आदिशब्दोपात्तस्वभाववादिवादमल्पवक्तव्यतया क्रममनाश्रित्यैव निराकुर्वन्नाह—“सर्वे”त्यादि ।
सर्वहेतुनिराशंसं भावानां जन्म वर्ण्यते ।
स्वभाववादिभिस्ते हि नाहुः स्वमपि कारणम् ॥ ११० ॥
स्वभाववादस्तु यद्यप्यादिशब्देनाहत्यनोपात्तः । तथाऽपि स्वभाववादिन(म?)तोपादानात्सूचित एव । तत्र ये स्वत एव भावा जायन्त इति वर्णयन्ति । ते स्वक्रियाया विरोधत इत्यादिना निरस्ताः । साम्प्रतं स्वभाववादिनो निरस्यन्ते । त एवमाहुर्न स्वतो नापि परतो भावानां जन्म किं तर्हि ? सर्वहेतुनिराशंसम्—स्वपरकारणनिरपेक्षमित्यर्थः । ननु ये स्वत एव भावा भवन्तीति वर्णयन्ति, तेभ्य एषां को भेद इत्याह—“ते ही”त्यादि । ते—स्वभाववादिनः, स्वमिति । स्वरूपम् । अपिशब्दात्पररूपमपि । पूर्वकास्तु स्वभावं कारणमिच्छन्ति, एते तमपि नेच्छन्तीति भेदः ॥ ११०॥
अत्र च युक्तिं वर्णयन्ति—यदुपलब्धिलक्षणप्राप्तं सदनुपलभ्यमानसत्ताकम्, तत्प्रेक्षावतामसद्व्यवहारविषयः । यथा शशविषाणमनुपलभ्यमानसत्ताकं च भावानां कारणमिति स्वभावानुपलब्धिः । न चायमसिद्धो हेतुरित्यादर्शयन्नाह—“राजीवे”त्यादि ।
राजीवकेसरादीनां वैचिञ्यङ्कः करोति हि ।
मयूरचन्द्रकादिर्वा विचित्रः केन निर्मितः ॥ १११ ॥
राजीवम्—पद्मम्, तस्य केसरादय इति विग्रहः । आदिग्रहणान्नालदलकर्णिकादीनां कण्टकतैक्ष्ण्यादीनां च ग्रहणम् । “वैचिञ्य”मिति । संस्थानवर्णकार्कश्यादिभेदम् ।“कः करोती”ति । नैव कश्चित् । ईश्वरादेः कारणस्यानुपलभ्यमानत्वादिति भावः॥ १११ ॥
स्यादेतत्—यदि नाम ब्याह्यानां भावानां कारणानुपलब्धेरहेतुत्वं सिद्धम्, आध्यात्मिकानां तु कथं सिद्धमित्याह—“यथैवे”त्यादि ।
यथैव कण्टकादीनां तैक्ष्ण्यदिकमहेतुकम् ।
कादाचित्कतया तद्वद्दुःखादीनामहेतुता ॥ ११२ ॥
यदि नाम प्रत्यक्षतो निर्हेतुकत्वं दुःखादीनां न सिद्धं तथाऽप्यनुमानतः सिद्धमेव । तथा हि—यत्कादाचित्कं तदहेतुकं निश्चितं यथा कण्टकतैक्ष्ण्यादि, कादाचित्कं च दुःखादीनीति स्वभावहेतुः । न चापि यस्य भावाभावयोर्यस्य भावाभावौ नियमेन भवतः, तत्तस्य कारणमिति युक्तम्, व्यभिचारात् । तथाहि—सति स्पर्शे चक्षुर्विज्ञानं भवत्यसति च न भवति । अथ च नासौ चक्षुर्विज्ञानकारणम् । तस्मात्कार्यकारणभावलक्षणमेतद्व्यभिचारीत्यतः सिद्धं सर्वहेतुनिराशंसं भावानां जन्मेति ॥ ११२ ॥
