इदानीं “गुणद्रव्यक्रियाजातिसमवायाद्युपाधिभिः । शून्य”मित्येतत्समर्थनार्थं षट्पदार्थपरीक्षोपक्षेपं कुर्वन्नाह—“जात्यादे”रित्यादि ।
जात्यादेर्निःस्वभावत्वमयुक्तं प्राक्प्रकाशितम् ।
द्रव्यादयः षडर्था ये विद्यन्ते पारमार्थिकाः ॥ ५४७ ॥
इत्याक्षपादकाणादाः प्राहुरागममात्रकाः ।
द्रव्यादिप्रतिषेधोऽयं सङ्क्षेपेण तदुच्यते ॥ ५४८ ॥
प्राक् स्थिरभावपरीक्षायां जात्यादेर्निःस्वभावत्वान्नैवेष्टा क्षणभङ्गिते त्यनेन यज्जात्यादेः निःस्वभावत्वं प्राक्प्रकाशितं तदयुक्तम् । यतो द्रव्यगुणकर्मसामान्यविशेषसमावायाख्याः षट् पदार्थाः पारमार्थिकाः सन्तीत्याहुराक्षपादादयः । अक्षपादशिष्यत्वादाक्षपादा नैयायिकाः । कणादशिष्यास्तु वैशेषिकाः काणादा उच्यन्तै । “आगममात्रका” इति । आगममात्रमपेतयुक्तिकमेषामस्तीत्यागममात्रकाः ॥ ५४७ ॥ ५४८ ॥
तत्र “क्षित्यादी”त्यादिना द्रव्यपदार्थप्रतिषेधार्थं तावत्तद्विभागमाह—
क्षित्यादिभेदतो भिन्नं नवधा द्रव्यमिष्यते ।
चतुःसङ्ख्यं पृथिव्यादि नित्यानित्यतया द्विधा ॥ ५४९ ॥
विभक्तस्य हि भेदेन सुखं दूषणस्य वक्तुं शक्यत्वादिति भावः । “नवधे”ति । पृथिव्यापस्तेजोवायुराकाशं कालो दिगात्मा मन इति सूत्रात् । तत्र पृथिव्यापस्तेजोवायुरित्येतच्चतुःसङ्ख्यं द्रव्यं नित्यानित्यभेदेन द्विप्रकारम् ॥ ५४९ ॥
तदेव द्वैविध्यमस्य दर्शयन्नाह—“पृथिव्याद्यात्मकास्ताव”दित्यादि
पृथिव्याद्यात्मकास्तावद्य इष्टाः परमाणवः ।
अनित्या ये तदाद्यैस्तु प्रारब्धास्ते विनाशिनः ॥ ५५० ॥
परमाण्वात्मका हि पृथिव्यादयो नित्याः, परमाणूनां नित्यत्वात् । तदाद्यैस्तु प्रारब्धा अनित्याः हेतुमदनित्यमिति न्यायात् । “तदाद्यै”रिति । ते परमाणव आद्या येषां ते तदाद्याः । आकाशादयस्तु नित्या एवेति भावः ॥ ५५० ॥
तत्रैतच्चतुःसङ्ख्यं तावद्द्रव्यं निषेद्धुमाह—“तत्रे”त्यादि ।
तत्र नित्याणुरूपाणामसत्त्वमुपपादितम् ।
निःशेषवस्तुविषयक्षणभङ्गप्रसाधनात् ॥ ५५१ ॥
तत्र य एते नित्याणुरूपाः पृथिव्यादयो वर्णितास्तेषामशेषवस्तुव्यापिनः क्षणभङ्गस्य प्रसान्धनान्नित्यत्वरूपेणासत्त्वं प्रसाधितमेव । यत्सत्तत्सर्वं क्षणिकमक्षणिकस्ययौगपद्याभ्यामर्थक्रियाविरोधात्तल्लक्षणं सत्त्वं हीयत इति व्याप्तेः प्रसाधितत्वात् ॥ ५५१ ॥
अत्रापि बाधकं प्रमाणमाह—“नित्यत्व” इत्यादि ।
नित्यत्वे सकलाः स्थूला जायेरन्सकृदेव हि ।
संयोगादि न चापेक्ष्यं तेषामस्त्यविशेषतः ॥ ५५२ ॥
यदि पर्वतादीनां स्थूलानां कारभूताः परमाणवो नित्याः सन्तीत्यभ्युपगम्यते तदा तत्कार्याणां स्थूलानामविकलकारणत्वात्सकृदेवोत्पत्तिप्रसङ्गः । प्रयोगः—ये समग्राप्रतिबद्धकारणास्ते सकृदेव भवन्ति । यथा बहवोऽङ्कुरास्तुल्योत्पादाः समग्राप्रतिबद्धकारणाश्च । नित्याणुकार्यत्वेनाभिमताः स्थूला भावा इति स्वभावहेतुः । समग्रकारणस्याप्यनुत्पादे सर्वदैवानुत्पादप्रसङ्गो विशेषाभावादिति बाधकं प्रमाणम् । स्यादेतन्त्रिविधं कारणमिष्टं समवायिकारणमसमवायिकारणं निमित्तकारणं च । तत्र हियत्समवैति कार्यं तत्तस्य समवायिकारणं । असमवेतं तु यद्यस्य कारणभावं प्रतिपद्यते तदसमवायिकारणं यथाऽवयविद्रव्यारम्भेऽवयवसंयोगः । परीशेषं तु कारणं निमित्तकारणं तद्यथा धर्मादय इत्ययमेषां विभागः । तत्रापेक्षणीयस्य संयोगादेरसन्निहितत्वात्समग्रकारणत्वमसिद्धमतोऽसिद्धो हेतुरित्याशङ्क्याह—“संयोगा”दीति । यदि हि संयोगादिना कश्चिद्विशेषोऽणूनामाधीयेत तदा ते तमपेक्षेरन् । यावता परैरनाधेयविशेषा एवाणवो नित्यत्वात् । तत्कथं संयोगादि तेषामपेक्ष्यं स्यात् । न च सकृ देव स्थूलानां तनुभवनादीनामुदयोऽस्ति क्रमेण तन्वादीनामुत्पत्तिदर्शनात् । तस्माद्विपर्ययः । प्रयोगः—ये क्रमवत्कार्यहेतवस्ते नित्या यथा क्रमवदङ्कुरादिकार्यनिर्वर्त्तका बीजादयस्तथा च परमाणव इति स्वभावहेतुः ॥ ५५२ ॥
अविद्धकर्णस्त्वणूनां नित्यत्वप्रसाधनाय प्रमाणमाह—परमाणूनामुत्पादकाभिइमतंसद्धर्मोपगतं न भवति । सत्त्वप्रतिपादकप्रमाणाविषयत्वात्, खरविषाणवदिति । सतो विद्यमानस्य धर्मः सद्धर्मोऽस्तित्वं तेनोपगतं प्राप्तमस्तीत्यर्थः । तस्य प्रतिषेधोऽयम् । अणूत्पादकं कारणं नास्तीत्यर्थः । तदेतत्प्रमाणमाशङ्कापूर्वमुपदर्शयन्नाह—“सद्धर्मोपगत”मित्यादि ।
सद्धर्मोपगतं नोचेदणूत्पादकमिष्यते ।
विद्यमानोपलम्भार्थप्रमाणाविषयत्वतः ॥ ५५३ ॥
अणूत्पादकं सद्धर्मोपगतं नोचेदिष्यत इति सम्बन्धः । विद्यमानस्योपलम्भोऽधिगमः सोऽर्थः प्रयोजनं यस्य प्रमाणस्य तत्तथोक्तं । शेषं सुबोधम् । एतेनाणूनामनित्यत्वप्रतिज्ञाया अनुमानबाधितत्वमुद्भावितम्, सदकारणवन्नित्यमिति वचनात् । अकारणवत्त्वेनाणूनां नित्यत्वस्य सिद्धत्वात् ॥ ५५३ ॥
“नासिद्धेरि”त्यादिना हेतोरसिद्धतामाह ।
नासिद्धेर्दृश्यते येन कुविन्दाद्यणुकारणम् ।
परमाण्वात्मका एव येन सर्वे पटादयः ॥ ५५४ ॥
ननु कुविन्दादयः पटादीनामेव कारणत्वेन सिद्धा नाणूनां तत्कथमणुकारणं कुविन्दादि दृश्यत इत्याह—“परमाण्वात्मका” इत्यादि । एतच्च पश्चात्प्रतिपादयिष्याम इति भावः ॥ ५५४ ॥
अपिच देशकालस्वभावविप्रकृष्टानामर्थानामुपलम्भकप्रमाणनिवृत्तावपि सद्भावा विरोधात्ततोऽनैकान्तिकता च हेतोरिति दर्शयति—“सद्ग्राहके”त्यादि ।
सद्ग्राहकप्रमाभावान्न वा सत्ता प्रसिध्यति ।
प्रमाणविनिवृत्तौ हि नार्थाभावेऽस्ति निश्चयः ॥ ५५५ ॥
“नार्थाभावेऽस्ति निश्चय” इति। पिशाचादिवदिति भावः ॥ ५५५ ॥
एवं तावत्कारणद्रव्यं निषिद्ध्य कार्यद्रव्यनिषेधार्थमाह—“तदारब्ध” इत्यादि ।
तदारब्धस्त्ववयवी गुणावयवभेदवान् ।
नैवोपलभ्यते तेन न सिध्यत्यप्रमाणकः ॥ ५५६ ॥
गुणा रूपादयः, अवयवास्तन्त्वादयः, तेषां भेदो व्यतिरेकः सोऽस्यास्तीति तथोक्तः । स तथाभूतो गुणावयवव्यतिरिक्तोऽवयवी नोपलभ्यते । नहि पटादिलक्षणमवयवि द्रव्यमविकलं शुक्लादिगुणेभ्योऽवयवेभ्यश्च तन्त्वादिभ्योऽर्थान्तरभूतं क्वचिच्चक्षुरादिज्ञाने च भासते । तदत्र गुणेभ्योऽर्थान्तरभूतद्रव्यानुपलम्भने गुणगुणिवादो निरस्तः । अवयवव्यतिरिक्तावयव्यनुपलम्भेन त्ववयवावयविवादः । प्रयोगः—यदुपलब्धिलक्षणप्राप्तं सद्यत्र नोपलभ्यते तत्तत्र नास्ति, यथा क्वचित्प्रदेशविशेषे घटादिरनुपलभ्यमानः, नोपलभ्यते च गुणावयवेभ्योऽर्थान्तरभूतस्तत्रैव देशे गुणी दृश्यत्वेनाभिमतोऽवयवी चेति स्वभावानुपलब्धेः । न चासिद्धो हेतुः, महत्यनेकद्रव्यवत्त्वाद्रूपाच्चोपलब्धिरिति वचनात्तयोर्दृश्यत्वेनाभिमतत्वात् ॥ ५५६ ॥
“नन्वि”त्यादिना—उद्योतकरभाविविक्तादयो हेतोरसिद्धतामुद्भावयन्ति ।
ननूपधानसम्पर्के दृश्यते स्फटिकोपलः ।
तद्रूपाग्रहणेप्येवं बलाकादिश्च दृश्यते ॥ ५५७ ॥
कञ्चुकान्तरिते पुंसि तद्रूपाद्यगतावपि ।
पुरुषप्रत्ययो दृष्टो रक्ते वाससि वस्त्रधीः ॥ ५५८ ॥
