गुणादीनां निषेधमाह—“द्रव्याणा”मित्यादि ।
द्रव्याणां प्रतिषेधेन सर्व एव तदाश्रिताः ।
गुणकर्मादयोऽपास्ता भवन्त्येव तथा मताः ॥ ६३४ ॥
गुणकर्मादयो विशेषपर्यन्ता द्रव्याणां प्रतिषेधादेवापास्ताः, तदाश्रितत्वादेषाम् । आश्रयाभावे चाश्रितानां परतन्त्रतयाऽवस्थानुपपत्तेः । “तथा मता” इति । तथा साक्षात्पारम्पर्येण वा द्रव्याश्रितत्वेनेष्टाः । तथाहि—गुणकर्मणी साक्षादेव द्रव्याश्रितत्वेनाभीष्टे । तथा च सूत्रम् । द्रव्याश्रय्यगुणवान्संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् । एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षं कारणमिति कर्मलक्षणम् । “एकद्रव्य”मिति । एकद्रव्याश्रितमित्यर्थः । गुणास्तु केचिदनेकद्रव्यवर्त्तिनो भवन्ति, यथा—संयोगविभागादयः । सामान्यविशेषाश्च केचिद्द्रव्यवृत्तय एव, यथा —पृथिवीत्वादयः । गुणत्वकर्मत्वादयश्च द्रव्यसम्बद्धगुणकर्मपदार्थवृत्तयः, महासामान्यं तु सत्ताख्यं द्रव्यादिपदार्थत्रयवृत्ति । तस्माद्द्रव्ये प्रतिषिद्धे सत्ययत्नेनैव गुणादयोऽपि निषिद्धा भवन्तीति । परिशिष्टपदार्थपरीक्षाफलं द्रव्यपरीक्षायामेव समाप्तमिति दर्शितं भवति ॥ ६३४ ॥
समवायप्रतिषेधस्तर्हि पृथगारब्धव्य इति चेदाह—“क्व कस्ये”त्यादि ।
क्व कस्य समवायश्च सम्बन्धिन्यपहस्तिते ।
विशेषप्रतिषेधोऽयं तथापि पुनरुच्यते ॥ ६३५ ॥
पञ्चपदार्थवृत्तिरूपो हि समवायो वर्ण्यते । द्रव्यादौ च सम्बन्धिनि पञ्चप्रकारेऽपहस्तिते क्व कस्य समवायो नैव कस्यचित्क्वचिदित्यर्थः । सर्वेषामाश्रयाश्रितानां प्रतिषिद्धत्वात् तत्र गुणानां तावद्विशेषप्रतिषेध उच्यते ॥ ६३५ ॥
तत्र रूपरसगन्धस्पर्शाः सङ्ख्यापरिमाणानि पृथक्त्वसंयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नश्च गुणा इति सूत्रम् । चशब्दाद्गुरुत्वद्रवत्वस्नेहसंस्कारधर्माधर्मशब्दाश्च परिगृह्यन्ते । तत्र रूपं चक्षुर्ग्राह्यं पृथिव्युदकज्वलनवृत्ति । रसो रसनेन्द्रियग्राह्यः पृथव्युदकवृत्तिः । गन्धो घ्राणग्राह्यः पृथिवीवृत्तिः । स्पर्शस्त्वगिन्द्रियग्राह्यः क्षित्युदकज्वलनवायुवृत्तिः । एषां चतुर्णामाद्यानां रूपादीनां प्रतिषेधमाह—“द्रव्ये महती”त्यादि ।
द्रव्ये महति नीलादिरेक एव यदीष्यते ।
रन्ध्रालोकेन तद्व्यक्तौ व्यक्तिर्दृष्टिश्च नास्य किम् ॥ ६३६ ॥
महत्येव हि द्रव्ये समवेतानामुपलब्धिलक्षणप्राप्तत्वमतो “महती”त्याह । तत्र च द्रव्ये यद्येकमेवानवयवं नीलादि चतुर्विधमिष्यते, तदा सूक्ष्मेणाऽपि कुञ्चिकादिविवरवर्त्तिना प्रदीपाद्यालोकेन त्वपवरकादिस्थितपृथुतरघटादिद्रव्यसमवेतस्य नीलादिरूपस्याभिव्यक्तौ सत्यां सकलस्यैव यावद्द्रव्यवर्त्तिनो रूपादेरभिव्यक्तिरुपलब्धिश्च प्राप्नोति निरवयवत्वात् । नह्येकस्यावयवाः सन्ति, येनैकदेशाभिव्यक्तिर्भवेत् । रन्ध्रालोकेनेत्युपलक्षणम् । भुव एकदेशे जलेन गन्धस्याभिव्यक्तौ प्रदेशान्तरेप्यभिव्यक्त्युपलब्ध्योः प्रसङ्गः । ज्वालादेराम्रफलादेश्चैकदेशस्य स्पृष्टावास्वादने च तद्द्रव्यसमवायिनस्तावतः स्पर्शस्य रसस्य चोपलब्धिः स्यात् ॥ ६३६ ॥
स्यादेतद्भवत एव सकलस्य नीलादेरुपलब्ध्यभिव्यक्ती इत्याह—“न चे”त्यादि ।
न च देशविभागेन स्थितो नीलादिरिष्यते ।
व्यज्यते यस्तदा तेन तस्य भेदोऽणुशस्ततः ॥ ६३७ ॥
“तदे”ति । तस्मिन्काले । “तेने”ति । रन्ध्रालोकेन । “तस्ये”ति । नीलादेः । अणुशः स्वभेदेऽङ्गीक्रियमाणे पृथिव्यादिपरमाणुद्रव्यवदणुपरिमाणयोगित्वेन गुणवत्त्वाद्द्रव्यरूपतैव स्यात्, न गुणत्वम् । एवम्भूतानां चाणुशो भिन्नानां गुण इति सञ्ज्ञाकरणेन नाम्नि विवादः । न चाणुत्वेऽप्याश्रितत्वाद्गुणत्वं युक्तम् । सदसतोराश्रयानुपपत्तेरतिप्रसङ्गाश्च । तथा ह्यवयविद्रव्यमवयवद्रव्याश्रितमिति तदपि गुणः स्यादिति भावः ॥ ६३७ ॥
तत्रैकादिव्यवहारहेतुरेकत्वादिलक्षणा सङ्ख्या, सा पुनरेकद्रव्या चानेकद्रव्या च, तत्रैकसङ्ख्यैकद्रव्या । अनेकद्रव्या तु द्वित्वादिसङ्ख्या । तत्रैकद्रव्यायाः सलिलादिपरमाण्वादिगतरूपादीनामिव नित्यत्वनिष्पत्तयो बोद्धव्याः । अनेकद्रव्यायास्तु—एकत्वेभ्योऽनेकविषयबुद्धिसहितेभ्यो निष्पत्तिरपेक्षाबुद्धिविनाशाद्विनाशः क्वचिदाश्रयविनाशादिति । इयं च द्विविधाऽपि सङ्ख्या किल प्रत्यक्षत एव सिद्धा । विशेषबुद्धेश्च निमित्तान्तरापेक्षत्वादनुमानतोपीति परो मन्यते । तत्रास्याः प्रतिषेधमाह—“अतद्रूपे”त्यादि ।
अतद्रूपपरावृत्तगजादिव्यतिरेकिणी ।
न सङ्ख्या भासते ज्ञाने दृश्येष्टा नैव सास्ति तत् ॥ ६३८ ॥
येषु हि समुच्चयादिव्यावृत्तेषु गजादिषु सञ्ज्ञा निवेशिता न तद्व्यतिरेकेणोपलब्धिर्लक्षणप्राप्ता सङ्ख्या ख्यातास्तीति सा शशविषाणवदसद्व्यवहारविषया । तथाह्यसौ दृश्यत्वेनेष्टा । तथा च सूत्रम्— सङ्ख्यापरिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिसमवायाच्चाक्षुषाणी ति ॥ ६३८ ॥
नचापि विशेषबुद्धितः सङ्ख्यासिद्धिरिति दर्शयन्नाह—“इत्छारचिते”त्यादि ।
इच्छारचितसङ्केतमनस्कारान्वयं त्विदम् ।
घटेष्वेकादिविज्ञानं ज्ञानादाविव वर्तते ॥ ६३९ ॥
अद्रव्यत्वान्न सङ्ख्याऽस्ति तेषु काचिद्विभेदिनी ।
तज्ज्ञानं नैव युक्तं तु भाक्तमस्खलितत्वतः ॥ ६४० ॥
यथा ह्येकं ज्ञानं द्वे ज्ञाने इत्यादौ सङ्ख्यामन्न्तरेणाप्येकादिबुद्धिर्भवत्येवं घटादिष्वप्यसहायादिषु पदार्थेष्वेक इत्यादिः स्वेच्छया यः सङ्केतो विहितस्तत्र यो मनस्कार आभोगस्तदन्वयमेकादिज्ञानं भविष्यतीत्यनैकान्तिकमेतत् । नहि तेषु ज्ञानादिषु सङ्ख्याऽस्ति, एषामद्रव्यत्वात् । सङ्ख्यायाश्च गुणत्वेन द्रव्याश्रितत्वात् । अथ मतं गौणमिदं तेषु, ज्ञानमेकमिवैकं, साधर्म्यं चात्रासहायत्वादि (तत्राह ?)—“तज्ज्ञान”मिति । नैव ह्येतज्ज्ञानं भाक्तं युक्तमस्खलद्गतित्वादस्य प्रत्ययस्य । नहि यथा वाहीको गौरिति स्खलति प्रत्ययः, गौरिव गौर्नतु गौरेव सास्नाद्यभावादिति, न तथायं स्खलति, एकमिवैकं ज्ञानादि नत्वेकमेवेति । किं तर्हि यादृशी घटादिष्वस्खलिता बुद्धिर्भवतितादृशी ज्ञानादिष्वपि ॥ ६३९ ॥ ६४० ॥
