१३ सामान्य-परीक्षा

“द्रव्यादिष्वि”त्यादिना—सामान्यविशेषदूषणमारभते ।

द्रव्यादिषु निषिद्धेषु जातयोऽपि निराकृताः ।
पदार्थत्रयवृत्ता हि सर्वास्ताः परिकल्पिताः ॥ ७०८ ॥

“जातय” इति । सामान्यानि । ताश्च द्रव्यगुणकर्मात्मकपदार्थत्रयाश्रितत्वात्तन्निराकरणादेवापास्ताः । नह्याश्रयमन्तरेणाश्रितानां क्वचिदवस्थितिरस्ति, अनाश्रितत्वप्रसङ्गात् । जातिग्रहणमुपलक्षणम्, विशेषा अप्यन्त्यद्रव्यवृत्तित्वादाश्रिता एवेष्टाः, अतस्तेऽप्याश्रयनिराकरणादेवापास्ताः ॥ ७०८ ॥

तथाऽपि पुनर्विशेषेण दूषणं वक्तुकामोऽनिर्ज्ञातस्वरूपस्याशक्यदूषणत्वात्सामान्यविशेषयोस्तावत्स्वरूपं दर्शयन्नाह—“तत्रे”त्यादि ।

तत्रेयं द्विविधा जातिः परैरभ्युपगम्यते ।
सामान्यमेव सत्ताख्यं समस्तेष्वनुवृत्तितः ॥ ७०९ ॥

द्रव्यत्वादि तु सामान्यं सद्विशेषोऽभिधीयते ।
स्वाश्रयेष्वनुवृत्तस्य चेतसो हेतुभावतः ॥ ७१० ॥

विजातिभ्यश्च सर्वेभ्यः स्वाश्रयस्य विशेषणात् ।
व्यावृत्तिबुद्धिहेतुत्वं तेषामेव ततः स्थितम् ॥ ७११ ॥

तत्र सामान्यं द्विविधं परमपरं च, परं सत्ताख्यं, तच्च समस्तेषु त्रिषु द्रव्यगुणकर्मस्वनुवृत्तिप्रत्ययस्यैव कारणत्वात्सामान्यमेव न विशेषः । अपरं तु द्रव्यत्वकर्मत्वादिलक्षणं, तच्च स्वाश्रयेषु द्रव्यादिष्वनुवृत्तिप्रत्ययहेतुत्वात्सामान्यमित्युच्यते, स्वाश्रयस्य च विजातीयेभ्यो व्यावृत्तिप्रत्ययहेतुतया विशेषणात्सामान्यमपि सद्विशेष इत्यभिधीयते । तथाहि—गुणादिष्वद्रव्यमगुण इत्यादिका येयं व्यावृत्तबुद्धिरुदयमासादयति, तां प्रति हेतुत्वमेषामेव गुणत्वद्रव्यत्वादीनां व्यवस्थितं नान्यस्य, न ह्यद्रव्यत्वादिकमपरमस्ति । अपेक्षाभेदाच्चैकस्य सामान्यविशेषभावो न विरुध्यत एवेति भावः ॥ ७०९ ॥ ७१० ॥ ७११ ॥

परेषां विशेषाणां लक्षणमाह—“विशेषा एवे”त्यादि ।

विशेषा एव केचित्तु व्यावृत्तेरेव हेतवः ।
नित्यद्रव्यस्थिता येऽन्त्या विशेषा इति वर्णिताः ॥ ७१२ ॥

केचिद्विशेषा एवेष्यन्ते, न सामान्यानि । व्यावृत्तिरेव—व्यावृत्तिप्रत्ययस्यैव हेतु त्वादित्यर्थः । के पुनस्त इत्याह—“नित्ये”त्यादि । तथाचोक्तम्—नित्यद्रव्यवृत्तयोऽन्त्या विशेषा इति । नित्यद्रव्यवृत्तय इति । परमाण्वाकाशकालदिगात्ममनःसु वृत्तेः । परमाणूनां जगद्विनाशारम्भकोटिभूतत्वात्, मुक्तात्मनां मुक्तमनसां च संसारपर्यन्तरूपत्वादन्तत्वम्,अतस्तेषु भवा अन्त्या इत्युच्यन्ते । तेषु स्फुटतरमालक्ष्यमाणत्वात् ।वृत्तिस्तु पुनरेषां सर्वस्मिन्नेव परमाण्वादौ नित्ये द्रव्ये । अत एव नित्यद्रव्यवृत्तयोऽन्त्या इत्युभयोरुपादानम् । तत्र परस्परमत्यन्तव्यावृत्तबुद्धिहेतुत्वात्स्वाश्रयमन्यतो विशेषयन्तीति विशेषा उच्यन्ते ॥ ७१२ ॥

कुतः पुनरमी सिद्धा इत्याह—“यद्बला”दित्यादि ।

यद्बलात्परमाण्वादौ जायन्ते योगिनां धियः ।
विलक्षणोऽयमेतस्मादिति प्रत्येकमाश्रिताः ॥ ७१३ ॥

यथा ह्यस्मदादीनां गवादिष्वाकृतिगुणक्रियावयवसंयोगनिमित्तोऽश्वादिबुद्धिव्यावृत्तः प्रत्ययो दृष्टः, तद्यथा—गौः शुक्लः शीघ्रगतिः पीनककुदो महाघण्ट इति यथाक्रमम्, तथाऽस्मद्विशिष्टानां योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममनःसु चान्यनिमित्तासम्भवाद्यद्बलात्प्रत्येकं विलक्षणोऽयमिति प्रत्ययव्यावृत्तिर्देशकालविप्रकर्षदृष्टे च स एवायमिति प्रत्यभिज्ञानं यतो भवति, ते योगिनां विशेषप्रत्ययोन्नीतसत्त्वा अन्त्या विशेषाः सिद्धाः । ते च यथास्वं प्रत्येकमाश्रयमाश्रिताः योगिनां प्रत्यक्षत एव सिद्धाः ॥ ७१३ ॥

अथ जातयः कथं सिद्धा इत्याह—“प्रत्यक्षत” इत्यादि ।

प्रत्यक्षतः प्रसिद्धास्तु सत्त्वगोत्वादि जातयः ।
अक्षव्यापारसद्भावे सदादिप्रत्ययोदयात् ॥ ७१४ ॥

यद्गतान्वयव्यतिरेकानुविधायि यद्भवति तत्ततो भवतीति व्यवस्थाप्यते । द्रव्यादिषु च सदादिप्रत्ययप्रसूतिरक्षगतान्वयव्यतिरेकावनुविदधती किमितीन्द्रियजन्यताव्यपदेशं नाश्नुवीत, तदन्येन्द्रियज्ञानवत्, अन्यथाऽतिप्रसङ्गः स्यात् ॥ ७१४ ॥

अनुमानतोऽपि सत्त्वमासां प्रतिपादयन्नाह—“अनुमाने”त्यादि ।

अनुमानबलेनापि सत्त्वमासां प्रतीयते ।
विशेषप्रत्ययो येन निमित्तान्तरभाविकः ॥ ७१५ ॥

“विशेषप्रत्यय” इति । द्रव्यादिवस्तुविलक्षणाकारः प्रत्ययः । निमित्तान्तरभाविकः —निमित्तान्तराद्भाव उत्पादः सोऽस्यास्तीति कृत्वा । प्रयोगः—यद्वस्त्वाकारविलक्षणो यः स तद्व्यतिरिक्तनिमित्तान्तरभावी, यथा वस्त्रचर्मकम्बलेषु रक्तादिप्रत्ययः, तथा चायं द्रव्यादिषु सदादिप्रत्यय इति स्वभावहेतुं मन्यते परः ॥ ७१५ ॥

एनमेव प्रमाणार्थं “गवादी”त्यादिना भाविविक्तादिरचितप्रमाणोपन्यासेन दर्शयति ।

गवादिशब्दप्रज्ञानविशेषा गोगजादिषु ।
समयाकृतिपिण्डादिव्यतिरिक्तार्थहेतवः ॥ ७१६ ॥

गवादिविषयत्वे हि सति तच्छब्दबुद्धितः ।
अन्यत्वात्तद्यथैष्वेव सवत्साङ्कुशधीध्वनी ॥ ७१७ ॥

शशशृङ्गादिविज्ञानैर्व्यभिचाराद्विशेषणम् ।
तत्स्वरूपाभिधानं च वैधर्म्येण निदर्शनम् ॥ ७१८ ॥

गवादिष्वनुवृत्तं च विज्ञानं पिण्डतोऽन्यतः ।
विशेषकत्वान्नीलादिविज्ञानमिव जायते ॥ ७१९ ॥

गोतत्त्वार्थान्तरं गोत्वं भिन्नधीविषयत्वतः ।
रूपस्पर्शादिवत्तस्येत्युक्तेश्चैव तुरङ्गवत् ॥ ७२० ॥

तत्र भाविविक्तः प्राह—गवाश्वमहिषवराहमातङ्गादिषु गवाद्यभिधानप्रज्ञानविशेषाः समयाकृतिपिण्डादिव्यतिरिक्तस्वरूपाऽनुरूपसंसर्गिनिमित्तान्तरनिबन्धता इत्यवघोषणा । गवादिविषयत्वे सति पिण्डादिस्वरूपाभिधानप्रज्ञानव्यतिरिक्ताभिधानज्ञानत्वात्, तेष्वेव गवादिषु सवत्सा गौर्भाराक्रान्तो महिषः सशल्यो वराहः साङ्कुशो मातङ्ग इत्याद्यभिधानप्रज्ञानविशेषवत् । वैधर्म्येण पिण्डादिस्वरूपाभिधानप्रज्ञानविशेषाः । यानि च तानि निमित्तान्तराणि तानि गोत्वादीनीति सिद्धम् । तत्राभिधानं —शब्दः, प्रज्ञानं—प्रत्ययो ज्ञानमित्यर्थः । अभिधानप्रज्ञानान्येव विशेषा इति विशेषणसमासः । समयः—सङ्केतः, आकृतिः—संस्थानं, पिण्डो—द्रव्यम्, आदिशब्देन रूपादिपरिग्रहः, एभ्यो व्यतिरिक्तं स्वरूपं येषां स्वाभिधानप्रत्ययं प्रत्यनुरूपाणामुपाधित्वात्संसर्गिणां निमित्तान्तराणां तानि निबन्धनं येषामिति विग्रहः । अथवा समयादिव्यतिरिक्तानि च तानि सदादिप्रत्ययाभिधानं प्रतिस्वरूपानुरूपसंसर्गीणि चेति विग्रहः कार्यः । शेषं पूर्ववत् । “अवघोषणे”ति । प्रतिज्ञा । शशविषाणादि प्रत्ययैर्व्यभिचारशङ्क्या तत्परिहारार्थं गवादिविषयत्वे सतीति विशेषणम् । पिण्डादिस्वरूपाभिधानप्रज्ञानव्यतिरिक्ते अभिधानप्रज्ञाने येषां तद्भावस्तत्त्वमिति विग्रहः । वैधर्म्येण पिण्डादिस्वरूपाभिधानप्रज्ञानविशेषा इति । तत्र हि पिण्डादिव्यतिरिक्तनिमित्तान्तरनिबन्धनत्वाभावे हेतोरपि यथोक्तस्याभावात् । उद्योतकरस्त्वाह—गवादिष्वनुवृत्तिप्रत्ययः पिण्डादिव्यतिरिक्तान्निमित्ताद्भवति, विशेषकत्वान्नीलादिप्रत्ययवत् । तथा गोतोऽर्थान्तरं गोत्वं, भिन्नप्रत्ययविषयत्वाद्रूपस्पर्शादिवत्, तस्येति च व्यपदेशविषयत्वाद्यथा चैत्रस्याश्च इति चैत्राद्व्यतिरेकेण व्यपदिश्यमान इति । तदेतद्दर्शयति“गवादिष्वि”त्यादि । सुबोधम् ॥ ७१६ ॥ ७१७ ॥ ७१८ ॥ ७१९ ॥ ७२० ॥

“असार”मित्यादिना प्रतिविधत्ते ।

असारं तदिदं कार्यं प्रक्रियामात्रवर्णनम् ।
न तु तज्ज्ञापकं किञ्चित्प्रमाणमिह विद्यते ॥ ७२१ ॥

