०३ उभय-परीक्षा

उभयव्यापाररहितत्वप्रतिपादनार्थमाह—“प्रकृतीश्वरयो”रित्यादि ।

प्रकृतीश्वरयोरेवं हेतुत्वप्रतिषेधनात् ।
प्रत्येकं सहितं कर्तृ नोभयं जन्मिनामिदम् ॥ ९४ ॥

तत्र केचित्साङ्ख्या आहुः—न प्रधानादेव केवलादमी कार्यभेदाः प्रवर्तन्ते, तस्याचेतनत्वात् । न ह्यचेतनोऽधिष्ठायकमन्तरेण स्वकार्यमारभमाणो दृष्टः । न च पुरुषोऽधिष्ठायको युक्तस्तस्य तदानीमज्ञत्वात् । तथा हि—बुद्ध्यध्यवसितमेवार्थं पुरुषश्चेतयते । बुद्धिसंसर्गाच्च पूर्वमसावज्ञ एव, न जातु कञ्चिदर्थं विजानाति । न चाविज्ञातमर्थं शक्तः कश्चित्कर्तुमिति नासौ कर्त्ता । तस्मादीश्वर एव प्रधानापेक्षः कार्यभेदानां कर्त्ता, न केवलः । न हि देवदत्तादिः केवलः पुत्रं जनयति नापि केवलः कुलालो घटं करोतीति । तदेतदपि प्रत्येकं प्रकृतीश्वरयोर्हेतुत्वनिषेधात्सहितमपि नेदमीश्वरप्रधानाख्यमुभयं जन्मिनाम्—उत्पत्तिमताम्, कर्तृ—जनकम्ऽ इति सिद्धम् ॥ ९४ ॥

ननु यदि नाम प्रत्येकमनयोः कर्तृत्वं निषिद्धम्, तथाऽपि सहितयोरनिषिद्धमेव, न हि केवलानां चक्षुरादीनां चक्षुर्ज्ञानोत्पत्तिं प्रति सामर्थ्याभावे सहितानामपि न भवतीत्याशङ्क्याह—“साहित्य”मित्यादि ।

साहित्यं सहकारित्वादेतयोः कल्पिते च यत् ।
तत्स्यादतिशयाधानादेकार्थक्रिययाऽपि वा ॥ ९५ ॥

न युक्ता कल्पनाऽऽद्यस्य निर्विकारतया तयोः ।
न द्वितीयस्य कार्याणां यौगपद्यप्रसङ्गतः ॥ ९६ ॥

साहित्यं नाम सहकारित्वं तच्च द्विविधम्, परस्परातिशयाधानाद्वा स्यादेकार्थकारित्वाद्वा । तत्र न तावदाद्यस्यातिशयाधानलक्षणस्य सहकारित्वस्य कल्पना युक्ता, कस्मात् ? तयोरीश्वरप्रधानयोर्नित्यत्वेन निर्विकारत्वात् । नापि द्वितीयस्य, कल्पना युक्तेति प्रकृतेन सम्बन्धः । कस्मात् ? कार्याणां यौगपद्यप्रसङ्गात् । अविकलाप्रतिहतसामर्थ्यस्येश्वरप्रधानाख्यकारणस्य सदा सन्निहितत्वेनाविकलकारणात् । अत्र चपूर्ववद्यदविकलकारणमित्यादि प्रसङ्गसाधनं वाच्यम् ॥ ९५ ॥ ९६ ॥

“अथोच्यत” इत्यादिना परमतेन यदविकलकारणमित्यस्य हेतोरसिद्धतामुद्भावयति ।

अथोच्यते प्रधानस्य त्रिरूपत्वं व्यवस्थितम् ।
तत्रायं रजसा युक्तः सर्गहेतुर्महेश्वरः ॥ ९७ ॥

उद्भूतवृत्तिसत्त्वं तु यदा संश्रयते पुनः ।
तदा सर्वस्य लोकस्य स्थितेर्याति निमित्तताम् ॥ ९८ ॥

उद्भूतशक्तिरूपेण तमसा युज्यते यदा ।
प्रलयं सर्वजगतस्तदा किल करोत्ययम् ॥ ९९ ॥

रजःसत्वादिरूपादि तदेवं सहकारिणः ।
क्रमेणैवास्य वर्तन्ते कार्याणां नाक्रमस्ततः ॥ १०० ॥