स्यादेतन्न सादृश्यापेक्षमेतज्ज्ञानमुपवर्ण्यते । किन्तु यत्तेषामाश्रयभूतं द्रव्यं तद्गतैकत्वादिकादेकार्थसमवायित्वादेतद्गुणकर्मसमवायादिष्वेकादिज्ञानं भवतीति तदेतदाशङ्कयन्नाह—“तद्द्रव्ये”त्यादि ।
तद्द्रव्यसमवेताच्चेदेकत्वात्परिकल्प्यते ।
गुणादिष्वेकविज्ञानमेकार्थसमवायतः ॥ ६४१ ॥
अत्रोत्तरमाह—“अस्तुनामे”त्यादि ।
अस्तुनामैवमेकत्र ज्ञाने व्याप्ति(द्व्यादि ?)मतिस्तु कम् ।
एतेष्वपेक्षते हेतुं षट्पदार्थादिकेषु वा ॥ ६४२ ॥
एकार्थसमवायादेर्गौणोऽयं प्रत्ययो भवन् ।
तथा च स्खलितो यस्मान्माणवेऽनलबुद्धिवत् ॥ ६४३ ॥
यदि हि तद्द्रव्यसमवेतादेकत्वादेरेतज्ज्ञानं तदाऽस्तु नामैकत्र ज्ञाने सुखादौ चैकात्मद्रव्यसमवायिन्येकमेकमिति ज्ञानम् । द्वे त्रीणि चत्वारि ज्ञानानीत्यादिज्ञानस्य तु को हेतुः, नहि तत्रैकात्मगतं द्वित्वाद्यस्ति । यच्चैतदुच्यते षट्पदार्थाः, सुखदुःखे, इच्छाद्वेषौ, पञ्चविधं कर्म, सामान्यं द्विविधं परमपरं च, एको भावः, एकः समवाय इति, तत्र को हेतुः । नहि तत्रैकार्थसमवायिनी सङ्ख्यास्ति, तस्मादव्यापिनीत्वादियमपि कल्पना न युक्ता । किं चैकार्थसमवायोऽन्यो वा स्वमतिपरिकल्पितोहेतुरुच्यते । तथाऽप्येकार्थसमवायादेरयं भवन्प्रत्ययो गौणः स्याद्वस्त्वन्तराभावात् । ततस्तु स्खलितः स्याद्यथा माणवकेऽनलप्रत्ययस्तत्प्रवृत्तिनिमित्ताभावात्, नचैवं भवति तस्मात्पूर्वोक्तदोषानिवृत्तिरेव ॥ ६४२ ॥ ६४३ ॥
“गजा”दीत्यादिनाऽविद्धकर्णोक्तं सङ्ख्यासिद्धये प्रमाणमाशङ्कते ।
गजादिप्रत्ययेभ्यश्च वैलक्षण्यात्प्रसाध्यते ।
सङ्ख्याबुद्धिस्तदन्योत्था नीलवस्त्रादिबुद्धिवत् ॥ ६४४ ॥
स ह्याह—सङ्ख्याप्रत्ययो गजतुरङ्गस्यन्दनादिव्यतिरिक्तनिबन्धनो गजादिप्रत्ययविलक्षणत्वान्नीलपटप्रत्ययवदिति । “तदन्योत्थे”ति । तस्माद्गजतुरगस्यन्दनादेरन्यस्तदन्यस्तत उत्थानं यस्या इति विग्रहः ॥ ६४४ ॥
“इच्छे”त्यादिना प्रतिविधत्ते ।
इच्छारचितसङ्केतमनस्काराद्युपायतः ।
तत्रेष्टसिद्धिर्बुद्ध्यादौ सङ्ख्यैतेनैव वा भवेत् ॥ ६४५ ॥
गजादिव्यतिरिक्तस्य सङ्केतमनस्कारादेरान्तरस्य निमित्तत्वेनेष्टत्वात्सिद्धसाध्यतैव । आदिशब्देन सङ्केतस्मरणादिपरिग्रहः । अथ सङ्केताभोगादिव्यतिरिक्तपदार्थनिबन्धनं साधयितुमभिप्रेतं तदानैकान्तिकतेति प्रसङ्गोद्भावनव्याजेन दर्शयति—“बुद्ध्यादौ सङ्ख्यैतेनैव वा भवे”दिति । एतेनैव—तत्प्रत्ययविलक्षणत्वादित्यनेन । एका बुद्धिर्द्वे बुद्धी पञ्च कर्माणीत्यादावपि सङ्ख्या भवेत्—प्राप्नोति । तत्राप्येकादिबुद्धेस्तत्प्रत्ययविलक्षणत्वात् न च भवति, तस्मादनैकान्तिक इति भावः ॥ ६४५ ॥
किञ्च याऽनेकद्रव्या द्वित्वादिसङ्ख्या तस्या येऽयमेकत्वेभ्योऽनेकबुद्धिसहितेभ्योनिष्पत्तिर्वर्ण्यते भवद्भिः सा निर्निबन्धनेति दर्शयति—“बुद्ध्यपेक्षा” चेत्यादि ।
बुद्ध्यपेक्षा च सङ्ख्याया निष्पत्तिर्यदि वर्ण्यते ।
सङ्केताभोगमात्रेण तद्बुद्धिः किं न सम्मता ॥ ६४६ ॥
मात्रग्रहणमेकत्वद्वित्वादितत्सामान्यतत्सम्बन्धज्ञानव्यवच्छेदार्थम् । “तद्बुद्धि”रिति ।सङ्ख्येयेषु द्वे त्रीणि चत्वारीत्यादिका बुद्धिः सङ्केताभोगमात्रेण किं न सम्मता । एवं ह्यदृष्टसामर्थ्यस्य हेतुत्वं न कल्पितं स्यादन्यथा हि हेतूनामनवस्था भवेत् । तथाह्यपेक्षा बुद्धिसद्भावे तद्गतान्वयव्यतिरेकानुविधानात्सैव कल्पयितुं युक्ता । अन्यथा हि हरीतकीं प्राप्य देवता विरेचयन्तीत्यपि कल्पनीयं भवेत् । नापि समुच्चयादिव्यावृत्तपदार्थव्यतिरेकेणोपलब्धिलक्षणप्राप्ताऽभिमता द्वित्वादयो दृश्यन्ते सङ्गच्छन्ते वा, एकस्यानेकस्मिन्वृत्तेः प्रतिषिद्धत्वात् । सामान्यसमवाययोश्च निषेत्स्यमानत्वादिति भावः ॥ ६४६ ॥
“मह”दित्यादिना परिमाणप्रतिषेधमाह—
महद्दीर्घादिभेदेन परिमाणं यदुच्यते ।
तदप्यर्थे तथा रूपभेदादेव न किं मतम् ॥ ६४७ ॥
परिमाणव्यवहारकारणं परिमाणं तच्चतुर्विधं महदणु दीर्घं ह्रस्वमिति । तत्र महद्द्विविधं नित्यमनित्यं च । नित्यमाकाशकालदिगात्मसु परममहत्त्वं । अनित्यं त्र्यणुकादिद्रव्येषु । तथाऽण्वपि द्विविधं नित्यमनित्यं च । नित्यं परमाणु मनः सुपरिम ण्डललक्षणम् । अनित्यं द्व्यणुक एव । कुवलामलबिल्वादिषु च महत्स्वपि तत्प्रकर्षाभावमपेक्ष्य भाक्तोयं व्यवहारः । यादृशं ह्यामलके महत्परिमाणं न तादृशं कुवल इति । एवमन्यत्रापि योज्यम् । अत्र त्र्यणुकादिषु वर्त्तमानयोर्महत्त्वदीर्घत्वयोर्द्व्यणुकेचाणुत्वह्रस्वत्वयोः को विशेषः ? । उच्यते । तत्रास्ति महत्त्वदीर्घत्वयोः परस्परतो विशेषः । महत्सु दीर्घमानीयतां दीर्घेषु च महदानीयतामिति व्यवहारभेददर्शनात् । अणुत्वह्रस्वत्वयोस्तु विशेषस्तद्दर्शिनां योगिनां प्रत्यक्ष इत्येषा परेषां प्रक्रिया । एतच्च महदादि रूपादिभ्योऽर्थान्तरत्वेन सिद्धं तत्प्रत्ययविलक्षणबुद्धिग्राह्यत्वात्सुखादिवदिति परो मन्यते । तत्र यदि तावद्रूपादिविषयेन्द्रियबुद्धिविलक्षणप्रत्यक्षप्रत्ययग्राह्यत्वादिति हेत्वर्थोऽभिप्रेतस्तदा हेतोरसिद्धता । नहि तथातथाऽवस्थितरूपादिपदार्थव्यतिरेकेणमहदादिपरिमाणमिन्द्रियबुद्धौ प्रतिभासमानमुपलक्ष्यते । अथ—अणु महदादीत्येवं या विकल्पिका बुद्धिः सा तत्प्रत्ययविलक्षणा बुद्धिरभिप्रेता । एवमप्यनैकान्तिकता हेतोर्विपक्षे बाधकप्रमाणाभावात् । नह्यस्याः परमार्थतः किञ्चिदपि ग्राह्यमस्ति साभिजल्पत्वात् । केवलं तेष्वेव रूपादिष्वेकदिङ्मुखादिप्रवृत्तेषु दृष्टेषु तद्विलक्षणेभ्यो रूपादिभ्यो भेदप्रतिपादनाय कृतसमयानुरोधान्महदित्यध्यवस्यन्ती जायत इति नातो वस्त्वन्तरसिद्धिः । अतएव चाऽस्या न रूपादिव्यतिरिक्तमवसेयमस्तीत्यसिद्धताऽपिहेतोः । प्रतिज्ञायाश्च प्रत्यक्षबाधा, प्रत्यक्षत्वेनेष्टस्य महदादे रूपत्वादिव्यतिरेकेणानुपलम्भात् । तस्मात्तदपि परिमाणमर्थे रूपादावेकदिङ्मुखादिप्रवृत्ते तस्यार्थस्यातथोद्भूताद्भेदमाश्रित्य किं न तादात्म्येनेष्टम् । एवं ह्यदृष्टायुक्तपदार्थकल्पना न कृता स्यादित्येवकारेण दर्शयति । तथाह्येकदिङ्मुखप्रवृत्ते भूयसि रूपादिके दृष्टे स्पृष्टे वा दीर्घमितिव्यवहरन्ति । तदपेक्षया चाल्पीयसि समुत्पन्ने ह्रस्वमिति । एवं महदादिष्वपि योज्यम् । रूपादिनिषेधवच्चैकानेकविकल्पाभ्यां महदादिनिषेधो वाच्यः ॥ ६४७ ॥