अक्षव्यापारसद्भावान्नह्यनन्तरभाविनः ।
सदादिप्रत्ययास्तिद्धा सङ्केताभोगतस्तु ते ॥ ७२२ ॥

यदुक्तमक्षव्यापारसद्भावात्सदादिप्रत्ययानामक्षाश्रितत्वमिति । तत्र यदि साक्षादक्षव्यापारान्तरभावित्वादिति हेत्वर्थोऽभिप्रेतस्तदा हेतुरसिद्धः, सविकल्पत्वेन सङ्केताभोगस्मरणादिव्यवहितत्वात् ॥ ७२१ ॥ ७२२ ॥

न चैतच्छक्यं वक्तुम्, एकमनुगामिनमन्तरेण कथं परस्परव्यावृत्तात्मानो भावाःपारम्पर्येणाप्यभिन्नाकारप्रत्ययनिबन्धनं युज्यन्त इत्याशङ्क्याह—“यथे”त्यादि ।

यथा धात्र्यभयादीनां नानारोगनिवर्तने ।
प्रत्येकं सह वा शक्तिर्नानात्वेऽप्युपलभ्यते ॥ ७२३ ॥

न तेषु विद्यते किञ्चित्सामान्यं तत्र शक्तिमत् ।
चिरक्षिप्रादिभेदेन रोगशान्त्युपलम्भतः ॥ ७२४ ॥

सामान्येऽतिशयः कश्चिन्नहि क्षेत्रादिभेदतः ।
एकरूपतया नित्यं धात्र्यादेस्तु स विद्यते ॥ ७२५ ॥

एवमत्यन्तभेदेऽपि केचिन्नियतशक्तितः ।
तुल्यप्रत्यवमर्शादेर्हेतुत्वं यान्ति नापरे ॥ ७२६ ॥

यथा ह्यामलक्यादयः परस्परमत्यन्तविभिन्नमूर्त्तयेऽपि प्रत्येकं समुदिता वा नाना विधव्याधिव्यावर्त्तनसामर्थ्याध्यासिता भवन्त्यन्तरेणाप्यनुगामिनम्, नहि तत्र सामान्यमेव तथाविधामर्थक्रियां सम्पादयतीति युक्तं वक्तुम् । यतस्तेषु विविधार्थक्रियासम्पादनयोग्यं न सामान्यमस्ति । यदि स्यात्तदा येयं क्वचित्कदाचित्कासाञ्चिद्धात्र्यादीनां चिरक्षिप्ररोगाद्युपशमनसामर्थ्योपलब्धिः सा न स्यात्, सामान्यस्यैकरूपत्वात् । नच क्षेत्रक्षीरावसेकादिसंस्कारविशेषवशादासादितातिशयं सामान्यमेवैतामर्थक्रियां विचित्रां सम्पादयतीति युक्तम् । तस्य नित्यतया परैरनाधेयविकारस्य क्षेत्रादिभेदतोऽपि नातिशयः कश्चिदेकरूपत्वात् । धात्र्यादीनां त्वनित्यानां सोऽतिशयः क्षेत्रादिभेदतो भिद्यत इत्यतस्त एवं रोगाद्युपशमनसामर्थ्योपेताः । ततश्च तद्वदेवान्येऽपि घटादयो भावाः स्वहेतुप्रत्ययेभ्यस्तथोत्पत्तेः प्रकृत्यैवैकाकारप्रत्यवमर्शादिहेतवो भविष्यन्तीत्यदोषः । तुल्यप्रत्यवमर्शादेरित्यादिशब्देन सलिलसन्धारणाद्यर्थक्रियासामर्थ्यपरिग्रहः ॥ ७२३ ॥ ७२४ ॥ ७२५ ॥ ७२६ ॥

कथं पुनः सङ्केताभोगादिव्यवहितत्वमेषां सिध्यतीत्याह—“कार्ये”त्यादि ।

कार्यमात्रोपयोगित्वविवक्षायां च सच्छ्रुतेः ।
समयः क्रियते तेषु यद्वान्यस्या यथारुचि ॥ ७२७ ॥

वाहदोहादिरूपेण कार्यभेदोपयोगिनि ।
गवादिश्रुतिसङ्केतः क्रियते व्यवहर्तृभिः ॥ ७२८ ॥

तत्सङ्केतमनस्कारात्सदादिप्रत्यया इमे ।
जायमानास्तु लक्ष्यन्ते नाक्षव्यापृत्यनन्तरम् ॥ ७२९ ॥

नह्यगृहीतसमयानां सदादिप्रत्ययप्रसूतिरन्यथा सङ्केतकरणवैयर्थ्यं स्यात् । तस्माद्यस्मिन्नेकाकारपरामर्शव्यवस्थितार्थक्रियासामर्थ्यमात्रप्रतिपादितमेवाभेदं परामृश्य सदिति श्रुतिं विनिवेशयन्ति समयकृतः (तस्मिन्सदादिप्रत्ययः ।) “यद्वाऽन्यस्या” इति । वस्त्वित्यस्याः श्रुतेः । एवं गवादिविशेषश्रुतेरपि वाहादिसामर्थ्यविशेषजिज्ञासायां समयः क्रियत इति योज्यम् । ततश्च सङ्केतोत्तरकालं व्यवहारकाले गवादिषु दृष्टेष्वपि पूर्वकृतसङ्केताभोगस्ततस्तन्नामस्मरणं ततः पश्चात्सदादिप्रत्ययोदय इति स्फुटतरमालक्ष्यत एव । क्वचिदत्यभ्यासत आशुतरोत्पादादमीषां क्रमो नावधार्यते । मन्दाभ्यासास्तु स्फुटतरमवधारयन्त्येव तदित्युपसंहरति । तत्तस्मात्तदेवं समयाभोगादिव्यवहितत्वात्साक्षादनुत्पत्तेः प्रत्यक्षत्वमेषामसिद्धम्, न चापि पारम्पर्येणोत्पद्यमानस्य प्रत्यक्षत्वं न्याय्यमतिप्रसङ्गादिति भावः ॥ ७२७ ॥ ७२८ ॥ ७२९ ॥

इतश्च स्मार्त्तत्वात्तदन्यस्मृतिवत्प्रत्यक्षत्वमयुक्तं सदादिप्रत्ययस्येति दर्शयन्नाह—“अजल्पे”त्यादि ।

अजल्पाकारमेवादौ विज्ञानं तु प्रजायते ।
ततस्तु समयाभोगस्तस्मात्स्मार्त्तं ततोऽपि ते ॥ ७३० ॥

स्वलक्षणे सङ्केतस्याकरणाद्दृष्ट्वाच विकल्पनात्प्रथमतरं वस्तुस्वलक्षणविषयतयाऽभिलापसंसर्गविवेकि विज्ञानमक्षाश्रितमुपजायते । ततः पश्चात्तस्मिन्नेव परिदृष्टे वस्तुनि समयाभोगस्तदनन्तरं यथासमयं परिदृष्टार्थविषयास्तदव्य(ध्य ?)वसायितया सदादिप्रत्ययास्तमेवार्थं परिदृष्टमभिलपन्तः समुत्पद्यमानाः कथमिव स्मार्त्ततां नासादयेयुः । “ततोऽपी”ति । यथा परिदृष्टाव्य(ध्य ?)वसायात् । “त” इति । सदादिप्रत्ययाः ॥ ७३० ॥

कुतः पुनरयमुत्पत्तिक्रमो विज्ञानानामालक्षित इत्याह—“अन्यत्रे”त्यादि ।

अन्यत्र गतचित्तस्य वस्तुमात्रोपलम्भनम् ।
सर्वोपाधिविवेकेन तत एव प्रवर्त्तते ॥ ७३१ ॥

यतस्ते सदादिप्रत्यया अमुना क्रमेणोपजायन्ते, तत एवान्यत्र—विषयान्तरे गतचित्तस्य—व्यासक्तमनसः पुरोऽवस्थितं वस्तु पश्यतः सम्मुखीभूतवस्तुसङ्केतमनस्काराद्यप्रवृत्तेः प्रथमतरं सर्वोपाधिविविक्तवस्तुमात्रदर्शनं प्रवर्त्तते । अन्यथा हि यदि सर्वमेव साभिजल्पं विज्ञानं स्यात्तदा पुरोऽवस्थितं वस्तु सर्वोपाधिशून्यमन्यत्र गतमनाः कथमीक्षेत । न ह्येकस्मिन्काले युगपदभिलापद्वयं संवेद्यते । तदेवं साक्षादक्षगतान्वयव्यतिरेकानुविधायित्वमसिद्धम् ॥ ७३१ ॥

तत्र यदुक्तं गवादीत्यादि तत्राह—“हेतावि”त्यादि।

हेतावाद्येऽपि वैफल्यं समयाभोगभाविता ।
तेषामिष्टैव संसर्गी सोऽन्वयव्यतिरेकवान् ॥ ७३२ ॥

यदि सामान्येनानुरूपसंसर्गिनिमित्तान्तरमात्रनिबन्धनत्वमेषां प्रसाध्यते तदा सिद्धसाध्यता, यतो गवादिसङ्केताभोग एव गवादिप्रत्ययव्यपदेशानामनुरूपसम्बन्धी ।तथाहि—तस्मिन्सति भवन्ति विजातीयमनस्कारे, (असति) च न भवन्ति । अतः स एवान्वयव्यतिरेकवान्हेतुरेषां सिद्धः, तद्गतान्वयव्यतिरेकस्यैवानुविधानात्, अतो वैफल्यं हेतुप्रयोगप्रयासस्य ॥ ७३२ ॥

तस्य पक्षाबहिर्भावे साध्यशून्यं निदर्शनम् ।
नैवं तद्धेतवः साक्षाद्बाह्यवत्साङ्कुशादयः ॥ ७३३ ॥

नाभिधानविकल्पानां वृत्तिरस्ति खलभणे ।
सर्वं वाग्गोचरातीतमूर्त्तिर्येत स्वलक्षणम् ॥ ७३४ ॥

अथैनं सङ्केतमनस्कारं पक्ष एवान्तर्भाव्य तद्व्य तिरिक्तनित्यैकानुगामिसामान्याख्यसंसर्गिनिबन्धनत्वमेषां साध्यते तदा दृष्टान्तस्य साध्यविकलता, न ह्येवम्भूतेन क्वचिदन्वयः सिद्धः । ये चामी वत्साङ्कुशादयः सवत्साद्यभिधानप्रज्ञानहेतुत्वेन वर्णितास्तेऽपि तद्धेतुत्वेन न सिद्धाः, न ह्येषामासादितस्वलक्षणभावानां साक्षादभिधानप्रज्ञानहेतुत्वमस्ति, सर्ववाग्विकल्पगोचरातीतरूपत्वात्स्वलक्षणस्येत्यतः साध्यविकलता दृष्टान्तस्य । पारम्पर्येण तु हेतुत्वकल्पनायामतिप्रसङ्गः स्यात्, सर्वस्यैव सर्वत्र पारम्पर्येणोपयोगस्य विद्यमानत्वात् ॥ ७३३ ॥ ७३४ ॥

यद्येवं कथं तर्हि लोकोऽङ्कुशादि बाह्यमेव तद्धेतुत्वेनाध्यवस्यतीत्याह—“अन्तर्मात्रे”त्यादि ।

अन्तर्मात्रासमारूढं सांवृतं त्ववलम्ब्य ते ।
बहीरूपाध्यवसितं प्रवर्त्तन्तेऽङ्कुशादिकम् ॥ ७३५ ॥

यत्तावदङ्कुशादिप्रज्ञप्त्युपादानं स्वलक्षणं न तद्विकल्पैः स्पृश्यत इत्युक्तम् । यत्तु सांवृतं तत्कल्पनाशिल्पिनिर्मितात्मरूपतयाऽन्तर्मात्रारूढमेव न बाह्यं, दृश्यविकल्पयोस्तु विवेकेनानभिज्ञतया जनो बाह्यमिव तमाकारं मन्यमानो बाह्यमेव वस्त्वभिधावतीति नातो बाह्यरूपतासिद्धिरङ्कुशादीनाम् । अङ्कुशादिकमित्यवलम्ब्येत्यनेन पूर्वकेणसम्बन्धनीयम् । अन्तर्मात्रासमारूढं बहीरूपतयाऽध्यवसितं सांवृतमङ्कुशादिकमालम्ब्य बाह्ये प्रवर्न्तत इत्यर्थः । अन्तर्मात्रा—बुद्धिः ॥ ७३५ ॥

