इदानीमीशव्यापाररहितत्वं प्रतिपादयन्नाह—“सर्वोत्पत्तिमता”मित्यादि ।
सर्वोत्पत्तिमतामीशमन्ये हेतुं प्रचक्षते ।
नाचेतनं स्वकार्याणि किल प्रारभते स्वयम् ॥ ४६ ॥
अनुत्पत्तिमतामण्वाकाशादीनां नित्यत्वान्न किञ्चित्कारणमस्तीत्यत उत्पत्तिमतामित्युक्तम् । “ईश”मिति ईश्वरम् । “अन्य” इति नैयायिकादयः । तत्र विशिष्टगुणमात्मान्तरमेव सर्वस्य जगतः कर्तृ सर्वज्ञमीश्वरमिति केचित् । आत्मव्यतिरिक्तं नित्यैकसर्वार्थ विषयबुद्ध्युपेततया भिन्नगुणत्वाद्द्रव्यान्तरमेवेत्यपरे । ननु धर्माधर्मपरमाण्वादि जगतः कारणमस्त्येव तत्किमर्थमीश्वरमपरं कारणत्वेन कल्पयन्तीत्यत आह—“नाचेतन”मित्यादि । यद्यपि धर्मादि कारणं तथाऽपि तदचेतनत्वादधिष्ठायकमन्तरेण न स्वयं स्वकार्यमारब्धुमुत्सहत इत्यतस्तदधिष्ठायकेन केनचित्कर्त्रा भवितव्यम्, न हि किञ्चिदचेतनं स्वतन्त्रमधिष्ठायकं दृष्टमिति । प्रयोगः—यदचेतनं तदधिष्ठातारमन्तरेण नस्वकार्यमारभते, यथा मृत्पिण्डदण्डसलिलसूत्रादयः कुम्भकाररहिताः कुम्भम्, अचेतनं च धर्मादीनीति व्यापकविरुद्धोपलब्धिः । तस्माद्योसावधिष्ठाता (स) ईश्वर इति सिद्धम् । न चैवं सति धर्माधर्मादीनां वैयर्थ्यम्, निमित्तकारणत्वादीश्वरस्येति । “स्यादेत”द्यदात्मसमवेतौ धर्माधर्मौ स एवात्माऽधिष्ठाता भविष्यति । तत्किमीश्वरेण परिकल्पितेनेति । “तदसम्यक्” । तस्यात्मनस्तदानीमज्ञत्वात्, यावद्धि तस्य शरीरेन्द्रियादिः कार्यकारणसङ्घातो नोत्पद्यते तावदयमज्ञ उपलभ्यानपि रूपादीन्विषयान्नोपलभते,कुतोऽनुपलभ्यौ धर्माधर्मावुपलप्स्यत इति । यथोक्तम् अज्ञो जन्तुरनीशोयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वेति ॥ ४६ ॥
तत्राविद्धकर्णोपन्यस्तमीश्वरसाधने प्रमाणद्वयमाह—“यत्स्वारम्भके”त्यादि ।
यत्स्वारम्भकावयवसन्निवेशविशेषवत् ।
बुद्धिमद्धेतुगम्यं तत्तद्यथा कलशादिकम् ॥ ४७ ॥
द्वीन्द्रियग्राह्यमग्राह्यं विवादपदमीदृशम् ।
बुद्धिमत्पूर्वकं तेन वैधर्म्यैणाणवो मताः ॥ ४८ ॥
तदुक्तम्— द्वीन्द्रियग्राह्याग्राह्यं विमत्यधिकरणभावापन्नं बुद्धिमत्कारणपूर्वकं स्वारम्भकावयवसन्निवेशविशिष्टत्वात्, घटादिवत्, वैधर्म्यैण परमाणव इति । तत्र— द्वाभ्यां दर्शनस्पर्शनेन्द्रियाभ्यां ग्राह्यं महदनेकद्रव्यवत्त्वरूपाद्युपलब्धिकारणोपेतं पृथिव्युदकज्वलनसञ्ज्ञितं त्रिविधं द्रव्यं द्वीन्द्रियग्राह्यम् । अग्राह्यं वाय्वादि, यस्मान्महत्वमनेकद्रव्यवत्त्वं रूपसमवायादिश्चोपलब्धिकारणमिष्यते, तच्च वाय्वादौ नास्ति । यथोक्तम्—महत्त्वादनेकद्रव्यवत्त्वाद्रूपाच्चोपलब्धिः । अद्रव्यवत्त्वात्परमाण्वाव(द्य ?)नुपलब्धिः । रूपसंस्काराभावाद्वायो(र)नुपलब्धिः । रूपसंस्कारो रूपसमवायः । द्व्यणुकादीनां त्वनुपलब्धिरमहत्त्वादिति । अत्र सामान्येन द्वीन्द्रियग्राह्याग्राह्यस्य बुद्धिमत्कारणपूर्वत्वसाधने सिद्धसाध्यता दोषो घटादिषु । उभयसिद्धेः । विवादाभावात् । अभ्युपेतबाधा च, अण्वाकाशादीनां तथाऽनभ्युपगमात् । तेषां च नित्यत्वात्प्रत्यक्षादिबाधा । अतस्तदर्थं विमत्यधिकरणभावापन्नग्रहणम् । विविधा मतिर्विमतिर्विप्रतिपत्तिरिति यावत्, अस्या अधिकरणभावापन्नं विवादास्पदीभूतमित्यर्थः । एवंविधे सतिशरीरेन्द्रियभुवनादय एव पक्षीकृता इति नाण्वादिषु प्रसङ्गः । कारणमात्रपूर्वत्वेऽपि साध्ये सिद्धसाध्यता माभूदिति बुद्धिमत्कारणग्रहणम् । साङ्ख्यं प्रति बुद्धिसत्त्वानुपपत्तेर्न सिद्धसाध्यता, अव्यतिरिक्ता हि बुद्धिः प्रधानात्साङ्ख्यैरिष्यते । न च तेनैव तदेव तद्वद्भवति । स्वारम्भकाणामवयवानां सन्निवेशः प्रचयात्मकः संयोगः । तेन विशिष्टं व्यवच्छिन्नं तद्भावस्तस्मात् । अवयवसन्निवेशविशिष्टत्वं गोत्वादिभिर्व्यभिचारीत्यतः स्वारम्भकग्रहणम् । गोत्वादीनि तु द्रव्यारम्भकावयवसन्निवेशेन विशेष्यन्ते, नतु स्वारम्भकावयवसन्निवेशेनेति । तेन योऽसौ बुद्धिमान स ईश्वर इति । तदेतत्प्रमाणंयदित्यादिश्लोकद्वयेन निर्दिष्टम् । स्वारम्भकावयवसन्निवेश एव विशेषो—विशेषणं सोऽस्यास्तीति तत्तथोक्तम् । तेन विशिष्टमित्यर्थः । एतेन हेतोर्व्याप्तिर्दर्शिता । पक्षधर्मत्वादि दर्शयन्नाह—“द्वीन्द्रिये”त्यादि । “विवादपद”मिति । विवादाधिकरणापन्नमित्यर्थः ॥ ४७ ॥ ४८ ॥
द्वितीयं च तदुक्तं प्रमाणं बोधयन्नाह—तत्त्वादीनामित्यादि ।
तत्त्वादीनामुपादानं चेतनावदधिष्ठितम् ।
रूपादिमत्त्वात्तन्त्वादि यथा दृष्टं स्वकार्यकृत् ॥ ४९ ॥
तत्त्वादीनां—शरीरादीनाम्, उपादानं परमाण्वादि चेतनेन कारणेनाधिष्ठितं सत्स्वकार्यकृदिति सम्बन्ध । रूपादिमत्त्वादिति हेतुः । तन्त्वादीति दृष्टान्तः । यथोक्तम्—तनुभुवनकरणोपादानानि चेतनावादधिष्ठितानि स्वकार्यमानभन्त इति प्रतिजानीमहे । रूपादिमत्वात्तन्त्वादिवदिति ॥ ४९ ॥
उद्योतकारस्तु प्रमाणयति— भुवनहेतवः प्रधानपरमाण्वदृष्टाः स्वकार्योत्पत्तावतिशयबुद्धिमन्तमधिष्ठातारमपेक्षन्ते स्थित्वा प्रवृत्तेस्तन्तुतुर्यादिवदिति । एतदेव दर्शयति —“धर्माधर्माणव” इत्यादि ।
