०७ आत्म-परीक्षा

नैयायिकवैशेषिकपरिकल्पितात्म-परीक्षा

अन्ये पुनरिहात्मानमिच्छादीनां समाश्रयम् ।
स्वतोऽचिद्रूपमिच्छन्ति नित्यं सर्वगतं तथा ॥ १७१ ॥

शुभाशुभानां कर्त्तारं कर्मणां तत्फलस्य च ।
भोक्तारं चेतनायोगाच्चेतनं न स्वरूपतः ॥ १७२ ॥

ज्ञानयत्नादिसम्बन्धः कर्तृत्वं तस्य भण्यते ।
सुखदुःखादिसंवित्तिसमवायस्तु भोक्तृता ॥ १७३ ॥

निकायेन विशिष्टाभिरपूर्वाभिश्च सङ्गतिः ।
बुद्धिभिर्वेदनाभिश्च जन्म तस्याभिधीयते ॥ १७४ ॥

प्रागात्ताभिर्वियोगस्तु मरणं जीवनं पुनः ।
सदेहस्य मनोयोगो धर्माधर्माभिसत्कृतः ॥ १७५ ॥

शरीरचक्षुरादीनां वधाद्धिंसाऽस्य कल्प्यते ।
इत्थं नित्येऽपि पुंस्येषा प्रक्रिया विमलेक्ष्यते ॥ १७६ ॥

(॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥।)॥ १७१ ॥ १७२ ॥ १७३ ॥ १७४ ॥ १७५ ॥ १७६ ॥

( सदाद्यविशेषविषयाविषयोभयात्मकज्ञेयप्रत्यक्षानुमानोपमानशाब्दसिद्धदर्शनप्रातिभज्ञानारेकविपर्यय )स्वप्नस्वप्नान्तिकाः प्रज्ञानविशेषा मदीयशरीरादिव्यतिरिक्तसंवेदकसंवेद्याः स्वकारणायत्तजन्मवत्त्वसामान्यविशेषवत्त्वबोधात्मकत्वाशुतरविनाशित्वसंस्काराधायकत्वप्रत्ययत्वेभ्यः पुरुषान्तरप्रत्ययवत् वैधर्म्येण प्रशस्तमिता(?) घटादय इति । तत्र सदादयः षडविशेषाः पूर्वं व्याख्याताः । तेषां सदादीनां षण्णां विषयो द्रव्यगुणकर्माणि । अविषयः सामान्यविशेषसमवायाः । तदेतदुभयात्मकं ज्ञेयं विषयः प्रत्यक्षादीनां ज्ञानविशेषाणां ते तथोक्ताः । प्रत्यक्षानुमानोपमानेत्यादिस्तु द्वन्द्वनिर्देशः । सिद्धदर्शनं ज्योतिःशास्त्राद्युपनिबद्धम् । तद्धि सिद्धानां दर्शनं सिद्धं वा दर्शनमितिकृत्वा सिद्धदर्शनमुच्यते । प्रातिभं तु ज्ञानमार्षं यथाश्वो मे भ्राता गमिष्यतीति । तद्धि प्रायेणर्षीणां भवतीति कृत्वार्षमुच्यते । आरेकः संशयः । विपर्ययो विपर्यासः । प्रथमस्वप्नावस्थाभावी प्रत्ययः स्वप्नः । तद्विषयं स्वप्नेऽपि यदपरं ज्ञानं भवति स स्वप्नान्तिकः । एत एव प्रज्ञानविशेषाः । शेषं सुबोधम् । तदेतत्प्रमाणमर्थन्तो निर्दिशन्नाह—“ज्ञानानि” चेत्यादि ।

ज्ञानानि च मदीयानि तत्वादिव्यतिरेकिणा ।
संवेदकेन वेद्यानि प्रत्ययत्वात्तदन्यवत् ॥ १७७ ॥

तत्वादीत्यत्रादिशब्देन बुद्धीन्द्रियवेदनाः परिगृह्यन्ते । प्रत्ययत्वादित्युपलक्षणम् । तदन्येऽपि स्वकारणायत्तजन्मवत्त्वादयो ग्राह्याः ॥ १७७ ॥

शङ्करस्वामी पुनरन्यथा प्रमाणयति, इच्छादयः क्वचिदाश्रिताः वस्तुत्वे सति कार्यत्वाद्रूपादिवदिति, तद्दर्शयति—“इच्छादयश्चे”त्यादि ।

इच्छादयश्च सर्वेऽपि क्वचिदेते समाश्रिताः ।
वस्तुत्वे सति कार्यत्वाद्रूपवत्स च नः पुमान् ॥ १७८ ॥

वस्तुत्वग्रहणादेष न नाशे व्यभिचारवान् ।
हेतुमत्त्वेऽपि नाशस्य यस्मान्नैवास्ति वस्तुता ॥ १७९ ॥

“वस्तुत्वग्रहणा”दित्यादिना वस्तुत्वे सतीति विशेषणस्य साफल्यं दर्शयति ॥ १७८ ॥ १७९ ॥

उद्द्योतकरस्तु प्रमाणयति, देवदत्तस्य रूपरसगन्धस्पर्शप्रत्यया एकानेकनिमित्ताः, मयेति प्रत्ययेन प्रतिसन्धीयमानत्वात् । कृतसमयानामेकस्मिन्नर्तकीभ्रूक्षेपे युगपदनेकम्पुरुषाणां प्रत्ययवत् । अस्यायमर्थः—यथा किल नर्त्तकीभ्रूभङ्गानन्तरमस्माभिर्वस्त्राणि प्रक्षेप्तव्यानीत्येवं कृतसमयानां बहूनां नानाकर्त्तृका नानाभूताः प्रत्यया निमित्तस्यभ्रूभङ्गस्यैकत्वान्मया दृष्टो मया दृष्ट इति प्रतिसन्धीयन्ते, तथेहापि नानाविषयाः प्रत्यया निमित्तस्यैकत्वात्प्रतिसन्धास्यन्ते । यच्च तदेकं निमित्तं स आत्मेति । प्रतिसन्धानं पुनर्मया दृष्टं मया श्रुतमित्येवमादीनां प्रत्ययानामेकज्ञातृनिमित्तत्वेन घटनम् । नर्त्तकीभ्रूक्षेपे तु प्रत्ययानामेकविषयत्वापादनम् । सर्वथा प्रतिसन्धानमुच्यते यदेकमर्थं निमित्तीकृत्य प्रत्ययानां सम्बन्धनम् । तदेतत्प्रमाणं दर्शयन्नाह—“रूपादिप्रत्यया” इति ।

रूपादिप्रत्ययाः सर्वेऽप्येकानेकनिमित्तकाः ।
मयेति प्रत्ययेनैषां प्रतिसन्धानभावतः ॥ १८० ॥

नर्त्तकीभ्रूलताभङ्गे बहूनां प्रत्यया इव ।
अन्यथा प्रतिसन्धानं न जायेतानिबन्धनम् ॥ १८१ ॥

सुबोधम् ॥ १८० ॥ १८१ ॥

अयमपरस्तदीयः प्रयोगः—आत्मेति पदं शरीरेन्द्रियमनोबुद्धिवेदनासङ्घातव्यतिरिक्तवचनं प्रसिद्धपर्यायव्यतिरिक्तत्वे सत्येकपदत्वात् घटादिशब्दवत् । तदाह—“बुद्धिन्द्रिया”दीत्यादि ।

बुद्धीन्द्रियादिसङ्घातव्यतिरिक्ताभिधायकम् ।
आत्मेति वचनं यस्मादिदमेकपदं मतम् ॥ १८२ ॥

सिद्धपर्यायभिन्नत्वे यच्चैवं परिनिश्चितम् ।
यथानिर्दिष्टधर्मेण तद्युक्तं पटशब्दवत् ॥ १८३ ॥

सिद्धपर्यायभिन्नत्व इति । बुद्धीन्द्रियादीनां ये सिद्धाः पर्याया धीप्रभृतयस्तेभ्यो भिन्नत्वे सतीत्यर्थः । “यच्चैवं परिनिश्चित”मिति । सिद्धपर्यायभिन्नत्वे सत्येकपदत्वेन ।“यथानिर्दिष्टधर्मेणे”ति । बुद्ध्यादिव्यतिरिक्तार्थाभिधायित्वेन ॥ १८२ ॥ १८३ ॥

पुनः स एव व्यतिरेकिणं हेतुमात्मसिद्धये प्रयुक्तवान् । नेदं निरात्मकं जीवच्छरीरमप्राणादिमत्त्वप्रसङ्गाद्धटादिवदिति । तद्दर्शयति—“प्राणादिभि”रित्यादि ।

प्राणादिभिर्वियुक्तश्च जीवद्देहो भवेदयम् ।
नैरात्म्याद्धटवत्तस्मान्नैवास्त्यस्य निरात्मता ॥ १८४ ॥

“अस्य निरात्मते”ति । जीवद्देहस्य । यद्वा—अस्यात्मनो निरात्मता निःस्वभावतानास्ति, अपि तु सत्त्वं सिद्धमित्यर्थः ॥ १८४ ॥

अथ नित्यत्वविभुत्वे कथमस्य प्रतिपत्तव्ये इत्यत्राविद्धकर्णस्तावत्प्रमाणयति—मातुरुदरनिष्क्रमणोत्तरकालं मदीयाद्यप्रज्ञानसंवेदकसंवेद्यान्यतत्कालानि मदीयानि प्रज्ञानानि मदीयप्रज्ञानत्वात् आद्यमदीयप्रज्ञानवत् । एवं दुःखादयोऽपि पक्षीकर्त्तव्याः । एतच्च नित्यत्वेऽनुमानम्, तदेतद्दर्शयति—“सद्योजाताद्ये”त्यादि ।

सद्योजाताद्यविज्ञानवेदकेनैव वेद्यते ।
सर्वमुत्तरविज्ञानं मज्ज्ञानत्वात्तदाद्यवत् ॥ १८५ ॥

“तदाद्यव”दिति । तस्योत्तरकालभाविनो ज्ञानस्याद्य तदाद्यम् ॥ १८५ ॥

विभुत्वसिद्धये प्रमाणयति । अवनिजलानिलमनांसि विप्रतिपत्तिविषयभावापन्नानिदूरतरवर्त्तीनि मदीयेनात्मना सह सम्बध्यन्ते । मूर्त्तत्ववेगवत्त्वपरत्वापरत्वमिथःसंयोगविभागवत्त्वेभ्यो मदीयशरीरादिवदिति । तद्दर्शयति—“मदीये”त्यादिना ।

मदीयेनात्मना युक्तं दूरदेशनिवर्त्त्यपि ।
क्षित्यादिमूर्त्तिमत्त्वादेरस्मदीयशरीरवत् ॥ १८६ ॥

“एवमि”त्यादिनोपसंहरति ।

एवं च सत्त्वनित्यत्वविभुत्वानां विनिश्चये ।
आत्मनो न निरात्मानः सर्वधर्मा इति स्थितम् ॥ १८७ ॥

“तदत्रे”त्यादिना प्रतिविधत्ते ।

तदत्र प्रथमे तावत्साधने सिद्धसाध्यता ।
सर्वज्ञादिप्रवेद्यत्वं त्वज्ज्ञानस्येष्यते यतः ॥ १८८ ॥

“प्रथमे साधन” इति । ज्ञानानि च मदीयानीत्यादौ । तत्र सिद्धसाध्यता भवदीयप्रत्ययानामस्माभिर्भवच्छरीरादिव्यतिरेकिणा सर्वविदा श्रावकप्रत्येकबुद्धैस्तदन्यैश्च परिवित्तवेदिभिर्वेदनाभ्युपगमात् ॥ १८८ ॥

यश्चापि पुरुषान्तरप्रत्ययवदिति साधर्म्यदृष्टान्तःस साध्यविकल इति दर्शयन्नाह—“प्रकाशकानपेक्षं चे”त्यादि ।

प्रकाशकानपेक्षं च स्वचिद्रूपं प्रजायते ।
अन्यविज्ञानमप्येवं साध्यशून्यं निदर्शनम् ॥ १८९ ॥

यतः पुरुषान्तरीयकमपि ज्ञानं प्रकाशकान्तरानपेक्षं स्वसंविद्रूपमेवोपजायते । तेनतत्वादिव्यतिरिक्तसंवेदकसंवेद्यत्वेन साध्येन शून्यमिदं निदर्शनम् ॥ १८९ ॥

अथापि स्यान्नान्यदीयं चित्तमात्रमुदाहरणत्वेनाभिप्रेतं किन्तु यस्मिन्विषये विज्ञानमागृहीततदाकारमुपजायते तदिहोदाहरणमिष्टमित्याह—“तदाकारोपरक्तेने”त्यादि ।

तदाकारोपरक्तेन यदन्येन प्रवेद्यते ।
तस्योदाहरणत्वेऽपि भवेदन्येन संशयः ॥ १९० ॥

एवमपि यत्स्वसंविद्रूपमेव ज्ञानं ज्ञानान्तरसंवेदनरहितमुत्पद्यते तेन संशयो भवेद(तो) नैकान्तिको हेतुरिति यावत् । अथ तदपि स्वव्यतिरिक्तसंवेदकसंवेद्यमुदयव्ययधर्मकत्वप्रमेयत्वस्मर्यमाणप्रमाणत्वेभ्यो विषयवदिति मतम् । तदत्रापि साध्यविपर्यये बाधकाभावाद्व्यतिरेको न निश्चितः । उत्तरोत्तरज्ञानानुभवे चानवस्था । न ह्यव्यक्तव्यक्तिको विषयः सिद्ध्येत् । ततश्चैकविषयसिद्ध्यर्थं ज्ञानपरम्परामनुसरतः सकलमेव पुरुषायुषमुपयुज्येत । अथापि किञ्चिज्ज्ञानमनवस्थाभयात्स्वसंविदितरूपमेवोत्पद्यत इति । तथा तेनैवोदयव्ययधर्मकत्वादीनां हेतूनामनैकान्तिकता । तद्वदेवान्येषामपि ज्ञानानां स्वसंवेदनत्वाभ्युपगमे कः प्रद्वेषः । अथ तदसंविदितरूपमेवेष्यते । एवमपि तदसिद्धौ सर्वेषां पूर्वज्ञानानामप्रसिद्धिरनभिव्यक्तव्यक्तिकत्वात् । ततश्च विषयोऽपि न प्रसिद्ध्येत् । येषां तु विज्ञानवादिनां मतं सर्वमेव ज्ञानं ग्राह्यग्राहकवैधुर्यात्स्वयमेव प्रकाशते—न तु ज्ञानान्तरेण वेद्यत इति, तान्प्रति साध्यविकलता दोषोऽकम्प्य एव । एवमन्येष्वपि कारणायत्तजन्मवत्त्वादिषु साधनेषु सिद्धसाध्यतादिदोषा वाच्याः । यच्चापि सदादीत्यादि धर्मिविशेषणं कृतं तत्पूर्ववदनर्थकं, न ह्यस्य प्रस्तुतसाध्यसिद्धावङ्ग भावोऽस्ति । तथाहि—एतावता किं न गतम्, मदीयाः प्रत्यक्षादिप्रत्यया मदीयशरीरादिव्यतिरिक्तसंवेदकसंवेद्या इति । प्रत्यक्षानुमानादिप्रविभागेनापि धर्मिप्रभेदोऽनर्थक एव, मदीयाः प्रत्यया इत्येतावतैव गतत्वात् । न चापि प्रतिवादिनो यथोक्तविशेषणविशिष्टो धर्मी सिद्ध इत्याश्रयासिद्धता च हेतूनाम् । अथाऽपि विफलं विशेषणमुपादाय तत्साधनार्थमन्यदेव साधनमुच्यते । तथा सति प्रकृतादर्थादप्रकृतसम्बद्धार्थमर्थान्तरं निग्रहस्थानं भवेत् ॥ १९० ॥

क्वचित्समाश्रितत्वं च यदीच्छादेः प्रसाध्यते ।
तत्र कारणमात्रं चेदाश्रयः परिकल्प्यते ॥ १९१ ॥

इष्टसिद्धिस्तदाधारस्त्वाश्रयश्चेन्मतस्तव ।
तथाऽपि गतिशून्यस्य निष्फलाऽऽधारकल्पना ॥ १९२ ॥

यच्चोक्तम्—इच्छादयश्चेत्यादि, तत्र यदि कारणमात्रमाश्रय इच्छादीनां साध्यते, तदा सिद्धसाध्यता, न हि निष्कारणा इच्छादयोऽस्माभिरिष्यन्ते । चतुर्भिश्चित्तचैत्ता हीति वचनात् । “परिकल्प्यत” इति । वर्ण्यत इत्यर्थः । अथाधारलक्षण आश्रयः साध्यते तदाऽपि प्रतिज्ञार्थस्यानुमानबाधितत्वान्न तेन हेतोर्व्याप्तिः सिद्ध्यतीति दर्शयति—“तदाधार” इत्यादि । तेषामिच्छादीनामाधारस्तदाधारः । मूर्त्तानां हि भावानां प्रसर्पणधर्माणां स्यादधःपातप्रतिबन्धादाधारकल्पना । ये तु सुखादयो गतिशून्यास्तेषामधःपतनासम्भवात्किङ्कुर्वन्नात्मादिराधारः स्यात् ॥ १९१ ॥ १९२ ॥

ननु यथा घटादयो बदरादीनामकिञ्चित्करा अप्याधारास्तद्वदात्मा सुखादीनामाधारो भविष्यतीत्याह—“आश्रय” इत्यादि ।

आश्रयो बदरादीनां कुण्डादिरुपपद्यते ।
गतेर्विबन्धकरणाद्विशेषोत्पादनेन वा ॥ १९३ ॥

गतेर्विबन्धकरणादित्यक्षणिकपक्षे । विशेषोत्पादनेन वेति क्षणिकपक्षे । उपादानकारणसमानदेशोत्पादनं तत् । अयं द्विविधोऽपि प्रकार इच्छादीनां न सम्भवतीति नतेषां कश्चिदाधारो युक्तः ॥ १९३ ॥

यच्चापि वस्तुत्वे सतीति विशेषणं तदनर्थकमेव व्यवच्छेद्याभावादिति दर्शयन्नाह—“नीरूपस्ये”त्यादि ।

नीरूपस्य च नाशस्य कार्यत्वं नैव युक्तिमत् ।
अतो विशेषणं व्यर्थं हेतावुक्तं परैरिह ॥ १९४ ॥

यदि हि विनाशस्य कार्यत्वं सम्भवेत्तदा तद्व्यवच्छेदाय वस्तुत्वे सतीति विशेषणं सार्थकं भवेत् । यावता तस्यावस्तुतया हेतुभिर्न किञ्चित्क्रियत इति कथं हेतुमत्ता भवेत् । प्रयोगः—यदवस्तु न तत्कस्यचित्कार्यम्, यथा शशविषाणम् । अवस्तु च नाश इति व्यापकविरुद्धोपलब्धेः । कार्यत्वे सति वस्तुत्वप्रसङ्गः सुखादिवदितीदमत्र बाधक प्रमाणम् । किञ्चाभ्युपगमविरोधो भवताम् । तथाहि—कार्यमित्यात्मलाभाख्यात्स्वकारणसमवायात्सत्तासमवायाद्वाऽभिधानप्रत्ययौ भवतः । न च विनाशस्य द्रव्यादिस्वभावरहितस्य स्वकारणे समवायोऽस्ति । तत्र वा सत्तायाः । तस्य नीरूपत्वात् । अन्यथा ह्यसौ द्रव्यादिवदाश्रितोऽपि स्याद्वस्तु चेति न हेतुविशेषणेन व्यवच्छेद्यो भवेत् । अतो वस्तुत्वे सतीति विशेषणं व्यर्थम् ॥ १९४ ॥

रूपादिप्रत्यया इत्यादावाह—“मये”त्यादि ।

मयेति प्रतिसन्धानमविद्योपप्लवादिदम् ।
क्षणिकेष्वपि सर्वेषु कर्त्रेकत्वादिभासतः ॥ १९५ ॥

मिथ्याविकल्पतश्चास्मान्न युक्ता तत्त्वसंस्थितिः ।
सामर्थ्यभेदाद्भिन्नोऽपि भवत्येकनिबन्धनम् ॥ १९६ ॥

मया दृष्टं श्रुतमित्येवं यदेकज्ञातृनिमित्तत्वेन प्रत्ययानां घटनलक्षणं प्रतिसन्धानं तदेतदनैकान्तिकम् । यतः क्षणिकेष्वपि भावेषु भ्रान्तादेककर्तृत्वाभिमानतः प्रतिसन्धानसम्भवात् । तस्मादेवम्भूतात्प्रतिसन्धानान्न युक्ता वस्तुव्यवस्था । कथं पुनर्भवतः क्षणाः प्रतिसन्धाननिमित्ततामुपगच्छन्तीत्याह—“सामर्थ्यभेदा”दित्यादि । सामर्थ्यभेदात्—सामर्थ्यविशेषात् । अनेकोऽप्यर्थ एकाकारपरामर्शादिकार्यस्यैकस्य निबन्धनम्—कारणम्, यथा गुडूच्यादयो ज्वरादिशमन इति पश्चाद्विस्तरेण प्रतिपादयिष्यति ॥ १९५ ॥ १९६ ॥

अथ भ्रान्तत्वमेव कथमस्य निश्चितमित्याह—“एकानुगामी”त्यादि ।

एकानुगामिकार्यत्वे पौर्वापर्यं विरुध्यते ।
रूपशब्दादिचित्तानां शक्तकारणसन्निधेः ॥ १९७ ॥

यदि ह्येकस्य पूर्वोत्तरकालानुयायिन आत्मादेर्नित्यस्य कार्यत्वमेषां नीलादिप्रत्ययानां स्यात्तदा क्रमभावित्वमेषां विरुध्येत । अविकलकारणत्वेन युगपदेवोत्पादप्रसङ्गात् । न चापि नित्यस्य परापेक्षाऽस्ति । तस्य केनचिदनुपकार्यत्वात् ॥ १९७ ॥

किं च सामान्येन कारणपूर्वकत्वमात्रं प्रसाध्यते तदा सिद्धसाध्यतेति दर्शयति—“एकानन्तरे”त्यादि ।

एकानन्तरविज्ञानात् षड्विज्ञानसमुद्भवः ।
युगपद्वेद्यते व्यक्तमत इष्टप्रसाधनम् ॥ १९८ ॥

यत एकस्मादनन्तरविज्ञानात्समनन्तरप्रत्ययात् षण्णां चक्षुरादिविज्ञानानामुत्पादः स्पष्टं संवेद्यते । तथा हि—यदैव नर्त्तकीरूपं पश्यति, तदैव मुरजादिशब्दं शृणोति, कुवलयादिगन्धं च जिघ्रति, कर्पूरादिरसमास्वादयति, व्यजनानिलादिस्पर्शं चानुभवति, वस्त्रादि च मनसाऽऽदातुं चिन्तयति । न चालातचक्रदर्शनवत्तद्दृष्टिराशुसञ्चारादिति युक्तं वक्तुम् । अस्पष्टप्रतिभासितत्वप्रसङ्गात् । तथा हि—दर्शनानां प्रतिसन्धानादयं सकृद्ग्रहाभिमानो भवता वर्ण्यते । प्रतिसन्धानं च स्मृत्या क्रियते । सा चातीतविषयत्वादस्पष्टा । स्पष्टश्चायं सकृद्रूपादिप्रतिभासः संवेद्यते । किञ्च सरो रस इत्यादौ सुतरामाशु सकारादिवर्णग्राहिणां ज्ञानानामुदयोऽस्तीति । अत्राऽपि सकृद्ग्रहाभिमानः स्यात् । ततश्च न क्वचित् क्रमो व्यवसीयेत । एतच्च पश्चाद्विस्तरेण प्रतिपादयिष्यते । इह तु व्यक्तमिति वचनात्परिहारदिक् प्रदर्शितैव ॥ १९८ ॥