यच्च गवादिविषयत्वे सतीति विशेषणं तदप्ययुक्तमेव, व्यवच्छेद्याभावादिति दर्शयन्नाह—“क्रिये”त्यादि ।

क्रियागुणव्यपदेशाभावो हेतुश्च वर्ण्यते ।
अभावप्रत्ययस्येति विशेषणमनर्थकम् ॥ ७३६ ॥

तदप्ययुक्तं हेतुत्वे वस्तुता शक्तितोऽपि च ।
अभावप्रत्ययः प्राप्तः सत्तादिष्वविशेषतः ॥ ७३७ ॥

अभावप्रत्ययस्यापि क्रियागुणव्यपदेशाभाव एव हेतुत्वेन भवद्भिर्वर्ण्यते । “तदप्ययुक्त”मिति । क्रियाद्यभावस्य हेतुत्वोपवर्णनम् । तथाहि—कार्योत्पादनसामर्थ्यमेव हेतुत्वमुच्यते, तच्च सामर्थ्यं वस्त्वाधारमेव, तल्लक्षणत्वाद्वस्तुनः । यदि चाभावोऽपितथाविधसामर्थ्याध्यासितो भवेत्तदा कथमिव वस्तुत्वं नासादयेत्, एतावन्मात्रनिबन्धनत्वाद्वस्तुनः । ततश्चाभावरूपतामेव विजह्यात् । वस्तुस्वभावप्रच्युतिरूपत्वादभावस्य । अपिच—यदि क्रियागुणव्यपदेशाभावोऽभावप्रत्ययहेतुः स्यात्तदा सत्तादिष्वप्यभावप्रत्ययः प्राप्तस्तत्रापि शशविषाणादिवत्क्रियागुणव्यपदेशाभावाविशेषात्॥ ७३६ ॥ ७३७ ॥

हेतुश्चासिद्ध इति दर्शयन्नाह—“वैलक्षण्य”मिति ।

वैलक्षण्यमसिद्धं च पिण्डाकृत्यादिबुद्धिः ।
तज्ज्ञानानामसिद्धोऽपि हेतुरेष भवत्यतः ॥ ७३८ ॥

नहि गवादिप्रत्ययानां पिण्डादिव्यतिरिक्तमर्थान्तरमध्यवसेयमस्ति, येन तत्प्रत्ययान्यवत्मेषां भवेत् ॥ ७३८ ॥

प्रतिज्ञायाश्चानुमानबाधेति दर्शयन्नाह—“अन्वयी”त्यादि ।

अन्वयी प्रत्ययो यस्माच्छब्दव्यक्त्यवभासवान् ।
वर्णाकृत्यक्षराकारशून्या जातिस्तु वर्ण्यते ॥ ७३९ ॥

एतदुक्तं भवति—अनुगामिप्रत्ययानां पिण्डादिव्यतिरिक्तं निमित्तमालम्बनभूतमेव भवद्भिः सिसाधयिषितम्, तच्चायुक्तम्, तस्याप्रतिभासनात्; तद्विलक्षणवर्णाकृत्यादिप्रतिभासनाच्च । तथाहि—भवद्भिर्वर्णाकृत्यक्षराकारशून्यमेव वर्ण्यते गोत्वादिसामान्यम्, विज्ञानं च वर्णादिप्रतिभासानुगतमनुभूयते, तत्कथमस्य वर्णादिशून्यमालम्बनं भवेत्, न ह्यन्याकारस्य विज्ञानस्यान्यदालम्बनं युक्तमतिप्रसङ्गात् । प्रयोगः—यो यद्विलक्षणार्थप्रतिभासः प्रत्ययः स तद्ग्राहको न भवति, तद्यथा शब्दज्ञानं न रूपग्राहकं, जातिविलक्षणवर्णादिप्रतिभासश्चान्वयी प्रत्यय इति व्यापकविरुद्धोपलब्धेः । “शब्दव्यक्त्यवभासवा”निति । शब्दो—गौरित्यादिव्यपदेशः, व्यक्तिः —वर्णसंस्थानात्मिका, तयोरवभासः सोऽस्यास्तीति तद्वान् । अक्षराणि—गकारौकारविसर्जनीयादीनि ॥ ७३९ ॥

शङ्करस्वामी त्वाह—सामान्यमपि नीलत्वादि नीलाद्याकारमेव, अन्यथा हि नील इत्येवममुवृत्तिप्रत्ययो न स्यात्, ततश्च हेतोरसिद्धत्वान्नानुमानबाधेति । तदत्राह—“सामान्यस्यापी”त्यादि ।

सामान्यस्यापि नीलादिरूपत्वे गुणतोऽस्य कः ।
भेदो नानुगतश्चैको नीलादिरूपलक्ष्यते ॥ ७४० ॥

भासमानोऽपि चेदेष न विवेकेन लक्ष्यते ।
तत्कथं धीध्वनी व्यक्तौ वर्त्तेते तद्बलेन तौ ॥ ७४१ ॥

निश्चयात्मक एवायं सामान्यप्रत्ययः परैः ।
इष्टश्चाग्रहणे प्राप्ते युक्तं नानुपलक्षणम् ॥ ७४२ ॥

एवं सति गुणान्नीलादेर्नीलत्वादिसामान्यस्य विशेषो न प्राप्नोति, आकाराभेदात् । स्यान्मतं गुणो हि नीलादिरनुगतो न भवति । सामान्यं तु भिन्नदेशकालव्यक्त्यनुगामीत्यत आकारभेदोऽस्तीत्याह—“नानुगतश्चैक” इत्यादि । नहि नीलादिगुणव्यतिरिक्तमपरं नीलत्वादि नीलाद्याकारानुगतमनुगामि प्रतिभासमानमालक्ष्यते । अध्यक्षत एकस्यैव नीलादेरसाधारणस्य प्रतिभासनात् । नापि विकल्पचेतसि नीलत्वादि द्वितीयं प्रतिभासते, यथादृष्टस्यैव तेनाध्यवसायात् । स्यादेतद्यथा भवतां क्षणिकत्वं भासमानमपि नोपलक्ष्यते विवेकेन मन्दैस्तथेदमपि सामान्यमिति तदप्ययुक्तम् । एवं हि तद्दर्शनबलाद्भिन्नास्वपि व्यक्तिष्वभिन्नौ धीध्वनी भवत इति यदेतद्वर्णितं तन्नोपपद्यते, नहि विशेषणानुपलक्षणे विशेष्ये धीरुपजायते, यथा दण्डानुपलक्षणे दण्डीति प्रत्ययो न भवति तद्वदत्रापि स्यात् । तथाहि स्वतःशब्दप्रत्ययगोचरातिवृत्ता भेदा भवद्भिरुपवर्ण्यन्ते । तांश्च भेदान्स्वतो बुद्धिशब्दविषयव्यतिवृत्तशरीरान्सामान्यदर्शनबलेन प्रतियन्प्रतिपत्ता कथं तस्यैवानुपलक्षको नाम । अपिच यस्याविकल्पकमेव प्रत्यक्षं तस्यैतद्युक्तं वक्तुं प्रतिभासमानमपि नोपलक्ष्यत इति, निश्चयप्रत्ययव्यापारत्वादुपलक्षणस्य, यस्य तु भवतः सर्वमेव सविकल्पकं प्रत्यक्षमिति पक्षस्तस्यायुक्तमनुपलक्षणमग्रहणप्रसङ्गात् । इयमेव हि निश्चयानां स्वार्थप्रतिपत्तिर्यत्तन्निश्चयनं तच्चेन्न निश्चिन्वन्ति न गृह्णन्तीत्येव प्राप्तम् ॥ ७४० ॥ ७४१ ॥ ७४२ ॥

अभ्युपेत्यापि नीलादिव्यतिरिक्तार्थान्तरसिद्धिं नेष्टसिद्धिर्भवतामभिमतसाध्यार्थस्यानुमानबाधितत्वात्तेन व्याप्त्यसिद्धेरिति दर्शयन्नाह—“सिद्धेऽपी”त्यादि ।

सिद्धेऽप्यन्यनिमित्तत्वे न सामान्यं प्रसिद्ध्यति ।
अनुगाम्येकमध्रौव्यविविक्तं च क्रमोदयात् ॥ ७४३ ॥

“अध्रौव्यविविक्त”मिति । अनित्यत्वविविक्तं, नित्यमिति यावत् । कस्मान्न सिद्ध्यतीति ? क्रमोदयात् । गवाद्यभिधानप्रत्ययानामिति शेषः । यदा हि तथाविधसामान्यधर्महेतुकत्वमेषामभविष्यत्तदा क्रमेणामी नोदपत्स्यन्त, अविकलकारणत्वाद्युगपदेवोत्पद्येरन्, युगपदुत्पद्यमानानेकपदार्थवत् । नहि परैरनुपकार्यस्य काचिदपेक्षाऽस्ति ॥ ७४३ ॥

सम्प्रति हेतोः सिद्धिमभ्युपगम्य व्यभिचारमाह—“पदार्थशब्द” इति ।

पदार्थशब्दः कं हेतुमपरं षट्स्वपेक्षते ।
अस्तीति प्रत्ययो यश्च सत्तादिष्वनुवर्त्तते ॥ ७४४ ॥

नहि पदार्थत्वं नाम षट्सु पदार्थेष्वपरमस्ति, येन पदार्थः पदार्थ इत्यनुगामी प्रत्ययो भवेत् । तथा सामान्यविशेषसमवायेषु न सत्तास्ति, येनास्तीति तेषु प्रत्ययः स्यात्, द्रव्यगुणकर्मस्वेव सत्तायाः स्थितत्वात् । द्रव्यादिषु तु सामान्यनिबन्धन एवव्यपदेशः परेषामभीष्ट इति न तेन व्यभिचारश्चोद्यते ॥ ७४४ ॥

स्यादेतत्तत्रापि सत्तादिसदुपलम्भकप्रमाणविषयत्वं धर्मोऽस्ति, तेनान्यनिमित्तोऽयमत्रापि व्यपदेश इत्यव्यभिचार एवेत्याह—“अन्यधर्मे”त्यादि ।

अन्यधर्मनिमित्तश्चेत्तत्राप्यस्त्यस्तितामतिः ।
तदन्यधर्महेतुत्वेऽनिष्ठासक्तेरधर्मिता ॥ ७४५ ॥

व्यभिचारी ततो हेतुरमीभिरयमिष्यते ।
नच सर्वोपसंहाराद्व्याप्तिरस्य प्रसाधिता ॥ ७४६ ॥

अन्यधर्मनिमित्तत्वेऽप्यभ्युपगम्यमाने व्यभिचारदोषस्तदवस्थ एव, यस्मात्तत्राप्यस्मिन्धर्मेऽस्त्येवास्तितामतिः अस्ति सद्धर्म इति । तत्राप्यन्यधर्माभ्युपगमेऽनवस्थाप्रसङ्गः स्यात् । अन्येषामपि धर्मान्तराश्रयत्वाद्धर्मित्वप्रसङ्गश्च । ततश्च षडेव पदार्था धर्मिण इति षट्सङ्ख्यानियमो न स्यात् । अथानवस्थाभयाद्धर्मान्तरं नाश्रीयते तदाऽमीभिः पदार्थेषु सत्तादौ धर्मे वा प्रवृत्तैः प्रत्ययैर्व्यभिचारिता हेतोः । माभूद्वाऽस्य साधारणानैकान्तिकता, सन्दिग्धव्यतिरेकिता तु केन परिह्रियत इत्येतदाह—“नच सर्वोपसंहारा”दित्यादि । सर्वस्मिन्धर्मिणि हेतोः साध्येन व्याप्तिप्रदर्शनं सर्वोपसंहारः । स्यादेतद्व्याप्तिरत्र युक्तैवेति, निमित्तान्तराभावे हि तद्वस्तुप्रत्ययवैलक्षण्यं कथमुपपद्येत, नह्येकविषयाणां बहूनामपि प्रत्ययानां वैलक्षण्यमस्ति, यदि स्यात्तदा रूप रसादिप्रत्ययानामपि नानाविषयो न सिद्ध्येत् । प्रत्ययभेदकृतत्वाद्विषयभेदव्यवस्थानस्येति । तदप्ययुक्तम् । नहि सामान्यप्रत्ययो वस्तुस्वलक्षणविषयः परमार्थतो युक्तः । आविष्टाभिलापेन प्रत्ययेन स्वलक्षणस्याविषयीकारणात् । किन्तु यतो यतस्तस्यैकस्यापि वस्तुनो व्यावृत्तिस्तन्निबन्धनास्तत्र यथासङ्केताभ्यासं तद्वस्त्वनुभवद्वारा यतो विकल्पा वाचकाश्च विश्वकल्पा यदि प्रवर्त्तेरन्नसत्यपि सामान्ये तदा को विरोध इत्यतो व्याप्त्यभाव उच्यते ॥ ७४५ ॥ ७४६ ॥