अपि च साध्याभावेऽपि हेतोर्वृत्तिदर्शनादनैकान्तिकता स्फुटतरेति दर्शयन्नाह—“दीर्घे”त्यादि ।
दीर्घा प्रासादमालेति महती वेद्यते यथा ।
नहि तत्र यथारूपं परिमाणं प्रकल्पितम् ॥ ६४८ ॥
एकार्थसमवायेन तथा चेद्व्यपदिश्यते ।
न महत्त्वं न दैर्घ्यं च धामस्वस्ति विवक्षितम् ॥ ६४९ ॥
तथाह्यसत्यपि भवत्परिकल्पिते महत्त्वादौ प्रासादमालादिषु महदादिप्रत्ययप्रसूतिरनुभूयते । नचेत्थं शक्यं वक्तुम् । यत्रैव प्रासादादिषु मालाख्यो गुणः समवेतस्तत्र महत्त्वादिकमपि, तेनैकार्थसमवायबलात्तथा महतीत्येवं तन्मालादि व्यपदिश्यत इति । तदेतदपि स्वसमयविरुद्धमिति दर्शयन्नाह—“न महत्त्व”मित्यादि । “धामस्वि”ति । प्रासादेषु । “विवक्षित”मिति । क्रोशार्धक्रोशादि परिमाणम् ॥ ६४८ ॥ ६४९ ॥
कस्मान्नास्तीत्याह—“प्रासादश्चेष्यत” इति ।
प्रासादश्चेष्यते योगो गुणः सोऽपरिमाणवान् ।
न तस्यास्त्यपरा माला नोपचारस्य चाश्रयः ॥ ६५० ॥
तथाहि—भवद्भिः प्रासादः संयोगात्मको गुण इष्यते नावयविद्रव्यं विजातीयद्रव्यानारम्भात । स च गुणः परीमाणवान्न भवति निर्गुणा गुणा इति समयात् । ततश्च गुणानां प्रासादादीनां मालाख्यस्यापरस्य गुणस्याभावात्प्रासादमालेत्येतदेव न स्यात् । कुतो महती ह्रस्वेत्यादि भविष्यति । तथाहि—माला सङ्ख्यास्वभावेष्टा, सङ्ख्या च गुणत्वाद्द्रव्यमेवाश्रिता न गुणम् । यदाऽप्यवयविस्वभावा मालेष्यते तथापि द्रव्यस्य द्रव्यमेवाश्रयो न गुण इति न मालायाः प्रासादाश्रयत्वं युक्तम् । अथ जातिस्वभावा मालाऽङ्गीक्रियते । एवमपि जातेस्सर्वात्मना प्रत्याश्रयपरिसमाप्तत्वादेकोऽपि प्रासादो मालेत्युच्येत वृक्षवत् । यथोक्तम्— गेहो यद्यपि संयोगस्तन्माला किन्नु तद्भवेत् । जातिश्चेद्गेह एकोऽपि मालेत्युच्येत वृक्षवत् ॥ इति । एका दीर्घा महतीत्यादिव्यपदेशानुपपत्तिश्च तदवस्थैव मालायाम्, तदाश्रये च प्रासादादावेकत्वादिगुणाभावात् । काष्ठादिषु च विवक्षितदैर्घ्याद्यसद्भावात् । बह्वीषु च प्रासादमालासु मालामालेत्यनुगामी व्यपदेशो न स्यात् । जातेरजातितः । यदाह— माला बहुत्वे तच्छब्दः कथं जातेरजातितः इति । अत उपचारस्याश्रयः परिग्रहो यद्वाऽऽश्रयोऽधिष्ठानं न युक्तमित्यर्थः । नचाप्ययं स्खलद्गतिर्मालादिषु महत्त्वादिप्रत्ययः ।तस्मान्नौपचारिको युक्तः । नहि मुख्यप्रत्ययाविशिष्टो गौणो युक्तोऽतिप्रसङ्गात् । यदाह— मालादौ च महत्त्वादिरिष्टो यश्चौपचारिकः । मुख्याविशिष्टविज्ञानग्राह्यत्वान्नौपचारिकः ॥ इति ॥ ६५० ॥
तत्र इदमस्मात्पृथगिति यद्वशात् संयुक्तमपि द्रव्यमपोद्ध्रियते, तदपोद्धारकारणं पृथक्त्वं नाम, तच्च घटादिभ्योऽर्थान्तरं तत्प्रत्ययविलक्षणबुद्धिग्राह्यत्वादिति पूर्ववत्प रस्याभिप्रायः । तदत्रापि परिमाणवदसिद्धत्वमनैकान्तिकत्वं च हेतोरिति हृदि कृत्वाह —“अपोद्धारे”त्यादि ।
अपोद्धारव्यवहृतिः पृथक्त्वाद्या तु कल्प्यते ।
कारणात्सा विभिन्नात्मभावनिष्ठा न किं मता ॥ ६५१ ॥
तथाह्यत्रापि रूपादिभ्यो विवेकेन नापरमर्थान्तरं पृथक्त्वं नाम प्रत्यक्षबुद्धौ प्रतिभासत इति न सिद्धमस्य तत्प्रत्ययविलक्षणबुद्धिग्राह्यत्वम् । अत एव च तस्योपलब्धिलक्षणप्राप्तत्वेनाभिमतस्यानुपलम्भादसत्त्वमेव । न चापि पृथगिति विकल्पप्रत्ययवशात्तस्य सिद्धिः । त एव हि रूपादयो भावाः स्वस्वभावस्थितेः सर्वभावानां सजातीयविजातीयव्यावृत्तात्मतयाऽपेक्ष्यमाणाः पृथगिति व्यवहारनिबन्धनं भविष्यन्तीति नातो वस्त्वन्तरसिद्धिः । तस्माद्येयमपोद्धारव्यवहृतिः—व्यवहारः पृथक्त्वात्कारणाद्वर्ण्यते सा किमिति समानासमानजातीयविभिन्नस्वभावभावनिष्ठा न मता ।तन्निष्ठैव युक्तेति भावः । एतेनानैकान्तिकत्वं हेतोर्दर्शितम् । विभिन्न आत्मा स्वभावो येषां ते तथोक्ताः । ते च ते भावाश्च, तेषु निष्ठा—परिसमाप्तिर्यस्या इति विग्रहः ॥ ६५१ ॥
साध्यविपक्षेऽपि हेतोर्वृत्तिर्दृश्येतेति दर्शयन्नाह—“परस्परविभिन्ना ही”त्यादि ।
परस्परविभिन्ना हि यथा बुद्धिसुखादयः ।
पृथग्वाच्यास्तदङ्गं च विनाऽन्येन तथाऽपरे ॥ ६५२ ॥
नहि सुखादिषु गुणेषु पृथक्त्वं गुणोऽस्ति, निर्गुणत्वाद्गुणानाम् । अथ च परस्परव्यावृत्तात्मतया ते पृथगिति वाच्या भवन्ति । तस्याश्चापोद्धारव्यवहृतेरङ्गं निमित्ततां प्रतिपद्यन्ते । तथाऽपरेऽपि घटादयो द्रव्याभिमता विनाऽन्येन—स्वव्यतिरिक्तेन पृथक्त्वनाम्ना गुणेन भविष्यन्तीति । नचापि तेषु भाक्तोऽयं प्रत्ययो मुख्यप्रत्ययाविशिष्टत्वादिति भावः । यद्वा—अपोद्धारव्यवहृतिं विभिन्नात्मपदार्थनिबन्धनां दर्शयन्प्रतिज्ञाया अनुमानबाधामाह—“परस्परे”त्यादि । प्रयोगः—ये परस्परव्यावृत्तात्मानस्ते न स्वव्यतिरिक्तपृथक्त्वसमाश्रयाः, यथा सुखादयः । परस्परव्यावृत्तात्मानश्च घटादय इति स्वभावहेतुः । एकस्यानेकवृत्त्यसम्भवः, समवायस्य निषेत्स्यमानत्वात्सम्बन्धानुपपत्तिः, सुखादिषु तद्व्यवहाराभावप्रसङ्गश्च बाधकं प्रमाणम् ॥ ६५२ ॥
तत्र संयोगविभागयोर्दूषणार्थमाह—“या”वित्यादि ।
यौ संयोगविभागौ च द्रव्येषु नियतौ परैः ।
संयुक्तादिधियो हेतू कल्पितौ तावनर्थकौ ॥ ६५३ ॥
यथाक्रमं द्रव्येषु संयुक्तविभक्तप्रत्ययहेतू अप्राप्तप्राप्तानां प्राप्त्यप्राप्तिस्वभावावन्यतरोभयकर्मजौ च संयोगविभागजौ च संयोगविभागाविति परप्रक्रिया । एतच्च प्रक्रियामात्रमेव । नत्वनयोर्वस्तुसत्त्वसिद्धौ किञ्चन प्रमाणमस्तीत्यतोऽनर्थकावेतौ कल्पितौ परैः । प्रयोगः—यस्य न किञ्चित्साधकं प्रमाणमस्ति न तत्प्रेक्षावतां सद्व्यवहारविषयो यथा वन्ध्यासुतादि, नास्ति च संयोगविभागयोः साधकं प्रमाणं परेषामितिव्यापकानुपलब्धेः ॥ ६५३ ॥