त एवमाहुर्गुणव्यतिरिक्तो गुणी समुपलभ्यत एव । तद्रूपादिगुणाग्रहणेऽपि तस्य ग्रहणात् । तथाहि स्फटिकोपलः सन्निहितोपधानावस्थायां स्वगतशुक्लगुणानुपलम्भेऽपि दृश्यत एव । बलाकादिश्च रात्रौ मन्दमन्दप्रकाशायां तद्गतसितादिरूपादर्शनेऽपि गृह्यत एव । तथाऽऽप्रपदीनकञ्चुकावच्छन्नशरीरे पुंसि तदा श्यामादिरूपाद्यग्रहणेऽपि पुमान् पुमानिति प्रत्ययः प्रसूयत एव । कषायकुङ्कुमादिरक्ते वाससि तद्रूपस्य संसर्पिरूपेणाभिभूतस्यानुपलम्भेऽपि वस्त्रधीर्भवत्येव ॥ ५५७ ॥ ५५८ ॥
तदेवं तावत्प्रत्यक्षत एव गुणगुणिनोर्भेदः सिद्ध इति प्रतिपादितम् । इदानीमनुमानतोऽपि सिद्ध इति प्रतिपादयन्नाह—रूपादीत्यादि ।
रूपादीन्दीवरादिभ्य एकान्तेन विभिद्यते ।
तेन तस्य व्यवच्छेदाच्चैत्रादेश्च तुरङ्गमः ॥ ५५९ ॥
क्षित्यादिरूपगन्धादेरत्यन्तं वा विभिद्यते ।
एकानेकवचोभेदाच्चन्द्रनक्षत्रभेदवत् ॥ ५६० ॥
इन्दीवरादिभ्यो गुणो भिन्न इन्दीवरस्य रूपादय इत्येवं तेनेन्दीवरादिना तस्य रूपादेर्व्यवच्छेदात् । यथा चैत्रस्य तुरङ्गम इति चैत्रेण स्वाम्यन्तरेभ्यो व्यवच्छिद्य मानस्तुरङ्गमस्ततो भिद्यते तथाऽपरः प्रयोगः । प्रत्येकं पृथिव्यप्तेजोवायवो द्रव्याणिरूपरसगन्धस्पर्शेभ्यो भिन्नान्येकवचनबहुवचनविषयत्वात्, यथा चन्द्रो नक्षत्राणीति । यथैव हि चन्द्र इत्येकवचनं नक्षत्राणीति बहुवचनं चन्द्रनक्षत्राणां भेदनिबन्धनमुपलभ्यते, तथात्रापि पृथिवीत्येकवचनं रूपरसगन्धस्पर्शा इति बहुवचनं । एवं जलादिष्वपि योज्यम् । नक्षत्रभेदास्तु पुष्यादयः ॥ ५५९ ॥ ५६० ॥
एवं गुणगुणिनोर्भेदं प्रसाध्यावयवावयविनोर्भेदप्रसाधनायाह—“विभिन्ने”त्यादि ।
विभिन्नकर्तृशक्त्यादेर्भिन्नौ तन्तुपटौ तथा ।
विरुद्धधर्मयोगेन स्तम्भकुम्भादिभेदवत् ॥ ५६१ ॥
प्रयोगः—ये भिन्नकर्तृकार्यकालपरिमाणास्ते विभिन्नाः यथ स्तम्भकुम्भादयः, विभिन्नकर्तृकार्यकालपरिमाणाश्च विचारविषयाः । नासिद्धो हेतुर्नाप्यनैकान्तिकः । विरुद्धधर्माध्यासमात्रनिबन्धनो हि भावानां परस्परतो भेदः, यथा स्तम्भादीनां सचावयवावयविनोरप्यस्ति । तथाहि—तन्तूनां योषित्कर्न्त्री, पटस्य कुविन्दः, शीतापनोदादिकार्यसमर्थः पटो न तन्तवः, प्रागपि तन्तूनामुपलब्धेः पूर्वकालभावित्वं, पटस्य तु पश्चात्कुविन्दादिव्यापारोत्तरकालभावित्वम्, पटस्यायामविस्तराभ्यां यावत्प्रमाणं न तावत्प्रत्येकं तन्तूनामस्तीति भिन्नपरिमाणत्वमतो नानैकान्तिकता हेतूनामिति भावः ॥ ५६१ ॥
एवं तावदनुमानतोऽवयवावयविनोर्भेदं प्रसाध्य प्रत्यक्षतोऽपि साधयन्नाह—“स्थूलार्थे”त्यादि ।
स्थूलार्थासम्भवे तु स्यान्नैव वृक्षादिदर्शनम् ।
अतीन्द्रियतयाऽणूनां नचाणुवचनं भवेत् ॥ ५६२ ॥
स्थूलवस्तुव्यपेक्षो हि सुसूक्ष्मोऽर्थस्तथोच्यते ।
स्थूलैकवस्त्वभावे तु किमपेक्षास्य सूक्ष्मता ॥ ५६३ ॥
यदि ह्यवयवी न स्यात्सर्वाग्रहणप्रसङ्गः, परमाणूनामतीन्द्रियत्वात् । स्थूलाभावेऽणुरिति व्यपदेश एव न स्यात् । कस्मादित्याह—“स्थूलवस्तुव्यपेक्षो ही”त्यादि । सुबोधम् ॥ ५३२ ॥ ५६३ ॥
ननु रक्तादिरूपेण गृह्यन्ते स्फटिकादयः ।
नच तद्रूपता तेषां स्वपक्षक्षयसङ्गतेः ॥ ५६४ ॥
“नन्वि”त्यादिना प्रतिविधत्ते—यदुक्तं स्फटिकादयः स्वगतगुणानुपलम्भेऽपि केवलाः समुपलम्भ्यन्त इति तदसिद्धम् । तज्ज्ञानस्यायथार्थतया भ्रान्तत्वेनाविषयत्वात् । तथाहि—जपाकुसुमाद्युपधाने रक्तादिरूपेणासन्नेव(न ?) स्फटिक उपलभ्यते । बलाकादयोऽपि धवलाः सन्तः श्यामरूपा वीक्ष्यन्ते । नच तेषां तात्त्विकी तद्रूपता—रक्तादिरूपताऽस्ति । कस्मात् ? स्वपक्षक्षयसङ्गतेः—यदि हि तेषां तद्रूपता तात्त्विकी स्यात्तदा तद्रूपाग्रहणेऽपि तेषां ग्रहणमस्तीति योऽयं भवतामनन्तरोदितः पक्षस्तस्य क्षतिः स्यात् ॥ ५६४ ॥
स्यादेतल्लोहितादिरूपव्यतिरिक्तः स्फटिकादिरप्युपलभ्यत एवेत्याह—“तद्रूपे”त्यादि ।
तद्रूपव्यतिरिक्तश्च नापरात्मोपलभ्यते ।
नचान्याकारधीवेद्या युक्तास्तेऽतिप्रसङ्गतः ॥ ५६५ ॥
नहि तस्माल्लोहितादिरूपाद्व्यतिरिक्तोऽपरात्मा—स्वभावः स्फटिकादिलक्षणो दृश्यते, रक्तादिरूपस्यैवोपलम्भात् । अतद्रूपा अपि स्फटिकादयो रक्तादिरूपेणोपलभ्यन्त इति चेदाह—“नचे”त्यादि । आकारवशेन हि प्रतिनियतार्थविषयता ज्ञानस्यावस्थाप्यते । यदि चान्याकारस्यापि ज्ञानस्यान्यो विषयः स्यात् । एवं सति रूपज्ञानमपि शब्दादिविषयं स्याद्विशेषाभावात् ॥ ५६५ ॥
किञ्च भवतु नामान्याकारस्यापि ज्ञानस्यान्यो विषयस्तथापि नेष्टसिद्धिर्भवत इति दर्शयन्नाह—“शुक्लादयस्तथे”ति ।
शुक्लादयस्तथा वेद्या इत्येवं चापि सम्भवेत् ।
तस्माद्भ्रान्तमिदं ज्ञानं कम्बुपीतादिबुद्धिवत् ॥ ५६६ ॥
तथाहि—शुक्लादय एव तद्व्यतिरिक्तगुणिपदार्थरहितास्तथा रक्तादिरूपेण विद्यन्त इत्येवमपि सम्भाव्यते । ततश्च न गुणिसिद्धिः । चकारोऽवधारणे, भिन्नक्रमश्च, शुक्लादय इत्यस्यानन्तरं द्रष्टव्यः । “भ्रान्तमिद”मिति । अयथार्थत्वादिति शेषः ॥ ५६६ ॥
यच्चोक्तं कञ्चुकान्तर्गते पुंसीत्यादि । तदपि न प्रत्यक्षं साभिजल्पत्वादस्फुटाकारत्वाच्च । किं तर्ह्यानुमानिकमेतज्ज्ञानं रूपादिसंहतिमात्रलक्षणपुरुषविषयमित्यतो नावयविसिद्धिरिति दर्शयति—“कञ्चुके”त्यादि ।
कञ्चुकान्तर्गते पुंसि न ज्ञानं त्वानुमानिकम् ।
तद्धेतुसन्निवेशस्य कञ्चुकस्योपलम्भनात् ॥ ५६७ ॥
स पुरुषो रूपादिप्रचयमात्रात्मको हेतुर्यस्य सन्निवेशस्य स तथोक्तः—तद्धेतुः सन्निवेशः—संस्थानविशेषो यस्य कञ्चुकस्य तत्तथोक्तम् । एतेन कार्याख्यलिङ्गविशेषजनितत्वमनुमानप्रत्ययस्योपदर्शितं भवति ॥ ५६७ ॥
यच्चोक्तं रक्ते वाससि वस्त्रधीरिति तत्राह—“कषाये”त्यादि ।
कषायकुङ्कुमादिभ्यो वस्त्रे रूपान्तरोद्रयः ।
पूर्वरूपविनाशे हि वाससः क्षणिकत्वतः ॥ ५६८ ॥
तत्र हि क्षणिकत्वाद्वाससः पूर्वशुक्लादिरूपविनाशे सत्यपूर्वमेव रूपादि सामग्र्यन्तरबलादुपजायते तस्मिंश्च प्रत्यक्षेण गृहीते पश्चाद्यथा समयाहितभेदं समुदायविषयं वासो वास इति प्रत्यक्षपृष्ठभावि सांवृतं परमार्थतो निर्विषयमेव प्रत्यवमर्शज्ञानमुत्पद्यत इत्यसिद्धमस्य प्रत्यक्षत्वम् । नाप्येतदनुमानं पूर्वप्रत्यक्षगृहीतविषयत्वादलैङ्गिकत्वाच्च ।तस्मान्नात्र किञ्चिदभिभूतं रूपमस्ति ॥ ५६८ ॥
स्यादेतत्—यद्यदृष्टं शुक्लादिरूपं वाससो नास्त्येव तत्कथं धौताद्यवस्थायां पुनरुपलभ्यत इत्याह—“पुन”रित्यादि ।
पुनर्जलादिसापेक्षात्तस्मादेवोपजायते ।
रूपाद्रूपान्तरं शुक्लं लोहादेः श्यामतादिवत् ॥ ५६९ ॥
यथाग्निसम्पर्कात्समुपजातभासुरादिरूपस्य लोहादेः पुनः श्यामादिरूपोत्पत्तिस्तद्वद्रूपान्तरमेवोपजायते शुक्लादीत्यविरोधः ॥ ५६९ ॥
स्यादेतत्कथमिदमवगम्यते रूपान्तरमेवोपजायते न पुनः प्राक्तनं रूपमभिभूतत्वात्प्रागनुपलब्धं सत्पश्चादभिभवाभावादुपलभ्यत इत्याह—“तादवस्थ्य” इत्यादि ।
तादवस्थ्ये तु रूपस्य नान्येनाभिभवो भवेत् ।