यच्चोक्तं गवादिष्वनुवृत्तं चेत्यादि, तत्राह—“तदनन्तर”मित्यादि ।

तदनन्तरमुद्दिष्टमनेनैव निराकृतम् ।
सामान्यसाधनं तस्मिन्निष्टसिद्ध्यादयः समाः ॥ ७४७ ॥

“अनेनैवे”ति समनन्तरोक्तहेतुदूषणेनैव । तत्रापि तुल्यदोषत्वात् । तथाहीष्टसिद्ध्यादयोऽत्रापि समानाः । आदिशब्देन साध्यशून्यता दृष्टान्तस्य हेतोरसिद्धिर्व्यभिचारश्चेत्यादि परिगृह्यते ॥ ७४७ ॥

प्रकारान्तरेणापि व्यभिचारमाह—“पाचकादिष्वि”त्यादि ।

पाचकादिषु च ज्ञानं विशिष्टमुपजायते ।
अभावेऽभावबुद्धिश्च विनैकेनानुगामिना ॥ ७४८ ॥

इच्छारचितरूपेषु नष्टाजातेषु वा ततः ।
अनैकान्तिकता हेतोः सर्वैरेभिर्यथोदितैः ॥ ७४९ ॥

नहि तत्रैकमनुगामि निमित्तं पाचकत्वपाठकत्वादिकमस्ति, येन पाचकः पाठक इत्यनुवृत्तिप्रत्ययो भवेत् । तथा प्रागभावादिषु चतुर्ष्वभावोऽभाव इति कथमनुवृत्तप्रत्ययो भवेत्, नह्यत्रापि सामान्यमस्ति तस्य वस्त्वाश्रितत्वात् । इच्छारचितरूपेषु चन्द्रापीडादिषु नभस्तलोपकल्पितधवलगृहादिषु नष्टाजातेषु च महासम्मतशङ्खप्रभृतिषु बुद्धिर्विनैकेनानुगामिना कथं भवेत् । नहि तत्रापि सामान्यमस्ति, व्यक्त्याश्रितत्वात्तस्य ॥ ७४८ ॥ ७४९ ॥

“न पाचकादी”त्यादिना पाचकादिषु ज्ञानं समर्थयते ।

न पाचकादिबुद्धीनामस्ति किञ्चिन्निबन्धनम् ।
कर्मास्ति चेत्प्रतिव्यक्ति ननु तद्भिद्यते तथा ॥ ७५० ॥

भिन्नेष्वन्वयिनोऽसत्वे न युक्ताऽन्वयिनी मतिः ।
इत्येकमिष्टं सामान्यं सर्वव्यक्त्यनुवृत्तिमत् ॥ ७५१ ॥

कर्मान्वयदरिद्रं च यदि हेतुः प्रकल्प्यते ।
तदा व्यक्तय एवास्याः किमितीष्टा न हेतवः ॥ ७५२ ॥

पाचकादिमतिर्न स्यात्तत्र चोपरतक्रिये ।
न सदासन्निधानं हि कर्मेष्टं जातिवत्परैः ॥ ७५३ ॥

अतीतानागतं कर्म निमित्तीकृत्य तेषु चेत् ।
पाचकादिषु धीशब्दौ, तन्न हेतुरसत्त्वतः ॥ ७५४ ॥

नहि पाचकादिषु कर्मनिबन्धना बुद्धिरिति युक्तं वक्तुम् । तस्यापि कर्मणः प्रतिव्यक्तिवद्भेदाभ्युपगमात्, भिन्नेषु हि विनैकेनानुगामिनाऽन्वयी प्रत्ययो नोपपद्यत इतिकृत्वा सामान्यं सर्वव्यक्त्यनुगतं परिकल्प्यते भवद्धिः । यदि चान्वयशून्यमपि कर्माभिन्नाभिधानप्रत्ययहेतुः स्यात्तदा को व्यक्तिषु प्रद्वेषो येन ताः परिहृत्य सामान्यं तद्धेतुत्वेन कल्प्यते । किञ्च यदि कर्मनिबन्धनः पाचकादिषु प्रत्ययः स्यात्तदा परतःक्रिये पाकमकुर्वति पाचक इति प्रत्ययो न स्यात् । नहि जातिवद्भवद्भिः सदा सन्निहितं कर्माभीष्टं, येनोपरतक्रियेऽपि प्रत्ययः स्यात् । नहि यो यन्निबन्धनः स तदभावे भवितुमर्हति, अतिप्रसङ्गत्, एवं हि सर्वः सर्वनिबन्धनं स्यात् । नचाप्यतीतानागतं कर्म तत्प्रत्ययनिबन्धनं युक्तं, तस्यातीतादेरसत्त्वात्, असतश्च हेतुभावानुपपत्तेः ॥ ७५० ॥ ७५१ ॥ ७५२ ॥ ७५३ ॥ ७५४ ॥

शङ्करस्वामी प्राह—पाचकाद्यनुवृत्तिप्रत्ययस्तत्कर्मजातिसम्बद्धया क्रियया योगस्तस्माद्भवति, तेनोपरतक्रियेऽपि क्रियया ध्रुवनिमित्तस्योपलक्षणात्पाचकादिप्रत्यय इत्यवसेयमिति । तदेतद्दर्शयति—“क्रिये”त्यादि ।

क्रियात्वजातिसम्बन्धक्रियायोगान्मतिर्यदि ।
नष्टक्रियेऽपि च तया ध्रुवहेतूपलक्षणात् ॥ ७५५ ॥

“तये”ति । क्रियया । ध्रुवनिमित्तं क्रियात्वजातिः ॥ ७५५ ॥

“न त्वि”त्यादिना प्रतिविधत्ते ।

न तु नष्टक्रिये तत्र लक्षितापि न विद्यते ।
गृह्यते या ध्रुवा जातिः स्वाधारविनिवृत्तितः ॥ ७५६ ॥

स्वस्या आधारः—क्रिया(त्व)जातेः सैव क्रिया । नहि जातेराश्रयग्रहणमन्तरेण केवलाया ग्रहणमवस्थितिर्वास्ति, अनाश्रितत्वप्रसङ्गात् ॥ ७५६ ॥

स्यादेतदेकदा जातेर्लक्षितत्वादुपरतेऽपि कर्मणि तदाधारे प्रवर्त्तत एव तन्निबन्धनप्रत्यय इत्याह—“दण्डे”त्यादि ।

दण्डाङ्गदादिजातीनामेकदा न हि लक्षणे ।
तद्वियोगेऽपि दण्ड्यादिमतिस्तेषु प्रवर्त्तते ॥ ७५७ ॥

अथापि पाचकत्वादिजातिरन्यैव वर्त्तते ।
सद्योजातेऽपि तद्योगात्पाचकादिमतिर्भवेत् ॥ ७५८ ॥

सदादिमतिवन्नो चेत्तदा सा समवायिनी ।
पश्चादपि न सा तत्र तथा स्यादविशेषतः ॥ ७५९ ॥

तत्सम्बद्धस्वभावस्य वैगुण्यान्न तयोरसौ ।
समवायस्तथा पश्चात्तादात्म्ये च कथं भवेत् ॥ ७६० ॥

एवं ह्यतिप्रसङ्गः स्यात्, नहि दण्डादिजातीनामेकदा लक्षितत्वात्परित्यक्तदण्डेष्वपि तेषु देवदत्तादिषु दण्डी कुण्डलीत्यादिमतिर्भवेत् । नच पाचकत्वादिजातिरत्राप्यस्तीति युक्तं, सद्योजातेऽपि जातेर्विद्यमानत्वात्पाचकादिबुद्धिप्रसङ्गः स्यात् । स्यादेतद्यथा सत्तानिबन्धनापि सदिति मतिर्भवन्ती न सर्वदा भवति, तथा जातिरप्याश्रयविशेषसमवायिनी भवन्ती न सर्वदा भविष्यति, तेन सद्योजातावस्थायां जातिर्नैव समवायिनी भविष्यति । समवायिनीत्युपलक्षणम्, नाभिव्यक्तेत्यपि ज्ञेयम् । एवं तर्हि न कदाचिदपि सा तत्समवायिनी प्राप्नोति । तथाहि—प्रथमतरं तयोर्जातिद्रव्ययोस्तत्सम्बद्धस्वभाववैगुण्यान्न समवायो जातेः, पश्चादपि तद्वैगुण्यं तदवस्थमेवेति कथं सा समवेयात्, नहि द्रव्यं भवतां मतेन क्षणिकं, येन पश्चाद्विशिष्टता तस्य भवेत् । “तथे”ति । समवायिनी । “तयो”रिति । जातिद्रव्ययोः । “तादात्म्य” इति । अपरित्यक्तप्राक्तनविगुणरूपत्वे ॥ ७५७ ॥ ७५८ ॥ ७५९ ॥ ७६० ॥

अथापि द्रव्यमनित्यमङ्गीक्रियते तदापि दोष इति दर्शयन्नाह—“यदि नामे”त्यादि ।

यदि नामाध्रुवा व्यक्तिर्लभेतातिशयं तदा ।
जातेस्तु विगुणं रूपं न कदाचिन्निवर्त्तते ॥ ७६१ ॥

यदि नामाध्रुवतया व्यक्तिरतिशयं पश्चाल्लभते, जातेस्तु ध्रुवत्वात्प्राग्वत्पश्चादपि तत्समवायविगुणं रूपमस्ति, कथमिव पश्चादपि समवायिनी भवेत् । न चापि पश्चात्कालभाविद्रव्यसमवायाविगुणरूपैव जातिः सर्वदावस्थितेति शक्यं वक्तुम्, द्रव्य स्यापि नित्यत्वप्रसङ्गात्, तत्सम्बद्धस्वभावाया जातेः सदावस्थितत्वात् । नहि द्वितीयसम्बन्ध्यभावे तत्सम्बद्धस्वभावावैगुण्यं युक्तम् ॥ ७६१ ॥

पचनादीत्यादिनोद्योतकरविहितं परिहारमाशङ्कते ।

पचनादिक्रियायाश्च प्रधानं साधनं मतम् ।
पाचकादीति तच्चास्ति प्राधान्यं पाचकान्तरे ॥ ७६२ ॥

स ह्याह—हेत्वर्थापरिज्ञानादिदमुच्यते । यथा पाचकादिशब्दा अनुवृत्ताश्च भवन्ति, नच पाचकत्वं नाम सामान्यमस्ति, तथा गवादिष्वनुवृत्तिप्रत्यया इति । यस्माद्विशेषप्रत्ययानामनाकस्मिकत्वादित्यस्य हेतोरयमर्थः । पिण्डप्रत्ययव्यतिरिक्तप्रत्ययस्य निमित्तान्तरादुत्पाद इति, न पुनः सर्वोऽनुवृत्तिप्रत्ययः सामान्यादेव भवतीति । एवं सति पचनक्रियाया यत्प्रधानं साधनं तत्पाचकशब्देनोच्यते, तच्च प्राधान्यं पाचकान्तरेऽप्यस्तीति न दोष इति ॥ ७६२ ॥