“बीजोदकेत्या”दिनोद्योतकरमतोपदर्शनाद्धेतोरसिद्धतामाशङ्कते—
बीजोदकपृथिव्यादि सर्वदा कार्यकारकम् ।
प्रसक्तं निर्विशेषत्वात्संयोगासम्भवेन तु ॥ ६५४ ॥
क्षेत्रबीजजलादीनि सापेक्षाणीति गम्यते ।
स्वकार्यकरणान्नित्यं दण्डचक्रोदकादिवत् ॥ ६५५ ॥
यस्तैरपेक्ष्यते भावः स संयोगो भविष्यति ।
सविशेषणभावाच्च भिन्न एवेति गम्यते ॥ ६५६ ॥
संयुक्ते आहरेत्युक्ते संयोगं प्रेक्षते ययोः ।
तदन्यपरिहारेण ते एवाहरति ह्ययम् ॥ ६५७ ॥
स ह्याह । यदि संयोगो नार्थान्तरं भवेत्तदा क्षेत्रबीजादयो निर्विशिष्टत्वात्सर्वदैवाङ्कुरादि कुर्युः, न चैवम् । तस्मात्सर्वदा कार्यानारम्भात्क्षेत्रादीन्यङ्कुरादिकार्योत्पत्तौ कार्यान्तरसापेक्षाणि, यथा मृत्पिण्डदण्डसलिलसूत्रादयो घटादिकरणे कुम्भकारादिसापेक्षाः । योऽसावपेक्ष्यः स संयोग इति सिद्धम् । किञ्च योऽसौ संयोगो द्रव्ययोः स विशेषणभावेन प्रतीयमानत्वात्ततोऽर्थान्तरत्वेन प्रत्यक्षत एव सिद्धः । तथाहि—कश्चित्केनचित्संयुक्ते द्रव्ये आहरेत्युक्ते ययोरेव द्रव्ययोः संयोगमुपलभते । त एवाहरति न द्रव्यमात्रम्, अन्यथा यत्किञ्चिदाहरेत् । एतच्च सर्वं विपर्ययाद्विभागसाधनेऽपि योज्यम् ॥ ६५४ ॥ ६५५ ॥ ६५६ ॥ ६५७ ॥
निरन्तरमिदं वस्तु सान्तरं चेदमित्ययम् ।
बुद्धिभेदश्च केनैष विद्यते तौ च चेदिह ॥ ६५८ ॥
अपि चाविशिष्टेऽपि निरन्तरमिदं वस्तु सान्तरमिदमिति बुद्धिभेदः कथं युज्यते, यद्येतौ संयोगविभागाविह वस्तुन्यर्थान्तरभूतौ न स्यातां, नहि विशेषप्रत्ययो वस्तुविशेषमन्तरेण सम्भवी भवितुमर्हति, सर्वदा सर्वत्र भावप्रसङ्गात् ॥ ६५८ ॥
या चेयं सान्तरे बुद्धिर्नैरन्तर्यावसायिनी ।
निरन्तरेऽपि या चान्या मिथ्याबुद्धिरियं द्विधा ॥ ६५९ ॥
मिथ्याबुद्धिश्च सर्वैव प्रधानार्थानुकारिणी ।
प्रधानं चेह वक्तव्यं तदुक्तौ तौ च सिद्ध्यतः ॥ ६६० ॥
किञ्च येयं दूरतरावस्थितेऽपि धवखदिरादौ विदूरदेशवर्त्तिनः पुंसो निरन्तरावसायिनी बुद्धिरुदयमासादयति, या चेयमीषत्तरुशिखरावलग्ने बलाकादौ निरन्तरेऽपिसान्तरत्वमिवावस्यन्ती जायतेऽन्या, सेयं द्विविधाऽप्यतस्मिंस्तथारूपेण प्रवृत्तत्वान्मिथ्याबुद्धिः, न च मिथ्याधीर्मुख्यपदार्थानुभवमन्तरेण क्वचिदुपजायते । नह्यननुभूतगोदर्शनस्य गवयपदार्थदर्शनाद्गौरयमिति विभ्रमो भवति । तस्मादवश्यं कश्चिन्मुख्यः पदार्थोऽस्या विभ्रमधियो निबन्धनमभिधानीयः । तस्याभिधाने च तौ संयोगविभागौ सिध्यतः । नहि तद्व्यतिरेकेणान्यदस्या बुद्धेर्निबन्धनमुपपादयितुं शक्यते ॥ ६५९ ॥ ६६० ॥
कुण्डलीति मतिश्चेयं किन्निमित्तोपजायते ।
नरकुण्डलभावान्नो सर्वदा तत्प्रसङ्गतः ॥ ६६१ ॥
अन्यत्र दृष्टभावस्य निषेधोऽन्यत्र युज्यते ।
संयोगश्च भवेद्दृष्टः स कथं प्रतिषिध्यते ॥ ६६२ ॥
चैत्रोऽकुण्डल इत्येवं तस्मादस्त्येव वास्तवः ।
यन्निषेधविधानादि विभागेन प्रवर्त्तते ॥ ६६३ ॥
अपिच कुण्डली देवदत्त इति मतिरियमुपजायमाना किन्निबन्धनोपजायत इति वचनीयम् । नच पुरुषकुण्डलभावमात्रभाविनी भवितुमर्हति । सर्वदा तत्र देवदत्तकुण्डलयोस्तस्याः सद्भावप्रसङ्गात् । किञ्च यदेव केनचित्क्वचिदुपलब्धसत्त्वं तस्यैवान्यत्र विधिप्रतिषेधमुखेन लोकव्यवहारप्रवृत्तिर्दृष्टा । यदि भवता संयोगो न कदाचिदुपलब्धस्तत्कथमस्य चैत्रोऽकुण्डलः कुण्डली चेत्येवंविभागेन व्यवहारो भवेत् । तथाह्यत्र चैत्रोऽकुण्डलीत्यनेन न कुण्डलं प्रतिषिध्यते तस्य देशकालभेदेन सत्त्वाध्या सितमूर्त्तः प्रतिषेद्धुमशक्यत्वात्, नापि चैत्रस्य, तत्तुल्ययोगक्षेमत्वात्, तस्माच्चैत्रस्य कुण्डलसंयोगः प्रतिषिध्यते । तथा चैत्रः कुण्डलीत्यनेनापि विधिवाक्येन चैत्रकुण्डलयोर्नान्यतरस्य विधानं तयोः सिद्धत्वात् । पारिशेष्यात्संयोगस्यैवाप्रतीतस्य विधेर्ज्ञायते । तस्मादस्त्येव संयोगादिर्वास्तवो यद्वशाच्चैत्रः कुण्डली न भवतीत्यादिनिषेधविधानादि प्रविभक्तमेव प्रतीयते । आदिशब्देन विशेषणत्वेनोपादानमित्यादि पूर्वोक्तपरिग्रहः ॥ ६६१ ॥ ६६२ ॥ ६६३ ॥
“उच्यत” इत्यादिना प्रतिविधत्ते ।
उच्यते क्षणिकत्वेन नाविशेषा जलादयः ।
सत्त्वेऽप्यव्यवधानादि तेऽपेक्षन्ते दशान्तरम् ॥ ६६४ ॥
यदुक्तमविशेषाद्बीजादयः सदैव कार्यं कुर्युरिति, तस्याविशिष्टत्वं बीजादीनामसिद्धम्, क्षणभङ्गितया सर्वभावानां विशिष्टावस्थानामेव जनकत्वात् । यच्चोक्तं क्षेत्रबीजादीत्यादि, तत्रापि सामान्येन सापेक्षत्वमात्रे साध्ये सिद्धसाध्यतेति दर्शयति—“सत्त्वेऽपी”त्यादि । इष्यन्त एवास्माभिरव्यवधानाद्यवस्थान्तरसापेक्षा बीजादयोऽङ्कुरादिकार्यनिर्वर्तनसमर्था विद्यमानत्वेऽपीति सिद्धसाध्यता । तत्राविद्यमाना व्यवधानादयो यत्र देशान्तरेऽवस्थाविशेषे तत्तथोक्तम् । आदिशब्देन विरोधिप्रत्ययप्रतिघातादिपरिग्रहः । यत्रावस्थान्तरे व्यवधानं दूरदेशावस्थानं विरोधिना प्रतिहतिरित्यादिकार्योत्पत्तिप्रतिबन्धकं नास्तीत्यर्थः । अवस्थायाश्च स्वभावाव्यतिरेकान्नार्थान्तरभूतसंयोगसिद्धिः । अथ भवदभिमतसंयोगाख्यपदार्थान्तरसापेक्षत्वं साधयितुमिष्टं तदा तथाविधेन धर्मेण हेतोरन्वयासिद्धेरनैकान्तिकता, दृष्टान्तस्य च साध्यविकलतेति भावः ॥ ६६४ ॥
स्यादेतत्कथमिदमवगम्यतेऽवस्थान्तरविशेषसापेक्षाः क्षित्यादयोऽङ्कुरादिकार्यप्रसवहेतवो न पुनरर्थान्तरभूतसंयोगसापेक्षा येन सामान्येन सापेक्षत्वमात्रे साध्ये सिद्धसाध्यता भवेद्भवत इत्याशङ्क्याह—“संयोगमात्रे”त्यादि ।
संयोगमात्रसापेक्षा यदि तु स्युर्जलादयः ।
योगानन्तरमेव स्यात्कार्यमेतेन वा भवेत् ॥ ६६५ ॥