धर्माधर्माणवस्सर्वे चेतनावदधिष्ठिताः ।
स्वकार्यारम्भकाः स्थित्वा प्रवृत्तेस्तुरितन्तुवत् ॥ ५० ॥
सुबोधम् ॥ ५० ॥
प्रशस्तमतिस्त्वाह— सर्गादौ पुरुषाणां व्यवहारोऽन्योपदेशपूर्वकः, उत्तरकालं प्रबुद्धानां प्रत्यर्थनियतत्वात् । अप्रसिद्धवाग्व्यवहाराणां कुमाराणां गवादिषु प्रत्यर्थनियतो वाग्व्यवहारो यथा मात्राद्युपदेशपू्र्वक इति । प्रबुद्धानां प्रत्यर्थनियतत्वादिति । प्रबुद्धानां सतां प्रत्यर्थनियतत्वादित्यर्थः । यदुपदेशपूर्वकः सर्गादौ व्यवहारः स ईश्वरः प्रलयकालेप्यलुप्तज्ञानातिशय इति सिद्धं दर्शयति—“सर्गादावि”त्यादि ।
सर्गादौ व्यवहारश्च पुंसामन्योपदेशजः ।
नियतत्वात्प्रवृद्धानां कुमारव्यवहारवत् ॥ ५१ ॥
सर्गः सृष्टिरुत्पाद इति यावत् । तस्यादिः प्रथमः कालः । शेषं तु सुबधम् ॥ ५१ ॥
तथा अपराणूद्योतकारक्तानि प्रमाणानि बुद्धिमत्कारणाधिष्ठितं महाभूतादिकं व्यक्तं सुखदुःखनिमित्तं भवति । अचेतनत्वात्कार्यत्वाद्विनाशित्वाद्रूपादिमत्त्वात्, वाश्यादिव दिति । एतानि दर्शयति—“महाभूतादिक”मित्यादि ।
महाभूतादिकं व्यक्तं बुद्धिमद्धेत्वधिष्ठितम् ।
याति सर्वस्य लोकस्य सुखदुःस्वनिमित्तताम् ॥ ५२ ॥
अचेतनत्वकार्यत्वविनाशित्वादिहेतुतः ।
वास्यादिवदतस्स्पष्टं तस्य सर्वं प्रतीयते ॥ ५३ ॥
(बुद्धिमद्धेत्वधिष्ठितम्—)चेतनावताऽधिष्ठितम् । अत इति । यथोक्ताद्धेतुकदम्बकात् । “तस्ये”ति । ईश्वरस्य सर्वजगद्धेतोः ॥ ५२ ॥ ५३ ॥
अथ सर्वज्ञत्वं कथं तस्य सिद्धं येनासौ निःश्रेयसाभ्युदयकामानां भक्तिविषयतां यायादित्याह—“सर्वकर्तृत्वसिद्धौ” चेत्यादि ।
सर्वकर्तृत्वसिद्धौ च सर्वज्ञत्वमयत्नतः ।
सिद्धमस्य यतः कर्ता कार्यरूपादिवेदकः ॥ ५४ ॥
तथाचाहुः प्रशस्तमतिप्रभृतयः—सकलभुवनहेतुत्वादेवास्य सर्वज्ञत्वं सिद्धम् । कर्तुः कार्योपादानोपकरणप्रयोजनसम्प्रदानपरिज्ञानात् । इह हि यो यस्य कर्त्ता भवति स तस्योपादानादीनि जानीते । यथा कुलालः कुम्भादीनां कर्त्ता तदुपादानं मृत्पिण्डमुपकरणानि च चक्रादीनि प्रयोजनमुदकाहरणादि कुटुम्बिनं च सम्प्रदानं जानीत इत्येतत्प्रसिद्धम्, तथेश्वरः सकलभुवनानां कर्ता स तदुपादानानि परमाण्वादिलक्षणणानि तदुपकरणानि धर्माधर्मदिक्कालादीनि व्यवहारोपकरणानि सामान्यविशेषसम वायलक्षणानि प्रयोजनमुपभोगं सम्प्रदानसञ्ज्ञाकांश्च पुरुषान् जानीत इति । अतः सिद्धमस्य सर्वज्ञत्वमिति । “कार्यरूपादिवेदक” इति । कार्यस्य ये रूपादयः—स्वभावादयः, आदिशब्देनोपादानादीनां ग्रहणम्, तेषां वेदक इति समासः । याजकादेराकृतिगतणत्वात, कर्मण्ययं वा विधाय स्वार्थिकः को विधेयः । शेषं सुबोधम् ॥ ५४ ॥
तथा—अपरं प्रमाणकदम्बकं तैरुक्तम् । विचित्रोदयप्रस्पन्दास्पदानास्पदं विमत्यधिकरणभावापन्नं द्वितीयादिप्रमाणपञ्चकव्यतिरिक्तप्रमाणान्तरावच्छेद्यम् । वस्तुत्वादिभ्यो रूपादिवत् । वैधर्म्यैण कूर्मरोमादय इति । तत्र विचित्रोदयो गुणपदार्थ उच्यते, विचित्र उदयोऽस्येति कृत्वा, प्रस्यन्दः कर्मपदार्थः तयोरास्पदं समवायिकारणं द्रव्यम्, अनास्पदं गुणादयः पञ्च समवायपर्यन्ताः, द्वितीयादिप्रमाणपञ्चकमनुमानमारभ्याभावपर्यन्तं, तद्व्यतिरिक्तं प्रमाणान्तरं प्रत्यक्षं, शेषं सुबोधम् । अयमपरो हेतुस्तैरुक्तः ।सदाद्यविशेषास्कन्दितानास्कन्दितं विमत्यधिकरणभावापन्नं कस्यचित्प्रत्यक्षं सत्त्वाद्रूपादिवदिति । तत्र सदादयः षडविशेषाः—सदनित्यं द्रव्यवत्कार्यं कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणां विशेषाः, तैरास्कन्दितमाक्रान्तं यथासम्भवं द्रव्यगुणकर्मात्मकं पदार्थत्रयमनास्कन्दितं सामान्यादि । शेषं सुगमम् । तदेतत्प्रमाणकदम्बकन्दर्शयति—“विमते”त्यादि ।
विमतेरास्पदं वस्तु प्रत्यक्षं कस्य चित्स्फुटम् ।
वस्तुसत्त्वादिहेतुभ्यः सुखदुःखादिभेदवत् ॥ ५५ ॥
तदत्रासिद्धतेत्यादिनोत्तरपक्षमारभते ।
तदत्रासिद्धता हेतोः प्रथमे साधने यतः ।
सन्निवेशो न योगाख्यः सिद्धो नावयवी तथा ॥ ५६ ॥
तत्र यदचेतनं तदधिष्ठातारमन्तरेण न स्वकार्यमारभत इत्यादौ प्रयोगे साध्यविपर्यये हेतोर्बाधकप्रमाणाभावात्सन्दिग्धविपक्षव्यावृत्तिकतया हेतोरनैकान्तिकतेति भावः । यच्चायं स्वारम्भकावयवसन्निवेशविशिष्टत्वादितिहेतुः प्रथमे साधनप्रयोगे, सोऽसिद्धः, कथमित्याह—“यत” इत्यादि । अवयवसन्निवेशशब्देन हि संयोगविशेषोऽभिप्रेतः, तद्विशिष्टत्वं चावयव्याख्यस्य द्रव्यस्य, तयोरपि विशेषणविशेष्ययोरसिद्धत्वाद्द्विध हेत्वसिद्धिः ॥ ५६ ॥
कथं पुनर्द्वयमसिद्धमित्याह—“दृश्यत्वे”नेत्यादि ।
दृश्यत्वेनाभ्युपेतस्य द्वयस्यानुपलम्भनात् ।
साधनानन्वितं चेदमुदाहरणमप्यतः ॥ ५७ ॥
