“अन्य” इत्यादिना वेदवादिमतमुपक्षिपति ।
अन्ये त्वीशसधर्माणं पुरुषं लोककारणम् ।
कल्पयन्ति दुराख्यातसिद्धान्तानुगबुद्धयः ॥ १५३ ॥
समस्तवस्तुप्रलयेऽप्यलुप्तज्ञानशक्तिमान् ।
ऊर्णनाभ इवांशूनां स हेतुः किल जन्मिनाम् ॥ १५४ ॥
त एवमाहुः—पुरुष एवैकः सकललोकस्थितिसर्गप्रलयहेतुः प्रलयेप्यलुप्तज्ञानातिशयशक्तिरिति । तथा चोक्तम्—ऊर्णनाभ इवांशूनां चन्द्रकान्त इवाम्भसाम् । प्ररोहाणामिव प्लक्षः स हेतुः सर्वजन्मिनाम् ॥ इति । तथा पुरुष एवैतत्सर्वं यद्भूतं यच्च भाव्यमिति । ईशसधर्माणम्—ईश्वरतुल्यधर्माणम्, द्वयोरपि विश्वसर्गस्थितिप्रलयनिमित्तत्वात् । एतावांस्तु विशेषः, ईश्वरव्यतिरिक्तमन्यदप्यात्मादिकं समवाय्यादिकारणमीश्वरकारणकैरिष्यते । पुरुषवादिभिस्तु पुरुष एव कारणम्, विश्वसर्गस्थितिप्रलयनिमित्तभावस्तु द्वयोरपि समानः । दुराख्यातसिद्धान्तानुगबुद्धय इति । दुराख्यातसिद्धान्तानुगा बुद्धिर्येषामिति विग्रहः । ऊर्णनाभो मर्कटकः ॥ १५३ ॥ १५४ ॥
“अस्यापी”त्यादिना दूषणमारभते—ईश्वरवदिति ।
अस्यापीश्वरवत्सर्वं वचनीयं निषेधनम् ।
किमर्थं च करोत्येष व्यापारमिममीदृशम् ॥ १५५ ॥
षष्ठ्यन्ताद्वतिः । अत्राप्येवं दूषणं वाच्यम्—पुरुषो जन्मिनां हेतुर्नोत्पत्तिविकलत्वतः । गगनाम्भोजवत्सर्वमन्यथा युगपद्भवेत् । इत्यादि । यदि चेश्वरसिद्धये यथा परैः साधनान्युक्तानि । तथैव पुरुषसिद्धये पुरुषवादिभिरुपादीयन्ते । तदा तद्वदेवासिद्धतादिदोषो वाच्यः । अन्यदपि दूषणप्रकारमाह—“किमर्थं चे”त्यादि । प्रेक्षापूर्वकारिप्रवृत्तेः प्रयोजनवत्तया व्याप्तत्वादतः किमर्थमयं पुरुषो जगद्रचनाव्यापारमीदृशं करोतीति वक्तव्यम् ॥ १५५ ॥
यद्यन्येन प्रयुक्तत्वान्न स्यादस्य स्वतन्न्नता ।
अथानुकम्पया कुर्यादेकान्तसुखितं जगत् ॥ १५६ ॥
आधिदारिद्यशोकादिविविधायासपीडितम् ।
जनं तु सृजतस्तस्य काऽनुकम्पा प्रतीयते ॥ १५७ ॥
यद्यन्येनेश्वरादिना प्रयुक्तोऽनिच्छन्नपि करोति तदाऽस्य यत्स्वातन्त्र्यमभ्युपगतं तद्धीयेत । अथ कृपया परानुग्रहार्थं करोति तदा नारकादिदुःखितमत्वनिर्माणं न कुर्यादेकान्तसुखितमेव कुर्यात् ॥ १५६ ॥ १५७ ॥
सृष्टेः प्रागनुकम्पानामसत्त्वे नोपपद्यते ।
अनुकम्पाऽपि यद्योगाद्धाताऽयं परिकल्प्यते ॥ १५८ ॥
किं च सृष्टेः—सर्गात्प्रागनुकम्प्यसत्त्वाभावात् । यस्या अनुकम्पाया वशादयं धाता—स्रष्टा कल्प्येत ॥ १५८ ॥
न चायं प्रलयं कुर्यात्सदाऽभ्युदययोगिनाम् ।
तददृष्टव्यपेक्षायां स्वातन्त्र्यमवहीयते ॥ १५९ ॥