“सरोजकेसरादीना”मित्यादिना प्रतिविधत्ते ।
सरोजकेसरादीनामन्वयव्यतिरेकवत् ।
अवस्थातिशयाक्रान्तं बीजपङ्कजलादिकम् ॥ ११३ ॥
प्रत्यक्षानुपलम्भाभ्यां निश्चितं कारणं यदा ।
किमित्यन्यस्तदा हेतुरमीषां परिपृच्छ्यते ॥ ११४ ॥
अनेन हेतोरसिद्धिं प्रत्यक्षविरोधं च प्रतिज्ञार्थस्य दर्शयति । यदुक्तं राजीवकेसरादीनां कारणं नोपलभ्यत इति, तदसिद्धम्, प्रत्यक्षानुपलम्भाभ्यां बीजपङ्कजलादेरन्वयव्यतिरेकवतः कारणत्वेन निश्चितत्वात् । तथाहि—यस्मिन्सत्येव यस्य जन्म भवति यस्य च विकाराद्यस्य विकारस्तत्तस्य कारणमुच्यते । तच्चैवम्भूतं बीजादिकमुच्छूनादिविशिष्टावस्थाप्राप्तं राजीवकेसरादीनामन्वयव्यतिरेकवत्—भावाभाववत् ।प्रत्यक्षानुपलम्भाभ्यां निश्चितमित्यसिद्धो हेतुः । यच्चाप्युक्तं कार्यकारणलक्षणं व्यभिचारीति, तदसिद्धम् । स्पर्शस्यापि रूपहेतुतया चक्षुर्विज्ञानेऽपि निमित्तभावस्येष्टत्वात् । तथाहि—स्पर्श इति भूतान्युच्यन्ते । तानि चोपादायोपादाय रूपं वर्त्तते, ततश्चक्षुर्विज्ञानं प्रति स्पर्शस्य निमित्तभावोऽस्त्येव । केवलं साक्षात्पारम्पर्यकृतो विशेषः । न चापि व्यतिरेकमात्रमस्माभिः कार्यकारणभावनिश्चयहेतुत्वेनाभ्युपगतम् । किं तर्हि ? विशिष्टमेव । तथा हि—येषु सत्सु समर्थेषु तदन्येषु हेतुषु यस्यैकस्याभावाद्यन्न भवति तत्तस्य कारणमिति वर्ण्यते । न तु यस्याभावे यन्न भवतीति व्यतिरेकमात्रम् । अन्यथा मातृविवाहोचितदेशजन्मनः पिण्डखर्जूरस्य मातृविवाहाभावे सत्यभावप्रसङ्गात् । न चैवम्भूतस्य व्यतिरेकस्य स्पर्शेन व्यभिचारोऽस्ति । तथा हि—यदि रूपादिसन्निधानं प्रदर्श्य स्पर्शस्यैकस्याभावाच्चक्षुर्विज्ञानं न भवतीत्येवं प्रदर्श्येत तदा स्या द्व्यभिचारो न चैतच्छक्यं प्रदर्शयितुम् । अतो नास्ति कार्यकारणभावलक्षणस्य व्यभिचारः ॥ ११३ ॥ ११४ ॥
न केवलं बीजादिः कारणत्वेन निश्चितो भावानां देशकालावपि प्रतिनियतौ निश्चिताविति दर्शयति—“नियता”वित्यादि ।
नियतौ देशकालौ च भावानां भवतः कथम् ।
यदि तद्धेतुता नैषां स्युस्ते सर्वत्र सर्वदा ॥ ११५ ॥
क्वचित्कदाचित्कस्मिंश्चिद्भवन्तो नियताः पुनः ।
तत्सापेक्षा भवन्त्येते तदन्यपरिहारतः ॥ ११६ ॥