अथ नित्यैकरूपपदार्थहेतुत्वादेषामेकनिमित्तत्वं प्रसाध्यते, तदा व्याप्तेरनुमानबाधेति दर्शयति—“क्रमिणा”मित्यादि ।

क्रमिणां त्वेकहेतुत्वं नैवेत्युक्तमनन्तरम् ।
अतोऽनुमानबाधाऽस्मिन्व्याप्तेर्व्यक्तं समीक्ष्यते ॥ १९९ ॥

“अनन्तर”मिति । एकानुगामीत्यादिना । तत्रेदं बाधनम्, ये सन्निहिता अप्रतिबद्धसामर्थ्यकारणास्ते युगपदेव भवन्ति । यथा समग्रसामग्रीकाः सकृद्भाविनोऽङ्कुरादयः । सन्निहिताप्रतिबद्धसामर्थ्यकारणाश्च देवदत्तश्च रूपादिविषयाः प्रत्यया इतिस्वभावहेतुः । न चैवं सम्भवति । तस्माद्विपर्ययः ॥ १९९ ॥

दृष्टान्तस्यापि साध्यविकलतेति दर्शयति—“नर्त्तकी”त्यादि ।

नर्त्तकीभ्रूलताभङ्गो नैवैकः परमार्थतः ।
अनेकाणुसमूहत्वादेकत्वं तस्य कल्पितम् ॥ २०० ॥

न हि नर्त्तकीभ्रूलतादिरेकोऽस्ति तस्यानेकाणुसमूहत्वात् । यद्येवं कथमेकशब्दविषयत्वं तस्य भवतीत्याह—“एकत्वं तस्य कल्पित”मिति ॥ २०० ॥

अथ कल्पनायाः किं निबन्धनमित्याह—“एककार्योपयोगित्वा”दित्यादि ।

एककार्योपयोगित्वादेकशब्दस्य गोचरः ।
साध्योऽप्येवंविधोऽभीष्टो यदि सिद्धप्रसाधनम् ॥ २०१ ॥

यस्मादसौ भ्रूलताभङ्ग एकस्मिन्कार्ये चक्षुर्विज्ञानादिक उपयुज्यते, तस्माद्भिन्नोऽप्येकशब्दविषयो भवति । अथापि स्यादस्माभिरेवंविध एव कल्पितैकत्वः साध्योऽभिप्रेतः (अतः) साध्यविकलता दृष्टान्तस्य न भवतीत्याह—“साध्योऽपी”त्यादि । एवंहि सिद्धसाध्यता, पूर्वापरीभूतानां संस्काराणामेकप्रत्ययनिमित्तानेकसत्वप्रज्ञप्तिविषयत्वात् ॥ २०१ ॥

यच्चोक्तं बुद्धीन्द्रियादीत्यादि, अत्राह—“बुद्धिचित्ते”त्यादि ।

बुद्धिचित्तादिशब्दानां व्यतिरिक्ताभिधायिता ।
नैवैकपदभावेऽपि पर्यायाणां समस्ति नः ॥ २०२ ॥

अतोऽनैकान्तिको हेतुर्ननूक्त तद्विशेषणम् ।
उच्यते नैव सिद्धं तच्चेतःपर्यायतास्थितेः ॥ २०३ ॥

अहङ्काराश्रयत्वेन चित्तमात्मेति गीयते ।
संवृत्त्या वस्तुवृत्त्या तु विषयोऽस्य न विद्यते ॥ २०४ ॥

एकपदत्वादित्यनैकान्तिको हेतुः । तथाहि—बुद्धिश्चित्तं ज्ञानमिन्द्रियमक्षं वेदना चित्तनुः कायः शरीरमित्यादीनां बुद्धिन्द्रियवेदनाशरीरपर्यायाणामेकपदत्वेऽपि नास्मन्मतेऽस्ति तद्व्यतिरिक्तपदार्थाभिधायितेति ततो विपक्षाद्व्यावृत्त्यसिद्धेरनैकान्तिकत्वम् । ननु चेदमेवाशङ्क्य सिद्धपर्यायाभिन्नत्वे सतीति तस्य हेतोर्विशेषणमुक्तं तत्कथमनैकान्तिकता भवति, तदत्राभिधीयते । असिद्धमेतद्धेतुविशेषणम्, कस्मात् ? चेतःपर्ययतास्थितेः । आत्मेत्येतस्य चित्तपर्यायत्वव्यवस्थानात् । यथोक्तम्, चित्तमेवाहङ्कारसंश्रयत्वादात्मेत्युपचर्यते इति । आत्मेत्युपचर्यते—व्यवह्रियत इत्यर्थः । तेन यदुक्तम्मुद्द्योतकारेण मुख्यासम्भवादुपचारो न युक्त इति तदभिप्रायापरिज्ञानादिति ग्रहीतव्यम् । एतदेव गीयत इत्यनेन स्पष्टयति । तस्मादसिद्धविशेषणो हेतुः । एतच्च संवृत्त्या सविषयत्वमुपगम्यास्य हेतोरनैकान्तिकत्वमुक्तम् । यदि तु परमार्थेन तु बुद्ध्यादिव्यतिरिक्तार्थाभिधायित्वं प्रसाध्यते तदा व्याप्तेरनुमानबाधितत्वादयुक्त एवायंहेतुरिति दर्शयन्नाह—“वस्तुवृत्त्ये”त्यादि । अध्यारोपितार्थविषयत्वात्सर्वस्यैव शाब्दस्य व्यवहारस्येति पश्चात्प्रतिपादयिष्यते । तेनास्यात्मशब्दस्य विषयो नास्त्येवेति कथंहेतोः साध्येन व्याप्तिर्भवेदिति भावः ॥ २०२ ॥ २०३ ॥ २०४ ॥

सविशेषणोऽप्यनैकान्तिको हेतुरिति दर्शयन्नाह—“नभस्तलारविन्दादा”वित्यादि ।

नभस्तलारविन्दादौ यदेकं विनिवेश्यते ।
कारकादिपदं तेन व्यभिचारोऽपि दृश्यते ॥ २०५ ॥

यथा हि गगनकुसुमादावत्यन्ताभावेन केनचित्कारकादिपदं निवेश्यते तदा तस्योभयप्रसिद्धेः शरीरादिवाचकव्यतिरिक्तत्वे सत्येकपदत्वमस्ति, न च शरीरादिव्यतिरिक्तवस्तुविषयत्वमपीत्यनैकान्तिको हेतुः ॥ २०५ ॥

कथं पुनः कारकादिपदं निरुपाख्ये शक्यं नियोक्तुमित्याह—“सङ्केतमात्रभाविन्य” इत्यादि ।

सङ्केतमात्रभाविन्यो वाचः कुत्र न सङ्गताः ।
नैवात्मादिपदानां च प्रकृत्याऽर्थप्रकाशनम् ॥ २०६ ॥

स्वतन्त्रेच्छामात्रभावी हि सङ्केतः तन्मात्रवाचिन्यश्च वाचः, तत्कथमासां क्वचिदपि प्रवृत्तिप्रसररोधो भवेत् । अथापि स्यादसामयिकैकपदत्वादित्ययं हेत्वर्थो विवक्षितस्तेन व्यभिचारो न भविष्यतीत्याह—“नैवे”त्यादि । न हि सङ्केतमन्तरेण शब्दानां प्रकृत्याऽर्थप्रकाशनमस्ति, अव्युत्पन्नस्यापि ततोऽर्थप्रतीतिप्रसङ्गात । स्वेच्छया च नियोगाभावप्रसङ्गात् । सङ्केतवैयर्थ्यप्रसङ्गाच्च । तस्मादात्मादिपदानां नैव प्रकृत्याऽर्थप्रकाशनं सिद्धमित्यसिद्धो हेतुः । अथाविशेषास्पदपदार्थान्तर्भूतज्ञेयविषयत्वे सतीत्यपरं विशेषणमुपादीयते । यथोक्तं भाविवक्तेन । एवमपि यथोक्तविशेषणासिद्धेरसिद्धोहेतुर्व्याप्त्यभावाच्चानैकान्तिकः ॥ २०६ ॥

यच्चोक्तं प्राणादिभिर्वियुक्तश्चेत्यादि, तत्राह—“प्राणादीनां चे”त्यादि ।

प्राणादीनां च सम्बन्धो यदि सिद्धः सहात्मना ।
भवेत्तदा प्रसङ्गोऽयं युज्यते सङ्गतोऽन्यथा ॥ २०७ ॥

न वन्ध्यासुतशून्यत्वे जीवद्देहः प्रसज्यते ।
प्राणादिविरहे ह्येवं तवाप्येतत्प्रसञ्जनम् ॥ २०८ ॥

यदि हि प्राणादीनामात्मना सह तादात्म्यलक्षणस्तदुत्पत्तिलक्षणो वा कश्चित्सम्बन्धः सिद्धो भवेत्तदाऽऽत्मनिवृत्तौ शरीरे प्राणादिनिवृत्तिप्रसङ्गो युक्तिमान्भवेत् । अन्यथा ह्यप्रतिबद्धस्य निवृत्तावन्यनिवृत्तिप्रसङ्गोऽसङ्गत एव स्यादतिप्रसङ्गात् । न हि वन्ध्यापुत्रनिवृत्तौ तदसम्बद्धानां प्राणादीनां निवृत्तिर्भवति । तस्माद्यथा वन्ध्यासूनुनिवृत्तौ तदसम्बद्धानामपि प्राणादीनां निवृत्तिः प्राप्नोति घटादिवदिति केनचित्प्रसङ्गापादनङ्क्रियमाणमनैकान्तिकं भवति, एवं तवाप्येतदात्मनिवृत्तौ प्राणादिनिवृत्तिप्रसञ्जनमनैकान्तिकमेव, सम्बन्धासिद्धेरिति भावः ॥ २०७ ॥ २०८ ॥

कथं पुनः सम्बन्धासिद्धिरित्याह—“न ताव”दित्यादि ।

न तावदिह तादात्म्यं भेदाङ्गीकरणात्तयोः ।
कार्यकारणता नापि यौगपद्यप्रसङ्गतः ॥ २०९ ॥

तदात्मनो निवृत्तौ हि तत्सम्बन्धविवर्जिताः ।
किममी विनिवर्तन्ते प्राणापानादयस्तनोः ॥ २१० ॥

“भेदाङ्गीकरणात्त”योरिति । तयोरात्मप्रणादिकयोर्न तादात्म्यलक्षणः सम्बन्धोऽस्ति, स्वभावभेदाभ्युपगमात् । तथाहि—अनित्या अव्यापिनो मूर्त्ताश्च प्राणादयः, तद्विपरीतस्त्वात्मा । नापि तदुत्पत्तिलक्षणः, प्राणादीनामविकलकारणत्वेन यौगपद्यप्रसङ्गात् । न चैतद्व्यतिरेकेण सम्बन्धान्तरमस्ति । तस्मात्सम्बन्धरहिताः प्राणादयः किमिति तनोः शरीराज्जीवनविशिष्टाद्विनिवर्त्तन्ते । नैव । तेनानैकान्तिको हेतुरिति भावः । एतेनेच्छाद्वेषप्रयत्नसुखदुःखज्ञानादीनि यान्यात्मलिङ्गत्वेन परैरुक्तानि तानि प्रतिषिद्धानि द्रष्टव्यानि, सम्बन्धासिद्धेः । प्रयोगः—ये यत्र न प्रतिबद्धास्ते तस्य गमका न भवन्ति, यथा तिलादेर्बलाकादयः, न प्रतिबद्धाश्च प्राणादय आत्मनीति व्यापकानुपलब्धिः । न चासिद्धो हेतुः । पूर्वं द्विविधस्यापि सम्बन्धस्य निरस्तत्वात् । न चाप्यनैकान्तिकः, सर्वस्य सर्वगमकत्वप्रसङ्गात् । न चापि विरुद्धः, सपक्षे भावादिति । यश्चाप्याह— कर्तुः प्रसिद्धिः करणप्रसिद्धेरिति, तदसिद्धम् । न हि चक्षुरादीनां परमार्थेन करणत्वं सिद्धम्, विज्ञानोत्पत्तौ सर्वेषां हेतुभावस्य तुल्यत्वात् । स्वेच्छामात्रपरिकल्पितत्वाच्च कर्तृकरणव्यवहारस्येति । कर्तृत्वमात्रसाधने सिद्धसाध्यता, परिकल्पितस्यानिरस्तत्वात् । पारमार्थिककर्तृत्वसाधनेऽनैकान्तिकता । तथाभूतेन कर्त्राक्वचिदपि चक्षुरादीनां प्रतिबन्धासिद्धेः ॥ २०९ ॥ २१० ॥

यच्चोक्तं सद्योजाताद्यविज्ञानेत्यादि, तत्राह—“एवं चे”त्यादि ।

एवं च साधनैः सर्वैरात्मसत्वाप्रसिद्धितः ।
नित्य(व्यापित्वयो)रुक्तं साध्यहीनं निदर्शनम् ॥ २११ ॥

आद्यज्ञानवत्, मदीयशरीरवत्, इति यदेतन्निदर्शनमुक्तं तद्यथोक्तसाध्यधर्मविकलमात्मनोऽसिद्धत्वात् । अतोऽनैकान्तिकता हेतोः ॥ २११ ॥

“अन्यै”रित्यादिना पुनरप्युद्द्योतकरभाविविक्तादेर्मतमाशङ्कते ।

अन्यैः प्रत्यक्षसिद्धत्वमात्मनः परिकल्पितम् ।
स्वसंवेद्यो ह्यहङ्कारस्तस्यात्मा विषयो मतः ॥ २१२ ॥

ते ह्येवमाहुः—प्रत्यक्षत एवात्मा सिद्धः, तथाहि—लिङ्गलिङ्गिसम्बन्धस्मृत्यनपेक्षमहमिति ज्ञानं रूपादिज्ञानवत्प्रत्यक्षम् । अस्य च न रूपादिर्विषयः, तद्विज्ञानभित्रप्रतिभासत्त्वात् । तस्मादन्य एव विषय इति ॥ २१२ ॥

“तदयुक्तमि”त्यादिना प्रतिविधत्ते ।

तदयुक्तमहङ्कारे तद्रूपानवभासनात् ।
न हि नित्यविभुत्वादिनिर्भासस्तत्र लक्ष्यते ॥ २१३ ॥

गौरवर्णादिनिर्भासो व्यक्तं तत्र तु विद्यते ।
तत्स्वभावो न चाऽऽत्मेष्टो नायं तद्विषयस्ततः ॥ २१४ ॥

असिद्धमहङ्कारस्यात्मविषयत्वं तदाकारशून्यत्वात् । प्रयोगः—यद्यदाकारशून्यं न तद्विषयम् । यथा चक्षुर्ज्ञानं न शब्दविषयम् । आत्माकारशून्यं चाहमिति ज्ञानमिति व्यापकानुपलब्धिः । न चायमसिद्धो हेतुरिति दर्शयति—“न ही”त्यादि । तथा हि— नित्यविभुत्वचेतनत्वादिगुणोपेत आत्मेष्यते । न चात्राहम्प्रत्यये नित्यत्वादिप्रतिभासो लक्ष्यते । किन्तु गौरोऽहं मन्दलोचनः परिकृशस्तीव्रवेदनाभिन्न इत्यादिदेहावस्थासंस्पर्शेनोत्पत्तेर्गौरवर्णादिलक्षणः प्रतिभासः प्रतीयते । तस्माद्देहाद्यवस्थासंस्पर्शेनोत्पद्यमानोऽहङ्कारो देहाद्यालम्बन एवेति ज्ञायते । “व्यक्त”मिति । स्पष्टमस्खलद्वृत्तित्वात् । ततश्च यदुक्तमुद्द्योतकरप्रभृतिभिः—उपभोगायतने शरीरेऽयमात्मोपचारः, यथाऽनुकूले भृत्ये राजा ब्रूते, य एवाहं स एवायं मे भृत्य इति । तदपास्तं भवति । तथा हि—यद्ययं गौणः स्यात्तदा स्खलद्वृत्तिर्भवेत् । न हि लोके सिंहमाणवकयोर्मुख्यारोपितयोर्द्वयोरपि सिंह इत्यस्खलिता बुद्धिर्भवति । मदीयाः शरीरादय इति व्यतिरेकदर्शनात् स्खलद्वृत्तिरङ्कारः शरीरादिष्विति चेत् । न । आत्मन्यपि स्खलद्वृत्तित्वप्रसङ्गात् । तत्रापि हि मदीय आत्मेति व्यतिरेको दृश्यते । कल्पितोऽत्र भेद इति चेत् । इतरत्रापि समानमस्तु । तर्हि गौरोऽहमित्यादिप्रत्ययो मुख्यस्तथाऽपि कस्मा दात्माऽस्य विषयो न भवतीत्याह—“तत्स्वभाव” इति । गौरादिस्वभावः । तस्य रूपादिगुणासम्भवात् ॥ २१३ ॥ २१४ ॥

एवं तावत्तदाकारशून्यत्वान्नात्मविषयोऽहङ्कारो युक्त इति वर्णितम् । तत्र विवादाभावप्रसङ्गाच्च न युक्त इति दर्शयति—“यदी”त्यादि ।

यदि प्रत्यक्षगम्यश्च सत्यतः पुरुषो भवेत् ।
तत्किमर्थं विवादोऽयं तत्सत्त्वादौ प्रवर्त्तते ॥ २१५ ॥

तस्यात्मनः सत्त्वनित्यत्वविभुत्वादौ ॥ २१५ ॥

स्यादेतद्यथा भवतां प्रत्यक्षीकृतेऽपि नीलादौ तत्स्वभावाव्यति(रिक्ते)क्षणिकत्वादौविवादः प्रवर्त्तते । तथाऽऽत्मन्यपि भविष्यतीत्याह—“तथा ही”त्यादि ।

तथा हि निश्चयात्माऽयमहङ्कारः प्रवर्त्तते ।
निश्चयारोपबुद्ध्योश्च बाध्यबाधकता स्थिता ॥ २१६ ॥

युक्तो हि नीलादौ प्रत्यक्षेण गृहीतेऽपि तदव्यतिरिक्ते क्षणिकत्वादौ विवादः, तस्य प्रत्यक्षस्य निर्विकल्पत्वेनानिश्चायकतया क्षणिकत्वादेरनिश्चितत्वात् । भवत्पक्षे तु न युक्तोऽहम्प्रत्ययस्य सविकल्पकत्वेन निश्चयात्मकतयाऽऽत्मनो निश्चितत्वात् । न चनिश्चयेन विषयीकृते वस्तुनि तद्विपरीताकारग्राहिणः समारोपप्रत्ययस्य प्रवृत्तिरस्ति, येन विवादो भवेत् । तयोः सहावस्थायित्वेन बाध्यबाधकभावात् । इयमेव हि निश्चयानां स्वार्थप्रतिपत्तिर्यत्तन्निश्चयनं ते चेन्न निश्चिन्वन्ति, न गृह्णन्त्येवेति प्राप्तम् ॥ २१६ ॥

तदेवं परपक्षं निराकृत्य स्वपक्षं स्थापयन्नाह—“तस्मा”दित्यादि ।

तस्मादिच्छादयः सर्वे नैवात्मसमवायिनः ।
क्रमेणोत्पद्यमानत्वाद्बीजाङ्कुरलतादिवत् ॥ २१७ ॥

अथ वाऽऽध्यात्मिकाः सर्वे नैरात्म्याक्रान्तमूर्त्तयः ।
वस्तुसत्त्वादिहेतुभ्यो यथा बाह्या घटादयः ॥ २१८ ॥

प्रयोगः—ये क्रमेणोत्पद्यन्ते ते नात्मसमवायिनो यथा बीजाङ्कुरलतादयः, क्रमेणोत्पद्यन्ते च सुखादय इति विरुद्धव्याप्तोपलब्धेः । आत्मसमवायित्वविरुद्धेनानात्मसमवायित्वेन क्रमोत्पत्तेर्व्याप्तत्वात् । सन्निहिताविकलकारणत्वाद्युगपदुत्पत्तिप्रसङ्गो विपर्यये बाधकं प्रमाणम् । अथवा—ये वस्तुत्वकृतकत्वोत्पत्तिमत्त्वादिधर्मोपेतास्ते सर्वे निरात्मानो यथा बाह्या घटादयः, वस्तुत्वादिधर्मोपेताश्चाध्यात्मिका जीवशरीरमनोबुद्धिदुःखसुखादय इति स्वभावहेतुः ॥ २१७ ॥ २१८ ॥

कथं पुनरत्र व्याप्तिः सिद्धेत्याह—“सात्मकत्वे”त्यादि ।

सात्मकत्वे हि नित्यत्वं तद्धेतूनां प्रसज्यते ।
नित्याश्चार्थक्रियाऽशक्ता नातः सत्त्वादिसम्भवः ॥ २१९ ॥

यदि सात्मकत्वम्—आत्माधिष्ठितत्वं देहादीनां भवेत्, तदैषामात्मा हेतुः स्यात् । न ह्यकारणमधिष्ठाता युक्तोऽतिप्रसङ्गात् । ततश्च तद्धेतूनाम्—आत्महेतुकानां शरीरादीनामविकलकारणतया नित्यत्वम्—अक्रमित्वं प्रसज्येत । स्यादेतद्यदि नाम नित्यत्वमेषां प्रसक्तम्, तथाऽपि वस्तुत्वादिकमनुवृत्तमेवेत्याह—“नित्याश्चे”त्यादि । नित्याश्चसन्तः शरीरादयोऽर्थक्रियायामशक्ताः, प्रसज्यन्त इति प्रकृतमर्थाद्वचनपरिणामेन सम्बध्यते । नित्यस्य क्रमयौगपद्याभ्यामर्थक्रियाविरोधादिति भावः । अर्थक्रियासामर्थ्यनिवृत्तौ च वस्तुत्वनिवृत्तिरर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः । वस्तुत्वनिवृत्तौ सत्त्वादीनामपि वस्तुधर्माणां निवृत्तिरिति सिद्धा व्याप्तिः ॥ २१९ ॥

उद्द्योतकरस्त्वाह—अथ निरात्मकमिति कोऽर्थः साध्यत्वेनेष्टः । यदि तावदात्मनोऽनुपकारकमिति, न दृष्टान्तोऽस्ति । न हि किञ्चिदात्मनोऽनुपकारकमस्ति । अथात्मप्रतिषेध आत्मा शरीरं न भवतीति । कस्य चात्मा शरीरम्, उत्तरपदविषयत्वाच्च निसः, किं सात्मकमिति वाच्यम् । न ह्यसत्युत्तरपदे निसः प्रयोगं पश्यामः, यथा निर्मक्षिकमिति । अथ शरीर आत्मा प्रतिषिध्यते, सिद्धं साधयसि । कस्य वा शरीरआत्मा विद्यते । अथ शरीरमात्मसम्बन्धे(न्धि ?)न भवतीति । पुनर्दृष्टान्तो नास्ति । सर्वे चैते विशेषप्रतिषेधाः, विशेषप्रतिषेधाच्च सामान्यं गम्यते । एवं सति यत्प्रतिषेद्धव्यं तदभ्यनुज्ञातं भवति । अथात्मशब्दः शब्दत्वादनित्यविषय इति साध्यते । तथाऽपि नित्यशब्देनानैकान्तिकः । शरीरादीनां चोपचारादात्मवाच्यत्वात्सिद्धसाधनम् । अथ शरीरादिव्यतिरिक्तानित्यपदार्थविषयत्वेनानित्यविषय आत्मशब्दः साध्यते । तथापि रूपादिव्यतिरिक्तविषयाभ्युपगमाद्विरोध इति । तदेतत्प्रतिविधत्ते—“घटादि”ष्वित्यादि ।

