“नाशोत्पादे”त्यादिना शब्दब्रह्मवादिनो ब्रुवते—
नाशोत्पादासमालीढं ब्रह्म शब्दमयं परम् ।
यत्तस्य परिणामोऽयं भावग्रामः प्रतीयते ॥ १२८ ॥
पूर्वापरादिविभागरहितमनुत्पन्नमविनाशि यच्छब्दमयं ब्रह्म तस्यायं रूपादिर्भावग्रामः परिणाम इति प्रतीयते यथोक्तम् । अनादिनिधनं ब्रह्म शब्दतत्वं यदक्षरम् । विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ इति । तत्र—आदिः—उत्पादः, निधनम् —नाशः, तदभावादनादिनिधनम् । अक्षरमिति । अकाराद्यक्षरस्य निमित्तत्वात् ।एतेनाभिधानरूपेण विवर्त्तो दर्शितः । अर्थभावेनेत्यादिना पुनरभिधेयविवर्त्तः । प्रक्रियेति भेदाः । ब्रह्मेति नामसङ्कीर्त्तनम् । अस्यैव श्लोकस्यार्थं निर्दिशति—“नाशोत्पादासमालीढ”मिति । नाशोत्पादग्रहणमुपलक्षणम् । इदमप्यत्र बोद्धव्यम्, पूर्वापरदेशविभागरहितमिति । तथाहि—अनादिनिधनत्वं पूर्वापरदेशविभागरहितत्वमपि तत्र निर्दिष्टम् । “शब्दमय”मिति । शब्दस्वभावम्, अत एव शब्दस्तत्त्वमस्य शब्दतत्त्वं तदुच्यते । शब्दोऽस्याविपरीतं रूपमित्यर्थः । “पर”मिति । प्रणवात्मकम् । प्रणवो हि किल सर्वेषां शब्दानां सर्वेषां चार्थानां प्रकृतिः स च वेदः । अयं तु वर्णपदक्रमेणावस्थितो वेदस्तदधिगमोपायस्तस्य प्रतिच्छन्दकन्यायेनावस्थितः । तं तु परमं ब्रह्माणमभ्युदयनिःश्रेयसफलधर्मानुगृहीतान्तः(करणाः)पश्यन्तीति । अत्र च प्रमाणयन्ति । ये यदाकारानुस्यूतास्ते तन्मया यथा घटशरावोदञ्चनादयो मृद्विकाराः मृदाकारानुगताः पदार्था मृण्मयत्वेन प्रसिद्धाः । शब्दाकारानुस्यूताश्च सर्वभावा इति स्वभावहेतुः । यतः प्रत्यक्षत एव सर्वार्थानां शब्दाकारानुगमः सिद्धः । तथा हि—शब्द एव प्रत्ययोऽर्थेषूपजायमानः शब्दोल्लेखानुगत एवोपजायते । यथोक्तम्—न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन वर्त्तते ॥ इति । ज्ञानाकारनिबन्धना च वस्तूनां स्वभावप्रज्ञप्तिः । अतः सिद्धमेषां शब्दाकारानुस्यूतत्वं तत्सिद्धौ च तन्मयत्वमपि सिद्धमेव, तन्मात्रभावित्वात्तन्मयत्वस्येति ॥ १२८ ॥
“ते वाच्या” इत्यादिना प्रतिज्ञार्थ॥॥॥॥दूषयति ।
इति सञ्चक्षते येऽपि ते वाच्याः किमिदं निजम् ।
शब्दरूपं परित्यज्य नीलादित्वं प्रपद्यते ॥ १२८ ॥
न वा तथेति यद्याद्यः पक्षः संश्रीयते तदा ।
अक्षरत्ववियोगः स्यात्पौरस्त्यात्मविनाशतः ॥ १३० ॥