तदेत“त्प्राधान्य”मित्यादिना प्रतिविधत्ते ।

प्राधान्यं किमिदं नाम न शक्तिरसमन्वयात् ।
द्रव्यक्रियागुणात्मादि नात एवावकल्प्यते ॥ ७६३ ॥

किमिदं प्राधान्यं नाम, यदि शक्तिः, तदयुक्तम्, तस्याः प्रत्याधारनियताया व्यक्त्यन्तरासमन्वयात् । नापि द्रव्यादीनामात्मा स्वभावः स्वातन्त्र्यमत एवासमन्वयात् । आदिशब्देन षट्पदार्थव्यतिरिक्त इष्टो धर्मो गृह्यते । यत्पुनरूक्तं निमित्तान्तरादुत्पाद इत्यस्यायमर्थ इति, तत्र प्रतिविहितमेव सामान्येन किञ्चिन्निमित्तान्तरमस्तीति साधने सिद्धसाध्यता, सङ्केतमनप्त्कारस्य निमित्तत्वेनेष्टत्वात्, विशेषेण त्वन्वयवैकल्यंव्यभिचारश्च पाचकादिप्रत्ययैरिति ॥ ७६३ ॥

“त”दित्यादिनोपसंहरति ।

तद्विजातीयविश्लेषिरूपमात्रावसायिनी ।
सङ्केतभेदसापेक्षा पाचकादिषु शेमुषी ॥ ७६४ ॥

यथासङ्केतमेवातः शब्दा बुद्धय एव च ।
विभागे न प्रवर्तन्ते विनैकेनानुगाभिना ॥ ७६५ ॥

तत्—तस्मात्, यद्यतो निमित्तान्तरं निरूप्यमाणं पाचकादिधियो नोपपद्यते । तस्मात् । विजातीयस्य व्यवच्छिन्नवस्तुमात्राध्यवसायिनी यथासमयं पाचकः पाचक इत्येवमाकाराऽनुगता भिन्नेष्वपि वस्तुष्वभेदेन पाचकादिषु शेमुषी—धीरुपजायते, सर्वत्र विजातीयव्यवच्छेदस्य विद्यमानत्वात् । यत एवं गवादिष्वपि यथासङ्केतमभिन्नाकारव्यवसायिनः प्रत्ययाः शब्दाश्च प्रवर्त्तिष्यन्ते विनापि सामान्यमित्यनैकान्तिकता हेतोः ॥ ७६४ ॥ ७६५ ॥

“तथा चे”त्यादिनाऽभावेऽभावबुद्धिश्चेत्येतत्समर्थयते ।

तथा चाभावविज्ञानं नाभावेषु विरुध्यते ।
ध्वनिर्वाऽनुगतोऽनर्थसङ्केतानुगमात्तयोः ॥ ७६६ ॥

इदमेव हि सामान्यप्रत्ययस्य निबन्धनं व्यापि यदुत सङ्केताभोगः, अन्यथा ह्यभावेष्वभाव इत्यनुगतः प्रत्ययो ध्वनिश्च केन न विरुध्येत, न ह्यत्र जातिरस्ति वस्तुसमवायिनीत्वात्तस्याः । कस्मान्न विरुध्यत इत्यत्र कारणमाह—“अनर्थसङ्केतानुगमात्तयो”रिति । अविद्यमानो जात्यादिरर्थो यस्मिन्सङ्केते स तथोक्तः, तस्मादनुगमात —अन्वयात् तयोः—ध्वनिविज्ञानयोः । शब्दज्ञानयोः सङ्केतमात्रान्वयव्यतिरेकानुविधायित्वादिति यावत् ॥ ७६६ ॥

“घटस्ये”त्यादिना शङ्करस्वामिन उत्तरमाशङ्केते ।

घटस्य प्रागभावोऽयं घटप्रध्वंस इत्ययम् ।
तद्धस्तूपाधिकानेव धीरभावान्प्रपद्यते ॥ ७६७ ॥

उपाधिगतसामान्यवशादेवानुवृत्तता ।
तस्याः सर्वत्र चेन्नैवं वैलक्षण्यातदाश्रयात् ॥ ७६८ ॥

घट इत्यादिका बुद्धिस्तेभ्यो युक्ताऽनुगाभिनी ।
नाभावो भाव इत्येषा तन्मतिस्तु विलक्षणा ॥ ७६९ ॥

नहि सत्तावशाद्बुद्धिर्गौरश्व इति चेष्यते ।
एकमेवान्यथा कल्प्यं सामान्यं सर्वसाधनम् ॥ ७७० ॥

स ह्याह न हि तेष्वभावेष्वनुपाधिकाः प्रत्यया दृश्यन्ते, किं तर्हि ? घटस्य प्रागभावः घटस्य प्रध्वंसाभावः इत्येवं सर्वत्राभावप्रत्ययो वस्तूपाधिकानेवाभावानवलम्बते । तस्मात्सर्वत्रैव तस्या धिय उपाधिगतसामान्यवशादेवानुवृत्ततेति नास्ति व्यभिचार इति । “तस्या” इति । धियः प्रकृतत्वात्सम्बन्धः। “नैव”मित्यादिना प्रतिविधत्ते ।वैलक्षण्यसहितोऽतदाश्रय इति विग्रहः । समाहारद्वन्द्वो वा । वैलक्षण्यादतदाश्रयाच्च नैव युक्तमित्यर्थः । तत्र वैलक्षण्यादित्यस्य तावद्विस्तरेण समर्थनमाह—“घट” इत्यादि । न ह्येकोपाधिनिबन्धना भिन्नाकारा बुद्धयो युक्ताः, एकेनैव सर्वसामान्यकार्यसाधनादनेकसामान्यकल्पनावैयर्थ्यप्रसङ्गात् । तस्माद्धटत्वादिसामान्यवशाद्धट इत्यादिका धियो भवन्तु, अभाव इत्यादिकास्तु कथमिवात्यन्तविलक्षणास्तन्निबन्धना युज्येरन्,नहि सत्तावशाद्गोत्वादिधीर्भवेत् ॥ ७६७ ॥ ७६८ ॥ ७६९ ॥ ७७० ॥

भाविविक्तस्त्वाह—नहि सर्वत्र निमित्तानुरूपः प्रत्यय इष्यते । तथाहि—गजतुरगधवखदिरादिसमवायिनी बहुत्वसङ्ख्या सेनावनादिबुद्धीनां निमित्तं, पानककाञ्जिकादिबुद्धीनां विजातीयद्रव्यसंयोगो निमित्तम्, अन्यथाहि बहवः संयुक्ता इति च प्रत्ययः स्यादिति । तदेत“न्न निमित्ते”त्यादिनाऽऽशङ्क्य “यद्येव”मित्यादिना प्रतिविधत्ते ।

न निमित्तानुरूपा चेत्सर्वस्मिन्बुद्धिरिष्यते ।
यतस्सेनादिबुद्धीनां सङ्ख्यादीष्टं निबन्धनम् ॥ ७७१ ॥

यद्येवमियमेष्वेव भेदेष्विष्टा न किं मतिः ।
इच्छारचितसङ्केतभेदाभोगानुसारिणी ॥ ७७२ ॥

“इय”मिति । सामान्यधीः । सङ्केतस्य भेदो विशेषः ॥ ७७१ ॥ ७७२ ॥

कः पुनरत्रातिशयो येनैवमुच्यत इत्याह—“भेदे”त्यादि ।

भेदज्ञाने सतीच्छा हि सङ्केतकरणे ततः ।
तत्कृतिस्तच्छ्रुतिश्चास्या आभोगस्तन्मतिस्ततः ॥ ७७३ ॥

अन्वयव्यतिरेकाभ्यामिदमेव विनिश्चितम् ।
समर्थं कारणं तस्यामन्येषामनवस्थितिः ॥ ७७४ ॥

अन्वयव्यतिरेकसमधिगम्यः कार्यकारणभावः, स च सामान्यधियं प्रतीच्छारचितसङ्केताभोगमात्रस्य निश्चितः । तथाहि—प्रथमतरं तावद्भेदविषयमनुभवज्ञानमुत्पद्यते, तस्मिन्नुत्पन्ने सङ्केतकरणेच्छा जायते, ततश्चेच्छातस्तस्य सङ्केतस्य कृतिः— करणम्, ततस्तस्यैव व्यवहारकाले श्रुतिः—श्रवणम्, अस्याश्च श्रुतेः सकाशादुत्तरकालमाभोगो यथा श्रुतसङ्केतविषयः, ततश्चाभोगात्तेष्वेव भेदेषु तदध्यवसायेन प्रवृत्तेर्घट इत्यादिका मतिरुदयमासादयति । आगोपालमेतावन्मात्रमेवास्यां बुद्धौ कारणत्वेन निश्चितम् । अपरिदृष्टसामर्थ्यस्य तु सामान्यस्य कारणत्वोपकल्पनेऽतिप्रसङ्गः स्यात्, तदपि कल्पयित्वाऽपरमप्यदृष्टसामर्थ्येन तुल्यत्वात्किमिति न कल्प्येत ॥ ७७३ ॥ ॥ ७७४ ॥

तत्रैवोपचयमाह—“अनुरूपो ही”त्यादि ।

अनुरूपो हि संसर्गी स्यादित्यन्यार्थकल्पना ।
वैलक्षण्ये तु बुद्धीनामियदेवाश्रितं वरम् ॥ ७७५ ॥

सामर्थ्यनियमो ह्यत्र कल्पनीयो वरं स च ।
अन्वयव्यतिरेकाभ्यां कल्पितो ज्ञातशक्तिषु ॥ ७७६ ॥

तथाहि भवद्भिः सामान्यबुद्धीनामनुरूपमालम्बनाख्यं हेतुं निरूपयद्भिः भेदन्यर्बुदस्य सामान्यमुपकल्पितम्, यदि च तदपि कल्पितं सामान्यमन्याकारा अपि बुद्धीर्जनयति तदा वरमियदेव, यदेव यथोपवर्णितं दृष्टसामर्थ्यं कल्पितं भवेत् । एवं ह्यदृष्टार्थकल्पना न कृता स्यात् । अपिच कथमभिन्नं सामान्यं विलक्षणा बुद्धीर्जनयतीति पृष्टेन सता वक्तव्यमिदमवश्यं, यदुत शक्तिप्रतिनियमोऽयं पदार्थानां यदेकमपि सदनेकाकारप्रत्ययोपजननायालमिति । यद्येवं, ज्ञातशक्तिषु निश्चितसामर्थ्येषु भेदादिष्वेव सामर्थ्यनियामकमिति न कल्प्येत । एवं हि नानुभवविरुद्धमनुष्ठितं स्यात् ॥ ७७५ ॥ ७७६ ॥

स्यादेतत्सामान्यस्याप्यन्वयव्यतिरेकाभ्यां सामर्थ्यं निश्चितमेवेत्याह—“अन्वये”त्यादि ।

अन्वयानुविधानं च सामान्येषु न विद्यते ।
सदाऽसत्त्वान्न नित्यानां व्यतिरेकस्तु सम्भवी ॥ ७७७ ॥

सदा सदादिप्रत्ययानामसत्त्वादनुत्पत्तेर्नैषां तद्गतान्वयानुविधायित्वं युक्तम् । यदि ह्येते सामान्यानुविधायिनः स्युस्तदा सर्वदा सामान्यस्यावस्थितत्वात्किमिति सदा न भवेयुः, नहि सामान्यस्य काचिदपेक्षास्ति, परैस्तस्यानुपाधेयविशेषत्वादतो न तद्गतान्वयानुविधानमेषाम् । नापि व्यतिरेकानुविधानम्, तथाहि—यदाऽमी सदादिप्रत्यया नोत्पद्यन्ते तदा तत्र सामान्याभावः कारणमिति न शक्यं वक्तुम्, नित्यानां सदाऽवस्थायितया व्यतिरेकासम्भवात्, अतो नापि तद्गतव्यतिरेकानुविधानमेषामस्ति ॥ ७७७ ॥

यतश्चैवं निमित्तान्तराभ्युपगमे सामान्यादिधियां दोषस्तस्माद्यत्परैरुच्यते गुणत्वादिरेव सामान्यविशेषो गुणादिष्वद्रव्याकर्मादिप्रत्ययहेतुः, सामान्येषु च सत्तादिषु सामान्यमित्यनुगतप्रत्ययस्यानेकार्थसमवायो निमित्तमिति, तदपास्तं भवतीत्येतदाह—“अद्रव्यादी”त्यादि ।