तत्र सङ्क्षेपेण स्वभावानुपलम्भाख्यमेव प्रमाणं बाधकमाह । विस्तरेण षट्पदार्थपरीक्षायामनयोर्दूषणमभिधास्यते—“द्वयस्या”पीति । सन्निवेशावयविसम्मतस्य । तथाहि —सन्निवेशो दृश्यत्वेनाभ्युपेतः, सङ्ख्यापरिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिसमवायाच्चाक्षुषाणीति वचनात् । अवयवी च दृश्यत्वेनेष्टः,महत्यनेकद्रव्यवत्त्वाद्रूपाच्चोपलब्धिरिति वचनात् । न रूपादिव्यतिरेकेणापरः संयोगोऽवयवी च दृश्यत्वेनेष्टो बुद्धौ प्रतिभासत इति । अत उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः शशविषाणवदसद्व्यवहारविषयता । न च परमाणूनामतीन्द्रियत्वाद्रूपादीनामनुपलब्धिप्रसङ्गः, विशिष्टानामिन्द्रिय(गम्य)त्वाभ्युपगमादतीन्द्रियत्वासिद्धेः । अत एव संयोगावयविनोरभावात्साधर्म्यदृष्टान्तो घटः साधनधर्मविकल इति दर्शयति—“साधनानन्वित”मित्यादि ॥ ५७ ॥
एवं तावद्विशेषणविशेष्यासिद्ध्या स्वरूपतोऽसिद्धत्वं हेतोः प्रतिपादितमिदानीमाश्रयैकदेशसिद्ध्याऽप्यसिद्धत्वमिति दर्शयति—“चक्षुरि”त्यादि ।
चक्षुःस्पर्शनविज्ञानं भिन्नाभमुपजायते ।
एकालम्बनता नास्ति तयोर्गन्धादिवित्तिवत् ॥ ५८ ॥
अत्र हि द्विविधो धर्मी निर्दिष्टो द्वीन्द्रियग्राह्यमग्राह्यं च । तत्र द्वीन्द्रियग्राह्यो न कश्चिद्धर्मी सिद्धः । तथाहि—चक्षुर्ज्ञानं स्पर्शज्ञानं चोभयं यथाक्रमं नीलादिरूपमात्रप्रतिभासित्वात्कर्कशादिस्प्रष्टव्यभेदमात्रप्रसिद्धत्वाच्च भिन्नाभमुपजायते । ततश्च तयोश्चक्षुःस्पर्शनविज्ञानयोरेकविषयता नास्ति भिन्नाभत्वाद्गन्धरसादिवित्तिवत् । प्रयोगोऽयम्—भिन्नप्रतिभासे ज्ञाने ते नैकविषये, यथा गन्धरसविज्ञाने, भिन्नाभे च चक्षुःस्पर्शनविज्ञाने, इति व्यापकविरुद्धोपलब्धिः । आभासभेदेप्येकविषयत्वे रूपशब्दादिवित्तीनामप्येकविषयत्वप्रसङ्ग इत्येतदत्र बाधकं प्रमाणम् ॥ ५८ ॥
यदि तर्हि नैकविषयताऽनयोस्तत्कथमिदं प्रतिसन्धानज्ञानं भवति । यः प्रकाशे मया दृष्टो घटः स एवान्धकारे स्पृश्यत इति, तस्मादनुमानबाधितेयं प्रतिज्ञा, तत्रेदमनुमानमुद्योतकारोक्तम्—विवादविषयापन्नौ दर्शनस्पर्शनप्रत्ययावेकविषयौ प्रतिसन्धीयमानत्वान्नीलोत्पलप्रत्ययवदिति तत्राह—“तत्सामर्थ्ये”त्यादि ।
तत्सामर्थ्यसमुद्भूतकल्पनानुगतात्मकम् ।
प्रतिसन्धानविज्ञानं समुदायं व्यवस्यति ॥ ५९ ॥
जलानलादि नैवेदं द्वीन्द्रियग्राह्यमस्त्यतः ।
आश्रयासिद्धताऽसिद्धेर्यथाऽभिहितधर्मिणः ॥ ६० ॥
तयोः—वर्णस्प्रष्टव्यमात्रप्रतिभासिनोश्चक्षुःस्पर्शनविज्ञानयोः सामर्थ्यम्—शक्तिः ततः समुद्भूतः कल्पनानुगत आत्माऽस्येति विग्रहः । तदनेन प्रतिसन्धानप्रत्ययस्याप्रत्यक्षत्वं प्रतिपादितं भवति । अनेकस्मिन्नेकत्वाध्यवसायित्वेनास्य भ्रान्तित्वात्, कल्पनानुगतात्मत्वाच्च । नापि प्रमाणान्तरम्, पूर्वज्ञानपरिच्छिन्नविषयावसायित्वेन गृहीतग्रहणात्, भ्रान्तत्वाच्च । तस्मात्प्रतिसन्धीयमानत्वादित्यनैकान्तिको हेतुः । यदि हि प्रतिसन्धानप्रत्ययस्य प्रामाण्यं सिद्धं भवेत्तदा न स्याद्धेतोरनैकान्तिकता, यावता येषु रूपादिषु साधारणा(:) सामर्थ्यप्रकाशनाय घटादिप्रज्ञप्तयः कृतास्तेषु यथास्वं चक्षुःस्पर्शनाभ्यामनुभूतेषूत्तरकालं यथापरिदृष्टविषयमनुरूपसङ्केताहितसंस्कारभेदमेकत्वाध्यवसायि प्रकृतिभ्रान्तं स्मार्त्तमिदं ज्ञानमुत्पद्यते । तथा हि—तथा समन्वाहारे तत्र वर्णोऽपि नीलादिः प्रतीभासते । न च स्पर्शनविज्ञाने वर्णप्रतिभासनं युक्तम्, तस्य चक्षुर्विज्ञानविषयत्वात् । तस्माद्यदेतदाचार्यैरुक्तम्—चक्षुःस्पर्शनाभ्यां यथास्वं भिन्नं विषयमुपल भ्यान्यदेव तत्सहचरं समुदायविषयं स्मार्त्तभेदज्ञाननमुत्पद्यतइति तदेव न्याय्यम् । “ननु” यदि समुदायः प्रागनुभूतः स्यात्तदा स्मार्त्तमिदं युक्तम्, यावता न रूपादिव्यतिरिक्तः समुदायो भवतामभीष्टो येनासावनुभूयेत, रूपादिषु चानुभूतेषु रूपादिरिति स्यात्, न घट इति, न चाननुभूते स्मृतिर्युक्ता, तत्कथमिदं समुदायविषयं स्मार्त्तं ज्ञानमुत्पद्यते । “नैतदस्ति” । न हि रूपादिभ्योऽन्यः समुदायः प्रागनुभूत इत्युच्यते, येनैतत्स्यात्, किं तु त एव रूपादयः सलिलादिधारणार्थक्रियाकारिणः समुदायो घट इति व्यपदिश्यन्ते । तेषु च प्रत्येकमिन्द्रियज्ञानानुभूतेषु यथासङ्केताहितमिदं घट इति स्मरणमुत्पद्यत इत्यभिधीयते । अथवा कल्पितः समुदायः कल्पनाज्ञानात्मकत्वात्स्वसंविदाऽनुभूयत एवेति किमिति तस्य स्मरणं नोत्पद्यत इति । अतः स्वारम्भकावयवसन्निवेशविशिष्टत्वादित्यस्य हेतोराश्रयासिद्धता कस्मादित्याह—“असिद्धेर्यथाऽभिहितधर्मिण” इति । यथाऽभिहितस्य द्वीन्द्रियग्राह्यधर्मिणोऽसिद्धेःकारणादाश्रयैकदेशसिद्ध्या हेतोरसिद्धिः ॥ ५९ ॥ ६० ॥
तदेवं विशेष्यविशेषणाश्रयाणामसिद्धेस्त्रिविधा हेतोरसिद्धतोक्ता, चतुर्थमप्याचार्यनिर्दिष्टमसिद्धप्रकारमाह—“सन्निवेशे”त्यादि ।
सन्निवेशविशिष्टत्वं यादृग्देवकुलादिषु ।
कर्त्तर्यनुपलब्धेऽपि यद्दृष्टौ बुद्धिमद्गतिः ॥ ६१ ॥
तादृगेव यदीक्ष्येत तन्वगादिषु धर्मिषु ।
युक्तं तत्साधनादस्माद्यथाऽभीष्टस्य साधनम् ॥ ६२ ॥