प्राक्तनानभिभूतस्य स्वरूपस्यानुवर्त्तनात् ॥ ५७० ॥
प्रयोगः—यदपरित्यक्तानभिभूतस्वभावं न तस्य परेणाभिभवोऽस्ति । यथा तस्यैव प्राक्तनावस्थायाम्, अपरित्यक्तानभिभूतस्वभावं च रूपमभिभवावस्थायामिति व्यापकविरुद्धोपलब्धिः । परित्यक्तानभिभूतस्वभावत्वेऽङ्गीक्रियमाणे सिद्धमस्यान्यत्वम् ५७०
रूपादीन्दीवरादिभ्य इत्यादावाह—“षष्ठी”त्यादि ।
षष्ठीवचनभेदादि विवक्षामात्रसम्भवि ।
ततो न युक्ता वस्तूनां तत्स्वरूपव्यवस्थितिः ॥ ५७१ ॥
यदि हि यथावस्तु षष्ठ्यादीनां प्रवृत्तिः सिद्धा स्यात्तदा भवेत्ततो वस्तुसिद्धिः । यावता स्वतन्त्रेच्छामात्रभाविन एते, न बाह्यवस्तुगतभेदाद्यपेक्षिणः, तत्कथमेतेभ्यो वस्तुसिद्धिः । तत्र षष्ठी पटस्य रूपादय इति, पटो रूपादय इति वचनभेदः । आदिग्रहणादिह पटे रूपादय इति सप्तमी, पटस्य भावः पटत्वमिति तद्धितोत्पत्तिरित्यादिपरिग्रहः ॥ ५७१ ॥
“तथाही”त्यादिनाऽनैकान्तिकत्वमेव समर्थयते ।
तथाहि भिन्नं नैवान्यैः षण्णामस्तित्वमिष्यते ।
तेषां वर्गश्च नैवैकः कश्चिदर्थोऽभ्युपेयते ॥ ५७२ ॥
तथाहि—षण्णां पदार्थानामस्तित्वं तेषां च षण्णां वर्ग इत्यादावसत्यपि वास्तवे भेदे षष्ठ्यादि भवत्येव । नहि भवद्भिः षट्पदार्थव्यतिरिक्तमस्तित्वादीष्यते । उपलक्षणमेतत् । तथा दाराः सिकता इत्यादौ सत्यपि बहुवचने नार्थभेदं पश्यामः । स्वस्य भावः स्वत्वमिति न भावोऽन्य इष्यते ॥ ५७२ ॥
“सञ्ज्ञापके”त्यादिना परस्योत्तरमाशङ्कते ।
सञ्ज्ञापकप्रमाणस्य विषये तत्त्वमिष्यते ।
षण्णामस्तित्वमिति चेत्षड्भ्योऽन्यस्ते प्रसज्यते ॥ ५७३ ॥
सञ्ज्ञापकप्रमाणविषयस्य भावस्तत्त्वं सदुपलम्भकप्रमाणविषयत्वं नाम धर्मान्तरं षण्णामस्तित्वमिष्यत इत्यर्थः । अतो नास्ति व्यभिचार इति भावः । अत्रोत्तरमाह—षड्भ्योऽन्यस्ते प्रसज्यते—पदार्थ इति शेषः । सप्तमः पदार्थः प्राप्नोति । ततश्च षट्पदार्थाभ्युपगमो हीयत इति भावः ॥ ५७३ ॥
इष्टत्वाददोष इति चेत् । यद्येवं कथं षट्पदार्था इति प्रोक्तमित्याह—“षडेत” इति ।
षडेते धर्मिणः प्रोक्ता धर्मास्तेभ्योऽतिरेकिणः ।
इष्टा एवेति चेत्कोऽयं सम्बन्धस्तस्य तैर्मतः ॥ ५७४ ॥
द्रव्येषु नियमाद्युक्ता न संयोगो न चापरः ।
समवायोस्ति नान्यश्च सम्बन्धोऽङ्गीकृतः परैः ॥ ५७५ ॥
धर्मिंरूपा एव ये भावास्ते षट्पदार्था इति प्रोक्ताः, धर्मरूपास्तु षट्पदार्था व्यतिरिक्ता इष्टा एव । तथाहि पदार्थप्रवेशके ग्रन्थः— एवं धर्मैर्विना धर्मिणामेष निर्देशः कृत इति । “कोय”मित्यादिनोत्तरमाह—तस्य—अस्तित्वादेर्धर्मस्य । “तैरि”ति । षड्भिः पदार्थैः । कः सम्बन्धो येन तेषामसौ धर्मो भवति । नहि सम्बन्धमन्तरेण धर्मिधर्मभावो युक्तोऽतिप्रसङ्गात् । एवं हि सर्वस्य सर्वधर्मत्वं स्यात्, नहि कश्चित्तैः सह सम्बन्धोऽस्ति । तथाहि—द्विविध एव सम्बन्धः संयोगलक्षणः समवायलक्षणश्च, तत्र न तावत्संयोगलक्षणस्तस्य गुणत्वेन द्रव्येष्वेव नियतत्वात् । नच समवायात्मकस्तस्य भाववदेकत्वेनेष्टत्वात् । समवायेन च समवायात्मके सम्बन्धे सति द्वितीयःसमवायोऽङ्गीकृतः स्यात् ॥ ५७४ ॥ ५७५ ॥
विनैव सम्बन्धं धर्मधर्मिभावो भविष्यतीति चेत्प्राह—“सम्बन्धानुपपत्ता”वित्यादि ।
सम्बन्धानुपपत्तौ च तेषां धर्मो भवेत्कथम् ।
तदुत्पादनमात्राच्चेदन्येऽपि स्युस्तथाविधाः ॥ ५७६ ॥
एवं ह्यतिप्रसङ्गः स्यादित्युक्तम् । अथ तैः षड्भिः पदार्थैर्धर्मस्योत्पादनात्तेषामयं धर्मः सम्बन्धीत्युच्यते । यद्येवमन्येऽपि तर्हि जलादयस्तदुत्पत्तिलक्षणसम्बन्धमात्रादेवतथाविधाः—कुण्डादिसम्बन्धिनः स्युः—भवेयुः । ततश्च संयोगसमवायाख्यसम्बन्धान्तरकल्पना तेषु व्यर्था स्यात् ॥ ५७६ ॥
तस्याप्यस्तित्वमित्येवं वर्तते व्यतिरेकिणी ।
विभक्तिस्तस्य चान्यस्य भावेऽनिष्ठा प्रसज्यते ॥ ५७७ ॥
किञ्च भवतु नाम षण्णामस्तित्वं नाम धर्मान्तरं तथापि व्यभिचार एव । तथाहि तस्याप्यस्तित्वमस्त्येव वस्तुत्वात् । ततश्च तत्र व्यतिरेकनिबन्धना विभक्तिः कथं भवेत् । अथ तत्राप्यपरमस्तित्वमङ्गीक्रियते तदाऽनवस्था स्यात् ॥ ५७७ ॥
इष्टत्वान्नानवस्था बाधिकेति चेदाह—“अन्ये”त्यादि ।
अन्यधर्मसमावेशे प्राप्ता तत्र च धर्मिता ।
द्रव्यादेरपि धर्मित्वमस्मादेव च सम्मतम् ॥ ५७८ ॥
सर्वेषामेव ह्युत्तरोत्तरधर्मसमावेशाद्धर्मित्वं स्यात् । ततश्च षडेते धर्मिण एव प्रोक्ता इत्येतन्नोपपद्यते, षट्पदार्थव्यतिरेकेणान्येषामपि धर्मिणां विद्यमानत्वादिति भावः । अथापि स्यात्—ये धर्मिरूपा एव त एव षटूत्वेनावधारिताः, इत्येतदप्यसारम् । एवं हि गुणकर्मसामान्यविशेषसमवायानामनिर्देशः स्यात् । नह्येषां धर्मिरूपत्वमेव, किं तर्हि, धर्मरूपत्वमपि, द्रव्याश्रितत्वादेषाम् । “अस्मा”देवेति । अन्यधर्मसमावेशात् । अन्यः पुनराह—षण्णामस्तित्वं हि सदुपलम्भकप्रमाणगम्यत्वम् । गम्यत्वं च षट् पदार्थविषयं विज्ञानं, तस्मिन् सति सद्व्यवहारप्रवर्त्तनात् । तथा ज्ञानजनितं ज्ञेयत्वम्, अभिधानजनितमभिधेयत्वमिति । अतो व्यतिरेकनिबन्धना षष्ठी भवत्येव । नचाप्यनवस्था, नापि षट्पदार्थान्तरप्रसङ्ग इति । तस्यापीदं कल्पनामात्रमेव । यदिह्यर्थक्रियासमर्थपदार्थात्मकमात्मतत्त्वमेषामस्त्येव तदा तेऽर्थक्रियासमर्थाः पदार्था एवभेदान्तरप्रतिक्षेपमात्रजिज्ञासायां तेषामस्तित्वमित्येवं यदि व्यतिरेकविभक्त्या व्यपदिश्येरंस्तदा को विरोधः । तदव्यतिरिक्तमपि हि स्वरूपं बुद्ध्या ततोऽवकृष्य व्यतिरिक्तमिवाभिधीयमानमविरोध्येव, वाचामिच्छामात्रवृत्तित्वादुत्पाद्यकथोपरचितेषु बाहुल्यसौन्दर्यादिधर्मपरिकल्पनवदिति यत्किञ्चिदेतत् ॥ ५७८ ॥
विभिन्नकर्तृशक्त्यादेरित्यादावाह—“प्रथमेभ्य”श्चेत्यादि ।
प्रथमेभ्यश्च तन्तुभ्यः पटस्य यदि साध्यते ।
भेदः साधनवैफल्यं दुर्निवारं तदा भवेत् ॥ ५७९ ॥
प्राप्तावस्थाविशेषा हि ये जातास्तन्तवोऽपरे ।
विशिष्टार्थक्रियासक्ताः प्रथमेभ्योऽविलक्षणाः ॥ ५८० ॥
यदि प्रथमावस्थाभाविभ्योऽसमधिगतपटाख्यानेभ्यस्तन्तुभ्यः पटस्य भेदः साध्यते तदा सिद्धं साध्यते । सर्वभावानां क्षणिकत्वेन पूर्वकेभ्यस्तन्तुभ्यः पटशब्दवाच्यानां तन्तूनां तद्विलक्षणपदार्था(र्थत्वा ?)सम्भवेऽप्युत्पादस्याङ्गीकरणात् ॥ ५७९ ॥ ॥ ५८० ॥
अथ पटसमानकालभाविनो ये तन्तवस्तेभ्यः पटस्यान्यत्वं प्रसाध्यते तदा हेतूनामसिद्धेतेति दर्शयन्नाह—“एके”त्यादि ।
एककार्योपयोगित्वज्ञापनाय पृथक्श्रुतौ ।
गौरवाशक्तिवैफल्यदोषत्यागाभिवाञ्छया ॥ ५८१ ॥
साकल्येनाभिधानेन व्यवहारस्य लाघवम् ।
मन्यमानैः कृता येषु वागेका व्यवहर्तृभिः ॥ ५८२ ॥
तेभ्यः समानकालस्तु पटो नैव प्रसिद्ध्यति ।
विभिन्नकर्तृसामर्थ्यपरिमाणादिधर्मवान् ॥ ५८३ ॥