यदि हि राजीवादीनां तद्धेतुता—प्रतिनियतदेशकालहेतुता, न स्यात्, तदा येयमुपलादिदेशपरिहारेण सलिलादावेव प्रतिनितदेशे वृत्तिः, या च शिशिरादिसमयपरिहारेण निदाघादिसमये वृत्तिः, सा न प्राप्नोति । किं तु सर्वत्र देशे काले च ते राजीवादयो भावा भवेयुस्तन्निरपेक्षत्वात् । तदन्यदेशकालपरिहारान्नियमेन प्रतिनिययतदेशादौ वर्त्तमानास्तत्सापेक्षा भवन्तीति निश्चीयते ॥ ११५ ॥ ११६ ॥
ननु निरभिप्रायाणां भावानां केयमपेक्षेत्याह—“तदपेक्षा तथावृत्ति”रिति ।
तदपेक्षा तथावृत्तिरपेक्षा कार्यतोच्यते ।
प्रत्यक्षा च तथा वृत्तिः सिद्धास्तेनेह हेतवः ॥ ११७ ॥
तदन्यदेशादिपरिहारेण नियते देशादौ या वृत्तिरियमेवापेक्षेत्युच्यते । नत्वभिप्रायात्मिका । स्यादेतद्यदि नाम तदपेक्षा तेषाम्, तथाऽपि तत्कार्यता कथमवसितेत्याह—“अपेक्षा कार्यतोच्यत” इति । न ह्यन्या तत्कार्यता, किं तर्हि ? येयं तथावृत्तिलक्षणाऽपेक्षा सैव तत्कार्यतोच्यते । सा च तथावृत्तिरेषां कथं सिद्धेति चेदाह—“प्रत्यक्षे”त्यादि ॥ ११७ ॥
तत्स्वाभाविकवादोऽयं प्रत्यक्षेण प्रबाध्यते ।
प्रत्यक्षानुपलम्भाभ्यां हेतुरूपस्य निश्चयात् ॥ ११८ ॥
“त”दिति । तस्मात् । तेषु वा राजीवादिषु स्वाभाविकवाद इति समासः । “प्रत्यक्षेणप्रबाध्यत” इति । अनुपलम्भस्याप्यन्योपलम्भनतया प्रत्यक्षात्मकत्वात् । यत्पुनः सुखादीनामहेतुकत्वसाधनाय कादाचित्कत्वादिति साधनमुक्तं तत्साध्यविपरीतसाधनाद्विरुद्धम् । अहेतोरनपेक्षस्य कादाचित्कत्वानुपपत्तेः । दृष्टान्तस्य च साध्यविकलतेति भावः ॥ ११८ ॥
एवं तावत्प्रत्यक्षविरुद्धत्वं प्रतिज्ञार्थस्य हेतोश्चासिद्धतोद्भाविता । साम्प्रतमभ्युपगम्यहेतोः सिद्धिमनैकान्तिकत्वं प्रतिपादयन्नाह—“मा वे”त्यादि ।
मा वा प्रमाणसत्ता भूद्धेतुसद्भावसिद्धये ।
तथाऽपि मानाभावेन नैवार्थासत्वनिश्चयः ॥ ११९ ॥
यद्यनुपलम्भमात्रं हेतुत्वेनोपादीयते तदाऽनैकान्तिकता । यतो मानाभावेन प्रमाणाभावमात्रेण हेतुना नैवार्थसत्ताया अभावनिश्चयः ॥ ११९ ॥
कस्मान्न भवतीत्याह—“यस्मादि”त्यादि ।
यस्मादर्थस्य सत्ताया व्यापकं न च कारणम् ।
प्रमाणं भेदसद्भावाद्व्यभिचारात्तदुद्भवात् ॥ १२० ॥