यो हि सन्निवेशविशेषो बुद्धिमत्पुरुषव्यापारपूर्वकत्वेन देवकुलादिष्वन्वयव्यतिरेकाभ्यां लोके प्रसिद्धो यस्य दर्शनाददृष्टतत्कर्तृकस्याऽपि बुद्धिमत्कारणावगतिर्भवति, तथाभूतो यदि तनुतरुगिरिप्रभृतिषु साध्यधर्मिषु हेतुत्वेनोपादीयते, तदा स्याद्भवतामभिमतसाध्यसिद्धिः । नह्यन्वयव्यतिरेकाभ्यां सुविवेचितं कार्यं कारणं व्यभिचरति, तस्याहेतुकत्वप्रसङ्गात् । न च तथाभूतसन्निवेशविशेषस्तरुगिरिप्रभृतिषु प्रसिद्धः, केवलं सन्निवेश इति प्रलापमात्रं प्रसिद्धम् । न च प्रकृत्या परस्परमर्थान्तरत्वेन व्यवस्थितोऽपि धर्मः शब्दमात्रेणाभेदी हेतुत्वेनोपादीयमानोऽभिमतसाध्यसिद्धये पर्याप्तो भवति । साध्यविपर्ययेऽपि तस्य भावाविरोधात् । यथा वल्मीके धर्मिणि कुम्भकारकृतत्वसिद्धये मृद्विकारमात्रं हेतुत्वेनोपादीयमानमिति समुदायार्थः । अवयवार्थस्तूच्यते । “यद्दृष्टौ बुद्धिमद्गति”रिति । यस्य सन्निवेशस्य दृष्टौ सत्यां बुद्धिमतः कारणस्य गतिरनुमितिर्भवतीत्यर्थः । “तन्वगादि”ष्विति । तनुः—शरीरम्, अगाः—पर्वता वृक्षा वा, आदिशब्देन सागरादयो गृह्यन्ते । “यथाऽभीष्टस्ये”ति । बुद्धिमत्पूर्वकत्वस्य । “साधन”मिति । सिद्धिः ॥ ६१ ॥ ६२ ॥
कथं युक्तमित्याह—“अन्वये”त्यादि ।
अन्वयव्यतिरेकाभ्यां यत्कार्यं यस्य निश्चितम् ।
निश्चयस्तस्य तद्दृष्टाविति न्यायो व्यवस्थितः ॥ ६३ ॥
सन्निवेशविशेषस्तु नैवामीषु तथाविधः ।
न तु तर्वादिभेदेषु शब्द एव तु केवलः ॥ ६४ ॥
तादृशः प्रोच्यमानस्तु सन्दिग्धव्यतिरेकताम् ।
आसादयति वल्मीके कुम्भकारकृतादिषु ॥ ६५ ॥
“यत्कार्य”मिति—धूमादि । “यस्ये”ति—अनलादेः । “निश्चय”स्तस्येति—अनलादे रेव । तद्दृष्टाविति—धूमादिकार्यदृष्टौ सत्याम् । यद्येवमिहापि तथैव भविष्यतीत्याह —“सन्निवेशविशेषस्त्वि”त्यादि । यस्तर्हि शब्दसामान्यतः सिद्धः सन्निवेशः स एव हेतुर्भविष्यतीति चेदाह—“तादृश” इत्यादि । तादृशः—शब्दमात्रेणाभेदी । “कुम्भकारकृताविवे”ति । मृद्विकारत्वमात्रमिति शेषः । तदेवं सन्निवेशविशेषस्यासिद्धिः, सन्निवेशमात्रस्य त्वनैकान्तिकत्वमिति प्रतिपादितं भवति ॥ ६३ ॥ ६४ ॥ ६५ ॥
नन्वित्यादिना परो जात्युत्तरमुद्भावयति ।
ननु जात्युत्तरमिदं धर्मभेदविकल्पनात् ।
सामान्यमेव कार्यादि साधनं प्रतिपादितम् ॥ ६६ ॥
कार्यसमं जात्युत्तरमेतत् । तथाहि कृतकत्वादनित्यः शब्द इत्युक्ते जातिवादी चोदयति । किमिदं घटादिगतं कृतकत्वं हेतुत्वेनोपादीयते । किं वा शब्दगतमथोभयगतमिति । आद्ये पक्षे हेतोरसिद्धिः । न ह्यन्यधर्मोऽन्यत्र विद्यते । द्वितीयेऽपि साधनविकलो दृष्टान्तः । तृतीयेऽप्येतावेव दोषाविति । एतच्च कार्यसमं नाम जात्युत्तरमितिप्रतिपादितम् । यथोक्तम्—कार्यत्वान्यत्वलेशेन यत्साध्यासिद्धिदर्शनं तत्कार्यसममिति । यतः कार्यत्वसामान्यमेव गृहीत्वाऽनित्यत्वानुमानमिष्यते न विशेषम् । तेन सामान्येन साधनेऽभीष्टे धर्मविशेषविकल्पेन यदुत्तरं तत्कार्यसमं जात्युत्तरमिति व्यवस्थितम् । एतच्च धर्मभेदेन विकल्पनमतो जात्युत्तरमिति ॥ ६६ ॥
“अतद्रूपे”त्यादिना परिहरति ।
अतद्रूपपरावृत्तं वस्तुमात्रमनित्यताम् ।
तादात्म्यत्साधयत्येष न न्यायोऽस्तीह साधने ॥ ६७ ॥
युक्तमेतत् । यतः कृतकत्वमात्रमनित्यतां साधयति । तस्य तादात्म्यलक्षणप्रतिबन्धसद्भावादिति । इह तु स्वारम्भकावयवन्निवेशविशिष्टत्वमात्रसाधने नायं न्यायोऽस्ति । सन्निवेशसामान्यस्य विपर्यये बाधकाभावात्प्रतिबन्धासिद्धेः यस्य तदुत्पत्तिलक्षणः प्रतिबन्धः सिद्धः, यदुपलम्भादक्रियादर्शिनोऽपि कृतबुद्धिर्भवति तस्यासिद्धेरिति भावः ॥ ६७ ॥
अथ तदुत्पत्त्याप्रतिबन्धविशेषं परित्यज्य सामान्यमेव लिङ्गमुच्यते तदा व्यभिचारितेति दर्शयन्नाह—“धूमे”त्यादि ।
धूमात्मा धवलो दृष्टः पावकाव्यभिचारवान् ।
सिताभिधेयतामात्रान्न हिमादपि तद्गतिः ॥ ६८ ॥
कथं तर्हि कार्यसमं जात्युत्तरमुदाहृतमित्याह—“सामान्ये”त्यादि ।
सामान्यप्रतिबन्धे तु विशेषाश्रयणी यदा ।
चोदना क्रियते तत्र जात्युत्तरमुदाहृतम् ॥ ६९ ॥
साध्येन सह सामान्येन साधनधर्मस्य विपक्षे बाधकप्रमाणवृत्त्या प्रतिबन्धे सिद्धेऽपि सति यत्र धर्मविशेषमाश्रित्य चोदना क्रियते, तज्जात्युत्तरम्, न चेह सामान्येन प्रतिबन्धः सिद्धः, यस्य तु सन्निवेशविशेषप्रबन्धोऽस्ति सोऽसिद्ध इति न जात्युत्तरमेतत् ॥ ६९ ॥
अथाप्रतिबद्धमपि सामान्यं गमकं स्यात्, तदातिप्रसङ्ग स्यादिति दर्शयन्नाह—“गोशब्दे”त्यादि ।
गोशब्दवाच्यतामात्राद्दिगादीनां विषाणिता ।
संसिद्ध्येदन्यथा ह्येष न्यायो नाश्रीयते यदि ॥ ७० ॥
एवं हि स्वर्गदिग्वचनलोचनकिरणकुलिशभूपयसामपि गोशब्दाभिधेयतामात्राद्बाहुलेयादिवद्विषाणवत्तानुमानप्रसङ्गः ॥ ७० ॥
स्यादेतत्कृतकत्वादिवदस्यापि सन्निवेशविशिष्टत्व(त्वेन ?) बुद्धिमत्कारणपूर्वकत्वमेव,प्रतिबन्धोऽस्त्येवेत्याह—“यदि त्वि”त्यादि ।
यदि तु प्रतिबन्धोऽस्मिन्प्रमाणे नोपपद्यते ।
तदत्र युक्तितः सिद्धे न विवादोऽस्ति कस्यचित् ॥ ७१ ॥
किं तु स एव प्रतिबन्धो न सिद्ध इति दर्शयन्नाह—“किन्त्वि”त्यादि ।
किन्तु नित्यैकसर्वज्ञनित्यबुद्धिसमाश्रयः ।
साध्यवैकल्यतोऽव्याप्तेर्न सिद्धिमुपगच्छति ॥ ७२ ॥