यदि तदानीं तन्तुव्यतिरिक्तस्तत्समानकालभावी पटः प्रसिद्धो भवेत्तदा तस्य तन्तुव्यपेक्षया विभिन्नकर्तृत्वादयो धर्माः सिद्ध्येयुर्यावता स एवायं तन्तुव्यतिरेकी पटो न सिद्धः । तद्भेदस्यैव प्रसाधयितुं प्रस्तुतत्वात् । न च पटस्तन्तव इति सञ्ज्ञामात्राद्वस्तूनां भेदः, प्रयोजनान्तरवर्शनापि सञ्ज्ञान्तरस्य निवेशात् । तथाहि—केचित्तन्तवो विशिंष्टावस्थाप्राप्ताः शीतापनोदनाद्येकार्थक्रियासमर्था भवन्ति, नापरे ये योषित्कर्तृकाः । तत्रैकार्थक्रियोपयोगिनस्तन्तून्विशिष्टान्प्रतिपादयितुं पट इत्येका श्रुतिर्विनिवेश्यते व्यवहर्तृभिरसाङ्कर्येण व्यवहारायासत्यप्यर्थान्तरत्वे । कस्मात्पुनरेका श्रुतिर्विनिवेश्यत इत्याह—“पृथक्श्रुता”वित्यादि । पृथक्पृथक्—प्रत्येकं श्रुतौ—अभिधाने सति गौरवदोषः । तथाहि—तत्र यावन्तः पदार्था विवक्षितैककार्यसाधनयोग्यास्तावन्त एव शब्दाः प्रयोक्तव्या इति गौरवदोषः । नचाप्येषामसाधारणं रूपं शक्यं निर्देष्टुमित्यशक्तिदोषः । उत्प्रेक्षितसामान्याकारेण च निर्देशे वरमेकयैव श्रुत्या प्रतिपादनं, न चास्य पृथक्पृथक्प्रतिपादनप्रयासस्य किञ्चित्फलमुपलभ्यत इति वैफल्यदोषः । सामस्त्येन त्वभिधाने कृते सति व्यवहारलाघवं गुणः । समस्तवस्तुविवक्षायां जगत्रिभुवनविश्वादिशब्दवदेका वागिति । पट इत्येवं वचनमित्यर्थः । कर्ता चसामर्थ्यपरिमाणादिधर्मश्चेति तौ तथोक्तौ, ततो विभिन्नशब्देन विशेषणसमासं कृत्वा मतुप् कार्यः ॥ ५८१ ॥ ५८२ ॥ ५८३ ॥
यच्चोक्तं स्थूलार्थासम्भव इत्यादि तत्राह—“अन्योन्याभिसरा” इति । असिद्धमणूनामतीन्द्रियत्वं विशिष्टावस्थाप्राप्तानामिन्द्रियग्राह्यत्वात् । यस्य हि नित्याः परमाणव इति पक्षस्तं प्रत्यणूनां विशेषाभावात्सर्वदैवातीन्द्रियत्वं स्यात्, नास्मान्प्रति । “अन्योन्याभिसरा” इति ।
अन्योन्याभिसराश्चैवं ये जाताः परमाणवः ।
नैवातीन्द्रियता तेषामन्यानां गोचरत्वतः ॥ ५८४ ॥
अन्योन्यसहाया इत्यर्थः ॥ ५८४ ॥
“नीलादि”रित्यादिना तदेवाक्षगोचरत्वं दर्शयति ।
नीलादिः परमाणूनामाकारः कल्पितो निजः ।
नीलादिप्रतिभासा च वेद्यते चक्षुरादिधीः ॥ ५८५ ॥
ननु च पौर्वापर्यादिदिग्भेदेन परमाणवोऽवस्थिता इष्यन्ते नच तेन रूपेणोपलक्ष्यन्ते । तत्कथमेषां प्रत्यक्षतेत्याह—“पौर्वापर्यविवेके”नेत्यादि ।
पौर्वापर्यविवेकेन यद्यप्येषामलक्षणम् ।
तथाऽप्यध्यक्षताऽबाधा पानकादाविव स्थिता ॥ ५८६ ॥
अध्यक्षताया अबाधा अध्यक्षताऽबाधेति समासः । असमस्तं वैतत् । अविद्यमानबाधत्वादबाधा । पानकादिष्विवाध्यक्षताऽवस्थितेत्यर्थः । तथाहि—पानके तप्तोपले सूतहेमादौ च मिश्रे परमाणव एव तथोपलभ्यन्ते । नहि तत्रावयविद्रंव्यमस्ति, विजातीयानां द्रव्यारम्भकत्वात् । नचापि परमाणुशोध्यति(भ्योऽवयवि ?)भेदे संयोगो दृश्य उपपद्यते, अदृष्टाश्रयत्वात् । यत्र ह्येकोऽपि संयोगी न दृश्यस्तत्र संयोगो न दृश्यते । यथा पिशाचघटसंयोगः सूर्यमण्डलाकाशदिग्देशसंयोगश्च । यत्र पुनः सर्व एव संयोगी परमाण्वात्मको न दृश्यते, तत्र कथं संयोगस्तदाश्रितो दृश्यः स्यात् ॥ ५८६ ॥
यद्येवं सर्वप्रकारेणानिश्चये सति कथं नाम प्रत्यक्षता तेषां युक्तिमतीत्याह—“सर्वेषा”मित्यादि ।
सर्वेषामेव वस्तूनां सर्वव्यावृत्तिरूपिणाम् ।
दृष्टावपि तथैवेति न सर्वाकारनिश्चयः ॥ ५८७ ॥
नह्यपरदर्शनानां क्वचिदपि वस्तुनि प्रत्यक्षेण गृहीतेऽपि सर्वाकारनिश्चयोऽस्ति । यावता तु रूपेणार्थान्तरव्यावृत्तिकृतेन न निश्चीयते, तावता तत्प्रत्यक्षमिति व्यवस्थाप्यते । न सर्वाकारेण । गृहीतस्यापि प्रकारान्तरस्य निश्चयानुत्पत्तेर्व्यवहारायोग्यत्वेनागृहीतकल्पत्वात् । “तथैवे”ति । यथा तद्वस्त्वनुभूतम् ॥ ५८७ ॥
ननु च निरंशतया सर्वात्मनैव प्रत्यक्षेणानुभूतत्वाद्वस्तुनः कस्मात्सर्वात्मना निश्चयो न भवतीत्याह—“अकल्पनाक्षगम्येऽपी”त्यादि ।
अकल्पनाक्षगम्येऽपि निरंशेऽर्थस्य लक्षणे ।
यद्भेदव्यवसायेऽस्ति कारणं स प्रतीयते ॥ ५८८ ॥
अक्षे भवमाक्षमिन्द्रियज्ञानमित्यर्थः । अकल्पनमविद्यमानकल्पनं च तदाक्षं चेति विग्रहः । तेन गम्येऽपि—निर्विकल्पेन्द्रियज्ञानगम्येऽपीत्यर्थः । “यद्भेदव्यवसाय” इति । यस्माद्भेदो व्यावृत्तिर्यद्भेदस्तत्र व्यवसायो निश्चयस्तस्य कारणमभ्यासः प्रत्यासत्तिस्तारतम्यबुद्धिपाटवं चेत्यादि । नह्यनुभवमात्रमेव निश्चयकारणं किन्त्वभ्यासादयोऽपि । तेन यत्र ते सन्ति तत्र निश्चयः प्रसूयत इत्यर्थः । एतच्च सर्वं परमाणूनां सिद्धिं बाह्यस्य चार्थस्य प्रत्यक्षत्वसिद्धिमभ्युपगम्योक्तम् । यस्य तु विज्ञानवादिनो न बाह्योऽर्थो नीलादिरूपतया प्रत्यक्षसिद्धः स्वप्नादौ विनापि बाह्यमर्थं तथाविधनीलादि प्रतिभासोपलम्भेन संशयात्, तस्य च नीलादिरूपस्यैकानेकस्वभावशून्यत्वेन भ्रान्तज्ञानप्रतिभासात्मकत्वात्, नापि परमाणवः सिद्धास्तेषां पौर्वापर्यावस्थायितया दिग्भागभेदिनामेकत्वासिद्धे । तं प्रति कथं नीलादिरूपतया परमाणूनां प्रत्यक्षत्वं पौर्वापर्यस्य वानुपलक्षणं भ्रान्तिनिमित्तेनार्थान्तरसमारोपादिति शक्यं वक्तुम् ॥ ५८८ ॥
स्यादेतद्यद्यवयवी न स्यात्तदा कथं बहुषु परमाणुष्वेकः पर्वत इति व्यवसायो व्यापृताक्षस्य भवतीत्याह—“समाने”त्यादि ।
समानज्वालासम्भूतेर्यथा दीपेन विभ्रमः ।
नैरन्तर्यस्थितानेकसूक्ष्मवित्तौ तथैकधा ॥ ५८९ ॥
यथाहि—दीपादौ नैरन्तर्येण सदृशापरापरज्वालापदार्थसम्भवात्सत्यपि “भेद” एकत्वविभ्रमो भवति तथा नैरन्तर्येणानेकसूक्ष्मतरपदार्थसंवेदनतोऽयमेकत्वविभ्रम इत्यदोषः ॥ ५८९ ॥
यद्येवं भेदेनानुपलक्ष्यमाणाः कथमणवः प्रत्यक्षाः सिध्यन्तीत्याह—“विवेके”त्यादि ।
विवेकालक्षणात्तेषां नो चेत्प्रत्यक्षतेष्यते ।
दीपादौ सा कथं दृष्टा किं वेष्टोऽवयवी तथा ॥ ५९० ॥
यदि हि विवेकेनानवधार्यमाणं न प्रत्यक्षमिष्यते, तदा दीपादौ पूर्वापरविभागेनानुपलक्ष्यमाणे सा प्रत्यक्षता कथं दृष्टा । अवयवी वाऽवयवविवेकेनागृह्यमाणोऽपि किं तथा प्रत्यक्षत्वेनेष्ट इत्यनैकान्तिकमेतत् ॥ ५९० ॥
“एतावदि”त्यादिना परं चोदयितुं शिक्षयति—
एतावत्तु भवेदत्र कथमेषां न निश्चये ।
नीलादिपरमाणूनामाकार इति गम्यते ॥ ५९१ ॥
तदप्यकारणं यस्मान्नैव ज्ञानमगोचरम् ।
नचैकस्थूलविषयं स्थौल्यैकत्वविरोधतः ॥ ५९२ ॥
“एषामिति” । परमाणूनाम् । “तदपी”ति । परमाणूनां विवेकेनालक्षणं यत्तदकारणम्, परमाणुगतनीलाद्यग्रहणस्यान्यतोऽपि निश्चयोत्पत्तेः । तथाहीदं ज्ञानमविषयं तावद्बहिरर्थवादिना सता नैवेष्टव्यमन्यथा हि विज्ञानमात्रतादर्शनमेव स्यात् । स चायं रूपादिविषयः स्थूलरूपतयावभासमान एको वा स्यादनेको वा, एकोऽपि भवन्नारब्धो वा स्यादवयवैरनारब्धो वा । तत्र न तावदुभयात्माऽप्ययमेको युक्तः प्रत्यक्षादिविरोधात् ॥ ५९१ ॥ ५९२ ॥
कोऽसौ विरोध इत्याह—“स्थूलस्यैकस्वभावत्व” इत्यादि ।
स्थूलस्यैकस्वभावत्वे मक्षिकापदमात्रतः ।
पिधाने पिहितं सर्वमासज्येताविभागतः ॥ ५९३ ॥
