०८ स्थिरभाव-परीक्षा

चलमित्येतद्विशेषणसमर्थनार्थमाह—“अथवे”त्यादि ।

अथवाऽस्थान एवायमायासः क्रियते यतः ।
क्षणभङ्गप्रसिद्ध्यैव प्रकृत्यादि निराकृतम् ॥ ३५० ॥

उक्तस्य वक्ष्यमाणस्य जात्यादेश्चाविशेषतः ।
निषेधाय ततः स्पष्टं क्षणभङ्गः प्रसाध्यते ॥ ३५१ ॥

निरवशेषपदार्थव्यापिनः क्षणभङ्गस्य प्रसाधनादेव प्रकृतीश्वरादेः परपरिकल्पितस्य सकलपदार्थराशेरेकप्रहारेणैव निरस्यमानस्यापि सतो यदिदमस्माकमतिग्रन्थविस्तरसन्दर्भेण प्रतिपदमुच्चार्य दूषणोपक्रमणं तत्केवलमायासफलमेव, स्वल्पोपायेनैव तस्य दूषितत्वादिति भावः । तथा हि—सर्वमेव प्रकृत्यादि परैरुदयानन्तरापवर्गि निरन्वयनिरोधधर्मकं वा कैश्चिन्नेष्यते । ततश्चैतत्समस्तवस्तुव्यापकक्षणभङ्गप्रसाधनेनैव निरस्तं भवतीति मन्यमानैरस्माभिरुक्तस्य प्रकृत्यादेः पुद्गलपर्यन्तस्य वक्ष्यमाणस्य च जातिगुणद्रव्यादेः शब्दार्थयोः प्रमाणप्रमेययोर्मेचकादिमणिप्रख्यचित्रस्य वस्तुनस्त्रिकालानुयायिनो भावस्य चार्वाकाद्युपगतस्य च भूतचतुष्टयस्य जैमिनीयेष्टस्य च वैदिकशब्दराशेर्निरासाय विशेषेण क्षणभङ्गः प्रसाध्यते । “स्पष्ट”मिति । तत्साधकस्य हेतोस्त्रिरूपस्य प्रदर्शनात् । अतोऽस्यामेव स्थिरभावपरीक्षायां सकलशास्त्रार्थपरिसमाप्तिर्भवतीत्युक्तं भवति ॥ ३५० ॥ ३५१॥

कथमसौ प्रसाध्यत इत्याह—“कृतकाकृतकत्वेनेत्यादि” ।

कृतकाकृतकत्वेन द्वैराश्यं कैश्चिदिष्यते ।
क्षणिकाक्षणिकत्वेन भावानामपरैर्मतम् ॥ ३५२ ॥

इह हि नैयायिकादयः क्षणिकमेकमपि वस्तु नास्तीति मन्यमानाः कृतकाकृतकत्वेन भावानां द्वैराश्यमवस्थापयन्ति । तत्र—केचित्कृतका यथा घटादयः, केचिदकृतका यथा परमाण्वाकाशादयः । अपरैस्तु वात्सीपुत्रीयादिभिः क्षणिकाक्षणिकत्वेनापि भावानां द्वैराश्यमिष्यते । तथाहि—बुद्धिशब्दार्चिःप्रभृतयस्तन्मतेन क्षणिकाः, क्षितिव्योमादयस्त्वक्षणिका इति ॥ ३५२ ॥

तदेवं दर्शनविभागेऽवस्थिते ये कृतकत्वेनाभीष्टास्तांस्तावत्पक्षीकृत्य प्रमाणमभिधीयत इति दर्शयन्नाह—तत्रेत्यादि ।

तत्र ये कृतका भावास्ते सर्वे क्षणभङ्गिनः ।
विनाशं प्रति सर्वेषामनपेक्षतया स्थितेः ॥ ३५३ ॥

विनाशं प्रति सर्वेषां हेत्वन्तरानपेक्षतया स्थितत्वादित्यनेन हि त्रिलक्षणो हेतुः सूचितस्तमेव स्पष्टयन्नाह—“यद्भावं” प्रतीत्यादि ।

यद्भावं प्रति यन्नैव हेत्वन्तरमपेक्षते ।
तत्तत्र नियतं ज्ञेयं स्वहेतुभ्यस्तथोदयात् ॥ ३५४ ॥

निर्निबन्धा हि सामग्री स्वकार्योत्पादने यथा ।
विनाशं प्रति सर्वेऽपि निरपेक्षाश्च जन्मिनः ॥ ३५५ ॥

प्रयोगः—ये यद्भावं प्रत्यनपेक्षास्ते तद्भावनियताः । यथा समनन्तरफला सामग्री स्वकार्योत्पादने नियता । विनाशं प्रत्यनपेक्षाश्च सर्वे जन्मिनः कृतका भावा इतिस्वभावहेतुः । “हेत्वन्तर”मिति । जनकाद्व्यतिरिक्तम् । नियतमित्यत्र कारणमाह—“स्वहेतुभ्य” इति । तथा—तेन नियतेन रूपेणोत्पन्नत्वादित्यर्थः । ये तु पुनर्यत्र ननियतास्ते तत्रानपेक्षा अपि न भवन्त्येव, यथा घटादयोऽपक्वाः पाकादिष्वितीदमत्र वैधर्म्येणोदाहरणम् ॥ ३५३ ॥ ३५४ ॥ ३५५ ॥

ननु चानैकान्तिको हेतुस्तथाहि—यदि नाम विनाशं प्रति हेत्वन्तरानपेक्षा भावास्तथाऽपि स्थित्वा देशान्तरे कालान्तरे च भावस्य विनाशसम्भवादुदयानन्तरापवर्गित्वमभीष्टमेषां साधयितुं न सिध्यतीत्याह—“अनपेक्षो”ऽपीत्यादि ।

अनपेक्षोऽपि यद्येष देशकालान्तरे भवेत् ।
तदपेक्षतया नैष निरपेक्षः प्रसज्यते ॥ ३५६ ॥

“एष” इति । विनाशः । “तदपेक्षतये”ति । देशकालान्तरापेक्षतया । यो हि यत्रानपेक्षः स यदि क्वचिद्भवेत्, कदाचिद्वा, तदा तद्देशकालापेक्षत्वादनपेक्ष एव न स्यादिति कुतो व्यभिचारः । तथा हि—एकदेशकालापरिहारेणान्यत्र देशकालादौ वर्त्तमानः कथमनपेक्षो नाम, यतस्तथावृत्तिरेव तस्यापेक्षा, न तु समीहा, तस्याभिप्रायशून्यत्वात् ॥ ३५६ ॥

यदि तर्हि सर्वथा निरपेक्षत्वादिति हेत्वर्थोऽभिप्रेतः, त तर्हि हेतुः सिद्धः । तथाहि —केचिद्विनाशं प्रति मुद्गरादिकमपेक्षमाणा दृश्यन्ते । यथा घटादयः । येऽपि बुद्धिशब्दादयोऽनपेक्षत्वेन प्रसिद्धास्तेऽपि यदि नाम मुद्गरादिकं नापेक्षन्ते तथाऽपि देशकालावपेक्षन्त इत्यतोऽसिद्धता हेतोरित्याशङ्क्य परिहरन्नाह—“सर्वत्रै”वेत्यादि ।

सर्वत्रैवानपेक्षाश्च विनाशे जन्मिनोऽखिलाः ।
सर्वथा नाशहेतूनां तत्राकिञ्चित्करत्वतः ॥ ३५७ ॥

सर्वत्रैवेति । सर्वस्मिन्देशकालादिके विनाशहेतौ निरपेक्षा जन्मिन इत्यर्थः । नाशहेतुत्वेनाभ्युपेतानामकिञ्चित्करत्वादनुपकारित्वात्, न चानुपकार्यपेक्षो युक्तोऽतिप्रसङ्गात् ॥ ३५७ ॥

कथमकिञ्चित्करत्वमित्याह—“तथाही”त्यादि ।

तथाहि नाशको हेतुर्न भावाव्यतिरेकिणः ।
नाशस्य कारको युक्तः स्वहेतोर्भावजन्मतः ॥ ३५८ ॥

विनाशो हि क्रियमाणः कदाचिद्वस्तु वा स्यादवस्तु वा, तत्र यदि वस्तु, तदाऽसौ विनाशहेतुना ततो विनाशहेतोर्भावादनर्थान्तरभूतो वा क्रियेत, अर्थान्तरभूतो वा । वस्तुसतो विकल्पद्वयानतिवृत्तेरुभयानुभयपक्षस्त्वयुक्त एव । वस्तुन्येकाकारत्यागपरिग्रहयोस्तदपराकारपरिग्रहत्यागनान्तरीयकत्वात् । एकस्य विधिप्रतिषेधो(भया) योगादित्युक्तम् । तत्र न तावदनर्थान्तरभूत इति पक्षः, भावस्वभावस्य स्वहेतोरेव जन्मत उत्पत्तेः । तस्यापि भाववत्तदव्यतिरेकिणो निष्पन्नत्वात् । न च निष्पन्नस्य कारणं युक्तम्, करणाविरामप्रसङ्गात् ॥ ३५८ ॥

स्यादेतन्नासौ भावः स्वहेतोः सर्वात्मना निष्पन्नोऽतः कारणान्तरतो नाशाख्यं स्वभावान्तरं लभत इत्याह—“न चानंश” इत्यादि ।

न चानंशे समुद्भूते भवात्मन्यात्महेतुतः ।
तदात्मैव विनाशोऽन्यैराधातुं पार्यते पुनः ॥ ३५९ ॥

न ह्येकस्य स्वभावद्वयमस्ति, येनांशेन निष्पत्तिः स्यात्, किं तु निरंश एव भावः स च स्वहेतोरुत्पद्यमानः सर्वात्मनैवोत्पन्न इति कथं तस्योत्तरकालं कारणान्तरैः स्वभावान्तरमाधीयेत । न हि यन्निष्पत्तौ यो न निष्पन्नः स तस्य स्वभावो युक्तः, एकयोगक्षेमलक्षणत्वादभेदस्य, तस्माद्योऽसावुत्तरकालमुत्पद्यते नाशात्मा भावः सोऽपरः स्वभावः, यश्चापरः स कथं तस्य भवेदिति यत्किञ्चिदेतत् ॥ ३५९ ॥

अथार्थान्तरभूत इति पक्षस्तत्राप्यकिञ्चित्कर एव विनाशहेतुर्भावस्येति दर्शयति —“पदार्थव्यतिरिक्त” इत्यादि ।

पदार्थव्यतिरिक्ते तु नाशनाम्नि कृते सति ।
भावे हेत्वन्तरैस्तस्य न किञ्चिदुपजायते ॥ ३६० ॥

तेनोपलम्भकार्यादि प्राग्वदेवानुषज्यते ।
तादवस्थ्याच्च नैवास्य युक्तमाचरणादपि ॥ ३६१ ॥

न ह्यन्यस्य करणेऽन्यदुपकृतं नाम, अतिप्रसङ्गात् । नापि तत्सम्बन्धिनो नाशस्य करणाद्भाव उपकृतो भवतीति युक्तं वक्तुम्, सम्बन्धासिद्धेः । तथाहि—भेदाभ्युपगमान्न तादात्म्यलक्षणः सम्बन्धः, नापि तदुत्पत्तिलक्षणः, विनाशहेतोरेव तदुत्पत्तेः, नचान्यो वास्तवः सम्बन्धोऽस्ति । सत्यपि वा सम्बन्धे भावस्यावस्थितत्वात्तथैवोपलम्भादिकार्यप्रसङ्गः । उपलम्भ एव कार्यम् । आदिशब्देन जलसन्धारणजङ्घाभङ्गादिपरिग्रहः । तेन व्यतिरिक्तेन नाशेनावृतत्वात्प्रतिबद्धत्वाद्वा नोपलम्भादिकार्यं करोतीति चेदाह—“तादवस्थ्या”दित्यादि । न हि भावस्य स्वभावातिशयमखण्डयन्ननुत्पादयन्वातस्याऽऽवारकः प्रतिबन्धको वा युक्तोऽतिप्रसङ्गात् । तंस्मा(द)त्यक्तानावृताप्रतिबद्धपूर्वस्वभावत्वात्तस्यावरणं प्रतिबन्धश्च न युज्यते ॥ ३६० ॥ ३६१ ॥

स्यादेतन्न प्राग्वदुपलब्ध्यादिप्रसङ्गः, तेन व्यतिरिक्तेन नाशेन भावस्य विनाश्यमानत्वादित्याह—“नाशनाम्ने”त्यादि ।

नाशनाम्ना पदार्थेन भावो नाश्यत इत्यसत् ।
अन्यत्वादिविकल्पानां तत्राप्यर्थानुवृत्तितः ॥ ३६२ ॥

नाशो हि भावं नाशयन्किमन्यमनन्यं वा, यद्वा प्रध्वंसलक्षणं नाशं कुर्वाणो नाशयति मुद्गरादिवदित्यत्रापि तुल्या एव विकल्पाः पुनरावर्तन्ते । तत्र चोक्तो दोषः, वक्ष्यते च “तत्रापी”ति । योऽसौ नाशनाम्नाऽपरो नाशः क्रियते तत्रापि । “अर्थानुवृत्तित” इति । अन्यत्वादिविकल्पानामनुवृत्तेरित्यर्थः । एवं तावद्वस्तुभूतो न क्रियत इति प्रतिपादितम् ॥ ३६२ ॥

नाप्यवस्तुभूत इति दर्शयन्नाह—“भावाभावात्मक” इत्यादि ।

भावाभावात्मको नाशः प्रध्वंसापरसञ्ज्ञकः ।
क्रियते चेन्न तस्यापि करणं युक्तिसङ्गतम् ॥ ३६३ ॥

अभावस्य च कार्यत्वे वस्तुनैवाङ्कुरादिवत् ।
प्रसक्ताजन्यरूपस्य हेतुशक्त्या समुद्भवात् ॥ ३६४ ॥

भावस्य हि करणं भवति नाभावस्य, निमित्तीकर्त्तव्यसकलस्वभावविरहलक्षणत्वान्नकिञ्चिदुत्पाद्यं रूपमस्ति । अतो भावाभावात्मकः—भावनिषेधात्मको नाशो न केनचित्क्रियते, अवस्तुत्वात्, खरविषाणवत् । अन्यथा हि कार्यत्वादङ्कुरादिवद्वस्तुत्वमेवस्यात् । प्रयोगः—यत्कार्यं तदुस्तु यथाऽङ्कुरादयः, कार्यश्च नाश इति स्वभावहेतुः । व्याप्तिमस्य साधयन्नाह—“हेतुशक्त्या समुद्भवादिति” । तदेव हि कार्यमुच्यते । यत्कारणशक्त्या विशिष्टमात्मातिशयमासादयति । समासादितात्मातिशयमेव च वस्तु । अत्र चार्थे नैयायिकादेरप्यविवादः । तथाहि—सत्तासमवायः स्वकारणसमवायो वा कार्यत्वमुच्यते । न च नाशे सत्तासमवायः स्वकारणसमवायो वा, तस्य द्रव्यादिवदस्तित्वाश्रयत्वप्रसङ्गात् ॥ ३६३ ॥ ३६४ ॥

यद्येवं भवतु वस्तुत्वं नाशस्य तत्र को दोष इत्याह—“विधिनैव”मित्यादि ।

विधिनैवमभावश्च पर्युदासाश्रयात्कृतः ।
यस्तत्र व्यतिरेकादिविकल्पो वर्त्तते पुनः ॥ ३६५ ॥