यदि हि संयोगमात्रसापेक्षाः स्युस्तदा प्रथमोपनिपात एव क्षित्यादिभ्योऽङ्कुरादिकार्योदयप्रसङ्गः पश्चाद्वदविकलकारणत्वात् । अथ प्रथमोपनिपाते न भवति पश्चा दप्यनुत्पत्तिप्रसङ्गः । पूर्ववदजनकावस्थायां विकलकारणताया निर्विशिष्टत्वात् । नचक्षित्यादीनामनुपकारिणि संयोगेऽपेक्षा युक्तिमती, अतिप्रसङ्गात् । नचापि संयोगानां कादाचित्कत्वं युक्तं तत्कारणानां क्षित्यादीनां नित्यं सन्निहितत्वात् । अथ तत्रापि संयोगे जन्ये क्षित्यादीनां कर्मादिसापेक्षत्वमिष्यते । न । तत्रापि तुल्यपर्यनुयोगत्वात् । तथाहि—तदपि कर्म कस्मान्न जनयतीति पर्यनुयोगे किं वक्तव्यं स्यात् । तत्कारणनोदनाभावादिति चेत्, तस्यापि कस्मादभाव इति नित्यकारणाभ्युपगमे सर्वत्र तु्ल्यः पर्यनुयोगः । यस्य तु सर्वमेवानित्यं वस्तु तस्यानादित्वाद्धेतुपरम्परायाः सर्वभावानां सकृदुत्पत्तिप्रसङ्गो न भवति । पूर्वपूर्वकारणप्रतिबद्धत्वादुत्तरेषाम् । तेषाञ्च सर्वेषां युगपत्कारणवैकल्येनासन्निधानात् । तस्माद्भवत एव दर्शनेऽङ्कुरादिकार्यप्रसवहेतुत्वं क्षित्यादीनां सर्वदा प्रसज्यत इति न संयोगार्थान्तरसापेक्षाः क्षित्यादय इति सिद्धम् ॥ ६६५ ॥
यच्चोक्तं सविशेषणभावाच्चेत्यादि, तत्राह—“प्राप्तावस्थे”त्यादि ।
प्राप्तावस्थाविशेषे हि नैरन्तर्येण जातितः ।
ये पश्यत्याहरत्येष वस्तुनी ते तथाविधे ॥ ६६६ ॥
नहि संयुक्तपदार्थान्तरभूतः संयोगः प्रतिपत्तुर्दर्शनपथमवतरति, येन तद्दर्शना(त्त)द्विशिष्टे द्रव्ये आहरति । किं तर्हि प्राग्भाविनी ये सान्तरजातावस्थे ततो विशिष्टे ये निरन्तरोत्पन्ने वस्तुनी ते एव संयुक्तशब्दवाच्ये, अवस्थाविशेषे प्रसाधितत्वात्संयोगशब्दस्य । तेन यत्र तथाविधे वस्तुनी संयोगशब्दविषयभावापन्ने पशयति, ते एवाहरति नान्ये, न हि शब्देनाबोधितेऽर्थे शब्दात्प्रवर्त्तते प्रेक्षावान् ॥ ६६६ ॥
यच्चोक्तं निरन्तरमित्यादि, तत्राह—“विच्छिन्नमि”त्यादि ।
विच्छिन्नमन्यथा चैव जातमेति निमित्तताम् ।
सान्तरानन्तरज्ञाने गेहविन्ध्यहिमाद्रिवत् ॥ ६६७ ॥
वस्त्वन्तरमेव तथोत्पद्यमानं बुद्धिभेदनिबन्धनमतोऽनैकान्तिकमेतदिति समुदायार्थः । तत्र विच्छिन्नं यज्जातं वस्तु तत्सान्तरबुद्धेर्निमित्ततामेतीति सम्बन्धः । “अन्यथा” चेति । अविच्छिन्नम्, यज्जातमिति सम्बन्धः । “गेहविन्ध्यहिमाद्रिव”दिति । अनयोरेव यथायोगमुदाहरणम् । न ह्यविच्छेदेनोत्पन्नयोः स्वयं संयोगात्मनोर्गेहयोरपरः संयोगो निरन्तरबुद्धेर्निबन्धनमस्ति परमतेऽपि नापि विच्छेदेनोत्पन्नयोस्त योरेव विभागः सान्तरप्रत्ययनिमित्तमस्ति, निर्गुणत्वाद्गुणानामित्युक्तमेतत् । नहि हिमविन्ध्ययोरपि विभागः सान्तरबुद्धेर्हेतुरस्ति । प्राप्तिपूर्विका ह्यप्राप्तिर्विभाग इतिसमयात् ॥ ६६७ ॥
यच्चोक्तं या चेयं सान्तरे बुद्धिरित्यादि, तत्राह—“मिथ्ये”त्यादि ।
मिथ्याबुद्धिर्न सर्वैव प्रधानार्थानुसारिणी ।
साधर्म्यनिरपेक्षापि काचिदन्तरुपप्लवात् ॥ ६६८ ॥
अन्यत्र गतचित्तस्य द्विचन्द्रादिमतिर्यथा ।
अविच्छिन्नादिजातं वा प्रधानमिह विद्यते ॥ ६६९ ॥
सर्वा मिथ्याबुद्धिः साधर्म्यग्रहणादुपजायत इत्यसिद्धमेतत् । कस्याश्चित्साधर्म्यमनपेक्ष्यापीन्द्रियवैगुण्यमात्रेणोत्पत्तिदर्शनात् । यथाऽन्यत्रगतविकल्पचेतसोऽपिपुरोऽवस्थितैकचन्द्राविपत्य (दिप्रत्यय ?)मात्रेण तिमिरोपपादितेन्द्रियवैगुण्याच्चन्द्रद्वयाकारानुस्यूता विशदतरप्रविभासिनी कल्पनाकलङ्कानङ्कितैव धीरुपजायते । अन्यत्र गतचित्तस्येत्यनेन निर्विकल्पत्वं द्विचन्द्रधियो दर्शयति । नहि निर्विकल्पचेतसि साधर्म्यग्रहणमस्ति । तस्य पूर्वापरदृष्टपदार्थैकत्वाध्यवसायात्मकत्वेन पूर्वानुभूतार्थाऽभिजल्पात्मकत्वात् । अथवा भवतु नाम पूर्वस्या मिथ्याबुद्धेः प्रधानार्थानुसारित्वं तथापि नेष्टसिद्धिर्भवत इति दर्शयति—“अविच्छिन्नादिजातं” वेत्यादि । आदिग्रहणेन विच्छिन्नजातं वस्तु गृह्यते । तदेव हि वस्तु विच्छिन्नमविच्छिन्नं चोपजायमानमतज्जातीयपरिहारेण प्रवृत्त्यर्थं प्रथमतरं विनिवेशितविभक्ताद्यभिधानतया मु्ख्यमस्तीति नेष्टसिद्धिर्भवतः ॥ ६६८ ॥ ६६९ ॥
यदुक्तं कुण्डलीति मतिश्चेयमित्यादि, तत्राह—“कुण्डली”त्यादि ।
कुण्डलीति मतिश्चेयं जातावस्थाविशेषयोः ।
चैत्रकुण्डलयोरेव संयोग इव जायते ॥ ६७० ॥
यथैव हि संयोगश्चैत्रकुण्डलयोर्विशिष्टावस्थाप्राप्तौ सत्यामुपजायते, नहि सर्वदा, तद्वदियमपि कुण्डलीति मतिरवस्थाविशेषनिबन्धना भवन्ति किमिति सर्वदा भवेत् । जातोऽवस्थाविशेषो ययोश्चैत्रकुण्डलयोस्ते तथोक्ते ॥ ६७० ॥
यच्चोक्तमन्यत्र दृष्टभावस्येत्यादि, तत्राह—“सोऽवस्थातिशय” इत्यादि ।
सोऽवस्थातिशयस्तादृग्दृष्टोऽन्यत्र निषिध्यते ।
चैत्रे कुण्डल इत्यादौ न संयोगस्त्वदृष्टितः ॥ ६७१ ॥
यदवस्थाविशेषनिबन्धनेयं मतिरुपवर्णिता तस्योपलब्धिलक्षणप्राप्तस्यान्यस्यामवस्थायामनुपलम्भे सति प्रतिषेधो विधीयते, न तु भवत्परिकल्पितस्य संयोगस्य, तस्य संयोगिपदार्थविवेकेन क्वचिदपि बुद्धावप्रतिभासनात् । तस्मान्नासिद्धता हेतोः ॥ ६७१ ॥
स्यादेतत्—यदि नाम साधकं प्रमाणं संयोगं प्रति न जातमस्माकं, भवतां तु किं बाधकं प्रमाणमित्याह—“न पराभिमता”दित्यादि ।
न पराभिमताद्योगाज्जायते युक्तवस्तुधीः ।
युक्तबुद्धितया यद्वत्प्रासादादिषु युक्तधीः ॥ ६७२ ॥
अनेकवस्तुसद्भावे जायमानतयाऽथवा ।
विभक्तानेकतन्त्वादिविषया इव बूद्धयः ॥ ६७३ ॥
विभागेऽपि यथायोगं वाच्यमेतत्प्रमाद्वयम् ।
एकस्यानेकवृत्तिश्च न युक्तेति प्रबाधकम् ॥ ६७४ ॥
प्रयोगः—या संयुक्तबुद्धिः सा भवत्परिकल्पितसंयोगानास्पदवस्तुविशेषमात्रभाविनी, यथा संयुक्तौ प्रासादावित्यादौ, संयुक्तबुद्धिश्चेयं चैत्रः कुण्डलीत्यादाविति स्वभावहेतुः । अथवा—याऽनेकवस्तुसन्निपाते सत्युपजायते, सा भवत्परिकल्पितसंयोगरहितानेकवस्तुविषयमात्रभाविनी, यथा प्रविरलावस्थितानेकतन्तुविषयाः प्रत्ययास्तथा चेयं संयुक्तधीरिति स्वभावहेतुः । “युक्तधी”रिति । संयुक्तबुद्धिरित्यर्थः । एतदेव प्रमाणद्वयं विभागप्रतिषेधे वाच्यम् । विभक्तबुद्धित्वादनेकपदार्थासन्निधानायत्तोदयत्वाद्वा पराभिमतविभागरहितपदार्थविशेषमात्रनिबन्धना मेषादिषु विभागबुद्धिः, यथा दूरतरावस्थितमेषद्वयविषया विन्ध्यहिमवद्विषया वा धीरिति । अथ किमत्र साध्यविपर्यये हेतोर्बाधकं प्रमाणं येन हेतोर्विपक्षे प्रचारशङ्का निवर्त्तत इत्याह—“एकस्ये”त्यादि । यथैकस्यानेकत्र वृत्तिर्न युक्ता तथा तद्ध्येकवृत्तिभाजैव रूपेणेत्यादिनाऽवयविनिषेधे प्रतानितमिति नेह पुनः प्रतायते ॥ ६७२ ॥ ६७३ ॥ ६७४ ॥