अद्रव्यादिधियो हेतुर्न गुणत्वादि युक्तिमत् ।
अनेकसमवायश्च न सामान्यधियस्ततः ॥ ७७८ ॥

अतिप्रसङ्गश्चास्यामपि कल्पनायामिति दर्शयन्नाह—“अनेके”त्यादि ।

अनेकसमवायश्च सङ्ख्यादिष्वपि विद्यते ।
सामान्येष्विव तेषु स्युः सामान्यमिति बुद्धयः ॥ ७७९ ॥

यद्यनेकार्थसमवायः सामान्येषु सामान्यधियो निबन्धनं स्यात्, तदा सङ्ख्यासंयोगविभागावयविद्रव्यादिष्वनेकद्रव्याश्रितत्वमस्तीति, तेष्वपि सामान्यमिति धियः स्युर्निमित्ताविशेषात् । एकबुद्धिहेतुत्वमपि सत्तादीनां सदाद्याकारेण स्वात्मनियतत्वान्न सामान्यान्तरमास्कन्दति, ततश्च तद्बलेनापि न सामान्येषु सामान्यं सामान्यमित्यनुगतः प्रत्यय उपपद्यते । ततश्चासम्बद्धमिदं कुमारिलेनोक्तम्— तस्मादेकस्य भिन्नेषु या वृत्तिस्तन्निबन्धनः । सामान्यशब्दः सत्तादावेकधीकरणेन वेति ॥ ७७९ ॥

एवं तावद्वैलक्षण्यादित्येतद्व्याख्यातम्, अतदाश्रयादित्येतद्व्याचिख्यासुराह—“घटत्वादि चे”त्यादि ।

घटत्वादि च सामान्यं घटादावेव वर्त्तते ।
नाभावेष्वस्य वृत्तिस्तु तस्मात्तेषु कथं नु धीः ॥ ७८० ॥

नाश्रयान्तरवृत्ताद्धि युक्तावन्यत्र धीध्वनी ।
हस्तित्वादिव कर्कादावत्रैकार्थाश्रयोऽपि न ॥ ७८१ ॥

रसः शीतो गुरुश्चेति स्यादेकार्थाश्रयान्मतिः ।
इहायमपि नैवास्ति नाभावो वर्तते क्वचित् ॥ ७८२ ॥

घटादिष्वेव सामान्यं समवेतं नाभावेषु तस्यावस्तुत्वात् । तत्कथं तेष्वभावेषु तस्माद्धटत्वादेरन्यसमवायिनः सामान्यानुकारानुगतः प्रत्ययो भवेत् । नहि गजत्वादि कर्कादिष्वेकाकारप्रत्ययनिबन्धनं भवति । ननु चान्यत्र समवेतादप्यन्यत्र प्रत्ययो दृष्टस्तद्यथा मधुरो रसः स्निग्धः शीतो गुरुश्चेति । अत्राह—“एकार्थाश्रयोऽपि ने”ति । यत्रैव हि द्रव्ये माधुर्यं समवेतं तत्रैव शीतत्वादयोऽपीत्येकार्थसमवायबलादत्र भवति सामानाधिकरण्यम्, न तु पुनरभावो घटत्वादिसामान्यैः सह क्वचिदप्येकस्मिन्द्रव्ये समवैति । नीरूपस्य क्वचिदपि समवायायोगात् ॥ ७८० ॥ ७८१ ॥ ७८२ ॥

“विशेषणे”त्यादिनाऽत्रोद्योतकरस्य परिहारमाशङकते ।

विशेषणविशेष्यत्वसम्बन्धोऽप्यस्ति चेदिह ।
सम्बन्धान्तरसद्भावे ननु चासौ प्रकल्प्यते ॥ ७८३ ॥

तयोरासत्तिमाश्रित्य विशेषणविशेष्यता ।
कल्प्यते तदभावे तु साऽनिमित्ता न सिद्ध्यति ॥ ७८४ ॥

स ह्याह । घटत्वादीनां सामान्यानां घटादिभिः समवायलक्षणः सम्बन्धः, अभावानां तु विशेषणविशेष्यभावलक्षणस्ततश्च सामान्याभावयोरेकार्थसम्बन्धोऽत्रापिव्यपदेशहेतुरस्त्येवेति । तदत्र प्रतिविधानमाह—“सम्बन्धान्तरे”त्यादि । सम्बन्धान्तरोपजनितो हि भावानां परस्परं विशेषणविशेष्यभावः, तद्यथा दण्डदेवदत्तयो राजपुरुषयोश्च संयोगस्वस्वामिभावादिकं सम्बन्धमाश्रित्य विशेषणविशेष्यता, तस्य तु सम्बन्धान्तरस्य विशेषणविशेष्यभावं प्रति निमित्तभूतस्याभावे सा विशेषणविशेष्यता कथमिव भवेत्, अन्यथा ह्यतिप्रसङ्गः स्यात् । एवं हि सर्वं सर्वस्य विशेषणं भवेत् ॥ ७८३ ॥ ७८४ ॥

कथमिदानीं घटस्य प्रागभाव इत्यादिविशेषणविशेष्यभावो लोके सम्बन्धमन्तरेण प्रतीत इत्याह—“घटस्ये”त्यादि ।

घटस्य प्रागभावोऽयमित्यादि वचनं पुनः ।
कल्पनामात्रनिर्माणं कल्पिते शूरतादिवत् ॥ ७८५ ॥

विशेषणविशेष्यत्वं यत्र वस्तुसमाश्रयम् ।
सम्बन्धान्तरसद्भावस्तथावश्यं प्रकल्प्यते ॥ ७८६ ॥

प्रागभूत्वाभवतीत्येतन्मात्रार्थजिज्ञासायां बुद्धिरियं कल्पिका भावादर्थान्तरभूतमिव सम्बन्धेन प्रागभावमुपदर्शयन्ती प्रसूयते । तदभिप्रायवशादत्र विशेषणविशेष्यभावः, नन्तु वास्तवः । यथा कल्पनाशिल्पिघटितस्य शूरत्वादयो धर्मा विशेषणत्वेनोपादीयन्ते । यत्र तु भवद्भिर्वस्तुसमाश्रयो विशेषणविशेष्यभावो गृहीतस्तत्रावश्यं सम्बन्धान्तरमन्वेषणीयमन्यथा व्यवस्थानियमो न स्यात् ॥ ७८५ ॥ ७८६ ॥

अपिचायं न नवो(नश्चो ?)द्यानुरूप एव परिहारः शङ्करस्वामिनोक्त इति दर्शयन्नाह—“अभावोऽभाव” इत्यादि ।

अभावोऽभाव इत्येव ज्ञानमत्रावचोदितम् ।
उपाधिस्थं च सामान्यं स्वाश्रयेष्वेव वर्त्तते ॥ ७८७ ॥

यदिदं घटाभावे पटाभावे शशविषाणाद्यभावे वाऽभावोऽभाव इत्यनुगामिज्ञानं प्रवृत्तं तत्रास्माभिरसत्यपि सामान्येऽनुगतप्रत्ययदर्शनाद्व्यर्थाऽन्यत्रापि सामान्यकल्पनेति चोदितम्, न तु सजातीयानां बहूनां घटादीनां ये प्रागभावादयस्तत्र यज्ज्ञानं (तत्र) । यदि नामैवं ततः किमित्याह—“उपाधिस्थं चे”त्यादि । घटाद्युपाधिगतं यत्सामान्यं घटत्वादि, तत्स्वाश्रयेष्वेव घटादिषु वर्त्तते, नाश्रयान्तरे पटादौ, तत्कथं विजातीयपटादिगतप्रागभावादौ तस्मात्प्रत्ययः स्यादिति भावः ॥ ७८७ ॥

सर्वत्रैकमनुगामि सामान्यमस्तीति चेदाह—“नचे”त्यादि ।

नचानुयायि तेष्विष्टमन्यत्सत्त्वं यदीष्यते ।
न षडर्थातिरेकेण जायन्तेऽभावबुद्धयः ॥ ७८८ ॥

नहि सकलपटादिविजातीयानेकपदार्थव्याप्यपरं सामान्यमस्ति, यतोऽसौ प्रत्ययो भवेत् । स्यान्मतं सत्ताख्यं महासामान्यमस्ति तद्वलादभावप्रत्ययो भविष्यतीति, तदयुक्तम्, व्यभिचारात् । तथाहि—षट्पदार्थव्यतिरेकेणापरस्य प्रतिसङ्ख्यानिरोधादेः पदार्थस्याभाव इति भवतामभावबुद्धयो याः समुदाचरन्ति, तथोत्पाद्यकथारचितानाङ्कपिञ्जलादीनामभावः परमार्थत इति मतयस्तासु कतमदुपाधिगतं सामान्यं, यत्तासां निमित्तं स्यात् । न ह्येषां प्रतिसङ्ख्यानिरोधादीनां सत्त्वमस्ति भवन्मतेन । एतेनैतदपि प्रत्युक्तं यदुक्तं कुमारिलेन— ननु च प्रागभावादौ सामान्यं वस्तु नेष्यते । सत्तैव ह्यत्र सामान्यमनुत्पत्त्यादिरूपतेति । अनुत्पत्त्यादिरूपता—अनुत्पादादिविशिष्टतेत्यर्थः । अत्रापि ह्ययमेव दोषः । नहि मतान्तरीयानां पदार्थानामुत्पाद्यकथार्थानां च सत्तास्ति, येन तदभावप्रतीतिः स्यात् । तदध्यवसायिविकल्पसत्ता तत्र बहिरर्थशून्या प्रतीयत इति चेत् । यद्येवं नित्यैकसत्तारहितो विकल्पमात्रात्मक एव सकलशब्दार्थः किं नेष्यते । अन्यथा हि नित्यैकसत्तादिरूपसामान्याभ्युपगमे सत्तापुरुषत्वादीनां सर्वत्र स्वभेदे निरतिशयत्वात्कथं भिन्नरूपा प्रतीतिः स्यादिति चोद्यं दुष्परिहारमेव स्यादिति ॥ ७८८ ॥

इदानीमिच्छारचितरूपेषु नष्टाजातेषु चैतत्समर्थनमाह—“इच्छारचिते”त्यादि ।

इच्छारचितरूपादावर्थे जातिर्न विद्यते ।
व्यक्तेरसम्भवादेव स्थिता तद्व्यभिचारिता ॥ ७८९ ॥

अतीतानुपजातेषु नित्यसामान्यगोचरम् ।
ज्ञानं चेत्केवलं चेदं सामान्यं गृह्यते न तु ॥ ७९० ॥

केवलस्योपलम्भे वा न व्यक्तीनामिदं भवेत् ।
सामान्यं न च तद्व्यङ्ग्यं विन्ध्यस्येव हिमालयः ॥ ७९१ ॥

नोत्पत्तिपारतन्त्र्येण प्रतिबद्धं हि तास्विदम् ।
न ज्ञानपारतन्त्र्यं च नित्यत्वात्केवलग्रहात् ॥ ७९२ ॥

स्वाश्रयेन्द्रिययोगादिव्यपेक्षाया असम्भवात् ।
तत्सदैवोपलभ्येत यदि वा न कदाचन ॥ ७९३ ॥

स्वात्मनि ज्ञानजनने योग्यं वाऽयोग्यमेव वा ।
यद्येकदा तदा रूपं सर्वदैव हि तद्भवेत् ॥ ७९४ ॥

तस्य योग्यमयोग्यं वा रूपं यत्प्रकृतिस्थितम् ।
तद्ध्रौव्यादप्रकम्प्यं हि को नाम चलयिष्यति ॥ ७९५ ॥