कथं पुनरभावस्य विधिना करणमित्याकाङ्क्षायामिदमुक्तम्—“पर्युदासाश्रया”दिति ।“पर्युदासस्या”श्रयणादित्यर्थः । विवक्षावशाद्धि कुतश्चन भावाद्विलक्षणो भाव एवाभाव इत्याख्यायते, तत्र च व्यतिरेकादिविकल्पे प्राक्तनो दोषः पुनरावर्त्तते ॥ ३६५ ॥

अथैतद्दोषभयान्न पर्युदासात्मकोऽभावो विनाशहेतुभिः क्रियते, किं तर्हि? प्रसज्य(प्रतिषेधा)त्मक इत्यङ्गीक्रियते । तत्रापि विनाशहेतोः स्फुटतरमेवाकिञ्चित्करत्वम्प्रतिपादितमिति दर्शयन्नाह—“अथे”त्यादि ।

अथ क्रियानिषेधोऽयं भावं नैव करोति हि ।
तथाप्यहेतुता सिद्धा कर्तुर्हेतुत्वहानितः ॥ ३६६ ॥

तथाहि—प्रसज्यप्रतिषेधे सति नञः करोतिना सम्बन्धादभावं करोति भावं न करोतीति क्रियाप्रतिषेधादकर्तृत्वं नाशहेतोः प्रतिपादितं भवेत्, यश्चाकर्त्ता स कथं हेतुः स्यादित्यतो न विनाशहेतुः कश्चित् ॥ ३६६ ॥

अत्राविद्धकर्णोक्तानि विनाशस्य हेतुमत्वसाधने प्रमाणानि निर्दिदिक्षुराह—“नन्वि”त्यादि ।

ननु नैव विनाशोऽयं सत्ताकालेऽस्ति वस्तुनः ।
न पूर्वं न चिरात्पश्चाद्वस्तुनोऽनन्तरं त्वसौ ॥ ३६७ ॥

एवं च हेतुमानेष युक्तो नियतकालतः ।
कादाचित्कत्वयोगो हि निरपेक्षे निराकृतः ॥ ३६८ ॥

तथाहि न वस्तुनः सत्ताकाले निनाशः क्षणमात्रावस्थायिनोऽप्यभावप्रसङ्गात्, नाप्युत्पादात्पूर्वम्, अजातस्य विनाशायोगात्, न हि वन्ध्यापुत्रादयोऽनुत्पन्ना एव विनश्यन्ति, पश्चादपि भवन्नचिराद्भवति, तृतीयादिषु क्षणेषु विनष्टस्य पुनर्विनाशायोगात्, भस्मीकृतज्वलनवत्, किन्तु वस्त्वनन्तरं द्वितीये क्षणे विनाशः । ततश्चनियतकालत्वाद्धेतुमान्विनाशोऽङ्कुरादिवदिति सिद्धम् । “नियतकालत” इति । कादाञ्चित्कत्वादित्यर्थः । व्याप्तिमस्य साधयन्नाह—“कादाचित्कत्वयोगो” हीत्यादि । नह्यनपेक्षे कादाचित्कत्वं युक्तम्, नित्यं सत्त्वादिप्रसङ्गात् । तस्मात्कादाचित्कत्वात्सिद्धमस्य सहेतुत्वम् ॥ ३६८ ॥

इतोऽपि सिद्धमिति दर्शयति—“वस्त्वनन्तरभावाच्चे”त्यादि ।

वस्त्वनन्तरभावाच्च हेतुमानेव युज्यते ।
अभूत्वाभावतश्चापि यथैवान्यः क्षणो मतः ॥ ३६९ ॥

तदेवमेते त्रयो हेतव उक्ताः । सहेतुको विनाशः, कादाचित्कत्वात्, वस्तूत्पत्त्यनन्तरभावित्वेन बौद्धैरभ्युपगम्यमानत्वात्, प्रागभूत्वाऽऽत्मलाभाच्च; क्षणान्तरवत् । वैधर्म्येण शशविषाणादय इति ॥ ३६९ ॥

उद्योतकरोक्तामपि युक्तिमाह—“अहेतुक”त्वादित्यादि ।

अहेतुकत्वात्किञ्चायमसन्वन्ध्यासुतादिवत् ।
अथवाऽऽकाशवन्नित्यो न प्रकारान्तरं यतः ॥ ३७० ॥

असत्त्वे सर्वभावानां नित्यत्वं स्यादनाशतः ।
सर्वसंस्कारनाशित्वप्रत्ययश्चानिमित्तकः ॥ ३७१ ॥

नित्यत्वेऽपि सह स्थानं विनाशेनाविरोधतः ।
अजातस्य च नाशोक्तिर्नैव युक्त्यनुपातिनी ॥ ३७२ ॥

स ह्येवमाह—विनाशस्य हेतुर्नास्तीति ब्रुवाणः पर्यनुयोज्यः । किमकारणत्वाद्विनाशो नास्ति व्योमोत्पलादिवत्, अथाकारणत्वान्नत्यो व्योमादिवदिति । भवतां हि पक्षे अकारणं द्विधा दृष्टं नित्यमसच्च, न हि सत्त्वासत्त्वव्यतिरेकेण प्रकारान्तरमस्ति । तत्र यद्यकारणत्वादसत् विनाशः, तदा सर्वभावानां नित्यत्वप्रसङ्गः, विनाशाभावात् । किञ्च सर्वसंस्कारा विनश्यन्तीत्येष प्रत्ययो निर्निमित्तः प्राप्नोति, न ह्यसत्यां गतौ गच्छतीति भवति । अथ नित्यः, तदा भावस्य विनाशेन सहावस्थानं प्राप्नोति, सर्वदाऽवस्थानात् । न चैतद्युक्तं भावाभावयोः परस्परपरिहारस्थितलक्षणत्वात् । अथ सहावस्थानं नेष्यते, तदा कार्यस्योत्पादो न प्राप्नोति, तत्प्रत्यनीकभूतस्य नाशस्य सदाऽवस्थितत्वात् । ततश्चाजातस्य विनाशोऽपि न सङ्गच्छते, न ह्यजाताःशशविषाणादयो विनश्यन्तीति लोके प्रतीतम्, तेनाजातस्य विनाश इति वचनं नैव युक्त्यनुपाति ॥ ३७० ॥ ३७१ ॥ ३७२ ॥

“तदत्रे”त्यादिना सर्वं प्रतिविधत्ते—

तदत्र कतमं नाशं परे पर्यनुयुञ्जते ।
किं क्षणस्थितिधर्माणं भावमेव तथोदितम् ।

अथ भावस्वरूपस्य निवृत्तिं ध्वंससञ्ज्ञिताम् ।
पूर्वपर्युनुयोगे हि नैव किञ्चिद्विरुध्यते ॥ ३७४ ॥

द्विविधो हि विनाशो विधेः प्रतिषेधलक्षणः । तथाहि—क्षणस्थितिधर्मा भाव एव चलो विनश्यतीति कृत्वा विनाश इत्याख्यायते । यद्वा भावस्वभावप्रच्युतिलक्षणप्रध्वंसापरनामा विनशनं विनाश इति । तत्र पूर्वस्मिन्नाशे यद्ययं हेतुमत्वसाधनपर्यनुयोगः क्रियते यथोक्तैर्हेतुभिः, तदा सिद्धसाध्यता ॥ ३७३ ॥ ३७४ ॥

तामेव सिद्धसाध्यतां “यो ही”त्यादिना दर्शयति—

यो हि भावः क्षणस्थायी विनाश इति गीयते ।
तं हेतुमन्तमिच्छामः पराभावात्त्वहेतुकम् ॥ ३७५ ॥

यद्येवं कथमहेतुको विनाशो भवतां प्रतीत इत्याह—“पराभावात्त्वहेतुकमिति” । परस्य स्वकारणव्यतिरिक्तस्योत्तरकालं मुद्गरादेर्नाशकस्याभावादहेतुकमिच्छाम इति प्रकृतेन सम्बन्धः ॥ ३७५ ॥

अत्र चैवम्भूते विनाशे धर्मिणि कादाचित्कत्वात्प्रागभूत्वाऽऽत्मलाभादितीमौ हेतू सिद्धौ । वस्त्वनन्तरभावित्वमपि यदि सामान्येन विवक्षितं तदा सिद्धमेव, कारणभूतवस्त्वनन्तरमस्य भावप्रसिद्धेः । अथात्मभूतविनश्वरवस्त्वनन्तरभावित्वमस्य विवक्षितं तदा हेतुरसिद्ध इति दर्शयति—“वस्त्वनन्तरभावित्वमि”त्यादि ।

वस्त्वनन्तरभावित्वं न तत्र त्वस्ति तादृशि ।
चलभावस्वरूपस्य भावेनैव सहोदयात् ॥ ३७६ ॥

“तादृशी”ति चलवस्तुस्वभावाव्यतिरेकिणि । न हि निरंशवस्तुनो भागोऽस्ति येन तदनन्तरभावित्वमस्य भवेत् । तत्स्वभाववत्तदव्यतिरेकिणो नाशस्य तन्निष्पत्तावेव निष्पन्नत्वात् । अन्यथा तत्स्वभावत्वमेव तस्य न स्यादित्युक्तम् ॥ ३७६ ॥

यच्चोक्तं “सर्वसंस्कारनाशित्वप्रत्ययश्चानिमित्तक"इति, तदप्यत एव प्रतिक्षिप्तमिति दर्शयति—“अत” इति ।

अतो विनाशसद्भावान्न नित्याः सर्वसंस्कृताः ।
न विनाशीतिबुद्धिश्च निर्निमित्ता प्रसज्यते ॥ ३७७ ॥

यत एव हि क्षणस्थितिधर्माणः पदार्थास्तथाऽध्यवसीयमानतनवस्तस्या बुद्धेर्निमित्तमतो नानिमित्तत्वप्रसङ्गः ॥ ३७७ ॥

अथ प्रध्वंसलक्षणो विनाशो धर्म्यभिप्रेतस्तदा त्रयोऽपि हेतवोऽसिद्धा इति दर्शयति—“प्रध्वंसस्ये”त्यादि ।

प्रध्वंसस्य तु नैरात्म्यान्नास्त्यनन्तरभाविता ।
नाभूत्वाभावयोगस्य गगनेन्दीवरादिवत् ॥ ३७८ ॥

वस्तुन्येव ह्यनन्तरभावित्वादयो धर्माः समाश्रिता नावस्तुनि यथा शशविषाणादौ, प्रध्वंसश्च निरात्मा—निःस्वभावः, तत्कथमस्यानन्तरभावित्वादयः सम्भवेयुः । “नाभूत्वा भावयोगश्चे”ति । चकारात्कादाचित्कत्वपरिग्रहः ॥ ३७८ ॥

यद्येवम्—यदि ध्वंसस्यानन्तरभावित्वं नास्ति, तदा भावस्य ध्वंसो भवतीति (कथम्) । न हि यो न भवत्येव तस्य भवतीति स्यादित्याशङ्क्याह—“प्रध्वंस” इत्यादि ।

प्रध्वंसो भवतीत्येव न भावो भवतीत्ययम् ।
अर्थः प्रत्याय्यते त्वत्र न विधिः कस्यचिन्मतः ॥ ३७९ ॥

यद्यपि ध्वंसो विधीयमानतया निर्दिश्यते, तथाऽपि भावनिषेध एव प्रतीयते, न परमार्थतः कस्यचिद्वस्तुरूपस्य विधिः ॥ ३७९ ॥

ननु चैत्रस्य पुत्रो भवतीत्यादिवद्भवतिशब्दप्रयोगादत्रापि भवनमेव विधीयत इत्याह—“न ही”त्यादि ।

न हि बालेय इत्येवन्नाममात्रे कृते क्वचित् ।
सर्वो रासभधर्मोऽस्मिन्प्रसक्तिं लभते नरे ॥ ३८० ॥

न हि वस्तूनां शब्दप्रयोगमात्रानुविधायिनी सदसत्त्वे, तस्येच्छामात्रप्रतिबद्धप्रवृत्तित्वात् । अन्यथा हि क्वचित्पुंसि केनचिदिच्छावशाद्बालेय इति नाम्नि निवेशिते सर्वस्य गर्दभधर्मस्य तत्र प्रसङ्गः स्यात् । बालेयरासभशब्दौ गर्दभपर्यायौ ॥ ३८० ॥

अवश्यं चैतद्विज्ञेयम्, यदुत वस्तुस्वभावनिषेध एव न तु किञ्चिद्विधीयत इति—

ध्वंसनाम्नः पदार्थस्य विधाने पुनरस्य न ।
वस्तुनो जायते किञ्चिदित्येतत्किं निवर्त्तते ॥ ३८१ ॥

अन्यथआ ध्वंसाख्यस्य पदार्थान्तरस्य विधाने सति न किञ्चिद्वस्तुनो जातमिति तद्वस्तु किमिति निवर्त्तते ॥ ३८१ ॥

यच्चोक्तमसत्वे सर्वभावानामित्यादि, तत्राह—“भावध्वंसात्मनश्चैव”मित्यादि ।

भावध्वंसात्मनश्चैवं नाशस्यासत्त्वमिष्यते ।
वस्तुरूपवियोगेन न भावाभावरूपतः ॥ ३८२ ॥

“एव”मिति । वस्तुस्वभाववियोगरूपत्वात्, न तु भावस्वभावस्य सतः “स्वरूपनि”वृत्तेरसत्त्वम्, तत्कथं सर्वभावानां नित्यत्वं स्यात्, यदि हि स्वभावनिषेधलक्षणो विनाशस्तेषामसन् स्यात्तदा नित्यत्वमेषां स्यात् । यावता स्वभावनिषेधलक्षणो नाशः स्वयमसद्रूपस्तेषामस्त्येवेति कथं नित्या भवेयुः । सर्वसंस्कारनाशित्वप्रत्ययस्य तु निमित्तमभिहितमेव ॥ ३८२ ॥

यच्चोक्तं नित्यत्वेऽपि सहस्थानमित्यादि, तत्राह—“निवृत्तिरूपते”त्यादि ।

निवृत्तिरूपताऽप्यस्मिन्विधिना नाभिधीयते ।
वस्तुरूपानुवृत्तिश्च क्षणादूर्ध्वं निषिध्यते ॥ ३८३ ॥

अतो व्यवस्थितं रूपं विहितं नास्य किञ्चन ।
इति नित्यविकल्पोऽस्मिन्क्रियमाणो निरास्पदः ॥ ३८४ ॥