परत्वापरत्वयोर्दूषणमाह—“परापरे”त्यादि ।
परापराभिधानादिनिमित्तं यच्च कल्प्यते ।
परत्वमपरत्वं च दिक्कालावधिकं न तत् ॥ ६७५ ॥
यथा नीलादिरूपाणि क्रमभावव्यवस्थितेः ।
अन्योपाधिविवेकेऽपि तथोऽच्यन्ते तथाऽपरे ॥ ६७६ ॥
इदं परमिदमपरमिति यतोऽभिधानप्रत्ययौ भवतस्तत्परत्वमपरत्वं च यथाक्रमं परापराभिध्याननिमित्तं सिद्धम् । आदिशब्देन प्रत्ययो गृह्यते । प्रयोगः—येयं परमपरमिति संवित्सा घटादिव्यतिरिक्तार्थान्तरनिबन्धना, तत्प्रत्ययविलक्षणत्वात्सुखादिबुद्धिवदिति । तथा ह्येकस्यां दिशि स्थितयोः पिण्डयोः परमपरमिति बुद्धिप्रवृत्तिर्न तावदियं दिङ्निबन्धना । नापि कालनिबन्धना, एकस्मिन्नपि प्रवर्त्तमाने काले वर्त्तमानयोरनियतदिग्देशसंयुक्तयोर्युवस्थविरयोर्विभागेन परापरबुद्धिप्रवृत्तेस्तदविशेषेऽपिविशेषादिति भावः । नचान्यदस्या बुद्धेर्निबन्धमभिधातुं पार्यते । तस्माद्यन्निबन्धनेयं तत्परत्वमपरत्वमिति सिद्धम् । “दिक्कालावधिकं न त”दिति । दिक्कालप्रदेशसंयुक्तसन्निकृष्टविप्रकृष्टपदार्थावधिकं न भवतीत्यर्थः । दिक्कालशब्दाभ्यांह्युपचाराद्दिक्कैालप्रदेशसंयुक्तयोर्निर्देशः । तथा ह्येतत्परत्वमपरत्वं च द्विविधमपि दिक्कृतं कालकृतं चेति वर्णितं परेण । तत्र दिक्कृतस्यैवमुत्पत्तिः । एकस्यां दिश्यवस्थितयोः पिण्डयोरेकस्य द्रष्टुः सन्निकृष्टमवधिं कृत्वैतस्माद्विप्रकृष्टोऽयमिति परत्वाधारे बुद्धिरुत्पद्यते, ततस्तामपेक्ष्य परेण दिक्प्रदेशेन संयोगात्परत्वमुपजायते । विप्रकृष्टं चावधिं कृत्वैतस्मात्सन्निकृष्टोऽयमित्यपरत्वाधारे बुद्धिरुत्पद्यते, तामपेक्ष्यापरेण दिक्प्रदेशेन संयोगादपरत्वस्योत्पत्तिः । कालकृतयोस्त्वयमुत्पत्तिक्रमः । तथाहि—वर्त्तमानकालयोरनियतदिग्देशसंयुक्तयोर्युवस्थविरयोर्मध्ये यस्य वलीपलितरूढश्मश्रुतादिनाऽनुमितमादित्योदयास्तमयानां बहुत्वं तत्रैकस्य द्रष्टुर्युवानमवधिं कृत्वा विप्रकृष्टा बुद्धिरुत्पद्यते तामपेक्ष्य परेण कालप्रदेशेन संयोगात्परत्वस्योत्पत्तिः । स्थविरं चावधिं कृत्वा यस्यारूढश्मश्रुतादिनाऽनुमितमादित्योदयास्तमयानामल्पत्वं, तत्र यूनि सन्निकृष्टबुद्धिरुत्पद्यते, तामपेक्ष्यापरेण कालप्रदेशेन संयोगादपरस्योत्पत्तिरिति । तदेतत्परत्वापरत्वसाधनमनैकान्तिकं साध्यविपक्षेऽपि हेतोर्वृत्तेरिति दर्शयति—“यथा नीलादिरूपाणी”त्यादि । भाव उत्पादस्तत्सहिता व्यवस्थितिः, क्रमेण भावव्यवस्थितिरिति विग्रहः । एतदुक्तं भवति—यथा नीलादिषु क्रमेणोत्पादात्कालोपाधेः क्रमेण व्यवस्था, न गुणोपाधेः, परं नीलमपरं नीलमिति परापरव्यपदेशो भवत्यसत्यपि परत्वापरत्वलक्षणे गुणे, निर्गुणत्वाद्गुणानां, तथा घटादिष्वपि किं नेष्यते । एतेनैतद्दर्शयति । यद्यर्थान्तरनिमित्तत्वमात्रमिह साधयितुमिष्टं तदाऽनैकान्तिकता हेतोः, साध्यविपर्ययेऽपि तस्य वृत्तेः । अथ नित्यभूतदिक्कालपदार्थहेतुको यो गुणविशेषस्तन्निबन्धनत्वमस्या बुद्धेः साधयितुमिष्टं तदा दृष्टान्ताभावः । प्रतिज्ञायाश्चानुमानबाधा । तथाहि शक्यमिदं कर्तुं, या परापर बुद्धिः सा परपरिकल्पितगुणरहितार्थमात्रकृतक्रमोत्पादव्यवस्थानिबन्धना, परापरबुद्धित्वात्, यथा रूपादिषु परापरबुद्धिः, परापरबुद्धिश्चेयं घटादिष्विति स्वभावहेतुः ।नीलादिष्वेकार्थसमवायादुपचरितेयं परत्वादिबुद्धिरतोऽनैकान्तिकता हेतोः, पारम्पर्येण नीलादिष्वपि परत्वादेर्निमित्तभावोपगमात्साध्यविकलता च दृष्टान्तस्येति चेन्न । प्रतिविहितमेतदस्खलद्गतित्वान्नौपचारिकत्वं युक्तमिति । स्वाश्रयेऽपि तयोरुपलब्ध्यभावाच्च न तद्बलेन प्रत्ययो युक्तः । तत्कुतो रूपादिषु तन्निबन्धनो भविष्यति । सुखादिषु वा पूर्वोत्तरकालभाविषु किं कल्प्येत, नहि तत्रैकार्थसमवायोऽस्ति । अपिच दिक्कालयोः पूर्वं प्रतिषिद्धत्वेनाभावात्तद्धेतुकयोरपि परत्वापरत्वयोरभाव इति कुतस्तन्निमित्तत्वाशङ्का । येन हेतोरनैकान्तिकता भवेत् । नचापि दिक्कालयोर्भवतः प्रदेशाः, सन्ति, यत्संयोगादपेक्षाबुद्धिसहितात्परत्वादेरुत्पत्तिः स्यात्, तयोरेकात्मतया निरवयवत्वात् । न चोपचरितोऽवयवभेदोऽर्थक्रियानुरोधी युक्तः, वस्तुस्वभावप्रतिबद्धत्वात्तस्याः, उपचरितस्याचालीकत्वादिति नानैकान्तिकता । परकीयस्य च हेतोःपूर्ववदसिद्धत्वं वाच्यम् ॥ ६७५ ॥ ६७६ ॥
“सङ्ख्ये”त्यादिना परकीयं प्रस्तुतसङ्ख्यादिगुणपदार्थसाधनमाशङ्कते ।
सङ्ख्यायोगादयः सर्वे न द्रव्याव्यतिरेकिणः ।
तद्व्यवच्छेदकत्वेन दण्डादिरिव चेन्मतम् ॥ ६७७ ॥
तेषां संवृतिसत्त्वेन वर्णनादिष्टसाधनम् ।
तत्त्वान्यत्वेन निर्वाच्यं नैव संवृतिसद्यतः ॥ ६७८ ॥
सर्व एवामी यथोक्ताः सङ्ख्यादयो गुणा न द्रव्यादव्यतिरेकिणस्तस्य द्रव्यस्य तेषां व्यवच्छेदहेतुत्वात्, यो हि यद्व्यवच्छेदको नासौ तदव्यतिरेकी, यथा दण्डादिर्देवदत्तस्येति । तदत्र द्रव्यादव्यतिरेकित्वनिषेधमात्रे साध्ये सिद्धसाध्यता दोषः प्रतिज्ञायाः । संवृतिसतां सर्वेषामवस्तुतया तत्त्वान्यत्वाभ्यामवाच्यतयाऽभीष्टत्वात् ॥ ६७७ ॥ ६७८ ॥
“अथे”त्यादिनात्राविद्धकर्णस्योत्तरमाशङ्कते ।
अथानिर्वचनीयत्वं समूहादेर्निषिध्यते ।
यस्मान्नियतधर्मत्वं रूपशब्दरसादिवत् ॥ ६७९ ॥
सह्याह—समूहसन्तानावस्थाविशेषास्तत्त्वान्यत्वाभ्यामवचनीया न भवन्ति प्रतिनियतधर्मयोगित्वाद्रूपरसादिवदिति ॥ ६७९ ॥
तदेत“न्निःस्वभाव”तयेत्यादिना प्रतिविधत्ते ।
निःस्वभावतया तस्य तत्त्वतोऽम्बरपद्मवत् ।
न सिद्धा नियता धर्माः कल्पनारोपितास्तु ते ॥ ६८० ॥
तथैवोक्तावनेकान्तो वियत्पद्मादिभिर्यतः ।
अभेदो व्यतिरेकश्च वस्तुन्येव व्यवस्थितः ॥ ६८१ ॥