घटादिषु समानं च यवैरात्मा(यन्नैरात्म्यं ?)निषिध्यते ।
परैर्जीवच्छरीरेऽस्मिंस्तदस्माभिः प्रसाध्यते ॥ २२० ॥

तदेतद्भवतोऽपि तुल्यं चोद्यम् । तथाहि—घटादिषु बाह्येषु आत्मानधिष्ठितत्वेन तदुपभोगानायतनत्वेन वा नैरात्म्यं भवद्भिरपीष्यत एव । अन्यथा नेदं निरात्मकं जीवशरीरमप्राणादिमत्त्वप्रसङ्गाद्घटादिवदिति प्रसङ्गे दृष्टान्तत्वेन तेषामुपादानं न स्यात् । ततश्च तत्रापि घटादिषु तुल्यं चोद्यं कथमेषां नैरात्म्यं यदि तावदात्मानुपकारकमित्यादि । तस्माद्येन प्रकारेणात्मानधिष्ठितत्वेन वा तदुपभोगानायतनत्वेन वा तेषु घटादिषु बाह्येषु सर्वेषु साधारणं नैरात्म्यं भवतामपि प्रसिद्धम् । यच्च जीवच्छरीरे भवद्भिर्निषिध्यते नेदं निरात्मकं जीवच्छरीरमिति, यस्य निषेधाज्जीवच्छरीरमेव सात्मकमुपगम्यते न मृतशरीरघटादय इति, तदेवास्माभिः प्रसाध्यते, निरात्मकं जीवच्छरीरं वस्तुत्वादिभ्य इति । तस्मादात्मनोऽनुपकारकमित्यादिविकल्पोऽनास्पद एव, भवतामपि नैरात्म्यस्य प्रसिद्धत्वात् । किञ्च—यत्तावदुक्तमात्मानुपकारित्वसिद्धौन दृष्टान्तोऽस्तीति, तदसम्यक् । तथाहि—शक्यमेवं प्रसाधयितुम्, यो यस्य स्वभावातिशयं नाधत्ते नासौ तस्योपकारी, यथा विन्ध्यो हिमवतः, नाधत्ते चात्मनोनित्यैकरूपस्य स्वभावातिशयं शरीरादय इति व्यापकानुपलब्धेः । न चासिद्धो हेतुः । स्वभावातिशयस्यात्माव्यतिरिक्तत्वात् । तदाधाने सत्यात्मन एवाऽऽधानं स्यात् ।ततश्चानित्यत्वप्रसङ्गः । व्यतिरेके च स्वभावातिशयस्य सम्बन्धनिबन्धनाभावात्तदीयोऽसाविति सम्बन्धो न सिद्ध्येत् । तस्मान्नित्यस्य न कश्चिदुपकारी सम्भवति, तस्य तत्राकिञ्चित्करत्वात् । यच्चोक्तम्—कस्य चात्मा शरीरमिति, तदप्यसम्यक् । सन्ति हि केचिदेवंविधा ये शरीरादीनात्मपरिणामरूपान्वर्णयन्ति । यथोपनिषद्वादिनः । अतस्तान्प्रति(प्रति)षिध्यते । यच्चोक्तम्—उत्तरपदार्थविषयत्वान्निसः किं सात्मकमिति वाच्यमिति । तदप्यसङ्गतम् । न ह्युत्तरपदार्थः सन्नेव निषिध्यते । किं तर्हि ? । समारोपितः । सतः प्रतिषेद्धुमशक्यत्वात् । ततश्च योऽसौ परेण भ्रान्त्या समारोपितोऽर्थः स एवोत्तरपदार्थो भवति । यतस्तमेवानूद्य परस्य मिथ्याज्ञानत्वमाख्यापयितुं प्रतिषेधः क्रियते । अन्यथा ह्यक्षणिकाः प्रदीपादय इत्यादौ बौद्धपरिकल्पितक्षणिकत्वनिषेधे भवता क्रियमाणे चोद्यमेतदापतत्येव, न ह्यसत्युत्तरपदे नञः प्रयोगं पश्याम इति । यच्चोक्तम्—कस्य वा शरीरे आत्मा विद्यत इति, तदप्यसम्यक् । तथा हि— येषां दर्शनमङ्गुष्ठपर्वार्द्धश्यामकादिफलप्रमाण आत्मेति, तेषां मतेनात्मनो मूर्त्तत्वाच्छरीरस्थितिरस्त्येवेति, तान्प्रति (प्रति)षेधो युज्यत एव । यच्चोक्तम्—शरीरस्यात्मसम्बन्धित्वनिषेधे दृष्टान्तो नास्तीति, तदसिद्धम् । परस्परमुपकार्योपकारकत्वाभावाद्विन्ध्यहिमवतोरिव नात्मशरीरयोः सम्बन्धोऽस्तीति पूर्ववत्प्रसाधयितुं शक्यत्वात् । यच्चोक्तम्— विशेषप्रतिषेधाच्च सामान्यं गम्यत इति, तदनेकान्तम् । भवद्भिः प्रदीपादीनां क्षणिकत्वप्रतिषेधेऽपि कस्यचित्क्षणिकत्वसामान्येनानभ्युपगमात् । अथाऽपि स्यादिष्यत एवा स्माभिरचिरकालावस्थायित्वनिबन्धना प्रदीपादौ क्षणिकशब्दप्रवृत्तिरतः सामान्येन क्षणिकत्वं सिद्धमेवेति । यद्येवमात्मशब्दप्रवृत्तिरप्यस्माभिरहङ्कारसम्मिश्रिते चेतसीष्टैवेति सिद्धः सामान्येनात्मा । यच्चोक्तम्—अथात्मशब्दोऽनित्यत्वविषय इत्यादिपक्षद्वयम्, तदप्यसङ्गतमेव । अनभ्युपगमात् । न ह्यात्मशब्दस्य कश्चित्परमार्थेन विषयोऽभ्युपगतः । नापि रूपादिव्यतिरिक्तः । न चापि नित्यशब्दस्य परमार्थेन क्वचिन्नित्ये वस्तुनि वृत्तिः सिद्धा, येन व्यभिचारः स्यात् । नापि शरीरादिष्वात्मशब्दस्योपचाराद्वृत्तिरस्खलद्गतित्वादित्युक्तमतो न प्रसिद्धसाधनम् ॥ २२० ॥

इत्थमात्माप्रसिद्धौ च प्रक्रिया तत्र या कृता ।
निरास्पदैव सा सर्वा वन्ध्यापुत्र इव स्थिता ॥ २२१ ॥

इति नैयायिकवैशेषिकपरिकल्पितात्मपरीक्षा ।

तदेवमात्माख्यस्य धर्मिणः प्रमाणव्याहतत्वेनाप्रसिद्धत्वात्तत्र या कर्तृत्वभोक्तृत्वादिप्रक्रिया भवद्भिरुपचरिता सा वन्ध्यापुत्र इव निरास्पदेति न पृथग्दूषणमस्याः क्रियते । आश्रयनिराकरणेनैवास्याः प्रतिक्षिप्तत्वात् । कृतनाशाकृताभ्यागमदोषश्च यथा न भवति तथा कर्मफलसम्बन्धपरीक्षायां प्रतिपादयिष्यते ॥ २२१ ॥

इति नैयायिकवैशेषिकपरिकल्पितात्मपरीक्षा ।

मीमांसकपरिकल्पितात्म-परीक्षा

मीमांसकपरिकल्पितात्मनिराकरणमाह—“व्यावृत्त्यनुगमात्मान”मित्यादि ।

व्यावृत्त्यनुगमात्मानमात्मानमपरे पुनः ।
चैतन्यरूपमिच्छन्ति चैतन्यं बुद्धिलक्षणम् ॥ २२२ ॥

व्यावृत्तिः—सुखदुःखाद्यवस्थानां परस्परतो भेदाः, अनुगमः—चैतन्यद्रव्यत्वसत्त्वादीनामनुवृत्तिः, तावेतौ व्यावृत्त्यनुगमावात्मा स्वभावो यस्येति विग्रहः । एतदुक्तं भवति—सुखादिरुपेण व्यावृत्तं सत्त्वादिरुपेणानुगतमात्मानं चिद्रूपमपरे जैमिनीया वर्णयन्ति । तच्च चैतन्यं न बुद्धिव्यतिरेकेणान्यत्, यथा साङ्ख्यैरिष्यते, किं तर्हि ? बुद्धिरेवेति दर्शयति—“चैतन्यं बुद्धिलक्षण”मिति । बुद्धिलक्षणम्—बुद्धेः स्वरूपमित्यर्थः । बुद्धिव्यतिरेकेणापरस्य चिद्रूपत्वाप्रतीतेरिति भावः ॥ २२२ ॥

कथं पुनरेकस्यात्मनः परस्परविरुद्धं व्यावृत्त्यनुगमात्मकं स्वभावद्वयं युज्यत इत्याह—“यथाऽहेरि”त्यादि ।

यथाऽहेः कुण्डलावस्था व्यपैति तदनन्तरम् ।
सम्भवत्यार्जवावस्था सर्पत्वं त्वनुवर्त्तते ॥ २२३ ॥

तथैव नित्यचैतन्यस्वभावस्यात्मनोऽपि न ।
निःशेषरूपविगमः सर्वस्यानुगमोऽपि वा ॥ २२४ ॥

किन्त्वस्य विनिवर्त्तन्ते सुखदुःखादिलक्षणाः ।
अवस्थास्ताश्च जायन्ते चैतन्यं त्वनुवर्त्तते ॥ २२५ ॥

यथा किलाहेः—सर्पस्यैकस्यापि सतः कुण्डलावस्थानिवृत्तावार्जवावस्थाप्रादुर्भावः, सर्पत्वं पुनरवस्थाद्वयेऽप्यनुवर्त्तते, तथाऽऽत्मनोऽपि नित्यचैतन्यस्वभावस्यैकस्यापि सतोनाशेषस्वभावविगमो नापि नैयायिकादिपरिकल्पितात्मवदशेषस्वभावानुगमः, किं तर्हि ? सुखाद्यवस्था निवर्त्तन्ते प्रवर्त्तन्ते च, चैतन्यरूपं तु सर्वत्रानुयायीत्यतो न विरोध इति समुदायार्थः । अवयवार्थस्तूच्यते—“नित्यचैतन्यस्वभावस्येति” । नित्यं चैतन्यं स्वभावो यस्येति विग्रहः । “सर्वस्ये”ति । रूपस्येति शेषः । “अनुगमोऽपि वे”ति । नेति प्रकृतेन सम्बन्धः । “ताश्चे”ति । सुखदुःखाद्यवस्थाः ॥ २२३ ॥ २२४ ॥ २२५ ॥

अथ कस्मादेकान्तेन व्यावृत्तिपक्ष एव नाश्रीयते यथा बौद्धैर्निरन्वयविनाशवादिभिरिष्यते, एकान्तिको वाऽन्वयो यथा नैयायिकादिभिराश्रीयत इत्याह—“स्याता”मित्यादि ।

स्यातां ह्यत्यन्तनाशे हि कृतनाशाकृतागमौ ।
सुखदुःखादिभोगश्च नैव स्यादेकरूपिणः ॥ २२६ ॥

यदि हि निरन्वयो विनाशः स्यात्, तदा कृतस्य कर्मणो नाशः स्यात्, कर्तुः फलानभिसम्बन्धात् । अकृताभ्यागमश्च स्यादकर्तुः फलाभिसम्बन्धनात् । एकरूपत्वेचात्मनः सुखदुःखादिभोगो न स्यात्, आकाशवत् । अभोक्रवस्थातो भोक्रवस्थायां विशेषाभावात् । तथा चोक्तं कुमारिलेन— तस्मादुभयहानेन व्यावृत्त्यनुगमात्मकः । पुरुषोऽभ्युपगन्तव्यः कुण्डलादिषु सर्पवदिति ॥ २२६ ॥

ननु चोभयरूपे पुंसि याऽवस्था कर्त्री न सा भोक्रीति, तावेव कृतनाशाकृताभ्यागमाविहापि प्राप्तावित्याह—“न चे”त्यादि ।

न च कर्तृत्वभोक्तृत्वे पुंसोऽवस्थां समाश्रिते ।
ततोऽवस्थासु तत्तत्त्वात्कर्त्तैवाप्नोति तत्फलम् ॥ २२७ ॥

न हि पुंसः कर्तृत्वभोक्तृत्वे अवस्थां समाश्रिते, किन्तु पुरुषमेव । यस्मात्पुमानेव करोति भुङ्क्ते च, न त्ववस्था । ततः—तस्मात्, (तस्य) अवस्थावतः पुरुषस्य, तत्त्वात्— परित्यक्तपूर्वरूपत्वात्, कर्त्तैव तत्फलम्—तस्य कर्मणः फलमाप्नोतीत्यदोषः ॥ २२७ ॥

किं पुनरस्यात्मनोऽस्तित्वे साधकं प्रमाणमित्याह—“पुमा नि”त्यादि ।

पुमानेवंविधश्चायं प्रत्यभिज्ञानभावतः ।
प्रमीयते प्रबाधा च नैरात्म्यस्यामुनैव हि ॥ २२८ ॥

अहमेव ज्ञातवानहमेव वेद्मीत्यादेरेककर्तृविषयस्य प्रत्यभिज्ञानस्य—भावतः सत्वात्, आत्मा प्रसिद्धः । अमुनैव च प्रत्यभिज्ञानेन बौद्धादिपरिकल्पितस्य नैरात्म्यस्य बाधाऽपि सिद्धा । यथोक्तम्— तेनास्मात्प्रत्यभिज्ञानात्सर्वलोकावधारितात् । नैरात्म्यवादबाधः स्यात् इति ॥ २२८ ॥

कथं पुनः प्रत्यभिज्ञानप्रत्ययत एतद्द्वयं प्रसिध्यतीत्याह—“अह”मित्यादि ।

अहं वेद्मीत्यहम्बुद्धिर्ज्ञातारं प्रतिपद्यते ।
स चात्मा यदि वा ज्ञानं स्यादेकान्तविनश्वरम् ॥ २२९ ॥

यद्यात्मा विषयस्तस्याश्चतुरस्रं तदाऽखिलम् ।
क्षणिकज्ञानपक्षे तु सर्वमेवातिदुर्घटम् ॥ २३० ॥

तथा हि ज्ञातवान्पूर्वमहमेव च सम्प्रति ।
अहमेव प्रवेद्मीति या बुद्धिरुपजायते ॥ २३१ ॥

तस्या ज्ञानक्षणः को नु विषयः परिकल्प्यते ।
अतीतः साम्प्रतः किं वा किं वाऽसावथ सन्ततिः ॥ २३२ ॥

तत्राऽऽद्ये विषये ज्ञाते ज्ञातवानिति युज्यते ।
जानामीति न युक्तं च नेदानीं वेत्त्यसौ ततः ॥ २३३ ॥

वर्त्तमाने तु विषये प्रवेद्मीत्युपपद्यते ।
ज्ञातवानित्यसत्यं तु नैवासीत्प्रागिदं यतः ॥ २३४ ॥

अत एव द्वयं ग्राह्यं नैव तस्याः प्रकल्प्यते ।
न ह्युभौ ज्ञातवन्तौ वा जानीतो वाऽधुना पुनः ॥ २३५ ॥

सन्तानोऽपि न तद्बाह्यो द्वितयस्याप्यसम्भवात् ।
न ह्यसौ ज्ञातवान्पूर्वमवस्तुत्वान्न वाऽधुना ॥ २३६ ॥

तस्मादयमहङ्कारो वर्त्तते यत्र गोचरे ।
उक्तादन्यत्र सिद्धोऽसावात्मा शाश्वतरूपवान् ॥ २३७ ॥

अहं वेद्मीत्ययमहम्प्रत्ययो ज्ञातारं प्रतिपद्यत इत्यत्राविवाद एव, वेद्मीति कर्तृप्रत्ययसामानाधिकरण्यात् । स च ज्ञाता भवन्नात्मा वा भवेत् ज्ञानं वा भवत्परिकल्पितमेकान्तविनश्वरं क्षणिकमिति कल्पनाद्वयम् । तत्र यद्यात्मेति पक्षस्तदाऽखिलं चतुरस्रम्, अभिमतार्थप्रसिद्धेः । अथ ज्ञानमिति पक्षस्तदा सर्वमतिदुर्घटम् । तथा हि— अहं ज्ञातवानहमेव च साम्प्रतं वेद्मीति योऽयमेककर्तृप्रत्यवमर्शेनाहम्बुद्धिरुपजायते तस्याविज्ञानक्षणो विषयत्वेन कल्प्यमानः कदाचिदतीतो वा कल्प्यते यद्वा साम्प्रतो वर्तमान उतातीतसाम्प्रतो यद्वा सन्ततिरिति चत्वारः पक्षाः । तत्राद्ये—अतीते ज्ञाने विषयत्वेन कल्प्यमानो ज्ञातवानित्ययमाकारावसायो युज्यते, पूर्वं तेन ज्ञातत्वात् । सम्प्रति जानामीत्येतत्तु न युक्तम्, न ह्यसावतीतज्ञानक्षण इदानीं वर्त्तमानकाले वेत्ति, तस्य पूर्वनिरुद्धत्वात् । अथ वर्त्तमानं विषय इति द्वितीयः पक्षस्तदा वेद्मीत्येतद्युक्तम्, इदानीं तस्य वेदकत्वात् । ज्ञातवानित्येवमाकारग्रहणं तु न युक्तम् । कस्मात् ? नैवासीत्प्रागिदं यतः । इदमिति वर्त्तमानं ज्ञानम् । अत एव—अस्या बुद्धेर्वैमुख्येन प्रवृत्तेः, नातीतं साम्प्रतं च विज्ञानद्वयं ग्राह्यमिति सिद्धम् । न हि वर्त्तमानातीतावुभौ ज्ञानलक्षणौ ज्ञातवन्तौ, नापि साम्प्रतं जानीतः । किं तर्हि ? एको ज्ञातवानपरो जानाति । अत एव सन्तानोऽपि तयाऽहम्बुद्ध्या ग्राह्यो न भवति, द्वितयस्य—अतीतवर्त्तमानज्ञानक्रियाद्वयस्यासम्भवात् । तथाहि— नासौ सन्तानो ज्ञातवान्पूर्वं, नाप्यधुना जानाति, तस्य कल्पितत्वेनावस्तुत्वात्, नचावस्तुनो ज्ञातृत्वं भवति, तस्य वस्तुधर्मत्वात् । तस्माद्यथोक्तज्ञानव्यतिरेकेण यत्रविषयेऽयमहङ्कारो वर्त्तते स आत्मेति सिद्धम् ॥ २२९ ॥ २३० ॥ २३१ ॥ ॥ २३२ ॥ २३३ ॥ २३४ ॥ २३५ ॥ २३६ ॥ २३७ ॥

अथ शाश्वतरूपत्वमस्य कथं सिद्धमित्याह—“व्यतीते”त्यादि ।

व्यतीताहङ्कृतिश्चाद्यो ज्ञाताऽद्याप्यनुवर्त्तते ।
अहम्प्रत्ययगम्यत्वादिदानीन्तनबोद्धृवत् ॥ २३८ ॥

एष वा ह्यस्तनो ज्ञाता ज्ञातृत्वात्तत एव वा ।
ह्यस्तनज्ञातृवत्तेषां प्रत्ययानां च साध्यता ॥ २३९ ॥

योऽहम्प्रत्ययगम्यः सोऽद्याप्यनुवर्त्तते, यथेदानीन्तनो बोद्धा । अहम्प्रत्ययगम्यश्चायमिदानीन्तनो बोद्धेति स्वभावहेतुः । “एष वे”ति । इदानीन्तनो बोद्धा । “तत एवे”ति ।अहम्प्रत्ययगम्यत्वात् । एवं ज्ञातारं धर्मिणं कृत्वा प्रयोगो दर्शितः । साम्प्रतमहम्प्रत्ययानां साध्यधर्मितां कृत्वा प्रयोगान्तरं दर्शयन्नाह—“तेषा”मित्यादि । तेषामिति—अतीताद्यतनानामहम्प्रत्ययानाम्, “साध्यते”ति । साध्यधर्मितेत्यर्थः ॥ २३८ ॥ २३९ ॥

कथमित्याह—“एकसन्ताने”त्यादि ।

एकसन्तानसम्बन्धज्ञात्रहम्प्रत्ययत्वतः ।
ह्यस्तनाद्यतनाः सर्वे तुल्यार्था एकबुद्धिवत् ॥ २४० ॥

ह्यस्तनाद्यतनाः सर्वे अहम्प्रत्यया इत्ययं साध्यधर्मिनिर्देशः । तुल्यार्था इति साध्यधर्मः । एकविषया इत्यर्थः । एकेन देवदत्तादिसन्तानेन सम्बद्धो यो ज्ञाता तत्र तस्य वा येऽहम्प्रत्यया एकसन्तानसम्बद्धज्ञात्रहम्प्रत्ययाः, तद्भावस्तत्वम् । अयं च हेतुनिर्देशः । अहम्प्रत्ययत्वमात्रं पुरुषान्तरीयेष्वप्यहङ्कारेषु प्रवर्त्तत इत्यतोऽनैकान्तिकत्वपरिहारार्थमेकसन्तानसम्बद्धज्ञातृविषयत्वं हेतुविशेषणं कृतम् । एकबुद्धिवदिति दृष्टान्तः । तेषामेवाहम्प्रत्ययानां मध्ये विवक्षितैकबुद्धिवदित्यर्थः ॥ २४० ॥

“तदत्रे”त्यादिनोत्तरपक्षमारभते ।

तदत्र चिन्त्यते नित्यमेकं चैतन्यमिष्यते ।
यदि बुद्धिरपि प्राप्ता तद्रूपैव तथा सति ॥ २४१ ॥

यदि हि चैतन्यं नित्यैकरूपमङ्गीक्रियते तदा बुद्धिरपि चैतन्यरूपाव्यतिरेकान्नित्यैकरूपा प्राप्नोति । न चैवमिष्टमतोऽभ्युपगमविरोधः प्रतिज्ञायाः । तथा हि भाष्यकारेणोक्तम्—क्षणिका हि सा न बुद्ध्यन्तरकालमवतिष्ठत इति । तथा जैमिनिनाऽप्युक्तम्— सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमिति । नित्यत्वे सति जन्मायोगात् । स्ववचनविरोधश्च कुमारिलस्य, यथोक्तं तेनैव— न हि तत्क्षणमप्यास्ते जायते वाऽप्रमात्मकम् । येनार्थग्रहणे पश्चाद्व्याप्रियेतेन्द्रियादिवत् ॥ इति । एकत्वाच्च बुद्धेः प्रमाणषटाकभ्युपगमविरोधश्च । तथा प्रत्यक्षविरोधोऽपि, निरन्तरमध्यारोपितानेकविधार्थचिन्तायामुदयव्ययानुषङ्गिणीनां बुद्धीनामतिविस्पष्टमनुभूयमानत्वात् ॥ २४१ ॥

