०९ कर्मफलसम्बन्ध-परीक्षा

इदानीं कर्मतत्फलसम्बन्धव्यवस्थादिसमाश्रयमित्येतत्समर्थनार्थं चोद्योपक्रमपूर्वकमाह—“क्षणिके”त्यादि ।

क्षणिकानित्यतालीढं सर्वं चेद्वस्तु तत्कथम् ।
कर्मतत्फलसम्बन्धकार्यकारणतादयः ॥ ४७६ ॥

क्षणिकानित्यताग्रहणं कालान्तरस्थाय्यनित्यताव्यवच्छेदार्थम् । क्षणिकानां सतामनित्यता क्षणिकानित्यता तया लीढम्—समाक्रान्तं यदि सर्वमेव वस्तुजातं प्रतिज्ञायते भवद्भिस्तदा येऽमी कर्मफलसम्बन्धादयो लोकशास्त्रयोः प्रतीतास्ते कथं सिद्ध्येयुः । आदिग्रहणद्धेतुफलाधिगन्तृ प्रमाणम्, अनुभवे प्रत्यभिज्ञानम्, अन्यस्मिन्नर्थे दृष्टेऽर्थान्तरेऽभिलाषः, बन्धमोक्षौ, स्मरणम्, संशयपूर्वको निर्णयः, स्वयं निहितप्रत्यनुमार्गणम्, दृष्टार्थकुतूहलविरमणमित्येवम्प्रकाराः कुमतिपरिकल्पिताश्चोद्यरश्रयो गृह्यन्ते । न हि लोकशास्त्रप्रतीतार्थविरोधेन प्रतिज्ञायमानोऽर्थः सिद्धिमासादयतीत्यभ्युपेतप्रतीतबाधा दोषः प्रतिज्ञाया इति भावः । तथाहि येनैव कृतं कर्म सुभादिकं तेनैव तत्फलमुपभुज्यत इति लोके प्रतीतम् । न हि देवदत्तेन कृते कर्मणि शुभादिके यज्ञदत्तस्तत्फलमिष्टमनिष्टं चोपभुङ्क्त इति प्रसिद्धम् । नापि शास्त्रे, यथोक्तम्— अनेनैव कृतं कर्म कोऽन्यः प्रत्यनुभविष्यति इति । तच्चैतत्क्षणिकपक्षे विरुध्यते । कर्मफलपरिग्राहकस्यैकस्य कर्तुरभावेन कृतनाशाकृताभ्यागमदोषप्रसङ्गात् ॥ ४७६ ॥

कथमित्याह—“य” इत्यादि ।

यः क्षणः कुशलादीनां कर्तृत्वेनावकल्प्यते ।
फलप्रसवकाले तु नैवासावनुवर्त्तते ॥ ४७७ ॥

यः फलस्य प्रसूतौ च भोक्ता संवर्ण्यते क्षणः ।
तेन नैव कृतं कर्म तस्य पूर्वमसम्भवात् ॥ ४७८ ॥

कर्मतत्फलयोरेवमेककर्त्रपरिग्रहात् ।
कृतनाशाकृतप्राप्तिरासक्ताऽतिविरोधिनी ॥ ४७९ ॥

“नैवासावनुवर्त्तत” इति । तस्योत्पादानन्तरमेव निरुद्धत्वात् । “एककर्त्रपरिग्रहा-” दिति । एकेन कर्त्रा तयोः कर्मफलयोरपरिगृहीतत्वादित्यर्थः । कर्तुः फलेनानभिसम्बन्धात्कृतनाशः, अकर्तुश्च फलेन योगादकृताभ्यागमः । “अतिविरोधिनी”ति । लोकशास्त्रयोरेवमदर्शनादिति भावः ॥ ४७७ ॥ ४७८ ॥ ४७९ ॥

एवं तावत्प्रवृत्तिमभ्युपगम्य कृतनाशाकृताभ्यागमप्रसङ्ग उक्तः । इदानीं प्रवृत्तिरेव न सम्भवतीति कुमारिलमतोपन्यासेन दर्शयति—“नैरात्म्ये”त्यादि ।

नैरात्म्यवादपक्षे तु पूर्वमेवावबुध्यते ।
मद्विनाशात्फलं न स्यान्मत्तोन्यस्यापि वा भवेत् ॥ ४८० ॥

इति नैव प्रवर्त्तेत प्रेक्षावान्फललिप्सया ।
शुभाशुभक्रियारम्भे दूरतस्तु फलं स्थितम् ॥ ४८१ ॥

क्षणिकत्वाभ्युपगमे हि सर्वभावानां नैरात्म्यमेवाभ्युपगतं भवेत् । हेतुपरतन्त्रतया सर्वस्यास्वतन्त्रत्वात् । तस्मिन्सति प्रेक्षावान् क्रियाप्रवृत्तेः पूर्वमेवावबुध्यते—अवधारयति । किं तदित्याह—“मद्विनाशा”दित्यादि । मम विनाशादूर्ध्वं फलं मम न स्यात्, फलप्रसवकाले ममाभावात् । अथापि फलं भवेत्, तदा मत्तोऽन्यस्य क्षणान्तरस्य स्यादिति ज्ञात्वा प्रवृत्तिरेव प्रेक्षावतो न सम्भवति, किं पुनः प्रवृत्तिपूर्वककर्मजनितं फलं भविष्यति । तस्य दूरत एवासम्भाव्यमानत्वेनावस्थितत्वात् ॥ ४८० ॥ ॥ ४८१ ॥

एवं कर्मफलसम्बन्धो नोपपद्यत इति प्रतिपादितम् । इदानीं कार्यकारणभावानुपपत्तिं कुमारिलमतेनैव प्रतिपादयन्नाह—“नाऽनागत” इत्यादि ।

नाऽनागतो न वाऽतीतो भावः कार्यक्रियाक्षमः ।
वर्त्तमानोऽपि तावन्तं कालं नैवावतिष्ठते ॥ ४८२ ॥

“तावन्त”मिति । उत्पद्य यावता कालेन कार्यं निवर्त्तयति तावन्तं कालं नावतिष्ठते क्षणिकत्वादिति भावः ॥ ४८२ ॥

नाऽनागत इत्यादेर्यथाक्रमं समर्थनमाह—“न ह्यलब्धात्मकमि”त्यादि

न ह्यलब्धात्मकं वस्तु पराङ्गत्वाय कल्पते ।
न विनष्टं नच स्थानं तस्य कार्यकृतिक्षमम् ॥ ४८३ ॥

पूर्वक्षणविनाशे च कल्प्यमाने निरन्वये ।
पश्चात्तस्यानिमित्तत्वादुत्पत्तिर्नोपपद्यते ॥ ४८४ ॥

अनागतं हि नामोच्यते यदलब्धात्मतत्वम्, यच्चालब्धात्मतत्त्वं तदसत्, यच्चासत्तदशेषसामर्थ्यशून्यम्, यच्चाशेषसामर्थ्यरहितं तत्कथं पराङ्गत्वाय कल्पते—परं प्रति हेतुभावं प्रतिपद्यत इत्यर्थः । समर्थस्यैव हेतुभावसम्प्रतिपत्तेः । एवं विनष्टमपिसर्वसामर्थ्यशून्यत्वान्न पराङ्गत्वाय कल्पत इति सम्बन्धः । न चापि वर्त्तमानस्य स्थानमस्ति, यत्कार्यकृतौ—कार्यकरणे क्षमं भवेत् । किञ्च—यदि पूर्वकक्षणो निरन्वयं विनश्यतीति कल्प्यते तदा पाश्चात्त्यस्य क्षणस्य निमित्ताभावादुत्पत्तिर्न प्राप्नोति ॥ ४८३ ॥ ४८४ ॥

स्यादेतद्यथा तुलान्तयोर्नामोन्नामौ समं भवतस्तद्वद्धेतुफलयोर्नाशोत्पादाविष्टावतोवर्त्तमानादविनष्टादेव कार्योत्पत्तेरिष्टत्वान्नानिमित्ता तस्योत्पत्तिर्भविष्यतीत्याह—“नाशोत्पादसमत्वेऽपी”त्यादि ।

नाशोत्पादसमत्वेऽपि नैवापेक्षा परस्परम् ।
न कार्यकारणत्वे स्तस्तद्व्यापाराननुग्रहात् ॥ ४८५ ॥