यद्यपि कारणद्वयमेतन्नित्यसन्निहितम् । तथाऽपि क्रमेणैवाऽमी कार्यभेदाः प्रवर्त्तिष्यन्ते, यत ईश्वरस्य प्रधानगतास्त्रयो गुणाः सत्वादयः सहकारिणः, तेषां च क्रमवृत्तित्वात्तत्कार्येष्वपि क्रमो भवति । तथा हि—यदोद्भूतवृत्तिना रजसा युक्तो भवतिमहेश्वरस्तदा सर्गहेतुः प्रजानां भवति, प्रसवकार्यत्वाद्रजसः । यदा तु सत्त्वं समुद्भूतवृत्तिं संश्रयते तदा लोकानां स्थितिकारणं भवति, सत्वस्य स्थितिहेतुत्वात् । यदा तु तमसोद्भूतशक्तिना समायुक्तो भवति तदा प्रलयं नाशं सर्वजगतः करोति, तमसः प्रत्यहेतुत्वात् यथोक्तम्—रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तमःस्पृशे । अजाय सर्गस्थितिनाशतन्त्रिणे त्रयीमयाय त्रिगुणात्मने नमः ॥ इति । किलशब्दोऽसम्भावनायाम् ॥ ९७ ॥ ९८ ॥ ९९ ॥ १०० ॥

“इहोच्यत” इत्यादिना प्रतिविधत्ते ।

इहोच्यते तयोरेकक्रियाकाले समस्ति किम् ।
तदन्यकार्यनिष्पत्तिसामर्थ्यं यदि वा न तत् ॥ १०१ ॥

यद्यस्ति सर्गकालेऽपि द्वयमप्यपरं भवेत् ।
एवमन्यस्य सद्भावे द्वयमन्यत्प्रसज्यते ॥ १०२ ॥

“तयोरिति” । प्रकृतीश्वरयोः । “एकक्रियाकाल” इति । सर्गस्थितिप्रलयानामन्यतमस्यैकस्य क्रियाकाले तदपरकार्यद्वयोत्पादनसामर्थ्यं किमस्त्युत नास्तीति विकल्पद्वयम् । तत्र यद्यस्ति तदा सर्गकालेष्वविकलकारणत्वादपरं कार्यद्वयं स्थितिप्रलयात्मकं भवेदुत्पादवत् । एवं स्थितिकालेऽप्युत्पादविनाशौ प्राप्नुतः । प्रलयकाले च स्थित्युत्पादौ स्याताम् । न चैवं युक्तम् । न हि परस्परपरिहारेणावस्थितानामेकत्र धर्मिण्येकदासद्भावो युक्तः ॥ १०१ ॥ १०२ ॥

स्यादेतत्तदेककार्योत्पादकाले तयोः प्रकृतीश्वरयोरपरकार्यद्वयोत्पादनाय रूपान्तरं न सन्निहितमिति, तेन तदानीं तयोर्न प्रसङ्ग इत्याह—“न ही”त्यादि ।

न हि तत्पररूपेण पुनरन्यस्य कारकम् ।
स्वरूपं च तदेवास्य तत्क्रियाविरतिः कुतः ॥ १०३ ॥

“त”दिति । प्रकृतीश्वराख्यं कारणम्—“अन्यस्ये”ति । पाश्चात्त्यस्य कार्यद्वयस्य । न पररूपेण, किं तर्हि ? स्वरूपेणैव कारणमिति भावः ॥ १०३ ॥

स्यादेतद्यद्यपि तत्पररूपेण न कारणं तथाप्येककार्योत्पादकाले परिशिष्टकार्यद्वयोत्पत्तये सामर्थ्यमस्य नास्ति । तेन कार्यद्वयस्य तदानीमनुत्पाद इत्याह—“तत्सामर्थ्ये”त्यादि ।

तत्सामर्थ्यवियोगे तु नैव तज्जनकं भवेत् ।
अन्यदा शक्तिशून्यत्वाद्वियदम्भोरुहादिवत् ॥ १०४ ॥

“अन्य”देति । अभिमतकार्यारम्भकाले ॥ १०४ ॥

स्यादेतद्यद्यपि प्रधाने सर्वा शक्तिः सन्निहिता, तथाऽपि योद्भूतवृत्तिर्भवति । सैव कारणतां प्रतिपद्यते, नान्या, तेन यौगपद्यं कार्याणां न भविष्यतीत्याह—“उत्कटमि”त्यादि ।