कुमारिलस्तु सर्वं विरोधराशिमपश्यन्नाह—“बुद्धीना”मित्यादि ।

बुद्धीनामपि चैतन्यस्वाभाव्यात्पुरुषस्य च ।
नित्यत्वमेकताचेष्टा भेदश्चेद्बिषयाश्रयः ॥ २४२ ॥

बुद्धीनां पुरुषस्य च नित्यत्वमेकता चेष्टा, कस्मात् ? चैतन्यस्वाभाव्यात्—बुद्धिलक्षणचैतन्यस्वाभाव्यात्पुरुषस्यास्मन्मतेनेत्यर्थः । कथं तर्हि रूपबुद्धी रसबुद्धिरित्यादिभेदः प्रतीयत इत्याह—“भेदश्चेद्विषयाश्रय” इति । चेच्छब्दः परमताभ्युपगमे । यद्येवं कल्प्यत इत्यर्थः ॥ २४२ ॥

स्यादेतद्यदि नित्यैका बुद्धिस्तदा किमिति क्रमेण रूपादीन्प्रतिपद्यते । यावता सकृदेव प्रतीयाद्विशेषाभावादित्याह—“स्वरूपेणे”त्यादि ।

स्वरूपेण तथा वह्निर्नित्यं दहनधर्मकः ।
उपनीतं दहत्यर्थं दाह्यं नान्यन्न चान्यदा ॥ २४३ ॥

यथा किल वह्निर्नित्यं दहनात्मकोऽपि सन्न सर्वदा सर्वं दहति, किं तर्हि ? उपनीतम्—ढौकितमेव दहति । तत्रापि यदेव दाह्यं दग्धुं शक्यं तदेव दहति नाभ्रादिकमित्यतो दाह्यमित्याह ॥ २४३ ॥

“यथा वे”त्यादिना दृष्टान्तान्तरमाह ।

यथा वा दर्पणः स्वच्छो यथा वा स्फटिकोपलः ।
यदेवाऽऽधीयते तत्र तच्छायां प्रतिपद्यते ॥ २४४ ॥

तथैव नित्यचैतन्याः पुमांसो देहवृत्तयः ।
गृह्णन्ति करणानीतान् रूपादीन्धीरसौ च नः ॥ २४५ ॥

मलिनस्य च्छायाप्रतिपत्त्यभावात्स्वच्छ इत्युक्तम् । “आधीयत” इति । ढौक्यत इत्यर्थः । “तथैवे”ति दार्ष्टान्तिकोपदर्शनम् । यद्यपि पुमांसो व्यापिनस्तथाऽप्यदृष्टवशाद्देह एव वर्त्तमानाश्चक्षुरादिकरणोपनीतान्विषयान् गृह्णन्ति, नान्यत्र । यत्त्वेतन्नित्यं चैतन्यमसावस्माकं धीः—बुद्धिः, न तु साङ्ख्यवत्तद्व्यतिरेकिणी बुद्धिः ॥ २४४ ॥ २४५ ॥

यद्येवं कथमसौ धीर्भङ्गिनी प्रसिद्धेत्येतदाशङ्क्य “तेने”त्यादिना सूचितमेव कारणमुपदर्शयन्बुद्धेर्भङ्गिनीत्वं समर्थयते ।

तेनोपनेतृसंरम्भभङ्गित्वाद्भङ्गिनी मतिः ।
न नित्यं दाहको वह्निर्दाह्यासन्निधिना यथा ॥ २४६ ॥

उपनेतारः रूपादीनां विषयाणां प्रापयितारश्चक्षुरादयः, तेषां संरम्भः—व्यापारः, तस्य भङ्गित्वात्—विनाशित्वात्, भङ्गिनी मतिर्लक्ष्यते । न त्वसौ स्वतो विनाशिनी । यदि तर्हि न स्वतो विनाशिनी, तदा सर्वमर्थमुपलभेतेति तदवस्थमेव चोद्यमित्यत आह—“न नित्यं दाहक” इत्यादि । तथा न नित्यं बुद्धिः सर्वमर्थमुपलभते, सर्वदासर्वस्य विषयस्यासन्निधानादिति भावः ॥ २४६ ॥

अथ नित्यत्वमस्याः कथमवगम्यत इत्याह—“तत्रे”त्यादि ।

तत्र बोधात्मकत्वेन प्रत्यभिज्ञायते मतिः ।
घटहस्त्यादिबुद्धित्वं तद्भेदाल्लोकसम्मतम् ॥ २४७ ॥

तत्रेति वाक्योपन्यासे । बोधात्मकत्वेन—बुद्धिर्बुद्धिरिति, प्रत्यभिज्ञायमानत्वात्, शब्दवन्नित्या बुद्धिः । यद्येवमियं घटबुद्धिरियं पटबुद्धिरिति कथमिदं बुद्धीनां वैलक्षण्यं लोके प्रतिपत्तृभिरुपगतमित्याह—“घटेत्या”दि । “तद्भेदा”दिति । घटहस्त्यादिभेदात् ॥ २४७ ॥

“सैवे”त्यादिना, एतदेव स्पष्टयति ।

सैवेति नोच्यते बुद्धिरर्थभेदानुसारिभिः ।
न चास्त्यप्रत्यभिज्ञानमर्थभेद उपाश्रिते ॥ २४८ ॥

“अर्थभेदानुसारिभि”रिति । प्रतिपत्तृभिः । अनेनान्वयव्यतिरेकाभ्यां अर्थभेदकृत एव बुद्धेर्भेद इति दर्शयति । “न चास्त्यप्रत्यभिज्ञान”मिति । अस्त्येव प्रत्यभिज्ञानमित्यर्थः ॥ २४८ ॥

“नन्वि”त्यादिना प्रतिविधत्ते ।

ननु हस्त्यादिशून्यायां भूमावारोपकारिणः ।
प्रत्यया ये प्रवर्त्तन्ते भेदस्तत्र किमाश्रयः ॥ २४९ ॥

यदि ह्यर्थभेदकृत एव बुद्धेर्भेदस्तदा ये हस्त्यादिशून्यायां भुवि क्रमेण गजतुरगादीनवस्थितान्समारोपयन्तः प्रत्ययाः प्रवर्त्तन्ते तेषु भेदः किमाश्रयः प्रतीयेत । नैव कश्चिद्भेदव्यवस्थाश्रयोऽस्तीति यावत् । तथा हि—न स्वतो भेदोऽस्ति । सर्वबुद्धीनामेकत्वाभ्युपगमात् । नाप्युपधानभूतविषयनानात्वात्, तत्रोपधायकस्य कस्यचिदर्थस्याभावात् ॥ २४९ ॥

स्यादेतत्—अर्थशून्यत्वमसिद्धम्, तथाचोक्तं कुमारिलेन—स्वप्नादिप्रत्यये बाह्यं सर्वथा नहि नेष्यते । सर्वत्रालम्बनं बाह्यं देशकालान्यथात्मकम् ॥ इति तदेतदाशङ्कते—“अन्यदेशादिभाविन्य” इत्यादि ।

अन्यदेशादिभाविन्यो व्यक्तयश्चेन्निबन्धनम् ।
सर्वत्रालम्बनं यस्माद्देशकालान्यथात्मकम् ॥ २५० ॥

“निबन्धन”मिति । बुद्धेर्भेदव्यवस्थानं प्रति कारणमित्यर्थः । देशकालावन्यथात्मकावन्यप्रकारौ यस्य तत्तथोक्तम्, देशकालाभ्यां वाऽन्यथाऽऽत्मा यस्येति विग्रहः ॥ २५० ॥

“नन्वि”त्यादिना प्रतिविधत्ते ।

ननु तद्देशसम्बन्धो नैव तासां तथाऽस्ति तत् ।
किमिति प्रतिभासन्ते तेन रूपेण तत्र च ॥ २५१ ॥

यस्मिन्हि देशे येन क्रमेण ताः समारोपिता व्यक्तयस्तदा प्रतिभासन्ते तेन देशेन सम्बन्धो नैव तासां देशान्तरकालान्तरगतानां तथा तेन क्रमेणास्ति, तत्किमिति तेन स्वेच्छासमारोपितरूपेण प्रतिभासन्ते । न ह्यन्येन रूपेणान्यस्य प्रतिभासनं युक्तमतिप्रसङ्गात् । एवं हि सर्वमेव ज्ञानं सर्वविषयं प्रसज्येत । ततश्च प्रतिनियतार्थव्यवस्थोच्छेद एव स्यात् ॥ २५१ ॥

भवन्मते हि नाकारो बुद्धेर्बाह्यस्तु वर्ण्यते ।
न विवक्षितदेशे च गजयष्ट्यादयः स्थिताः ॥ २५२ ॥

किं च भवतो मीमांसकस्य मते यो भासमानः स आकारो न बुद्धेः, किन्त्वसौ बाह्यार्थस्वभावो वर्ण्यते । आकारवान्बाह्योऽर्थो निराकारा बुद्धिरिति वचनात् । यदि नामैवम्भूतं ततः किमित्याह—“न विवक्षिते”त्यादि । विवक्षितो देशो यत्र तत्समारोपः कृतः । ततश्च यद्देशकालसम्बद्धास्ते गजादयस्तद्देशसम्बन्धित्वेनैव प्रतिभासेरन् ।स्वविरहिणि तु देशान्तरे कालान्तरे च किमिति प्रतिभासन्ते । तस्मान्निरालम्बना एवैते प्रत्ययाः परमार्थतोऽसङ्कीर्णस्वभावाश्चलात्मानश्च, कादाचित्कत्वादिति सिद्धम् । तत्स्वभावस्य च पुंसोऽनित्यत्वानेकत्वे च सिद्धे । “स्यान्मतम्”—प्रत्ययस्तस्य पुरुषस्य धर्मः, तेन तस्य भेदेऽपि न पुंसो भेदो धर्मित्वात्तस्येति । “तदयुक्तम्” । प्रत्ययश्चैतन्यम्बुद्धिर्ज्ञानमित्यनर्थान्तरत्वात् । न हि नामभेदमात्रेण वस्तूनां स्वभावो भिद्यते । किं च नामभेदेऽपि तेषां प्रत्ययानां चैतन्यात्मकमेकमनुगामिरूपमिष्टमेव । तस्य च चैतन्यस्याभेदे प्रत्ययानामपि तत्स्वभावानामविभाग एव । अन्यथा हि विरुद्धधर्माध्यासादेकान्तिको भेद एव स्यात् । एतेनैव निरालम्बनप्रत्ययप्रतिपादनेनाप्रत्यक्षत्वं बुद्धेः प्रत्युक्तम् । तथा हि—स परिस्फुरन्नाकारो न बाह्यो गजादिरिति साधितम्, ततश्च तं तथा परिस्फुरन्तमाकारमात्मभूतमेव प्रतिपद्यमाना बुद्धयः स्वयम्प्रकाशरूपत्वात् स्वसंविद्रूपाः सिद्ध्यन्ति ॥ २५२ ॥

यच्चोक्तम्—स्वरूपेण यथा वह्निरित्यादि, तद्दूषणार्थमत्रैवोपचयन्नाह—“सर्वार्थे”त्यादि ।

सर्वार्थबोधरूपा च यदि बुद्धिः सदा स्थिता ।
सर्वदा सर्वसंवित्तिस्तत्किमर्थं न विद्यते ॥ २५३ ॥

यदि सर्वार्थबोधरूपा सदा बुद्धिरवस्थिता तदा सर्वदा सर्वार्थवेदनप्रसङ्गः ॥ २५३ ॥

कथमित्याह—“शब्दोपधाने”त्यादि ।

शब्दोपधाना या बुद्धी रसरूपादिगोचरा ।
सैव हीति न चेद्भेदास्त्वया चैवोपपादिताः ॥ २५४ ॥

तथा हि—या शब्दोपधाना—शब्दविषया, बुद्धिः, सैव रसरूपादिविषया, नान्या,ततश्चैकार्थानुभववेलायामशेषार्थानुभवप्रसङ्गः, तदुपलम्भात्मिकाया बुद्धेः सर्वदा व्यवस्थितत्वात् । यथोक्तम्— एकयाऽनेकविज्ञाने बुध्येत सकृदेव तत् । अविशेषात्क्रमेणापि माभूत्तदविशेषतः ॥ इति । “न चे”दिति । यदि या शब्दोपधाना बुद्धिः सैव रसादिगोचरा नाङ्गीक्रियते, एवं सति भेदो बुद्धीनां भवता स्ववाचैवोपपादितः स्यात् ॥ २५४ ॥

यश्चायं वह्निदृष्टान्तः सोऽप्यसिद्ध इति दर्शयन्नाह—“समस्ते”त्यादि ।

समस्तदाह्यरूपाणां न नित्यं दहनात्मकः ।
कृशानुरपि निःशेषमन्यथा भस्मसाद्भवेत् ॥ २५५ ॥

न ह्यशेषदाह्यदहनस्वभावो दहनो नित्यमवस्थितोऽन्यथा सकलमेव दाह्यं भस्मसाद्भवेत्, दहनज्वालानुषक्तदाह्यवत्सदासन्निहितस्वदाहकत्वात् । न केवलं बुद्धिः सर्वार्थबोधस्वभावा न भवतीत्यपिशब्देन दर्शयति ॥ २५५ ॥

यद्येवं नित्यदहनात्मकः कृशानुर्न भवति, कथं तर्ह्युपनीतमप्यर्थं दहेदित्याह—“दाह्यार्थसन्निधा”वित्यादि ।

दाह्यार्थसन्निधावेव तस्य तद्दाहकात्मता ।
युक्ता सर्वार्थदाहो हि सकृदेवं न सज्यते ॥ २५६ ॥

“एव”मिति । समनन्तरोदितार्थाभ्युपगमे सति, सर्वार्थदाहो युगपन्न सज्यते—न प्रसज्यत इत्यर्थः । यच्चोक्तम्—यथा वा दर्पण इत्यादि । तदपि दर्पणादेर्नित्यैकरूपत्वे सति न युज्यत इति दर्शयन्नाह ॥ १५६ ॥

“नीलोत्पलादिसम्बन्धा”दित्यादि ।

नीलोत्पलादिसम्बन्धाद्दर्पणस्फटिकादयः ।
तच्छायाविभ्रमोत्पादहेतवः क्षणभङ्गिनः ॥ २५७ ॥

सोपधानेतरावस्थ एक एवेति सर्वदा ।
तच्छायस्तद्वियुक्तो वा स दृश्येतान्यथा पुनः ॥ २५८ ॥

स्फटिकदर्पणादिः प्रतिक्षणध्वंसी सन् नीलोत्पलादिसम्पर्काद्विपर्यस्तज्ञानोत्पत्तावाधिपत्यं प्रतिपद्यते । अन्यथा—यद्यक्षणिकः सन् छायां प्रतिपद्येत, तदा य एव सोपधानावस्थः स एवानुपधानावस्थितिरिति कृत्वा, नीलाद्युपधानवियुक्तोऽपि नीलादिच्छायः समुपलभ्येत, अपरित्यक्तपूर्वरूपत्वात् । यद्वोपधानावस्थायामपि नीलाद्याकारवियुक्तो दृश्येत, पूर्वरूपाविशेषादिति । एतेन—अक्षणिकपक्षे सामान्येन सर्वेषामेव स्फटिकदर्पणादीनां छायाप्रतिपत्तिरपास्ता ॥ २५७ ॥ २५८ ॥

सम्प्रति क्षणिकाक्षणिकपक्षयोश्छायाप्रतिपत्तिं प्रत्येकं निराकरोति—“स्थिरत्वा”दित्यादि ।

स्थिरत्वान्निर्विभागत्वान्मूर्त्तानामसहस्थितेः ।
बिभर्त्ति दर्पणतलं नैव च्छायां कदाचन ॥ २५९ ॥

स्थिरत्वात्—अक्षणिकत्वात्, दर्पणतलं पूर्वच्छायां बिभर्त्तीति सम्बन्धः । क्षणिकत्वेऽपि निर्विभागत्वान्न बिभर्त्तीति सम्बन्धनीयम् । तथा हि—कूपान्तर्गतोदकवद्दर्पणतले प्रतिबिम्बकमन्तर्गतमुपलभ्यते, न च दर्पणतलस्य विभागः—रन्ध्रमस्ति,निबिडतरावयवसन्निवेशात्, तस्माद्भ्रान्तिरियम् । अथवा—निर्विभागत्वं पूर्वोत्तरावस्थायामनानात्वम् । अत्र कारणं स्थिरत्वादिति । तेनायमर्थो भवति । स्थिरत्वेन निर्विभागत्वात्—पूर्वोत्तरावस्थारहितत्वादित्यर्थः । किं च—मूर्त्तानामसहस्थितेः, नैव दर्पणतलं छायां बिभर्त्तीति सम्बध्यते । तथा हि—दर्पणतले तद्देशान्येव पर्वतादिप्रतिबिम्बान्युपलभ्यन्ते, न च मूर्त्ताः पदार्थाः कदाचिदेकदेशतामापद्यन्ते, ऐकात्म्यप्रसङ्गात् । एतच्च क्षणिकाक्षणिकत्वे साधारणं दूषणम् ॥ २५९ ॥

स्फटिकस्यापि भावतो नोपधानच्छायाप्रतिपत्तिरस्तीति दर्शयति—“पार्श्वे”त्यादि ।

पार्श्वद्वितयसंस्थाश्च सुशुक्लं स्फटिकोपलम् ।
समीक्ष्यन्ते तदेषोऽपि न च्छायां प्रतिपन्नवान् ॥ २६० ॥

तथाहि—यदैवाग्रतः स्थितः प्रतिपत्ता जपाकुसुमसम्पर्काद्रक्तं स्फटिकमुपलभते, तदैव ये पार्श्वद्वितयावस्थितास्ते सकलमेव स्फटिकोपलं सुशुक्लमुपलभन्ते, न भागशः । ततश्च यदि छायाप्रतिपत्तिस्तस्याभविष्यत्तदा पुरोऽवस्थितपुंस इव पार्श्वद्वितयावस्थितयोरपि प्रतिपत्रो रक्तावभासा प्रतिपत्तिरभविष्यत् । अयं च क्षणिकाक्षणिकपक्षयोरपि साधारणो दोषः ॥ २६० ॥

“भेदः प्रत्युपधानं” चेत्यादिना त्वक्षणिकत्वपक्ष एव दोषमाह ।

भेदः प्रत्युपधानं च स्फटिकादेः प्रसज्यते ।
तच्छायाप्रतिपत्तिश्चेत्तस्य विद्येत तात्विकी ॥ २६१ ॥

यदि हि परमार्थतः स्फटिकादेरुपधानोपरागप्रतिपत्तिर्भवेत्तदा यथाक्रमभाविनीनामुपधानमुपधानं छायानां स्वभावभेदान्नैकात्म्यम् । तद्वत्तदात्मनः स्फटिकादेरप्युपधानमुपधानं प्रति—प्रत्युपधानं—भेदः प्रसज्येत । यदि पुनर्भ्रान्तिरियमित्यङ्गीक्रियते तदाऽयमदोष इति ज्ञापनार्थं “तात्विकी”त्याह ॥ २६१ ॥

तस्माद्भ्रान्तिरियं तेषु विचित्राचिन्त्यशक्तिषु ।

यतश्चैवं पक्षद्वयेऽपि छायाप्रतिपत्तिर्न युज्यते तस्माद्भ्रान्तिरियमिति स्थितम् । यद्येवङ्कस्मात्स्फटिकादावेव सा भ्रान्तिर्भवति न कुड्यादावित्याह—“विचित्राचिन्त्यशक्ति”ष्विति । विचित्राः—नानाप्रकाराः, अचिन्त्याः शक्तयो येषां ते तथोक्ताः । न हि भावानां शक्तिप्रतिनियमः पर्यनुयोगमर्हति, स्वहेतुपरम्पराकृतत्वात्तस्य । भवतामपि चात्रांशे नास्ति विवादः । यथोक्तम्— अग्निर्दहति नाकाशं कोऽत्र पर्यनुयुज्यताम् । इति ।

यद्येवं बुद्धावपि तर्हि विषयच्छायाप्रतिपत्तिर्भ्रान्तिरेवास्तु माभूच्छायाप्रतिपत्तिरित्याह—

न बुद्धौ भ्रान्तिभावोऽपि युक्तो भेदवियोगतः ॥ २६२ ॥

न बुद्धौ भ्रान्तिसद्भावो युक्तः । न केवलं छायाप्रतिपत्तिर्न युक्तेत्यपिशब्दः । कस्मात् ? भेदवियोगतः—भेदाभावात् । स्फटिकादिषु हि भ्रान्तिर्युक्ता, तेभ्यो भिन्नाया बुद्धेर्भ्रान्तायाः सम्भवात्, नत्वेवं बुद्धावपरा भ्रान्तिरूपा बुद्धिरस्ति, यस्मादेकैव बुद्धिरिष्टा । न च स्वयमेव विभ्रमरूपा जायते धीरिति युक्तं वक्तुम्, बुद्धेर्नित्यत्वाभ्युपगमात् ॥ २६२ ॥

यत्पुनरेकत्वनित्यत्वसाधनार्थं तत्र बोधात्मकत्वेन प्रत्यभिज्ञायते मतिरित्युक्तं तत्राह—“अबोधरूपभेदं त्वि”त्यादि ।

अबोधरूपभेदं तु समानं सर्वबुद्धिषु ।
आरोप्य प्रत्यभिज्ञानं नानात्वेऽपि प्रवर्त्तते ॥ २६३ ॥

अनैकान्तिकमेतत्प्रत्यभिज्ञानम्, यस्मादबोधरूपेभ्यो घटादिभ्यो भेदम्—व्यावृत्तिं समारोप्य प्रत्यभिज्ञानं सर्वबुद्धिषु नानात्वे सत्यपि प्रवर्त्तमानमविरुद्धमेव । अवश्यं चैतद्विज्ञेयम्—यन्नानात्व एव सति विजातीयव्यावृत्तिनिबन्धनकृतमेतत्प्रत्यभिज्ञानम्, न पुनरनानात्व एवेति । तथाहि—निरालम्बनासु समारोपबुद्धिष्वर्थभेदेऽनुपाश्रितेऽप्यप्रत्यभिज्ञानमस्त्येव, न हि तत्रैवं भवति, यैव गजबुद्धिरासीत्सैव तुरङ्गस्यन्दनबुद्धिरिति । प्रसाधितं चानालम्बनत्वमासां बुद्धीनामिति न पुनरुच्यते । तेन यदुक्तम्— न चास्त्यप्रत्यभिज्ञानमर्थभेदेऽनुपाश्रिते इति, तदसिद्धमिति ग्रहीतव्यम् ॥ २६३ ॥

किं च—यदि नित्यैकरूप आत्मेष्यते भवद्भिस्तदा सुखाद्यवस्थाभेदो न प्राप्नोति । अथ सुखाद्यवस्थाभेदोऽभ्युपगम्यते, न तर्हि नित्यैकरूपत्वमस्याभ्युपेतव्यम् । न ह्येकस्य भेदाभेदौ परस्परविरुद्धौ स्वभावौ युक्ताविति । एतच्चोद्यपरिहारार्थं यत्कुमारिलेनोक्तं तत्तावद्दूषयितुमुपक्षिपन्नाह—,“अवस्थाभेदभेदेने”त्यादि ।