निवृत्तिर्भवतीत्यनेनापि वचनेनास्मिन्प्रध्वंसे विधिरूपेण निवृत्तिरूपता नाभिधीयते, यतो नास्य विधेयं किञ्चिद्रूपमस्ति । किं तर्हि? वस्तुस्वरूपस्य क्षणादूर्ध्वं स्वभावानुवृत्तिर्निषिध्यते । तस्मादयमेकान्तेनाभावरूप एवेति नित्यविकल्पोऽनास्पद एव, निःस्वभावत्वादेव सदा व्यवस्थितरूपायोगात् । स्वभावप्रतिबद्धत्वान्नित्यानित्यस्वभावप्रतिबद्धधर्मयोः । यच्चोक्तमकारणं भवतां द्विधा नित्यमसच्चेति तत्परसिद्धान्तानभिज्ञतया, यतो न्यायवादिनां बौद्धानामकारणमसदेव । यथोक्तं भगवता—सधर्मेषुधर्मानुदर्शी विहरन् बोधिसत्त्वोऽणुमपि धर्मं न समनुपश्यति । यः प्रतीत्य समुत्पादविनिर्मुक्त इति । ये च वैभाषिकाः आकाशादिवस्तु सत्त्वेन कल्पयन्ति ते युष्मत्पक्षएव निक्षिप्ता न शाक्यपुत्रीया इति न तन्मतोपन्यासो द्यायात् । एवं नाशहेतूनांसर्वेषामकिञ्चित्करत्वान्नासिद्धता हेतोः । इतश्च नाशहेतूनामकिञ्चित्करत्वं वक्तव्यम् । तथाहि—भावः स्वहेतोरुत्पद्यमानः कदाचित्प्रकृत्या स्वयं नश्वरात्मैवोत्पद्यते, अनश्वरात्मा वा । यदि नश्वरस्तस्य न किञ्चिन्नाशहेतुता, स्वयं तत्स्वभावतयैव नाशात् । यो हि यस्य स्वभावः स स्वहेतोरेवोत्पद्यमानस्तादृशो भवति न पुनस्तद्भावे हेत्वन्तरमपेक्षते । यथा प्रकाशद्रवोष्णकठिनादयस्तदात्मान उत्पन्ना न पुनः प्रकाशादिभावहेत्वन्तरमपेक्षन्ते । स्यादेतत्—यथा बीजादयोऽङ्कुरादिजननस्वभावाः सन्तोऽपि न केवला जनयन्ति सलिलादिकारणान्तरापेक्षत्वात्, तद्वद्भावोऽनश्वरस्वभावोऽपि नाशे कारणान्तरापेक्षो भविष्यतीति । तदेतदसम्यक् । अन्त्यावस्थाप्राप्तस्यैव जनकस्वभावत्वाभ्युपगमात्, नान्यस्य । तेन योऽसौ तत्स्वभावः स जनयत्येव, नासौ परमपेक्षते । यस्तु कुशूलादिस्थो न जनयति नासौ तत्स्वभावः । कारणकारणत्वात्तु तस्यापि कारणव्यपदेशो न मुख्यत इति नास्ति व्यभिचारः । अथानश्वरात्मेति पक्षस्तदापि नाशहेतुरकिञ्चित्कर एव । तस्य केनचित्स्वभावान्यथाभावस्य कर्तुमशक्यत्वात् । तथाहि । यदि स्वभाव उत्पादानन्तरं न विनश्येत्तदा पश्चादपि स एव तस्य स्थितिधर्मा स्वभावस्तदवस्थ इति किं नाशहेतुना तस्य कृतम्, येन विनश्येत । अथापि स्यात्—यथा ताम्रादीनां कठिनरूपाणामपि सतामग्न्यादिसम्पर्कादन्यथात्वं भवति । तथा भावस्याविनश्वरस्वभावस्यापि सतो विनाशहेतुनाऽन्यथात्वं क्रियते । तेन विनाशहेतुं प्राप्य विनश्यतीति । तदेतदसम्यक् । न हि स एवान्यथा भवति । स्वभावान्तरोत्पत्तिलक्षणत्वादन्यथात्वस्य । तथाहि—यत्तदन्यथात्वं नाम तत्किं भावादर्थान्तरमाहोस्विद्भाव एव, न तावद्भाव एव, तस्य स्वहेतोरेव पूर्वं निष्पन्नत्वात् । अथार्थान्तरम्, तथा सति भावोऽच्युतिधर्मा तथैवावस्थित इति न तस्यान्यथाभावः । ताम्रादिदृष्टान्तोऽप्यसिद्ध एव तथाहि—ताम्रादीनां पूर्वकस्य कठिनादिक्षणस्य स्वरसनिरोधित्वाद्विनाशे सत्यदग्न्यादेः सहकारिकारणान्तरात्स्वोपादानकारणाच्च सामग्र्यन्तराद्द्रवाख्यमपरमेव स्वभावान्तरमुत्पद्यते । पुनरपि द्रवादिस्वभावस्य स्वरसनिरोधितया विनाशे सति सहकारिकारणान्तरात्स्वोपादानकारणाच्च काठिन्याख्यमपरमेव स्वभावान्तरमुत्पद्यत इति नैकस्यान्यथात्वमस्ति । तस्मात्सर्वथाऽप्यकिञ्चित्कर एव नाशहेतुरिति नासिद्धो हेतुः । नचापि विरुद्धः, स्वपक्षे भावात् । नचाप्यनैकान्तिकः, पूर्वं प्रसाधितत्वात् । स्यादेतत्—यथाऽऽकाशं मूर्त्तत्वाय न परमपेक्षते अथ च तत्र नियतं न भवति, तद्वद्भावः कृतकोऽपि सन्कश्चिन्नैव नाशे नियतो भविष्यतीति । तदेतदसम्यक् । नहि स कश्चित्कृतकोऽस्ति यः परेणानित्यो नेष्यते । हेतुमतः सर्वस्यानित्यत्वाभ्युपगमात् । त एव चेह पक्षीकृता नान्य इति कृतोऽऽनैकान्तिकता । ये तु पुनः कृतका अपि सन्तो नित्या एव भविष्यन्तीत्यविनाशितयेति सम्भाव्यन्तेते परमार्थतोऽकृतकराश्यन्तर्गता एवेति तन्निराकरणादेव तन्निराक्रिया बोद्धव्येत्यदोषः । नाप्याकाशादेर्मूर्त्तत्वादिधर्मं प्रत्यनपेक्षा सिद्धा, यस्य हि यो धर्मो नास्ति स तं प्रति सापेक्ष एव, न हि प्राप्तं धर्मं प्रति काचिदपेक्षा भावानां व्यवस्थाप्यते, किं तर्हि ? अप्राप्तमेवेत्यसिद्धो दृष्टान्तः ॥ ३८४ ॥

इदानीमकृतकराशिमधिकृत्याह—“ये त्वि”त्यादि ।

ये तु व्योमादयो भावा अकृतत्वेन सम्मताः ।
वस्तुवृत्त्या न सन्त्येव ते च शक्तिवियोगतः ॥ ३८५ ॥

क्षणिकाक्षणिकत्वादिविकल्पस्तेष्वनास्पदः ।
तदा वस्त्वेव येन स्यात्क्षणिकं यदिवान्यथा ॥ ३८६ ॥

यदि हि व्योमादयो भावाः सिद्धसत्ताकाः स्युस्तदा तेषु क्षणिकत्वादिधर्मचिन्ताऽवतरेत्, न हि धर्माणां स्वातन्त्र्येण सिद्धिरस्ति, अन्यथा हि धर्मत्वमेव तेषां हीयते । न चाकाशादयोऽकृतका धर्मिणस्तेषां सर्वसामर्थ्यविरहित्वेन वन्ध्यापुत्रवदस द्व्यवहारविषयत्वात् । प्रयोगः—यत्सर्वसामर्थ्यशून्यं तदवस्तु, यथा वन्ध्यापुत्रः, सर्वसामर्थ्यशून्यं चाकाशादीति स्वभावहेतुः । वस्तुतो व्यापकानुपलब्धिर्वा । न चानैकान्तिको हेतुः, एतावन्मात्रनिबन्धनत्वादसद्व्यवहारस्य नाप्यसिद्धिरिति पश्चात्प्रतिपादयिष्यामः । सपक्षे भावान्नापि विरुद्धः॥ ३८५ ॥ ३८६ ॥

कस्मात्पुनरवस्तुनि क्षणिकाक्षणिकविकल्पो नावतरतीत्याह—“क्षणावस्थितरूपं ही”त्यादि ।

क्षणावस्थितरूपं हि वस्तु क्षणिकमुच्यते ।
स्थिररूपसमाक्रान्तं वस्त्वेवाक्षणिकं पुनः ॥ ३८७ ॥

सुबोधम् ॥ ३८७ ॥

उद्योतकरस्त्वाह—क्षणिक इति मत्वर्थीयानुपपत्तिः, तथाहि—यदि निरुक्तन्यायेन क्षयः क्षणः सोऽस्यास्तीति क्षणिक इति बोध्यते, तन्न युक्तं कालभेदात्, यदा हि क्षयो न तदा क्षयीति भिन्नकालयोर्न मत्वर्थीयो दृष्टः । अथ पुनर्भावानन्तरविनाशेन विशिष्यमाणः क्षण इत्युच्यते । तदाऽपि स तेनैव तद्वान्न भवतीति न युक्तो मत्वर्थीयः । अथ क्षणस्थितिकालाः क्षणिकाः, सर्वान्त्यो हि कालः क्षणस्तं येऽवतिष्ठन्ते ते क्षणिकाः । एतदपि न युक्तम् । सञ्ज्ञामात्रेण कालस्याभ्युपगमात्, न चसञ्ज्ञामात्रं वस्तुविशेषणत्वेन युक्तमिति । तत्राह—“उत्पादानन्तरास्थायी”त्यादि ।

उत्पादानन्तरास्थायि स्वरूपं यच्च वस्तुनः ।
तदुच्यतेः क्षणः सोऽस्ति यस्य तत्क्षणिकं मतम् ॥ ३८८ ॥

उत्पादानन्तरविनाशिस्वभावो वस्तुनः क्षण उच्यते, स यस्यास्ति स क्षणिक इति । तथाचोक्तम्—आत्मलाभानन्तरविनाशी क्षणः स यस्यास्ति स क्षणिक इति ॥ ३८८ ॥

नन्वेवमपि स्वभावस्यानर्थान्तरत्वात्सोऽस्यास्तीति व्यतिरेकनिबन्धनः प्रत्ययो नोपपद्यत इत्याह—“असत्यपी”त्यादि ।

असत्यप्यर्थभेदे च सोऽस्त्यस्येति न बाध्यते ।
इच्छारचितसङ्केतमात्रभावि हि वाचकम् ॥ ३८९ ॥

यथा स्वस्य स्वभावः, शिलापुत्रकस्य शरीरम्, इत्यादावसत्यपि वास्तवे भेदे बुद्धिपरिकल्पितं भेदमाश्रित्य व्यतिरेकषष्ठीविभक्तिर्भवति तथेहापि भविष्यति, न हि वस्तुस्वभावानुविधायिन्यो वाचः । किं तर्हि ? वक्तुरिच्छामनुविदधते ॥ ३८९ ॥

अपिच—यावत्यर्थे यावानेव वक्तृभिर्विनियुज्यते ध्वनिः स तावानेव तमर्थं सङ्केतवशात्प्रत्याययति न तु परमार्थतः प्रकृतिः प्रत्यययो वाऽस्ति । क्षणिक इति चायं शब्द उत्पादानन्तरास्थायिनि वस्तुमात्रे नियुक्तो विद्वद्भिः । तत्र चैवम्भूते वस्तुनि क्षणिकशब्देन विवक्षिते क्षणिकः शब्दः सप्रत्ययो वा प्रयुज्यतां प्रत्ययरहितो वेति नात्रास्माकमिच्छामात्रानुरोधिनि साङ्केतिके वचस्यत्यादर इत्येतद्दर्शयति—“उदयानन्तरास्थायी”त्यादि ।

उदयानन्तरास्थायि वस्त्वेवं तु विवक्षितम् ।
तत्र सप्रत्ययः शब्दोऽप्रत्ययो वा प्रयुज्यताम् ॥ ३९० ॥

“एव”मिति । क्षणिकमित्यनेन । सह प्रत्ययेन मत्वर्थीयेन वर्त्तत इति सप्रत्ययः ॥ ३९० ॥

एवं व्योमादीनामकृतकत्वाभ्युपगमे सति नियमेनासद्व्यवहारविषयतैवेति प्रतिपादितम्, इदानीं सत्त्वाभ्युपगमे तु क्षणिकत्वमेवैषां प्रसज्यत इति साधनयन्नाह—“यदि त्वि”त्यादि ।

यदि तु व्योमकालाद्याः सन्तः स्युस्ते तथासति ।
नातिक्रामन्ति तेऽप्येनं क्षणभङ्गं कृता इव ॥ ३९१ ॥

“कृता” इवेति । कृतका इवेत्यर्थः । एतेन सत्त्वादित्ययं हेतुः सूचितः ॥ ३९१ ॥

तमेव स्पष्टीकुर्वन्नाह—“तथाही”त्यादि ।

तथाहि सन्तो ये नाम ते सर्वे क्षणभङ्गिनः ।
तद्यथासंस्कृता भावास्तथासिद्धा अनन्तरम् ॥ ३९२ ॥

सन्तश्चामी त्वयेष्यन्ते व्योमकालेश्वरादयः ।
क्षणिकत्ववियोगे तु न सत्तेषां प्रसज्यते ॥ ३९३ ॥

क्रमेण युगपच्चापि यस्मादर्थक्रिया कृता ।
न भवन्ति स्थिरा भावा निःसत्वास्ते ततो मताः ॥ ३९४ ॥