अथाप्यनन्तरः पक्षस्तत्र नीलादिवेदने ।
अश्रुतेरपि विस्पष्टं भवेच्छब्दात्मवेदनम् ॥ १३१ ॥
अत्र कादाचिच्छब्दपरिणामरूपत्वाद्वा जगतः शब्दमयत्वं साध्यत्वेनेष्टम्, कदाचिच्छाब्दादुत्पत्तेर्वा । यथाऽन्नमयाः प्राणा इति हेतौ मयङ्विधानात् । अत्र न तावदाद्यःपक्षः, परिणामस्यैवानुपपत्तेः । तथा हि—शब्दात्मकं ब्रह्म नीलादिरूपतां प्रतिपद्यमानं कदाचिन्निजं स्वाभाविकं शब्दरूपं परित्यज्य प्रतिपद्येतापरित्यज्य वा । तत्र यदि परित्यज्येत्याद्यः पक्ष आश्रीयते, तदाऽनादिनिधनमित्यनेन वचनेन यदक्षरत्वमविनाशित्वमभ्युपगतं तस्य हानिः स्यात्, पैरस्त्यस्वभावविनाशात् । अथापरित्यज्येत्यनन्तरः पक्षः, तदा नीलादिसंवेदनकालेऽप्यश्रुतेर्बधिरस्य शब्दः संवेदनं प्राप्नोति । नीलादिसंवेदनवत्तदव्यतिरेकात् । प्रयोगः—यद्यदव्यतिरिक्तं तत्तस्मिन्संवेद्यमाने सम्बेद्यते, यथा नीलादिसंवेदनावस्थायां तस्यैव नीलादेरात्मा, नीलादव्यतिरिक्तश्च शब्द इति स्वभावहेतुः । अन्यथा भिन्नयोगक्षेमत्वात्तत्स्वभावत्वमेव प्रसिध्येदित्येतदत्र बाधकं प्रमाणम् ॥ १२९ ॥ १३० ॥ १३१ ॥
एतदेव विस्तरेण प्रतिपादयन्नाह—“येने”त्यादि ।
येन शब्दमयं सर्वं मुख्यवृत्त्या व्यवस्थितम् ।
शब्दरूपापरित्यागे परिणामानिधानतः ॥ १३२ ॥
येन—यस्मात्, भवद्भिर्मुख्यत एव शब्दस्वभावं जगदिति वर्ण्यते । कस्मादित्याह—“शब्दरूपापरित्याग” इति ॥ १३२ ॥
यदि नाम मुख्यतः शब्दमयमवस्थितं ततः किमित्याह—“अगौणे चे”त्यादि ।
अगौणे चैवमेकत्वे नीलादीनां व्यवस्थिते ।
तत्संवेदनवेलायां कथं नास्त्यस्य वेदनम् ॥ १३३ ॥
“एकत्वे नीलादीना”मिति । शब्देन सहेति शेषः । “तत्संवेदनवेलायामिति” ।तेषां नीलादीनां संवेदनावस्थायाम् । कथं नास्त्यस्य वेदनमिति । तस्यापि नीलादिस्वभाववदुपलब्धिलक्षणप्राप्तत्वाद्युक्तमेव संवेदनमित्यभिप्रायः ॥ १३३ ॥
अस्यावित्तौ हि नीलादेरपि न स्यात्प्रवेदनम् ।
एेकात्म्याद्भिन्नधर्मत्वे भेदोऽत्यन्तं प्रसज्यते ॥ १३४ ॥
अथास्य वेदनं नेष्यते, तदा नीलादेरपि शब्दस्वरूपवदसंवेदनप्रसङ्गः । ऐकात्म्यात्—शब्देन सह नीलादीनामेकस्वभावत्वादित्यर्थः । अन्यथा नीलादीनां शब्देन सह भिन्नधर्मत्वेऽभ्युपगम्यमानेऽत्यन्तभेदोऽङ्गीकर्त्तव्यः ॥ १३४ ॥
कस्मादित्याह—
विरुद्धधर्मसङ्गो हि बहूनां भेदलक्षणम् ।