अवस्थाभेदभेदेन शून्योऽप्येकान्ततः स्थिते ।
स्थिरात्मनि॥॥ ॥॥ ॥॥र्यत्परैः परिकल्प्यते ॥ २६४ ॥

अवस्थानाम्—सुखादीनाम्, भेदः—नानात्वम्, तेन भेदः—पुरुषस्य नानात्वमेव, तेन “शून्य” इति । अवस्थानानात्वेऽप्येकस्वभाव एवेत्यर्थः । अत्र कारणमाह—“स्थिरात्म”नीति । स्थिरः—नित्यः, आत्मा—स्वभावो यस्यात्मनः, स तथोक्तः । यदि वा—अवस्थाभेदाः—अवस्थाविशेषाः सुखादयः, तेभ्य एकान्तेन भेदः— पृथग्भावः, तेन शून्यस्तदव्यतिरिक्तोऽपीत्यर्थः ॥ २६४ ॥

किं तद्यत्परिकल्प्यत इत्याह—“सुखे”त्यादि ।

सुखदुःखाद्यवस्थाश्च गच्छन्नपि नरो मम ।
चैतन्यद्रव्यसत्त्वादिरूपं नैव विमुञ्चति ॥ २६५ ॥

“गच्छन्नपी”ति । प्रतिपद्यमानोऽपि । “नर” इति । आत्मा । सत्त्वादीत्यादिशब्देनज्ञेयत्वप्रमेयत्वकर्तृत्वभोक्तृत्वादिसामान्यधर्मपरिग्रहः ॥ २६५ ॥

नापि विशेषधर्मस्याप्यत्यन्तसमुच्छेद इति दर्शयन्नाह—“न चे”त्यादि ।

न चावस्थान्तरोत्पादे पूर्वाऽत्यन्तं विनश्यति ।
उत्तरानुगुणार्थं तु सामान्यात्मनि लीयते ॥ २६६ ॥

“पूर्वे”ति । सुखाद्यवस्था । यद्येवं सुखाद्यवस्थायामपि दुःखावस्था किं न संवेद्यतइत्याह—“उत्तरानुगुणार्थ”मित्यादि । स्वरूपेणैव हि स्थितायां सुखावस्थायां नोत्तरादुःखावस्था भवतीत्यतः सा लीयमाना सामान्यात्मनि सर्वावस्थानुगामिनि चैतन्यद्रव्यत्वादिलक्षणे उत्तरदुःखावस्थोत्पादानुगुणा भवतीति तदर्थं सा तत्र लीयते ॥ २६६ ॥

यद्येवमवस्थान्तरवत्सामान्यात्मन्यपि लयोऽवस्थानामयुक्तो विरोधादित्याशङ्क्याह—“स्वरूपेण ही”त्यादि ।

स्वरूपेण ह्यवस्थानामन्योन्यस्य विरोधिता ।
अविरुद्धस्तु सर्वासु सामान्यात्मा प्रतीयते ॥ २६७ ॥

स्वेन सुखादिरूपेणावस्थानां परस्परं विरोधादन्योन्यं लयो न युक्तः, अवस्थान्तरे तु सामान्यात्मनि लये को विरोधो येनासौ तत्र न भवेत्, तथा ह्यसौ सामान्यात्मा सर्वावस्थास्वविरुद्धोऽनुयायी दृश्यते । सर्वस्यामवस्थायां चैतन्यादीनामुपलम्भात् ॥ २६७ ॥

“तत्रे”त्यादिना प्रतिविधत्ते ।

तत्र नो चेदवस्थानामेकान्तेन विभिन्नता ।
पुरुषात्तद्व्ययोत्पादे स्यातामस्यापि तौ तथा ॥ २६८ ॥

यदि हि पुरुषादवस्थानामेकान्तेन भेदो नेष्यते, तदा तद्व्ययोत्पादे—तासामवस्थानां व्ययोत्पादे सति, अस्यापि पुंसस्तौ व्ययोत्पादौ स्याताम् । एकान्तेनेति वचनङ्कथञ्चिदप्यव्यतिरेकेऽवस्थावदुदयव्ययप्रसङ्गो दुर्वार इति ज्ञापनार्थम् । प्रयोगः—यो यदव्यतिरिक्तस्तस्य तदुत्पादविनाशे सत्युत्पादविनाशौ भवतः, यथा तेषामेव सुखादीनां स्वरूपस्य । सुखाद्यव्यतिरिक्तस्वभावश्च पुरुष इति स्वभावहेतुः ॥ २६८ ॥

न चायमनैकान्तिको हेतुरित्यादर्शयन्नाह—“विरुद्धे”त्यादि ।

विरुद्धधर्मसङ्गे तु भेद एकान्तिको भवेत् ।
पुंसामिव स्वभावेन प्रतिस्वं नियतेन ते ॥ २६९ ॥

यदि ह्यवस्थानामेवोत्पादव्ययौ न पुरुषस्येत्येवमुत्पादानुत्पादलक्षणो विरुद्धधर्मस ङ्गोऽभ्युपगम्यते, तदा भेदप्रसङ्गः, यथा पुंसां बहूनां परस्परं प्रतिस्वं नियतेन-प्रत्यात्मनियतेन स्वभावेन परस्परतो भेदः । एतावन्मात्रनिबन्धनत्वाद्भेदव्यवहारस्येति भावः । पुंसामपि वस्त्वादिरूपेण परस्परतो भेदो नास्तीत्यतः साध्यविकलतानिवृत्त्यर्थं प्रतिस्वं नियतेनेत्युक्तम् । प्रत्यात्मनियतं रूपमेषामेकान्तेन भिन्नम्, अन्यथाऽनुभवस्मरणादीनां प्रतिनियमाभावाद्व्यवस्थासङ्करः स्यात् । प्रयोगः—यद्यदेकयोगक्षेमं न भवति न तत्तेन सहाभेदि, यथा पुमांसः परस्परं प्रत्यात्मनियतेन रूपेण भिन्नयोगक्षेमाः । नैकयोगक्षेमाश्च सुखाद्यवस्थाः पुंसा सहेति व्यापकानुपलब्धेः ॥ २६९ ॥

यच्चोक्तम्—न चायमवस्थान्तरोत्पादे पूर्वाऽत्यन्तं विनश्यतीति तत्राह—“स्वरूपेणैवे”त्यादि ।

स्वरूपेणैव लीयन्ते यद्यवस्थाश्च पुंसि वः ।
दुःखाद्यप्यनुभूयेत तत्सुखादिसमुद्भवे ॥ २७० ॥

अवस्था हि सामान्यात्मनि लीयमानाः स्वरूपेणैव वा लीयेरन्, पररूपेण वा । यद्याद्यः पक्षः, तदा सुखादिसमुद्भवेऽपि—सुखाद्यवस्थानुभवेऽपि, तद्दुःखमप्यनुभूयेत उपलब्धिलक्षणप्राप्तत्वात् ॥ २७० ॥

अथ पररूपेणेति पक्षः, तत्राह—“न चे”त्यादि ।

न चान्यरूपसङ्क्रान्तावन्यसङ्क्रान्ति( सम्भवः ) ।
तादात्म्येन च सङ्क्रान्तिरित्यात्मोदयवान्भवेत् ॥ २७१ ॥

किं च पुंसि सुखादीनां सङ्क्रान्तिस्तादात्म्येनैवेष्टा । ततश्च दुःखादिवत्तदव्यतिरेकादात्मा—पुरुष उदयवान्—उत्पत्तिमान् भवेत् ॥ २७१ ॥

यच्चोक्तम्— न च कर्तृत्वभोक्तृत्वे पुंसोऽवस्थां समाश्रिते इति तत्राह—“यदी”त्यादि ।

यदि कर्तृत्वभोक्तृत्वे नैवावस्थां समाश्रिते ।
तदवस्थावतस्तत्वान्न कर्तृत्वादिसम्भवः ॥ २७२ ॥

यदि हि पुमांसमेवाश्रितं कर्तृत्वादि स्यात्तदत्यक्तपूर्वरूपस्यात्मनो न सम्भवेत् ।प्रयोगः—योऽपरित्यक्ताकर्त्रभोक्रवस्थः स न करोति न चापि भुङ्क्ते, यथाऽऽकाशम्, अपरित्यक्ताकर्त्रभोक्रवस्थश्च सर्वदा पुरुष इति व्यापकविरुद्धोपलब्धिः ॥ २७२ ॥

बुद्धिजन्मनि पुंसश्च विकृतिर्यद्यनित्यता । अथाविकृतिरात्माख्यः प्रमातेति नयुज्यते इति यदेतदाचार्यदिङ्नागपादैरुक्तं तत्र कुमारिलेनोक्तम्—नानित्यशब्दवाच्यत्वमात्मनो विनिवार्यते । विक्रियामात्रवाचित्वात्तद्व्युच्छेदोऽस्य तावता ॥ इति तदत्र निगमनव्याजेन दोषमाह—“तदित्या”दि ।

तन्नित्यशब्दवाच्यत्वं नात्मनो विनिवार्यते ।
स्वरूपविक्रियावत्त्वाद्व्युच्छेदस्तस्य विद्यते ॥ २७३ ॥

तत्—तस्मात्, नित्यशब्दवाच्यत्वं न वार्यतेऽस्माभिः, स्वोपादानपुरस्सरस्यप्रतिक्षणध्वंसिनश्चैतन्यस्याऽऽसंसारमविच्छेदात् । किन्तु स्वरूपस्य—स्वभावस्य, विक्रियावत्वात्—नियमेन पूर्वस्वभावपरित्यागात्, स्वभावान्तरप्रादुर्भावश्चेति, व्युच्छेदः विनाशोऽस्य स्फुटतरमेवाऽऽसज्यते ॥ २७३ ॥

यश्चापि सर्पादिदृष्टान्त उपात्तः स नित्यैकरूपो न सिध्यतीति दर्शयन्नाह—“सर्पोऽपी”त्यादि ।

सर्पोऽपि क्षणभङ्गित्वात्कौटिल्यादीन्प्रपद्यते ।
स्थिररूपे तु पुंसीव नावस्थान्तरसङ्गतिः ॥ २७४ ॥

यथैव हि पुंसि स्थिरैकरूपत्वादवस्थान्तरसम्भवो न युक्तस्तथा सर्पस्यापि । यदाऽनुक्षणभङ्गिताऽस्य भवेत्तदा युक्तोऽवस्थान्तरसम्भवः, स्वभावान्तरोदयलक्षणत्वादवस्थान्तरप्रादुर्भावस्य ॥ २७४ ॥

यच्चोक्तमहं विद्मीत्यहम्बुद्धिर्ज्ञातारं प्रतिपद्यत इति तदसिद्धमिति दर्शयन्नाह—“निरालम्बन” एवायमित्यादि ।

निरालम्बन एवायमहङ्कारः प्रवर्त्तते ।
अनादिसत्त्वदृग्बीजप्रभावात्क्वचिदेव हि ॥ २७५ ॥

न ह्यस्याहङ्कारस्य परमार्थतः किञ्चिदालम्बनमस्ति येनास्य विषयो ज्ञाता स्यात् । यद्येवं किमस्योत्पत्तेर्निबन्धनमित्याह—“अनादी”त्यादि । सत्त्वदृक्—सत्कायदृष्टिः, तस्या बीजम्—वासनाशक्तिरित्यर्थः । अनादि च तत्सत्त्वदृग्बीजं चेति विग्रहः । तस्य प्रभावः—आधिपत्यम् । “क्वचिदेवे”ति । अध्यात्मनियत एव षडायतने ॥ २७५ ॥

अथ सर्वत्र कस्मान्न प्रवर्त्तत इत्याह—“केचिदेव ही”त्यादि ।

केचिदेव हि संस्कारास्तद्रूपाध्यवसायिनि ।
अवेत्यं (आधिपत्यं?) प्रपद्यन्ते तन्न सर्वत्र वर्त्तते ॥ २७६ ॥

“तद्रूपाध्यवसायिनी”ति । पूर्वोत्तरकालानुयायिज्ञातृरूपाध्यवसायिन्यहङ्कारे । “न सर्वत्रे”ति । सन्तानान्तरे घटादौ ॥ २७६ ॥

तुल्यः पर्यनुयोगोऽयमन्यथा पुरुषेऽपि वः ।
तच्छक्तिभेदसद्भावात्सर्वमेव निराकुलम् ॥ २७७ ॥

किं चात्मालम्बनत्वेऽप्यहङ्कारस्य, तुल्यः पर्यनुयोगः किमित्यात्मान्तरेऽपि न प्रवर्त्तत इति । शक्तिप्रतिनियमान्नैवमिति चेत्, यद्येवमस्माकमपि शक्तिनियमात्क्वचिदेवाध्यात्मिके वस्तुनि प्रवर्त्तते, न सर्वत्रेति व्यवस्थानं सर्वमेव निराकुलम् ॥ २७७ ॥

स्यादेतत्—भवत्वे(त)द्व्यवस्थानम्, किन्तु निरालम्बनत्वमस्य कथं सिद्धमित्याह—“नित्ये”त्यादि ।

नित्यालम्बनपक्षे तु सर्वाहङ्कृतयस्ततः ।
सकृदेव प्रसूयेरन् शक्तहेतुव्यवस्थितेः ॥ २७८ ॥

अनित्यालम्बनत्वेऽपि स्पष्टाभाः स्युस्ततः परे ।
आलम्बनार्थसद्भावं व्यर्थं पर्यनुयुञ्जते ॥ २७९ ॥

तथा ह्यस्यालम्बनं भवन्नित्यं वा भवेदनित्यं वा । यदि नित्यम्, तदा सर्वा अहङ्कृतयः—अहङ्कारा युगपद्भवेयुरविकलकारणत्वात् । न ह्यकारणमालम्बनं युक्तमतिप्रसङ्गात् । न चापि शक्तस्य कारणस्य सहकारिकारणापेक्षा भवतीत्यसकृच्चर्वितमेतत् ।न चैक एवायमहङ्कार इति शक्यं वक्तुम्, कादाचित्कतयाऽनेकत्वसिद्धेः । तथा हि—गाढस्वापमदमूर्छासु नाहङ्कारः संवेद्यते, पुनरन्यदा च संवेद्यत इति सिद्धमस्य सर्वदाऽनुपलम्भात्कादाचित्कत्वम् । कादाचित्कत्वाच्चानेकत्वमपि सिद्धमिति सर्वाअहङ्कृतयस्तद्भावमात्रभाविन्यो युगपत्प्रसूयेरन् । अथानित्यमालम्बनमिति पक्षः, तदाचक्षुरादिविज्ञानवत्स्फुटतरप्रतिभासाः सर्वा अहङ्कृतयः प्रसज्येरन् । साक्षाद्वस्तुस्वलक्षणग्राहित्वात् । ततः—तस्मात्, परे तीर्थिकाः कुमारिलप्रभृतयो व्यर्थमेवास्यालम्बनं पर्यनुयुञ्जते । तस्याज्ञानलक्षणः को नु विषयः परिकल्पित इत्यादि ॥ २७८ ॥ २७९ ॥

तत्र यदुक्तमनालम्बन एवायमहङ्कारोऽनादिसत्कायदृष्टिवासनाबलाद्भ्रान्तः प्रवर्त्तत इति । अत्र कुमारिलेनोक्तं दूषणमाशङ्कते—ज्ञातरीत्यादि ।

ज्ञातरि प्रत्यभिज्ञानं वासना कर्तुमर्हति ।
नातस्मिन्स इति प्रज्ञां न ह्यसौ भ्रान्तिकारणम् ॥ २८० ॥

तन्नाहम्प्रत्ययो भ्रान्तिरिष्टश्चेद्बाधवर्जनात् ।

वासना हि ज्ञातृविषयां प्रत्यभिज्ञां कर्तुमर्हति । न पुनरतस्मिन्—अज्ञातरि, सः—ज्ञाता, इति प्रज्ञाम्—ज्ञानं वासना कर्तुमर्हतीति सम्बन्धः । कस्मात् ? न ह्यसौ भ्रान्तिकारणम्, अपि तु यथाऽनुभूतार्थविषयमेवासौ ज्ञानं जनयति न भ्रान्तमित्यर्थः । तस्मादयमहङ्कारो वासनात उत्पद्यमानत्वात् बाधकप्रमाणाभावाच्च न भ्रान्तो युक्त इति । चेच्छब्दो भिन्नक्रमो बाधवर्जनादित्यस्यानन्तरं द्रष्टव्यः ॥ २८० ॥ = ॥

नेत्यादिना प्रतिविधत्ते ।

नानन्तरोक्तया युक्त्या तस्य बाधोपदर्शनात् ॥ २८१ ॥

अनन्तरोक्ता युक्तिर्नित्यालम्बनपक्षे त्वित्यादिः ॥ २८१ ॥

यच्चोक्तम्—न वासना भ्रान्तिकारणमिति तदनैकान्तिकमिति दर्शयन्नाह—“ईश्वरादि”ष्वित्यादि ।

ईश्वरादिषु भक्तानां तद्धेतुत्वादिविभ्रमाः ।
वासनामात्रभावाच्च जायन्ते विविधाः कथम् ॥ २८२ ॥

निरालम्बनता चैवमहङ्कारे यदा स्थिता ।
तन्नाहम्प्रत्ययग्राह्ये ज्ञाता कश्चन विद्यते ॥ २८३ ॥

ततः सर्वप्रमाणेषु न दृष्टान्तोऽस्ति सिद्धिभाक् ।
हेतवश्चाश्रयासिद्धा यथायोगमुदाहृताः ॥ २८४ ॥

मीमांसपरिकल्पितात्म-परीक्षा

यदि हि वासना भ्रान्तिकारणं न भवेत्तदानीमीश्वरः सर्वोत्पत्तिमतां हेतुः सर्वज्ञो नित्यबुद्धिसमाश्रय इत्यादयो विभ्रमाः कथमिव वासनामात्रसम्भवादुद्भवेयुः ।तथा हि कुमारिलेनापीश्वरादिर्जगतः कर्त्ता प्रतिषिद्ध एव । वासनामात्रभावाच्चेति मात्रग्रहणं तथाभूतालम्बनार्थव्यवच्छेदार्थम् । तस्मादहङ्कारस्य निरालम्बनत्वान्न तद्ग्राह्यो ज्ञाता कश्चित्प्रसिद्धोऽस्तीति न तस्मादात्मा सिध्यतीति । यच्च व्यतीताहङ्कृतिग्राह्य इत्यादिनित्यसाधनमुक्तम्, तत्राह—“त”दित्यादि । “कश्चने”ति । नित्योऽनित्यो वा ज्ञाता दृष्टान्तधर्मी नास्तीत्यसिद्धो दृष्टान्तः । तथा हि—प्रथमद्वितीययोः प्रयोगयोर्द्धर्म्यसिद्धिर्दृष्टान्तदोषः, इदानीन्तनस्य ह्यस्तनस्य चाहम्प्रत्ययगम्यस्य ज्ञातुः कस्यचिदभावात् । तृतीये तु प्रयोगे एकबुद्धिवदिति दृष्टान्तः साध्यसाधनविकलः । अभिम ताया एकबुद्धेरेकसन्तानसम्बद्धज्ञात्रहम्प्रत्ययत्वस्य एकविषयत्वस्य चा“सि”द्धत्वात् । अतोधर्मद्वयासिद्धिमुखेनास्याप्यसिद्धत्वमुक्तम् । “यथायोगमुदाहृता” इति । उदाहृताः—पूर्वमुपन्यस्ता ये हेतवः, यथायोगम्—यथासम्भवम् । “आश्रयासिद्ध” इति । तथाहि—प्रथमद्वितीययोः प्रयोगयोर्ये हेतवस्त आश्रयासिद्धाः, अहम्प्रत्ययग्राह्यस्य कस्यचिदपि धर्मिणो ज्ञातुरसिद्धत्वात् । तृतीये तु प्रयोगे नाश्रयासिद्धिः । प्रत्ययानां धर्मिणां सिद्धत्वात् । किन्तु तेषामेकसन्तानसम्बद्धज्ञातृविशेषणमसिद्धम् । निरालम्बनत्वस्य प्रसिद्धत्वात् । अतो यथायोगमित्युक्तम् ॥ २८२ ॥ २८३ ॥ २८४ ॥

इति मीमांसकपरिकल्पितात्मपरीक्षा ।

कापिलकल्पितात्म-परीक्षा

साम्प्रतं साङ्ख्यपरिकल्पितात्मनिराकरणार्थमाह—“चैतन्य”मित्यादि ।

चैतन्यमन्ये मन्यन्ते भिन्नं बुद्धिस्वरूपतः ।
आत्मनश्च निजं रूपं चैतन्यं कल्पयन्ति ते ॥ २८५ ॥

प्रधानेनोपनीतं च फलं भुङ्क्ते स केवलम् ।
कर्तृत्वं नैव तस्यास्ति प्रकृतेरेव तन्मतम् ॥ २८६ ॥

“अन्य” इति । साङ्ख्याः । ते हि बुद्धिव्यतिरिक्तं चैतन्यमात्मनो निजं रूपं कल्पयन्ति । यतो बुद्धिः प्रधानस्वभावा, चैतन्यं तु पुरुषस्यैव स्वरूपमिति तेषां समयः । स च पुरुषः शुभाशुभकर्मफलस्य प्रधानोपनीतस्य भोक्ता, न तु कर्मणां कर्त्ता, प्रकृतेरेबाशेषजगत्परिणतिरूपायाः कर्तृत्वस्येष्टत्वात् । अत्र च प्रमाणयन्ति—यत्सङ्घातरूपं वस्तु तत्परार्थं दृष्टम्, तद्यथा शयनादि, सङ्घातरूपाश्च चक्षुरादय इति स्वभावहेतुः ।यश्चासौ परः स सामर्थ्यादात्मेति सिद्धम् । इति परस्य भावः ॥ २८५ ॥॥ २८६ ॥

“तत्रापी”त्यादिना प्रतिज्ञार्थं तावद्दूषयति ।

तत्रापि रूपशब्दादिचेतसां वेद्यते कथम् ।
सुव्यक्तं भेदवद्रूपमेका चेच्चेतनेष्यते ॥ २८७ ॥

तथा हि—चैतन्यं पुरुषस्य निजं रूपमिति ब्रुवता चैतन्यं नित्यैकरूपमित प्रतिज्ञातं भवति, नित्यैकरूपात्पुरुषात्तस्याव्यतिरिक्तत्वात् । एतच्च प्रत्यक्षविरुद्धम्, यतो रूपशब्दादिचेतसां सुव्यक्तम्—स्फुटतरमेव, स्वसंविदा, भेदवद्रूपम्—भिन्नस्वभावः, वेद्यते । तच्चैकत्वे सति चेतनाया नोपपद्यते ॥ २८७ ॥

अभ्युपगमविरोधं च दर्शयन्नाह—“एकरूपे”त्यादि ।

एकरूपे च चैतन्ये सर्वकालमवस्थिते ।
नानाविधार्थभोक्तृत्वं कथं नामोपपद्यते ॥ २८८ ॥

एकरूपश्चात्मा, अथ च नानाविधस्यार्थस्य भोक्तेति, परस्परविरुद्धम् । अभोत्र्कवस्थानिर्विशिष्टत्वात् ॥ २८८ ॥