यदि हि पारमार्थिकनियतधर्मत्वं हेतुरिष्टस्तदा हेतोरसिद्धता । नहि बौद्धं प्रतिसन्तानादीनां संवृतिसतां पारमार्थिकनियतधर्मयोगित्वं सिद्धम् । अथ सामान्येन हेतुस्तदा वियत्पद्मादीनामप्यभावत्वामूर्त्तत्वादयः कल्पिता नियतधर्माः सन्त्येवेत्यनैकान्तिकता हेतोः । “तथैवोक्ता”विति । सामान्येन विकल्पितानुपाख्यवृत्तिधर्मपरित्यागेनोक्तौ सत्यामित्यर्थः । इतश्चानैकान्तिकत्वमस्य हेतोः । यस्मादभेदोऽनन्यत्वं, व्यतिरेकोऽन्यत्वम्, एतौ वस्तुन्येव व्यवस्थितौ, नान्यत्र । सन्तानादयश्च प्रज्ञप्तिसत्त्वेनावस्तुसन्तस्तत्कथमेषां वस्तुनः सकाशाद्भेदाभेदौ सिद्ध्यतः । तदेवं प्रथमे प्रयोगे सङ्ख्यादीनां द्रव्यादव्यतिरेकप्रतिषेधमात्रे साध्ये सिद्धसाध्यतेति प्रतिपादितम् ॥ ६८० ॥ ६८१ ॥
सङ्ख्यादेर्द्रव्यतोऽन्यत्वमेवं चेत्प्रतिपाद्यते ।
आश्रयासिद्धता हेतोः सङ्ख्यादीनामसिद्धितः ॥ ६८२ ॥
अथापि स्यान्नाव्यतिरेकप्रतिषेधमात्रं साध्यते, किं तर्हि ? द्वौ प्रतिषेधौ विधिमेव गमयत इति प्रतिषेधद्वयेन द्वव्याद्व्यतिरेकित्वमेव साध्यत इति । तदेतत्सङ्ख्यादेरित्यादिनाऽऽशङ्ख्याश्रयासिद्धतेत्यादिना प्रतिषेधति—“एवमि”ति । न द्रव्याव्यतिरेकिणः । किं तर्हि ? व्यतिरेकिण इत्यर्थः ॥ ६८२ ॥
तदेव सङ्ख्यादेराश्रयस्यासिद्धत्वं दर्शयति—“समुच्चयादी”त्यादिना ।
समुच्चयादिभिन्नं तु द्रव्यमेव तथोच्यते ।
स्वरूपादेव भेदश्च व्याहतः साधितो भवेत् ॥ ६८३ ॥
“तथोच्यत” इति । एको द्वौ बहव इत्येवमादिः । स्यादेतत्—द्रव्यात्मकस्यापि सतः सङ्ख्यादेर्भेदः प्रसाध्यत इत्याह—“स्वरूपादेवे”त्यादि । नहि वस्तुनः स्वरूपाद्भेदोऽस्ति, तस्य निःस्वभावत्वप्रसङ्गात् । “व्याहत” इति । परस्परविरुद्धः । भेदाभेदयोःपरस्परपरिहारस्थितलक्षणतया युगपदेकत्र विरुद्धत्वात् । एवं तावत्परत्वान्ता गुणाः प्रतिषिद्धाः । बुद्ध्यादयस्तु प्रयत्नान्ता आत्माश्रितत्वेन तद्गुणा इष्टाः । ते चात्मनिषेधादेव निषिद्धा द्रष्टव्याः । नचैषामात्माऽऽश्रयो युक्तः, तथाहि—उत्पत्तिहेतुतया चामीषामात्माऽऽश्रयो भवेत्स्थितिहेतुतया वा । न तावदुत्पत्तिहेतुतया, सर्वदैवाविकलकारणतया सुखादीनामुत्पत्तिप्रसङ्गात् । न च परैरनाधेयातिशयस्य सहकारिव्यपेक्षा काचिदस्तीति शतशश्चर्चितमेतत् । न चापि नित्यस्य कार्योत्पादनसामर्थ्यमस्ति, तस्य क्रमयौगपद्याभ्यां व्याप्तत्वात् । नित्यस्य च क्रमयौगपद्याभ्यामर्थक्रियाविरोधस्यप्रतिपादितत्वात् । नापि स्थितिहेतुतया युक्तः, स्थितेः स्थातुरव्यतिरिच्यमानरूपत्वात् । तद्धेतुत्वे स्थातृहेतुत्वमेवोक्तं स्यात् । तच्चानन्तरमेव निषिद्धम् । तस्य च स्थातुः परिनिष्ठितात्मस्वरूपत्वान्न कश्चिद्धेतुः सम्भवति । तस्य तत्राकिञ्चित्करत्वात् । ब्यतिरेकेऽपि स्थितेः स्थातुस्तेन न किञ्चित्कृतमर्थान्तरभूतायाः स्थितेः करणात् । ततश्चाकिञ्चित्करः कथं तस्याश्रयो भवेत् । नापि तत्सम्बन्धिन्याः स्थितेः करणात्तस्यायमुपकारको युक्तस्तत्सम्बन्धित्वासिद्धेः । न चापि स्थितिं प्रति हेतुत्वं युक्तम् । नित्यस्य क्वचिदपि सामर्थ्यानुपपत्तेरित्युक्तम् । किञ्चासौ स्थाप्यमानो भावः स्वयमस्थिरस्वभावो वा भवेत्, स्थिरस्वभावो वा । यद्यस्थिररूपस्तत्कथं परेण स्थापयितुं शक्येत । तत्स्वभावहानिप्रसङ्गात् । अथ स्थिरस्वभावस्तथापि स्थापकोऽकिञ्चित्कर एव, स्वयमेव तत्स्वभावतया तस्य स्थितिसिद्धेः । किञ्च—ये तावन्मूर्त्ता भावास्तेषामधोगमनप्रतिबन्धकत्वेन भवेन्नामाश्रयकल्पना, ये पुनरमी सुखादयस्तेषाममूर्त्ततया नाधोगमनमस्तीति किङ्कुर्वाणस्तेषामाश्रयो भवेत् । सदसतोश्च निराशंसत(या)नुपाख्यत्वेन चाश्रयणानुपपत्तिरिति । एवं सुखादीनामन्येषां च यथायोगमाश्रितत्वासिद्धेर्नगुणो नामास्तीति भावः । किञ्च बुद्धिर्ज्ञानस्वभावाऽङ्गीकृता परैः । यथोक्तम्— बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरमिति । तस्याश्चैवंरूपाया अपि न स्वसंविदितरूपमिष्टं परैः । किन्तु बुद्ध्यन्तरगम्यत्वमेव । तथाभूतायाश्च रूपादिवत्स्वतोऽसिद्धेर्बुद्धित्वमेवायुक्तमिति प्रतिपादयिष्यति ॥ ६८३ ॥
सुखदुःखेच्छाद्वेषप्रयत्नानामप्यज्ञानरूपत्वमिष्टम् । तदपि प्रमाणलक्षणपरीक्षायां निषेत्स्यते । गुरुत्वद्रवत्वस्त्रेहानां तु रूपादिवत्प्रतिषेधो विधेय इत्येवमालोच्यैषां प्रतिषेधमकृत्वा संस्कारप्रतिषेधमाह—“वेगाख्य” इत्यादि ।
वेगाख्यो भावनासञ्ज्ञः स्थितस्थापकलक्षणः ।
संस्कारस्त्रिविधः प्रोक्तो नासौ सङ्गच्छतेऽखिलः ॥ ६८४ ॥
क्षणिकत्वात्पदार्थानां न काचिद्विद्यते क्रिया ।
यत्प्रबन्धस्य हेतुः स्यात्संस्कारो वेगसञ्ज्ञकः ॥ ६८५ ॥
त्रिविधः संस्कारो वेगो भावना स्थितस्थापकश्चेति । तत्र बेगाख्यः पृथिव्यप्तेजोवायुमनस्सु पञ्चसु मूर्तिमत्सु द्रव्येषु प्रयत्नाभिघातविशेषापेक्षात्कर्मणो जायते । स च नियतदिक्क्रियाप्रबन्धहेतुः, स्पर्शवद्द्रव्यसंयोगविरोधी । तथाहि—शरादिषु प्रयत्नविशेषजनितकर्मविशेषहेतुक एव । यद्वशादन्तरालशिरस्यापतनं भवत्यतएवासौ नियतादिक्रियाकार्योन्नीयमानसद्भावतया सिद्धः । शाखादौ तु लोष्टाभिघातजनितकर्मजः । भावनासञ्ज्ञस्त्वात्मगुणः । योऽसौ ज्ञानजो ज्ञानहेतुश्चोच्यते, स च दृष्टश्रुतानुभूतेषु स्मृतिप्रत्यभिज्ञानकार्योन्नीतसत्त्वतया सिद्धः । स्थितस्थापकस्तु मूर्त्तिमद्द्रव्यगुणः, यो हि घनावयवसन्निवेशविशिष्टं कालान्तरावस्थायिनं स्वमाश्रयं प्रयत्नेनान्यथाकृतं पूर्ववद्यथावस्थितं स्थापयति । यथा चिरकालसंवेष्टितस्य तालपत्रादेःप्रसार्यावमुक्तस्य पुनस्तथैवावस्थानम् । धनुःशाखाशृङ्गदन्तादिषु वस्त्रादिषु च भुग्नावर्त्तितेषु तस्य कार्यं लक्ष्यत एव । “अखिल” इति । त्रिविधोऽपि । तत्र वेगाख्यस्य कर्मसम्बन्धाख्यं कार्यमसिद्धम् । अशेषपदार्थजातव्यापिनः क्षणभङ्गस्य प्रसाधितत्वात् । ततश्च स्वभावप्रतिलम्भादूर्ध्वं सर्वभावानामसत्त्वान्न काचित्क्रियाऽस्ति, यस्याः क्रियायाः प्रबन्धस्य हेतुरसौ भवेत् । अथ स्वोपादानदेशपरिहारेण प्रतीयमानो भावानामुत्पाद एव क्रियाप्रबन्धोऽभिप्रेतस्तथाऽप्यनैकान्तिकत्वम्, यतः पूर्वका एव हेतुप्रत्यया भावानां तथा तथोत्पद्यमानानां