१२ कर्मपदार्थ-परीक्षा

कर्मपदार्थदूषणार्थमाह—“क्षणे”त्यादि ।

क्षणक्षयिषु भावेषु कर्मोत्क्षेपाद्यसम्भवि ।
जातदेशे च्युतेरेव तदन्यप्राप्त्यसम्भवात् ॥ ६९२ ॥

उत्क्षेपणमपक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणीति सूत्रम् । तत्रोत्क्षेपणमूर्ध्वाधःप्रदेशाभ्यां संयोगविभागकारणं यत्कर्मोत्पद्यते । यथा—शरीरावयवे तत्सम्बद्धे वा मूर्त्तिमति द्रव्ये लोष्टादावूर्ध्वदिग्भागोपाधिभिराकाशप्रदेशाद्यैः संयोगकारणमधोदिग्भागावच्छिन्नैश्च विभागकारणं प्रयत्नादिवशाद्यत्कर्मोपजायते तदुत्क्षेपणमुच्यते । एतद्विपरीतं संयोगविभागकारणं कर्मावक्षेपणं । ऋजुद्रव्यस्य कुटिलत्वहेतुराकुञ्चनम्, यथोक्तम्—ऋजुनो बाह्वादिद्रव्यस्य येऽग्रावयवा अङ्गुल्यादयस्तेषां स्वसंयोगिभिराकाशाद्यैर्विभागे सति मूलप्रदेशैश्चांशादिभिः संयोगे सति येन कर्मणाऽवयवी बाह्वादिलक्षणः कुटिलः समुत्पद्यते तदाकुञ्चनमिति । एतद्विपर्ययेण तु संयोगविभागोत्पत्तौ येन कर्मणाऽवयवी ऋजुः सम्पद्यते तत्प्रसारणम् । यदनियतदिक्प्रदेशैर्घटादिभिः संयोगविभागकारणं तद्गमनम् । उत्क्षेपणादिकं चतुःप्रकारं कर्म नियतदिग्देशैराकाशैराशादिभिः संयोगविभागकारणम् । गमनं तु—अनियतदिग्भिः सर्वतोदिक्कैः प्रदेशैः संयोगविभागौ करोति । अत एव पञ्चैव कर्माणि सम्भवन्ति । भ्रमणस्यन्दनरेचनादीनां गमन एवान्तर्भावात् । एतच्च पञ्चविधमपि कर्म मूर्त्तिमद्द्रव्यवृत्तिसंयोगविभागकार्योन्नीतसत्त्वतया सिद्धम् । सर्वस्यैव संयोगविभागविशेषः साधारणं कार्यमतः कार्यतः सिद्धिरस्य । तथा प्रत्यक्षतोऽपि । यथोक्तम्—“सङ्ख्यापरिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिसमवायाच्चाक्षुषाणी"ति । तदेषा सङ्खेपात्परप्रक्रियोक्ता । तदत्र संयोगविभागयोः पूर्वं निषिद्धत्वात्कार्यमसिद्धम् । अथ नैरन्तर्येणोत्पादादिमात्रलक्षणौ संयोगविभागौ तत्कार्यतया हेतुत्वेनोच्यते, एवमप्यनैकान्तिकता हेतोः । तथाविधेन कर्मणा तयोः क्वचिदप्यन्वयासिद्धेः । साध्यविपर्ययेण च हेतोर्व्याप्तेर्विरुद्धताऽपि । कारणमात्रास्तित्वे च साध्ये सिद्धसाध्यता, वाय्वादीनां तथाविधसंयोगविभागकारणत्वेनाभीष्टत्वात् । विशेषे च साध्ये प्रतिज्ञाया अप्यनुमानबाधा । तथाहि—क्रियासमावेशो भवन्पदार्थस्य क्षणिकस्य वा(ऽक्षणिकस्य वा) । न तावत्क्षणिकस्य, तस्य जन्मदेश एव च्युतेः—नाशाद्देशान्तरप्राप्तसम्भवात् । प्रयोगः—यो यत्र देशे च्यवते न स तदुत्तरकालं तदन्यदेशमाप्नोति, यथा प्रदीपादिः । जन्मदेश एव च्यवन्ते च सर्वे भावा विवक्षिता इति व्यापकविरुद्धोपलब्धिः ॥ ६९२ ॥