नान्यथा व्यक्तिभेदानां कल्पितोऽपि भवेदसौ ॥ १३५ ॥
न ह्यैकस्यैकदेकप्रतिपत्रपेक्षया ग्रहणमग्रहणं च युक्तम् । एकत्वहानिप्रसङ्गात् । अन्यथा हि यदि विरुद्धधर्माध्यासेऽप्येकत्वं स्यात्तदा घटादीनां यः कल्पित इष्टो व्यक्तिभेदः सोऽपि न भवेत् । न केवलं ब्रह्मणः स्वरूपभेदो नास्तीत्यपिशब्दः । यतस्तस्य स्वात्मनि व्यवस्थितस्य नास्ति भेदो विकारविषयत्वादस्येति सिद्धान्तः । तथा हि—न घटाद्यात्मना तस्यानादिनिधनत्वमिष्यते । किं तर्हि ? । परमात्मना घटादयो हि दृश्यमानोदयव्ययाः परिच्छिन्नदेशाश्चोपलभ्यन्त इति । अयं चाश्रुतेः स्पष्टं शब्दसंवेदनं स्यादिति यः प्रसङ्ग उक्तः स यदि ब्रह्मणो रूपमुपलब्धिलक्षणप्राप्तमिष्यते तदा द्रष्टव्यः । यदि पुनरतिसूक्ष्ममतीन्द्रियमिति वर्ण्यते तदाऽयमदोषः । किं तु नीलादीनामपि ताद्रूप्यात्तत्स्वरूपवदग्रहणप्रसङ्ग इत्ययं दोषो वाच्यः । ततश्चायं नियमो नोपपद्यते । उदयव्ययवतीमेवार्थमात्रामपरदर्शनाः प्रतियन्तीति । “स्यादेत”द्यथा भवतां क्षणिकत्वं नीलाद्यव्यतिरिक्तं नीलादिसंवेदनेऽपि न संवेद्यते तद्वच्छब्दरूपमिति । “तदेतदसम्यक्” । न हि नीलादिसंवेदने क्षणिकत्वं न संवेद्यते । किं तु गृहीतमपि निर्विकल्पेन चेतसा भ्रान्तिनिमित्तेन गुणान्तरसमारोपान्न विनिश्चीयत इत्युच्यते । तेनानुभवापेक्षया तद्गृहीतमेव निश्चयज्ञानापेक्षया त्वगृहीतमिति ज्ञानभेदेनैकस्य गृहीतत्वमगृहीतत्वं चाविरुद्धमेव । न चैवं भवतां पक्षे शब्दस्य ग्रहणाग्रहणे युक्ते । सर्वज्ञानानां सविकल्पकताऽभ्युपगमात् । एकेनैवज्ञानेन सर्वात्मना तस्य निश्चितत्वात् । अगृहीतस्वभावान्तरानुपपत्तेः । यथोक्तम्—“निश्चयः । यन्न निश्चीयते रूपं तत्तेषां विषयः कथ"मिति । अथ किञ्चिदविकल्पमपि ज्ञानमभ्युपगम्यते । न तर्हि वक्तव्यं—“न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते” । इति । शब्दाकारानुस्यूतत्वादिति च हेतुर्न सिद्ध्येत् । ततश्च प्रमाणाभावाच्छब्दात्मकत्वव्यवस्थानम्भावानामनिबन्धनमेव स्यात् । किञ्च क्षणिकत्वं भावानां प्रमाणान्तरतः सिद्धेरनुभूतमपि न निश्चीयत इति व्यपदिश्यते । शब्दात्मता तु भावानां कुतः सिद्धा येनसाऽप्येवं व्यवस्थाप्यते ॥ १३५ ॥
अपरमपि दूषणमार्गमाह—प्रतिभावं चेत्यादि ।