प्रयोगः—यत्सत्तत्सर्वं क्षणिकम्, यथा समनन्तरं प्रतिपादिताः क्षणिकाः पदार्थाः, सन्तश्च भवता व्योमादयो भावा इष्यन्ते, इति स्वभावहेतुः । “तथासिद्धा” इति । क्षणिकत्वेन । एतेन न साध्यविकलता दृष्टान्तस्याशङ्कनीया, प्रसाधितत्वादिति दर्शयति । त्वयेष्यन्त इत्यनेन प्रसङ्गसाधनमेतदिति दर्शयति । अन्यथा हेतोरन्यतरासिद्धता स्यात् । कथं पुनरस्य हेतोर्व्याप्तिः सिद्धेत्याह—“क्षणिकत्व” “वियोगे” त्वित्यादि । अर्थक्रियासामर्थ्यलक्षणमिह सत्त्वं हेतुत्वेनेष्टम्, तच्च क्षणिकत्वनिवृत्तौ निवर्त्तते । तथाहि—भावा अर्थक्रियां कुर्वन्तिः क्रमेण वा कुर्वीरन्यौगपद्येन वा, न हि क्रमयौगपद्याभ्यामन्यः प्रकारः सम्भवति, तयोरन्योन्यव्यवच्छेदरूपत्वात् । एतच्च प्रत्यक्षत एव प्रसिद्धम् । तथाहि—घटो मधूदकादींस्तदन्यद्रव्यव्यतिभिन्नान्क्रमेणाहरन्स्वज्ञानोदकाहरणे न च यौगपद्येन कुर्वन्प्रत्यक्षेणैव परिच्छिद्यते । तत्रयान्कार्यभेदान्क्रमेणाहरन्समुपलभ्यते घटः, कुलालो वा शरावोदञ्चनादीन्, न तदैव तान्यौगपद्येन जनयितुं समर्थः । घटो वा स्वविषये ज्ञानादीन्यौगपद्येन जनयन्नुपलभ्यते, न तदैव तान्क्रमेणेति प्रत्यक्षावसितमेतत्सर्वम् । अतः क्रमस्य यौगपद्यव्यवच्छेदेनैव परिच्छेदाद्यौगपद्यस्य च क्रमव्यवच्छेदेनैवेत्येकप्रमाणवृत्तिर्द्वयोरन्यतरत्परिच्छिन्दती ततः परं प्रतियोगिनं व्यवच्छिनन्ति, प्रकारान्तराभावं च सूचयतीति,प्रत्यक्षप्रमाणावसित एवानयोरन्योन्यवृत्तिपरिहारस्थितलक्षणो विरोधः । तेन तृतीयस्याभावात्क्रमयौगपद्याभ्यामर्थक्रिया व्याप्ता । सा च स्थिरेषु भावेषु स्वव्यापकनिवृत्तौ निवर्त्तमाना तल्लक्षणं सत्त्वं निवर्त्तयतीति सिद्धा व्याप्तिः । न चैतच्छक्यं वक्तुम्, क्रमयौगपद्ये एव भावानां न सिद्धे व्यतिरिक्तकालपदार्थानभ्युपगमादिति । न हि वयं भावानामर्थान्तरभूतकालपदार्थकृतं क्रमयौगपद्यं ब्रूमः । किं तर्हि ? तथातथोत्पादकृतम् । तथाहि—यदि चैकः सत्तामनुभवति तदैव यदा परे तद्वदेव तामनुभवन्ति, त एवं सर्वे तथोत्पद्यमाना अक्रमव्यपदेशनिबन्धनं भवन्ति ।तद्यथा—समग्रसामग्रीका बहवोऽङ्कुराः समुत्पद्यमानाः । विपर्ययात्क्रमव्यपदेशभाजो यथाऽङ्कुरकाण्डपत्रादयः । एते च प्रत्यक्षत एव सिद्धास्तथैव च व्यपदिश्यन्ते जनैः । तथाभूतपदार्थविषयोऽपि कारणव्यापारस्तद्विषयक्रमयौगपद्याभ्यां व्यपदिश्यत इत्यचोद्यमेतत् । “ननु” च यदि स्थिरो भावः सिद्धो भवेत्तदा तत्र क्रमयौगपद्यनिवृत्तौ सत्यामर्थक्रियायाः सामर्थ्यनिवृत्तिः सिद्ध्येत् । यथा क्वचित्प्रदेशे धर्मिणि वृक्षनिवृत्तौ शिंशपानिवृत्तिः । अन्यथा ह्यसिद्धे प्रदेशधर्मिणि कुत्र शिंशपाऽभावः प्रतीयते । न चासौ सिद्धस्तस्यैव प्रतिषेद्धुमिष्टत्वात् । अथापि सिद्धोऽङ्गीक्रियते, न तर्हि तस्य प्रतिक्षेपो युक्तः, तस्य धर्मिणः स्वरूपेण सिद्ध्यभ्युपगमात् । ततश्च सत्त्वादिभ्य(इत्य)यमप्यनैकान्तिक एव हेतुः विपक्षे वृत्तेरिति । “नैतदस्ति” । न ह्यस्माभिः स्वातन्त्र्येण प्रमाणतया व्यतिरेकसाधिन्या अस्या व्यापकानुपलब्धेः प्रयोगः क्रियते । किं तर्हि ? प्रसङ्गापादनं परं प्रति क्रियते । यदि भवता तेषां स्थिररूपताऽङ्गी क्रियते तदाऽर्थक्रियासामर्थ्यमपि नाङ्गीकर्त्तव्यम्, तत्र क्रमयौगपद्ययोगस्य तद्वयापकस्याभावात् । नहि व्यापकनिवृत्तौ व्याप्यमवस्थातुमुत्सहते । अन्यथा व्याप्यव्यापकभाव एव तयोर्न स्यात् । ततश्चार्थक्रियासामर्थ्यनिवृत्तौ सत्वमपि तेषां नाङ्गीकर्त्तव्यम्, अर्थक्रियासामर्थ्यलक्षणत्वात्सत्वस्येति । अनेनोपायेन तेषामभाव एव प्रतिपाद्यते । न चापि वैधर्म्यदृष्टान्तेऽवश्यं वस्तुभूतो धर्म्याश्रयणीयः, तत्र साध्यनिवृत्तौ साधननिवृत्तिमात्रस्य साधयितुमिष्टत्वात् । तच्च व्याप्यव्यापकभूतयोर्धर्मयोर्व्याप्यव्यापकभावसिद्धौ सत्यां धर्मिविशेषपरिग्रहमन्तरेणैव सामान्येन व्यापकाभावे व्याप्यमपि न भवतीति वचनमात्रादेव प्रतीयते । यथा वृक्षाभावे शिंशपा न भवतीति यथोक्तम्—तस्माद्वैधर्म्यदृष्टान्ते नेष्टोऽवश्यमिहाश्रयः । तदभावे(तु) तन्नेति वचनादपि तद्गतेः ॥ इति ॥ ३९२ ॥ ३९३ ॥ ३९४ ॥

न तावत्स्थिरस्य भावस्य क्रमेणार्थक्रिया युक्तेति दर्शयति—“कार्याणी”त्यादि ।

कार्याणि हि विलम्बन्ते कारणासन्निधानतः ।
समर्थहेतुसद्भावे क्षेपस्तेषां हि किङ्कृतः ॥ ३९५॥

नहि कार्यस्य स्वेच्छया भवनमभवनं वा, किन्तु कारणसदसत्तानुविधायिनी तस्य सदसत्त्वे । तत्र यद्यसौ स्थिरैकरूपो भावः सर्वदा सर्वकार्याणां हेतुभावेनावस्थितस्तदा किमिति तत्सत्तामात्राकाङ्क्षीणि सकृदेव सर्वाणि नोत्पद्यन्ते, येन क्रमेण भवेयुः । “क्षेप” इति । परिविलम्बः । तेन पाश्चात्यमपि तदीयं कार्यं प्रागेव भवेत् । अप्रतिबद्धसामर्थ्यकारणत्वादभिमतकार्यवदिति भावः ॥ ३९५ ॥

“अथापी”त्यादिना परस्योत्तरमाशङ्कते ।

अथापि सन्ति नित्यस्य क्रमिणः सहकारिणः ।
यानपेक्ष्य करोत्येष कार्यग्रामं क्रमाश्रयम् ॥ ३९६ ॥

यद्यपि स्थिरः पदार्थः सर्वदा सन्निहितस्तथापि क्रमेण सहकारीणि तस्य सन्निधीयन्ते । अतस्तदपेक्षया क्रमेणासौ कार्याणि जनयिष्यतीति ॥ ३९६ ॥

“साध्वि”त्यादिना प्रतिविधत्ते ।

साध्वेतत्किन्तु ते तस्य भवन्ति सहकारिणः ।
किं योग्यरूपहेतुत्वादेकार्थकरणेन वा ॥ ३९७ ॥

योग्यरूपस्य हेतुत्वे स भावस्तैः कृतो भवेत् ।
स चाशक्यक्रियो यस्मात्तत्स्वरूपं तदा स्थितम् ॥ ३९८ ॥

कृतौ वा तत्स्वरूपस्य नित्यताऽस्यावहीयते ।
विभिन्नोऽतिशयस्तस्माद्यद्यसौ कारकः कथम् ॥ ३९९ ॥

न हि तस्य नित्यस्य कश्चित्सहकारी सम्भवति; तथाहि—अतिशयाधानाद्वा सहकारी भवेत्; यथा बीजस्य क्षित्यादय उच्छूनाद्यवस्थाविशेषमादधानाः सहकारिणः ।एकार्थक्रियया वा; यथोन्मिषितमात्रेण रूपदर्शने चक्षुषो रूपादयः । तत्र न तावदाद्यः पक्षः । तथाह्यसावतिशयस्तस्य सहकारिभिराधीयमानः क्वचित्तत्स्वभावादभिन्नोभिन्नो वा भवेत्, यद्वोभयानुभयरूपः, यथाऽऽहुराजीवका इति चत्वारः पक्षाः । तत्र न तावदाद्यः पक्षः, तत्स्वरूपवत्तदव्यतिरेकितया तस्यापि सदाऽवस्थितत्वात्सतश्च करणायोगात्करणे वा तद्वदेव भावस्यापि करणप्रसङ्गात् । ततश्च नित्यत्वहानिः । अथ द्वितीयः पक्षस्तदाऽतिशयादेव कार्योत्पत्तेर्भावस्याकारक(त्व)प्रसङ्गः । “असा”विति । नित्यः पदार्थः ॥ ३९७ ॥ ३९८ ॥ ३९९ ॥

एतदेव स्पष्टयति—“तस्मिन्सती”त्यादि ।

तस्मिन्सति हि कार्याणामुत्पादस्तदभावतः ।
अनुत्पादात्स एवैवं हेतुत्वेन व्यवस्थितः ॥ ४०० ॥

“तस्मि”न्निति । अतिशये सतीत्यर्थः । “एव”मिति । तद्गतान्वयव्यतिरेकानुविधानात् ४००

“अथापी”त्यादिनाऽत्रैव परस्योत्तरमाशङ्कते ।

अथापि तेन सम्बन्धात्तस्याप्यस्त्येव हेतुता ।
कः सम्बन्धस्तयोरिष्टस्तादात्म्येन विभेदतः ॥ ४०१ ॥

न च तस्य तदुत्पत्तिर्यौगपद्यप्रसङ्गतः ।
ततश्च यौगपद्येन कार्याणामुदयो भवेत् ॥ ४०२ ॥

“तेने”ति । अतिशयेन । “तस्या”पीति । नित्यस्य । कः सम्बन्ध इत्यादिनोत्तरमाह । कः सम्बन्धः—नैव कश्चिदित्यर्थः । द्विविध एव हि सम्बन्धस्तादात्म्यं तदुत्पत्तिश्च । तत्र न तावत्तादात्म्यलक्षणो भेदस्याङ्गीकृतत्वात् । नापि तदुत्पत्तिलक्षणः सहकारिभ्य एव तस्योत्पत्तेः । ततस्तस्योत्पत्तिरङ्गीक्रियते, तदा तन्मात्रभावित्वादतिशयानां युगपदेवोत्पत्तिः स्यात् । ततश्च सर्वकार्याणां युगपदुत्पत्तिप्रसङ्गः । अतिशयवतः कारणस्य सर्वदाऽवस्थितत्वात् ॥ ४०१ ॥ ४०२ ॥

तत्राप्यन्यव्यपेक्षायामनवस्था प्रसज्यते ।
एकदापि ततः कार्यं नासम्बन्धात्प्रकल्प्यते ॥ ४०३ ॥

अथ तत्राप्यतिशयोत्पत्तौ, सहकारिकारणापेक्षणात्क्रमेणातिशयोत्पत्तेर्न कार्याणां यौगपद्यं भवतीति स्यात्तदयुक्तम्, एवं ह्यनवस्था स्यात् । तथाहि—तत्रापि सहकारिणामतिशयान्तरकरणात्सहकारित्वं वक्तव्यम्, तस्य चातिशयस्य व्यतिरेकित्वात्सम्बन्धासिद्धिः, तदुत्पत्तौ सकृदुत्पत्तिप्रसङ्गः, तत्रापि सहकारिव्यपेक्षायां पुनरियमेव चिन्ताऽवतरति । ततश्चानवस्थायां न कदाचिदतिशयेन सह तस्य सम्बन्धः सिद्ध्येत् । तदसिद्धौ न तस्मात्कार्योत्पत्तिरतिशयादेव कार्योत्पत्तेः ॥ ४०३ ॥

सम्बन्धः समवायश्चेत्तत्राप्येवं विचिन्त्यते ।
उपकारीभवंस्तस्य समवायीष्यते स किम् ॥ ४०४ ॥

न वा तथेति प्रथमो विकल्पो यदि गृह्यते ।
सैव प्राप्ता तदुत्पत्तिर्व्यपास्ता साऽप्यनन्तरम् ॥ ४०५ ॥

अथापि स्यान्न तदुत्पत्तिलक्षणस्तस्यातिशयेन सह सम्बन्धः । किं तर्हि ? तत्समवायलक्षणः, तत्र नित्ये धर्मिणि तस्यातिशयस्य समवेतत्वात् । तदेतदयुक्तमितिदर्शयन्नाह—“तत्रापी”त्यादि । “न वा तथे”ति । नोपकारी संस्तस्य समवायीष्यत इति सम्बन्धः । तत्र प्रथमपक्षे उपकारस्योपक्रियमाणपदार्थाव्यतिरेकात् स एव तदुत्पत्तिलक्षणः सम्बन्धोऽङ्गीकृतः स्यात् । स चानन्तरमेव निरस्तः ॥ ४०४ ॥ ४०५ ॥

अथ द्वितीयः पक्षस्तदा विशेषाभावात्सर्वः सर्वस्य समवायी स्यात् । तद्दर्शयति—“अन्येऽपी”त्यादि ।

अन्येऽपि सर्वभावाः स्युस्तथैव समवायिनः ।
अविशेषान्न तस्यायमुपकारी मतो यदि ॥ ४०६ ॥

“तथैवे”ति । अभिमतपदार्थवदनुपकारित्वेनाविशिष्टत्वात् ॥ ४०६ ॥

उभयानुभयपक्षावधिकृत्याह—“भेदाभेदे”त्यादि ।

भेदाभेदविकल्पस्य प्रत्येकं प्रतिषेधनात् ।
द्विरूपोऽतिशयस्तस्य व्यस्तो भवति वस्तुनः ॥ ४०७ ॥

प्रत्येकपक्षनिराकरणादेवोभयात्मकपक्षस्य निराकरणम्, तद्व्यतिरेकेणोभयात्मकपक्षाभावात् । किञ्चैकाकारत्यागपरिग्रहयोरपराकारपरिग्रहत्यागानान्तरीयतकत्वादयुक्तं वस्तुसत उभयानुभयरूपत्वम्, न ह्येकस्यैकदा विधिप्रतिषेधौ परस्परविरुद्धौ युक्तावेकत्वहानिप्रसङ्गात् ॥ ४०७ ॥

एतच्च पुद्गलादिपरीक्षायां प्रतिपादितं तद्दर्शयति—“पुद्गलादी”त्यादि ।

पुद्गलादिपरीक्षासु द्वैराश्यप्रतिषेधनात् ।
द्विरूपोऽतिशयो नास्ति न वाऽप्यनुभयात्मकः ॥ ४०८ ॥

अथैकार्थक्रियाकारित्वेन सहकारिणस्तस्येति द्वितीयः पक्ष आश्रीयते । यथाऽहुरेके—नैवासौ सहकारिणोऽपेक्षते, न चापि सहकारिवियुक्तः कार्यस्य कारकः, यत ईदृशस्तस्य निसर्गसिद्धः स्वभावो यत्सन्निहितसकलसहकारिकारण एव कारकोऽन्त्यहेतुवन्न केवलः । तेन तस्य भावेऽपि न कार्यस्य सर्वदोत्पत्तिप्रसङ्ग इति । तदेतद्दर्शयति—“अथे”त्यादि ।

अथ नापेक्षते नित्यः प्रत्ययान्सहकारिणः ।
तथाऽपि तद्वियुक्तोऽयं कारको नान्त्यहेतुवत् ॥ ४०९ ॥

निजस्तस्य स्वभावोऽयं तेषामेव हि सन्निधौ ।
कारकत्वमतः कार्यं तद्भावेऽपि न सर्वदा ॥ ४१० ॥

“ने”ति । कारक इत्यनेन सम्बन्धनीयम् । अन्त्यहेतुवदिति वैधर्म्यदृष्टान्तः । यद्वोत्तरेण कारकत्वमित्यनेन साधर्म्यदृष्टान्ततया सम्बध्यते । षष्ठ्यन्ताच्च वतिः कार्यः ।“तद्भावेऽपी”ति । तस्य नित्यस्य पदार्थस्य सद्भावेऽपि ॥ ४०९ ॥ ४१० ॥

“अस्त्वेव”मित्यादिना प्रतिविधत्ते ।

अस्त्वेवं किन्तु साकल्ये या तस्य प्रकृतिर्मता ।
वैकल्ये सैव चेदिष्टा नित्याः स्युः सहकारिणः ॥ ४११ ॥

भवत्वेवं कल्पना, किन्त्विदमिह निरूप्यते या तस्य सहकारिसाकल्यावस्थायां प्रकृतिः किं सैव वैकल्यावस्थायाम्, आहोस्विदन्या, यदि सैव तदा सहकारिणोऽपि नित्याः प्राप्नुवन्ति ॥ ४११ ॥

कथमित्याह—“तत्सम्बद्धस्वभावस्ये”त्यादि ।

तत्सम्बद्धस्वभावस्य भावे तेषामपि स्थितेः ।
अन्यच्चेद्विकलं रूपमेकत्वमवहीयते ॥ ४१२ ॥