न हि भवतां बुद्धिमत्पूर्वकत्वमात्रं साधयितुमिष्टं किं तु नित्य एकः, सर्वज्ञाया बुद्धेर्नित्याया आश्रयः सकलभुवनहेतुर्बुद्धिमानीश्वराभिधानो यः पदार्थः, तत्पूर्वकत्वमस्य साधयितुमिष्टम् । तस्यैव विवादास्पदीभूतत्वात्, स च तथाभूतो न सिद्धिमुपगच्छति । कस्मात् ? साध्यवैकल्यतोऽव्याप्तेः । घटादेः साधर्म्यदृष्टान्तस्य यथोक्तसाधर्म्यवैकल्यात्तथाभूतेन साध्यधर्मेण हेतोर्व्याप्त्यसिद्धेः । न हि यथोक्तसाध्यधर्मेण क्वचिद्दृष्टान्ते हेतोः प्रतिबन्धोऽस्तीति यावत् ॥ ७२ ॥
तदेव दर्शयन्नाह—“तथाही”त्यादि ।
तथाहि सौधसोपानगोपुराट्टालकादयः ।
अनेकानित्यविज्ञानपूर्वकत्वेन निश्चिताः ॥ ७३ ॥
किञ्च न केवलमसिद्धोऽनैकान्तिकश्च हेतुः, अपि तु विरुद्धोऽपीति दर्शयति—“अत एवे”त्यादि ।
अत एवायमिष्टस्य विघातकृदपीच्य (ष्य ?) ते ।
अनेकानित्यविज्ञानपूर्वकत्वप्रसाधनात् ॥ ७४ ॥
“अत एवे”ति । साध्यविपरीतधर्मव्याप्तितः । न केवलं पूर्वोक्तेन विधिनाऽसिद्धोऽनैकान्तिकश्चेत्यपिशब्देनाह ॥ ७४ ॥
ननु च विपर्यये प्रतिबन्धसद्भावे सति विरुद्धः स्यात्। अस्य च बुद्धिमत्पूर्वकमात्रेऽपि न प्रतिबन्धोऽस्ति, तत्कथं तद्विशेषे स्यादित्याह—“बुद्धिमद्धेतुमात्रे” हीत्यादि ।
बुद्धिमद्धेतुमात्रे हि प्रतिबन्धस्त्वयोदितः ।
द्वितीये पुनरस्माभिर्विस्पष्टमभिधीयते ॥ ७५ ॥
त्वयेश्वरवादिना बुद्धिमद्धेतुमात्र प्रतिबन्धो वर्णितः । अन्यथा सामान्येनापि प्रतिबन्धासिद्धौ कथमीश्वरहेतुकत्वं भावानां सिद्ध्येत् । तस्माद्भवदभिप्रयातो बुद्धिमत्पूर्वकत्वमात्रस्य सिद्धस्य सिद्धत्वमभ्युपेत्य भवदभिमतात्साध्यविशेषाद्यदेतद्द्वितीयमनित्यानेकविज्ञानपूर्वकत्वलक्षणमिष्टविपरीतसाध्यं तस्मिन्द्वितीये साध्यविशेषेऽस्माभिर्हेतोर्विस्पष्टं प्रतिबन्धोऽभिधीयते ॥ ७५ ॥
कथमसौ विस्पष्टमभिधीयत इत्याह—“क्रमाक्रमे”त्यादि ।
क्रमाक्रमविरोधेन नित्या नो कार्यकारिणः ।
विषयाणां क्रमित्वेन तज्ज्ञानेष्वपि च क्रमः ॥ ७६ ॥
न हिश्वरादयो नित्यभावाः कार्यकारिणः, नित्यस्य क्रमयौगपद्याभ्यामर्थक्रियाविरोधात् । तस्मादनित्या एवार्थक्रियाकारिणः । ते च प्रतिक्षणमपरापरस्वभावा भवन्तीति सिद्धमनित्यमनेकत्वं न बुद्धिमतः कर्तुः । यदपीश्वरस्य नित्यैकबुद्ध्युपेतत्वम्प्रतिज्ञातं तदप्यनुमानविरुद्धमिति दर्शयन्नाह—“विषयाणा”मित्यादि ॥ ७६ ॥
“क्रमभावी”त्यादिना प्रमाणयति ।
क्रमभावीश्वरज्ञानं क्रमिविज्ञेयसङ्गतेः ।
देवदत्तादिविज्ञानं यथा ज्वालादिगोचरम् ॥ ७७ ॥
यत्क्रमिविज्ञेयविषयं ज्ञानं तत्क्रमभावि, यथा देवदत्तादिविज्ञानं ज्वालादिगोचरम्, क्रमिविज्ञेयविषयं चेश्वरज्ञानमिति स्वभावहेतुः । प्रसङ्गसाधनं चेदम् । तेनाश्रयासिद्धता हेतोर्नाशङ्कनीया । सामान्यादिपदार्थविषयं देवदत्तादिविज्ञानं साधनधर्मविकलमिति ज्वालादिगोचरमुदाहृतम् । किं पुनरत्र बाधकं प्रमाणम् ? उच्यते—यदि क्रमवता विषयेण तदीश्वरज्ञानं स्वनिर्भासमुपजन्येत, तदा सिद्धमेव क्रमित्वम् । अथ न जन्यते, तदा प्रत्यासत्तिनिबन्धनाभावान्न तज्जानीयात् । विषयमन्तरेणापि भवतः प्रामाण्यं वाऽभ्युपगतं हीयेत । नष्टाजाते च विषये निर्विषयत्वप्रसङ्गः स्यादिति । इदमत्र बाधकं प्रमाणम् ॥ ७७ ॥
यच्चोक्तं वैधर्म्येणाणवो मताः इति तदपि वैधर्म्योदाहरणमनिवृत्तसाध्यधर्मकमित्यादर्शयन्नाह—“अणुसंहतिमात्र”मित्यादि ।
अणुसंहतिमात्रं च घटाद्यस्माभिरिष्यते ।
तत्कारकः कुलालादिरणूनामेव कारकः ॥ ७८ ॥
न व्यावृत्तस्ततो धर्मः साध्यत्वेनाभिवाञ्छितः ।
अणूदाहरणादस्माद्वैधर्म्येण प्रकाशितात् ॥ ७९ ॥
अवयविनो विस्तरेण प्रतिषेत्स्यमानत्वात् प्रतिषिद्धत्वाच्चेत्यतः कुलालादेरणूनामेव कारकत्वं प्रसिद्धम् । अतो बुद्धिमत्पूर्वकत्वं साध्यधर्मोऽणुभ्यो वैधर्म्येण प्रकाशितेभ्यो न व्यावृत्त इत्यव्यावृत्तसाध्यधर्मता दोषो वैधर्म्यदृष्टान्तस्य ॥ ७८ ॥ ७९ ॥
स्यादेतत्—यद्यस्माभिर्विशेषः साधयितुमिष्टः स्यात्तदा साध्यविकलता साधर्म्यदृष्टान्तस्य पूर्वोङ्क्ता स्यात्, यावता सामान्येन बुद्धिमत्पूर्वकत्वमात्रं साध्यते, तस्मिंश्च सिद्धे तर्वादीनां सामर्थ्यादीश्वरः कर्ता सिद्ध्यति, न हि घटादिवत्तेषां कुलालादिः कर्त्ता सम्भवति, तेन सामान्यस्य विशेषविशिष्टत्वात्, तर्वादिषु चान्यस्य कर्तुरसम्भाव्यमानत्वात्, सामर्थ्याद्विशेषपरिग्रहमन्तरेणापीश्वर एव कर्त्ताऽमीषां सिध्यतीत्याह—“बुद्धिमत्पूर्वकत्वे”त्यादि ।
बुद्धिमत्पूर्वकत्वं च सामान्येन यदीष्यते ।
तत्र नैव विवादो नो वैश्वरूप्यं हि कर्मजम् ॥ ८० ॥
एवं हि सिद्धसाध्यतादोषः । कस्मादित्याह—“वैश्वरूप्यं ही”त्यादि—वैश्वरूप्यम्— सत्वभाजनलोकस्य वैचित्र्यम्, “कर्मज”मिति । साधारणासाधारणशुभाशुभकर्मजनितम् । अतः शुभाशुभकर्मकारिणः पुरुषा बुद्धिमन्तोऽस्य कारणतामापद्यन्त इति सिद्धसाध्यता ॥ ८० ॥
विशेषेण तर्हि साध्यत इति चेदाह—“नित्ये”त्यादि ।
नित्यैकबुद्धिपूर्वत्वसाधने साध्यशून्यता ।
व्यभिचारश्च सौधादेर्बहुभिः करणेक्षणात् ॥ ८१ ॥