प्रतिभावं च यद्येकः शब्दात्मा भिन्न इष्यते । सर्वेषामेकदेशत्वमेकाकारा च विद्भवेत् ॥ १३६ ॥
स हि शब्दात्मा परिणामं गच्छन् प्रतिपदार्थं भेदं वा प्रतिपद्यते न वा । तत्र यदि न भिन्न इति पक्षस्तदा सर्वेषां नीलादीनामेकदेशत्वं प्राप्नोति । एकदेशत्वमित्युपलक्षणम् । कालपरिणामव्यापारावस्थाविशेषाद्यपि ग्राह्यम् । एकाकारा च, वित —प्रतिभासः, भवेत्—प्राप्नोति । सर्वेषां नीलादीनामेकशब्दरूपाव्यतिरेकात् ॥ १३६ ॥
प्रतिव्यक्ति तु भेदेऽस्य ब्रह्मानेकं प्रसज्यते ।
विभिन्नानेकभावात्मरूपत्वाद्व्यक्तिभेदवत् ॥ १३७ ॥
अथ प्रतिव्यक्ति भेदोऽस्य शब्दात्मनोङ्गीक्रियते । तदा ब्रह्मणोऽनेकत्वं प्राप्नोति । विभिन्नानेकभावात्मरूपत्वात्—विभिन्नोऽनेकभावात्माऽनेकपदार्थस्वभावो रूपं स्वभावो यस्येति विग्रहः, तद्भावस्तत्वम् । एकं च परमब्रह्मेष्यते । अतोऽभ्युपेतबाधाप्रतिज्ञाया इति भावः ॥ १३७ ॥
दूषणान्तरमप्याह—“नित्यशब्दमयत्वे चे”त्यादि ।
नित्यशब्दमयत्वे च भावानामपि नित्यता ।
तद्यौगपद्यतः सिद्धेः परिणामो न सङ्गतः ॥ १३८ ॥
नित्यशब्दमयत्वे—नित्यशब्दस्वभावत्वे, जगतः शब्दः स्वरूपं चेद्भावानामपि नित्यत्वं प्राप्नोति । ततश्च सर्वकालं भावानां शब्देन सह यौगपद्यतः सिद्धेः—सिद्धत्वात्, परिणामात्मा न प्राप्नोति । तदिति तस्मादित्यर्थे, तेषां वा नीलादीनां यौगपद्यं तद्यौगपद्यमिति विग्रहः ॥ १३८ ॥
अथ यौगपद्यतः सिद्धस्यापि कस्मात्परिणामो न भवतीत्याह—“एकरूपेत्यादि” ।
एकरूपतिरोभावे ह्यन्यरूपसमुद्भवे ।
मृदादाविव संसिध्येत्परिणामस्तु नाक्रमे ॥ १३९ ॥
नाक्रमे तु वस्तुनि परिणामः सिद्ध्येदिति भिन्नक्रमस्तुशब्दः । एवं तावत्परिणामकृतं शब्दमयत्वं भावानां न युक्तम् ॥ १३९ ॥
नापि द्वितीयः पक्षो युज्यत इति दर्शयन्नाह—“अथापी”त्यादि ।
अथापि कार्यरूपेण शब्दब्रह्ममयं जगत् ।
तथाऽपि निर्विकारत्वात्ततो नैव क्रमोदयः ॥ १४० ॥
एवमपि शब्दस्य नित्यत्वेनाविकारित्वात्ततः क्रमेण कार्यादयो न प्राप्नोति । सर्वेषामविकलाप्रतिबद्धसामर्थ्यकारणाद्युगपदेवोत्पादः स्यात् । कारणवैकल्याद्धि कार्याणि प्रतिलम्बन्ते, तच्चेदविकलं तत्किमपरमपेक्षेरन् । येन युगपन्न भवेयुः ॥ १४० ॥
अन्योऽन्यरूपसम्भूतौ तस्मादेकस्वरूपतः ।
विवृत्तमर्थरूपेण कथं नाम तदुच्यते ॥ १४१ ॥