व्यपेक्षयाऽप्यतश्चैवं न कार्याणां क्रमोदयः ।

तैः सहकारिभिः सम्बद्धः स्वभावो यस्येति विग्रहः । “तेषा”मपीति । सहकारिणाम् । निगडबद्धपुरुषाकर्षणे निगडाकर्षणवत्तेषामप्यनुवृत्तेः । एवं हि स एव पू्र्व स्वभावापरित्यागेनानुवृत्तो भवति । यदि हि सहकारिणा सम्बद्धं स्वभावं न जहाति, तत्सम्बद्धस्वभावापरित्यागेन सामर्थ्यात्सहकारिणामप्यपरित्यागः । प्रतियोगिसव्यपेक्षत्वात्सम्बन्धित्वस्य । अन्यथा सैव तस्य प्रकृतिर्न भवेत् । अथान्येति पक्षस्तत्राह—“अन्यच्चे”त्यादि । यदि हि सहकारिविकलं रूपमस्यान्यदितीष्यते तदा नित्यत्वहानिप्रसङ्गः, रूपस्य भावाव्यतिरेकात् । तस्मात्सहकारिणोऽपेक्षायामपि न स्थिराणां क्रमेणार्थक्रिया युक्ता ॥ ४१२ ॥ = ॥

नापि यौगपद्येनेति दर्शयति—“यौगपद्यं च नैवेष्ट”मित्यादि ।

यौगपद्यं च नैवेष्टं तत्कार्याणां क्षयेक्षणात् ॥ ४१३ ॥

परैरपि नित्यपदार्थकार्याणां नैव यौगपद्यमिष्टम् । तथाहि—नित्यानामेतानि कार्याणि वर्ण्यन्ते । आत्मनः सुखदुःखादीनि, नभसः शब्दाः, मनसः क्रमवर्त्तीनि विज्ञानानि, अणूनां द्व्यणुकादिक्रमेण स्थूलाः, कालदिगीश्वरादीनां सर्वाण्येवोत्पत्ति“मन्ती”ति । एषां च प्रत्यक्षादेव क्रमोदयः प्रसिद्धः ॥ ४१३ ॥

तदेवं यौगपद्याभ्युपगमे प्रत्यक्षविरोधोऽभ्युपगमविरोधश्चोक्तो भवति । इदानीमनुमानविरोधं प्रतिपादयन्नाह—“निःशेषाणी”त्यादि ।

निःशेषाणि च कार्याणि सकृत्कृत्वा निवर्त्तते ।
सामर्थ्यात्मा स चेदार्थः सिद्धाऽस्य क्षणभङ्गिता ॥ ४१४ ॥

तथाहि—युगपदशेषाणि कार्याणि कृत्वा स किं तस्यार्थक्रियासमर्थः स्वभावो निवर्त्तते, आहोस्विदनुवर्त्तत इति पक्षद्वयम् । तत्र यदि निवर्त्तत इति पक्षस्तदा तस्यक्षणभङ्गित्वं सिद्धम् । प्रतिक्षणमपरापरस्वभावोत्पत्तेः पूर्वपूर्वस्य च स्वभावस्य स्वरसविनाशात् ॥ ४१४ ॥

तद्रूपस्यानुवृत्तौ तु कार्यमुत्पादयेत्पुनः ।
अकिञ्चित्कररूपस्य सामर्थ्यं चेष्यते कथम् ॥ ४१५ ॥

सर्वसामर्थ्यशून्यत्वात्तारापथसरोजवत् ।
असन्तोऽक्षणिकाः सर्वे शक्तिर्यद्वस्तुलक्षणम् ॥ ४१६ ॥

अथ द्वितीयः पक्ष आश्रीयते तदा तद्रूपस्य समर्थात्मनोऽनुवृत्तौ सत्यां पुनः कार्यमुत्पादयेत्, अत्यक्तपूर्वरूपत्वात्, प्रागवस्थावत् । ततश्च स एव क्रमो जात इति यौगपद्याभ्युपगमोऽनुमानविरुद्धः । अथापि स्यान्माभूत्तस्य क्रमयौगपद्याभ्याम र्थक्रिया, तथाऽपि सामर्थ्यमस्यास्त्येवेत्याह—“अकिञ्चित्कररूपस्ये”त्यादि । कार्योत्पादनिबन्धनं हि भावानां सामर्थ्यं व्यवस्थाप्यते । यश्च न किञ्चित्करोति स कथं समर्थः स्यात् । अन्यथा ह्याकाशकुशेशयादेरपि सामर्थ्यं किं न व्यवस्थाप्येत । स्यादेतद्यदि नाम सामर्थ्यमस्य निवृत्तं तथाऽपि सत्त्वमनिवृत्तमेव । ततश्च सत्त्वादित्यनैकान्तिक एव हेतुरित्याह—“असन्त” इत्यादि । इदमेव हि वस्तुलक्षणं यदर्थक्रियासामर्थ्यं तच्चेन्निवृत्तं तत्कथं वस्तुत्वं तल्लक्षणं तेष्ववस्थां लभते । तदेवं क्रमाक्रमाभ्यामर्थक्रियासामर्थ्यशून्यत्वाद्वन्ध्यापुत्रादिवदसद्व्यवहारयोग्या अक्षणिकत्वेनाभिमता आकाशादय इति सिद्धम् ॥ ४१५ ॥ ४१६ ॥

अथ नाङगीक्रियेतेदं वस्तुत्वं शक्तिलक्षणम् ।
येदवमन्यन्निर्दिश्यं वस्तूनां लक्षणं परैः ॥ ४१७ ॥

अथापि स्याद्यद्यर्थक्रियासामर्थ्यलक्षणमेव वस्तुलक्षणं भवेत्, तदैतत्सर्वं शोभेत । यद्येवं किमन्यद्वस्तुलक्षणमिति वक्तव्यम् । तथाहि—शशविषाणादौ यदवस्तुत्वमिष्टन्तत्रार्थक्रियासामर्थ्यविरह एव निबन्धनम् । वस्त्ववस्तुनोश्चान्योन्यव्यवच्छेदरूपत्वात् । सामर्थ्यादवस्तुलक्षणविपरीतमर्थक्रियासामर्थ्यमेव वस्तुलक्षणमवतिष्ठत इति भावः ॥ ४१७ ॥

अत्र परस्योत्तरमाशङ्कते—“सत्ते”त्यादि ।

सत्तासम्बन्ध इष्टश्चेद्वस्तूनां लक्षणं न तत् ।
असिद्धेः समवायादेः कथं वाऽन्योऽन्यलक्षणम् ॥ ४१८ ॥

न ह्यर्थक्रियासामर्थ्यं वस्तुलक्षणम्, किं तर्हि ? सत्तासम्बन्धः सत्तासमवाय इति यावत् । “न तदि”ति । वस्तुलक्षणं युक्तमिति शेषः । समवायादेरसिद्धत्वात् । आदिशब्देन सत्तापरिग्रहः । यदि समवायादिः सिद्धो भवेत्तदा समवायो वस्तुलक्षणं स्यात् । यावता तेषामेव साध्येत्वेन प्रस्तुतत्वात् । वक्ष्यमाणबाधकप्रमाणसद्भावाच्च । यदि वा पूर्वोक्तादेव बाधकात्प्रमाणात्सत्तायाः समवायस्य चासिद्धिः । केनचित्सह सत्तायाः सम्बन्धासिद्धेस्तस्यानुपकार्यत्वात् । न ह्यनुपकारिणोः परस्परं सम्बन्धोऽतिप्रसङ्गादित्युक्तम् । किञ्च तयोरपि सत्तासमवाययोरन्त्यानां च विशेषाणां वस्तुत्वे किं लक्षणमिति वक्तव्यम् । न हि समवाये विशेषेषु च सत्ता समवैति । नापि सत्तायाम्, किं तर्हि ? द्रव्यगुणकर्मसु त्रिपदार्थसत्करी सत्तेति समयात् । तस्मादव्यापीदं वस्तुलक्षणम् । भवतु नाम सत्तादेः सिद्धिः । तथाऽपि न सत्तासमवायो लक्षणं युक्तमर्थान्तरत्वात् । न ह्यर्थान्तरमर्थान्तरस्य स्वरूपम्, येन तस्य तल्लक्षणं भवेत् । तथाहि—वस्तुस्वरूपापरिज्ञानान्मूढधियं प्रति तल्लक्षणे प्रकृते तत्स्वभाव एव कुतश्चिद्व्यावृत्त्या प्रतीतो लक्षणत्वेन वाच्यो येन तदेव वस्तुस्वरूपत्वेनावधारयति, यथा पृथिवी खरकटत्वेन । न चान्यः पदार्थोऽन्यपदार्थस्वरूपमन्यत्वहानिप्रसङ्गात् । तत्कथं तल्लक्षणं भवेत् । लक्षणशब्दस्य स्वभाववचनस्य प्रस्तुतत्वात् ॥ ४१८ ॥

केचिदाहुः—यद्वस्त्वन्तशः सर्वज्ञस्यापि न ज्ञानमुत्पादयति तस्य तादृशस्यास्तितायां किं बाधकं प्रमाणम्, यत इयं व्याप्तिः सर्वोपसंहारेण सिद्ध्येत्, यत्सत्तत्सर्वं क्षणिकमिति । नच तदपरिज्ञाने सर्वज्ञत्वहानिस्तस्य ज्ञेयेष्वेवाधिकारात् । ज्ञानयोग्यस्य हिवस्तुनोऽपरिज्ञाने स्यादसर्वज्ञः, तत्तु न ज्ञेयम् । ज्ञानोत्पादनेऽपि तस्यायोग्यत्वादिति । तान्प्रत्याह—“सर्वश्चे”त्यादि ।

सर्वश्चार्थविचारादिव्यापारोऽर्थक्रियार्थिनः ।
निराकुलधियो युक्तो नोन्मत्तकतया पुनः ॥ ४१९ ॥

तन्न यन्नाम केषाञ्चित्कथञ्चिदुपयुज्यते ।
क्वचित्कदाचित्तत्रैव युक्ता सत्ताव्यवस्थितिः ॥ ४२० ॥

तद्रूपस्यैव चार्थस्य क्षणिकत्वं प्रसाध्यते ।
व्याप्तिः सर्वोपसंहारा तस्मिन्नेवाभिधीयते ॥ ४२१ ॥

अर्थस्य हि वस्तुमात्रस्य योऽयमस्तित्वनास्तित्वेन विचारः स सर्वोऽर्थक्रियार्थिनः, न व्यसनितया । अन्यथा ह्युन्मत्तः स्यात् । तेन यदेव पदार्थजातं केषाञ्चिदर्थक्रियार्थिनां कथञ्चित्साक्षात्पारम्पर्येण वा क्वचिद्देशे कदाचित्काल उपयुज्यते तत्रैव वस्तुव्यवस्था युक्ता प्रेक्षावतः । न त्वन्यत्र निबन्धनाभावान्निष्प्रयोजनत्वादिति भावः ।आदिग्रहणेनार्थविशेषाणां दहनसलिलादीनां विचारो गृह्यते । ततश्च प्रेक्षापूर्वकारिणां यदेवार्थक्रियाकारि तदेव वस्त्विति येदतत्प्रसिद्धम्, तस्यैव तद्रूपस्य—अर्थक्रियाकारिरूपस्यास्माभिः क्षणिकत्वं प्रसाध्यते । यतोऽर्थक्रियासामर्थ्यलक्षणस्य हेतुत्वेनाभीष्टत्वान्नास्ति व्यभिचारः । तस्यैवम्भूतस्य हेतोः सर्वोपसंहारात्साध्येन व्याप्तिसिद्धेः । या हि पक्षसपक्षविभागमकृत्वा सामान्येन हेतोर्व्याप्तिः प्रदर्श्यते सा सर्वोपसंहारा व्याप्तिः ॥ ४१९ ॥ ४२० ॥ ४२१ ॥

अथार्थक्रियासामर्थ्यशून्यस्यापि कस्माद्वस्तुत्वं नेष्यत इत्याह “निःशेषे”त्यादि ।

निःशेषशक्तिशून्यं तु यद्वन्ध्यासुतसन्निभम् ।
सर्वज्ञचेतसोऽप्येति हेतुत्वं न कदाचन ॥ ४२२ ॥

क्रियते तत्र नैवेदं कार्यरूपाद्यदृष्टितः ।
निर्निबन्धनमस्तित्वव्यवस्थानं विचक्षणैः ॥ ४२३ ॥

न तस्मिन्साधितेनार्थः क्षणिकत्वेन कश्चन ।
तत्र पर्यनुयोगश्च क्रियमाणोऽपि निष्फलः ॥ ४२४ ॥

“सर्वज्ञचेतसोऽपी”ति । न केवलं समानजातीयस्य क्षणस्य, जलधारणादेश्च कार्यस्येत्यपिशब्दः । “कार्यरूपाद्यदृष्टित” इति । कार्यम्—तदीयं फलम्, रूपम्— तस्य स्वभावः, आदिशब्देन तस्य देशः कालोऽवस्थाविशेषश्च गृह्यते । तस्य चैवंरूपस्य शशविषाणादिभ्यो न कश्चिद्विशेषोऽस्तीति भावः । नचापि तस्मिंस्तथाभूते वस्तुनि क्षणिकत्वेन साधितेनार्थक्रियार्थिनः किञ्चित्प्रयोजनमस्ति । तस्य दृष्टादृष्टयोर्हिताहितप्राप्तिपरिहारायोग्यत्वात् । यथोक्तम्—अर्थक्रियाऽसमर्थस्य विचारैः किं तदर्थिनां । षण्डस्य रूपवैरूप्ये कामिन्याः किं परीक्षया ॥ इति । अतएव कथमिदं गम्यते तत्क्षणिकमित्यादिपर्यनुयोगः प्रतिवादिना क्रियमाणो विफल एव, तस्य वादिना क्षणिकत्वेन साधयितुमनिष्टत्वात् ॥ ४२२ ॥ ४२३ ॥ ४२४ ॥

इदानीं परोऽर्थक्रियासामर्थ्यमपि वस्तुलक्षणमयुक्तमतिव्यापित्वादिति दर्शयति—“ननु चे”त्यादि ।

ननु चार्थक्रियाशक्ता नभस्तामरसादयः ।
स्वज्ञानहेतुभावेन न चैते सन्ति भाविकाः ॥ ४२५ ॥

तथाहि—नभस्तामरसादयो नभस्तामरसं नभस्तामरसमित्यादिज्ञानोत्पादलक्षणायामर्थक्रियायां समर्थाः, नच से परमार्थतः सन्ति, अतोऽतिव्यापीदं लक्षणंशक्तिर्भावलक्षणमिति ॥ ४२५ ॥

अत्र परिहारमाह—“निरालम्बनमेवे”त्यादि ।

निरालम्बनमेवेदमम्बराम्भोरुहादिषु ।
तज्जल्पवासनामात्रभावि ज्ञानं प्रवर्त्तते ॥ ४२६ ॥

असिद्धमाकाशाम्भोरुहादीनामर्थक्रियासामर्थ्यम्, तद्विकल्पानां स्वविकल्पवासनापरिपाकमात्रेणैवोत्पत्तेर्निरालम्बनत्वात् ॥ ४२६ ॥

अथाकाशाम्भोरुहादिभ्य उत्पत्तौ किं बाधकं प्रमाणमित्याह—“अभावकारणत्वे त्वि”त्यादि ।

अभावकारणत्वे तु नैरन्तर्येण सम्भवेत् ।
नाभावोऽपेक्षते किञ्चिन्निर्विशेषतया सदा ॥ ४२७ ॥