इच्छया रचितं रूपं स्वभावो यस्य स तथोक्तः, स आदिर्यस्येति विग्रहः । आदिशब्देन नष्टाजातपरिग्रहः । नहि तत्र कल्पितादिषु सामान्यमस्ति, येन तन्निबन्धना तेषु मतिः स्यात् । स्यादेतन्माभूत्कल्पितेषु सामान्यम्, अतीताजाते तु तन्निबन्धना बुद्धिर्भविष्यतीति, तदेतन्मिथ्या, न ह्याश्रितानामयं धर्मो यदाश्रयमन्तरेणापि केवलानामवस्थानं भवेत्, अनाश्रितत्वप्रसङ्गात् । भवतु नाम केवलानामवस्थानं तथापि दोष एव, केवलस्य सामान्यस्य ग्रहणानभ्युपगमात् । तथाचोक्तं—स्वाश्रयेन्द्रियसन्निकर्षापेक्षप्रतिपत्तिकं सामान्यमिति । केवलस्य सामान्यस्य ग्रहणे सामान्यधियो व्यक्तिव्यवसायो न प्राप्नोति व्यक्तेस्तदानीमभावात् । व्यक्तीनामिदं सामान्यमिति सम्बद्धश्च न स्यात्, निबन्धनाभावात् । तथाहि—निबन्धनं भवत्सम्बन्धस्य तद्व्यङ्ग्यत्वं वा सामान्यस्य भवेत्, तज्जन्यता वा, तद्ग्रहणापेक्षग्रहणता वा । तत्र न तावत्ताभिर्व्यङ्ग्यत्वात्तत्सम्बद्धं सामान्यं, नित्यतया परैरनुपकार्यस्य विशेषाभावाद्व्यङ्ग्यत्वानुपपत्तेः । यो हि यस्यानुपकारकः स तस्याभिव्यञ्जको न भवति, यथा विन्ध्यस्य हिमवान् । तथाच व्यक्तयः सामान्यस्येति व्यापकविरुद्धोपलब्धेः । अनुपकारकस्यापि व्यञ्जकत्वेऽतिप्रसङ्गः, सर्वः सर्वस्य व्यञ्जकः स्यात् । अत एव नित्यतया तस्याभ्युपगतत्वात्तासु नोत्पत्तिपारतन्त्र्यमपि तस्य युक्तम् । केवलस्यापि ग्रहणान्नापि तज्ज्ञानपारतन्त्र्यमिति, त्रयाणामपि पक्षाणामसम्भवः । ततश्च यदिदमुच्यतेस्वाश्रयेन्द्रियसन्निकर्षापेक्षप्रतिपत्तिकं सामान्यमिति तदयुक्तमाश्रयस्यैवायोगात्, कुत “स्तद्गतेन्द्रियस”न्निकर्षाद्यपेक्षता भविष्यति । आदिग्रहणेनात्ममनःसन्निकर्षादिपरिग्रहः । नित्यतया परैरनुपाधेयविशेषत्वान्नाप्यस्य क्वचिदपेक्षाऽस्ति । ततश्च यदि तत्स्वविषयज्ञानोत्पादनसमर्थं तदा सर्वदैव तज्जनयेत्, अथासमर्थं तदा न कदापि जनयेत्, नहि तस्य तद्रूपं समर्थमसमर्थं वा तत्क्वचिदन्यथाकर्तुमीशते नित्यत्वहानिप्रसङ्गात् । यथोक्तम्— तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता । नित्यत्वादचिकित्स्यस्य कस्तां क्षपयितुं क्षम ॥ इति ॥ ७८९ ॥ ७९० ॥७९१ ॥ ७९२ ॥ ॥ ७९३ ॥ ७९४ ॥ ७९५ ॥

यच्चोक्तं—“गोतश्चार्थान्तरं गोत्व”मित्यादि । तस्य पाचकादिभिरनैकान्त इति दर्शयति—“गोत” इत्यादि ।

गोतश्चार्थान्तरं गोत्वं भिन्नधीविषयत्वतः ।
रूपस्पर्शादिवत्तस्येत्युक्तेश्चैत्रतुरङ्गवत् ॥ ७९६ ॥

इत्यस्मिन्व्यभिचारोक्तिः पाचकत्वादिभिस्तथा ।
अनया च दिशाऽन्येऽपि सर्वे दूष्याः कुहेतवः ॥ ७९७ ॥

तथाहि पाचकादिभ्यः पाचकत्वादेरसत्यप्यर्थान्तरभावे पाचकः पाचक इति भिन्नधीविषयत्वं भवत्येव, देवदत्तस्य पाचकत्वमिति च व्यतिरेकविभक्तिर्भवतीत्यतः साधारणानैकान्तिकता हेतोः । “अन्येऽपि कुहेतव” इति । कुमारिलगदिताः । तत्रामी तेन कुहेतव उक्ताः । गोपिण्डभेदेषु या गोबुद्धिरियमेकगोत्वनिबन्धना गवाभासत्वादेकाकारत्वाच्च । एकगोपिण्डविषयबुद्धिवत् । अथवा येयं गोबुद्धिः सा साबलेयान्न भवति, यद्वा तद्व्यतिरिक्तार्थालम्बना, तदभावेऽपि भावात्, यथा घटे पार्थिवबुद्धिः । सर्वगतत्वं कथं तस्य सिद्धमिति चेदुच्यते । येयं गोमतिः सा प्रत्येकसमवेतार्थविषया प्रतिपिण्डं कृत्स्नरूपपदार्थाकारत्वात्, प्रत्येकव्यक्तिविषयबुद्धिवत् । एकत्वमपि सिद्धमेव, तथाहि यद्यपि सामान्यं प्रत्येकं सर्वात्मना परिसमाप्तम्, तथापि तदेकमेव, एकाकारबुद्धिग्राह्यत्वात्, यथा नञ्युक्तेषु ब्राह्मणादिनिवर्त्तनम् । न चैतच्छक्यं वक्तुम्—भिन्नेषु योऽयमभिन्नाकारप्रत्ययः स भ्रान्तस्तेन तद्बलाद्वस्तुतत्त्वव्यवस्थानमसङ्गतमिति, यतो नास्य कारणदुष्टताऽस्ति । नापि बाधकप्रत्ययोद्भवस्तस्मान्मिथ्यात्वनिबन्धनाभावादयुक्तमेतदिति । आह च— पिण्डभेदेषु गोबुद्धिरेकगोत्वनिबन्धना । गवाभासैकरूपाभ्यामेकगोपिण्डबुद्धिवत् ॥ न साबलेयाद्गोबुद्धिस्त तोऽन्यालम्बनापि वा । तदभावेऽपि सद्भावाद्घटे पार्थिवबुद्धिवत् ॥ प्रत्येकसमवेतार्थविषया वाऽथ गोमतिः । प्रत्येकं कृत्स्नरूपत्वात्प्रत्येकव्यक्तिबुद्धिवत् ॥ प्रत्येकसमवेताऽपि जातिरेकैकबुद्धितः । नञ्युक्तेष्विव वाक्येषु ब्राह्मणादिनिवर्त्तनम् ॥ नैकरूपामतिर्गोत्वे मिथ्या वक्तुं च शक्यते । नात्र कारणदोषोऽस्ति बाधकप्रत्ययोऽपि वा ॥ इति । तदत्र प्रथमे साधने तावत्साध्यविकलमुदाहरणम्, एकस्य गोत्वस्यासिद्धेस्तन्निबन्धनत्वमेकगोबुद्धेरप्यसिद्धमेव । अथ सामान्येनैकनिबन्धनत्वं साध्यते, तदा सिद्धसाध्यता, विजातीयव्यवच्छेदेन कल्पितैकगोव्यावृत्तिनिबधनत्वस्येष्टत्वात् । न साबलेयाद्गोबुद्धिरित्यत्रापि साक्षात्तदुत्पत्तिनिषेधे साध्ये सिद्धसाध्यता, त(स्य)स्वलक्षणानुभवसङ्केतमनस्कारादिव्यवहितत्वात् । अथ परम्परयापि ततो न भवतीति साध्यते, तदा प्रतिज्ञाया अनुभवबाधा दृष्टान्तस्य च साध्यविकलता । अन्यालम्बनत्वेऽपि साध्ये —यदि सन्निहिते साबलेये गौरयमिति या बुद्धिरुत्पद्यते सा ततोऽन्यालम्बनेति साध्यते, तदाऽत्राप्यनुभवविरोधः । तथाहि—सा सन्निहितपिण्डाध्यवसायेनैव वर्त्तते । दृष्टान्तस्य च साध्यविकलता । अथ तदसन्निधाने या बाहुलेयादिसन्निधौ तथा प्रवृत्ता बुद्धिः सा ततोऽन्यालम्बनेति साध्यते, तदा सिद्धसाध्यता । यदि तु साक्षाद्वस्तुसदालम्बनेति साध्यते तदाऽनैकान्तिकता । न ह्यस्य किञ्चित्परमार्थतोवस्तु सदालम्बनमस्तीति प्रतिपादितत्वात् । यच्च प्रत्येकपरिसमाप्तार्थविषयत्वसाधनम्, तत्रापि सामान्येन साध्ये सिद्धसाध्यता, प्रतिपदार्थमतद्रूपपरावृत्तवस्तुरूपाध्यवसायेन प्रवृत्तत्वात् । अथ नित्यैकप्रत्येकपरिसमाप्तवस्तुभूतसामान्याख्यपदार्थविषयत्वं साध्यते, तदा दृष्टान्तस्य साध्यविकलता हेतोश्चानैकान्तिकता, तथाविधेन धर्मेण क्वचिदप्यन्वयासिद्धेः । एकस्य च सर्वात्मना बहुषु परिसमाप्तत्वे सर्वेषां व्यक्तिभेदानां परस्परमेकरूपतापत्तिः, एकव्यक्तिपरिनिष्ठितस्वभावसामान्यपदार्थसंस्पृष्टत्वादेकव्यक्तिरूपत्वात् । सामान्यस्य वाऽनेकत्वापत्तिर्युगपदनेकवस्तुपरिसमाप्तात्मरूपत्वात्, दूरदेशावस्थितानेकभाजनगतबिल्वादिफलवदित्यनुमानबाधा । तेन यदुक्तं—न चात्र बाधकः प्रत्ययोऽस्तीति, तदसिद्धम् । पूर्वं चोक्तत्वाद्वक्ष्यमाणत्वाच्च बाधकस्य । यच्चैकत्वसाधनं जातेः, तत्रापि जातेः प्रत्येकसमवेताया असिद्धत्वादेकबुद्धिग्राह्यत्वमसिद्धमित्याश्रयासिद्धो हेतुः । ब्राह्मणादिनिवर्त्तनं च परमार्थतो नैकमवस्तुत्वादिति साध्यविकलमुदाहरणम् । काल्पनिके चैकत्वे साध्ये सिद्धसाध्यता, कल्पितस्यापोहरूपत्वेनेष्टत्वात् । यच्चाप्युच्यते—न चात्र कारणदोषोऽस्तीति, तदप्यसिद्धमेव, अनादेरवि द्यावासनालक्षणस्य कारणदोषस्य विद्यमानत्वात् । तदेवमनया दिशा कुहेतवोऽमी दूष्याः ॥ ७९६ ॥ ७९७ ॥

एवं तावद्विस्तरेण परोक्तसामान्यसाधनानां दूषणमभिधाय सामान्यस्य बाधकं प्रमाणमभिधातुकाम आह—“अपिचे”त्यादि ।

अपिचानेकवृत्तित्वं सामान्यस्य यदुच्यते ।
तत्र केयं मता वृत्तिः स्थितिः किं व्यक्तिरेव वा ॥ ७९८ ॥

स्वरूपाप्रच्युतिस्तावत्स्थितिरस्य स्वभावतः ।
नाधारस्तत्कृतौ शक्तो येन स्थापकता भवेत् ॥ ७९९ ॥

गमनप्रतिबन्धोऽपि न तस्य बदरादिवत् ।
विद्यते निष्क्रियत्वेन नाधारोऽतः प्रकल्प्यते ॥ ८०० ॥

स्थितिस्तत्समवायश्चेन्न तथैव विचार्यते ।
सोऽभीष्टोऽयुतसिद्धानामाश्रयाश्रयितात्मकः ॥ ८०१ ॥