नाशोत्पादयोः समत्वेऽपि कल्प्यमाने न नाशोत्पादयोस्तद्वतोर्वा कार्यकारणत्वे स्तः —सम्भवतः, तयोः परस्परानपेक्षत्वात् । कथमनपेक्षत्वमित्याह—“तद्व्यापाराननुग्रहा”दिति । तस्य—नाशस्य तद्वतो वा व्यापारेण कार्यस्याननुग्रहात्—अननुगृहीतत्वादित्यर्थः । नाशस्य हि नीरूपत्वाद्व्यापाराभावः, हेत्वभिमतस्यापि वस्तुनः कार्यसत्ताकाले सन्निधानाभावाद्व्यापाराभावः ॥ ४८५ ॥

स्यादेतदन्तरेणापि व्यापारमानन्तर्यमात्रेण हेतुफलभावो भविष्यतीत्याह—“जायमानश्चे”त्यादि ।

जायमानश्च गन्धादिर्घटरूपे विनश्यति ।
तत्कार्यं नेष्यते यद्वत्तथा रूपान्तराण्यपि ॥ ४८६ ॥

यदि यदनन्तरं यज्जायते तत्तस्य कार्यमिति स्यात्तदा घटादिसन्निवेशिनो रूप क्षणस्यानन्तरं समानजातीयरूपक्षणवत्तत्कलापान्तर्गत एव गन्धादिर्जायत इति सोऽपि तत्कार्यं स्यात् । न चासौ सत्यप्यानन्तर्ये तत्कार्यमिष्यते । न हि भौतिकानामन्योन्यं हेतुफलभावोऽस्ति, यथा भूतानाम्, भिन्नसन्तानत्वादिति परो मन्यते तथा रूपान्तराण्यपीति, समानजातीयरूपक्षणान्तराणि नैव रूपस्यानन्तर्यमात्रेण तत्कार्यतया गृहीतव्यानि, मा भूदतिप्रसङ्ग इति भावः ॥ ४८६ ॥

तदेवमानन्तर्यमात्रं कारणभावव्यवस्थानिबन्धनं न युक्तमिति प्रतिपाद्य स्वपक्षमुपसंहारेण दर्शयति—“तस्मादि”त्यादि ।

तस्मात्प्राक्कार्यनिष्पत्तेर्व्यापारो यस्य दृश्यते ।
तदेव कारणं तस्य न त्वानन्तर्यमात्रकम् ॥ ४८७ ॥

“न त्वानन्तर्यमात्रक”मिति । कार्यकारणव्यवस्थानिबन्धनमिति शेषः ॥ ४८७ ॥

यथोक्तमेवार्थं सङ्क्षिप्य दर्शयन्नाह—“सङ्क्षेपोऽय”मित्यादि ।

सङ्क्षेपोऽयं विनष्टाच्चेत्कारणात्कार्यसम्भवः ।
प्रध्वस्तस्यानुपाख्यत्वान्निष्कारणमिदं भवेत् ॥ ४८८ ॥

अविनष्टाच्च तज्जातावनेकक्षणसम्भवात् ।
क्षणिकत्वं न भावानां व्याहन्येत तदा कथम् ॥ ४८९ ॥

अत्र द्वयी कल्पना । विनष्टाद्वा कारणात्कार्यं भवेदविनष्टाद्वा । नष्टानष्टविनिर्मुक्तस्य वस्तुनोऽभावात् । तत्र न तावदाद्यः पक्षः, नष्टस्यासत्त्वेन तत उत्पादाभ्युपगमे कार्यस्य निर्हेतुकत्वप्रसङ्गात् । ततश्च नित्यं सत्त्वादिर्युज्यते । नापि द्वितीयोऽनेकक्षणावस्थायित्वेन भावानां क्षणिकत्वहानिप्रसङ्गात् । “न कथं व्याहन्येते”ति । व्याहन्यत एवेत्यर्थः । तथा हि भावः प्रथमं तावदुत्पद्यते, ततो व्याप्रियते, ततः कार्यमुत्पाद्य पश्चाद्विनश्यतीत्येवमेकस्यैव वस्तुनोऽनेकस्मिन्क्षणे सन्निधानमिति क्षणिकत्वव्याहतिः स्यात् ॥ ४८८ ॥ ४८९ ॥

एवं कार्यकारणभावानुपपत्तिं प्रतिपाद्य तदधिगन्तृप्रमाणानुपपत्तिं दर्शयन्नाह—“क्षणस्थायी”त्यादि ।

क्षणस्थायी घटादिश्चेन्नोपलभ्येत चक्षुषा ।
न हि नष्टाः प्रतीयन्ते चिरातीतपदार्थवत् ॥ ४९० ॥

कार्यकारणभावोऽपि प्रत्यक्षानुपलम्भतः ।
ते पूर्त्ति(नैवैति?)सिद्धिं भावानां स्वभावानुपलम्भनात् ४९१

प्रत्यक्षानुपलम्भसाधनो हि कार्यकारणभावः क्षणिकत्वे च भावानां स्वज्ञानकालेऽनवस्थानादप्रत्यक्षतैव । समानकालं कार्यकारणभावानुपपत्तेः । ततश्च प्रत्यक्षानुपलम्भयोरभाव एव । अनन्यसंसृष्टवस्तूपलम्भात्मरूपत्वेनानुपलम्भस्यापि प्रत्यक्षविशेषात्मत्वात् । अतः पदार्थोपलम्भाभावे तस्याप्ययोग एवेति कथं प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावः स्यात् ॥ ४९० ॥ ४९१ ॥

भवतु नामोपलम्भो वस्तुनस्तथाऽपि पूर्वोत्तरयोः क्षणयोः प्रतिसन्धातुरेकस्य कस्यचिदभावात्सम्बन्धो न सिद्ध्यतीति दर्शयन्नाह—“को वे”त्यादि ।

को वा व्यवस्थितः कर्त्ता सन्धत्ते क्रमवद्गतिम् ।
अस्य दृष्टाविदं दृष्टं नास्यादृष्टौ तु लक्ष्यते ॥ ४९२ ॥

गतिरुपलब्धिः । क्रमवती चासौ गतिश्चेति क्रमवद्गतिः । तां कः प्रतिसन्धत्ते— घटयति । नैव कश्चित् । यदि हि कश्चिदस्याग्नेरुपलम्भादिदं धूमाद्युपलब्धमस्यानुपलब्धौ नोपलभ्यत इत्येवं क्रमवतीं गतिमेककर्तृत्वेन प्रतिसन्दधीत, तदा स्यात्कार्यकारणभावसिद्धिः, स च नास्ति प्रतिसन्धाता त्वन्मतेनेति न कार्यकारणभावःसिद्ध्येदित्यर्थः ॥ ४९२ ॥

इदानीं प्रत्यभिज्ञानानुपपत्तिं दर्शयन्नाह—“क्षणभङ्गिष्वि”त्यादि ।

क्षणभङ्गिषु भावेषु प्रत्यभिज्ञा च दुर्घटा ।
न ह्यन्यनरदृष्टोऽर्थः प्रत्यभिज्ञायते परैः ॥ ४९३ ॥

य एव मया पूर्व दृष्टोऽर्थः स एवायमेतर्हि दृश्यत इत्येवं पूर्वोत्तरयोर्दर्शनयोरेकविषयतया एकज्ञातृतया च यद्धटनं तत्प्रत्यभिज्ञानम् । तच्च सर्वभावानां क्षणभङ्गित्वे सति नोपपद्यते । ज्ञातुर्ज्ञायमानस्य कस्यचिदेकस्याभावात् । न हि देवदत्तेन दृष्टमर्थं विष्णुमित्रः प्रत्यभिजानीते । अन्यतरग्रहणमुपलक्षणम् । नाप्यन्योऽर्थः प्रत्यभिज्ञायत इत्यपि द्रष्टव्यम् ॥ ४९३ ॥

ननु लूनपुनर्जातकेशनखादिष्विव भेदेऽपि सादृश्यात्प्रत्यभिज्ञानं भविष्यतीत्येतदाशङ्क्याह—“सादृश्यादि”त्यादि ।

सादृश्यात्प्रत्यभिज्ञानं भिन्ने केशादिके भवेत् ।
ज्ञातुरेकस्य सद्भावाद्द्विभेदे त्वनिबन्धनम् ॥ ४९४ ॥

प्रतिसन्धानकारी च यद्येकोऽर्थो न विद्यते ।
रूपे दृष्टेऽभिलाषादिस्तत्कथं स्याद्रसादिषु ॥ ४९५ ॥