अपि च—यदि तस्मादेकस्वभावाच्छब्दात्मनोऽन्यान्यस्य स्वभावस्योत्पत्तिरङ्गीक्रियते, तदा तद्ब्रह्म विवृत्तमर्थरूपेणेत्येतन्न सिद्ध्येत्, न ह्यर्थान्तरस्योत्पादेऽन्यस्य तत्स्वभावमनाविशतस्ताद्रूप्येण विवर्त्तो युक्तः । तस्मात्सर्वथाऽपि प्रतिज्ञार्थो नावकल्पते ॥ १४१ ॥
शब्दाकारानुस्यूतत्वादिति च हेतुरसिद्ध इति दर्शयन्नाह—“अतद्रूपे”त्यादि ।
अतद्रूपपरावृत्तमृद्रूपत्वोपलब्धितः ।
कुम्भकोशादिभेदेषु मृदात्मैकोऽत्र कल्पते ॥ १४२ ॥
नीलपीतादिभावानां नत्वेवमुपलभ्यते ।
अशब्दात्मपरावृत्तिरबीजा कल्पनाऽपि तत् ॥ १४३ ॥
न हि भावानां परमार्थेनैकरूपानुगमोऽस्ति । सर्वेषां स्वस्वभावव्यवस्थिततया समानजातीयव्यावृत्तस्वभावत्वात् । काल्पनिकं तु विजातीयव्यावृत्तिकृतमेकाकारानुस्यूतत्वमेषां व्यवस्थाप्यते । यथा घटशरावोदञ्चनादिषु परमार्थतो भिन्नेष्वप्यमृदात्मकपदार्थव्यावृत्तिकृतो मृदात्मा कल्प्यते तत्र । तदपि काल्पनिकमेषां नीलादीनां शब्दाकारानुस्यूतत्वं न सम्भवति । न हि नीलपीतादिषु शब्दरूपमुपलभामहे । अनुपलभमानाश्च कथमशब्दात्मकव्यवच्छेदकृतं शब्दाकारानुस्यूतत्वं कल्पयामः । तस्मादबीजेयङ्कल्पनेत्यसिद्धो हेतुः ॥ १४२ ॥ १४३ ॥
यदुक्तम्—सर्वेषामेकदेशत्वमेकाकारा च विद्भवेदिति, तत्र परमतमाशङ्कते । अ“थाविभागमेवे”त्यादि—
अथाविभागमेवेदं ब्रह्मतत्त्वं सदा स्थितम् ।
अविद्योपप्लवाल्लोको विचित्रं त्वभिमन्यचे ॥ १४४ ॥
अथाऽपि स्यादविभक्तमेव सदा ब्रह्मात्मकं तत्वमविकारि परमार्थतोऽवस्थितम् । न तस्य परमार्थेन परिणामः, किन्त्वविद्यातिमिरोपहतबुद्धिलोचना नीलादिभेदेन विचित्रमिव मन्यन्ते । यथोक्तम्—यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । सङ्कीर्णमिव मात्राभिश्चित्राभिरभिमन्यते ॥ तथेदममृतं ब्रह्म निर्विकारमविद्यया । कलुषत्वमिवापन्नं भेदरूपं विवर्त्ततः ॥ इति । तेन सर्वेषामेकदेशत्वप्रसङ्गो न भविष्यति तेषामवस्तुरूपत्वात् । संविद्भेदश्च भविष्यति, अविद्योपप्लवकृतत्वात्तस्येति भावः ॥ १४४ ॥
“तत्रापी”त्यादिना प्रतिविधत्ते—
तत्रापि वेद्यते रूपमविद्योपप्लुतैर्जनैः ।
यन्नीलादिप्रकारेण त्यागादाने निबन्धनम् ॥ १४५ ॥
तद्रूपव्यतिरेकेण ब्रह्मरूपमलक्षितम् ।
कथं व्युत्थितचेतोभिरस्तित्वेन प्रतीयते ॥ १४६ ॥