रक्ते च भाग एकस्मिन्सर्वं रज्येत रक्तवत् ।
विरुद्धधर्मभावे वा नानात्वमनुषज्यते ॥ ५९४ ॥
यदि हि स्थूलमेकं स्यात्तदैकदेशपिधाने सर्वस्य पिधानम्, एकदेशरागे च सर्वस्य रागः प्रसज्येत, पिहितापिहितयो रक्तारक्तयोश्च भवन्मतेनाभेदात् । नचैकस्य परस्परविरुद्धधर्माध्यासो युक्तः, अतिप्रसङ्गात् । एवं हि विश्वमेकं द्रव्यं स्यात्, ततश्च सहोत्पादादिप्रसङ्ग । नचैकदेशपिधाने सर्वं पिहितमीक्ष्यत इति प्रत्यक्षविरोधः । तथानुमानविरोधोऽपि । तथाहि—यत्परस्परविरुद्धधर्माध्यासितं न तदेकं भवति, यथा गोमहिषम्, उपलभ्यमानानुपलभ्यमानरूपं पिहितादिरूपेण च विरुद्धधर्माध्यासितं स्थूलमिति व्यापकविरुद्धोपलब्धिः । सर्वस्यैकत्वप्रसङ्गो बाधकं प्रमाणम् ॥ ५९३ ॥ ५९४ ॥
उद्योतकरस्त्वाह—एकस्मिन्भेदाभावात्सर्वशब्दप्रयोगानुपपत्तिरिति । तदेत“न्ननु चे”त्यादिना शङ्कते ।
ननु चैकस्वभावत्वात्सर्वशब्दोऽत्र किङ्कृतः ।
स ह्यनेकार्थविषयो नानात्मावयवी न च ॥ ५९५ ॥
तथाहि—सर्वशब्दोऽनेकार्थविषयः, न चावयवी नानात्मेति, तत्कथं सर्वशब्दप्रयोगो येनोच्यते सर्वं पिहितमासज्यत इति ॥ ५९५ ॥
“नन्वि”त्यादिना प्रतिविधत्ते ।
ननु ये लोकतः सिद्धा वासोदेहनगादयः ।
त एवावयवित्वेन भवद्भिरुपवर्णिताः ॥ ५९६ ॥
रक्तं वासोऽखिलं सर्वं निःशेषं निखिलं तथा ।
तत्रेच्छामात्रसम्भूतमिति सर्वे प्रयुञ्जते ॥ ५९७ ॥
तथाविधविवक्षायामस्माभिरपि वर्ण्यते ।
सर्वं स्याद्रक्तमित्यादि निर्निबन्धा हि वाचकाः ॥ ५९८ ॥
य एव हि लोके वासोदेहप्रभृतयः प्रसिद्धास्त एव भवद्भिरवयवित्वेनाबकल्पिताः । तत्र च लोके सर्वैकदेशशब्दयोः प्रवृत्तिः प्रसिद्धैव । तथाच वक्तारो भवन्ति सर्वं वासो रक्तमित्यादेः । तथाविधायां च विवक्षायां येयं लोके पृथुतरदेशावक्रान्तिव्यवस्थितशाटकादिपदार्थगतरक्तादिप्रतिपादनेच्छा, तस्या सत्यामस्माभिरपि प्रतीतिमनुसृत्य भवतो विरोधप्रतिपादनाय सर्वादिशब्दप्रयोगः क्रियते । अपि च—भवत एवायं स्थूलस्यैकत्वमभ्युपगच्छतो दोषो नास्माकम्, नह्यस्माभिः स्थूलस्यैकत्वमिष्यते, स्यादेतन्ममाप्यदोष एव यस्माद्भाक्तमुपचरितमेतत्तन्त्वादिष्ववयवेषु तत्कारणतया पटाद्यभिधानम्, तेन सर्वादिशब्दप्रयोगो भविष्यतीति ॥ ५९६ ॥ ५९७ ॥ ५९८ ॥
भाक्तं तदभिधानं चेद्वचोभेदः प्रसज्यते ।
नच बुद्धेर्विभेदोऽस्ति गौणमुख्यतयेष्टयोः ॥ ५९९ ॥
यद्येवं—वचोभेदः—बहुवचनं, सर्वदैव प्रसज्यते सर्वाणि वासांसि रक्तानीति । न च भवन्तो बहुष्वेकवचनमिच्छन्ति । अथापि स्यादवयविगतां सङ्ख्यामादायावयवेषुवस्त्रादिशब्दोऽपरित्यक्तात्माभिधेयगतलिङ्गसङ्ख्य एव वर्तत इति । तदप्ययुक्तमिति दर्शयन्नाह—“नचे”त्यादि । यदि हि भाक्तोऽयं व्यपदेशः स्यात्तदा गौणमुख्यार्थविषयाया बुद्धेर्विभेदो वैलक्षण्यं स्खलद्गतित्वेत प्राप्नोति, नच भदोऽस्ति । तथाहि—सर्वं वासो रक्तमित्यत्र नैवं बुद्धिः प्रवर्त्तते न च वस्त्रं रक्तं किन्तु तत्कारणभूतास्तन्तवो रक्ता इति । चकारान्न च सर्वशब्दवाच्यं वासो युष्माभिरिष्यते तस्यैकत्वात्, तत्कथन्तत्सङ्ख्यामादाय सर्वशब्दो वस्त्रादिशब्दरहितोऽवयवेषु वर्त्तते । अथवा बुद्धेर्भेदो नानात्वं सोऽस्मिन् गौणमुख्यत्वेनेष्टयोर्न विद्यते । नहि तन्तुवस्त्रयोर्भिन्नं रूपं समुपलभ्यते रूपरसादिवत्, नचानुपलब्धभिन्नरूपयोर्गौणमुख्यभावः सम्भवति ॥ ५९९ ॥
“ननु” चेत्यादिना—शङ्करस्वामिनः परिहारमाशङ्कते ।
ननु चाव्याप्यवृत्तित्वात्संयोगस्य न रक्तता ।
सर्वस्यासज्यते नापि सर्वमावृतमीक्ष्यते ॥ ६०० ॥
स ह्याह—राग उच्यते वाससः कषायकुङ्कुमादिद्रव्येण संयोगः । संयोगश्चाव्याप्यवृत्तिस्ततो न रक्त एकस्मिन्सर्वस्य रागो भवति । नच वस्त्रादिभिः शरीरैकदेशस्यावरणे सर्वस्यावरणमिति ॥ ६०० ॥
तदेतदयुक्तमित्यादर्शयति—“ननु चानंशक” इत्यादि ।
ननु चानंशके द्रव्ये किमव्याप्तं व्यवस्थितम् ।
स्वरूपं तदवस्थाने भेदः सिद्धोऽतएव वा ॥ ६०१ ॥
बहुदेशस्थितिस्तेन नैवैकस्मिन्कृतास्पदा ।
ततः सिद्धा पटादीनामणुभ्योऽनेकरूपता ॥ ६०२ ॥
यदि हि पटादिरेकमेव द्रव्यं, तदा किं तत्र निरंशके द्रव्ये कषायादिभिरव्याप्तं, येनाव्याप्यवृत्तिः संयोगः स्यात् । अथाव्याप्तस्वरूपस्यावस्थानमङ्गीक्रियते तदा तदवस्थाने भेदोऽतएव सिद्धः, व्याप्ताव्याप्तयोर्विरोधेनैकस्वभावत्वायोगात् । नचैकस्य पृथुतरदेशावस्थानं युक्तमनंशत्वात् । अन्यथा हि सर्वेषामेवोदकजन्तुहस्त्यादीनामेकत्वेनाविशेषात्स्थूलसूक्ष्मादिभेदो न प्राप्नोति । अल्पबहुतरावयवारम्भानारम्भादिकृतो विशेष इति चेत्, अवयवा एव तर्ह्यल्पबहुतरास्तथातथोत्पद्यमानाः स्थूलसूक्ष्मादिव्यवस्थानिबन्धनं सन्तु, किं तदारब्धेनावयविना, तस्यादृष्टसामर्थ्यात् । नच सत्यप्यवयवाल्पबहुत्वेऽवयविनां निरंशतया परस्परं कश्चिद्विशेषोऽस्ति, येन स्थूलसूक्ष्मादिभेदो भवेत्, तेषामवयवाल्पबहुत्वग्रहणकृते विशेषेऽवयवमात्रमेवाभ्युपगतं स्यात्तत्रैव स्थूलादिव्यवहारात्ततश्चाणुमात्रमेव दृश्यत्वेनाभ्युपेतं स्यात् । स्थूलसूक्ष्मा(क्ष्म ?) व्यतिरेकेणान्यस्य(स्या ?) दृश्यमानत्वात् । अपि चाव्याप्यवृत्तिः संयोग इति कोऽर्थः ? यदि सर्वं द्रव्यं न व्याप्नोतीत्यर्थः तदयुक्तम् । द्रव्यस्य सर्वशब्दाविषयत्वाभ्युपगमात् । अथाश्रयस्यैकदेशे वर्त्तत इति तदप्ययुक्तं तस्यैकदेशासम्भवात् । तदारम्भकेऽवयवे वर्त्तत इति चेत्, यद्येवमवयवानामेव रक्तत्वादवयविरूपमरक्तमिति रक्तारक्तं समं दृश्येत । किञ्च योऽप्यसौ तदारम्भकोऽवयवः स यद्यवयविरूपस्तदा तत्राप्येकदेशवृत्तित्वं संयोगस्येति तुल्यः पर्यनुयोगः । अथाणुरूपस्तदाऽतीन्द्रियत्वादणूनां तदाश्रितोऽपि संयोगोऽतीन्द्रिय एवेति रक्तोपलम्भो न स्यात् । स्यान्मतं यथाव्याप्तिरङ्गुलिरूपस्याश्रयोपलब्धावेवोपलब्धिरुच्यते नैवं संयोगस्याश्रयोपलब्धावेवोपलब्धिरिति ततोऽसावव्याप्यवृत्तिरुच्यत इति । तदेतदसम्यक् । न हि संयोगस्याश्रयानुपलब्धावुपलब्धिरस्ति । यथा घटपिशाचसंयोगस्य, ततश्च रागस्याप्यदृष्टाश्रयस्यानुपलब्धेराश्रयोपलब्धावेवोपलब्धिरिति सोऽप्येवं व्याप्यवृत्तिर्भवेत् । स्यादेतत्— अवयवान्तरेष्वरक्तेषु समवेतस्य द्रव्यस्योपलब्धावपि न संयोगात्मकस्य रागस्योपलब्धिस्तेन नास्याश्रयोपलब्धावुपलब्धिरिति तदप्ययुक्तम् । एवं हि रक्तारक्तसमवेतस्यावयविन एकत्वाद्रक्तेऽप्यवयवे रागस्य तद्द्वारेणानुपलब्धिप्रसङ्गः, आश्रयोपलम्भेऽपि तस्यानुपलम्भात् । न चाश्रयोपलम्भादन्यसंयोगग्रहणाभ्युपायोऽस्ति । तस्मान्नैकरूपो
विषयो युक्तः । अनेकरूपोऽपि भवनसामर्थ्यादणुसञ्चयात्मक एवावभिद्यते । सम्भवदवयवस्यैकत्वायोगात् । अतः सिद्धा घटादीनामणुरूपता तेन नीलादि परमाणूनामाकार इति सिद्धम् । अन्यस्यैकरूपस्य विषयस्यासम्भवात् ॥ ६०१ ॥ ६०२ ॥
यच्चोक्तं न चाणु वचनं भवेदिति तत्राह—“अविज्ञातार्थतत्त्व” इत्यादि ।