यदि ह्येको ज्ञाता भवेत्तदा स्यात्प्रतिसन्धातृवशाज्ज्ञेयस्य भेदेऽपि सादृश्यकृतं प्रत्यभिज्ञानम् । द्विभेदे तु—द्वयोर्ज्ञातृज्ञेययोर्भेदो द्विभेदः, तस्मिन्सत्यनिबन्धनमेव प्रत्यभिज्ञानम् । अपि च—यदि न कश्चिदेकः प्रतिसन्धाता पुरुषो भवेत्तदा यदेतन्मातुलुङ्गफलादिरूपे दृष्टे तद्रूपाविनाभाविषु रसादिषु स्मरणपूर्वमभिलषणं परिभोगाय च प्रवृत्तिस्तत्कथं भवेत् । न हन्येन दृष्टेऽन्यस्याभिलाषादिर्भवेत् ॥ ४९४ ॥ ॥ ४९५ ॥

बन्धमोक्षावपि न प्राप्नुत इति दर्शयन्नाह—“रागादी”त्यादि ।

रागादिनिगडैर्बद्धः क्षणोऽन्यो भववारके ।
अबद्धो मुच्यते चान्य इतीदं नावबुध्यते ॥ ४९६ ॥

अन्यो हि क्षणो रागादिभिर्बद्धोऽन्यस्तु मुच्यत इत्येतन्नावबुध्यते—न सम्भाव्यत इति यावत् । “भववारक” इति । भवः संसारः, स एव वारकम्—बन्धनागारम् ॥ ४९६ ॥

प्रयत्नश्च मोक्षार्थो व्यर्थो मोक्षाभावादिति दर्शयन्नाह—“मोक्षो नैव ही”त्यादि ।

मोक्षो नैव हि बद्धस्य कदाचिदपि सम्भवी ।
एकान्तनाशतस्तेन व्यर्थो मुक्त्यर्थिनां क्षणः ॥ ४९७ ॥

नन्वबद्धस्यैव मोक्षो भविष्यति, तत्कोऽत्र विरोध इत्याह—“मोक्षमि”त्यादि ।

मोक्षमासादयन्दृष्टो बद्धः स निगडादिभिः ।
अबद्धो मुक्तिमेतीति दृष्टाव्याहतमीदृशम् ॥ ४९८ ॥

य एव हि बद्धः स एव मुच्यत इति लोके प्रतीतं दृष्टं च । अबद्धस्य तु मोक्षप्रतिज्ञानं लोकप्रतीत्या प्रत्यक्षेण च बाध्यत इति प्रत्यक्षप्रतीतिविरोधः प्रतिज्ञाया इति भावः ॥ ४९८ ॥

अनुमानबाधामप्याह—“एकाधिकरणावि”त्यादि ।

एकाधिकरणावेतौ बन्धमोक्षौ तथा स्थितेः ।
लौकिकाविव तौ तेन सर्वं चारुतरं स्थितम् ॥ ४९९ ॥

प्रयोगः—यौ बन्धमोक्षौ तावेकाधिकरणौ, यथा लौकिकौ बन्धमोक्षौ, बन्धमोक्षौ च विवादास्पदीभूतावेतावनुशयतद्विसंयोगलक्षणौ बन्धमोक्षाविति स्वभावहेतुः । “तथा स्थिते”रिति । बन्धमोक्षात्मना स्थितेः, बन्धमोक्षरूपत्वादित्यर्थः । “तावि”ति । बन्धमोक्षौ । अतश्चैकस्याधिकरणस्यात्मनः सिद्धेः सर्वकर्मफलसम्बन्धादि चारुतरं स्थितम्—शोभनतरमवस्थितमित्यर्थः । यथोक्तदोषाभावात् ॥ ४९९ ॥

“एतेनैवे”ति ।

एतेनैव प्रकारेण स्मृत्यादीनामसम्भवः ।
एकाधिकरणाभावात्क्षणक्षयिषु वस्तुषु ॥ ५०० ॥

एकस्य कर्तुरभावात् । पूर्वोक्तानां स्मृतिनिश्चयस्वयन्निहितप्रत्यनुमार्गणादीनामसम्भवो बोद्धव्यः । तत्रापि भिन्नाधिकरणत्वे दृष्टादिविरोधप्रसङ्गात् । नहि चैत्रेऽनुभवितरि सन्दिहाने निधातारि वाञ्छावति च सति मैत्रस्य स्मृतिनिश्चयानुमार्गणकुतूहलविरत्यादयः सम्भवन्ति ॥ ५०० ॥

“अत्राभिधीयत” इत्यादिना प्रतिविधत्ते ।

अत्राभिधीयते सर्वकार्यकारणतास्थितौ ।
सत्यामव्याहता एते सिध्यन्त्येवं निरात्मसु ॥ ५०१ ॥

सत्यपि हि भावानां नैरात्म्ये कार्यकारणताप्रभावितेयं कर्मफलसम्बन्धादिव्यवस्था सति च कार्यकारणभावे सर्वमविरुद्धमेवेति न किञ्चित्क्षियते ॥ ५०१ ॥

स्यादेतत्—स एव कार्यकारणभावप्रतिनियमो नान्तरेणात्मानमुपपद्यत इत्याह—“यथा ही”त्यादि ।

यथाहि नियता शक्तिर्बीजादेरङ्कुरादिषु ।
अन्वय्यात्मवियोगेऽपि तथैवाध्यात्मिके स्थितिः ॥ ५०२ ॥

यथैव हि बीजादेरङ्कुरादिषु नियता शक्तिरन्तरेणाप्यात्मानमधिष्ठातारं तथाऽध्यात्मिकेऽपि वस्तुनि भविष्यति । न हि बीजादिः शरीरवदुपभोगायतनत्वेनात्मनाऽधिष्ठितः । अन्यथा हि नेदं निरात्मकं जीवच्छरीरमप्रमाणादिमत्त्वप्रसङ्गादित्येतन्नोपपद्यते । घटादौ किलात्मनिवृत्तौ प्राणादि निवर्त्तमानं दृष्टमिति व्यतिरेकिता हेतोः सिद्ध्येत् । यदि तु घटादेरपि सात्मकत्वं भवेत्तत्कथमयं हेतुर्व्यतिरेकी भवेत् ।“अन्वय्यात्मवियोगे”ऽनपीति । अन्वयिनः कस्यचित्स्वभावस्य वियोगेऽपीत्यर्थः ॥ ५०२ ॥

का पुनरसौ स्थितिरित्याह—“पारम्पर्येणे”त्यादि ।

पारम्पर्येण साक्षाद्वा कचित्किञ्चिद्धि शक्तिमत् ।
ततः कर्मफलादीनां सम्बन्ध उपपद्यते ॥ ५०३ ॥

त(यथै?)थैव हि बाह्ये नियता हेतुफलव्यवस्था तथैवाध्यात्मिके संस्कारराशावियम्, कारणशक्तिनियमात् । कुतश्चिदेवहि शुभाशुभकर्मणः क्षणपरम्परया नियतफलमिष्टमनिष्टं वाऽऽविर्भवति, रूपाद्यनुभवात्स्मरणम्, विमर्शान्निर्णयः, स्थापनादन्वेषणम्, अभिवाञ्छतोऽर्थदर्शनम्, ततः कुतूहलविरतिरिति सर्वमविरुद्धम् । न हिक्वचिदेकपदार्थान्वयित्वेन स्मरणादयो बौद्धस्य प्रसिद्धाः । किं तर्हि ? इदं प्रत्ययमात्रम् । यथोक्तम्— अस्ति कर्मास्तिफलं कारकस्तु नोपलभ्यते, य इमान् स्कन्धान्निक्षिपति, अन्यांश्च स्कन्धानुपादत्ते, अन्यत्र धर्मसङ्केतात् । तत्रायं धर्मसङ्केतः,यदुतास्मिन् सतीदं भवति, अस्योत्पादादिदमुत्पद्यत इति । कर्मफलादीनामित्यादिशब्देन स्मृत्यादिपरिग्रहः । सम्बन्धस्तु जन्यजनकभावः ॥ ५०४ ॥

यद्येवं कथं तर्हि लोके शास्त्रे च तत्तत्पुद्गलमधिकृत्योच्यते, अनेनैव कृतं कर्म कोऽन्यः प्रत्यनुभविष्यतीत्याह—“कर्तृत्वादी”त्यादि ।

कर्तृत्वादिव्यवस्था तु सन्तानैक्यविवक्षया ।
कल्पनारोपितैवेष्टा नाङ्गं सा तत्त्वसंस्थितेः ॥ ५०४ ॥