अभावो नभस्तामरसादि कारणं यस्य तत्तथोक्तम्, तद्भावस्तत्त्वम्, तस्मिन्सति तन्नभस्तामरसादिज्ञानं सर्वदैव भवेत्—उत्पद्येत, नित्यसन्निहिताविकलकारणत्वात् ।नचापि तस्य परैरनुपकार्यस्य तदपेक्षा युक्ता, येन सहकारिवैकल्यात्कदाचिज्जनयेदिति स्यात् ॥ ४२७ ॥

“क्षणिकेष्व”पीत्यादिना भदन्तयोगसेनमतशङ्कते ।

क्षणिकेष्वपि भावेषु ननु चार्थक्रिया कथम् ।
विशेषाधायिनोऽन्योन्यं न ह्याद्याः सहकारिणः ॥ ४२८ ॥

जातौ सर्वात्मना सिद्धेरजातावस्त्वभावतः ।
निर्विशेषाद्विशेषस्य भावे कार्यं न किं भवेत् ॥ ४२९ ॥

नचान्यतो विशिष्टास्ते तुल्यपर्यनुयोगतः ।
सहकारिकलापानामनवस्था च ते भवेत ॥ ४३० ॥

क्रमेण युगपच्चापि यतस्तेऽर्थक्रियाकृतः ।
न भवन्ति ततस्तेषां व्यर्थः क्षणिकताश्रयाः ॥ ४३१ ॥

सहकारिकृतश्चैवं यदा नातिशयः क्वचित् ।
सर्वदा निर्विशेषैव तदा सन्ततिरिष्यते ॥ ४३२ ॥

विनाशे यद्यहेतुः स्यादादावेव भवेदयम् ।
सम्भवो यदि नास्यादावन्तेऽपि स कथं भवेत् ॥ ४३३ ॥

स्वहेतोर्यदि भावानामिष्यतेऽन्यन्न कारणम् ।
विनाशस्य कथं तेषां क्वचिदेव विरुद्धता ॥ ४३४ ॥

स ह्याह—क्षणिकत्वेऽपि भावानां क्रमयौगपद्याभ्यामर्थक्रियाविरोध एव । यतस्ते स्वयं समर्था भवेयुरसमर्था वा, यदि समर्थास्तदा सहकारिकारणं नापेक्षेरन् । न हिसमर्थस्य काचिदपेक्षा युक्ता । अथासमर्थास्तथाऽपि तेषां तदपेक्षा सुतरामयुक्तिमती । तथाहि—ये प्रथमकलापान्तश्चरिष्णवस्ते न परस्परतो विशेषमाप्नुवन्ति । उत्पन्नानु त्पन्नावस्थायाः सदसत्त्वेनानुपकार्योपकारकत्वात् । ततश्च प्रथमावस्थायां तेषां निर्विशिष्टत्वात्तेभ्यो विशिष्टक्षणान्तरोत्पादो न स्यात् । निर्विशेषेभ्यश्च तेभ्यः क्षणान्तरस्यविशिष्टस्योत्पत्तौ कार्यमपि किं नोत्पद्येत । न चापि पूर्वकात्कलापाद्विशिष्टात्ते समुत्पन्ना इति युक्तं वक्तुम्, तत्कलापान्तर्गतानामप्यत एव परस्परतो विशेषाभावात् । तेषामप्यन्यतो विशेषोत्पत्तौ सत्यामनवस्था स्यात् । तदेवं विशेषाभावात्कथमविशिष्टात्कारणकलापात्कार्यमुत्पद्यते । अविशिष्टाच्चोत्पत्तौ सर्वं सर्वस्माद्भवेत् । ततश्च क्रमयौगपद्याभ्यामेवमर्थक्रियाविरोधेऽपि यथैवे भवन्त्येवार्थक्रियाकारिणस्तथा नित्या अपि सन्तो भविष्यन्तीति व्यर्थस्तेषां क्षणिकताश्रयः । तेन सत्त्वादिति हेतुरनैकान्तिकइति भावः । न चापि सन्ततेरवस्थाविशेषप्राप्तायाः कार्योत्पत्तिर्भविष्यति न सर्वदेति वक्तुं युक्तम् । यथोक्तया नीत्या सहकारिकृतस्य विशेषस्याभावात्सर्वदैव सन्ततेरविशिष्टत्वात् । नचापि स्वोपादानकारणमात्रप्रतिबद्धो विशेषः सन्ततिरिति युक्तं वक्तुम् । दृष्टविरोधात् । तथाहि—सहकारिणामुपायापाययोः कार्यव्यक्तिविरामौ दृष्टौ । यदि च स्वोपादानकारणमात्रप्रतिबद्धो विशेषः स्यात्, तदा सहकारिनिरपेक्षस्यैव जनकत्वं भवेत् । अपिच यथोक्तया नीत्या सन्ततेः सर्वदा निर्विशिष्टत्वात् । घटादीनां कपालादिविशेषोत्पत्त्यसम्भवात् । सजातीयक्षणसन्तानोच्छेदलक्षणो विनाशो यदि निर्हेतुकः स्यात्तदा निरपेक्षत्वात्प्रागेव भवेत् । अथादौ न भवेत्, पश्चादपि न भवेत्, प्राग्वद्विशेषाभावात् । किं च यदि भावानां विनाशं प्रति स्वहेतुव्यतिरेकेणान्यत्सन्तानान्तरं कारणं नेष्यते तदाऽनलादयः शीतादीनां कथं विरोधिनो भवेयुः, नह्यकिञ्चित्करो विरोधी युक्तोऽतिप्रसङ्गापत्तेः, एवं हि सर्वः सर्वस्य विरोधी प्रसज्येत । ततश्च विरोधद्वारेणानुपलब्धिप्रयोगः प्राणातिपातादिव्यवस्थानं चातिदुर्घटमिति भावः ॥ ४२८ ॥ ४२९ ॥ ४३० ॥ ४३१ ॥ ४३२ ॥ ४३३ ॥ ४३४ ॥

उच्यत इत्यादिना प्रतिविधत्ते ।

उच्यते प्रथमावस्था नैवान्योन्योपकारिणः ।
एकार्थक्रियया त्वेते भवन्ति सहाकारिणः ॥ ४३५ ॥

अन्योन्यानुपकारेऽपि नाविशिष्टा इमे यतः ।
स्वोपादानबलोद्भूताः कलापोत्पादकः पृथक् ॥ ४३६ ॥

समर्थादेव हि कार्योत्पत्तिः, नच सहकारिवैयर्थ्यम् । तथाहि—द्विविधं सहकारित्वं एकार्थक्रियाकारितया परस्परोपकारितया च । तत्र (अ ?) व्यवहितकार्यापे क्षया एकार्थक्रियाकारित्वमेव, न परस्परोपकारित्वम् । एकस्मिन्क्षणे निर्विभागतया विशेषस्याधातुमशक्यत्वात् । व्यवहितकार्यापेक्षया तु परस्परत उत्तरविशिष्टक्षणोत्पत्तेः, सन्तानापेक्षया परस्परोपकारेण व्यवहितकार्यजनकत्वात्परस्परोपकारित्वलक्षणं सहकारित्वम् । तत्र प्रथमावस्थाभाविनां यद्यपि परस्परतो विशेषो नास्ति, तथापि तेषां सहकारित्वमविरुद्धमेव, एकार्थक्रियाकारित्वात् । नापि ते समनन्तरविशिष्टक्षणोत्पादनं प्रत्यविशिष्टाः, पूर्वकेभ्य एव स्वहेतुप्रत्ययेभ्यस्तथाविधोत्तरकार्यकलापोत्पादनं प्रति प्रत्येकं समर्थानामुत्पन्नत्वात् । तेषामपि हेतुप्रत्ययानामपरेभ्यः स्वहेतुप्रत्ययेभ्यः, तेषामप्यपरेभ्य इत्यनादेर्हेतुपरम्पराया इष्टत्वादनवस्थाऽप्यदुष्टैव । प्रत्येकं च सामर्थ्येऽपि नापरेषां वैयर्थ्यम्, स्वहेतुबलेन तेषां तथोत्पन्नत्वात् । नापि तेषां पृथग्भावः सम्भवति, तथाविधकारणाभावात् । नापि पश्चात्, क्षणिकत्वात् । कलापोत्पादकाः पृथगिति । प्रत्येकं द्वितीयक्षणभाविकलापोत्पादनसमर्था इत्यर्थः । स्वोपादानग्रहणं प्रथमावस्थाभाविसहकारिकृतोपयोगनिषेधपरं द्रष्टव्यम् । नतु स्वोपादानमात्रभावि किञ्चित्कार्यं सम्भवति, सामग्रीतः सर्वस्य सम्भवात् । यथोक्तम्—“न किञ्चिदेकमेकस्मात्सामग्र्याः सर्वसम्भव” इति ॥ ४३५ ॥ ४३६ ॥

ततः प्रभृति ये जाता विशेषास्ते तु तत्कृताः ।
तद्रूपप्रकृतित्वेन तेषां तदुपयोगिनाम् ॥ ४३७ ॥

ततः प्रभृति—द्वितीयक्षणोत्तरकालमारभ्येत्यर्थः । “तत्कृता” इति । सहकारिकृतविशेषकारणकृताः । कस्मात् ? तद्रूपप्रकृतित्वात्तेषाम्—तद्रूपा—विशिष्टसहकारिकृतविशेषकारणजन्या, प्रकृतिः—स्वभावो येषां ते तथोक्ताः । “तेषां तदुपयोगिना”मिति । तद्रूपप्रकृतित्वादिति सम्बन्धनीयम् । तदुपयोगिनमित्यत्र चकारो लुप्तनिर्दिष्टस्तेनायमर्थो भवति । तत्र तृतीयावस्थाभाविनि कार्ये ये द्वितीयक्षणभाविनोविशेषा उपयुज्यन्ते कारणभावेन, तेषां च तदुपयोगिनां सहकारिकृतविशेषकारणजन्यकार्योत्पादनयोग्यप्रकृतित्वात्, तृतीयादिक्षणभाविनो विशेषास्तत्कृता भवन्तीति ॥ ४३७ ॥

अयमपि नियमः कथमेषां भवतीत्याह—“नियते”त्यादि ।

नियताचिन्त्यशक्तीनि वस्तूनीह प्रतिक्षणम् ।
भवन्ति नानुयोज्यानि दहने दाहशक्तिवत् ॥ ४३८ ॥

न हि भावानां स्वभावाः पर्यनुयोगमर्हन्ति, तेषां स्वहेतुप्रत्ययपरम्परासमायातत्वात्स्वभावभेदस्य, यथाऽग्नेर्दाहकत्वम्, यस्मादेते परापरप्रत्ययोपयोगेन प्रतिक्षणं भिन्नशक्तयः समुत्पद्यन्ते । अतो यद्यप्येते कुतश्चित्साम्यात्समानरूपाः प्रतीयन्ते तथाऽपि भिन्न एवैषां स्वभावः । तेन किञ्चिदेव कस्यचित्कारणं न सर्वः सर्वस्येति यत्किञ्चिदेतत् । “भवन्ती”ति । जायन्त इत्यर्थः ॥ ४३८ ॥

यदप्युक्तं विनाशो यद्यहेतुः स्यादिति, तत्राह—“सन्तानोच्छेदरूप”स्त्वित्यादि ।

सन्तानोच्छेदरूपस्तु विनाशो यो न हेतुमान् ।
तस्यान्तेऽपि न भावोऽस्ति तथा जन्म तु वार्यते ॥ ४३९ ॥

विलक्षणकपालादेरुत्पादस्तु सहेतुकः ।
सोऽप्यादौ जायते नैव तदा हेतोरसम्भवात् ॥ ४४० ॥

द्विविधो हि विनाशः सन्तानोच्छेदरूपो विसदृशन्तानोत्पादलक्षणश्च । तत्र यदि सन्तानोच्छेदरूपं विनाशमधिकृत्योच्यते तदयुक्तम्, नहि तस्यान्तेऽपि भावोऽस्तीति, नीरूपत्वात्, तत्किमुच्यते अन्तेऽपि स कथं भवेदिति । तस्मात्तस्य कदाचिदपि भवनानभ्युपगमादादावन्ते च यद्भावाभावप्रसञ्जनं तदसङ्गतमेव । केवलम्,तथा—सदृशक्षणान्तरप्रतिसन्धानेन, जन्म—उत्पादः, तत्र प्रतिषिध्यते । घटादेरुच्छेदो भवति (इत्यस्य ?) स एव न भवतीत्यर्थः । न तु तत्र किञ्चिद्विधीयते । अथ विसदृशक्षणोत्पादलक्षणो द्वितीयो विनाशोऽभिप्रेतस्तस्याहेतुकत्वमसिद्धम् । वस्तुतया तस्य मुद्गरादिकारणबलेनोत्पादनाभ्युपगमात् । अतएवासावादौ न जायते, स्वहेतोर्मुद्गरादेस्तदानीमभावात् ॥ ४३९ ॥ ४४० ॥

विरोधव्यवस्थासमर्थनार्थमाह—“द्विविध” इत्यादि ।

द्विविधाः क्षणिकाः भावाः केचिद्ध्रासस्य हेतवः ।
शीतादेरेव वह्न्याद्या अपरे न तथाविधाः ॥ ४४१ ॥

अदृष्टतत्त्वो लोकस्तु विरोधमभिमन्यते ।
कार्यकारणभावेऽपि प्रथमोक्तेष्वनेकधा ॥ ४४२ ॥

बाध्यबाधकभावस्तु वस्तुनो नैव तात्त्विकः ।
विद्यते तत एवोक्तं विरोधगतिरित्यपि ॥ ४४३ ॥

केचिद्धि भावाः केषाञ्चिन्मन्दतर(त)मक्षणोत्पत्तिक्रमेण यो ह्रासस्तत्र हेतवो भवन्ति । यथा—वह्न्यादयः शीतादीनाम्, अपरे न तथाविधाः—नापकर्षहेतवः, तद्यथा त एव वह्न्यादयो धूमादीनाम् । तत्र प्रथमोक्तेषु ह्रासहेतुषु कार्यकारणभावेऽपि सत्यज्ञानतिमिरतिरोधीयमानज्ञानालोको लोको विरुद्धत्वमभिमन्यते । “अनेकधे”ति । शीतस्याग्निर्विरुद्धः प्रदीपस्य वायुरालोकोऽन्धकारस्येत्यादिना भेदेन । नतुवस्तूनां परमार्थतः कश्चिद्बाध्यबाधकभावोऽस्ति, सतः सर्वात्मना निष्पत्तेः, स्वभावान्यथात्वस्य कर्तुमशक्यत्वात्, तस्य व्यतिरेकाव्यतिरेकविकल्पे सत्युभयथाऽपिकरणासम्भवात् । असतोऽप्यवस्तुत्वादेव न किञ्चित्क्रियते, इत्युभयथाऽप्यकिञ्चित्करो विरोधी । अत एवाविकलकारणस्य भवतोऽन्यभावेऽभावाद्विरोधगतिरित्याचार्येणोक्तम् । विरोधगतिः—विरोधव्यवसायः, न तु विरोधस्तात्विक इति भावः । अपिशब्दश्चार्थे । भिन्नकमश्च । एवेत्यस्यानन्तरं द्रष्टव्यः ॥ ४४१ ॥ ४४२ ॥ ४४३ ॥

“ननु चे”त्यादिना जैमिनीयादिमतेन क्षणभङ्गप्रतिज्ञायाः प्रत्यक्षबाधितत्वमाशङ्कते ।

ननु च प्रत्यभिज्ञानं स एवेत्युपजायते ।
अक्षव्यापारसद्भावे निष्प्रकम्पबाधितम् ॥ ४४४ ॥