प्रमाणवशाद्धि प्रमेयसत्ताव्यवस्थितिः, न चैवं रूपस्य ब्रह्मणः सिद्धये किञ्चन प्रमाणमस्ति । तथाहि—न तावत्प्रत्यक्षतस्तस्य सिद्धिः । न हि नीलादेर्हिताहितप्राप्तिपरिहाराधिष्ठानाद्व्यतिरिक्तमपरं ब्रह्मरूपं प्रतिभासते । अप्रतिभासमानं च कथं तद्व्युत्थितचेतोभिर्न्यायमार्गावस्थितैरस्तित्वेन प्रतीयताम् ॥ १४५ ॥ १४६ ॥
न तत्प्रत्यक्षतः सिद्धमविभागमभासनात् ।
नित्यादुत्पत्त्ययोगेन कार्यलिङ्गं च तत्र न ॥ १४७ ॥
धर्मिसत्वाप्रसिद्धेस्तु न स्वभावः प्रसाधकः ।
न चैतदतिरेकेण लिङ्गं सत्ताप्रसाधकम् ॥ १४८ ॥
स्यादेतत् । स्वसंवेदनप्रत्यक्षत एव तत्सिद्धं ज्ञानात्मरूपत्वात् । तथाहि—ज्योतिस्तदेव शब्दात्मकत्वाच्चैतन्यरूपत्वाच्चेति । तदेतत्स्वसंवेदनविरुद्धम् । तथाह्यन्यत्र गतमानसोऽपि चक्षुषा रूपमीक्षमाणोऽनाधिष्ठा(दिष्टा ?)भिलापमेव नीलादिप्रत्ययमनुभवतीति । एतच्च विस्तरेण प्रतिपादयिष्यते । एतेन यदुक्तम्— न सोऽस्ति प्रत्ययोलोके इत्यादि,तदपि प्रत्युक्तं भवति । तस्मादविभागं शब्दमयं ब्रह्म न प्रत्यक्षतः सिद्धम् । तस्य तथाभूतस्याप्रतिभासनात् । नाप्यनुमानतः । तथा ह्यनुमानं भवत्कार्यलिङ्गं भवेत् ? स्वभावलिङ्गं वा ? अनुपलब्धेस्तु प्रतिषेधविषयत्वाद्विधावनधिकार एव । तत्र न तावत्कार्यलिङ्गम्, नित्यात्कस्यचित्कार्यस्यानुपपत्तेः, क्रमयौगपद्याभ्यान्नित्यस्यार्थक्रियाविरोधात् । नापि स्वभावलिङ्गमस्ति । तस्यैव ब्रह्माख्यस्य धर्मिणोऽसिद्धेः । न ह्यसिद्धे धर्मिणि तत्स्वभावभूतो धर्मः स्वतनत्र्येण सिद्ध्येत् । अन्यत्तर्हि लिङ्गं भविष्यतीत्याह—“न चैत”दित्यादि । स्वभावकार्यव्यतिरेकेणान्यस्य साध्यार्थप्रतिबन्धाभावात् । न चाप्रतिबद्धं लिङ्गं युक्तमतिप्रसङ्गात् । यदपि च शब्दरूपान्वयत्वं भावानामुक्तम् । तदसिद्धत्वादलीकत्वाच्च न शब्दरूपत्वं पारमार्थिकं ब्रह्मणः साधयितुमलम् । नाप्यागमात्तस्य सिद्धिस्तस्यानवस्थितत्वात् । यद्यप्यनुपलम्भाख्यमस्ति लिङ्गम् । तत्तु स्वभावहेतावेवान्तर्गतमिति भावः । यद्वा—सत्ताप्रसाधकस्य विवक्षितत्वादत एवाह—“सत्ताप्रसाधक”मिति ॥ १४७ ॥ १४८ ॥
अपि च—ज्ञानमात्रार्थकरणेऽप्ययोग्यं ब्रह्म गम्यताम् । तदयोग्यतया रूपं तद्ध्यवस्तुत्वलक्षणम् । इत्येतत्प्रतिपादयन्नाह—“ज्ञानं ज्ञेयक्रमात्सिद्ध”मित्यादि ।
ज्ञानं ज्ञेयक्रमात्सिद्धं क्रमवत्सर्वमन्यथा ।