प्रचुरतराज्ञानतिमिरसङ्घातोपहतज्ञानालोको लोक आत्मनि तत्त्वान्यत्वासत्त्वादिविचारमवधूय विशिष्टहेतुफलभावनियतरूपाणां संस्काराणां प्रबन्धमेकत्वेनाध्यवसाय स एवाहं करोमिति व्यवहरति, मुक्तये च प्रवर्त्तते । तदभिमानानुरोधेन च भगवन्तस्तथागताः समुच्छेददृष्टिप्रपाततो विनेयजनरिरक्षयिषया सन्तानैकतां दर्शयन्तः कर्तृत्वादि व्यवस्थापयन्ति । तथाविधाया एव व्यवस्थातो वस्तुसिद्धिरिति चेदाह—“नाङ्गं” सेत्यादि । न हि तत्त्वपरिक्षापराङ्मुखमतीनां संवृतिपतितानां बालजनानामभिनिवेशवशेन शक्यं तत्त्वं व्यवस्थापयितुम्, तदभिनिवेशस्य नैतात्म्यक्षणभङ्गविहितप्रमाणबाधितत्वात् ॥ ५०४ ॥

बीजादिषु किलान्वय्यात्मवियोगोऽसिद्ध इति दृष्टान्तासिद्धिं मन्यमानस्य परस्य चोद्यमाशङ्कयन्नाह—“अन्वयासम्भवे सैवे”त्यादि ।

अन्वयासम्भवे सैव कार्यकारणता भवेत् ।
विशिष्टा युज्यते यद्वत्सन्तानान्तरभाविभिः ॥ ५०५ ॥

ननु बीजाङ्कुरादीनां कार्यकारणतेक्ष्यते ।
नियता तत्र सूक्ष्मोऽपि नांशोऽस्त्यनुगमात्मकः ॥ ५०६ ॥

अन्वयोऽनुगमः कस्यचित्स्वभावस्येति शेषः ॥ ५०५ ॥ ५०६ ॥

स्यादेतत्—बीजादिष्वप्यन्वयोऽस्त्येव । यथोक्तमुद्योतकारेण—तत्रापि ये बीजावयवास्ते पूर्वव्यूहपरित्यागेन व्यूहान्तरमापद्यन्ते, व्यूहान्तरापत्तौ च पृथिवीधातुरप्धातुना सङ्गृहीतमान्तरेण तेजसा पच्यमानो रसद्रव्यं निर्वर्त्तयति । स रसः पूर्वावयवसहितोऽङ्कुरादिभावमापद्यत इति । तत्कथं तत्र सूक्ष्मोऽपि नांशोस्तीत्युच्यत इत्याह—“क्षित्यादीनामि”त्यादि ।

क्षित्यादीनामवैशिष्ट्ये बीजाङ्कुरलतादिषु ।
न भेदो युक्त ऐकात्म्यात्तदा सिद्धा निरन्वया ॥ ५०७ ॥

तस्मात्कर्मफलादीनां भावाभावप्रसिद्धये ।
कार्यकारणतासिद्धौ यत्तत्कार्यं परैरलम् ॥ ५०८ ॥

एतदुक्तं भवति । यदि पृथिव्यादय उत्तरस्मिन्सन्निवेशे वर्त्तमाना अपरित्यक्तप्राक्तनस्वभावा एव वर्तन्ते, तदा न तेषां पूर्वव्यूहत्यागे व्यूहान्तरापत्तिश्चोपपद्यते, तादात्म्यात् । पूर्ववत् । ततश्च बीजाङ्कुरादीनां परस्परं भेदो न प्राप्नोति । एकस्वभावत्वात् । अथ भेदोऽङ्गीक्रियतेऽङ्कुरादीनां तदा नियमेन प्राक्तनस्वभावपरित्यागे सति क्षित्यादीनां पूर्वव्यूहत्यागो व्यूहान्तरापत्तिश्चाङ्गीकर्त्तव्या । अन्यथा भेद एव न स्यादित्युक्तम् । ततश्चापरापरस्वभावानामुत्पत्तेः कुतोऽन्वेतृम् । यतश्चैवं कार्यकारणभावे साधिते सर्वं कर्मफलसम्बन्धादि घटते, दूषिते च विघटते, तस्मात्कर्मफलादीनां भावसिद्धये कार्यकारणतासिद्धौ यत्नो विधातव्यः । परैः—उत्तमदर्शनानुसारितयोत्कृष्टैर्बौद्धैरिति यावत् । तेषां चाभावसिद्धये तस्या एव कार्यकारणताया अभावसिद्धौ यत्नः कार्यः परैः—तीर्थिकैरित्यर्थः । कार्यकारणतासिद्धावित्येतद्द्विरावर्त्तनीयम् । एकत्राऽकारप्रश्लेषः कार्यः ॥ ५०७ ॥ ५०८ ॥

अत्र यौ नष्टानष्टविकल्पौ परेण कृतौ तदुत्सारणेन कार्यकारणभावं तावत्सर्वव्यवस्थामूलं साधयन्नाह—“अत्रोच्यत” इत्यादि ।

अत्रोच्यते द्वितीये हि क्षणे कार्यं प्रजायते ।
प्रथमे कारणं जातमविनष्टं तदा च तत् ॥ ५०९ ॥

क्षणिकत्वात्तु तत्कार्यं क्षणकाले न वर्त्तते ।
वृत्तौ वा विफलं कार्यं निर्वृत्तं तद्यतस्तदा ॥ ५१० ॥

अविनष्टादेव कारणात्कार्यं भवतीति न पक्षः, न चैवं यौगपद्यप्रसङ्गः । तथाहि—प्रथमक्षणभाविकारणतासादितात्मलाभमविनष्टमेव प्रतीत्य द्वितीये क्षणे कार्यं प्रजायते । तच्च तथा जायमानमविनष्टादेव जायते । प्रथमे क्षणे तस्याविनष्टत्वात् । कार्यसत्ताकालं च न कारणमनुवर्त्तते । क्षणिकतयाऽनवस्थानात् । सत्यामपि चानुवृत्तौ न तदानीं तस्य कारणत्वम्, निष्पन्ने कार्ये तस्याकिञ्चित्करत्वात् ॥ ५०९ ॥ ५१० ॥

तदेवाकिञ्चित्करत्वं दर्शयति—“नचे”त्यादि ।

न च जातं पुरस्तेन शक्यं जनयितुं पुनः ।
अभूतभावरूपत्वाज्जन्मतो नान्यथा स्थितिः ॥ ५११ ॥

“नान्यथा स्थिति”रिति । अन्यथा, स्थितिः—नियमो न भवेदिति यावत् । अनवस्था भवेदिति यावत् । यदि हि जातमपि जन्येत, तदा पुनरप्यविशेषात्तस्य जननप्रसङ्गः । ततश्चानवस्था जन्मनां स्यात् । कारणानां च व्यापारानुपरतिः कारणस्यापि जन्यत्वप्रसङ्गो विशेषाभावात् । ततश्चेदं कारणमिदं कार्यमिति व्यवस्था न स्यात् ॥ ५११ ॥

“तस्मा”दित्यादिनोपसंहृत्य स्थितपक्षस्यादुष्टतां दर्शयति ।

तस्मादनष्टात्तद्धेतोः प्रथमक्षणभाविनः ।
कार्यमुत्पद्यते शक्ताद्द्वितीयक्षण एव तु ॥ ५१२ ॥

विनष्टात्तु भवेत्कार्यं तृतीयादिक्षणे यदि ।
विपाकहेतोः प्रध्वस्ताद्यथा कार्यं च वक्ष्यते ॥ ५१३ ॥

यौगपद्यप्रसङ्गोऽपि प्रथमे यदि तद्भवेत् ।
सहभूहेतुवत्तच्च न युक्त्या युज्यते पुनः ॥ ५१४ ॥

विनष्टविकल्पस्त्वनभ्युपगमादेवायुक्तः । तथाहि—यदि तृतीयादिषु क्षणेषु कार्यं भवतीत्यभ्युपेतं भवेत्, यथा वैभाषिकैरङ्गीकृतमेकोऽतीतः प्रयच्छतीति । तदाविनष्टात्कारणात्कार्योत्पादोऽङ्गीकृतः स्यात । न चायं पक्षोऽस्माकम् । अयुक्त्यपेतत्वात । यौगपद्यप्रसङ्गोऽपि कदाचिद्भवेत्, यदि प्रथम एव क्षणे कार्यमिष्यते । यथा तैरेव वैभाषिकैः सहभूर्हेतुरिष्यते । तच्चैतदयुक्तम् ॥ ५१२ ॥ ५१३ ॥ ५१४ ॥