यदि चायमनुकम्पया कुरुते तदा यदेव मनुष्याः सदाऽभ्युदययोगिनस्तेषां किमिति प्रलयं करोति । ये दुःखितसन्ततय आपायिकाः सत्त्वास्तेषामेव कामं करोतु प्रलयमिति भावः । अथापि स्यात्तेषामनुकम्प्यानां यददृष्टं धर्माधर्मलक्षणं तदपेक्ष्य सुखदुःखसमन्वितं लोकं करोति । नैतदस्ति । एवं हि स्वातन्त्र्यमभ्युपगतं हीयते । न चापि समर्थस्य काचिदपेक्षा । असामर्थ्ये वाऽपेक्ष्यादेव लोकस्योत्पत्तेस्तत्कारणत्वमस्यहीयते ॥ १५९ ॥
पीडाहेतुमदृष्टं च किमर्थं स व्यपेक्षते ।
उपेक्षैव पुनस्तत्र दयायोगेऽस्य युज्यते ॥ १६० ॥
भवतु नाम तस्यादृष्टापेक्षा । तथाऽपि यददृष्टं धर्माधर्मात्मकं पीडाहेतुस्तदपेक्षा कृपालोर्न युक्ता, किन्त्ववधीरणमेव तत्र तस्य कृपापरतन्त्रतया युक्तं कर्तुम् । न हि कृपालवः परदुःखहेतुमेवान्विच्छन्ति, तेषां परदुःखवियोगेच्छयैव प्रवृत्तेः ॥ १६० ॥
क्रीडार्था तस्य वृत्तिश्चेत्क्रीडायां न प्रभुर्भवेत् ।
विचित्रक्रीडनोपायव्यपेक्षातः शिशुर्यथा ॥ १६१ ॥
अथ नानुकम्पया करोति । किं तर्हि ? । क्रीडार्थम् । एतदप्यसम्यक् । एवं क्रीडोत्पादे स्वातन्त्र्यमस्य न स्यात्, सर्गस्थितिप्रलयात्मकस्य विचित्रक्रीडनोपायस्यापेक्षणात् ॥ १६१ ॥
क्रीडासाध्या च या प्रीतिस्तस्या यदपि साधनम् ।
तत्सर्वं युगपत्कुर्याद्यदि तत्कृतिशक्तिमान् ॥ १६२ ॥
क्रमेणापि न शक्तः स्यान्नो चेदादौ स शक्तिमान् ।
नाविभक्तस्य युज्येते शक्त्यशक्ती हि वस्तुनः ॥ १६३ ॥
किं च ये ते विचित्राः क्रीडनोपायाः, तत्कारणे यदि शक्तिरस्यास्ति तदा युगपदेव कुर्यात् । अथादौ तस्य न शक्तिस्तदा क्रमेणापि न कुर्यात् । अशक्तावस्थाया अविशिष्टत्वात् । न ह्येकस्यैकत्र वस्तुनि शक्तत्वमशक्तत्वं च परस्परविरुद्धं धर्मद्वयं युक्तम् । किमर्थं च व्यापारमीदृशमारभत इत्यादि सर्वो विकल्प ईश्वरेऽपि साधारणः । तेन— यदाह प्रशस्तमतिः परानुग्रहार्थमीश्वरः प्रवर्त्तते । यथा कृतार्थः कश्चिन्मुनिरात्महिताहितप्राप्तिपरिहारार्थासम्भवेऽपि परहितार्थमुपदेशं करोति । तथेश्वरोप्यात्मीयामैश्वर्यविभूतिं विख्याप्य प्राणिनोऽनुग्रहीष्यन्प्रवर्त्तत इति । अथ वा शक्तिस्वाभाव्यात्, यथा कालस्य, वसन्तादीनां पर्यायेणाभिव्यक्तौ स्थावरजङ्गमविकारोत्पत्तिः स्वभावतः ।तथेश्वरस्याप्याविर्भावानुग्रहसंहारशक्तीनां पर्यायेणाभिव्यक्तौ प्राणिनामुत्पत्तिस्थितिप्रलयहेतुकत्व मिति । तदप्यनेनैव प्रतिविहितम् । तथा हि—परानुग्रहार्थं प्रवर्त्तत इत्यत्रेदमेव प्रतिविधानम् । अनुग्रहः परः कुर्यादेकान्तसुखितं जगदित्यादि । शक्तिस्वाभाव्यादित्यत्रापीदमेव दूषणम् । सर्गस्थित्युपसंहारान्युगपद्व्यक्तशक्तिकः । युगपज्जगतः कुर्यान्नो चेत्सोऽव्यक्तशक्तिकः ॥ न व्यक्तशक्तिरीशोऽयं क्रमेणाप्युपपद्यते । व्यक्तशक्तिरतोऽन्यश्चेद्भावो ह्येकः कभं भवेत् ॥ इति । कालस्यापि वसन्ताद्यभिव्यक्तौ पर्यायेण प्रवृत्तावयमेव दोषः । शीतोष्णान्वयभेदभाजस्तु भावा एव हि प्रतिक्षणविनाशिनः काल इत्येतत्पश्चात्प्रतिपादयिष्यते ॥ १६२ ॥ १६३ ॥