अविज्ञातार्थतत्त्वस्तु पिण्डमेकं च मन्यते ।
लोकस्तत्कल्पितापेक्षः परमाणुरिहोच्यते ॥ ६०३ ॥
“तत्कल्पितापेक्ष” इति । तस्मिन्कल्पिते सूत्रे अपेक्षा यस्येति विग्रहः ॥ ६०३ ॥
परिहारान्तरमाह—“निमित्ते”त्यादि ।
निमित्तनिरपेक्षा वा सञ्ज्ञेयं तादृशि स्थिता ।
सङ्केतान्वयिनी यद्वन्निर्वित्तेऽपीश्वरश्रुतिः ॥ ६०४ ॥
“तादृशी”ति । अनंशेऽप्रतिघे । यथा दरिद्रेऽपीश्वरश्रुतिः सङ्केतवशादैश्वर्याख्यं निमित्तमन्तरेणैव प्रवर्तते, तद्वदियमप्यणुश्रुतिरित्यदोषः ॥ ६०४ ॥
एवं तावत्सामान्येनैवावयवैरारब्धमनारब्धं वा स्थूलमेकं द्रव्यं न युज्यत इति प्रतिपादितम् । इदानीं येनावयवी प्रारब्ध इष्यते, तस्य विशेषेण दूषणमाह—“एके”त्यादि ।
एकावयव्यनुगता नैव तन्तुकरादयः ।
अनेकत्वाद्यथासिद्धाः कटकुट्यकुटादयः ॥ ६०५ ॥
यदि वाभिमतं द्रव्यं नानेकावयवाश्रितम् ।
एकत्वादणुवद्वृत्तेरयुक्तिर्बाधिका प्रमा ॥ ६०६ ॥
प्रयोगः—यदनेकं न तदेकद्रव्यानुगतम्, यथा कटकुट्यादयो बहवो नैकद्रव्यानुगताः, अनेके चामी तन्तुकरादय इति व्यापकविरुद्धोपलब्धेः । अथवा—यदेकन्तदेकद्रव्याश्रितं यथैकः परमाणुः एकं चावयविसञ्ज्ञितं द्रव्यमिति व्यापकविरुद्धोपलब्धिप्रसङ्गः । प्रसङ्गसाधनं चैतत् । प्रयोगद्वयेऽपि विपर्यये बाधकं प्रमाणमाह—“वृत्तेरयुक्तिर्बाधिका प्रमेति” । अवयवेषु याऽवयविनो वृत्तिस्तस्या अयोगः प्रमाणैरघटनं तदत्र बाधकं प्रमाणम् ॥ ६०५ ॥ ६०६ ॥
कथं पुनरयोग इत्याह—“तद्धी”त्यादि ।
तद्ध्येकवृत्तिभाजैव रूपेणावयवान्तरे ।
वर्त्तेत यदि वाऽन्येन न प्रकारान्तरं यतः ॥ ६०७ ॥
तत्र तेनैव नान्यत्र वृत्तिरस्यावकल्पते ।
तेन क्रोडीकृतत्वेन नान्यथा तत्र वृत्तिमत् ॥ ६०८ ॥
तदेकं द्रव्यमेकावयवक्रोडीकृतं यत्तस्य रूपं तेनैवावयवान्तरेषु वर्त्तते, यद्वाऽन्येनेति पक्षद्वयं, नहि वस्तुतस्तत्त्वान्यत्वाभ्यामन्यत्प्रकारान्तरमस्ति । तत्र न तावदाद्यः पक्षस्तेनैवावयवेन तस्य क्रोडीकृतत्वात्कुतोऽवयवान्तरे वर्त्तितुमस्यावसरस्तदानीमेव स्यात् । अन्यथा हि यद्यन्यत्रापि वर्त्तेत, तदाऽत्राभिमते द्रव्ये तस्य वृत्तिः सर्वात्मना न भवेत् । नहि तस्यापरः स्वभावोऽस्ति, येनान्यत्रापि वर्त्तेत, एकत्वहानिप्रसङ्गात् ॥ ६०७ ॥ ६०८ ॥
प्रमाणं रचयन्नाह—“नैवे”त्यादि ।
नैव धात्र्यन्तरक्रोडमध्यास्ते हि यथा शिशुः ।
एकक्रोडीकृतं द्रव्यं नाश्रयेत तथाऽपरम् ॥ ६०९ ॥
प्रयोगः—यदेकवस्तुक्रोडीकृतं वस्तु न तत्तदानीमेवान्यत्र वर्त्तते । यथैकधात्रीक्रोडीकृतः शिशुर्न धात्र्यन्तरक्रोडमध्यास्ते एकावयवक्रोडीकृतं च द्रव्यमिति व्यापकविरुद्धोपलब्धिः । द्रव्यं नाश्रयेत तथापरमिति प्रमाणफलकथनम् ॥ ६०९ ॥
साध्यविपर्ययेऽस्य बाधकं प्रमाणमाह—“तत्सम्बद्धस्वभावस्ये”ति ।
तत्सम्बद्धस्वभावस्य ह्यतद्देशेऽपि वृत्तितः ।
प्राप्तं तदेकदेशत्वमैकात्म्यं चाविभागतः ॥ ६१० ॥
अन्येनैवात्मना वृत्तौ नैकोऽनेकव्यवस्थितः ।
सिद्ध्येत्स्वभावभेदस्य वस्तुभेदात्मकत्वतः ॥ ६११ ॥
अभिमतावयवसम्बद्धस्वभावस्य हि द्रव्यस्यातद्देशेऽप्यवयवान्तरे यदि वृत्तिः स्यात्तदा तेषामवयवानामेकदेशता स्यात्, ततश्चैकात्म्यमेकस्वभावताऽवयवानां प्राप्ता ।कस्मात् ? अविभागतः—अविभक्तरूपतयाऽवस्थितत्वात् । अन्यथा हि विभक्तरूपावस्थितौ सत्यां नैकदेशत्वं भवेत्, अथान्येन स्वभावेनेति द्वितीयः पक्षस्तदैकोऽनेकव्यवस्थित इति न सिद्ध्येत्, स्वभावान्तरस्यान्यत्र वृत्तेः स्वभावभेदात्मकत्वाच्च वस्तुभेदस्य ॥ ६१० ॥ ६११ ॥
उद्योतकरस्त्वाह—आश्रयाश्रितधर्मनिर्देशमात्रमेतत्, अवयव्यवयवेषु प्रवर्त्तत इति, आश्रितभावलक्षणा हि समवायरूपा प्राप्तिरुच्यत इति तत्राह—“समवायात्मिके”त्यादि ।
समवायात्मिका वृत्तिस्तस्य तेष्विति चेन्ननु ।
तस्यामपि विचारोऽयं कोपेनैव प्रधावति ॥ ६१२ ॥
तस्यामप्येवंरूपायां वृत्तावयमनन्तरोदितः—किमेकावयवसमवेतेनैव स्वभावेनावयवान्तरेषु वर्त्तते, अथान्येनेति विचारः कुमतिरचितदोषजालमसहमानकोपादिवाभिधावति ॥ ६१२ ॥
एवं तावत्कृत्स्नैकदेशविकल्पमकृत्वा वृत्तिरपास्ता । सम्प्रत्युपादाय प्रज्ञप्तिविहितेन प्रकारेण वृत्तिनिषेधमाह—“यद्वे”त्यादि ।
यद्वा सर्वात्मना वृत्तावनेकत्वं प्रसज्यते ।
एकदेशेन चानिष्टा नैको वा न क्वचिच्च सः ॥ ६१३ ॥
कदाचित्तद्द्रव्यं प्रत्येकमवयवेषु सर्वात्मना वर्त्तते, एकदेशेन वा । यदि सर्वात्मना तदा यावन्तोऽवयवास्तावन्तस्तस्यात्मानः प्राप्नुवन्ति, नहि प्रत्यवयवं तस्य स्वभावाभेदेऽसति सर्वात्मना वृत्तिरस्ति । असंविद्यमानेनात्मना वृत्त्यसम्भवात् । ततश्च सर्वात्मना वृत्तेर्युगपदनेककुण्डादिव्यवस्थितकुवलयादिवदनेकत्वमवयविनः प्राप्नोति । अथैकदेशेनेति पक्षस्तदाऽनवस्था स्यादेकदेशानाम् । तथाहि यैरेकदेशैस्तद्द्रव्यमवयवेषु वर्त्तते तेऽपि तस्यैकदेशा इति, तेष्वप्यनेन वर्त्तितव्यम्, तथैवापरेष्वित्यनिष्ठा । अथापि स्याद्यैरसावेकदेशैरवयवेषु वर्त्तते । ते तस्य स्वात्मभूता एव नार्थान्तरभूतास्तद्व्यतिरेकेण चापरेषामेकदेशानामभावादतो नानिष्ठा भविष्यतीत्याशङ्क्याह—“नैको” वेति । एवं हि सत्येकोऽवयवी न स्यादवयवप्रचयमात्ररूपत्वात्तस्य । तथाच सतिदृष्टपाण्यादिसमुदायमात्रात्मक एवास्तां वस्तु, किमपरैस्तस्य स्वात्मभूतैरवयवैः परिकल्पितैः । दोषान्तरमप्याह—“न क्वचिच्च स” इति । वृत्तः स्यादिति शेषः । एतदुक्तं भवति । यद्येकदेशाः प्रत्येकावयविनः स्युस्तदाऽवयवे ह्यवयवी वृत्तः स्यात् । यावता नैकदेशाः प्रत्येकमवयविनः, तेषामेकदेशत्वहानिप्रसङ्गात् । नचापरोऽवयवी स्वरूपेणास्ति । तत्कथमवयवेष्वसौ वृत्तो नाम ॥ ६१३ ॥
“स्वातन्त्र्येणे”त्यादिना शङ्करस्वामिनः परिहारमाशङ्कते—
स्वातन्त्र्येण प्रसङ्गेन साधनं यत्प्रवर्त्तते ।
स्वयं तदुपलब्धौ हि सत्यं सङ्गच्छते न तु ॥ ६१४ ॥
नच कार्त्स्न्यैकदेशाभ्यां वृत्तिः क्वचन लक्षिता ।
यस्या असम्भवाद्द्रव्यमसत्स्यादपरोऽपि च ॥ ६१५ ॥
दृष्टौ वा क्वचिदेतस्या द्रव्यादावनिवारणम् ।
अथ तस्मिन्नदृष्टौ तु भेदे प्रश्नो न युज्यते ॥ ६१६ ॥
एतावत्तु भवेद्वाच्यं वृत्तिर्नास्तीति तच्च न ।
युक्तं प्रत्यक्षतः सिद्धेरिहेदमिति बुद्धितः ॥ ६१७ ॥
प्रत्यक्षं न तदिष्टं चेद्बाधकं किञ्चिदुच्यताम् ।
रूपादिचेतसोऽपि स्यान्नैव प्रत्यक्षताऽन्यथा ॥ ६१८ ॥