कस्मादित्याह—“असत” इत्यादि ।

असतः प्रागसामर्थ्यात्सामार्थ्ये कार्यसम्भवात् ।
कार्यकारणयोः स्पष्टं यौगपद्यं विरुध्यते ॥ ५१५ ॥

सहभूतं हि कार्यं जनयन्हेतुरनुत्पन्नो वा जनयेदुत्पन्नो वा । न तावदनुत्पन्नः, तस्य कार्योत्पत्तेः प्रागसत्त्वात् । असतश्चाशेषसामर्थ्यशून्यत्वात् । यदा तर्ह्युत्पन्नस्तदा समर्थत्वाज्जनयिष्यतीति चेदाह—“सामर्थ्ये कार्यसम्भवा”दिति । यदा हि तस्योत्पन्नावस्थायां सामार्थ्यं तदा कार्यमपि तत्स्वभाववदेवोत्पन्नमिति क्वास्य सामर्थ्यमुपयोगमश्रुवीत । तस्मादनुमानप्रमाणविरुद्धःकार्यकारणयौगपद्याभ्युपगसः ॥ ५१५ ॥

ननु कार्यकारणभावो हि कर्मकर्तृभावः स च भिन्नकाले विरुद्ध्यते । न हि घटकुलालयोरयौगपद्ये सति कर्मकर्तृभावो दृष्ट इत्याह—“नही”त्यादि ।

न हि तत्कार्यमात्मीयं सन्दंशेनेव कारणम् ।
गृहीत्वा जनयत्येतद्यौगपद्यं यतो भवेत् ॥ ५१६ ॥

नापि गाढं समालिङ्ग्य प्रकृतिं जायते फलम् ।
कामीव दयिता येन सकृद्भावस्तयोर्भवेत् ॥ ५१७ ॥

यदि हि सन्दंशग्रहणन्यायेन कारणं कार्योत्पत्तौ व्याप्रियेत, कार्यं वा वनितोपगूहनवत्स्वकारणाऽऽश्लेषात्स्वजन्मनि व्यापारं प्रतिपद्येत, तदा सह भाविता नियमेनस्यात् । यावता निर्व्यापारमेवेदं विश्वं न हि पारमार्थतः कश्चित्कर्त्ता कर्म वास्त्यन्यत्र धर्मसङ्केतादिति समुदायार्थः । “प्रकृति”मिति । कारणम् ॥ ५१६ ॥ ५१७ ॥

यद्येवं यदि निर्व्यापारमेव कार्यं कारणं वा । तत्कथं भवन्ति वक्तारो धूममग्निर्जनयति धूमोऽग्निमाश्रित्योत्पद्यत इत्याह—“नियमा”दित्यादि ।

नियमादात्महेतूत्थात्प्रथमक्षणभाविनः ।
यद्यतोऽनन्तरं जातं द्वितीयपक्षणसन्निधिः ॥ ५१८ ॥

तत्तज्जनयतीत्याहुरव्यापारेऽपि वस्तुनि ।
विवक्षामात्रसम्भूतसङ्केतानुविधायिनः ॥ ५१९ ॥

स्वहेतुप्रत्ययसमुत्थापितात्कारणस्य शक्तिप्रतिनियमाद्धेतोर्यत्कार्यं यतः क्षणप्रथमभाविनः कारणाज्जातं किञ्चिद्विशिष्टम्, द्वितीये क्षणे सन्निधिः सद्भावो यस्येति विग्रहः, तत्कारणं तत्कार्यं जनयतीत्युच्यते । जनयतीत्युपलक्षणम् । तत्तदाश्रित्योत्पद्यतइत्यपि विज्ञेयम् । के पुनस्त एवमाहुः ? । “इत्या”दि । बहिरर्थनिरपेक्षविवक्षाभाविसङ्केतानुरूपव्यवहारकारिणो व्यवहर्तार एवामाहुरित्यर्थः ॥ ५१८ ॥ ५१९ ॥

ननु य उत्पद्य व्यापारं नाबिशेत् विशेषोत्पादार्थं स कथं हेतुः स्यादित्याह—“जन्मातिरिक्ते”त्यादि ।

जन्मातिरिक्तकालेन व्यापारेणात्र किं फलम् ।
सत्तैव व्यापृतिस्तस्यां सत्यां कार्योदयो यतः ॥ ५२० ॥

कारणसत्तासमनन्तरमेव कार्यस्य निष्पन्नत्वादकिञ्चित्कर एव कार्यस्य जन्मोत्तरकालभावी व्यापारः कार्ये । तथाहि—व्यापारो नाम कारणस्य क उच्यते । यदनन्तरमेव कार्यमुदयमासादयति कारणसत्तानन्तरमेव च कार्यमुद्भवतीति सत्तैव व्यापारशब्दवाच्याऽस्तु किं जन्मातिरेकिणा व्यापारेण कल्पितने ॥ ५२० ॥

यद्येवमसति भावानां व्यपारे कथमिदमधीयते कार्यस्य कारणेऽपेक्षा कारणस्य च कार्ये व्यापार इत्याह—“य आनन्त”र्येत्यादि ।

य आनन्तर्यनियमः सैवापेक्षाभिधीयते ।
कार्योदये सदा भावो व्यापारः कारणस्य च ॥ ५२१ ॥

इदमेव हि कार्यस्य कारणेऽपेक्षा यत्तदनन्तरभावित्वम्, कारणस्यापि कार्येऽयमेव व्यापारो यत्कार्योदयकाले सदा सन्निहितत्वम् ॥ ५२१ ॥

अपि च व्यापारस्य व्यापारवतो वा भावस्य कार्यं प्रति हेतुभावस्तद्भावभावित्वादेव भवता ग्रहीतव्यः, न ह्यन्वयव्यतिरेकाभ्यामन्यः कार्यकारणभावाधिगमेऽभ्युपायोऽस्ति, ततश्चैवं सति वस्तुमात्रस्यापि किमिति कारणभावो न गृह्यते, नहि कार्यस्यवस्तुमात्रगतान्वयव्यतिरेकानुविधायित्वं न प्रसिद्धम्, अतस्तदेव वस्तुमात्रं वरं कारणमस्तु चद्गतान्वयव्यतिरेकानुविधायित्वं कार्यस्य सिद्धमित्येतद्दर्शयति—“तद्भावे”त्यादि ।

तद्भावभावितामात्राद्व्यापारोप्यवकल्पितः ।
हेतुत्वमेति तद्वान्वा तदेवास्तु ततो वरम् ॥ ५२२ ॥

“अवकल्पित” इति । भवद्भिर्योऽन्य उभ्यानुभयरूपो वा व्यापारः परिकल्पित इत्यर्थः । तद्वानिति व्यापारवान् । तद्भावितामात्राद्धेतुत्वमेतीति प्रकृतेन सम्बन्धः ।“तदेवे”ति । विलक्षणव्यापाररहितं वस्तुमात्रं हेतुरस्त्वित्यर्थः ॥ ५२२ ॥

कस्तत्रातिशयो येन वरमित्युच्यत इत्याह—“भाव” इत्यादि ।

भावे सति हि दृश्यन्ते बीजादेवाङ्कुरोदयाः ।
न तु व्यापारसद्भावे भवत्किञ्चित्समीक्ष्यते ॥ ५२३ ॥

भावे—भावमात्रे, बीजादौ व्यापारान्तरसमावेशशून्ये सतीत्यर्थः । एतेन भाव मात्रगतान्वयव्यतिरेकानुविधायित्वमेव कार्याणां सिद्धं न तु व्यापारगतान्वयाद्यनुविधायित्वमिति दर्शितं भवति ॥ ५२३ ॥

स्यादेतद्यद्यपि व्यापारगतान्वयाद्यनुविधानं कार्यस्य न सिद्धम्, तथापि तस्य कारणभावो भविष्यतीत्याह—“अदृष्टशक्ते”रित्यादि ।

अदृष्टशक्तेर्हेतुत्वे कल्प्यमानेऽपि नेष्यते ।
किमन्यस्यापि हेतुत्वं विशेषो वाऽस्य कस्ततः ॥ ५२४ ॥