दिदृक्षादियोगादविरोध इति चेदाह—“ने”त्यादि ।

न दिदृक्षादयो भिन्नास्तस्य भोगनिबन्धनम् ।
भवन्ति हि तथा भावे पुमानुत्पत्तिमान्भवेत् ॥ २८९ ॥

यदि रूपादिषु दिदृक्षाशुश्रूषादयस्तस्य परस्परतो भिन्ना भोगनिबन्धनत्वेनोपकल्पितास्तेऽप्यस्यात्मनो न भवन्ति—न जायन्ते । यदि हि जायेरंस्तदा, तथा— भेदेन, भावे—जातौ सत्याम्, पुमानुत्पत्तिमान्भवेत् । दिदृक्षादिवत्तदव्यतिरेकात् ॥ २८९ ॥

एतदेव व्यक्तीकुर्वन्नाह—“चैतन्यव्यतिरिक्तं ही”त्यादि ।

चैतन्यव्यतिरिक्तं हि न दिदृक्षादि विद्यते ।
तस्योदयव्ययावेशे दुर्वारः पुरुषेऽप्यसौ ॥ २९० ॥

व्यतिरेके हि तस्य त इति सम्बन्धानुपपत्तिः । उपकारस्य सम्बन्धनिबन्धनस्याभावात् । “असा”विति । उदयव्ययसमावेशः । प्रयोगः—यस्य सद्भावव्यवस्थानिबन्धनं नास्ति, नासौ प्रेक्षावता तद्भावेन व्यवस्थाप्यः, यथाऽऽकाशं मूर्त्तत्वेन । नास्ति च भोक्तृव्यवस्थानिबन्धनं पुरुषादिदृक्षादीति कारणानुपलब्धेः । न चायमसिद्धो हेतुरिति प्रतिपादितम् ॥ २९० ॥

इतश्च कर्तृत्वाभावाद्भोक्तृत्वमपि तस्य न युक्तमिति दर्शयति—“शुभाशुभं चे”त्यादि ।

शुभाशुभं च कर्मास्ति नैव चेदात्मना कृतम् ।
तदेष भोगभेदोऽस्य कुतः समुपजायते ॥ २९१ ॥

न ह्यकुतस्य कर्मणः कश्चित्फलमुपभुङ्क्ते, अकृताभ्यागमादिदोषप्रसङ्गात् ॥ २९१ ॥

अत्र परस्योत्तरमाशङ्कते—“अभिलाषानुरूपेणे”त्यादि ।

अभिलाषानुरूपेण प्रकृतिश्चेत्प्रयच्छति ।
पङ्ग्वन्धवद्धि सम्बन्धस्तयोरेष व्यवस्थितः ॥ २९२ ॥

यद्यपि पुरुषः कर्मणां कर्त्ता न भवति, तथाऽपि प्रकृतिरस्य यथाऽभिलषितमर्थमुपनयति, तमसौ भुङ्क्त इत्यदोषः । ननु प्रकृतिरचेतना सती कथं शुभादिकर्मणां कर्त्री भवति येनासौ यथाऽभिमतं कर्मफलं पुरुषस्य सम्पादयतीत्याह—“पङ्ग्वन्धवद्धी”त्यादि । यथा किलान्धस्य चक्षुष्मत्पुरुषसम्बन्धादर्थेषु प्रवृत्तिर्भवति, तथा महदादिकं लिङङ्ग चेतनपुरुषसम्पर्काच्चेतनावदिव धर्मादिषु कार्येष्वध्यवसायं करोतीत्यदोषः । तथा चोक्तम्— पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः इति ॥ २९२ ॥

“यद्येव”मित्यादिना प्रतिविधत्ते ।

यद्येवमिष्टवाञ्छायां सत्यामपि न सिद्ध्यति ।
किमिति प्रकृतिर्नैव किञ्चिदन्यदपेक्षते ॥ २९३ ॥

यदि हि प्रकृतिरकृतस्यापि कर्मणः फलमभिलषितमुपनयतीति स्यात्तदा सर्वदैवेष्टवाञ्छायां सर्वस्य पुंसोऽभिलषितोऽर्थः किमिति न सिद्ध्येत् । स्यान्मतम्—तत्काऱणस्य धर्मस्याभावान्न सिद्ध्यतीति, आह—“प्रकृतिर्नैवे”त्यादि । प्रकृतेर्हि धर्मः कार्यम्, स च तदव्यतिरिक्तत्वात्सदैवास्तीति भवेदेवाभिमतं फलम् । तथा हि— एतदेव सर्वं यदुत प्रकृतिपुरुषौ, तौ च सदा सन्निहिताविति । अतो नित्यमेव फलं भवेत् । किं च यद्यभिलषितमर्थं प्रकृतिः प्रयच्छति तदाऽनिष्टं किमिति प्रयच्छेत्, न ह्यनिष्टं काश्चिदभिलषति ॥ २९३ ॥

अपि च । यदि नाम प्रकृतिरस्यार्थमुपनयति, तथाऽपि भोक्तृत्वमस्यायुक्तमविकारित्वादिति दर्शयति—“अर्थोपभोगकाले चे”त्यादि ।

अर्थोपभोगकाले च यदि नैवास्य विक्रिया ।
नैव भोक्तृत्वमस्य स्यात्प्रकृतिश्चोपकारिणी ॥ २९४ ॥

विक्रियायाश्च सद्भावे नित्यत्वमवहीयते ।
अन्यथात्वं विकारो हि तादवस्थ्ये च तत्कथम् ॥ २९५ ॥

यदि हि सुखदुःखादिनाऽऽह्लादपरितापादिरूपां विकृतिं नोपनीयते तदाऽऽकाशवदभोक्तृत्वमेव स्यात् । प्रकृतिश्चोपकारिणी न स्यादिति सम्बन्धः । अविकृतात्मन्युपकारस्य कर्तुमशक्यत्वात् । अथ विकारित्वमस्याभ्युपगम्यते, तदा नित्यत्वहानिप्रसङ्गः । यतोऽतादबस्थ्यमेवानित्यतां ब्रूमः । तच्च विकारित्वे सत्यस्तीति कथमस्य नित्यता स्यात् । तादवस्थ्यरूपत्वान्नित्यत्वस्य ॥ २९४ ॥ २९५ ॥

“स्यान्मत”मित्यादिना परमतेनान्यथा भोक्तृत्वमाशङ्कते ।

स्यान्मतं विषयाकारा बुद्धिरादौ विवर्त्तते ।
तया व्यवसितं चार्थं पुरुषः प्रतिपद्यते ॥ २९६ ॥

प्रतिबिम्बोदयद्वारा चैवमस्योपभोक्तृता ।
न जहाति स्वरूपं तु पुरुषोऽयं कदाचन ॥ २९७ ॥

न हि विकारापत्त्या भोक्तृत्वमस्येष्टम्, किं तर्हि ? बुद्ध्यवसितस्यार्थस्य प्रतिबिम्बोदयन्यायेन । तथा हि—बुद्धिदर्पणारूढमर्थप्रतिबिम्बकं द्वितीयदर्पणकल्पे पुंसि सङ्क्रामति तदेवास्य भोक्तृत्वम्, न तु विकारापत्तिः । न च प्रतिबिम्बमात्रसङ्क्रान्तावपि पुरुषः स्वरूपं जहाति, दर्पणवत्तदवस्थत्वात् । अतो यदभोक्रवस्थानिर्विशिष्टं (तदभोक्तृ,) इत्यत्र प्रयोगेऽनैकान्तिकता हेतोः ॥ २९६ ॥ २९७ ॥

“उच्यत” इत्यादिना प्रतिविधत्ते ।

उच्यते प्रतिबिम्बस्य तादात्म्येन समुद्भवे ।
तदेवोदययोगित्वं विभेदे तु न भोक्तृता ॥ २९८ ॥

यत्तद्बुद्धिदर्पणारूढमर्थप्रतिबिम्बकं द्वितीयदर्पणकल्पे पुंसि सङ्क्रामतीतीष्यते, तद्यदिपुरुषादव्यतिरिक्तम्, तदा तदेवानन्तरोक्तमुदयव्यययोगित्वं प्रसज्यते । उदयव्यययोगिप्रतिबिम्बरूपवत्तदव्यतिरेकात् । अथ व्यतिरिक्तमिति पक्षस्तदा भोक्तृता न प्राप्नोति, अभोक्रवस्थातो विशेषस्य कस्यचिदभावात् । न चाप्यर्थप्रतिबिम्बेन सह पुंसः सम्बन्धाद्भोक्तृत्वं युक्तम्, परस्परमनुपकारकयोः सम्बन्धासिद्धेः ॥ २९८ ॥

दिदृक्षाद्यानुकूल्येन प्रधानं सम्प्रवर्त्तते ।
विचित्ररचनाभेदे कथं वाऽचेतनात्मकम् ॥ २९९ ॥

किं च यदि प्रधानं पुरुषस्य दिदृक्षादि जानीयात्, तदानुकूल्येन तस्य पुरुषस्यार्थं प्रति प्रवृत्तिर्युक्ता, यावता जडरूपत्वात्सत्यपि चेतनावता सम्बन्धे पङ्ग्वन्धवत् प्रवृत्तिर्न युक्ता । तथा हि—अन्धो यदि नाम मार्गं नोपलभते, तथाऽप्यसौ पङ्गोर्विवक्षां चेतयत्येव तस्य चेतनावत्त्वात् । न चैवं प्रधानं पुरुषस्य दिदृक्षादि वेत्ति, तस्याचेतनात्मकत्वेन जडरूपत्वात् । न चापि तयोः परस्परमनुपकारिणोः पङ्ग्वन्धवत्सम्बन्धोऽस्ति ॥ २९९ ॥

कंर्तु नाम प्रजानाति प्रधानं व्यञ्जनादिकम् ।
भोक्तुं च न विजानाति किमयुक्तमतः परम् ॥ ३०० ॥

अथ पुरुषस्य दिदृक्षादि वेत्ति प्रधानमितीष्यते । तथा च सति भोक्तृत्वमप्यस्य प्रसज्येत । यो हि नाम कर्तुं विजानाति स कथं भोक्तुमपि न जानीयात् । तस्मात्कर्तुं जानाति न भोक्तुमित्यतः परं किमयुक्तमस्ति नैव किञ्चिदित्यर्थः । न हि सूपकारोव्यञ्जनादेः कर्त्ता तद्भोक्तुं न विजानातीति । अत्रेतिशब्दोऽध्याहायः ॥ ३०० ॥

“बुद्धिमत्त्वा”दित्यादिना परस्योत्तरमाशङ्कते ।

बुद्धिमत्त्वात्प्रधानस्य सर्वमस्याविरोधि चेत् ।
बुद्धिमत्त्वेन तु प्राप्तं चैतन्यं पुरुषेष्विव ॥ ३०१ ॥

बुद्धिरध्यवसायो हि संवित्संवेदनं तथा ।
संवित्तिश्चेतना चेति सर्वं चैतन्यवाचकम् ॥ ३०२ ॥

“सर्व”मिति । दिदृक्षाद्यानुकूल्येन प्रवर्त्तनम् । “अस्ये”ति । प्रधानस्य । एतदुक्तं भवति— यदि नाम प्रधानं चिद्रूपं न भवति तथाऽपि बुद्ध्याऽध्यवसायलक्षणया युक्तत्वात्पुरुषगतं दिदृक्षादि परिज्ञाय प्रवर्त्तिष्यत इत्यतः सर्वमविरोधीति । अत्रोत्तरमाह—“बुद्धिमत्त्वेने”त्यादि । यदि हि प्रधानस्य बुद्धिमत्त्वमङ्गीक्रियते तदाऽस्य पुरुषवच्चैतन्यवत्त्वप्रसङ्गः । बुद्ध्यादीनां चैतन्यपर्यायत्वात् । तथा हि—यत्प्रकाशात्मतया स्वसंविदितरूपं परनिरपेक्षमेव प्रकाशते तच्चैतन्यमुच्यते, तत्त्वं बुद्धेरप्यस्तीति किमिति सा चिद्रूपा न भवेत् । न चापि बुद्धिव्यतिरेकेणापरं चिद्रूपमुपलक्षयामः । येन तद्व्यतिरिक्तस्य पुरुषस्य सिद्धिर्भवेत् ॥ ३०१ ॥ ३०२ ॥

अत्र परश्चिद्रूपाद्बुद्धेर्भेदप्रसाधनायाह—“अचेतनात्मिका बुद्धि”रित्यादि ।

अचेतनात्मिका बुद्धिः शब्दगन्धरसादिवत् ।
उत्पत्तिमत्त्वनाशित्वहेतुभ्यामिति चेन्मतम् ॥ ३०३ ॥

प्रयोगः—यद्यदुत्पत्तिमत्त्वनाशित्वादिधर्मयोगि, तत्तदचेतनम्, यथा रसादयः, तथा च बुद्धिरिति स्वभावहेतुः ॥ ३०३ ॥

“नैता”वित्यादिना प्रतिविधत्ते ।

नैतौ हेतू द्वयोः सिद्धौ स्वतन्त्रे साधने मते ।
न विपर्ययबाधाऽस्ति प्रसङ्गोऽप्यभिधित्सिते ॥ ३०४ ॥

कदाचिदिदं स्वातन्त्र्येण साधनं स्यात्प्रसङ्गसाधनं वा । यदि स्वातन्त्र्येण तदाऽन्यतरासिद्धो हेतुः । तथा हि—यथाविधमुत्पत्तिमत्त्वमम्पूर्वोत्पादलक्षणं नाशित्वं वाऽत्यन्तस मुच्छेदात्मकं बौद्धस्य प्रसिद्धं न तथाविधं भवतः साङ्ख्यस्य । तयोः परिणामतिरोधानरूपत्वेन भवद्भिरङ्गीकरणात् । यथा च भवतस्तथा न बौद्धस्य सिद्धमित्यन्यतरासिद्धोहेतुः । न च शब्दमात्रस्य सिद्धौ हेतुसिद्धिः, वस्तुनो हि वस्तुसिद्धेर्वस्तुन एव हेतुत्वात् ।यथोक्तम्— तस्यैव व्यभिचारादौ शब्देऽप्यव्यभिचारिणि । दोषवत्साधनं ज्ञेयं वस्तुनो वस्तुसिद्धितः ॥ इति । अथ प्रसङ्गसाधनमितिपक्षस्तथाऽपि साध्यविपर्ययेबाधकप्रमाणानुपदर्शनादनैकान्तिकता हेत्वोः । को ह्यत्र प्रतिबन्धो यच्चैतन्यस्योत्पत्तिमत्त्वनाशित्वाभ्यां न भवितव्यमिति । याऽपीयं कल्पना, वत्सविवृद्धिनिमित्तङ्क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्येति ।साऽप्यकल्पनैव । न हि क्षीरं स्वातन्त्र्येण वत्सविवृद्धिनिमित्तं प्रवर्त्तते । किं तर्हि ? प्रतिनियतेभ्यः कादाचित्केभ्यः स्वहेतुप्रत्ययेभ्यः समुत्पद्यते । तच्चोत्पन्नं सद्वत्सविवृद्धेर्निमित्ततां यातीत्यज्ञमपि प्रवर्त्तत इति निर्दिश्यते । न चैवं प्रधानस्य प्रवृत्तिर्युक्ता । तथा हि—नित्यत्वात्तदन्यहेत्वभावाच्च न तावत्कादाचित्ककारणसन्निधानायत्ता तस्य कादाचित्की शक्तिर्युक्ता । नापि स्वाभाविकी, सदा सन्निहिताविकलकारणत्वेन सर्वस्याभ्युदयनिःश्रेयसलक्षणस्य पुरुषार्थस्य युगपदुत्पत्तिप्रसङ्गात् ॥ ३०४ ॥

अथाऽपि स्याद्भवतु बुद्धिचैतन्ययोरभेदस्तथाऽप्यात्मत्वमस्याप्रतिषिद्धमेवेत्याह—“चैतन्ये” इत्यादि ।

चैतन्ये चात्मशब्दस्य निवेशेऽपि न नः क्षतिः ।
नित्यत्वं तस्य दुःसाध्यमक्ष्यादेः सफलत्वतः ॥ ३०५ ॥

अक्ष्यर्थाद्यफलं तु स्याच्चैतन्यं शाश्वतं यदि ।
न भवेदिन्धनेनार्थो यदि स्याच्छाश्वतोऽनलः ॥ ३०६ ॥

न ह्यात्मशब्दनिवेशनमात्रमस्माभिश्चैतन्ये प्रतिषिध्यते, किं तर्हि ? यस्तत्र नित्यत्वलक्षणः समारोपितो धर्मः स निषिध्यते । कस्मात् ? अक्ष्यालोकमनस्कारादेः साफल्यात् । अन्यथा यदि शाश्वतं नित्यं चैतन्यं स्यात्तदाऽक्ष्यादि विफलमेव स्यात् ।तदुत्पत्त्यर्थत्वात्तेषाम् । नित्यस्य चोत्पत्त्यसम्भवात् । अत्रैव दृष्टान्तमाह—“न भवेदि”त्यादि । यदि शाश्वतो वह्निर्भवेत्तदा नैव जनोऽनलार्थमिन्धनमुपाददीत तस्मान्ननित्यैकरूपं चैतन्यं युक्तम् ॥ ३०५ ॥ ३०६ ॥

यत्सङ्घातरूपं तत्परार्थं दृष्टमित्यादि । तत्र कोऽसौ परोऽभिप्रेत इति निरूपयन्नाह—“पारार्थ्य”मित्यादि ।

पारार्थ्यं चक्षुरादीनां यत्पुनः प्रतिपाद्यते ।
शय्याशनादिवत्तेन सङ्घातत्वेन हेतुना ॥ ३०७ ॥

आधेयातिशयार्थत्वं यद्येषामुपपाद्यते ।
इष्टसिद्धिर्यदिष्टास्तेऽस्माभिर्ज्ञानोपकारिणः ॥ ३०८ ॥

अविकार्युपकारित्वसाधने साध्यशून्यता ।
दृष्टान्तस्य चलस्यैव युक्तास्तेऽप्युपकारिणः ॥ ३०९ ॥

सामान्येन तु पारार्थ्यं यद्येषां सम्प्रसाध्यते ।
तथाऽपि साधनं व्यर्थं सिद्धाश्चित्तोपयोगिनः ॥ ३१० ॥

इति कापिलकल्पितात्मपरीक्षा ।

आधेयातिशयो वा परोऽभिप्रेतो भवेत्, यद्वाऽनाधेयातिशयरूपत्वादविकारी, अथ वा सामान्येन पारार्थ्यमात्रमविचारितरमणीयं साध्यत इति त्रयो विकल्पाः । तत्र प्रथमपक्षे सिद्धसाध्यता, यतस्ते चक्षुरादयोऽस्माभिर्विज्ञानोपकारिण इष्टाः ।चक्षुः प्रतीत्य रूपाणि चोत्पद्यते तच्चक्षुर्विज्ञानाम्, यावत्कायं प्रतीत्य स्प्रष्टव्यानित्यो(चो?)त्पद्यते कायविज्ञानमिति वचनात् । अथ द्वितीयः पक्षस्तदा विरुद्धता हेतोरित्यादर्शयन्नाह—“अविकार्युपकारित्वे”त्यादि । अविकारिणो नित्यस्योपकारित्वमविकार्युपकारित्वम्, तस्य चक्षुरादीनां साधने सति दृष्टान्ते साध्यविपर्ययेणैव हेतोर्व्याप्तत्वाद्विरुद्धता, यतस्ते शयनादयश्चलस्यानित्यस्यैवोपकारिणो युक्ताः, अविकारिण्यतिशयस्याधातुमशक्यत्वात् । अथ सामान्येनाधेयातिशयादिविकल्पमपास्य पारार्थ्यमात्रं साध्यत इति तृतीयः पक्षः, तदाऽपि सिद्धसाध्यता, चित्तोपकारित्वेन चक्षुरादीनामिष्टत्वात् । अथ चित्तमपि साध्यधर्मित्वेनाभ्युपगम्यते यथा नैयायिकैरभ्युपगतम् । एवमपि भवतां नेष्टसिद्धिः, चित्तव्यतिरेकेणाऽऽत्मनोऽनिष्टत्वात् । नापिनैयायिकानामभिमतार्थसिद्धिः, परस्परोपकारित्वेन चक्षुरादीनां परोपकारित्वस्येष्टत्वात् । पारावारवदापेक्षिकत्वात्परत्वस्य । चित्तस्य चानेककारणकृतोपकारोपग्रहेणोत्पत्तेः सङ्घातत्वं कल्पितमस्त्येवेति हेतोरपि ना(न?)सिद्धिः ॥ ३०७ ॥ ३०८ ॥ ॥ ३०९ ॥ ३१० ॥

इति कापिलकल्पितात्मपरीक्षा ।

दिगम्बरपरिकल्पितात्म-परीक्षा

दिगम्बरपरिकल्पितात्मप्रतिषेधार्थमाह—“जैमिनीया इवे”त्यादि ।

जैमिनीया इव प्राहुर्जैनाश्चिल्लक्षणं नरम् ।
द्रव्यपर्यायरूपेण व्यावृत्त्यनुगमात्मकम् ॥ ३११ ॥

“जैना” इति । दिगम्बरास्त एवं प्राहुः । चिल्लक्षण एवात्मा स च द्रव्यरूपेणसर्वावस्थास्वभिन्नत्वादनुगमात्मकः, पर्यायरूपेण तु प्रत्यवस्थं भिन्नत्वाद्व्यावृत्त्यात्मकः । एतच्च प्रत्यक्षत एव सिद्धमात्मनो द्वैरूप्यमिति न प्रमाणान्तरतः प्रसाध्यम् । तथा हि—सुखाद्यवस्थाभेदेऽपि यदवस्थातृ सर्वावस्थासु चैतन्यमुपलभ्यते तद्द्रव्यम् ।पर्यायस्तु क्रमभाविनः सुखाद्यवस्थाभेदाः । ते च प्रत्यक्षत एव सिद्धा इति परस्य भावः ॥ ३११ ॥

“तत्रापी”त्यादिना प्रतिविधत्ते ।

तत्राप्यविकृतं द्रव्यं पर्यायैर्यदि सङ्गतम् ।
न विशेषोऽस्ति तस्येति परिणामि न तद्भवेत् ॥ ३१२ ॥

अत्र पक्षद्वयम्—यत्तच्चैतन्यात्मकं द्रव्यं तत्पर्यायैः सम्बध्यमानं कदाचिदविकृतमत्यक्तपौरस्त्यचैतन्यादिरूपं सत्सम्बध्यते, यद्वा परित्यक्तपूर्वरूपम् । तत्र यद्यनन्तरःपक्षस्तदा नित्यत्वहानिप्रसङ्गः, अवस्थातुः कस्यचिदप्यभावात् । अथाविकृतमिति प्रथमपक्षस्तदा पूर्वोत्तरयोरवस्थयोर्न विशेषः—अन्यथात्वम्, अस्तीति परिणामि तच्चैतन्यं न भवेत्—न प्राप्नोति । अन्यथात्वलक्षणत्वात्परिणामस्य । इष्टं च परिणामि । प्रयोगः—यत्पूर्वोत्तरावस्थासु न विशिष्यते तत्परिणामि न भवति यथाकाशम्, न विशिष्यते च चैतन्यं सर्वावस्थास्विति व्यापकानुपलब्धेः ॥ ३१२ ॥