एतच्च पूर्वमुक्तमपि निगमनार्थं पुनरभिहितम् । एका बुद्धिरस्येत्येकबुद्धिः, नित्यश्चासावेकबुद्धिश्चेति विग्रहः । यद्वा—नित्यैका बुद्धिरस्येति समासः । “साध्यशून्यते”ति । साधर्म्यदृष्टान्तस्येति शेषः । “व्यभिचार”श्चेति । हेतोरित्यध्याहारः । कथमित्याह ? “सौधे”त्यादि ॥ ८१ ॥
यच्चोक्तं तर्वादीनामित्यादि; तत्राह—“एतदेवे”त्यादि ।
एतदेव यथायोग्यमवशिष्टेषु हेतुषु ।
योज्यं दूषणमन्यच्च किञ्चिन्मात्रं प्रकाश्यते ॥ ८२ ॥
तत्रापि हि रूपादिमत्त्वादित्यादिसाधनेष्वेतदेव हि यथासम्भवं दूषणं वाच्यम् ।“एतदेवेति” । असिद्धत्वं, प्रतिबन्धाभावाद्व्यभिचारः, सति प्रतिबन्धे विरुद्धत्वं, साध्यवैकल्यम्, सामान्येन सिद्धसाध्यतेत्यादि । तथाहि—तत्रापि यादृशं रूपादिमत्त्वं चेतनावदधिष्ठितं तादृशं तर्वादिषु न सिद्धम्, रूपादिमत्त्वमात्रस्य प्रतिबन्धासिद्धेर्व्यभिचारः, प्रतिबन्धाभ्युपगमे सति इष्टविपरीतसाधनाद्विरुद्धत्वम्, साधर्म्यदृष्टान्तस्य साध्यविकलता, नित्यैकचेतनाधिष्ठितत्वेन साध्यधर्मेणान्वयासिद्धेः, सामान्येन सिद्धसाध्यता, विशेषेण व्यभिचारो घटादिष्वन्यथादर्शनादिति । एवमन्येष्वपि हेतुषु योज्यम् ॥ ८२ ॥
यच्च स्थित्वा प्रवृत्तेरिति साधनमुक्तं तत्राधिकं दूषणमाह—“स्थित्वे”त्यादि ।
स्थित्वा प्रवृत्तिरण्वादेर्न सिद्धा क्षणभङ्गतः ।
व्यभिचारश्च तेनैव तस्यापि क्रमवृत्तिता ॥ ८३ ॥
सर्वभावानामुदयसमनन्तरापवर्गितया क्षणमात्रमपि न स्थितिरस्तीति कुतः स्थित्वा प्रवृत्तिर्भविष्यति, तस्मात्प्रतिवाद्यसिद्धो हेतुः । अनैकान्तिकश्च तेनैवेश्वरेण, यत ईश्वरः क्रमवत्सु कार्येषु स्थित्वा प्रवर्त्तते । अथ च नासौ चेतनावदधिष्ठितोऽनवस्थाप्रसङ्गात् । अथाचेतनत्वे सतीति सविशेषणो हेतुः क्रियते, यथा प्रशस्तमतिना कृतः, तथाऽपि सन्दिग्धविपक्षव्यावृत्तिकतयाऽनैकान्तिकत्वमनिवार्यमेव । येदव हि विशेषणं विपक्षाद्धेतुं निवर्त्तयति तदेव न्याय्यम्, यत्पुनर्विपक्षे सन्देहं न व्यावर्तयति तदुपात्तमप्यसत्कल्पमेव । पूर्वोक्तश्चासिद्धतादिदोषः सविशेषणत्वेऽपि तदवस्थ एव ॥ ८३ ॥
यच्चोक्तं सर्गादौ व्यवहारश्चेत्यादि, तत्राह—“प्रलय” इत्यादि ।
प्रलये लुप्तविज्ञानस्मृतयः पुरुषा न नः ।
आभास्वरादिसम्भूतेस्तत एवेह सम्भवात् ॥ ८४ ॥
उत्तरकालं प्रबुद्धानामित्येतद्विशेषणमसिद्धम्, तथाहि—नास्मन्मतेन प्रलयकाले प्रलुप्तज्ञानस्मृतयो वितनुकरणाः पुरुषाः सन्तिष्ठन्ते, किन्त्वाभास्वरादिषु स्पष्टज्ञानातिशययोगिषु देवनिकायेषूत्पद्यन्ते; ये तु प्रतिनियतनिरयादिविपाकसंवर्त्तनीयकर्माणस्ते लोकधात्वन्तरेषूत्पद्यन्त इति विवर्त्तकालेऽपि तत एवाभास्वरादेश्चयुत्वेहालुप्तज्ञानस्मृतय एव सम्भवन्ति । तस्मादुत्तरकालं प्रबुद्धानामिति विशेषणमसिद्धम् । अनैकान्तिकश्च हेतुः, सन्दिग्धविपक्षाव्यावृत्तिकत्वात् । किञ्चान्योपदेशपूर्वकत्वमात्रे साध्ये सिद्धसाध्यता, अनादेर्व्यवहारस्य सर्वेषामेवान्योपदेशपूर्वकत्वस्येष्टत्वात् । अथेश्वरलक्षणपुरुषोपदेशपूर्वकत्वं साध्यते, तदाऽनैकान्तिकत्वम् । अन्यथाऽपि व्यवहारसम्भवाद्दृष्टान्तस्य साध्यविकलता । एतच्च पूर्वमेव सामान्यं दूषणमुक्तम् ॥ ८४ ॥
विरुद्धश्च हेतुरभ्युपेतबाधा च प्रतिज्ञाया इति दर्शयन्नाह—“विमुखस्योपदेष्टृत्वमि”त्यादि ।
विमुखस्योपदेष्टृत्वं श्रद्धागम्यं परं यदि ।
वैमुख्यं वितनुत्वेन धर्माधर्मविवेकतः ॥ ८५ ॥
यदीश्वरोपदेशपूर्वकत्वं व्यवहारस्य सम्भवेत्तदा स्यादविरुद्धता हेतोः, यावताऽसौ विमतमुखत्वादुपदेष्टा न युक्तः । तच्च विमुखत्वं वितनुत्वेन—शरीरविरहादित्यर्थः ।तच्च विमततनुत्वमस्य कथं सिद्धमित्याह—“धर्माधर्मविवेकत” इति । शरीकारणधर्माधर्मविरहादित्यर्थः । तथाचोद्योतकारेणोक्तम् । यथा बुद्धिसत्तायामीश्वरस्य प्रमाणसम्भवो नैवं धर्मादिसत्त्वे प्रमाणमस्तीति तस्मादीश्वरस्योपदेष्टृत्वासम्भवात्तदुपदेशकत्वं व्यवहारस्य न सिद्ध्यति, किं त्वीश्वरव्यतिरिक्तान्यपुरुषोपदेशपूर्वकत्वमत इष्टविघातकारित्वाद्विरुद्धो हेतुः । अथेश्वरस्योपदेष्टृत्वमङ्गीक्रियते, तदा विमुखत्वमभ्युपेतं हीयत इत्यभ्युपेतबाधा । महाभूतादिकं व्यक्तमित्यादौ तु प्रयोगे हेतूनां पूर्ववदनेकान्तिकत्वं विपक्षे बाधकप्रमाणाभावात्, सामान्येन सिद्धसाध्यता, विशेषेण दृष्टान्तस्य साध्यविकलतेति योजनीयम् ॥ ८५ ॥
एवं विस्तरेणेश्वरसाधकानि प्रमाणानि निराकृत्य साम्प्रतं व्याप्तिदोषोद्भावनमुखेन तद्बाधकं प्रमाणं स्वपक्षसिद्ध्यर्थमुपदर्शयितुमाह—“अनुमानविरोधे”त्यादि ।
अनुमानविरोधश्च व्याप्तेः सर्वत्र साधने ।
न विरुद्धेन धर्मेण व्याप्तिर्हेतोः प्रकल्पते ॥ ८६ ॥