एवं हि व्यापारमपि हेतुं प्रकल्प्यापरोऽपि कल्पनीयः स्यात् । अदृष्टशक्तित्वेन विशेषाभावात्, ततश्चानवस्था स्यात् । अथान्यो न कल्पते निबन्धनाभावात्तदा व्यापारस्यापि कल्पना माभूत्तत्रापि निबन्धनाभावस्य तुल्यत्वात् । किञ्च योऽप्यसौ व्यापारः कार्यं जनयति स किं व्यापारान्तरसमावेशादाहोस्वित्सत्तामात्रेण, यदि व्यापारान्तरसमावेशात्तदा व्यापारान्तरस्यैव कारणत्वं स्यान्न व्यापारस्य,, तस्यापि व्यापारान्तरस्य कारणत्वे तुल्यः पर्यनुयोगः । तस्यापि हि यदि व्यापारान्तरसमावेशात्कारणभावः कल्प्येत तदाऽनवस्था स्यात् ॥ ५२४ ॥

अथ सत्तामात्रेणेति पक्षस्तदा पदार्थोऽपि व्यापारवत्सत्तामात्रेणैव कार्यं जनयिष्यतीति व्यार्था व्यापारकल्पनेति दर्शयति—“अन्येन” चेत्यादि ।

अन्येन च विना हेतुर्यथा व्यापार इष्यते ।
कार्यस्य वा भवेत्तद्वत्किमन्येऽपि न हेतवः ॥ ५२५ ॥

यथैव हि व्यापारोऽन्येन व्यापारान्तरेण विनाऽपि कार्येऽङ्कुरादिके हेतुरिष्यते, तद्वदन्येऽपि भावा विलक्षणव्यापारशून्य एव हेतवः किं नेष्यन्ते ॥ ५२५ ॥

अथापि स्यान्न व्यापारः कार्यं साक्षादुपकरोति । किं तर्हि भावमेव व्यापारवन्तमित्याह—“अथवा भाव” इत्यादि ।

॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥। ।
॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥। ॥ ५२६ ॥

हेतुरिष्यत इति प्रकृतेन सम्बन्धः । तवापि हि व्यापारवति हेतुरसौ भवन्व्यापारान्तरसमावेशरहित एव भवतीति स एव दृष्टान्तो भविष्यतीति भावः ॥ ५२६ ॥

नचापि सत्ताव्यतिरेकेण व्यापारः पदार्थस्यास्ति । उपलब्धिक्षणप्राप्तस्यानुपलब्धेरिति दर्शयति—“दृश्यत्वाभिमत”मित्यादि ।

दृश्यत्वाभिमतं नैवं वयं चोपलभामहे ।
तत्कथं तस्य सम्बन्धमङ्गीकुर्मो निबन्धनम् ॥ ५२७ ॥

दृश्यत्वेन हि भवतां व्यापारोऽभिमतः, यथोक्तं कुमारिलेन—प्राक्कार्यनिष्पत्तेर्व्यापारो यस्य दृश्यत इत्यादि । अपि च स व्यापारात्मा पदार्थस्तस्माद्व्यापारवतोभावादर्थान्तरभूतो वा स्यादनर्थान्तरभूतो वा, वस्तुसतः प्रकारान्तराभावात्, उभयानुभयबिकल्पस्यासम्भव एव । सच यद्यर्थान्तरभूतस्तदा पदार्थस्य कारणत्वं न प्राप्नोति । तद्व्यतिरेकिणो व्यापारस्यैव कारणभावात् । व्यापारेण सम्बन्धात्तस्यापि कारणभावोऽस्तीति चेत् । न । परस्परानुपकारिणोः सम्बन्धासिद्धेः । अथोपक्रियत एव व्यापारः पदार्थेनेति स्यात् । तदप्ययुक्तम् । न हि तस्यापरो व्यापारोऽस्ति, येन व्यापारमुपकुर्यादन्यथा ह्यनवस्थायां व्यापाराणामेव परस्परं घटनात्पदार्थेन सह व्यापारस्य न कदापि सम्बन्धः सिद्ध्येत् । अथ व्यापारान्तरमन्तरेणैव पदार्थो व्यापारमुपकरोतीति स्यात्तदा कार्यमपि व्यापारवद्व्यापाररहित एव सत्तामात्रेण किं नोपकुर्वीत येन व्यापारोऽर्थान्तरभूतः कल्प्यते । नहि तस्य कार्येऽपि सत्तामात्रेणोपयोगं व्रजतः कश्चित्प्रतिरोद्धाऽस्ति । तस्मान्नार्थान्तरभूतो व्यापारो युक्तः । अथानर्थान्तरभूत इति पक्षस्तदा सिद्धं सत्तैव व्यापृतिरिति । पदार्थस्वभावस्यैव सत्ताशब्दवाच्यत्वात् । ततश्च न सिद्ध्यति जन्मातिरेकित्वं व्यापारस्य ॥ ५२७ ॥

अपि च । यथा बुद्धिरर्थप्रतिच्छित्तौ जायमानैव व्यापाररहितापि सत्तामात्रेण व्याप्रियते तथा सर्वेषामपि भावानां हेतुत्वमुत्तरकालभाविव्यापारमन्तरेण भविष्यतीत्येतद्दर्शयति—“बुद्धेरि”त्यादि ।

बुद्धेर्यथा न जन्मैव प्रमाणत्वं निरुध्यते ।
तथैव सर्वभावेषु तद्धेतुत्वं न किं मतम् ॥ ५२८ ॥

न हि बुद्धेर्जन्मातिरेकी व्यापारोऽस्ति । तथाहि— सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमित्यत्र सूत्रे जन्मग्रहणस्य प्रयोजनं वर्णयता कुमारिलेनोक्तम्,बुद्धिजन्मेति च प्राह जायमानप्रमाणताम् । व्यापारः कारणानां हि दृष्टो जन्मातिरेकतः । प्रमाणेऽपि तथा माभूदिति जन्म विवक्ष्यत इति । “तद्धेतुत्व”मिति । तत्— करणजन्म हेतुर्येषां ते तथोक्ताः । तद्भावस्तत्त्वम् ॥ ५२८ ॥

स्यादेतद्बुद्धेर्व्यापारो भावो युक्तो न हि सोत्तरकालमवतिष्ठते क्षणिकत्वादित्याह —“क्षणिका ही”त्यादि ।

क्षणिका हि यथा बुद्धिस्तथैवान्येऽपि जन्मिनः ।
साधितास्तद्वदेवातो निर्व्यापारमिदं जगत् ॥ ५२९ ॥

“साधिता” इति । स्थिरभावपरीक्षायां सकलवस्तुव्यापिनः क्षणभङ्गस्य साधितत्वात् । “तद्वदे”वेति । बुद्धिवदेव । “अत” इति । क्षणिकत्वात् । प्रयोगः—ये क्षणिकास्तेजन्मातिरिक्तव्यापारशून्याः, यथा बुद्धिः क्षणिकाश्च बीजादयः पूर्वं प्रसाधिता इति स्वभावहेतुः । पश्चादवस्थित्यभावेन निराधारव्यापारायोगो बाधकं प्रमाणं तस्मादानन्तर्यकमात्रमेव कार्यकारणभावव्यस्थानिबन्धनं न व्यापार इति स्थितमेतत् ॥ ५२९ ॥

यच्चोक्तं जायमानश्च गन्धादीत्यादि, तत्रापि न व्यभिचार इति दर्शयन्नाह—“प्रबन्धे”त्यादि ।

प्रबन्धवृत्त्या गन्धादेरिष्टैवान्योन्यहेतुता ।
तदबाधकमेवेदं तद्धेतुत्वप्रसञ्जनम् ॥ ५३० ॥

रूपरसादीनां हि परस्परं प्रबन्धापेक्षया सहकारिकारणभावोऽभीष्ट एव । यथोक्तम्— शक्तिप्रवृत्त्या न विना रसस्यैवान्यकारणम् । इत्यतीतैककालानां गतिस्तत्कार्यलिङ्गजेति ॥ ५३० ॥

ननु चाग्नेरिव गवाश्वादेरप्यनन्तरं कदाचिद्धूमो भवति तत्कथमानन्तर्यं न व्यभिचारीत्याह—“अन्यानन्तरभावेऽ”पीत्यादि ।

अन्यानन्तरभावेऽपि किञ्चिदेव न कारणम् ।
तथैव नियमादिष्टं तुल्यं चैतत्स्थिरेष्वपि ॥ ५३१ ॥

न हि वयमानन्तर्यमात्रं कार्यकारणभावाधिगतिनिबन्धनं ब्रूमः किं तर्हि ? यन्नियतम् । तथाहि—यस्यैवानन्तरं यद्भवति तत्तस्य कारणमिष्यते । न च धूमो गवादेरेवानन्तरं भवति, असत्यपि गवादौ तस्य भावात् । किञ्च भवतोऽप्यत्र स्थिरवादिनश्चोद्यमेतदवतरति, कस्माद्गवादेरनन्तरं धूमो भवन्नपि तत्कार्यं न भवतीति ॥ ५३१ ॥