स ह्याह—स्वातन्त्र्येण प्रसङ्गमुखेन वा यत्साधनं क्रियते तत्स्वयमुपलब्धौ सत्यां सङ्गच्छते, अन्यथा ह्यसिद्धता दोषः स्यात्, नच भवता क्वचिदप्येकस्यानेकस्मिन्कार्त्स्न्यैकदेशाभ्यां वृत्तिरुपलब्धा, यस्या वृत्तेरसम्भवादवयविद्रव्यमसत्स्यात् । सति सम्भवेऽपरोऽपि वा भवेदवयवोऽवयवी चेति । अथ क्वचिदेवम्भूता वृत्तिरुपलक्षिता भवेत्तदा तद्वदेव द्रव्यादावपि सा भविष्यतीत्यप्रतिषेधः । अथ न दृष्टा सा वृत्तिस्तदा किमेकदेशेनाहोस्वित्सर्वात्मनेत्येवं भेदप्रश्नो न युज्यते, सिद्धे हि धर्मिणि विशेषप्रतिषेधो युक्तः । यदा तु धर्म्येवासिद्धस्तदा तस्यैव प्रतिषेधो ज्यायान्, तेनैतावदेव वक्तव्यं वृत्तिरेव नास्तीति, नतु विशेषप्रतिषेधः, तच्च न युक्तं प्रत्यक्षत एवावयवेष्वयवयविनो वृत्तिसिद्धेः । किम्भूतात्प्रत्यक्षादित्याह—“इहेदमिति बुद्धित” इति । इह तन्तुष्विदं वस्त्रादीत्येवम्भूतात्प्रत्यक्षादित्यर्थः । अथापि स्यात्—प्रत्यक्षत्वमस्या बुद्धेरसिद्धमिति । यद्येवं किञ्चिदत्र बाधकं प्रमाणं वक्तव्यम् । यतोऽप्रत्यक्षता स्यात् । अथासत्यपि बाधके प्रमाणे प्रत्यक्षत्वमस्या न भवेदेवं तर्हि रूपादिविज्ञानस्यापि भवदीयस्य प्रत्यक्षत्वं न भवेद्विशेषाभावात् ॥ ६१४ ॥ ६१५ ॥ ६१६ ॥ ॥ ६१७ ॥ ६१८ ॥
“तदत्रे”त्यादिना प्रतिविधत्ते ।
तदत्र वृत्तिर्नास्तीति प्रागभेदेन साधितम् ।
इहेत्यस्ति नच ज्ञानं तद्रूपाप्रतिभासनात् ॥ ६१९ ॥
तद्ध्येकवृत्तिभाजैवेत्यादिना प्राक् सामान्येनैवानेकस्मिन्नेकस्य वृत्तिरपास्ता । यच्चेदमुच्यते प्रत्यक्षत एव वृत्तिः सिद्धा “इहेदमिति बुद्धित” इति, तदप्यलौकिकम् । नहीह शृङ्गे गौरिह तन्तुषु पट इत्येव लोके विकल्पिकाऽपि धीः प्रवर्त्तते । किं तर्हि ? इह गवि शृङ्गं पटे तन्तव इति । नाप्यध्यक्षचेतसि तन्त्वादिसमवेतं तद्व्यतिरेकि वस्त्रादिरूपमाभासते । नच विवेकेनाप्रतिभासिते सतीदमिह वर्त्तत इति धीर्भवेत् । नहि कुण्डादौ विवेकिनामप्रतिभासमाने पयसि भवति सलिलमिहेति प्रत्ययः ॥ ६१९ ॥
यच्चोक्तं “नच कार्त्स्न्यैकदेशाभ्यां वृत्तिः क्वचन लक्षिते”ति तत्राह—“कृत्स्नैकदेशशब्दाभ्या”मित्यादि ।
कृत्स्नैकदेशशब्दाभ्यामयं चार्थः प्रकाश्यते ।
नैरंश्येनास्य किं वृत्तिः किं वा तस्यान्यथैव सा ॥ ६२० ॥
यथा पात्रादिसंस्थस्य श्रीफलादेर्यथाऽथवा ।
अनेकासनसंस्थस्य चैत्रादेरुपलक्षिता ॥ ६२१ ॥
कृत्स्नशब्देन हि यादृशं स्वरूपमनंशं किं तथैव नैरंश्येन सर्वावयवेषु तस्य वृत्तिर्यथा क्वचिद्भाजनावस्थितस्य श्रीफलादेरुपलक्षितेत्ययमर्थः प्रकाश्यते, आहोस्विदन्यथा यथाऽनेकपीठाधिशयितस्य चैत्रादेरुपलक्षितेत्ययमेकदेशशब्देन प्रकाश्यतइति । यत्किञ्चिदेतत् । यदप्युद्योतकारेणोक्तम्—एकस्मिन्नवयविनि कृत्स्नैकदेशशब्दप्रवृत्त्यसम्भवादयुक्तोऽयं प्रश्नः किमेकदेशेन वर्त्तेताथ कृत्स्नो वर्त्तत इति । कृत्स्नमिति खल्वशेषाभिधानम्, एकदेश इति चानेकत्वे सति कस्यचिदभिधानम्, ताविमौ कृत्स्नैकदेशशब्दावेकस्मिन्नवयविन्यनुपपन्नाविति तदप्यनेनैव प्रत्युक्तम् । तथाच लोके कृत्स्नः पदः कुण्डे वर्त्तते एकदेशेन वेत्येवं पदादिषु कृत्स्नैकदेशशब्दप्रवृत्तिर्दृश्यत एव । नचेयमुपचरितेति युक्तम्, अस्खलद्गतित्वादिति प्रागभिहितमेतत् ॥ ६२० ॥ ॥ ६२१ ॥
एवं वायुपर्यन्तं चतुर्विधं द्रव्यमपास्तम् । आत्माख्यं तु प्रागेवात्मपरीक्षायां निरस्तम् । इदानीमाकाशकालदिङ्मनसां प्रतिषेधार्थमाह—“समाश्रिता” इत्यादि ।
समाश्रिताः क्वचिच्छब्दा विनाशित्वादिहेतुतः ।
घटदीपादिवत्तच्च किल व्योम भविष्यति ॥ ६२२ ॥
तत्राकाशाख्यं तावद्द्रव्यं परेण साध्यते—अस्त्याकाशाख्यं द्रव्यं नित्यमेकं भुवि शब्दलिङ्गं, शब्दोऽस्य गुणत्वाल्लिङ्गम् । प्रयोगः—ये ये विनाशित्वोत्पत्तिमत्त्वादिधर्मोपेतास्ते क्वचिदाश्रिताः, यथा घटदीपादयः, तथाचामी शब्दाः, तस्मात्क्वचिदाश्रितैरेभिर्भवितव्यम्, योऽसावाश्रयोऽमीषां स सामर्थ्याद्व्योम—आकाशं भविष्यति । तथा ह्ययंशब्दो न पृथिव्यादीनां चतुर्णां गुणो युक्तः, प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वात्, अयावद्द्रव्यभावित्वात्, आश्रयादन्यत्रोपलब्धेश्च । यथोक्तधर्मविपरीता हि स्पर्शवतां गुणा दृष्टाः । प्रत्यक्षत्वे सतीति विशेषणं पाकजैः परमाणुगतैरनेकान्तत्वपरिहारार्थम् । बाह्येन्द्रियप्रत्यक्षत्वादात्मान्तरग्राह्यत्वादहङ्कारेण विभक्तग्रहणाच्च नात्मनो गुणः । आत्मगुणानां हि सुखादीनामेतद्वैपरीत्यदर्शनात् । श्रोत्रग्राह्यत्वाच्च न दिक्कालमनसाम् । अतः पारिशेष्याद्गुणो भूत्वाऽऽकाशस्य लिङ्गम् । तच्चाकाशं शब्दलिङ्गाविशेषाद्विशेषलिङ्गाभावादेकं सर्वत्रोपलभ्यमानगुणत्वात्—विभुगुणवत्त्वात् ।अनाश्रितत्वाच्च द्रव्यम् । अकृतकत्वान्नित्यमित्येषा प्रक्रिया परेषाम् ॥ ६२२ ॥
“आदि”त्यादीत्यादिना कालसाधनमाह—
आदित्यादिक्रियाद्रव्यव्यतिरेकनिबन्धनम् ।
परापरादिविज्ञानं घटादिप्रत्ययो यथा ॥ ६२३ ॥
वलीपलितकार्कश्यगत्यादिप्रत्ययादिदम् ।
यतो विलक्षणं हेतुः स च कालः किलेष्यते ॥ ६२४ ॥
द्रव्यशब्देन वलीपलितादयो ग्रहीतव्याः । परः पिता, अपरः पुत्रः, युगपत्, चिरं, क्षिप्रं, क्रियते, कृतं, करिष्यते चेति यदेतत्परापरादिज्ञानं तदादित्यादिक्रियाद्रव्यव्यतिरिक्तपदार्थनिबन्धनम्, वलीपलितादिप्रत्ययविलक्षणत्वात्, घटादिप्रत्ययवत् । यो हेतुरस्य स सामर्थ्यात्कालः । तथाहि—न तावद्देशकृतोऽयं परापरादिप्रत्ययः । परदिग्भागावस्थितेऽपि स्थविरे पर इति ज्ञानोत्पत्तेः । तथाऽपरदिग्भागावस्थायिन्यपि पुत्रेऽपर इति । नापि वलीपलितादिकृतः, तत्प्रत्ययविलक्षणत्वात् ।नापि क्रियाकृतः, तज्ज्ञानविलक्षणत्वादेव । तथाच सूत्रम्—अपरं परं युगपदयुगपच्चिरं क्षिप्रमिति काललिङ्गानीति । नित्यत्वैकत्वादयो धर्मा आकाशवदेवास्य बोद्धव्याः ॥ ६२३ ॥ ६२४ ॥
दिक्प्रसाधनार्थमाह—“पूर्वापरादिबुद्धिभ्य” इति ।
पूर्वापरादिबुद्धिभ्यो दिगेवमनुमीयते ।
क्रमेण ज्ञानजात्या च मनसोऽनुमितिर्मता ॥ ६२५ ॥
चक्षुरादिविभिन्नं च कारणं समपेक्षते ।
क्रमेण जाता रूपादिप्रतिपत्ती रथादिवत् ॥ ६२६ ॥
मूर्त्तं द्रव्यमवधिं कृत्वा मूर्त्तेष्वेव द्रव्येषु तस्मादिदं पूर्वेण, दक्षिणेन, पश्चिमेन उत्तरेण, पूर्वदक्षिणेन, दक्षिणापरेण, अपरोत्तरेण, उत्तरपूर्वेण, अधस्तादुपरिष्टादिति दश प्रत्यया अमी यतो भवन्ति सा दिगिति । तथाच सूत्रं—इत इदमिति यतस्तद्दिशो लिङ्गमिति । यत एते विशेषप्रत्ययाः, नच विशेषप्रत्यया आकस्मिका युक्ताः, नच परस्परं मूर्त्तद्रव्यव्यपेक्षा, इतरेतराश्रयत्वेनोभयाभावप्रसङ्गात्, तस्मादन्यनिमित्तासम्भवाद्दिश एतानि लिङ्गानि तस्याश्च दिशः कालवदेकत्वविभुत्वादयो गुणा बोद्धव्याः । एकत्वेऽपि दिशः कार्यविशेषात्प्राच्यादिभेदेन नानात्वम् । प्रयोगः—यदेतत्पूर्वापरादिज्ञानं तन्मूर्त्तद्रव्य(भिन्न ?)पदार्थनिबन्धनम्, तत्प्रत्ययविलक्षणत्वात्सुखादिज्ञानवदिति । मनसो लिङ्गमाह—“क्रमेणे”त्यादि । युगपदनेकेन्द्रियार्थसन्निकर्षसान्निध्येऽपि क्रमेण ज्ञानोत्पत्तिदर्शनादस्तीन्द्रियार्थव्यतिरिक्तं कारणान्तरं यस्य सन्निधानासन्निधानाभ्यां ज्ञानस्योत्पत्त्यनुत्पत्ती भवत इति । तस्मात्क्रमेण ज्ञानजात्या— ज्ञानोत्पत्त्या, मनसोऽनुमितिः क्रियते । तथाच सूत्रम्—युगपज्ज्ञानानुत्पत्तिर्मनसोलिङ्गमिति । प्रयोगः—येयं रूपादिप्रतिपत्तिः सा चक्षुरादिव्यतिरिक्तकारणापेक्षिणी, क्रमेण जायमानत्वात्, रथादिवदिति ॥ ६२५ ॥ ६२६ ॥