नानैकान्तिकता हेतोरिति दर्शयन्नाह—“जन्मे”त्यादि ।

जन्मातिरिक्तकालं हि क्रियाकालं परे जगुः ।
इष्टाशुतरनाशेषु दीपादिष्वपि वस्तुषु ॥ ६९३ ॥

इष्ट आशुतरो विनाशो येषां ते तथा । प्रदीपादेरपि हि शीघ्रतरकालविनाशितयाऽभीष्टस्यापि जन्मोत्तरकालभाविन्येव क्रिया, षट्क्षणस्थायित्वेनास्याक्षणिकत्वात् ॥ ६९३ ॥

कथमित्याह—“तथाही”त्यादि ।

तथाहि कारणाऽऽश्लेषः सामान्यस्याभिव्यञ्जनम् ।
स्वावयवे ततः कर्म विभागस्तदनन्तरम् ॥ ६९४ ॥

संयोगस्य विनाशश्च ततो द्रव्यस्य सङ्क्षयः ।
षट्क्षणस्थायितैवेष्टा दीपादावपि वस्तुनि ॥ ६९५ ॥

तथाहि—स्वकारणसम्बन्धकालस्तावत्प्रथमं भवति । ततः पश्चात्स्वसामान्याभिव्यक्तिकालस्ततोऽवयवकर्मकालस्तदनन्तरमवयवविभागकालस्ततः स्वारम्भकावयवसंयोगविनाशस्ततो द्रव्यविनाश इति षट्क्षणस्थायितैव दीपादेरपि वस्तुनोऽभीष्टा ।अतः क्षणिकस्य कस्यचिद्गतिमतः पदार्थस्याभावात्सर्वेषामेव क्रियावतां जन्मोत्तरकालभाविन्येव क्रिया । नाप्यसिद्धता हेतोरन्यस्य क्षणिकत्वायोगात् ॥ ६९४ ॥ ६९५ ॥

अथापि स्याद्यदि नाम क्षणिकता भावानामस्माभिरिष्यते । तथाप्यमीषां जन्मकालभाविन्येव क्रिया कस्मान्न भवतीत्याह—“पश्चिमे”त्यादि ।

पश्चिमाग्रिमदेशाभ्यां विश्लेषाऽऽश्लेषसम्भवे ।
गन्ताऽपरो वा सर्वश्च कर्माधारः प्रकल्पितः ॥ ६९६ ॥

यो जन्मः क्षणमध्यास्ते नैव जातु चलात्मकः ।
तस्याण्वन्तरमात्रेऽपि देशसङ्क्रान्त्यसम्भवः ॥ ६९७ ॥

यस्य हि पाश्चात्त्यदेशविश्लेषः सम्भवति, पुरोवर्त्तिना देशेनाऽऽश्लेषः स गन्ता भवत्यपरो वा प्रसारणाद्याधारः, नत्वन्यो यथाऽऽकाशादि । नचैकक्षणमात्रभाविनइयान्परिलम्बोऽस्ति, येन पूर्वदेशपरिहारपूर्वकमपरदेशमाक्रामेत् । सत्ताकाल एवास्तमयवशीकृतत्वादपर्याप्तो देशान्तरमाक्रमितुम् । तस्माज्जन्मकालभाविन्यपि क्रिया न युक्ता । नापि पूर्वोत्तरयोः कोट्योस्तदानीं तस्यानुपाख्यत्वात् । अतो यः क्षणमपि नास्तेतस्याऽऽस्तां तावद्विदूरतरदेशान्तरावक्रमण(णा ?) सम्भवः । अपितु परमाणुमात्रप्रदेशसङ्क्रमणमपि नास्तीति कुतः क्षणिकस्य क्रिया ॥ ६९६ ॥ ६९७ ॥

नाप्यक्षणिकस्येति दर्शयति—“स्थैर्ये” त्वित्यादि ।

स्थैर्ये तु वस्तुनः सर्वे दुर्घटा गमनादयः ।
सुतरामेव सर्वासु दशास्वस्याविशेषतः ॥ ६९८ ॥