उत्कटं शक्तिरूपं च यदि तन्मात्रकारणम् ।
सर्वदा तद्भवेद्धेतोर्नित्यरूपस्य सन्निधेः ॥ १०५ ॥

इदं हि सर्वा(त्त्वा?)दीनामुत्कटं रूपं न तावन्नित्यं युक्तं वक्तुम्, कादाचित्कत्वात् । ततश्चास्य भावः कदाचित्प्रकृतीश्वरादेव कारणादन्यतो वा हेतोः स्वतन्त्रो वा स्यादिति त्रयो विकल्पाः । तत्र प्रथमे पक्षे तदुत्कटं रूपं सर्वदा भवेत्, प्रकृतीश्वराख्यस्यहेतोर्नित्यरूपत्वेन सदा सन्निहितत्वात् ॥ १०५ ॥

द्वितीयेऽपि पक्षे प्राह—“न चापर”मित्यादि ।

न चापरम्परैरिष्टमतो नैवान्यतोऽपि तत् ।
नापि स्वतन्त्रमेवेदं कादाचित्कत्वसम्भवात् ॥ १०६ ॥

“न हि प्रकृती”श्वरव्यतिरिक्तमपरं कारणमिष्टम्, येनान्यतस्तदुद्भवेत् । नापि तृतीयः पक्षो युक्त इत्याह—“नापी”त्यादि ॥ १०६ ॥

अथ स्वातन्त्र्ये सति कादाचित्कत्वस्य को विरोध इत्याह—“स्वत” इत्यादि ।

स्वतो भावे ह्यहेतुत्वं स्वक्रियाया विरोधतः ।
अपेक्षया हि भावानां कादाचित्कत्वसम्भवः ॥ १०७ ॥

स्वतः—स्वभावात्, भावे—जन्मनि सति, अहेतुकत्वं नियमतो भवेत् । ननु स्वभावादुत्पद्यमानः कथमहेतुको भवति यावता स्वभाव एव तस्य हेतुः प्रतीयत इत्याह—“स्वक्रियाया विरोधत” इति स्वस्मिन्स्वरूपे क्रियाया हेतुभावस्य विरोधात् । स्यादेतद्भवत्वहेतुकत्वम्, तथाऽपि किमिति कादाचित्कत्वं न युज्यत इत्याह—“अपेक्षया ही”त्यादि । स्वभावान्तरायत्तवृत्तयो हि भावाः कादाचित्का युक्ताः । परभावाभावप्रतिबद्धत्वात्तेषां सदसत्तयोः । ये पुनरपरायत्तवृत्तयस्तेषामपेक्षणीयस्य कस्यचिदभावात्किमिति कदाचिद्भवेयुः ॥ १०७ ॥

अथ स्वक्रियाविरोध एव कथं सिद्ध इत्याह—“तथा ही”त्यादि ।

तथा हि न ह्यभावस्य स्वात्मनि व्यापृतिर्मता ।
निष्पन्नस्यात्मनोऽप्यस्यामवस्थायां प्रसिद्धितः ॥ १०८ ॥

आत्मानं हि जनयन्स्वभावो निष्पन्नो वा न वा । न तावन्निष्पन्नः । तस्यामवस्थायामात्मनोऽपि निष्पन्नरूपाव्यतिरेकित्वेन प्रसिद्धेर्निष्पन्नत्वात्, स्वभाववत् । ततश्च जन्यासम्भवात्कुत्रासौ भावो व्याप्रियेत ॥ १०८ ॥

नाप्यनिष्पन्न इति दर्शयति—“अनिष्पन्ने”त्यादि ।

अनिष्पन्नात्मतत्वस्तु नैव व्याप्रियते क्वचित् ।
सर्वशक्तिवियुक्तत्वादाकाशकमलादिवत् ॥ १०९ ॥

इत्युभयपरीक्षा ।

क्वचिदिति सामान्यवचनम् । न स्वात्मभूते नापि परभूत इत्यर्थः । सति व्यापारे निष्पन्नात्मतत्व एव स्यात् । एतावन्मात्रलक्षणत्वान्निष्पन्नस्येति भावः ॥ १०९ ॥

इत्युभयपरीक्षा ।