अत्र पर आह—“यो यत्रेत्या”दि ।

यो यत्र व्यापृतः कार्ये न हेतुस्तस्य चेन्मतः ।
यस्मिन्नियतसद्भावो यः स हेतुरितीष्यताम् ॥ ५३२ ॥

“यस्मि”न्नित्यादिना स्वपक्षेऽपि परिहारमाह ॥ ५३२ ॥

एवं तावत्क्षणिकत्वेऽपि भावानां कार्यकारणभाव उपपादितः । इदानीं तदधिगन्तृप्रमाणोपपादनार्थमाह—“भावाभावा”वित्यादि ।

भावाभावाविमौ सिद्धौ प्रत्यक्षानुपलम्भतः ।
यदि साकारविज्ञानविज्ञेयं वस्तु चेन्मतम् ॥ ५३३ ॥

यदाऽनाकारधीवेद्यं वस्तु युष्माभिरिष्यते ।
तत्क्षणत्वादिपक्षेऽपि समानमुपलभ्यते ॥ ५३४ ॥

पूर्वकेभ्यः स्वहेतुभ्यो विज्ञानं सर्वमेव हि ।
समांशकालरूपादि बोधरूपं प्रजायते ॥ ५३५ ॥

यथैव हि भवतः स्थिरपदार्थोपलम्भः सिद्ध्येत्तथाऽस्माकं क्षणिकस्यापि सेत्स्यति । तथाहि—पदार्थस्योपलम्भो भवन्साकारेणैव विज्ञानेन भवेदनाकारेण वा । तत्र यदि साकारेण तदा स्वाकारानुभव एव ज्ञानस्यार्थानुभव इति स्थिरास्थिरपक्षयोर्न कश्चिद्विशेषः । अथानाकारेण तदाप्यविशेष एव । तथाहि—पूर्वकेभ्य एव स्वहेतुभ्यस्तथा तत् ज्ञानमुपजायते, येन स समानकालभाविरूपाद्येवावबुध्यते नान्यत् । तद्बोधात्मकस्यैव तस्योत्पन्नत्वात् । अतः समानकालभाविरूपादिबोधस्वभावे ज्ञानेऽङ्गीक्रियमाणे न काश्चिदर्थस्य स्थिरास्थिरत्वे विशेषः । अवश्यं च भवता पूर्वहेतुकृत एव समानकालभाविप्रतिनियतरूपादिग्रहणे ज्ञानस्य स्वभावोऽङ्गीकर्त्तव्यो येन तुल्येऽपिसमानकालभावित्वे रूपाद्येव ज्ञानं परिच्छिनत्ति नेन्द्रियमिति स्यात् । तच्च क्षणिकत्वेऽपि भावानां तुल्यमेवेति यत्किञ्चिदेतत् ॥ ५३३ ॥ ५३४ ॥ ५३५ ॥

“साकार” इत्यादिना परो द्वयोश्चोदयति ।

साकारे ननु विज्ञाने वैचित्र्यं चेतसो भवेत् ।
नाकारानङ्कितत्वेऽस्ति प्रत्यासत्तिनिबन्धनम् ॥ ५३६ ॥

यदि साकारं ज्ञानं तदा । चित्रास्तरणादिषु ज्ञानस्य चित्रत्वं भवेत् । न चैकस्य चित्रत्वं युक्तमतिप्रसङ्गात् । अथानाकारं तदा नीलास्पदं संवेदनं न पीतस्येति व्यवस्थानं न सिद्ध्येत् । सर्वत्र बोधरूपतया विशेषाभावेन प्रत्यासत्तिनिबन्धनाभावात् ॥ ५३६ ॥

“भवद्भिरपी”त्यादिना प्रतिविधत्ते ।

भवद्भिरपि वक्तव्ये तदस्मिन्किञ्चिदुत्तरे ।
यच्चात्र वः समाधानमस्माकमपि तद्भवेत् ॥ ५३७ ॥

समानमेतद्द्वयोरपि चोद्यम्, यतो भवताऽपि साकारानाकारपक्षाभ्यामवश्यमन्य तरः पक्षोऽङ्गीकर्त्तव्योऽन्यथाऽर्थग्राहिज्ञानं न सिद्ध्येत् । न चाप्येतत्पक्षद्वयव्यतिरेकेणान्यः प्रकारोऽस्ति । येन ज्ञानमर्थं ग्रहीष्यति । यच्चोभयोर्दोषो न तत्रैकश्चोद्यो युक्तः । तेन यदत्रोत्तरं भवतस्तदस्माकमपि भविष्यति । तथाहि—साकारपक्षे भवताऽवश्यमाकाराणामलीकत्वं सहोपलम्भनियमाद्वैकज्ञानाव्यतिरेकित्वं सत्यपि भेद इत्युत्तरमुपवर्णनीयम् । तदेवास्माकं भविष्यति, निराकारपक्षेऽपि पूर्वहेतुकृत एवप्रतिनियतार्थावबोधकः स्वभावो ज्ञानस्येति वर्णनीयम् । तदैतदस्माकमपि निराकारविज्ञानवादिनां बौद्धानामुत्तरं भविष्यतीत्यचोद्यमेतत्समाधानमिति परिहारः ॥ ५३७ ॥

तदेवं कार्यकारणभावाधिगन्तृ प्रमाणं प्रतिपाद्य कृतनाशाकृताभ्यागमदोषं परिहरन्नाह—“कृतनाश” इत्यादि ।

कृतनाशो भवेदेवं कांर्य न जनयेद्यदि ।
हेतुरिष्टं न चैवं यत्प्रबन्धे नास्ति हेतुता ॥ ५३८ ॥

अकृताभ्यागमोऽपि स्याद्यदि येन विना क्वचित् ।
जायेत हेतुना कांर्य नैतन्नियतशक्तितः ॥ ५३९ ॥

यदि हि परमार्थतः कश्चित्कर्त्ता भोक्ता वाऽभीष्टः स्यात्तदा क्षणभाङ्गित्वाङ्गीकरणे कृतनाशादिप्रसङ्गः स्यात्, यावतेदं प्रत्ययतामात्रमेव विश्वं न केनचित्कर्त्रा किञ्चित्कृतं नाभि(पि ?)भुज्यते । तत्कथं कृतनाशादिप्रसङ्गापादनं स्यात् । अथ पूर्वकुशलादिचेतनाहितेष्टानिष्टफलोत्पादनसामर्थ्यविप्रणाशात्पूर्वकर्मानाहितसामर्थ्यविशेषाच्च कारणतः फलोत्पत्तेर्यथाक्रमं कृतनाशाकृताभ्यागमदोषप्रसङ्गो विधीयते । तदयुक्तम् । न हि पूर्वकर्माहितसामर्थ्यानुबन्धनस्य नैरात्म्येन सह कश्चिद्विरोधः । तथाहि— लाक्षादिरसावसिक्तानामिव बीजानां सन्तानमनुवर्त्तन्त एव पूर्वकर्माहिताः सामर्थ्यविशेषाः यत उत्तरकालं लब्धपरिपाकेभ्य इष्टमनिष्टं वा फलमुदेति । नापि पूर्वकर्मानाहितसंस्कारात्सन्तानात्फलोत्पत्तिरिष्यत इति कुतः अकृताभ्यागमो दोषः । उद्द्योतकरस्त्वाह—अस्थिरत्वाच्चित्तस्य न कर्मभिर्वासनं सम्भवतीति । तदयुक्तम् । न हिस्थिरस्यापरित्यक्तप्राक्तनस्वरूपस्य वासनमस्ति । अस्थिरस्य तु विशिष्टस्वभावान्तरोत्पादनमेव वासना । यत्पुनः स्थिरमव्याकृतं वास्यमित्युक्तं शास्त्रे तत्प्रबन्धस्थिरतामभिप्रेत्य । यो ह्युच्छेदी सन्तानस्तस्य चिरतरकालभाविफलप्रसवकाले सन्निधानाभावान्न कारणत्वमस्ति, तेन तस्य तथाविधफलोत्पादं प्रति वासनाधारत्वमयुक्तमित्यभि प्रायः । तस्मात्परसिद्धान्तानभिज्ञतया यत्किञ्चिदभिहितमनेनेत्युपेक्षामर्हति ॥ ५३८ ॥ ॥ ५३९ ॥