अवश्यं सामान्यस्य भेदेषु वृत्तिरेष्टव्या । अन्यथा कथं तेषु प्रतिनियमेनैकाकारा बुद्धिस्तन्निबन्धना सेत्स्यति । तत्र च वृत्तिरस्य भवन्ती स्थितिलक्षणा वा भवेत्, तदभिव्यक्तिलक्षणा वा, स्थितिरपि द्विधा—स्वभावाप्रच्युतिलक्षणा वा, यद्वाऽधोगतिप्रतिबन्धलक्षणा । तत्र न तावदाद्या—नित्यत्वात्स्वत एव स्वभावाप्रच्युतेः सिद्धत्वात् । नापि द्वितीया—अमूर्त्तसर्वगतत्वाभ्यां निष्क्रियतयाऽधोगमनासम्भवादतो न तत्प्रतिबन्धकत्वसाधारणं युक्तम् । भेदेषु यः सामान्यस्य समवायः सा स्थितिरित्येतदप्यनुत्तरमेव, तस्यैव समवायस्य विचार्यमाणत्वात् । तथाहि—अपृथक्सिद्धानामाश्रयाश्रयिभावलक्षणः सम्बन्धः समवाय उच्यते, तच्चाश्रितत्वं सामान्यस्य तत्प्रतिबद्धस्थितितया वा भवेत्, तदभिव्यङ्गितया वेतीदमेव निरूपयितुमारब्धम् । नहि परस्परासङ्कीर्णात्मनामकिञ्चित्करमर्थान्तरं समवायो युक्तोऽतिप्रसङ्गात् । एवं हि सर्वः सर्वस्य समवायः स्यात्, तथाहि—परस्परव्यावृत्तशरीरान्भावान्यः संश्लेषयति स समवायः कल्पितः । न चार्थान्तरसद्भावेऽपि स्वात्मनि व्यवस्थिताः परस्परस्वभावमन्वाविशन्ति, स्वरूपहानिप्रसङ्गात् । तस्य चार्थान्तरस्य समवाय इति नामकरणे न विवाद इत्ययुक्तमर्थान्तरं स्थितिरिति ॥ ७९८ ॥ ७९९ ॥ ८०० ॥ ८०१ ॥

स्यादित्यादिना सामान्यं प्रत्याधारकल्पनाया अत्यन्तासम्बद्धतां दर्शयति ।

स्यादाधारो जलादीनां गमनप्रतिबन्धकः ।
अगतीनां किमाधारैः सामान्यानां प्रकल्पितैः ॥ ८०२ ॥

स्वज्ञानोत्पत्तियोग्यत्वे किमभिव्यक्तिकारणैः ।
स्वज्ञानोत्पत्त्ययोग्यत्वे किमभिव्यक्तिकारणैः ॥ ८०३ ॥

ह्यः समर्थः समर्थात्मा व्यञ्जकैः क्रियते यदि ।
भावोऽस्थिरो भवेदेवं दीपव्यङ्ग्यघटादिवत् ॥ ८०४ ॥

“अगतीनामि”ति । गतिरहितानाम् । अमूर्त्तसर्वगतत्वाभ्यां गतेरभावात् । तदभिव्यक्तिलक्षणापि स्थितिरयुक्ता, तथाहि—तद्विषयज्ञानोत्पादनमेव तस्याभिव्यक्तिर्न तु स्वभावपरिपोषणलक्षणा नित्यस्य स्वभावान्यथाकरणासम्भवात्, ततश्च तस्य यदि स्वतएव ज्ञानोत्पादनसामर्थ्यं तदा किमित्यभिव्यक्तिकारणमपेक्षते । अथासामर्थ्यं तदा परैरनाधेयविषयत्वान्न तदपेक्षा युक्तिमती । परैराधेयविशेषत्वे चाङ्गीक्रियमाणे सत्यनित्यत्वप्रसङ्गः, ततश्च व्यक्तिवदेवासाधारणत्वान्न सामान्यं स्यात् । “भाव” इति । भवतोऽस्मादभिधानप्रत्ययाविति कृत्वा कृत्स्न एव सामान्यपदार्थ उच्यते । प्रयोगः— यस्य यस्मिन्वृत्तिनिबन्धनं न किञ्चिदस्ति न तत्तस्मिन्वर्तते, यथा विन्ध्ये हिमवान्, नास्ति च सामान्यस्य भेदेषु वृत्तिनिबन्धनं किञ्चिदिति व्यापकानुपलब्धिः ॥ ८०२ ॥ ॥ ८०३ ॥ ८०४ ॥

“घटादी”त्यादिना दूषणान्तरमप्याह ।

घटादिजातिभेदाश्च स्वाश्रयेष्वेव भाविनः ।
सर्वत्र वृत्तिभाजो वा भवेयुः परजातिवत् ॥ ८०५ ॥

घटत्वादिजातिभेदादि । घटत्वपार्थिवत्वादयः सर्वगतत्वेन वर्ण्यमानाः कदाचित्स्वाश्रयमात्रव्यापितया वर्ण्येरन्, यद्वा व्यक्तिशून्येऽपि देशे सर्वत्र भावादिति पक्षद्वयम् । “परजाति”वदिति । महाविषयतया सत्ता परेऽत्यभिधीयते । इयं च महाविषयत्वमात्रसाम्येनैव दृष्टान्तीकृता । नतु व्यक्त्यन्तरालवर्त्तिदेशव्यापितया, तस्या अपितद्धर्माप्रतीतेः ॥ ८०५ ॥

तत्र प्रथमे पक्षे दोषमाह—“तत्रे”त्यादि ।

तत्र देशान्तरे वस्तुप्रादुर्भावे कथं नु ते ।
दृश्यन्ते वृत्तिभाजो वा तस्मिन्निति न गम्यते ॥ ८०६ ॥

घटादिव्यक्तिशून्ये देशे घटादिवस्तुप्रादुर्भावे सति ते जातिभेदा घटत्वादयः कथं तत्र घटादौ दृश्यन्ते वर्त्तन्ते चेति न गम्यते—नावबुध्यत इति यावत् ॥ ८०६ ॥

कथमित्याह—“नही”त्यादि ।

न हि तेन सहोत्पन्ना नित्यत्वान्नाप्यवस्थिताः ।
तत्र प्रागविभुत्वेन नचाऽऽयान्त्यतोऽक्रियाः ॥ ८०७ ॥

तथाहि—यदि घटादिना व्यक्तिभेदेन सहोत्पन्नास्ते भवेयुः प्राग्वा तत्रावस्थिताः स्युरन्यतो वा देशान्तरादागच्छेयुस्तदा तत्र दृश्येरन्वर्त्तेरन्वा । यावता न तेषामुत्पादो नित्यत्वात्, नापि प्रागवस्थानं सर्वव्यापित्वात्; नाप्यन्यदेशादागमनमक्रियत्वात्; तत्कथं तेषु तेषां वृत्तिरुपलब्धिर्वा भवेत् । प्रयोगः—ये यत्र नोत्पन्ना नापि प्रागवस्थायिनो नापि पश्चादन्यतो देशादागतिमन्तस्ते तत्र नोपलभ्यन्ते नापि वर्त्तन्ते, यथा शशशिरसि तद्विषाणम्, तथाच सामान्यं तच्छून्यदेशोत्पादवति घटादिके वस्तुनीति व्यापकानुपलब्धिः । न चायमनैकान्तिको हेतुः, तत्र वृत्त्युपलम्भयोः प्रकारान्तराभावात् ॥ ८०७ ॥

द्वितीयेऽपि पक्षे दोषमाह—“स्वाश्रये”त्यादि ।

स्वाश्रयेन्द्रिययोगादेरेकस्मिंस्तद्ग्रहे सति ।
सर्वत्रैवोपलभ्येरंस्तत्स्वरुपाविभागतः ॥ ८०८ ॥

स्वाश्रयेन्द्रियसंयोगादेः—उपलम्भहेतोः । आदिशब्देनात्ममनःसन्निकर्षादिपरिग्रहः । एकस्मिन्व्यक्तिभेदे तेषां जातिभेदानां ग्रहणे सति सर्वत्रैव विजातीयेऽपि व्यक्तिभेदेऽन्तराले चोपलभ्येरन्, तेषां यथास्वमेकरूपतया प्रत्येकं गृहीतरूपाव्यतिरेकात् ॥ ८०८ ॥

एतदेव स्पष्टयन्नाह—“ज्ञातादि”त्यादि ।

ज्ञातादव्यतिरिक्तं चेत्तस्यापि ग्रहणं भवेत् ।
तद्वदेव न वा तस्य ग्रहणं भेद एव वा ॥ ८०९ ॥

तथाहि—दृष्टव्यक्तिसमवेतसामान्यरूपाद्विज्ञातादव्यतिरिक्तं चेद्व्यक्त्यन्तरालवर्त्ति सामान्यरूपं तदा तस्यापि ग्रहणं भवेत्, गृहीतादभिन्नत्वात्, गृहीतस्वरूपवत् । अथ तस्य ग्रहणं न भवति, तथासत्यगृहीतरूपाव्यतिरेकात्तद्वद्दृष्टव्यक्तिसमवायिनोऽपि ग्रहणं न स्यात् । अथोभयरूपताऽङ्गीक्रियते तदा स्वभावभेदप्रसङ्गः, परस्परविरु द्धधर्माध्यासात् । न ह्यन्योन्यप्रत्यनीकग्रहणाग्रहणधर्माध्यासितमपि सदेकमिति युक्तमभिधातुं स्वच्छचेतसः, अतिप्रसङ्गात् । एवं हि विश्वमेकमेव द्रव्यं स्यात्, ततश्च सहोत्पादविनाशादिप्रसङ्गः, अन्यथैकमिति नाममात्रमेव स्यात्, नच नाम्नि विवादः ॥ ८०९ ॥

तदेवं सर्वप्रकारेण जातिमभिदूष्य प्रयोगं रचयन्नाह—“नान्ये”त्यादि ।

नान्यकल्पितजातिभ्यो वृक्षादिप्रत्यया इमे ।
क्रमित्वानुगमादिभ्यः पाचकादिधियो यथा ॥ ८१० ॥

नित्यस्याजनकत्वं च बाधकं सम्प्रतीयते ।
संयोगदूषणे सर्वं यदेवोक्तं प्रबाधकम् ॥ ८११ ॥

ये क्रमित्वानुगामित्ववस्तुत्वोत्पत्तिमत्त्वादिधर्मोपेतास्ते परपरिकल्पितनित्यैकसर्वगतसामान्यतो न भवन्ति, यथा पाचकादिप्रत्ययाः, तथाचामी वृक्षादिप्रत्यया इति विरुद्धव्याप्तोपलब्धिः । नित्यताभावविरुद्धानित्यताभावेन क्रमित्वादेर्व्याप्तत्वात् । नित्यस्य च क्रमाक्रमाभ्यामर्थक्रियाविरोधान्नानैकान्तिकता हेतोः । दृष्टान्तस्य च साध्याविकलतायाः पूर्वं विस्तरेण प्रसाधितत्वान्नासिद्धो दृष्टान्तः । बाधकान्तरमप्याह-“संयोगे”त्यादि । तत्र संयोगदूषणे बाधकमुक्तम्, एकस्यानेकवृत्तिश्च न युक्तेति प्रबाधकमित्यनेन । यथाचानेकत्रैकस्य वृत्तिर्न युक्ता, तथाऽवयविदूषणे तद्ध्येकवृत्तिभाजेत्यादिना प्रदर्शिता ॥ ८१० ॥ ८११ ॥

“एव”मित्यादिनोपसंहरति ।

एवमेकान्ततो भिन्नजातिरेषा निराकृता ।
जैमिनीयाभ्युपेता तु स्याद्वादे प्रतिषेत्स्यते ॥ ८१२ ॥

इति सामान्यपरीक्षा ।

यैर्वैशेषिकादिभिर्व्यक्तितो जातिरेकान्तभिन्नेष्टा तेषामिदं दूषणमुक्तम् । ये पुनरभिन्नामुभयरूपां च जातिमिच्छन्ति जैनजैमिनीयसाङ्ख्यादयः, तदुपवर्णिता जातिःप्रस्तावात्स्याद्वादे निषेत्स्यते । इह तु वैशेषिकनैयायिकोपकल्पिताया जातेः प्रस्तुतत्वान्न दूष्यते प्रस्तावाभावादिति भावः ॥ ८१२ ॥

इति सामान्यपरीक्षा ।