समवायश्च नित्य इति न क्वचिदपि कार्यजन्मनि कारणानां सामर्थ्यमिति कारणवैफल्यम् । तथा अन्यतरकर्मज उभयकर्मजः संयोगजश्च संयोगः, इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमित्यादिजन्मप्रतिपादकसूत्रविरोधः । तथा प्रत्यक्षादिप्रतीतिकारणानि चक्षुरादीनि विरुध्यन्ते । तथा समवायलक्षणस्य जन्मनो नित्यतया न क्रमोस्तीति क्रमोत्पत्तिर्दृष्टभावानां विरुध्यते । ततश्च युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति स्वसिद्धान्तव्याहतिः । नित्यत्वाच्चजन्मनोऽनुपकार्योपकारकभूतं जगदिति व्यर्थं शास्त्रप्रणयनमित्यादिबहुतरमसमञ्जसमालूनविशीर्णं स्यात् ॥ ८६५ ॥ ८६६ ॥
इति समवायपदार्थपरीक्षा ।