यौगपद्येन तत्कार्यं विज्ञानमनुषज्यते ॥ १४९ ॥
ज्ञानमात्रेऽपि नैवास्य शक्र(क्य ?)रूपं ततः परम् ।
भवतीति प्रसक्ताऽस्य वन्ध्यासूनुसमानता ॥ १५० ॥
एतच्च पूर्वमीश्वरपरीक्षायां प्रसाधितम् । “ततः पर”मिति । त्यागादाननिबन्धनान्नीलादेः परमन्यदित्यर्थः । यदि वा—तत इति निगमनम् । परमिति त्यागादाननिबन्धनान्नीलादेः परमन्यदित्यर्थः । यदि वा—तत इति निगमनम् । परमिति तात्विकम् । “वन्ध्यासूनुसमानते”ति । न हि वन्ध्यासूनोरवस्तुत्वव्यवस्थायामर्थक्रियासामर्थ्यविरहव्यतिरेकेणान्यन्निबन्धनमस्ति ॥ १४९ ॥ १५० ॥
अथेदमुच्यते । तं तु परमं ब्रह्मात्मानमभ्युदयनिःश्रेयसफलधर्मानुगृहीतान्तःकरणा योगिन एव पश्यन्तीति, तदपि नोपपद्यत इति दर्शयति—“विशुद्धे”त्यादि ।
विशुद्धज्ञानसन्ताना योगिनोऽपि ततो न तत् ।
विदन्ति ब्रह्मणो रूपं ज्ञाने व्यापृत्य सङ्गतेः ॥ १५१ ॥
यदि हि ज्ञाने योगजे तस्य व्यापारः स्यात्तदा योगिनस्तस्य रूपं पश्यन्तीति स्यात् । यावता यथोक्तेन प्रकारेण ज्ञाने तस्य व्यापाराभावादयुक्तमेतत् । स्यादेतन्न तद्विषयज्ञानोत्पत्त्या योगिनस्तं पश्यन्ति । तद्व्यतिरिक्तस्य योगिनो योगिज्ञानस्य चाभावात् । किन्तु योगित्वावस्थायां स्वमात्मानं ज्योतीरूपं तत्प्रकाशमानं योगिनस्तं पश्यन्तीति । उच्यते । यद्येवं प्रागयोगित्वावस्थायां किं तस्य रूपमिति वाच्यम् । यदि सदैव ज्योतीरूपं तदा तर्हि न कदाचिदयोगित्वावस्थाऽस्ति, सदैवात्मज्योतीरूपत्वाद्ब्रह्मणः । ततश्चायत्नतः सर्वेषां मोक्षप्रसङ्गः । अथापि स्याद्यथा भवतां स्वप्नाद्यवस्थासु ज्ञानमद्वयमपि विचित्राकारपरिग्रहेण प्रतिभासते तथा तदद्वयमप्यविद्यावशादविशुद्धसन्ततीनां तथाप्रकाशत इति । तदसम्यक् । न हि तद्व्यतिरेकेणान्ये केचिदविशुद्धसन्ततयः सन्ति येषां तत्तथा प्रतिभासते । स्वयमेव तथा प्रतिभासत इति चेत्, एवं तर्हि मोक्षाभावप्रसङ्गः । सर्वदैव ब्रह्मणोऽद्वयरूपप्रतिभासात्मकत्वात् । अस्माकं तु विशुद्धज्ञानान्तरोदयान्मुक्तिर्युज्यत एव । न चापि भवतां तद्व्यतिरेकिण्यविद्याऽस्ति । यद्वशात्तत्तथा प्रतिभासत इति स्यात् । अव्यतिरेके चाविद्यायास्तद्वशात्तदेव तथा प्रतिभासत इति सुव्याहृतमेतत् । अथापि स्यादविद्यावशात्ख्यातीत्यनेनाविद्यात्मकत्वमेव तस्य ख्याप्यत इति । यद्येवं सुतरां