“उपात्तादी”त्यादिना प्रतिविधत्ते ।
उपात्तादिमहाभूतहेतुत्वाङ्गीकृतेर्ध्वनेः ।
सिद्धा एवाश्रिताः शब्दास्तेष्वित्याद्यमसाधनम् ॥ ६२७ ॥
यदि सामान्येनाश्रितत्वमात्रमेषां साध्यते शब्दानां तदा सिद्धसाध्यता हेतोः । तथाहि—शब्दा उपात्तानुपात्तमहाभूतहेतुका इष्यन्ते । तेषु च भूतेषु तत्कार्यतया समाश्रिता एव । तत्प्रतिबद्धात्मलाभतया कार्याणां कारणाश्रितत्वात् । उपात्तानि—चित्तचैत्तैः स्वीकृतानि । आदिशब्देनानुपात्तमहाभूतहेतुकत्वपरिग्रहः । “तेष्वि”ति । उपात्तादिमहाभूतेषु । “इती”ति । तस्मादित्यर्थः । “आद्य”मिति । “समाश्रिताःक्वचिच्छब्दा” इत्यादिना यदुक्तं तदसाधनं सिद्धसाध्यतादोषादिति भावः ॥ ६२७ ॥
अथामूर्त्तनित्यैकविभुद्रव्यसमवेतत्वेनामीषामाश्रितत्वं विशिष्टमेव साधयितुमिष्टं तदा साध्यान्वितस्य दृष्टान्तस्याभावादनैकान्तिकता हेतोरित्येतद्दर्शयति—“एके”त्यादि ।
एकव्यापिध्रुवव्योमसमवायस्तु सिद्ध्यति ।
नैषामन्वयवैकल्यादक्रमाद्याप्तितस्तथा ॥ ६२८ ॥
“नैषा”मिति । सिध्यतीति पूर्वेण सम्बन्धः । प्रतिज्ञायाश्चानुमानविरोधित्वमिति दर्शयति—“अक्रमाद्याप्तितस्तथे”ति । यथोक्तं नभःसमवायित्वमेषां न सिद्ध्यतीति सम्बन्धः । यदि हि नित्यैकनभोद्रव्यसमवेता अमी स्युः, तदा सकृदुत्पन्नानेकशब्दवदतत्काला अपि शब्दा अभिमत एव काले स्युः, अविकलकारणत्वात्, एकाश्रयत्वाच्च । नच नित्यस्य परापेक्षास्तीति प्रतिपादितमेतत् । नचाप्यनुपकारिणः समवायित्वं युक्तमतिप्रसङ्गात् । तदेवमक्रमत्वप्रसङ्गः । आदिशब्देन सर्वपुरुषैर्ग्रहणादिदोषप्रसङ्गश्च । तथाह्याकाशात्मकमेव श्रोत्रं नभश्चैकमेव, ततश्च तत्प्राप्तानां सर्वेषामपि शब्दानां श्रवणं भवेत्, नहि निर्विभागत्वेन तस्यायं प्रतिनियमो युक्तः, इदमात्मीयं श्रोत्रमिदं परकीयमिति । स्यान्मतम्—तदीयादृष्टाभिसंस्कृता या कर्णशष्कुली तत्परिच्छिन्नस्यैवाकाशस्य श्रोत्रत्वमत एव न मुखनासिकादिविवरान्तरेण शब्दोपलम्भो जायते, तस्या एव च कर्णशष्कुल्या उपघाताद्बाधिर्यादिर्व्यवस्थाप्यत इति । एतदयुक्तमेव, निरंशतयाऽऽकाशस्यैवंविधविभागस्यायोगात् । नच परिकल्पिता अवयवविभागा भाविकवस्तुविभागसंसाध्यामर्थक्रियामारोपवशात्सम्पादयितुमीशते । नहि जलमनल इत्युपचर्यमाणं ज्वलति दहति वा । अथ मतमाकाशस्य(स्यैक ?) देश इतिसंयोगस्याऽव्याप्यवृत्तित्वमु(त्वादु ?)च्यत इति । एतदपि प्रत्युक्तमेव । किञ्च—घटकर्णशष्कुल्यादयोऽप्यभिन्नैकव्योमसंसर्गितया समानदेशा भवेयुः । येनैव हि व्योमस्वभावेनैकः संयुज्यते तेनैवापरेऽपीति, ततश्चाभिमतदेशभाविन एवापरेऽपि घटादयः स्युः, तत्संयुक्तस्वभावाकाशसंयोगित्वात्, तद्देशावस्थितघटादिवत् । अतएव शब्दानामप्येकदेशत्वं भवेत्, ततश्च दूरासन्नतरदेशभेदावस्थाऽतिप्रतीता येयं पदार्थानां केषाञ्चित्सा विरोधिनी त्यादित्येवमादयो दोषा बहवः प्रसर्पन्ति ॥ ६२८ ॥
कालदिक्साधनयोरपि सामान्येन सिद्धसाध्यता विशेषेणान्वयासिद्धिर्हेतोः प्रतिज्ञायाश्चानुमानबाधेति दर्शयति—“विशिष्टे”त्यादि ।
विशिष्टसमयोद्भूतमनस्कारनिबन्धनम् ।
परापरादिविज्ञानं न कालान्न दिशश्च तत् ॥ ६२९ ॥
निरंशैकस्वभावत्वात्पौर्वापर्याद्यसम्भवः ।
तयोः सम्बन्धिभेदाच्चेदेवं तौ निष्फलौ ननु ॥ ६३० ॥
विशिष्टसमयः—पौर्वापर्यादिनोत्पन्नेष्वेवार्थेषु पूर्वापरादिसङ्केतः, तदुद्भूतो मन स्कारः—आभोगः स निबन्धनमस्येति तथोक्तम् । अतएव नेतरेतराश्रयदोषः, विशिष्टपदार्थसङ्केतनिबन्धनत्वादस्य ज्ञानस्येति । अतः कारणमात्रे साध्ये सिद्धसाध्यता, विशेषेण साधनेऽनुमानबाधा, अनन्वयदोषश्च पूर्ववदिति सूचयन् हेतोश्चेष्टविपरीतसाधनाद्विरुद्धतेति दर्शयति—“निरंशे”त्यादि । “तयो”रिति । दिक्कालयोः । परापरादिज्ञानस्य निरंशैकदिक्कालाख्यपदार्थनिबन्धनत्वं साधयितुमिष्टं, तच्च न सिध्यति । तथाहि—स्वाकारानुरूपं प्रत्ययमुत्पादयन् विषयो भवति । नच निरंशस्य पौर्वापर्यादिविभागः सम्भवति, येन तत्कृतं पौर्वापर्यादिज्ञानं भवेत् । अत इष्टविपरीतसाधनाद्विरुद्धो हेतुः । “सम्बन्धिभेदाच्चे”दित्यनेन परस्योत्तरमाशङ्कते । अथ मतम्—दिक्कालसम्बन्धिनो भावा बाह्याध्यात्मिकाः प्रदीपशरीरादयः, तेषां पौर्वापर्यादि विद्यते, ततस्तयोरपि दिक्कालयोः सम्बन्धिगतमेतत्पौर्वापर्यादि निर्दिश्यते, तस्मान्न विरुद्धता हेतोरिति भावः । अत्रोत्तरमाह—“एवं तौ निष्फलौ नन्वि”ति । एवं हि कल्प्यमाने तौ दिक्कालौ निष्फलौ स्याताम् । तत्साध्याभिमतस्य कार्यस्य तैरेव सम्बन्धिभिर्निष्पादितत्वात् । तथाहि—कालः पूर्वापरक्षणलवनिमेषकाष्ठाकलामुहूर्त्ताहोरात्राऽर्द्धमासादिप्रत्ययप्रसवहेतुः । दिक पूर्वोत्तरादिव्यवस्थाहेतुरिष्यते । अयं च भेदः सकलस्तयोर्न स्वात्मनि विद्यते । भेदेषु पुनरस्तीति व्यर्थैव तत्परिकल्पना ॥ ६२९ ॥ ॥ ६३० ॥
मनःसाधनहेतोरपि सामान्येन कारणमात्रे साध्ये सिद्धसाध्यतेति दर्शयति—“चक्षुरादी”त्यादि ।
चक्षुराद्यतिरिक्तं तु मनोऽस्माभिरपीष्यते ।
षण्णामनन्तरोद्भूतप्रत्ययो यो हि तन्मनः ॥ ६३१ ॥
नित्ये तु मनसि प्राप्ताः प्रत्यया यौगपद्यतः ।
तेन हेतुरिह प्रोक्तो भवतीष्टविघातकृत् ॥ ६३२ ॥
विशेषेण तु नित्यैकमनस्साधनेऽनन्वयः प्रतिज्ञाया अनुमानबाधा विरुद्धता च हेतोर्दर्शयति—“नित्ये त्वि”त्यादि । “इष्टविघातकृ”दिति । चक्षुरादिव्यतिरिक्तानित्यकारणसापेक्षत्वसाधनात्, अन्यथा नित्यकारणत्वे सत्यविकलकारणत्वात्क्रमोत्पत्तिर्विरुध्येत चेतसाम् ॥ ६३१ ॥ ६३२ ॥
तामेव च विरुद्धतां हेतोरुपहासपूर्वकं दृढीकुर्वन्नाह—“सौगते”त्यादि ।
सौगतापरनिर्दिष्टमनःसंसिद्ध्यसिद्धये ।
साकारमन्यथाऽऽवृत्तं मन्ये सूत्रमिदं कृतम् ॥ ६३३ ॥
इति द्रव्यपदार्थपरीक्षा ।
एतदेवं मन्ये सौगततीर्थिकयोरभीष्टस्य मनसः सिद्ध्यसिद्ध्यर्थमिदं युगपत् ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति सूत्रम् । एकस्मिन्पक्षेऽकारप्रश्लेषादिति समुदायार्थः । अवयवार्थस्तूच्यते । सौगताश्चापरे च तीर्थिकास्तैर्निर्दिष्टे च ते मनसी चेति विग्रहः । तयोर्यथाक्रमं संसिद्ध्यसिद्धी संसिद्धिसहिता वाऽसिद्धिः, तदर्थं तन्निमित्तम् । कथं पुनरेकं सूत्रं विरुद्धमर्थद्वयं गमयतीत्याह—“साकार”मित्यादि । सहाकारेण वर्त्तत इति ।परकीयमनोऽसिद्ध्यर्थमलिङ्गमिति प्रश्लिष्टाकारो निर्देशः । सौगतमनस्सिद्धयेऽन्यथा भवति—अनकारमित्यर्थः । साकारत्वानकारत्वे कथमेकस्य सिद्ध्यत इत्याह—“आवृत्त”मिति । आवृत्तिस्तत्र न्याय्येति यावत् ॥ ६३३ ॥
इति द्रव्यपदार्थपरीक्षा ।