ततः प्रत्यक्षबाधेयं दुर्वारा सर्वहेतुषु ।
क्षणभङ्गप्रसिद्ध्यर्थमुपात्तेषु प्रसज्यते ॥ ४४५ ॥

तथाहि—स एवायमिति गिरितनुवज्रादिष्वक्षव्यापारानन्तरं प्रत्यभिज्ञानाख्यं प्रत्यक्षं प्रमाणं भावानां क्षणभङ्गं निराकुर्वदुदेति । यद्यपि नूनं पुनर्जातनखकेशतृणादिषु प्रत्यभिज्ञानं दृष्टम् । तथापि न वज्रादिविषयोः प्रत्यभिज्ञानयोरप्रामाण्यमबाधितविषयत्वात् । अतएवाह—“निष्प्रकम्पमबाधित”मिति । नहि तिमिरोपहतलोचनोपजनितं केशविज्ञानमप्रमाणमुपलब्धमित्येतावता स्वच्छनेत्रजनितमपि सत्यकेशविषयं चक्षुर्विज्ञानमप्रमाणमिति युक्तं स्वच्छचेतसोऽभिधातुमिति भावः । तत्र निष्प्रकम्पत्वेनासंशयरूपतामाह । स एवायमथान्य इत्येवंविधस्य संशयस्याभावात् । अबाधितमित्यनेनाविपर्यस्तत्वम् ॥ ४४४ ॥ ४४५ ॥

“न खल्वि”त्यादिना प्रतिविधत्ते ।

न खलु प्रत्यभिज्ञानं प्रत्यक्षमुपपद्यते ।
वस्तुरूपमनिर्देश्यं साभिलाषं च तद्यतः ॥ ४४६ ॥

भ्रान्तं च प्रत्यभिज्ञानं प्रत्येकं तद्विलक्षणम् ।
अभेदाध्यवसायेन भिन्नरूपेऽपि वृत्तितः ॥ ४४७ ॥

तत्र प्रत्यक्षत्वं तावदसिद्धमस्यास्तथाहि—वस्तुत्वलक्षणस्यानन्वयित्वेनाशक्यसमयत्वात् । तद्ग्राहिज्ञानं मनसि जल्पनेव । अवगृहीतसम्बन्धस्यार्थस्य शब्देन संयोज्य ग्रहणा(ण ?) सम्भवात् । अतोऽवश्यं प्रत्यक्षेण सता स्वलक्षणविषयत्वात्कल्पनापोढेन भवितव्यम् । प्रमाणत्वाच्चाभ्रान्तेन । ततश्च प्रत्येकं कल्पनापोढमभ्रान्तमिति न्यायानुयातमिदं प्रत्यक्षलक्षणमाचक्षते कुशलाः । नच प्रत्यभिज्ञानं कल्पनापोढम्, स एवायमित्येवमतिजल्पाकारतया संवेद्यमानत्वात् । नाप्यभ्रान्तम्, भिन्नेष्वभेदाध्यवसायेन प्रवृत्तेः ॥ ४४६ ॥ ४४७ ॥

कथमित्याह—“पूर्व”मित्यादि ।

पूर्वं संविहिताकारगोचरं चेदिदं भवेत् ।
जायेत पूर्वमेवेदं तादर्थ्यात्पूर्वबुद्धिवत् ॥ ४४८ ॥

यदि हि पूर्वोपलब्धार्थविषयमिदमभविष्यत्तदा पूर्वमेवोदशिष्यत, तद्विषयत्वेनाविकलकारणत्वात् । पूर्वज्ञानवत्, “तादर्थ्या”दिति । स पूर्वसंविदितो भावोऽर्थो विषयोऽस्येति तदर्थम्, तद्भावस्तादर्थ्यम् ॥ ४४८ ॥

“नचैव”मिति प्रसङ्गविपर्ययमाह ।

नचैवं तेन नैवेदं तदर्थग्राहकं मतम् ।
तज्ज्ञानकाल उत्पादाद्विषयान्तरबुद्धिवत् ॥ ४४९ ॥

अभेदाध्यवसायेन भिन्नरूपेऽपि वृत्तितः ।
मायागोलकविज्ञानमिव भ्रान्तमिदं स्थितम् ॥ ४५० ॥

प्रयोगाः—यद्यस्मिन्विकलेऽपि सति न भवति, न तत्तद्विषयम्, यथा रूपेऽविकलेऽपि सति तत्राभवच्छ्रोत्रविज्ञानम्, भवत्यविकलेऽपि वज्रादौ तद्विज्ञानवेलायाम्प्रत्यभिज्ञानमिति व्यापकानुपलब्धेः । तदेवं नित्यत्वे सति वज्रादेरनपरापेक्षस्य तद्विषयं प्रत्यभिज्ञानमविकलकारणत्वात्पूर्वमेव भवेत्, नच भवति, तस्मादनित्यत्वमस्य सिद्धम् । ततश्च भिन्नेष्वभेदाध्यवसायेन प्रवृत्तेर्मायागोलकविज्ञानवद्भ्रान्तमिदमित्यविकलमेतत् । अत एवाबाधितविषयत्वमप्यसिद्धम् । यथोक्तद्भ्रान्तत्वप्रसाधकादेवहेतोर्बाधितविषयत्वात् ॥ ४४९ ॥ ४५० ॥

इतश्च गृहीतग्रहणान्नास्याः प्रामाण्यम्, यथा स्मृतेरिति दर्शयन्नाह—“निष्पादिते”त्यादि ।

निष्पादितक्रिये चार्थे प्रवृत्तेः स्मरणादिवत् ।
न प्रमाणमिदं युक्तं करणार्थविहानितः ॥ ४५१ ॥

यदेव हि प्रमितिक्रियासिद्धौ प्रकृष्टमुपकरणं तदेव साधकतमं कारकं प्रमाणमुच्यते । यदि च प्रत्यभिज्ञा पूर्वप्रमाणगृहीतार्थविषया स्यात्, तदा निष्पन्नप्रमितिक्रियेऽर्थे प्रवृत्त्याऽसाधकतमत्वात्कथमिव प्रमाणतामश्नुवीत । अन्यथा हि स्मृतेरपिप्रामाण्यं स्यात् । न चानधिगतप्रमाणभावा सती बाधकत्वाय कल्पते, अतिप्रसङ्गात् । स्यादेतत्—मा भूदस्याः पृथक्प्रामाण्यम्, तथाऽप्यनया पूर्वार्थविषयतयाक्षणभङ्गित्वं बाध्यत एवेति । तदसम्यक् । न ह्यस्याः परमार्थतः पूर्वार्थविषयत्वमस्ति माभि(मति ?)जल्पत्वात् केवलम(ति)विषयाऽपि सती विभ्रमबलात्पूर्वदृष्टार्थाध्यवसायिनी समुत्पद्यत इत्यध्यवसायवशात्पूर्वदृष्टार्थविषयेत्युच्यते तत्कुतोऽस्मात्प्रत्यभिज्ञानात्प्रकृतिभ्रान्तात्क्षणभङ्गनिराक्रिया सिध्येत् ॥ ४५१ ॥

“इदानीन्तन”मित्यादिना कुमारिलमतेन गृहीतग्राहित्वस्यासिद्धिमुद्भावयति ।

इदानीन्तनमस्तित्वं न हि पूर्वधिया गतम् ।
तदस्त्यस्य विशेषश्चेत्स्मरणे यो न विद्यते ॥ ४५२ ॥

पूर्वप्रमितमात्रे हि जायते स इति स्मृतिः ।
स एवायमितीयं तु प्रत्यभिज्ञाऽतिरेकिणी ॥ ४५३ ॥

स ह्याह—न हि पूर्वप्रत्यक्षेणार्थस्येदानीन्तनमस्तित्वमधिगतम्, तस्य स एवायमित्येवमाकारोपग्राहेणानुत्पत्तेः । तस्मादस्य प्रत्यभिज्ञानस्य स्मरणादस्ति विशेषः ।कथमित्याह—“पूर्वे”त्यादि । स इति हि पूर्वज्ञानाकारोपग्रहेणैव स्मृतिः प्रवर्त्तते ।प्रत्यभिज्ञा त्वयमित्येवमतिरिक्तमप्यर्थाकारं गृह्णाति । स्मृतेः सकाशादतिरेकिणी— विशिष्टेत्यर्थः । तस्माद्यौ संशयविपर्ययौ तौ बाधित्वा प्रत्यभिज्ञा प्रमाणतां लभते ॥ ४५२ ॥ ४५३ ॥

कस्मात्तौ बाधत इत्यत्र कारणमाह—“ज्ञाते चाविद्यमानत्वा”दिति ।

ज्ञाते चाविद्यमानत्वाद्यौ संशयविपर्ययौ ।
बाधित्वा तौ लभेतैव प्रत्यभिज्ञा प्रमाणताम् ॥ ४५४ ॥

ज्ञातेऽर्थे तयोरविद्यमानत्वाद्बहलवह्निशिखाकलापपरिगत इव देशे शीतस्य ॥ ४५४ ॥

ननु यथानुमानप्रसिद्धस्याप्यर्थस्य पुत्रादिगतश्यामत्वादेः पुनः कालान्तरेण प्रत्यक्षेण बाध्यमानस्यान्यथात्वं भवति तथाऽत्रापि यदि नाम प्रत्यभिज्ञा(न)तो नित्यत्वमर्थस्य सिद्धम्, तथाऽप्युत्तरकालं तत्कार्येण क्रमिणा क्रमस्यानुमानतः सिद्धेरन्यथात्वं सिद्धमेव, तत्कथं क्षणभङ्गित्वं बाध्यत इत्याशङ्क्याह—“विज्ञातोऽपी”त्यादि ।

विज्ञातोऽपीतरैरर्थः प्रत्यक्षेणान्यथा भवेत् ।
प्रत्यक्षेणावरुद्धे तु नेतरोत्पत्तिसम्भवः ॥ ४५५ ॥

“इतरै”रिति । अनुमानादिभिः । यथा किल श्यामस्तत्पुत्रत्वाद्दृश्यमानतत्पुत्रवदित्यादि । “प्रत्यक्षेणान्यथा भवे”दिति । प्रत्यक्षेण करणभूतेन, अन्यथा—अनुमानादिप्रमिताकारविपरीतो भवेदित्यर्थः । “अवरुद्ध” इति । विषयीकृत इत्यर्थः । “नेतरोत्पत्तिसम्भव” इति । प्रत्यक्षादितरस्यानुमानादेर्नैव बाधकत्वेनोत्पत्तिः सम्भवतीत्यर्थः ॥ ४५५ ॥

कस्मादित्याह—“को ही”त्यादि ।

को हि ज्येष्ठप्रमाणेन दृढेनार्थेऽवधारिते ।
दुर्बलैरितरैः पश्चादध्यवस्येद्विपर्ययम् ॥ ४५६ ॥

युक्तं हि यदनुमानप्रसिद्धस्यार्थस्य प्रत्यक्षेणान्यथात्वं क्रियत इति । तस्य सर्वप्रमाणज्येष्ठत्वात् । न तु प्रत्यक्षप्रसिद्धस्यान्यथात्वमनुमानादयः कर्तुमीहन्ते, तेषां दुर्बलत्वात् । “दृढेने”ति । संशयविपर्ययाभ्यां रहितेन । “विपर्यय”मिति । अन्यथात्वम् ॥ ४५६ ॥

“नन्वि”त्यादिना प्रतिविधत्ते ।

नन्विदानीन्तनास्तित्वं यदि भिन्नं त्वयेष्यते ।
पूर्वभावात्तदा भेदस्त्वयैव प्रतिपादितः ॥ ४५७ ॥

यत्तदिदानीन्तनमस्तित्वं प्रत्यभिज्ञानस्य विषयः, किं तत्पूर्वप्रत्यक्षगृहीतादस्तित्वाद्भिन्नमाहोस्वित्तदेव, यदि भिन्नं तदा स्ववचनेनैव भेदस्य प्रतिपादितत्वादभ्युपेतहानिर्भवतो भवेत् । अस्माकं पुनरिष्टसिद्धिः ॥ ४५७ ॥

अनन्यत्वेऽपि सत्त्वस्य कथं पूर्वधियाऽगतम् ।
तस्यागतौ हि वस्त्वेव नोपलब्धं प्रसज्यते ॥ ४५८ ॥

अथानन्यदिति पक्षस्तदा कथं पूर्वधिया तदगतं येनोच्येत, न हि पूर्वधिया गतमिति । स्यादेतत्—यथा क्षणिकत्वं शब्दादेरव्यतिरिक्तमपि सत्तद्ग्रहणे सत्यप्यगृहीतमुच्यते, तद्वदिदमपि भविष्यतीति । तदयुक्तम् । न हि शब्दे धर्मिणि गृहीतेऽपि तदव्यतिरेकि क्षणिकत्वमगृहीतमिति व्यवस्थाप्यते । किं ( तर्हि ? ) गृहीतमपि तन्निश्चयोत्पत्तिकारणाभावादनिश्चितमित्यभिधीयते । न ह्यनुभवमात्रादेव निश्चयो भवति । तस्यार्थित्वाभ्याससाद्गुण्यादिसापेक्षत्वात् । न चैवं भवतः सम्भवति । पूर्वप्रत्यक्षस्यापि व्यवसायात्मकत्वात् । तेन च वस्तुरूपे निश्चीयमाने तदव्यतिरिक्तमिदानीन्तनमस्तित्वं निश्चितमेव । तदनिश्चये वस्तुस्वरूपस्यापि तद्वदेवानिश्चितरूपाव्यतिरेकादनिश्चितत्वप्रसङ्गः । येऽप्याहुः—सन्दिग्धवस्तुनिर्णयनिबन्धनं प्रत्यभिज्ञाने प्रामाण्यमिति तदप्यनेनैव प्रत्युक्तम् । न चाप्यत्र सन्दिग्धवस्तुसद्भावनिर्णयोऽस्ति, सदृशापरापरोत्पत्तावपि केशादिवत्प्रत्यभिज्ञानदर्शनेन सन्देहात् ॥ ४५८ ॥

यच्चोक्तं विज्ञातोऽपीतरैरर्थ इत्यादि, तत्राह—“प्रत्यक्षेण चे”त्यादि ।

प्रत्यक्षेण च बाधायामनुमानादिगोचरे ।
नानुमानादिमानं स्याद्बाधातस्तैमिरादिवत् ॥ ४५९ ॥

यस्य त्वत्पुत्रत्वादित्यादिकस्यानुमानादेर्गोचरे विषये प्रत्यक्षेण बाधा सम्भवेत्तस्य प्रामाण्यमेव नास्ति बाध्यमानविषयत्वेनार्थसंवादाभावात्तैमिरिकादिज्ञानवत् । तेनेतरैर्विज्ञातोऽप्यर्थः प्रत्यक्षेणान्यथा भवेदिति यदुक्तं तदसङ्गतमेव, असम्भवात् ॥ ४५९ ॥

यच्च प्रत्यक्षस्य ज्येष्ठत्वमुक्तं तदप्यसद्भूतमेवेति दर्शयन्नाह—“अर्थसंवादकत्वे चे”त्यादि ।

अर्थसंवादकत्वे च समाने द्वेष्यताऽस्य का ।
तदभावे तु नैव स्यात्प्रमाणमनुमादिकम् ॥ ४६० ॥

इदमेव हि प्रमाणानां प्रमाणत्वम्, यदुतार्थप्रमाणसामर्थ्यम् । तच्चेत्सर्वप्रमाणानामभ्युपगम्यते तत्केनास्य प्रत्यक्षस्य ज्येष्ठता भवेत् । अथापि स्यात्—प्रत्यक्षस्यैवार्थसंवादकत्वं नानुमानादेरित्याह—“तदभाव” इत्यादि । तस्य—अर्थादिसंवादकत्वस्य अभावे सति नैव प्रमाणमनुमानादि स्यात् । अर्थाविसंवादकत्वनिबन्धनत्वात्प्रमाणव्यवहारस्य, तस्य चात्र भावात् ॥ ४६० ॥