“देशकालस्वभावाना”मित्यादिना हेतोः परमतेनासिद्धिमाशङ्कते ।

देशकालस्वभावानामभेदादेकतोच्यते ।
सङ्ख्यालक्षणसञ्ज्ञार्थभेदाद्भेदस्तु वर्ण्यते ॥ ३१३ ॥

रूपादयो घटश्चेति सङ्ख्यासञ्ज्ञाविभेदिता ।
कार्यानुवृत्तिव्यावृत्ती लक्षणार्थविभेदिता ॥ ३१४ ॥

द्रव्यपर्याययोरेवं नैकान्तेनाऽविशेषवत् ।
द्रव्यं पर्यायरूपेण विशेषं याति चे(त्स्व)यम् ॥ ३१५ ॥

तथा हि—यद्येकान्तेन पर्यायेभ्यो द्रव्यं व्यतिरेकि भवेत्तदा स्यात्तस्या विशेषः, यावता देशकालस्वभावाभेदाद्द्रव्यपर्याययोरैक्यमिष्टम् । सङ्ख्यादिभेदात्तु भेदः । तत्र सङ्ख्या, एकत्वबहुत्वादि । तथा हि—द्रव्यमेकसङ्ख्यायुक्तम्, पर्यायास्तु सुखादयोनेकसङ्ख्याविशिष्टाः । लक्षणमपि भिन्नम् । यतोऽनुवृत्तिलक्षणं द्रव्यम्, पर्यायास्तु व्यावृत्तिलक्षणाः, सञ्ज्ञा—नाम, अर्थः—कार्यम् । तथा चोक्तम्—देशकालस्वभावाभेदादभेदो धर्मधर्मिणोः, सङ्ख्यासञ्ज्ञालक्षणकार्यभेदात्तु भेदः, तद्यथा घटस्य रूपादीनां चेति । तथा हि—घटतद्रूपादीनां देशादिभिरभेदः, य एव हि देशकालस्वभावश्चघटस्य स एव रूपादीनाम्, सङ्ख्यादिभिश्च घटात्तेषां भेदः । तथा ह्येको घटो बहवस्तु रूपादय इति सङ्ख्याभेदः । घटो रूपादय इति च सञ्ज्ञाभेदः । अनुवृत्तिलक्षणङ्घटादिद्रव्यं व्यावृत्तिलक्षणास्तु रूपादयः पर्याया इति लक्षणभेदः । घटेनोदकाहरणं कार्यं क्रियते रूपादिभिस्तु वस्ररागादीति कार्यभेदः । एवमात्मद्रव्येऽपि चैतन्यात्मके सुखदुःखादिषु पर्यायेषु चोह्यम् । कार्यभेदस्तु तत्रैवं बोद्धव्यः—चैतन्येनार्थानुभवः क्रियते, सुखादिभिस्तु पीडानुग्रहादीति । तदेतद्दर्शयति “रूपादय” इत्यादि । “सङ्ख्यासञ्ज्ञाविभेदिते”ति । द्रव्यपर्याययोरिति वक्ष्यमाणं सम्बध्यते । “कार्यानुवृत्तिव्यावृत्ती लक्षणार्थविभेदि”तेति । यथायोगं सम्बन्धः । कार्यभेदोऽर्थविभेदिता, अनुवृत्तिव्यावृत्तीलक्षणविभेदितेति सम्बन्धः । द्रव्यपर्याययोरित्यत्र छेदः । “एव”मित्यादिनाहेतोरसिद्धिमुपसंहरति । एवं च कृत्वा द्रव्यमेकान्तेन नाविशिष्टं किन्तु पर्यायरूपभेदेन विशेषं प्रतिपद्यते । तेन पर्यायेभ्यो द्रव्यस्यैकान्तेन भेदाभावादित्यसिद्धो हेतुः ॥ ३१३ ॥ ३१४ ॥ ३१५ ॥

“स्वभावाभेद” इत्यादिना प्रतिविधत्ते ।

स्वभावाभेद एकत्वं तस्मिन्सति च भिन्नता ।
कथञ्चिदपि दुःसाध्या पर्यायात्मस्वरूपवत् ॥ ३१६ ॥

यदि हि द्रव्यपर्याययोरभेदोऽप्यङ्गीक्रियते । तदा सर्वात्मनैवाभेदोऽयं भवेत्, भेदश्च तद्विपरीतः कथं भवेत्, न ह्येकस्यैकदा विधिप्रतिषेधौ परस्परविरुद्धौ युक्तौ । तथाह्येकमित्यनेन भेदनिषेधनान्तरीयकः स्वभावाभेद उच्यते, तस्मिंश्च स्वभावाभेदे सति कथं तदानीमेव भेदस्तत्प्रतिषेधात्मा भवेत् । प्रयोगः—यत्राभेदस्तत्र तद्विपरीतो न भेदोऽवकाशं लभते, यथा तेषामेव पर्यायाणां द्रव्यस्य च यत्प्रतिनियतमसाधारणमात्मरूपं तस्य न स्वभावाद्भेदः, अभेदश्च द्रव्यपर्याययोरवस्थित इति विरुद्धोपलब्धेः ॥ ३१६ ॥

ततश्च परमार्थेन द्रव्यपर्याययोरभेदे सति लक्षणभेदोऽपि न प्राप्नोतीति दर्शयति ।“अगौणे चैव”मित्यादि ।

अगौणे चैवमेकत्वे द्रव्यपर्याययोः स्थिते ।
व्यावृत्तिमद्भवेद्द्रव्यं पर्यायाणां स्वरूपवत् ॥ ३१७ ॥

यदि वा तेऽपि पर्यायाः सर्वेऽप्यनुगतात्मकाः ।
द्रव्यवत्प्राप्नुवन्त्येषां द्रव्येणैकात्मता स्थितेः ॥ ३१८ ॥

यद्व्यावृत्तिमद्रूपाभिन्नस्वभावं तद्व्यावृत्तिमत्, यथा पर्यायाणां स्वरूपम्, व्यावृत्तिमद्रूपाव्यतिरिक्तं च द्रव्यमिति स्वभावहेतुः । अथ वा—यदनुगतात्मरूपाव्यतिरिक्तं तदनुगतात्मकमेव, यथा द्रव्यरूपम्, अनुगतात्मरूपाविभिन्नस्वभावाश्च सुखादयःपर्याया इति स्वभावहेतुरेव । अन्यथा विभिन्नयोगक्षेमत्वाद्भेद एव भवेत् । विरुद्धधर्माध्यासितस्याप्येकत्वे भेदव्यवहारोच्छेद एव स्यादिति विपर्यये बाधकं प्रमाणम् ॥ ३१७ ॥ ३१८ ॥

“तत” इत्यादिनोपसंहरति ।

ततो नावस्थितं किञ्चिद्द्रव्यमात्मादि विद्यते ।
पर्यायाव्यतिरिक्तत्वात्पर्यायाणां स्वरूपवत् ॥ ३१९ ॥

“आत्मा”दीति । आदिशब्देन घटव्रीह्यादिपरिग्रहः ॥ ३१९ ॥

“न चे”त्यादिना द्वितीयप्रसङ्गसाधनफलमाह ।

न चोदयव्ययाक्रान्ताः पर्याया अपि केचन ।
द्रव्यादव्यतिरिक्तत्वात्तद्द्रव्यनियतात्मवत् ॥ ३२० ॥

तस्यापि द्रव्यस्य पर्यायरूपेणोदयव्ययाक्रान्तस्येष्टत्वादतो माभूत्साध्यवैकल्यप्रसङ्ग इति नियतात्मवदित्युक्तम् । नियतश्चासावात्मा स्वभावो द्रव्यादिरूपेणेति विशेषणसमासः ॥ ३२० ॥

“ततो निरन्वय” इत्यादिना निगमयति ।

ततो निरन्वयो ध्वंसः स्थिरं वा सर्वमिष्यताम् ।
एकात्मनि तु नैव स्तो व्यावृत्त्यनुगमाविमौ ॥ ३२१ ॥

न केवलं पर्यायादभिन्नस्वभावाद्द्रव्यरूपस्यानुगतात्मनोऽसिद्धिः, इतोऽपि पर्यायव्यतिरेकेणोपलब्धिलक्षणप्राप्तस्यानुपलब्धेरसद्व्यवहारविषयत्वमेवास्येति दर्शयन्नाह—“न चे”त्यादि ।

न चोपलभ्यरूपस्य पर्यायानुगतात्मनः ।
द्रव्यस्य प्रतिभासोऽस्ति तन्नास्ति गगनाब्जवत् ॥ ३२२ ॥

तेन यदुक्तं प्रत्यक्षत एवानुगतो द्रव्यात्मा सिद्ध इति, तदसिद्धम् । न हि पर्यायव्यतिरिच्यमानशरीरः क्वचिदपि विज्ञाने प्रत्यक्षसम्मते प्रतिभासमानोऽनुगतैकरूपो द्रव्यात्मा लक्ष्यते ॥ ३२२ ॥

यद्येवं यदि पर्यायव्यतिरेकेण द्रव्यात्मा नास्ति तदा सङ्ख्यादिभेदः कथं सिध्यतीत्याह—“विविधार्थे”त्यादि ।

विविधार्थक्रियायोग्यास्तुल्यादिज्ञानहेतवः ।
तथाविधार्थसङ्केतशब्दप्रत्ययगोचराः ॥ ३२३ ॥

विविधाः—नानाप्रकाराः, अर्थक्रियाः—रूपादीनां पर्यायाणां समानासमानभेदात्, तत्र समाना जलसन्धारणादिलक्षणाः, असमाना वस्त्ररागलोचनादिज्ञानोत्पादलक्षणाः, तत्र योग्याः समर्था इति विग्रहः । तत्र साधारणे कार्ये सर्वेषामेव यौगपद्येनोपयोग इति समस्तानां हेतुत्वज्ञापनार्थमभिन्नद्रव्यरूपाभावेऽपि त एव भेदिनोऽपि घट इत्यादिना शब्देनैकसङ्ख्याविशिष्टा उच्यन्ते । असाधारणकार्योपयोगित्वविवक्षायां तु नानासङ्ख्यास्त इति सङ्ख्याभेदः कार्यभेदश्च तेषु व्यवस्थाप्यते । लक्षणभेदस्तर्हि कथमित्याह—“तुल्यादिज्ञानहेतव” इति । आमपक्वाद्यवस्थासु प्रतिक्षणध्वंसिनोऽपि सदृशसन्निवेशा विशेषा एवोत्पद्यमाना निर्विकल्पानुभवविषया अनुभूयमानाः सर्वावस्थासु घटो घट इत्यादिसदृशप्रत्ययहेतवो भवन्ति । श्यामलोहितादिवर्णवैलक्षण्येन जायमाना अतुल्यप्रत्ययहेतव इत्येवमेकरूपानुगममन्तरेणापि तुल्यातुल्यज्ञानहेतवो भवन्तोऽनुवृत्तिव्यावृत्तिरूपेण व्यवस्थाप्यन्त इति लक्षणभेदो व्यवस्थाप्यते । तुल्यादीत्यादिग्रहणेनातुल्यं ज्ञानं गृह्यते । कस्तर्हि सञ्ज्ञाभेद इत्याह—“तथाविधे”त्यादि । तथाविधः—विविधार्थक्रियायोग्यस्तुल्यादिज्ञानहेतुश्च पदार्थो रूपादिः, अर्थः—विषयो यस्य, घट इति रूपादय इति च सङ्केतस्य, स तथोक्तः, तथाविधार्थः सङ्केतो येषां शब्दप्रत्ययानां ते तथोक्ताः, तेषां गोचरा इति विग्रहः ॥ ३२३ ॥

तेन प्रत्यक्षत एव भावानां नैरात्म्यं प्रसिद्धमित्युपसंहारेण दर्शयति—“उदये”त्यादि ।

उदययव्यधर्माणः पर्याया एव केवलाः ।
संवेद्यन्ते ततः स्पष्टं नैरात्म्यं चातिनिर्मलम् ॥ ३२४ ॥

“पर्याया” इति । रूपादयः, स्वसंविदितस्वभावाश्च दुःखादयः । “केवला” इति । अभिन्नैकद्रव्यरूपविरहिणः । नित्यस्य च क्रमयौगपद्याभ्यामर्थक्रियाविरोधात् । अर्थक्रियाकारित्वमेषामुदयव्ययधर्मित्व एव सति युज्यत इत्यनुमानतोऽप्येषामर्थक्रियाकारिणांसत्वलिङ्गान्नैरात्म्यं प्रसिद्धम् ॥ ३२४ ॥

यदुक्तं न चोपलभ्यरूपस्येत्यादि, तत्राथेत्यादिना परस्योत्तरमाशङ्कते ।

अथ सन्मूर्छितं रूपं द्रव्यपर्याययोः स्थितम् ।
तद्द्विरूपं हि निर्भागं नरसिंहवदिष्यते ॥ ३२५ ॥

सम्मूर्छितम्—एकलोलीभूतम्, अतो विवेकेन द्रव्यरूपं न प्रतिभासते विद्यमानमपीति भावः । सम्मूर्छितत्वे कारणमाह—“तद्द्विरूपं ही”त्यादि । तत्—आत्मादिकं वस्तु । यस्मात्तद्द्विरूपमपि सन्निर्भागमिष्यते यथा नरसिंहस्तस्मान्निर्भागत्वात्सम्मूर्छितोभयरूपं तदिति न पृथगुपलभ्यते ॥ ३२५ ॥

तदेतत्परस्परपराहतमभिधीयते भवतेति दर्शयन्नाह—“नन्वि”त्यादि ।

ननु द्विरूपमित्येव नानार्थविनिबन्धनः ।
निर्देशो रूपशब्देन स्वभावस्याभिधानतः ॥ ३२६ ॥

यदि हि निर्भागं तदा द्विरूपमित्येतद्व्याहतम्, नानार्थविनिबन्धनत्वादस्य व्यपदेशस्य, कस्मात् ? रूपशब्देन स्वभावस्याभिधानात् । तथा हि द्वे रूपे द्वौ स्वभावौ यस्य स द्विरूप उच्यते न चैकस्य स्वभावद्वयं युक्तमेकत्वहानिप्रसङ्गात् । केवलं द्वावेव स्वभावौ भवता प्रतिपादितौ, न पुनरेकं वस्तु द्विरूपम्, परस्परपरिहारस्थितलक्षणत्वादेकत्वानेकत्वयोः ॥ ३२६ ॥

यश्च नरसिंहः सोऽप्येकः सन् द्विरूपो न सिद्ध इति दर्शयति—“नरसिंहोऽपीत्या”दिना ।

नरसिंहोऽपि नैवैको द्व्यात्मकश्चोपपद्यते ।
अनेकाणुसमूहात्मा स तथा हि प्रतीयते ॥ ३२७ ॥

दिगम्बरपरिकल्पितात्मपरीक्षा ।

केवलं विवादास्पदीभूतं नोपपद्यत इत्यपिशब्दः । स इति । नरसिंहः । “तथे”ति ।अवयववैचित्र्येण, पृथुतरदेशाक्रान्तिरूपेण च । अन्यथैवं न प्रतिभासेत । मक्षिकापदमात्रेणापि च पिधाने तस्य तथाविधस्यावरणप्रसङ्गश्च । एतेन मेचकमणिकल्पावर्णादयः प्रत्युक्ताः । एतच्च विस्तरेणावयविनिषेधे प्रतिपादयिष्याम इति भावः ॥ ३२७ ॥

इति दिगम्बरपरिकल्पितात्मपरीक्षा ।

औपनिषदिकात्म-परीक्षा

अपरेऽद्वैतदर्शनावलम्बिनश्चौपनिषदिकाः क्षित्यादिपरिणामरूपनित्यैकज्ञानस्वभावमात्मानं कल्पयन्ति । अतस्तेषामेव मतमुपदर्शयन्नाह—“नित्ये”त्यादि ।

नित्यज्ञानविवर्त्तोऽयं क्षितितेजोजलादिकः ।
आत्मा तदात्मकश्चेति सङ्गिरन्तेऽपरे पुनः ॥ ३२८ ॥

“तदात्मक” इति । क्षित्यादिपरिणामरूपनित्यैकज्ञानात्मक इत्यर्थः । “अपर” इति । औपनिषदिकाः ॥ ३२८ ॥

किमत्र प्रमाणमित्याह—“ग्राह्ये”त्यादि ।

ग्राह्यलक्षणसंयुक्तं न किञ्चिदिह विद्यते ।
विज्ञानपरिणामोऽयं तस्मात्सर्वः समीक्ष्यते ॥ ३२९ ॥

न हि क्षित्यादयो ज्ञानव्यतिरेकेण ग्राह्यलक्षणापन्नाः सन्ति येन ते प्रतिभासेरन्नवयविनः । परमाणूनां चासत्त्वात् । तस्मात्सामर्थ्याद्विज्ञानप्रतिभासरूपा एवामी क्षित्यादय इति व्यवसीयन्ते । “अय”मिति । क्षित्यादिः ॥ ३२९ ॥

“तेषा”मित्यादिना प्रतिविधत्ते ।

तेषामल्पापराधं तु दर्शनं नित्यतोक्तितः ।
रूपशब्दादिविज्ञानां(ने?) व्यक्तं भेदोपलक्षणात् ॥ ३३० ॥

एकज्ञानात्मकत्वे तु रूपशब्दरसादयः ।
सकृद्वेद्याः प्रसज्यन्ते नित्येऽवस्थान्तरं न च ॥ ३३१ ॥

“अल्पापराध”मिति । ज्ञानमात्रस्य युक्त्युपेतस्याभ्युपगमात् । यद्येवं स्वल्पोऽपि किमिति तत्रापराध उच्यत इत्याह—“नित्यतोक्तित” इत्यादि । कस्मात्पुनर्नित्यत्वाभ्युपगमो न युक्त इत्याह—“रूपशब्दा”दीत्यादि । नित्यता हि नाम तादवस्थ्यमुच्यते, अतादवस्थ्यं त्वनित्यता, न च रूपशब्दादिप्रतिभासिविज्ञानमेकावस्थं सर्वदाऽनुभूयते, किन्तु क्रमेण कदाचिद्रूपप्रतिभासमन्यदा च शब्दादिप्रतिभासम्। तद्यदिनित्यैकज्ञानप्रतिभासात्मका अमी शब्दादयः स्युस्तदा विचित्रास्तरणप्रतिभासवत्सकृदेव प्रतिभासेरन्। तत्प्रतिभासात्मकस्य ज्ञानस्य सर्ददाऽवस्थितत्वात्। अथापि स्यादवस्थान्तरमेतत्क्रमेण शब्दादिप्रतिभासं ज्ञानस्योत्पद्यते । तेन सकृदेव शब्दादिसंवेदनं न भविष्यतीत्याह—नित्येऽवस्थान्तरं न चेति। अवस्थानामवस्थातुरनन्यत्वादवस्थावदवस्थातुरपि नाशोत्पादौ स्याताम् । अवस्थातृवद्वाऽवस्थानामपि नित्य त्वप्रसङ्गः । व्यतिरेके चावस्थानां तस्यैता इति सम्बन्धासिद्धिः, उपकाराभावात् ।नित्यैकविज्ञानमात्राभ्युपगमविरोधश्च ॥ ३३० ॥ ३३१ ॥

किञ्च—नित्यस्य ज्ञानात्मनः प्रत्यक्षतो वा सिद्धिर्भवेदनुमानतो वा न तावत्प्रत्यक्षत इति दर्शयति—“रूपे”त्यादि ।

रूपादिवित्तितो भिन्नं न ज्ञानमुपलभ्यते ।
तस्याः प्रतिक्षणं भेदे किमभिन्नं व्यवस्थितम् ॥ ३३२ ॥

न हि क्रमप्रतिभासिरूपादिसंविद्व्यतिरेकेण नित्यैकरूपमवस्थातृ ज्ञानमनुभूयते, येन प्रत्यक्षतः सिद्धिः स्यात् । तस्याश्च रूपादिसंवित्तेः क्रमेणानुभूयमानायाः प्रतिक्षणं ध्वंसे सिद्धे किमपरमभिन्नमस्तीति वाच्यम् । तस्मादुपलब्धिक्षणप्राप्तस्य तथाविधज्ञानात्मनोऽनुपलब्धेरसद्व्यवहारविषयतैवेति भावः । न चाप्यनुमानतः सिद्धिरिति मन्यते । तथाह्यनुमानं भवत्स्वभावलिङ्गं वा भवेत्, कार्यं वा, न तावत्स्वभावस्तथाभूतस्य ज्ञानात्मनः साधकं प्रमाणमस्ति, बाधकं तु प्रत्यक्षादि विद्यत इत्ययुक्तोनित्यज्ञानविवर्त्तः ॥ ३३२ ॥

किञ्चास्मिन्पक्षे बन्धमोक्षव्यवस्था न प्राप्नोतीति दर्शयति—“विपर्यस्ते”त्यादि ।

विपर्यस्ताविपर्यस्तज्ञानभेदो न विद्यते ।
एकज्ञानात्मके पुंसि बन्धमौक्षौ ततः कथम् ॥ ३३३ ॥

यस्य हि प्रतिक्षणध्वंसि प्रतिपुरुषमनेकमेव विज्ञानं सन्तानभेदि प्रवर्त्तत इति पक्षस्तस्य विपर्यस्ताविपर्यस्तज्ञानप्रबन्धोत्पादवशाद्बन्धमोक्षव्यवस्था युक्तिमती । योगाभ्यासक्रमेण च परिशुद्धतरतमज्ञानोत्पादादपरिशुद्धज्ञानसन्ताननिवृत्तेरपवर्गः प्राप्यत इति सफलो मोक्षप्राप्तये प्रयासः । यस्य तु पुनर्भवतो नित्यैकज्ञानस्वभाव आत्मेति पक्षस्तस्य कथमेकज्ञानात्मके पुंसि बन्धमोक्षौ भवतः । तथाहि—यदि विपर्यस्तस्वभावमेकं ज्ञानं सदा तदाऽपरस्यावस्थान्तरस्याभावान्न मोक्षव्यवस्था स्यात् । अथाविपर्यस्तं तदा नित्यं परिशुद्धस्वभावत्वान्न बन्धः स्यात् । अस्माकं तु सन्तानभेदेन विज्ञप्तिः सङ्क्लिष्टा शुद्धा चेष्यत इति युक्ता बन्धमोक्षव्यवस्था । यथोक्तम्—सङ्क्लिष्टा च विशुद्धा च समला निर्मला च सा । सङ्क्लिष्टा चेद्भवेन्नासौ मुक्ताः स्युः सर्वदेहिनः ॥ विशुद्धा चेद्भवेन्नासौ व्यायामो निष्फलो भवेत् । इति ॥ ३३३ ॥

अथापि स्यात्कल्पितावेव बन्धमोक्षौ न पारमार्थिकाविति, तदत्र कल्पनाया अपि निबन्धनं वाच्यम् । अनित्यज्ञानपक्षे तु निबन्धनमुपदर्शितमेव । ततश्च योऽयं भवतामपवर्गप्राप्तये संसारसमतिक्रमाय च तत्त्वभावनाप्रयत्नः स केवलमायासफल एवेति दर्शयति—“किं वे”त्यादि ।

किं वा निवर्त्तयेद्योगी योगाभ्यासेन साधयेत् ।
किं वा न हातुं शक्यो हि विपर्यासस्तदात्मकः ॥ ३३४ ॥