व्यापको हि स्वभावो निवर्त्तमानः स्वं व्याप्यं निवर्त्तयति, कारणं वा कार्यम् । तत्र तादात्म्यतदुत्पत्तिभ्यां व्याप्यकार्ययोः प्रतिबद्धत्वात् । न च प्रमाणार्थसत्तयोरभेदो भिन्नाभासत्वात् । नापि प्रमाणमर्थस्य कारणं व्यभिचारात् । प्रमाणमन्तरेणापि भावात् । तथाहि—देशकालस्वभावविप्रकृष्टानामर्थानां प्रमाणेनाविषयीकृतानामपि सत्त्वमविरुद्धमेव । न च येन विनाऽपि यद्भभवति तत्तस्य कारणं युक्तमतिप्रसङ्गात् ।कारणत्वाभ्युपगमे वा स्वपक्षपरित्यागः । तदुद्भवाच्च न प्रमाणमर्थसत्ताकारणम् । तथा हि—अर्थादेव विषयभूतात्प्रमाणमुद्भवति । न पुनः प्रमाणात्प्रमेयोऽर्थः ॥ १२० ॥
अथापि स्यादप्रतिबद्धमपि प्रमाणमर्थसत्ताया निवर्त्तकं भविष्यतीत्याह—“यश्चे”त्यादि ।
यश्च नैवंविधो भावस्तस्य नैव निवृत्तितः ।
एेकान्तिकमसम्बन्धाद्गम्यतेऽन्यनिवर्त्तनम् ॥ १२१ ॥
“नैवंविध” इति । न कारणं नापि व्यापकम् । न ह्यप्रतिबद्धस्य निवृत्त्याऽन्यस्य नियमेन निवृत्तिर्युक्ता, अतिप्रसङ्गात् । एवं ह्यश्वनिवृत्तौ गोरपि निवृत्तिः स्यात् ॥ १२१ ॥
सर्वादृष्टिश्च सन्दिग्धा स्वादृष्टिर्व्यभिचारिणी ।
विन्ध्याद्रिरन्ध्रदूर्वादेरदृष्टावपि सत्वतः ॥ १२२ ॥
अपि चानुपलब्धेर्हेतुत्वेनोपादीयमाना सर्वपुरुषोपलम्भनिवृत्तिलक्षणा वोपादीयते ? स्वोपलम्भनिवृत्तिलक्षणा वा ? न तावदाद्या, तस्या अर्वाग्दर्शनेन निश्चेतुमशक्यतया सन्दिग्धत्वात् । न हि सर्वैः पुरुषैर्मयूरचन्द्रिकादीनामदृष्टं कारणं नोपलभ्यत इत्यत्रार्वाग्दर्शिनः किञ्चिदस्ति प्रमाणम् । याऽपि स्वेनादृष्टिः सा व्यभिभारिणी, कस्मात् ?गिरिकुहरान्तर्गतस्य दूर्वाप्रवालशिलाशकलादेरनुपलब्धस्यापि सत्वतः—सत्वाविरोधादित्यर्थः । तत्र निश्चितमेवासत्त्वं सन्देहात् ॥ १२२ ॥
अहेतुकत्वसिद्ध्यर्थं न चेद्धेतुः प्रयुज्यते ।
न चाप्रमाणिकी सिद्धिरतः पक्षो न सिद्ध्यति ॥ १२३ ॥
तत्सिद्धये च हेतुश्चेत्प्रयुज्येत तथाऽपि न ।
सिद्धेस्तद्धेतुजन्यत्वात्पक्षस्ते सम्प्रसिद्ध्यति ॥ १२४ ॥
अपि चैवं भवान्पर्यनुयोज्यः । किं निर्हेतुका भावा इत्यस्य स्वपक्षस्य सिद्धये भवता हेतुः कश्चिदुपादीयते आहोस्विन्न । तत्र यदि नोपादीयते, तदा पक्षस्ते नसिद्ध्यति । न हि प्रमाणमन्तरेणार्थस्य सिद्धिरस्ति । अथोपादीयते, तथाऽपि न हि पक्षस्ते सम्प्रसिद्ध्यतीति वक्ष्यमाणेन सम्बन्धः । कस्मात् ? । सिद्धेस्तद्धेतुजन्यत्वात्— प्रमेयार्थविषयायाः सिद्धेर्निश्चयस्य तेन हेतुना जन्यमानत्वात् । तथा चोक्त“माचार्यसूरिपादैः” । “न हेचुरस्तीति वदन्सहेतुकं ननु प्रतिज्ञां स्वयमेव सादयेत् । अथापि हेतुः प्रणयालसो भवेत्प्रतिज्ञया केवलयाऽस्य किं भवेत्” इति ॥ १२३ ॥ १२४ ॥