तथाविधात्मभूतक्रियाप्रबन्धतोऽनुमीयन्ते, न यथोक्तः संस्कारः । तेन सह क्वचिदप्यन्वयासिद्धेः । किञ्च यदि तथाविधसंस्कारबलादपतनमिष्वादीनां स्यात्तदा न कदाचिदपि ते पतेयुः, सर्वत्र पातप्रतिबन्धहेतोर्वेगस्यावस्थितत्वात् । ततश्चाविशिष्टाकाशदेशप्रसर्पिणो विशिखस्याकस्माद्यदेतत्पतनमुपलभ्यते तत्कथमुपपद्यते । नच मूर्त्तिमतां सतां वाय्वादीनां संयोगादुपहतशक्तित्वाद्वेगस्य विनाशात्पतनमिति शक्यं वक्तुम्, अर्वागेव पतनप्रसङ्गात्, सर्वत्रैववायुसंयोगस्तद्विरोधी विद्यत एव । अथापि स्यादर्वागेकान्तबलीयस्त्वाद्वेगस्य विरोधिनमपि वायुसंयोगं प्रतिविध्यासौ वेगो नयति देशान्तरमिषुमिति । यद्येवं परस्मात्केन तस्याबलीयस्त्वं येन सुदूरमपि देशं तं न नयेत् । दृश्यते हि सर्वत्राविशिष्टवायुसंयोगवत्याकाशतले प्रसर्पतोऽपि शरस्यान्तराले पतनम् । नच वेगस्य पश्चाद न्यत्वं शक्यं वक्तुम्, अन्यथोत्पत्तिकारणाभावात् । सर्वत्रैव हि तत्समवायिकारणमिष्वादि निर्विशिष्टमेव । नच कर्माख्यं कारणं पश्चाद्विशिष्यत इति युक्तमभिधातुम्, तस्यापि तुल्यपर्यनुयोगत्वात् । अन्यत्वेऽपि वा पश्चाद्वेगस्य पूर्वकस्य विनाशकारणाभावात्तादवस्थ्यमेवेत्यपात एव स्याच्छरस्य । नच वायुसंयोगस्तस्य विनाशकारणमर्वागेव पतनप्रसङ्गादित्युक्तमेतत्, सर्वत्र वायोरविशेषेण तत्संयोगस्याप्यविशिष्टत्वादिति यत्किञ्चिदेतत् ॥ ६८४ ॥ ६८५ ॥
भावनाख्यस्य दूषणमाह—“भावनाख्यस्त्वि”त्यादि ।
भावनाख्यस्तु संस्कारश्चेतसो वासनात्मकः ।
युक्तो नात्मगुणश्चेदं युज्यते तन्निराकृतेः ॥ ६८६ ॥
यदि हि स्मृत्यादिकार्यतः सामान्येन भावनामात्रं तदा सिद्धसाध्यता । तथाहि —पूर्वानुभवाहितसामर्थ्यलक्षणा चेतसः स्वात्मभूता भावना स्मृत्यादिहेतुरिष्यत एव । यस्या वासनेति प्रसिद्धिः । अथात्मगुणस्वभावा भावना साधयितुमिष्टा, तदा क्वचिदपि तथाविधया सह स्मृत्यादीनामन्वयासिद्धेरनैकान्तिकता हेतोः । प्रतिज्ञायाश्चानुमानबाधा । आत्मनस्तदाधारस्य पूर्वं निराकृतत्वेनासत्त्वात्तस्या अप्यसत्त्वसिद्धिः । प्रयोगः—ये यदाश्रितास्ते तस्याभावे सति नावस्थितिमश्नुवते, यथा चित्रं कुड्याद्यभावे, आश्रितश्चात्मानं संस्कारः परमतेनेति व्यापकविरुद्धोपलब्धेर्नचेष्टासिद्धिः । तस्यात्मनः पूर्वं निराकृतत्वात् । तस्माच्चेतसो वासनात्मक एव युक्तः संस्कारो नात्मगुण इति प्रमाणफलमेतत् । एकस्य प्रमाणसिद्धत्वादपरस्य विपर्ययादिति भावः ॥ ६८६ ॥
तृतीयस्यापि दूषणमाह—“स्थिते”त्यादि ।
स्थितस्थापकरूपस्तु न युक्तः क्षणभङ्गतः ।
स्थितार्थासम्भवाद्भावे ताद्रूप्यादेव संस्थितिः ॥ ६८७ ॥
तथाहि—यमसौ पदार्थं स्थितं स्थापयति कदाचिदसौ स्वयमस्थिरस्वभाव एव, यद्वा स्थिरस्वभाव एवेति पक्षद्वयम् । यद्यस्थिरस्वभावस्तदा तस्य क्षणादूर्ध्वमभावात्कस्यासौ स्थापको भवेत् । अथ द्वितीयः पक्षस्तदा भावे—सत्त्वे, स्थितानामर्थानान्ताद्रूप्यादेव—अप्रच्युतस्थितरूपत्वात्, स्थितिरिति किमकिञ्चित्करेण स्थापकेन परिकल्पितेनेति पूर्ववद्दूषणं वाच्यम् ॥ ६८७ ॥
अथापि स्यात्क्षणिकत्वेऽपि सर्वभावानामेकक्षणावस्थितौ प्रबन्धेन चानुवृत्तौ तस्य सामर्थ्यमुच्यत इत्यत्राप्याह—“क्षणं त्वेकमि”त्यादि ।
क्षणं त्वेकमवस्थानं स्वहेतोरेव जातितः ।
पूर्वपूर्वप्रभावाच्च प्रबन्धेनानुवर्त्तनम् ॥ ६८८ ॥
स्वहेतोरेव निष्पद्यमाना एकक्षणस्थायिनः सिध्यन्ति । तथाह्यात्मप्रतिलम्भलक्षणैवामीषां स्थितिरुच्यते, नतु प्रतिलब्धात्मसत्ताकानामुत्तरकालमात्मरूपसन्धारणलक्षणा, स्वयं चलात्मन उत्तरकालमवस्थानाभावात् । अवस्थाने वा कदाचिदप्यनिवृत्तिप्रसङ्गः पूर्ववत् । पश्चादप्यविशिष्टत्वात्, अतत्स्वभावप्रसङ्गाञ्च । पूर्वपूर्वकारणसामर्थ्यकृतश्चोत्तरोत्तरकार्यप्रसव इति प्रबन्धेऽपि न संस्कारस्य सामर्थ्यं सिध्यति ॥ ६८८ ॥
अक्षणिकस्य तर्हि स्थापकोऽसौ भवत्वित्याह—“नान्यथे”त्यादि ।
नान्यथोदयवानेष कस्यासौ स्थापकस्ततः ।
नचास्य दृष्टं हेतुत्वं संस्कारोऽन्योऽपि वा भवेत् ॥ ६८९ ॥
उत्पन्नस्यैव चेष्टोऽयं वस्त्रादेः स्थापको गुणः ।
गुणसंस्कारनामैवं सर्वथापि न सम्भवी ॥ ६९० ॥
यो ह्यक्षणिकस्तस्यान्यथात्वासम्भवात्स्वत एव स्थितिरिति किं कुर्वाणस्तस्यासौ स्थापको भवतीत्युक्तमेतत् । अथापि स्यात्—माभूदसौ स्थापकः, किन्तुं क्षणस्यैवोत्पादको भवतीत्याह—“नचास्ये”त्यादि । प्रमाणाधीना हि प्रमेयस्य तत्त्वव्यवस्थितिः, नचास्य प्रसिद्धकारणव्यतिरेकेण वस्त्रादिषु प्रत्यक्षानुपलम्भाभ्यां चक्षुरादिवद्वा कार्यव्यतिरेकतो दृष्टं—निश्चितं हेतुत्वम्, येन तद्व्यवहारः स्यात् । अथादृष्टसामर्थ्यस्यापि हेतुत्वं कल्प्यते, तदा संस्कारः, अन्योऽपि वा—शुकबकादिरुत्पत्तेर्हेतुर्भवेत् । कल्पनीय इति शेषः । न ह्यदृष्टशक्तित्वेन कश्चिद्विशेषोऽस्ति, येनैकस्मिन्नेव संस्कारात्मन्यपरिनिश्चितसामर्थ्ये कल्पनापरितोषो भवतां स्यात् । नचाप्ययमुत्पादहेतुरिष्टो भवद्भिः, अपि तूत्पन्नस्य सतो वस्त्रादेरुत्तरकालं स्थापको गुण इष्यते । तत्र चाकिञ्चित्करत्वमस्येति पूर्वमुपवर्णितम् । अभ्युपगम्य तूत्पत्तिहेतुत्वं दूषणमिदमभिहितम् । कदाचित्कश्चित्स्वसमयसीमानमप्यतिपत्यैवं कल्पयेदिति भावः । “गुणसंस्कारनामे”त्यादिना पूर्वमुपसंहरति ॥ ६८९ ॥ ६९० ॥
धर्माधर्मलक्षणगुणदूषणमाह—“मन” इत्यादि ।
मनोयोगात्मनां पूर्वं विस्तरेण निबन्धनात् ।
परोक्तलक्षणोपेतं नादृष्टमुपपद्यते ॥ ६९१ ॥
गुणपदार्थपरीक्षा ।
कर्तृफलदाय्यात्मगुण आत्ममनःसंयोगजः स्वकार्यविरोध्यदृष्टम् । तच्च द्विविध धर्माधर्मभेदात् । तत्र धर्मः कर्तुः प्रियहितमोक्षहेतुः । अधर्मस्त्वप्रियाहितप्रत्यवायहेतुरिति परोक्तादृष्टलक्षणम् । तदेतदात्मनो मनसस्तद्योगस्य च तत्कारणत्वेनाभिमतस्य पूर्वं निषिद्धत्वात्कारणाभावादेवासदिति सिद्धम् । शब्दस्त्वाकाशगुणतयाऽभीष्टः स प्रागेव निरस्तोऽक्रमाद्यापतित इत्यादिनेति न पुनरस्य दूषणमुच्यते ॥ ६९१ ॥
इति गुणपदार्थपरीक्षा ।