“अथ स्वभावतो वृत्ति”रित्यादिनोद्योतकरमतमाशङ्कते ।
अथ स्वभावतो वृत्तिः सर्गादावस्य वर्ण्यते ।
पावकादेः प्रकृत्यैव यथा दाहादिकर्मणि ॥ १६४ ॥
यद्येवमखिला भावा भवेयु्र्युगपत्ततः ।
तदुत्पादनसामर्थ्ययोगिकारणसन्निधेः ॥ १६५ ॥
स ह्याह—नहि भगवतः क्रीडार्था प्रवृत्तिः । अपि तु यथा पृथिव्यादीनां महाभूतानां स्वभाव एव स तादृशो यत्स्वकार्येषु प्रवृत्तिः, तथेश्वरस्यापीति । तदेतदयुक्तम् ।एवं हि सर्वभावानां तद्व्यापारमात्रभाविनां समर्थाविकलकारणसन्निधानाद्युगपदेवोत्पादः स्यात् । न चापि बुद्धिमत्त्वं विशेषकं युक्तमिति पूर्वमेवास्माभिः प्रतिपादितम् ॥ १६४ ॥ १६५ ॥
यद्येवं पावकादिकार्याणामपि किं न यौगपद्यं भवतीत्याह—“स्वहेतुबलसम्भूता” इत्यादि ।
स्वहेतुबलसम्भूता नियता एव शक्तयः ।
असर्वकालभाविन्यो ज्वलनादिषु वस्तुषु ॥ १६६ ॥
अन्यथा यौगपद्येन सर्वं कार्यं समुद्भवेत् ।
तेषामपि न चेदेष नियमोऽभ्युपगम्यते ॥ १६७ ॥
“तेषा”मिति । पावकादीनाम् । न केवलमीश्वरस्येत्यपिशब्दः । “एष नियम” इति ।स्वहेतुबलसम्भवकृतः ॥ १६६ ॥ १६७ ॥
स्यादेतदूर्णनाभः स्वभावतः प्रवृत्तः किमिति स्वकार्याणि जालादीनि युगपन्न करोतीत्याह—“प्रकृत्यैवे”त्यादि ।
प्रकृत्यैवांशुहेतुत्वमूर्णनाभेऽपि नेष्यते ।
प्राणिभक्षणलाम्पट्याल्लालाजालं करोति यत् ॥ १६८ ॥
ऊर्णनाभोऽपि न स्वभावतः प्रवर्त्तते । किं तर्हि प्राणिभक्षणलाम्पट्यात्कादाचित्कात्प्रतिनियतहेतुसम्भूतादित्यभिप्रायः । न ह्यसौ नित्यैकरूपः, तस्यापि स्वहेतुबलभावित्वेन कादाचित्की शक्तिः ॥ १६८ ॥
अथापि स्यात् । नानुकम्पया न क्रीडया किन्त्वबुद्धिपूर्वकमेव यथाकथञ्चित्प्रवर्त्तत इत्याह—यथाकथञ्चिदित्यादि ।
यथाकथञ्चिद्वृत्तिश्चेद्बुद्धिमत्ताऽस्य कीदृशी ।
नासमीक्ष्य यतः कार्यं शनकोऽपि प्रवर्त्तते ॥ १६९ ॥
एवं हि कैवर्त्तादेः प्राकृतपुरुषादप्यत्यन्तानभिज्ञतया कथमसौ प्रेक्षावतामवधेयवचनः स्यात् । “बुद्धिमत्ते”ति । प्रेक्षावत्ता । शनकः—कैवर्त्तः ।। १६९ ।। एतेनैव पुरुषदूषणेन ये वा शौरिप्रभृतयः परैर्जगतो धातारः कल्पितास्तेऽपि निरस्ता बोद्धव्या इति दर्शयति ॥ १६९ ॥
“शौर्यात्मजादय” इत्यादि ।
शौर्यात्मजादयो येऽपि धातारः परिकल्पिताः ।
एतेनैव प्रकारेण निरस्तास्तेऽपि वस्तुतः ॥ १७० ॥
इति पुरुषपरीक्षा ।
तत्र शौरिर्विष्णुः । आत्मजो ब्रह्मा । आदिशब्देन यो बुद्धिमान्कालः परैरिष्यते तस्य ग्रहणम्॥॥॥॥ । यथोक्तम् ॥ १७० ॥
इति पुरुषपरीक्षा ।