“नन्वनेनेत्यादि”ना भाविविक्तोक्तानि प्रमाणान्याशङ्कते ।

नन्वनेनानुमानेन बाध्यते सर्वहेतुषु ।
व्याप्तिः सर्वोपसंहारा प्रतिज्ञार्थस्य वा क्षतिः ॥ ४६१ ॥

किं तदनुमानमित्याह—“विवक्षिते”त्यादि ।

विवक्षितार्कचन्द्रादिविषयं यत्प्रवर्त्तते ।
ज्ञानं तत्कालसम्बद्धसूर्यादिविषयं परम् ॥ ४६२ ॥

पार्थिवाविषयत्वे हि तज्ज्ञानत्वाभिधानतः ।
तद्यथा प्रथमं ज्ञानं तत्कालार्कादिगोचरम् ॥ ४६३ ॥

“तदुक्तम्”—विमत्यधिकरणभावापन्नानि चन्द्रार्कग्रहनक्षत्रादिज्ञानानि विवक्षितचन्द्रार्कग्रहतारकादिविषयं यद्देवदत्तादिविज्ञानं तत्कालावच्छिन्नचन्द्रार्कग्रहनक्षत्रतारकादिविषयाण्येव, पृथिवीसम्बन्धित्वेनानुपलभ्यमानत्वे सति चन्द्रार्कग्रहनक्षत्रतारकादिज्ञानशब्दवाच्यत्वात्, प्रथमकालभाविदेवदत्ततारकादिज्ञानवदिति । “विवक्षितार्कचन्द्रादिविषय”मिति । तैजसद्रव्यविषयम् । पृथिवीसम्बन्धित्वेनानुपलभ्यमानत्वे सतीति विशेषणं चित्रादिगतादित्यादिविषयैर्ज्ञानैर्व्यभिचारपरिहारार्थम् । “पर”मिति । तस्मादन्यत् । अतत्कालमित्यर्थः ॥ ४६२ ॥ ४६३ ॥

इदमपरं तदीयमेव प्रमाणम् । ये रूपत्वादिसामान्याश्रयाः, ये च तदाश्रयाः, तद्विषयाश्च ये प्रत्यक्षानुमानोपमानशाब्दस्मृतिप्रत्यभिज्ञानार्थसिद्धदर्शनारेकविपर्ययानुव्यवसायस्वप्नस्वप्नान्तिकाः प्रज्ञानविशेषाः, ते सर्वे स्वात्मलाभानन्तरप्रध्वंसिनो न भवन्ति, ज्ञेयत्वप्रमेयत्वाभिधेयत्वसदसदन्यतरत्वसदसद्व्यतिरिक्तज्ञेयविषयज्ञानावच्छेद्यत्वाग्राह्यविषयग्रहणाग्राह्यत्वानभिधेयाभिधायकानभिधेयत्वसमानासमानजातीयद्रव्यसंयोगविभागजनितशब्दकार्यशब्दाभिधेयत्वेभ्यः, प्रागभावादिवत् । तत्र रूपत्वादिसामान्याश्रया रूपादयः, तेषां च रूपादीनामाश्रयास्तदाश्रयाः, के ते ? घटादयः, सिद्धदर्शनं योगिविज्ञानम्, शेषं पूर्वमेव व्याख्यातम् । सदसदन्यतरत्वं सत्त्वमसत्त्वं वा । सदसद्भ्यां व्यतिरिक्तस्य ज्ञेयस्याभावादेव तद्विषयज्ञानं नास्ति, तस्य चासत्त्वादेव तेनापरिच्छेद्यत्वं सिद्धम् । एवमग्राह्यविषयस्य ग्रहणस्याभावादेव तदग्राह्यत्वसिद्धिः । तथा च विद्यतेऽभिधेयं यस्यासावनभिधेयो योभिधायकस्तेनानभिधेयत्वमनर्थकत्वादेव सिद्धम् । समानजातीयानि द्रव्याण्यधरदशनादीनि, कृतकत्वादिसामान्यात्, असमानजातीयान्याकाशादीनि तेषां यौ मिथःसंयोगविभागौ, ताभ्यां जनितो यः प्रथमः शब्दस्तस्य परम्परया यः कार्यभूतः श्रुतिपथमवतीर्णस्तेनाभिधेयत्वम् । तथाह्येषामियं प्रक्रिया—प्रथमः किल शब्दः संयोगविभागयोनिस्तस्माच्छब्दान्तराणि कदम्बगोलकन्यायेन प्रादुर्भवन्ति । तन्न यः कर्णशष्कुलीमध्यमाकाशदे शमाप्नोति स उपलभ्यते नेतर इति । तदेव प्रमाणकदम्बकं दर्शयति—“रूपत्वाद्याश्रयाः सर्वे” इत्यादि ।

रूपत्वाद्याश्रयाः सर्वे ये च तेषां समाश्रयाः ।
ये च तद्विषयाः केचिज्जायन्ते प्रत्ययास्तथा ॥ ४६४ ॥

उत्पादानन्तरं ध्वंसभाजो नैव भवन्ति ते ।
प्रमेयत्वाभिधेयत्वहेतुतः खारविन्दवत् ॥ ४६५ ॥

प्रमेयत्वाभिधेयत्वग्रहणमुपलक्षणम् । तदन्येऽपि हेतवो द्रष्टव्याः । खे—नभसि, अरविन्दम्, आकाशकमलमिति यावत् ॥ ४६४ ॥ ४६५ ॥

उद्योतकरस्त्वाह—विप्रतिपन्ना अयु(ग) पत्कालाः प्रत्यया एकविषयाः, अव्युत्थायितत्प्रत्ययसामानाधिकरण्ये सति समानशब्दवाच्यत्वात्, वर्त्तमानलक्षणानेकपुरुषप्रत्ययवत् । तत्र व्युत्थातुम्—अन्यथाभवितुं बाधकप्रमाणवशात् शीलमस्येति व्युत्थायि न व्युत्थायि अव्युत्थायि, तेषां घटादिप्रत्ययानां सामानाधिकरण्यं तत्प्रत्ययसामानाधिकरण्यम्, अव्युत्थायि च तत् तत्प्रत्ययसामानाधिकरण्यं चेति तथोक्तम् । अबाधितसामानाधिकरण्ये सतीत्यर्थः । इदं च विशेषणं प्रदीपादिप्रत्ययैर्व्यभिचारपरिहारार्थम् । समानशब्दवाच्यत्वं चैत्रज्ञानं चैत्रज्ञानमित्यादि । तदेतद्दर्शयति—“विवादविषया” इत्यादि ।

विवादविषया ये च प्रत्ययाः क्रमभाविनः ।
एकार्थविषयास्तेऽपि सर्व इत्यवघोषणा ॥ ४६६ ॥

अबाधैकाश्रयत्वे हि समानोक्तिनिवेशनात् ।
वर्त्तमाने यथैकस्मिन्क्षणे नैकविधा धियः ॥ ४६७ ॥

“अवघोषणे”ति । प्रतिज्ञा । एकाश्रयत्वम्—सामानाधिकरण्यम्, अबाधम्—अविद्यमानबाधं च तदेकाश्रयत्वं चेति विग्रहः ॥ ४६६ ॥ ४६७ ॥

अत्र प्रतिविधत्ते “साध्येने”त्यादि ।

साध्येन विकलं तावदाद्ये हेतौ निदर्शनम् ।
हेतुत्वाद्विषयः सर्वो न हि स्वज्ञानकालिकः ॥ ४६८ ॥

“आद्ये हेता”विति । तज्ज्ञानत्वाभिधानत इत्यत्र । प्रथममपि हि चन्द्रादिज्ञानं सत्का(स्वका ?)लावच्छिन्नचन्द्रादिविषयं न भवति । हेतुभूतस्यैव विषयत्वात् । समा नकालं च कार्यकारणभावानुपपत्तेः । यथोक्तम्— असतः प्रागसामर्थ्यात्पश्चादनुपयोगतः । प्राग्भावः सर्वहेतूनां नातोऽर्थः स्वधिया सहेति ॥ ४६८ ॥

“यदे”त्यादिना पृथिवीसम्बन्धित्वेनानुपलभ्यमानत्वे सतीति सविशेषणेऽपि हेतावनैकान्तिकतेति दर्शयति ।

यदा सूर्यादिशब्दाश्च विवक्षामात्रभाविनः ।
दीपादौ विनिवेश्यन्ते तज्ज्ञानैर्व्यभिचारिता ॥ ४६९ ॥

द्वितीयेऽपि हेतुकदम्बके जात्यादेर्धर्मिणोः सत्त्वादेव क्षणभङ्गित्वस्यानिष्टत्वात्तत्र तदभावसाधने सिद्धसाध्यतेति दर्शयति—“जात्यादे”रित्यादि ।

जात्यादेर्निःस्वभावत्वान्नैवेष्टा क्षणभङ्गिता ।
तदभावप्रसिद्ध्यर्थं निर्दिष्टं साधनं वृथा ॥ ४७० ॥

आदिशब्देन तदाश्रयाणां रूपघटादीनां तद्विषयाणां च प्रत्ययानां ग्रहणम् । एषामपि हि यथोक्तविशेषणविशिष्टानामसत्त्वमेव, तस्मात्तेषु तस्याः क्षणभङ्गिताया अभावसिद्ध्यर्थं यदुक्तं साधनं तद्वृथा, तत्र विवादाभावादिति भावः । अत्रापि सूक्ष्मेक्षिका न कृता । यदि सा क्रियते तदा बहुतरमत्र दोषजालमवतरति । तथाहि—यदेतत्सदसदन्यतरत्वं साधनमुक्तं तत्साध्यधर्मिणि दृष्टान्तधर्मिणि चासिद्धम्, विकल्पविषयत्वादन्यतरशब्दस्य, विकल्पश्चानेकपदार्थसम्भवे सति भवति, नैकस्मिन् । न च साध्यधर्मिणि द्वयोः सदसत्त्वयोः सम्भवोऽस्ति । तस्य वस्तुरूपत्वेन सत्त्वस्यैव सम्भवात् । नापि दृष्टान्तधर्मिणि द्वयसम्भवः । तस्यावस्तुत्वेनासत्त्वस्यैव सम्भवात् । हेतुश्च व्यर्थविशेषणः । तथाहि—शब्दाभिधेयत्वादित्येवमपि तावदत्र प्रयोगो न युक्तोऽभिधेयत्ववचनादेव शब्दस्य सिद्धेः । यत्पुनः समानजातीयादिपदैर्विशेषणं तदतिपेलवमेव ।एवमन्यदपि हेतुविशेषणमनर्थकमेवेति ग्रहीतव्यम् । सर्वे चामी हेतवोऽनैकान्तिकाः । साध्यविपर्ययेऽमीषां बाधकप्रमाणानुपदर्शनात् । एतच्च पश्चादभिधास्यत एव ॥ ४७० ॥

यच्चोक्तं विवादविषया ये चेत्यादि, तत्राह—“समाने”त्यादि ।

समानशब्दवाच्यत्वं दीपादिप्रत्ययेष्वपि ।
वर्त्तते व्यभिचार्येष हेतुस्तेन भवत्यतः ॥ ४७१ ॥

दीपज्ञानमिति दीपादिप्रत्ययेषु भिन्नविषयेष्वपि समानशब्दप्रवृत्तिदर्शनादतस्तेनदीपादिप्रत्ययविषयेण शब्दवाच्यत्वेनैष समानशब्दवाच्यत्वादिति हेतुर्व्यभिचारी । अथवा काक्वा पाठः । अतस्तेषु वर्त्तमानत्वादेव हेतुस्ते—तव न व्यभिचारी भवति, अपितु भवत्येवेत्यर्थः ॥ ४७१ ॥

“सामानाधिकरण्यं चे”दिति परमतमाशङ्कते ।

सामानाधिकरण्यं चेद्बाधित्तं तेषु कल्प्यते ।
विवक्षितेऽपि विस्पष्टा बाधैषा किं न वीक्ष्यते ॥ ४७२ ॥

अव्युत्थायितत्प्रत्ययसामानाधिकरण्ये सतीति हेतोर्विशेषणं दीपादिप्रत्ययैर्व्यभिचारपरिहारार्थमेव कृतम्, एषां हि दीपादिप्रत्ययानामेकविषयत्वस्य बाधितत्वात् । तथाहि—तत्क्षणमेव दीपो दीर्घशिखो नम्रशिखश्च दीप्रो दीप्रतरश्चोपलभ्यते । तत्कुतो व्यभिचारिता हेतोरिति परस्य भावः । तदेतद्विशेषणमप्यसिद्धमिति दर्शयन्न्पाह—“विवक्षितेऽपी”त्यादि । विवक्षितसाध्यधर्मे तत्रापि बाधा किं न वीक्ष्यते । तथाहि चैत्रादावपि बालकुमारतरुणादिभेदेन व्यावर्त्तमानाकार एव प्रत्ययो जायते, पर्वतादौ शीतोष्णादिभेदेन, ततः स्पष्टतरमेवान्यथात्वमेषां प्रदीपादिवत्प्रसिद्धम् । अन्यथा हि य एव शीतसम्बद्धः स एव यदि पश्चादुष्णसम्बद्धः स्यात्तदाऽवस्थाद्वयेऽपि शीतोष्णयोरुपलम्भः स्यात् । तत्सम्बद्धस्वभावस्य भावे तयोरपि भावस्य प्रसङ्गापत्तेः । निगडबद्धपुरुषाकर्षणे निगडाकर्षणवदित्युक्तप्रायमेतत् । अतः सविशेषणोऽपि हेतुरसिद्धः ॥ ४७२ ॥

अनुमानबाधामप्याह—“विवादपदमि”त्यादि ।

विवादपदमारूढा नैकार्थविषया धियः ।
क्रमेणोत्पद्यमानत्वाद्विद्युद्दीपादिबुद्धिवत् ॥ ४७३ ॥

क्रमभावविरोधो हि ज्ञानेष्वेकार्थभाविषु ।
अन्यैरकार्यभेदस्य तदपेक्षाविरोधतः ॥ ४७४ ॥

प्रयोगः—यत्क्रमभावि तत्सदा सन्निहिताविकलकारणं न भवति यथा विद्युद्दीपादिबुद्धयः, क्रमभाविन्यश्च विवादास्पदीभूता बुद्धय इति व्यापकविरुद्धोपलब्धिः ।नचानैकान्तिकत्वं हेतोः, एकवस्तुविषयत्वे सत्यविकलकारणस्य क्रमभावानुपपत्तेः । नापि कारणान्तरापेक्षा नित्यस्य तेनानुपकार्यत्वात् । नचानुपकारिण्यपेक्षा युक्ताऽतिप्रसङ्गात् । उपकारे वा नित्यत्वहानिप्रसङ्ग इति शतशश्चर्चितमेतत् ॥ ४७३ ॥ ॥ ४७४ ॥

सर्वेष्वेव च प्रयोगेषु हेतूनामनैकान्तिकत्वं विपक्षे बाधकप्रमाणाभावादिति दर्शयति—“सन्दिग्धे”त्यादि ।

सन्दिग्धव्यतिरेकित्वं सर्वेष्वेतेषु हेतुषु ।
विपक्षे वर्त्तमानानां बाधकानुपदर्शनात् ॥ ४७५ ॥

इति स्थिरभावपरीक्षा ।

सुबोधम् ॥ ४७५ ॥

इति स्थिरभावपरीक्षा ।