कुमारिलस्त्वाह—न वयं केनचित्कर्त्रा कृतस्य कर्मणो विप्रणाशात्कृतनाशाकृताभ्यागमौ ब्रूमः, नहि भवतां मते कश्चित्कर्त्तास्ति, किं तर्हि, निरन्वयकर्मतत्फलयोर्विनाशोत्पादाभ्युपगमात्कृतनाशाकृताभ्यागमौ प्रसज्येते इति । तदत्रैवंविधस्य कृतनाशस्याकृताभ्यागमस्य चेष्टत्वान्नानिष्टापादनं युक्तमिति दर्शयन्नाह—“क्षणभेदविकल्पे”नेति ।

क्षणभेदविकल्पेन क्षणनाशादि चोद्यते ।
यच्चैव नैवानिष्टं तु किञ्चिदापादितं परैः ॥ ५४० ॥

पूर्वकस्य कर्मक्षणस्य निरन्वयं विनाशात्कृतनाशः फलक्षणस्य वाऽपूर्वस्यैवोत्पादादकृताभ्यागम इत्येवं यत्क्षणभेदविकल्पेन कृतनाशादि चोद्यते तदिष्टमेव । न हि स्वल्पीयसोऽपि वस्त्वंशस्य कस्यचिदन्वयोऽस्तीति प्रतिपादयिष्यामः ॥ ५४० ॥

यच्चोक्तं नैव प्रवर्त्तेत प्रेक्षावानिति, तत्राह—“अहीनसत्त्वे”त्यादि ।

अहीनसत्त्वदृष्टीनां क्षणभेदविकल्पना ।
सन्तानैक्याभिमानेन न कथञ्चित्प्रवर्त्तते ॥ ५४१ ॥

अभिसम्बुद्धतत्त्वास्तु प्रतिक्षणविनाशिनाम् ।
हेतूनां नियमं बुद्ध्वा प्रारभन्ते शुभाः क्रियाः ॥ ५४२ ॥

ये तावदप्रहीणसहजेतरसत्कायदर्शनादयस्तेषामयं क्षणभेदविकल्पो नास्त्येव । तथाहि—ते सन्ततिमेकत्वेनाध्यवसाय सुखिता वयं भविष्याम इत्याहितपरितोषाः कर्मसु प्रवर्त्तन्ते । येऽपि पृथग्जनकल्याणा एवं युक्त्यागमाभ्यां यथावत्क्षणिकात्मतयोरवबोधादभिसम्बुद्धतत्त्वास्तेऽप्येवं प्रतीत्यसमुत्पादधर्मतां प्रतिपद्यन्ते । करुणादिपूर्वकेभ्यो दानादिभ्यः स्वपरहितोदयशालिनः संस्काराः क्षणिका एवापरापरे परम्परया समुत्पद्यन्ते । न तु हिसादिभ्य इत्यतस्ते हेतुफलप्रतिनियममवधार्य शुभादिक्रियासु प्रवर्त्तन्ते । यथोक्तं— यावच्चात्मनि न प्रेम्णो हानिः सपरितस्यति (सपदि नश्यति ?) तावद्दुःखितमारोप्य न च स्वस्थोऽवतिष्ठते । मिथ्याध्यारोपहानार्थं यत्नोऽसत्यपि भोक्तरीति । कार्यकारणभावस्तदधिगन्तृ च प्रमाणं यथा सिध्यति तथा प्रतिपादितमेव ॥ ५४१ ॥ ५४२ ॥

यच्चोक्तं क्षणभङ्गिषु भावेषु प्रत्यभिज्ञा च दुर्घटेति । तत्राह—“केषाञ्चिदेवे”त्यादि ।

केषाञ्चिदेव चित्तानां विशिष्टा कार्यकार्यिता ।
नियता तेन निर्बाधाः सर्वत्र स्मरणादयः ॥ ५४३ ॥

“कार्यकार्यिते”ति । कार्यमस्यास्तीति कार्यि, कारणमित्यर्थः । कार्यकार्यिणोर्भावःकार्यकार्यिता । कार्यकारणभवा इत्यर्थः । न हि कश्चित्परमार्थतः स्मर्त्ताऽनुभविता वाऽस्ति । यतो येनैवानुभूतं स एव स्मरतीति स्यात् । किं तर्हि ? यत्र सन्ताने पटीयसाऽनुभवेनोत्तरोत्तरविशिष्टतरतमक्षणोत्पादात्स्मृत्यादिबीजमाहितं तत्रैव स्मरणादयः समुत्पद्यन्ते, नान्यत्र प्रतिनियतत्वात्कार्यकारणभावस्येति समासार्थः । यथोक्तम्—अन्यस्मरणभोगादिप्रसङ्गश्च न बाधकः । अस्मृतेः कस्यचित्तेन ह्यनुभूते स्मृतोद्भव इति । स्मरणादिपूर्वकाश्च प्रत्यभिज्ञानादयः प्रसूयन्य इत्यविरुद्धम् । न चापि क्वचिदेकज्ञातृनिबन्धनाः प्रत्यभिज्ञानादयः सिद्धाः, येनोच्यते द्विभेदे त्वनिबन्धनमिति, कार्यकारणभावमात्रतया सर्वत्रैव भेदाभ्युपगमात् ॥ ५४३ ॥

यच्चोक्तं—रागादिनिगडैर्बद्ध इत्यादिना बन्धमोक्षव्यवस्थानमनुपपन्नमिति, तत्राह—“कार्यकारणभूताश्चे”त्यादि ।

कार्यकारणभूताश्च तत्राविद्यादयो मताः ।
बन्धस्तद्विगमादिष्टो मुक्तिर्निर्मलता धियः ॥ ५४४ ॥

नहि क्वचिदस्माकमेकपुरुषाधिकरणौ बन्धमोक्षौ प्रसिद्धौ, कस्यचिद्बध्यमानस्य मुच्यमानस्य चासिद्धेः । केवलमविद्यादयः संस्कारा जरामरणपर्यन्ता दुःखोत्पादहेतुतया बन्ध इति व्यवह्रियन्ते । तथाचोक्तम्— एवमस्य केवलस्य हेतोर्दुःखस्कन्धस्य समुदायो भवतीति । तेषां चाविद्यादीनां तत्त्वज्ञानाद्विगतौ सत्यां या निर्मलता धियः सा निर्मुक्तिरित्युच्यते । यथोक्तम्— चित्तमेव हि संसारो रागादिक्लेशवासितम् । तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यत इति ॥ ५४४ ॥

यच्चोक्तमेकाधिकरणावित्यादि, तत्रापि दृष्टान्तस्य साध्यविकलतेति दर्शयन्नाह—“एकाधिकरणौ सिद्धा”वित्यादि ।

एकाधिकरणौ सिद्धौ नैवैतौ लौकिकावपि ।
बन्धमोक्षौ प्रसिद्धं हि क्षणिकं सर्वमेव तत् ॥ ५४५ ॥

सर्वमेव हि वस्तूदयानन्तरापवर्गीति प्रसाधितं यदा तदा न क्वचिदेकाधिइकरणत्वं बन्धमोक्षयोः प्रसिद्धमस्तीत्यप्रसिद्धो दृष्टान्तः ॥ ५४५ ॥

तदेवं स्वपक्षं व्यवस्थाप्य “सर्वथे”त्यादिना परपक्षं प्रतिषेधयति ।

सर्वथाऽतिशयासत्त्वाद्व्याहता त्वात्मनीदृशी ।
कर्तृभोक्तृत्वबन्धादिव्यवस्थाऽनित्यताऽन्यथा ॥ ५४६ ॥

इति कर्मफलसम्बन्धपरीक्षा ।

यदि हि रागादिभिः क्लेशैर्बन्धो भावनादिभिश्चातिशयः कश्चिदात्मनः क्रियेत, तदा तस्य बन्धमोक्षादिव्यवस्था भवेत् । यावता नित्यतया न तस्यातिशयाधानमस्तीति नेयमीदृशी नियतकार्यकारणमर्यादालक्षणा बन्धमोक्षादिव्यवस्था घटते, यथाऽऽकाशस्येति भावः । “अन्यथे”ति । यद्यतिशयोत्पादो भवेदात्मनस्तदाऽतिशयस्यात्मभूतत्वादात्मनोऽपि तदव्यतिरेकेणातिशयवदनित्यता स्यात् । परभूतस्त्वतिशयो न युक्तः सम्बन्धासिद्धेरिति शतधा चर्चितमेतत् ॥ ५४६ ॥

इति कर्मफलसम्बन्धपरीक्षा ॥