सर्वत्र यथोक्ते साधने साध्येन या हेतोर्व्याप्तिस्तस्या अनुमानविरोधो वक्ष्यमाणः । अथ प्रतिज्ञायाः कस्मादनुमानविरोधो नोद्भाव्यते ? यदि प्रतिज्ञा साधनाङ्गं स्यात्तदातद्दोषोद्भावनं स्यात्, यावता साक्षात्पारम्पर्येण वाऽसौ न साध्यसिद्धेरङ्गभावं प्रतिपद्यते, ततश्च साधनदोषाभिधाने प्रस्तुते यत्प्रतिज्ञादोषोद्भावनं तददोषोद्भावनं वादिनो निग्रहस्थानं स्यात्, तस्मान्न साधनप्रयोगेषु प्रतिज्ञादोषो वाच्यः । यत्र तु क्वचित्प्रतिज्ञाविरोध उद्भाव्यते, तत्र तन्मुखेन व्याप्तेरेव तद्विघटनं क्रियत इति ग्रहीतव्यम् । यद्वा—साधनप्रयोगादन्यत्र तद्द्रष्टव्यम् । अथ व्याप्तिकालेऽपि कथमनुमानविरोधो भवतीत्याह—“न विरुद्धेने”त्यादि । “विरुद्धेने”ति । प्रमाणव्याहतेन तस्याऽसम्भवादेव न युक्ता व्याप्तिः, न ह्यसता व्याप्तिरवकल्प्यत इति यावत् ॥ ८६ ॥
किं तदनुमानं येन व्याप्तिर्बाध्यत इत्याह—“नेश्वरो जन्मिना”मित्यादि ।
नेश्वरो जन्मिनां हेतुरुत्पत्तिविकलत्वतः ।
गगनाम्भोजवत्सर्वमन्यथा युगपद्भवेत् ॥ ८७ ॥
यदुत्पत्तिविकलं न तत्कस्यचित्कारणम्, यथा गगनाम्भोजम्, उत्पत्तिविकलश्चेश्वर इति व्यापकविरुद्धोपलब्धिः । प्रसङ्गसाधनं चेदम्, तेनाश्रयासिद्धता न चोदनीया । “सर्वमन्यथा युगपद्भवे”दिति । अप्रतिबद्धसामर्थ्यकारणत्वादेककालाभिमतकार्यग्रामवत्सर्वं युगपद्भवेदित्यर्थः । एतदत्रबाधकं प्रमाणम्, अथवाऽर्थकथनमात्रमेतत् । एवं तु प्रसङ्गसाधनं कर्त्तव्यम् । यदविकलकारणं तद्भवत्येव । यथाऽन्त्यावस्थाप्राप्तायां सामग्र्यामविकलकारणो भवन्नङ्कुरः । अविकलकारणं च सर्वमीश्वरहेतुकं जगदिति युगपद्भवेत् । “स्यादेतत्”—नेश्वर एव केवलं कारणमपि तु धर्मादिसहकारिकारणान्तरमपेक्ष्य करोति, निमित्तकारणत्वादीश्वरस्य, तेव धर्मादेः कारणान्तरस्य वैकल्यादविकलकारणत्वमसिद्धमिति । “तदेतदसम्यत्” । यदि हि तस्य सहकारिभिःकश्चिदुपकारिभिः कश्चिदुपकारः कर्त्तव्यो भवेत्, तदा तस्य सहकारिणि व्यपेक्षा, यावता नित्यत्वात्परैरनाधेयातिशयस्य न किञ्चित्तस्य सहकारिभ्यः प्राप्तव्यमस्तीति किमिति तांस्तथाभूताननुपकारिणः सहकारिणोऽपेक्षेत । किं च येऽपि ते सहाकारिणस्तेऽपि सर्व एवेश्वरस्यायत्तजन्मतया नित्यं समवहता एवेति कथमसिद्धता हेतोः । न चानैकान्तिकता, अविकलकारणत्वहानिप्रसङ्गात्, अविकलकारणस्याप्यनुत्पत्तौसर्वदैवानुत्पत्तिप्रसङ्गोऽविशेषात् । “उद्योतकर”स्त्वाह—यद्यपि नित्यमीश्वराख्यं कारणमविकलं भावानां सन्निहितम् । तथाऽपि न युगपदुत्पत्तिरीश्वरस्य, बुद्धिपूर्वकारित्वात् । यदीश्वरसत्तामात्रेणैवाबुद्धिपूर्वं भावानामुत्पादकः स्यात्तदा स्यादेतच्चोद्यम् । यदा तु बुद्धिपूर्वकं करोति तदा न दोषः, तस्य स्वेच्छया कार्येषु प्रवृत्तेः । अतोऽनैकान्तिकतैव हेतोरिति । तदेतदयुक्तम् । न हि कार्याणां कारणस्येच्छाभावाभावापेक्षया प्रवृत्तिनिवृत्ती भवतः, येनाप्रतिबद्धसामर्थ्येऽपीश्वराख्ये कारणे सदा सन्निहिते तदीयेच्छाऽभावान्न प्रवर्त्तन्त इति स्यात् । किं तर्हि ? कारणगतसामर्थ्यभावाभावानुविधायिनो भावाः । तथाहि—इच्छावतोऽपि कर्तुरसमर्थान्नोत्पद्यन्ते, समर्थाच्च बीजादेरनिच्छावतोऽपि समुत्पद्यन्ते । तत्र यदीश्वराख्यं कारणं कार्योत्पादकालवदप्रतिहतशक्ति सदैवावस्थितम्, भावास्तत्किमिति तदीयामनुपकारिणीं तामिच्छामपेक्षन्ते, येनोत्पादकालवद्युगपत्त उत्पद्येरन् । एवं हि तैरविकलकारणत्वमात्मनो दर्शितं भवेत्, यदि युगपद्भवेयुः । न चापीश्वरस्य परैरनुपकार्यस्य काचिदपेक्षाऽस्ति, येनेच्छामपेक्षेत । “अपि च”—बुद्धिव्यतिरेकेण नान्येच्छाऽस्ति, बुद्धिश्चेश्वरस्य भवद्भिर्नित्यैकरूपाऽभीष्टा, ततश्च बुद्धिपूर्वकारित्वेऽपीश्वरस्य किमिति भावानां युगपदुत्पादो न भवति । ईश्वरवत्तद्बुद्धेरपि सदा सन्निहितत्वात् । “अथा”प्यनित्या तस्य बुद्धिरङ्गीक्रियते, तथाऽपीश्वरसत्तामात्रभावित्वात्तस्या ईश्वरवत्सदाभाव एवेति, स एव दोषः । तस्माद्बुद्धिमत्वादिति विशेषणमकिञ्चित्करमेवेति नानैकान्तिकता हेतोः । न चापि विरुद्धता सपक्षे भावात् न चैवं भवति, तस्माद्विपर्ययः । प्रयोगः—यद्यदा न भवति, नतत्तदानीमविकलकारणम्, यथा कुशूलस्थितबीजावस्थायामनुत्पद्यमानोऽङ्कुरः । न भवति चैकपदार्थोत्पादकाले सर्वं विश्वमिति, व्यापकानुपलब्धिः । न च सिद्धसाध्यता, ईश्वरस्य कारणत्वे सति विकलकारणत्वानुपपत्तेः प्रसाधितत्वात् ॥ ८७ ॥
अपरमपि प्रमाणमाह—ये वा क्रमेणेत्यादि ।
ये वा क्रमेण जायन्ते ते नैवेश्वरहेतुकाः ।
यथोक्तसाधनोद्भूता जडानां प्रत्यया इव ॥ ८८ ॥
तेषामपि तदुद्भूतौ विफला साधनाभिधा
नित्यत्वादचिकित्स्यस्य नैव सा सहकारिणी ॥ ८९ ॥
यथोक्तेभ्यः स्वारम्भकावयवसन्निवेशविशिष्टत्वादिभ्यः साधनेभ्य उद्भूता इष्टसाध्यधर्मिविषया जडानामीश्वरकारणाभिनिवेशिनां प्रत्ययाः—निश्चया इवेत्यर्थः । ननु यथोक्तदोषदुष्टत्वान्नैतेभ्य इष्टे साध्ये प्रत्ययाः समुत्पद्यन्त इति न दृष्टान्तधर्मिसिद्धिः । सत्यमेतत् । अत एव जडानामित्युक्तम् । जडानां हि साधनाविवेकाक्षमतया साधनाभासेभ्योऽपि तेषां प्रत्ययाः समुत्पद्यन्त एव । नन्वेवमपि साध्यविकलो दृष्टान्तः, तेषामपि जडप्रत्ययानामीश्वरस्य निमित्तकारणत्वेनेष्टत्वादित्यत आह—“तेषामपी”त्यादि । तेषामपि—जडप्रत्ययानाम, “तदुद्भूता”विति । ईश्वरादुद्भूताविष्यमाणायाम्, विफला साधनाभिधा—साधनाभिधानं व्यर्थं स्यात् । ईश्वरादेव तेषामुत्पत्तेरिति भावः । ननु साधनाभिधां सहकारिणीमपेक्ष्य तेषामीश्वरो जनको भविष्यति न केवलस्तेनासौ विफला न भविष्यतीत्यत आह—“नित्यत्वा”दित्यादि । यद्यसौ साधनाभिधा तस्येश्वरस्यासमर्थं स्वभावमपनीय समर्थमादधीत, तदा स्यात्सा तस्य सहकारिणी, यावता नित्यत्वादीश्वरोऽनुत्पाद्यानिवर्त्यस्वभावतया न केनचित्किञ्चित्स नीयत इति न साधनाभिधा तस्यासौ सहकारिणी युक्ता ॥ ८८ ॥ ८९ ॥