मोक्षाभावप्रसङ्ग एव ख्यापितो भवति । न हि नित्यैकरूपे ब्रह्मण्यविद्यात्मके स्थिते सति तदात्मिकाया अविद्याया व्यपगमः सम्भवति । येनाविद्याव्यपगमा न्मुक्तिर्भवेत् । अथ व्यतिरिक्ताऽविद्याऽङ्गीक्रियते, एवमपि नित्यत्वादनाधेयातिशयस्य ब्रह्मणः सा (न) तत्किञ्चित्करोतीति, न युक्तमविद्यावशात्तथा प्रतिभासनम् । ततश्चाविद्यया सह तस्य सम्बन्धाभावात्संसाराभावप्रसङ्गः । न चापि सा तत्वान्यत्वाभ्यां निर्वक्तुं शक्यत इति युक्तं वक्तुम्, वस्तुधर्मस्य गत्यन्तराभावात् । अन्यथा वस्तुत्वमेव न स्यात् । न चावस्तुवशात्तथा तस्य ख्यातिर्युक्ताऽतिप्रसङ्गात् । तथाभूतस्य चार्थक्रियाकारिणः स्वभावस्यावस्थितिनामकरणे न ना(नो ?)स्ति विवादः । अस्माकं तु वितथाभिनिवेशवासनैवाविद्या सा च वासना शक्तिरुच्यते । शक्तिश्च कारणात्मकज्ञानात्मभूतैवेति । तेन पूर्वपूर्वतः कारणभूतादविद्यात्मनो ज्ञानादुत्तरोत्तरकार्यज्ञानस्यवितथाकाराभिनिवेशिन उत्पत्तेरविद्यावशात्तथाख्यातिर्युक्ता । तस्याश्चाविद्याया योगाभ्यासादसमर्थतरतमक्षणोत्पादक्रमेण व्यपगमात्परिशुद्धज्ञानसन्तानोदयादपवर्गप्राप्तिरित्यतो बन्धमोक्षव्यवस्था युक्तिमती । नत्वेवं भवतां सम्भवति, नित्यैकरूपत्वाद्ब्रह्मणोऽवस्थाद्वयासम्भवात् । एकत्वाच्च तस्य ब्रह्मण एकस्य मुक्तौ सर्वेषां मुक्तिप्रसङ्गः, एकस्यामुक्तौ सर्वेषाममुक्तिप्रसङ्गश्चानिवार्यः । न चाप्ययोगित्वावस्थायामात्मज्योतीरूपत्वेऽस्य किञ्चित्प्रमाणमस्ति । प्रसाधकं ज्ञानं हि प्रकाशात्मतया स्वसंवेदनप्रसिद्धम् । न त्वेवं शब्दात्मा सर्वत्र प्रत्ययात्मनि संवेद्यत इति निर्दिष्टमेतत् । अथायोग्यवस्थायामात्मज्योतिष्ट्वमस्य नाङ्गीक्रियते, एवमपि प्रागविद्यमानं तदात्मज्योतिष्ट्वमत्यक्तपूर्वरूपस्य ब्रह्मणः, पश्चाद्योग्यवस्थायां कुतः सम्भूतमिति वाच्यम् । तस्मान्मिथ्याप्रवादोऽयं शब्दब्रह्मवादो भवतामित्यलं बहुना ॥ १५१ ॥
“प्रधाने”त्यादिना पूर्वोक्तं दूषणमार्गमिहाप्यतिदिशति ।
प्रधानपरिणामेन समं च ब्रह्मदर्शनम् ।
तद्दूषणानुसारेण बोद्धव्यमिह दूषणम् ॥ १५२ ॥
इति शब्दब्रह्मपरीक्षा ।
तत्रैवं दूषणं वाच्यम्—न शब्दजन्यं तत्कार्यं सत्तातो हेतुवित्तिवत् । अतो नाभिमतो हेतुरसाध्यत्वात्परात्मवत् ॥ इत्यादि ॥ १५२ ॥
इति शब्दब्रह्मपरीक्षा ।