एकरूपं हि सदा वस्त्वक्षणिकमुच्यते, तस्य सुतरामेव क्रियासमावेशो न सम्भवति, आकाशवत्सर्वदा निर्विशिष्टत्वात् । प्रयोगः—यत्सर्वदा निर्विशिष्टं न तस्य क्रियासम्भवति, यथाऽऽकाशस्य, निर्विशिष्टं चाक्षणिकभिमतं सर्वदा वस्त्विति व्यापकविरुद्धोपलब्धिः ॥ ६९८ ॥

स्यादेतद्यदि नामाविशिष्टमक्षणिकं वस्तु, तथापि प्रकृत्यैव तस्य गन्त्रादिरूपत्वात्क्रियावत्त्वं भविष्यतीत्यतोऽनैकान्तिकता हेतोरित्याशङ्क्याह—“यदी”त्यादि ।

यदि गन्त्रादिरूपं तत्प्रकृत्या गमनादयः ।
सदा स्युः क्षणमप्येवं नावतिष्ठेत निश्चलम् ॥ ६९९ ॥

यस्माद्गत्याद्यसत्त्वेऽपि प्राप्नुवन्त्यस्य चे ध्रुवम् ।
अत्यक्तपूर्वरूत्वाद्गत्याद्युदयकालवत् ॥ ७०० ॥

यदि ह्यमी देवदत्तादयः क्षणिकत्वेनाभिमताः प्रकृत्या गमनोत्क्षेपणादियोगिनस्तदा न कदाचिदपि निश्चलमवतिष्ठेरन्, सर्वदा गन्त्रादिरूपत्वात् । ततश्चास्य देवदत्तादेर्गत्यादिमतो गत्याद्यसत्त्वेऽपि—निश्चलावस्थायामपि, ते—गमनादयः, प्राप्नुवन्ति । गत्याद्युत्पत्तिकाल इवात्यक्तपूर्वरूपत्वात् ॥ ६९९ ॥ ७०० ॥

अथागन्त्रादिरूपं तत्प्रकृत्याऽगमनादयः ।
सदा स्युः क्षणमप्येकं नैव प्रस्पन्दवद्भवेत् ॥ ७०१ ॥

यस्माद्गत्यादिभावेऽपि निश्चलात्मकमेव तत् ।
अत्यक्तपूर्वरूपत्वान्निश्चलात्मककालवत् ॥ ७०२ ॥

अथैतद्दोषभयादगन्त्रादीरूपत्वमस्याङ्गीक्रियते । तथासत्यगमनादयः सर्वदा स्युरेकरूपत्वादाकाशवत् । आदिशब्दादुत्क्षेपणादिपरिग्रहः । ततश्च गत्यादिभावेऽपि तस्य निश्चलत्वमेव प्राप्नोती, अपरित्यक्तागत्यादिरूपत्वाद्यथा निश्चलावस्थायाम् । प्रस्पन्दः—कर्म सोऽस्यास्तीति प्रस्पन्दवत् । निश्चलात्मककालवदिति सप्तम्यन्ताद्वतिः॥ ७०१ ॥ ७०२ ॥

अथापि स्यात्—नैवाऽस्यैकरूपता, किं तर्हि ? गन्त्रगन्तृरूपतयोभयरूपत्वादतोयथोक्तदोषप्रसङ्गः, हेतोश्चासिद्धतेत्याशङ्क्याह—“यदि त्वि”त्यादि ।

यदि तु स्यादगन्ताऽयमेकदा चान्यथा पुनः ।
परस्परविभिन्नात्मसङ्गतेर्भिन्नता भवेत् ॥ ७०३ ॥

“एकदा चे”ति । चकारो विभिन्नक्रमः, पुनरित्यस्यानन्तरं द्रष्टव्यः । पुनश्च—अन्यथेत्यर्थः । एवं हि गन्तृत्वागन्तृत्वादिविरुद्धधर्माध्यासादेकत्वहानिप्रसङ्गः ॥ ७०३ ॥

अत एव तस्य क्षणिकत्वं सिद्धमिति दर्शयन्नाह—“अत्यन्तभिन्ना”वित्यादि ।

अत्यन्तभिन्नावात्मानौ ताविति व्यवसीयते ।
विरुद्धधर्मवृत्तित्वाच्चलनिश्चलवस्तुवत् ॥ ७०४ ॥