अपि च—यथा परिदृष्टसामर्थ्यसाधनादिकारणव्यतिरेकेणापरिदृष्टसामर्थ्यस्यापीश्वरस्य कारणभावे कल्प्यमानेऽतिप्रसङ्गो भवतां प्राप्नोति, यतस्तमपीश्वरं परिकल्प्यापरमपि ढेटकषकादिकं (?) कल्पनीयमेव, विशेषाभावादिति दर्शयन्नाह—“येष्वि”त्यादि ।
ये तु सत्सु भवद्दृष्टमसत्सु न कदाच ।
तस्यान्यहेतुताक्लृप्तावनवस्था कथं न ते ॥ ९० ॥
भवद्दृष्टं यदित्युपस्कारः । अन्यहेतुताक्लृप्ताविति । यथा परिदृष्टसामर्थ्येभ्यो हेतुभ्योऽन्यो हेतुस्तद्भावोऽन्यहेतुता, तस्याः क्लृप्तिः—कल्पनेति विग्रहः ॥ ९० ॥
यदुक्तं सर्वकर्तृत्वसिद्धौ चेत्यादि तत्राह—“कर्तृ”त्वेत्यादि ।
कर्तृत्वप्रतिषेधाच्च सर्वज्ञत्वं निराकृतम् ।
बोद्धव्यं तद्बलेनैव सर्वज्ञत्वोपपादनात् ॥ ९१ ॥
सर्वकर्तृत्वबलेनासौ सर्वज्ञो भवद्भिरिष्यते, तेन तन्निराकरणात्सर्वज्ञत्वमपि तस्यायत्नतो निराकृतमेव ॥ ९१ ॥
अभ्युपेत्य साधनानामदुष्टत्वं दूषणान्तरमाह—यथोक्तेत्यादि ।
यथोक्तदोषदुष्टानि माभूवन्साधनानि वा ।
तथाऽपि कर्तुर्नैकत्वं व्यभिचारोपदर्शनात् ॥ ९२ ॥
एककर्तुरसिद्धौ च सर्वज्ञत्वं किमाश्रयम् ।
यथोक्ता दोषा अनुमानविरोधपर्यन्ताः । अयमत्र समुदायार्थः । यद्यपि तनुगिरिप्रभृतीनामेभ्यः साधनेभ्यो बुद्धिमान्कर्त्ता सिद्ध्यति । तथाऽप्यसौ य एवैकस्य हेतुः स एवान्यस्यापीति न निश्चित एवेति प्रतिकार्यं भिन्नस्यापि कर्तुः सम्भाव्यमानत्वात्सौधादेश्चैकस्यापि बहुभिः करणेक्षणादतो नैकः कर्त्ता प्रतिपादयितुं शक्यते, यावच्चैकः कर्ता न सिद्धस्तावत्कुतः सर्वज्ञत्वसिद्धिरिति । अत्र “प्रशस्तमति”रेककर्तृत्वसिद्धये प्रमाणयति । एकाधिष्ठाना ब्रह्मादयः पिशाचान्ताः परस्परातिशयवृत्तित्वात्, इह येषां परस्परातिशयवृत्तित्वं तेषामेकायत्तता दृष्टा, यथेह लोके गृहग्रामनगरदेशाधिपतीनामेकस्मिन्सार्वभौमे नरपतौ, तथा च भुजगरक्षोयक्षप्रभृतीनां परस्परातिशयवृत्तित्वम्, तेन मन्यामहे तेषामप्येकस्मिन्नीश्वरे पारतन्त्रयमिति । तत्र यद्येत ईश्वराख्येनाधिष्ठिता इत्ययमर्थः साधयितुमिष्टस्तदाऽनैकान्तिकता । विपर्यये बाधकप्रमाणाभावात् । प्रतिबन्धासिद्धेः । दृष्टान्तस्य च साध्यविकलता । अथाधिष्ठायकमात्रेण साधिष्ठानेति साध्यते, तदा सिद्धसाध्यता, यत इष्यत एवास्माभिर्भगवतासम्बुद्धेन सकललोकचूडामणिना सर्वमेव जगत्कारुण्यवशादधिष्ठितम् । यत्प्रभावादद्याप्यभ्युदयनिःश्रेयससम्पदमासादयन्ति साधवः । इदं चापरं तेनैव साधनमुक्तम् ।सप्तभुवनान्येकबुद्धिनिर्मितानि, एकवस्त्वन्तर्गतत्वात् । एकावसथान्तर्गातापवरकवत् ।यथैकावसथान्तर्गतानामपरवरकाणां सूत्रधारैकबुद्धिनिर्मितत्त्वं दृष्टं तथैकस्मिन्नेव भुवनेऽन्तर्गतानि सप्तभुवनानि । तस्मात्तेषामप्येकबुद्धिनिर्मितत्वं निश्चीयते । यद्बुद्धिनिर्मितानि चैतानि स भगवान्महेश्वरः सकलभुवनैकसूत्रधार इति । तदत्र हेतुरसिद्धः, नैकं भुवनमावसथादि वाऽस्ति, व्यवहारलाघवार्थं बहुष्वियं सञ्ज्ञा कृता । अत एव दृष्टान्तोऽपि साधनविकलः । एकसौधान्तर्गतानामपवरकादीनामनेकसूत्रधारघटितत्वदर्शनाच्चानैकान्तिको हेतुः । एवमन्येष्वपि साधनेषु यथायोगं दूषणं वाच्यम् ॥ ९२ ॥
यच्चोक्तं विमतेरास्पदं वस्त्वित्यादि । तत्राह—“तत्सिद्धौ साधनमि”त्यादि ।
तत्सिद्धौ साधनं प्रोक्तं जैमनीयेषु राजते ॥ ९३ ॥
इतीश्वरपरीक्षा ।
यदि सामान्येनास्ति कश्चित्सर्वज्ञ इति साध्यते, तदा नास्मान्प्रतीदं भवतां साधनं राजते । सिद्धसाध्यतादोषात् । किन्तु ये सर्वज्ञापवादिनो जैमिनीयास्तेष्वेव शोभते ।अत्रेश्वराख्यः सर्वज्ञः साध्यते, तदा प्रतिबन्धासिद्धेर्हेतोरनैकान्तिकता, दृष्टान्तस्य साध्यविकलतेति । अतो नास्मान्प्रति साधनमेतद्राजत इति भावः । यच्चापि विचित्रोदयेत्यादि धर्मिविशेषणमुपात्तं तस्य न कश्चिदुपयोगोऽस्ति । केवलं परव्यामोहनाय स्वप्रक्रियाघोषणमिदं क्रियते भवद्भिः । तथाहि—विना धर्म्यादिविशेषणेनैवंविधेनयदि साधनमसिद्धतादिदोषरहितं तदा भवत्येवाभिमतसाध्यसिद्धिः । अथासिद्धतादिदोषदुष्टं साधनम्, तदैवंविधविशेषणोपादानेऽपि न साध्यसिद्धिरस्तीति, सर्वथा व्यर्थमेव विशेषणम् । यत्पुनर्विपक्षाद्धेतुं व्यावर्त्तयति तदेव विशेषणं न्याय्यम् । किञ्चाश्रयासिद्धो हेतुः । न हि यथोक्तविशेषणविशिष्टो धर्मी प्रसिद्धोऽस्ति प्रतिवादिनः, तस्मान्न शास्त्रप्रसिद्धो धर्मी कर्त्तव्यः ॥ ९३ ॥
इतीश्वरपरीक्षा ।