तत्त्वज्ञानं न चोत्पाद्यं तादात्म्यात्सर्वदा स्थितेः ।
योगाभ्यासोऽपि तेनायमफलः सर्व एव च ॥ ३३५ ॥

औपनिषदकल्पितात्मपरीक्षा ।

यदि हि तत्त्वभावनया योगी किञ्चिन्निवर्त्तयेत्प्रवर्त्तयेद्वा तदा स्यादस्य सफलः प्रयासः, यावता न तावदसौ विपर्यासं निवर्त्तयति, यस्मादसौ विपर्यासस्तदात्मकः— नित्यज्ञानात्मकः, तस्मान्न हातुं शक्यः । नित्यस्याविनाशितया त्यागासम्भवात् । नापि तत्त्वज्ञानं भावनया साधयति, नित्यज्ञानात्मतया सर्वदा तत्वज्ञानस्यावस्थितत्वात् । तस्मान्न युक्तमेतत् ॥ ३३४ ॥ ३३५ ॥

इत्यौपनिषदिकात्मपरीक्षा ।

वात्सीपुत्रीयात्म-परीक्षा

वात्सीपुत्रीयपरिकल्पितपुद्गलप्रतिषेधार्थमाह—“केचित्त्वि”त्यादि ।

केचित्तु सौगतम्मन्या अप्यात्मानं प्रचक्षते ।
पुद्गलव्यपदेशेन तत्त्वान्यत्वादिवर्जितम् ॥ ३३६ ॥

केचिदिति । वात्सीपुत्रीयाः । ते हि सुगतसुतमात्मानं मन्यमाना अपि पुद्गलव्याजेन स्कन्धेभ्यस्तत्त्वान्यत्वाभ्यामवाच्यमात्मानं कल्पयन्ति । ये हि नाम भगवतो नैरात्म्यवादिनस्सुगतस्य सुतत्वमभ्युपगतास्ते कथमिव वितथात्मदृष्टिमभिनिविष्टास्स्युरिति दर्शयन्नुपहासपदमाह—सौगतम्मन्या अपीति । तथाहीदमात्मनो लक्षणम्—यो हि शुभाशुभकर्मभेदानां कर्त्ता स्वकृतकर्मफलस्य चेष्टानिष्टस्य च भोक्ता यश्चपूर्वस्कन्धपरित्यागादपरस्कन्धान्तरोपादानात्संसरति भोक्ता च स आत्मेति । एतच्च सर्वं पुद्गलेऽपीष्टमिति केवलं नाम्नि विवादः ॥ ३३६ ॥

अथ पुद्गलस्यावाच्यत्वे का पुनर्युक्तिरित्याह—“स्कन्धेभ्य” इत्यादि ।

स्कन्धेभ्यः पुद्गलो नान्यस्तीर्थदृष्टिप्रसङ्गतः ।
नानन्योऽनेकताद्याप्तेः साध्वी तस्मादवाच्यता ॥ ३३७ ॥

यदि स्कन्धेभ्योऽन्यः पुद्गलः स्यात्तदानीं तैर्थिकपरिकल्पितात्मदृष्टिर्भवेत्, ततश्चशाश्वतात्मप्रसङ्गः । न च शाश्वतस्यात्मनः कर्तृत्वभोक्तृत्वादि युक्तम्, आकाशवत्तस्य सर्वदा निर्विशिष्टत्वात् । प्रतिषिद्धश्च भगवता शाश्वत आत्मा, निरात्मानः सर्वे धर्मा इति च वचनं व्याहन्येत । अनन्यस्तर्हि भवत्विति चेदाह—“नानन्य” इत्यादि । यदि हि स्कन्धा एव रूपादयः पुद्गलः स्यात्तदा बहुभ्यः स्कन्धेभ्योऽनन्यत्वात्तत्स्वरूपवदनेकता प्राप्नोति पुद्गलस्य । एकश्चेष्यते । यथोक्तम्— एकः पुद्गलो लोक उत्पद्यमान उ(त्प)द्यते यद्वत्तथा गत इति (?) । आदिशब्देनानित्यत्वादिपरिग्रहः । एवं च सति उच्छेदित्वं स्कन्धवत्पुद्गलस्यापि स्यात् । ततश्च कृतकर्मविप्रणाशप्रसङ्गः प्रतिषिद्धश्च भवतोच्छेदवाद इत्यतोऽस्त्यवाच्यः पुद्गल इति सिद्धम् ॥ ३३७ ॥

“ते वाच्या” इत्यादिना वस्तुवत्पुद्गलो न भवत्यवाच्यत्वादिति स्ववचनादेव भवद्भिःप्रतिपादितमिति दर्शयति ।

ते वाच्याः पुद्गलो नैव विद्यते पारमार्थिकः ।
तत्त्वान्यत्वादवाच्यत्वान्नभःकोकनदादिवत् ॥ ३३८ ॥

प्रयोगः—यद्वस्तुनः सकाशात्तत्त्वान्यत्वाभ्यां वाच्यं न भवति न तद्वस्तु, यथा गगननलिनम्, न भवति च वाच्यः पुद्गल इति व्यापकानुपलब्धेः । वैधर्म्येणवेदनादि ॥ ३३८ ॥

कथं पुनरत्र व्याप्तिः सिद्धेत्याह—“अन्यत्व”मित्यादि ।

अन्यत्वं वाऽप्यनन्यत्वं वस्तु नैवातिवर्त्तते ।
वस्तुतो यत्तु नीरूपं तदवाच्यं प्रकल्प्यते ॥ ३३९ ॥

वस्तुनो हि सकाशाद्वस्तु नैव तत्त्वान्यत्वे व्यतिक्रामति, गत्यन्तराभावात् । अन्यथा रूपादीनामपि परस्परतोऽवाच्यत्वं स्यात् । तस्मान्नीरूपमस्वभावमेवावाच्यं प्रकल्प्यते, न तु वस्तु ॥ ३३९ ॥

कथमित्याह—“भेदाभेदविकल्पस्ये”त्यादि ।

भेदाभेदविकल्पस्य वस्त्वधिष्ठानभावतः ।
तत्त्वान्यत्वाद्यनिर्देशो निःस्वभावेषु युज्यते ॥ ३४० ॥

न वस्तुनि यदेतद्धि तन्नेति प्रतिषेधनम् ।
तद्वस्त्वन्तरवत्तस्माद्व्यक्तमन्यत्वमुच्यते ॥ ३४१ ॥

अतद्भावनिषेधश्च तत्त्वमेवाभिधीयते ।
नातिक्रामति तद्वस्तु तत्त्वं भेदं च वस्तुनः ॥ ३४२ ॥

वस्त्वेव हि भेदाभेदविकल्पयोरधिष्ठानम्, नावस्तु । तेन तत्त्वान्यत्वाद्यनिर्देशोनिःस्वभावेष्वेव—स्वभावविरहितेष्वेव युज्यते । न वस्तुनि तत्त्वान्यत्वाद्यनिर्देशो युज्यत इति सम्बन्धः । तत्र भेदाभेदाभ्यां गत्यन्तराभावात् । कथं पुनर्गत्यन्तराभाव इत्याह—“यदेतद्धी”त्यादि । तथा हि—रूपादिस्वभावः पुद्गलो न भवतीति यदेतत्तन्निषेधनम्, तत्तस्माद्रूपादेः सकाशादन्यत्वमेवाभिधीयते । स्वभावान्तरविधिनान्तरीयकत्वाद्वस्तुनो वस्त्वन्तरभावनिषेधस्य । प्रयोगः—यद्वस्तुयत्स्वभावविरहितं तत्ततोऽन्यत्, यथा रूपं वेदनातः, रूपादिस्वभावविरहि च पुद्गलाख्यं वस्तु, इति स्वभावहेतुः । यश्चायंवस्तुनोऽतद्भावनिषेधः—अतद्रूपनिषेधः स तत्त्वमव्यतिरेक एवाभिधीयते । तत्त्वविधिनान्तरीयकत्वाद्वस्तुसतोऽर्थान्तरभावनिषेधस्य । अन्यथा हि यदि तस्य न कश्चित्स्वभावो विधीयते तदा सर्वस्वभावनिषेधादवस्तुत्वमेव स्यात् । सर्वस्वभावनिषेधलक्षणत्वादवस्तुत्वस्येति । प्रयोगः—यद्वस्तु यतोऽर्थान्तरत्वेन प्रतिषिद्धात्मतत्त्वं तत्तदेव, यथा रूपं स्वस्वभावादर्थान्तरत्वेन प्रतिषिद्धात्मतत्त्वम् । प्रतिषिद्धात्मतत्त्वश्च रूपादिभ्योऽर्थान्तरत्वेन पुद्गल इति स्वभावहेतुः । तत्तस्माद्वस्तुनः सकाशात्तत्त्वान्यत्वेवस्तु नातिक्रामतीति सिद्धा व्याप्तिर्मौलस्य हेतोः ॥ ३४० ॥ ३४१ ॥ ३४२ ॥

एवं तावदवाच्यत्वाभ्युपगमे प्रज्ञप्तिसत्वं पुद्गलस्य प्राप्तमिति प्रतिपादितम् । इदानीं वस्तुत्वाभ्युपगमे वा पुद्गलस्यावाच्यत्वमयुक्तमन्यथा स्ववचनविरोधः प्रतिज्ञायाः स्यादिति मन्यमानो निगमयति—“स्कन्धेभ्य” इत्यादि ।

स्कन्धेभ्यः पुद्गलो नान्य इत्येषाऽनन्यसूचना ।
स्कन्धो न पुद्गलश्चेति व्यक्ता तस्येयमन्यता ॥ ४४३ ॥

अपि चावाच्यः पुद्गल इति ब्रुवाणैर्भवद्भिः स्फुटतरमेव स्कन्धेभ्यः पुद्गलस्यान्यत्वमुच्चैरुद्धोषितमिति दर्शयति—“विरुद्धधर्मसङ्गो ही”त्यादि ।

विरुद्धधर्मसङ्गो हि वस्तूनां भेद उच्यते ।
स्कन्धपुद्गलयोश्चैव विद्यते भिन्नता न किम् ॥ ३४४ ॥

प्रयोगः—यौ परस्परपरिहारस्थितधर्माध्यासितौ तौ परस्परभिन्नौ, यथा रूपवेदने मूर्त्तत्वामूर्त्तत्वयुक्ते, वाच्यत्वावाच्यत्वादिपरस्परविरुद्धधर्माध्यासितौ च स्कन्धपुद्गलाविति स्वभावहेतुः ॥ ३४४ ॥

न चायमसिद्धो हेतुरिति दर्शयन्नाह—“तथा ही”त्यादि ।

तथा हि वेदनादिभ्यः पुद्गलोऽवाच्य उच्यते ।
तत्त्वान्यत्वेन वाच्यास्तु रूपसञ्ज्ञादयस्ततः ॥ ३४५ ॥

तथा हि पुद्गलो वेदनासञ्ज्ञादिभ्यस्तत्त्वान्यत्वाभ्यामवाच्य इष्यते । रूपवेदनादयस्तु, ततः—वेदनादिभ्यः, परस्परमन्यत्वेन वाच्या इत्यतो नासिद्धता हेतोः ॥ ३४५ ॥

इतोऽपि विरुद्धधर्माध्यासः सिद्ध इत्यादर्शयति—“अनित्यत्वेने”त्यादि ।

अनित्यत्वेन वाच्याश्च रूपस्कन्धादयो मताः ।
पुद्गलस्तु तथा नेति ततो विस्पष्टमन्यता ॥ ३४६ ॥

अनित्याः सर्वसंस्कारा इति वचनाद्रूपादयो ह्यनित्यत्वेन वाच्याः, पुद्गलस्तु तथा नानित्यत्वेन वाच्य इष्टः सर्वप्रकारेण तस्यावाच्यत्वात् । न चाप्यनैकान्तिकता हेतोः, एतावन्मात्रनिबन्धनत्वाद्भेदव्यवहारस्य, अन्यथा हि सकलमेव विश्वमेकं वस्तु स्यात्,ततश्च सहोत्पादविनाशप्रसङ्गः ॥ ३४६ ॥

न केवलं तत्त्वान्यत्वाभ्यामवाच्यत्वादवस्तु पुद्गलोऽयमिति प्रतिपादितम्, इतोऽप्यनित्यत्वेनावाच्यत्वादेवावस्त्विति प्रतिपादयन्नाह—“अर्थक्रियास्वि”त्यादि ।

अर्थक्रियासु शक्तिश्च विद्यमानत्वलक्षणम् ।
क्षणिकेष्वेव नियता तथाऽवाच्ये न वस्तुता ॥ ३४७ ॥

इदमेव हि विद्यमानत्वलक्षणं वस्तुस्वभावो यदुतार्थक्रियासु शक्तिः, सर्वसामर्थ्यविरहलक्षणत्वादवस्तुत्वस्येति सामर्थ्यादर्थक्रियासामर्थ्यलक्षणमेव वस्तुत्वमवतिष्ठते । सा चार्थक्रिया क्षणिकेष्वेव नियता । क्षणिकत्वेनैव व्याप्तेति यावत् । नित्यस्य क्रमयौगपद्याभ्यामर्थक्रियाविरोधात् । अतस्तथा क्षणिकत्वेनावाच्ये पुद्गले वस्तुता नास्ति । तत्र तद्व्यापकस्य क्षणिकत्वस्य निवृत्तेः वृक्षत्वनिवृत्तौ शिंशपात्वादिनिवृत्तिवदिति । यथोक्तम्—अनित्यत्वेन योऽवाच्यः स हेतुर्नहि कस्यचिदिति । स्यादेतद्यदि पुद्गलो नित्यः स्यात्तदा तस्य क्रमयौगपद्याभ्यामर्थक्रियाविरोधः स्यात्, यावता यथाऽसावनित्यत्वेनावाच्यः तथा नित्यत्वेनापीति, अतोऽर्थक्रियासामर्थ्यमस्याविरुद्धमेवेति ।तदसम्यक्, न ह्युभयाकारविनिर्मुक्तं वस्तु स्वलक्षणं युक्तम्, नित्यानित्ययोरन्योन्यवृत्तिपरिहारस्थितलक्षणत्वात् । वस्तुन्येकाकारत्यागपरिग्रहयोस्तदपराकारपरिग्रहत्यागनान्तरीयकत्वात् । न ह्यस्माभिरवाच्यशब्दनिवेशनं पुद्गले प्रतिषिध्यते, स्वतन्त्रेच्छा मात्रानीतस्य केनचित्प्रतिषेद्धुमशक्यत्वात्, किन्त्विदमिह वस्तुरूपं निरूप्यते । किमसौ पुद्गलाख्यस्य वस्तुनः स्वभावः सर्वदाऽस्त्याहोस्विन्नास्तीति, यद्यस्ति तदा नित्य एवासौ, न हि नित्यो नामान्य एव कश्चित्, अपि तु यः स्वभावः सदाऽवस्थायी न विनश्यति स नित्य उच्यते । यथोक्तम्— नित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यति इति । अथ नास्तीति पक्षस्तदाऽप्यनित्य एवासावनवस्थायिस्वभावलक्षणत्वादनित्यस्य । अतः क्षणिकाक्षणिकव्यतिरेकेण गत्यन्तराभावादक्षणिकस्य चक्रमयौगपद्याभ्यामर्थक्रियाविरोधात् क्षणिकत्वेनार्थक्रियासामर्थ्यलक्षणं सत्त्वं व्याप्तमिति पुद्गले क्षणिकत्वनिवृत्तौ सत्त्वनिवृत्तिः सिद्धा ॥ ३४७ ॥

यद्येवं यदि पुद्गलो नास्त्येव कस्माद्भगवता स जीवस्तच्छरीरमन्यो जीवोऽन्यच्छरीरमिति पृष्टे नोक्तमव्याकृतमेतदिति, यावता नास्त्येवेति कस्मान्नोक्तमित्याह—“आगमार्थविरोधे त्वि”त्यादि ।

आगमार्थविरोधे तु पराक्रान्तं महात्मभिः ।
नास्तिक्यप्रतिषेधाय चित्रा वाचो दयावतः ॥ ३४८ ॥

यदि हि पुद्गलो धर्मी सिद्धो भवेत्तदा तस्य तत्त्वान्यत्वादिधर्मोऽव्याकृतमर्हेत् ।यावता स एव धर्मी न सिद्धस्तत्कथमसतस्तस्य धर्मो निर्दिश्येत । न ह्यसतः खरविषाणादेस्तीक्ष्णतादि सम्भवति येनासौ व्याक्रियते । अतः प्रज्ञप्तिसत्त्वमेव ख्यापयन्पुद्गलस्याव्याकृतमेतदिति भगवानुवाच । नास्तीत्येवं तु नोक्तम्, परेण धर्मिस्वरूपस्यापृष्टत्वात् । अथवा प्रज्ञप्तिसतोऽप्यभावाभिनिवेशपरिहारार्थं शून्यतादेशनायामभव्यविनेयजनाशयापेक्षया नास्तीत्येव नोक्तम् । यच्चोक्तम्—दृष्टिदंष्ट्रावभेदं च भ्रंशं चावेक्ष्य कर्मणाम् । देशयन्ति जिना धर्मं व्याघ्रीपोतापहारवत् ॥ (?) इति एवमाचार्यवसुबन्धप्रभृतिभिः कोशपरमार्थसप्ततिकादिष्वभिप्रायप्रकाशनात्पराक्रान्तम्, अतस्तत एवावगन्तव्यम् । इह त्वतिग्रन्थविस्तरभिया न लिख्यत इति भावः । यद्येवम्, अस्ति सत्त्व उपपादक इत्येतत्कथं नीयत इत्याह—“नास्तिक्येत्यादि” । सत्त्वास्तित्वाभिधायिन्यो हि देशनाश्चित्रा दयावतः, न विरुध्यन्त इति वाक्यशेषः । यत्र हि चित्तसन्ताने सत्त्वप्रज्ञप्तिस्तस्यां सत्यामनुच्छेदमभिसन्धायास्ति सत्त्व इत्युक्तं भगवता । अन्यथा ह्यनुपरतकार्यकारणक्षणपरम्पराणामपि संस्काराणामभावावगमात् । परलोकिनोऽसत्त्वात्परलोकासिद्धिरिति नास्तिक्यदृष्टयो भवेयुर्विनेयाः ॥ ३४८ ॥

यत्तर्हीदमुक्तम्— भारं वो भिक्षवो देशयिष्यामि भारादानं भारनिक्षेपं भारहारं च । तत्र भारः पञ्चोपादानस्कन्धाः, भारादानं तृप्तिः, भारनिक्षेपो मोक्षः, भारहारः पुद्गला इति, तदेतत्कथं नीयते, न हि भार एव भारहारो युक्त इत्याह—“समुदाया”दीत्यादि ।

समुदायादिचित्तेन भारहारादिदेशना ।
विशेषप्रतिषेधश्च तद्दृष्टीन्प्रति राजते ॥ ३४९ ॥

इति वात्सीपुत्रीयपरिकल्पितात्मपरीक्षा ।

तत्र समानकालाः स्कन्धा एव सामस्त्येन विवक्षिताः समुदायव्यपदेशभाजः, त एव हेतुफलभूताश्च युगपत्कालभाविनः सन्तान इति व्यपदिश्यन्ते, एकाकारपरामर्शहेतवश्च सम्भवन्तः सन्तानिसमुदायिशब्दाभ्यां निर्दिश्यन्त इत्यतः, समुदायादिचित्तेन—समुदायाद्यभिप्रायेण, भारहारादिदेशना, न विरुध्यत इति शेषः । प्रथमेनादिशब्देन सन्तानादिपरिग्रहः, द्वितीयेन भारादेः । तत्र त एव स्कन्धाः समुदायसन्तानादिरूपेण विवक्षिताः पुद्गलो भारहार इति च व्यपदिश्यन्ते । तत्रैव लोके पुद्गलाभिधानात् । अत एव भगवता— भारहारः कतमः पुद्गल इत्युक्त्वा,योऽसावायुष्मन्नेवन्नामा, एवञ्जातिः, एवङ्गोत्र, एवमाहार, एवं सुखदुःखं प्रति संवेदी, एवं दीर्घायुरित्यादिना पुद्गलो व्याख्यातः । स एवं स्कन्धसमुदायलक्षणः प्रज्ञप्तिः सन्नन्यथा विज्ञायेत नान्यो नित्यो द्रव्यं सन् परपरिकल्पितो विज्ञायेतेति प्रदशार्थं (प्रदेशनार्थः ?) अवश्यं चैवं विज्ञेयम्, अन्यथा भारादीनामपि स्कन्धेभ्यः पृथग्देशितत्वात्पुद्गलवत्स्कन्धानन्तर्गतं तत्स्यात् । तस्मात्त एव स्कन्धा येस्कन्धान्तरस्योत्पादाय वर्त्तन्ते पूर्वकास्ते भार इति कृत्वोक्ताः । ये तूपेष्यन्ते फलभूतास्ते भारहारा इत्युक्ताः इत्यज्ञापकमेतत् । उद्योतकरस्त्वाह—आत्मानमनभ्युपगच्छता नेदं तथागतवचनमर्थवत्तायां शक्यं व्यवस्थापयितुम्, यस्मादिदमुक्तम् । रूपं भदन्त नाहम्, वेदना सञ्ज्ञा संस्कारो विज्ञानं भदन्त नाहम्, एंवमेतद्भिक्षो रूपं न त्वम्, वेदना सञ्ज्ञा संस्कारो विज्ञानं न त्वमिति । एतेन हि रूपादयः स्कन्धा अहङ्कारविषयत्वेन प्रतिषिद्धाः । विशेषप्रतिषेधश्चायं न सामान्यप्रतिषेधः । आत्मानं चानभ्युपगच्छता सामान्येनैव प्रतिषेद्धव्यम् । नैव त्वमसीति । विशेषप्रतिषेधस्त्वन्यविधिनान्तरीयको भवति । यथा वामेनाक्ष्णा न पश्यामीत्युक्ते गम्यत एव दक्षिणेन पश्यामीति । तेनाप्यदर्शने वामग्रहणमनर्थकम्, न पश्यामीत्येव वाच्यं स्यात् । तथेहापि न रूपमात्मा यावन्नहि विज्ञानमात्मेत्युक्ते तद्विलक्षणोऽस्त्यात्मेति सूचितं भवति । स चावाच्योऽन्यो वा भवतु सर्वथाऽस्त्यात्मेति । अत्राह—“विशेषप्रतिषेधश्चे”त्यादि । एतदुक्तं भवति । विंशतिशिखरसमुद्गतोऽयं सत्कायदृष्टिशैलः कुमतीनां प्रवर्त्तते । यदुत रूपमात्मा, यावद्विज्ञानमात्मा, रूपवानात्मा, यावद्विज्ञानवानात्मा, आत्मनि रूपं यावद्विज्ञानमात्मनीति । तत्राद्यदृष्टिपञ्चकप्रतिषेधाय तद्दृष्टिकान्प्रति विशेषरूपेण प्रतिषेधः शोभते । सारूपमात्मेत्यादिका दृष्टिर्येषां ते तद्दृष्टिकाः । यदेव हि मूढमतेराशङ्कास्थानं तदेवानूद्य निवर्त्त्यते । न त्वत्र कस्यचिद्विधिरमिप्रेतः । अन्यथा ह्यश्रोतृसंस्कारकं वाक्यं ब्रुवाणोऽप्रेक्षावानेव प्रतिपादकः स्यादिति ॥ ३४९ ॥

इति वात्सीपुत्रीयात्मपरीक्षा ।