“ता”विति । चलाचलावस्थाभाविनौ । “चलनिश्चलवस्तुव”दिति । लतापर्वतादिवदित्यर्थः ॥ ७०४ ॥

एवं तावदनुमानबाधां प्रतिज्ञायाः प्रतिपाद्य प्रत्यक्षबाधामपि प्रतिपादयन्नाह—“दृश्यत्वे”त्यादि ।

दृश्यत्वाभिमतं कर्म न वस्तुव्यतिरेकि च ।
दृश्यते सोपि नैवास्य सत्ता युक्त्यनुपातिनी ॥ ७०५ ॥

यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तत्प्रेक्षावतामसद्व्यवहारमवतरति, यथा कस्मिंश्चित्प्रदेशे पटोऽनुपलभ्यमानः नोपलभ्यते च रूपादिवस्तुव्यतिरेकेण कर्मेति स्वभावानुपलब्धिः । नहि रूपादेस्तथा देशान्तरावष्टम्भेनोत्पद्यमानस्य व्यतिरेकेण क्वचिदिन्द्रियज्ञाने प्रतिभासमानामालक्ष्यते कर्म । या चेयमुत्क्षेपणमवक्षेपणमिति जल्पानुषङ्गिणी धीरुपजायते, सा साभिजल्पत्वान्न प्रत्यक्षं, नचाप्येषा कर्मपदार्थानुभवभाविनीयुक्ता, रूपादेरेव तथातथोत्पद्यमानस्य दर्शनात्, यथासङ्केतं तेष्वेवाध्यवसायेन वृत्तेः । एतच्चानन्तरमेव प्रतिपादितं नित्यानित्ययोर्गत्याद्यभावादिति । अतोऽसिद्धमेतद्यदुक्तं प्रत्यक्षत एव कर्म सिद्धमिति ॥ ७०५ ॥

यथोक्तमेवार्थमुपसंहरन्नाह—“अस्थिरे वे”त्यादि ।

अस्थिरे वा स्थिरे वैवं गत्यादीनामसम्भवः ।
प्राक्तनापरदेशाभ्यां विभागप्राप्त्ययोगतः ॥ ७०६ ॥

“एव”मिति—अनन्तरोक्ताभ्यां प्रत्यक्षानुमानाभ्यां निराकृतत्वात् । “विभागप्राप्त्ययोगत” इति । प्राक्तनेन विभागायोगात्, अपरदेशेन प्राप्त्ययोगादिति यथाक्रमं सम्बन्धः ॥ ७०६ ॥

यद्येवं कथं तर्हि गतिव्यवहारो लोके भवतीत्याह—“देशान्तरे”त्यादि ।

देशान्तरोपलब्धेस्तु नैरन्तर्येण जन्मनः ।
समानापरवस्तूनां गतिभ्रान्तिः प्रदीपवत् ॥ ७०७ ॥

इति कर्मपदार्थपरीक्षा ।

समानापरवस्तूनामिति । समानानि च तान्यपराणि चेति समस्य तानि च वस्तूनि चेति विग्रहः कार्यः । तेषां समानापरवस्तूनां यन्नैरन्तर्येण—स्वोपादानकारणदेशपरिहारेण जन्म—सद्भावः, तस्य जन्मन उपलब्धेः कारणात्स एवायं गच्छतीति, यथा प्रदीपस्य केनचिन्नीयमानस्य देशान्तरं गच्छतीति बुद्धिहेतुत्वं भवति । नहि प्रदीपः स एव देशान्तरमाक्रामति । तस्य षट्क्षणस्थायित्वेनाभिमतत्वात् । भावस्वभाव एव हि पूर्वापरकोटिशून्यो जन्मेत्यभिधीयते । तेन तस्योपलब्धिर्युज्यत एव । अथवा जन्मन इति पञ्चम्यन्तमेतत् । नैरन्तर्येणोत्पादात्समानापरवस्तूनां देशान्तरोपलब्धेरिति सम्बन्धः ॥ ७०७ ॥

इति कर्मपदार्थपरीक्षा ।