१४ विशेष-परीक्षा

विशेषदूषणमाह—“ये पुन”रित्यादि ।

ये पुनः कल्पिता एते विशेषा अन्त्यभाविनः ।
नित्यद्रव्यव्यपोहेन तेऽप्यसम्भविताः क्षणाः ॥ ८१३ ॥

यत्तावन्नित्यद्रव्यवृत्तित्वमन्त्यद्रव्यभावित्वं च विशेषाणां लक्षणमुक्तं तदसम्भवदोषदुष्टत्वादलक्षणमेव, नहि नित्यं किञ्चिद्द्रव्यमस्ति, तस्य पूर्वं द्रव्यपरीक्षायां व्यपोढत्वात्, तत्कथं तद्वृत्तित्वमेषां सिद्ध्येत् ॥ ८१३ ॥

यदपि योगिनां विशेषप्रत्ययबलात्सत्त्वमेषां साध्यते, तत्राप्यनैकान्तिकतेति दर्शयति-“अण्वाकाशदिगादीना”मित्यादि ।

अण्वाकाशदिगादीनामसङ्कीर्णं यदा स्थितम् ।
स्वरूपं च तदैतस्माद्वैलक्षण्योपलक्षणम् ॥ ८१४ ॥

मिश्रीभूतापरात्मानो भवेयुर्यदि ते पुनः ।
नान्यभावेऽप्यविभ्रान्तं वैलक्षण्योपलक्षणम् ॥ ८१५ ॥

कथं तेषु विशेषेषु वैलक्षण्योपलक्षणम् ।
स्वत एवेति चेन्नैवमण्वादावपि किं मतम् ॥ ८१६ ॥

तथा—अण्वादीनां रूपं स्वस्वभावावस्थानात्परस्परमसङ्कीर्णं वा भवेत्, मिश्रीभूतं वा । यद्याद्यः कल्पस्तदा स्वत एवासङ्कीर्णवस्तूपलम्भात्तेषु योगिनां परस्परवैलक्षण्यबुद्धिर्भविष्यतीति व्यर्था विशेषान्तरकल्पना । अथ द्वितीयः पक्षस्तदा कथमिव विशेषाख्यपदार्थान्तरसन्निधानेऽपि तेषु परस्पराव्यतिभिन्नस्वभावेषु विलक्षणं ज्ञानं योगिनामभ्रान्तमुत्पद्यते, भ्रान्तमेव तत्स्यादतस्मिंस्तथावृत्तत्वात् । ततश्चायोगिन एव स्युः, भ्रान्तज्ञानसंसर्गित्वादिति भावः । किञ्च—यदि विशेषाख्यपदार्थान्तरमन्तरेण विलक्षणा धीर्न जायते तत्कथं तेष्वेव विशेषेषु विलक्षणा धीर्भवति, नहि तेष्वपरे विशेषाः सन्त्यनवस्थाप्रसङ्गात् । नित्यद्रव्यवृत्तयोऽन्त्या इति चाभ्युपगमहानिप्रसङ्गाच्च, विशेषेष्वपि वृत्तेः । अतः स्वत एवैषां परस्परवैलक्षण्यमतिहेतुत्वमङ्गीक्रियते तदा परमाण्वादीनामपि तद्धेतुत्वं स्वत एवास्तु, को ह्यत्र तेषु प्रद्वेषो येन तेषां स्वत एव परस्परव्यावृत्तमूर्त्तीनामपि सतां परमाण्वादीनां परस्परवैलक्षण्यज्ञानोत्पत्तिहेतुत्वं नेष्यते विशेषाणां त्विष्यत इति । नात्र किञ्चित्कारणमुत्पश्यामोऽन्यत्र जाड्यात् ॥ ८१४ ॥ ८१५ ॥ ८१६ ॥

“स्वत” एवेत्यादिना प्रशस्तमतेरत्रोत्तरमाशङ्कते ।

स्वत एवाशुचित्वं हि श्वमांसादेर्यथा स्थितम् ।
तद्योगादपरेषां तु तथेहापि यदीष्यते ॥ ८१७ ॥

यथा प्रकाशको दीपो घटादेश्च स्वतः स्थितः ।
तत्प्रकाशात्मतायां च नियतोऽयमिदं तथा ॥ ८१८ ॥

स ह्याह—यथा श्वमांसादीनां स्वत एवाशुचित्वं, तद्योगाच्चान्येषां तथेहापि तादात्म्यादन्त्येषु विशेषेषु स्वत एव व्यावृत्तिप्रत्ययहेतुत्वं, तद्योगात्परमाणुषु । किञ्चातदात्मकेष्वप्यन्यनिमित्तः प्रत्ययो भवत्येव, यथा घटादिषु प्रदीपात्, नतु प्रदीपेषु घटादिभ्य इति । “नियतोऽय”मिति । घटादिः । “इदं तथे”ति । वैलक्षण्योपलक्षणं विशेषेभ्य एवाण्वादीनां, विशेषाणां स्वत एवेत्यर्थः ॥ ८१७ ॥ ८१८ ॥

“ननु चे”त्यादिना प्रतिविधत्ते ।

ननु चाशुचिभावोऽऽयं सांवृतो न तु तात्त्विकः ।
तत्स्वयं परतो वाऽयं कथं नाम भविष्यति ॥ ८१९ ॥

अथवा भाविकत्वेऽपि श्वमांसादिवशादिमे ।
जायन्तेऽशुचयो भावा नैव नित्या अजन्मतः ॥ ८२० ॥

प्रदीपादिप्रभावाच्च ज्ञानोत्पादस्वरूपताम् ।
लभन्ते क्षणिका ह्यर्थाः कलशाभरणादयः ॥ ८२१ ॥

न विवादास्पदीभूतविशेषबलभाविनी ।
वैलक्षण्यमतिस्तेषु क्रमोत्पत्तेः सुखादिवत् ॥ ८२२ ॥

इति विशेषपरीक्षा ।

अशुचित्वं हि नाम भावानां कल्पनोपरचितं, न पारमार्थिकमनवस्थितत्वात् । तथाहि—यदेव द्रव्यं कस्यचिच्छ्रोत्रियादेरशुचित्वेनाभाति, तदेवान्यस्य कौटिकादेः शुचित्वेन, न चैकस्य परस्परप्रत्यनीकानेकरूपसम्पातो युक्त एकत्वहानिप्रसङ्गात् । अथवा भवतु भाविकमशुचित्वं भावानां, तथापि नेदं दृष्टान्तेन समम् । तथाहि—श्वमांसादिकाशुचिद्रव्यसम्पर्कादन्नादयो भावाः परित्यक्तपूर्वशुचिस्वभावा अन्य एवाशुचयो जायन्ते । अतो युक्तमेषां परोपाधिकमशुचित्वम् । नत्वेवं किञ्चित्परमाण्वादिषु निबन्धनमस्ति, येनैषां परोपाधिकं वैलक्षण्यं भवेत्तथा, नित्यत्वादेवाजन्मतोऽनुत्पत्तेः । एवं प्रदीपदृष्टान्तेऽपि घटादीनां ज्ञानोत्पत्तिहेतुत्वं परोपाधिकं योज्यम् । “ने”त्यादिना —विशेषाणां बाधकं प्रमाणमाह । तस्यापि पूर्ववत् स्वरूपं प्रतिबन्धश्च वाच्यः ॥ ८१९ ॥ ८२० ॥ ८२१ ॥ ८२२ ॥

इति विशेषपरीक्षा ।