स्यादेतत्—ज्ञापको हेतुर्मया प्रयुज्यते न कारकः । तत्कस्मात्पक्षो मे न सिध्यतीत्याह—“तथा ही”त्यादि ।
तथाहि ज्ञापको हेतुर्वचो वा तत्प्रकाशकम् ।
सिद्धेर्निमित्ततां गच्छन्साध्यज्ञापकमुच्यते ॥ १२५ ॥
“ज्ञापको हेतु”रिति । त्रिरूपं लिङ्गं स्वार्थानुमानकाले । “वचो वे”ति । परार्थानुमानकाले । “तत्प्रकाशक”मिति । तस्य हेतोः प्रकाशकम् । “सिद्धे”रिति । प्रमेयार्थनिश्चयस्य । अन्यथा यदि सिद्धेरपि निमित्तभावं न यायात्तदा कथं न ज्ञापकं भवेत् । एवं हि सर्वं सर्वस्य ज्ञापकं प्रसज्यते ॥ १२५ ॥
यद्येवं कथमयमाचार्यैर्विभागः कारकाज्ज्ञापकस्य क्रियते ? । अत्र च ज्ञानवशादर्थनिर्देशो नोत्पादकवद्भूतार्थवशादित्याह—
अतः कारक एवायं ज्ञापको हेतुरुच्यते ।
साध्यानुत्पादकत्वात्तु कारको न प्रकाश्यते ॥ १२६ ॥
साध्यानुत्पादकत्वादसौ ज्ञापक उच्यते न कारक इति, यस्तु साध्यस्याङ्कुरादेरुत्पा दकः स कारक उच्यत इत्यदोषः । एतेन सर्वेण यदाचार्यसूर्युक्तदूषणस्योपरिचोद्यमापतति तत्प्रतिविहितं भवति । तथाहि—तत्रेदं चोद्यं भवति । न हेतुरस्तीति सहेतुकं वदन्नपि किमिति प्रतिज्ञां सादयेत् । स हि ज्ञापकं हेतुं ब्रूते कारकं तु प्रतिक्षिपतीति । तदत्रोत्तरम्—ज्ञापकोऽपि कारक एव ज्ञानहेतुकत्वादिति । एतेन स्ववचनविरोध उद्भाव्यते । न त्वहेतुत्वसाधकः कश्चिद्धेतुरस्ति व्याप्तेः प्रत्यक्षादिबाधितत्वात् ॥ १२६ ॥
तस्मादित्यादिनोपसंहारव्याजेनानुमानबाधितत्वं च प्रतिज्ञार्थस्य दर्शयति—
तस्मात्सहेतवोऽन्येऽपि भावा नियतजन्मतः ।
साध्यार्थविषयं यद्वज्ज्ञानं साधनभावि ते ॥ १२७ ॥
इति स्वाभाविकजगद्वादपरीक्षा ।
“अन्येऽपीति” । साध्यार्थविषयज्ञानव्यतिरेकिणो राजीवकेसरादयः । “नियतजन्मत”इति । नियतपदार्थसन्निधाने सतीति शेषः । प्रयोगः—ये नियतपदार्थसन्निधाने सति नियतजन्मानस्ते सहेतुकाः । यथा—भवत्साधनसन्निधानभाविसाध्यार्थविषयं ज्ञानम्, तथा च राजीवादयो भावा इति स्वभावहेतुः ॥ १२७ ॥
इति स्वाभाविकवादपरीक्षा ।