०१ प्रकृति-परीक्षा

तत्र प्रकृतिव्यापाररहितत्वप्रतिपादनाय साङ्ख्यमतमुपदर्शयन्नाह—“अशेषशक्तिप्रचिता”दित्यादि ।

अशेषशक्तिप्रचितात्प्रधानादेव केवलात् ।
कार्यभेदाः प्रवर्त्तन्ते तद्रूपा एव भावतः ॥ ७ ॥

यदशेषाभिर्महदादिकार्यग्रामजनिकाभिरात्मभूताभिः शक्तिभिः, प्रचितम्—युक्तं सत्वरजस्तमसां साम्यावस्थालक्षणं प्रधानम्, तत एवैते महदादयः कार्यभेदाः प्रवर्त्तन्ते इति कापिलाः । प्रधानादेवेत्यवधारणं कालपुरुषादिव्यवच्छेदार्थम् । केवलादिति वचनं सेश्वरसाङ्ख्योपकल्पितेश्वरनिरासार्थम् । “प्रवर्त्तन्त” इति—साक्षात्पारम्पर्येण वोत्पद्यन्त इत्यर्थः । तथाहि तेषां प्रक्रिया । प्रधानाद्बुद्धिः प्रथममुत्पद्यते, बुद्धेश्चाहङ्कारः, अहङ्कारात्पञ्चतन्मात्राणि शब्दस्पर्शरसरूपगन्धात्मकानि, इन्द्रियाणि चैकादशोत्पद्यन्ते । पञ्च बुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणलक्षणानि, पञ्च कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्था मनश्चैकादशमिति । पञ्चभ्यश्च तन्मात्रेभ्यः पञ्च भूतानि । शब्दादाकाशम्, स्पर्शाद्वायुः, रूपात्तेजः, रसादापः, गन्धात्पृथिवीति । यथोक्तमीश्वरकृष्णेन—प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥इति । तत्र महानिति बुद्धेराख्या । बुद्धिश्चायं घटः पट इति विषयाध्यवसायलक्षणा । अहङ्कारस्तु—अहं सुभगोऽहं दर्शनीय इत्याद्यभिधानलक्षणः । मनस्तु सङ्कल्पलक्षणम् । तद्यथा—कश्चिदेवं बटुः श्रृणोतिग्रामान्तरे भोजनमस्तीति, तत्र तस्य सङ्कल्पः स्यात्, यास्यामीति, किं तत्र गुडद धि स्यादुतस्विद्दधीति । एवं सङ्कल्पवृत्ति मन इति । तदेवं बुद्ध्यहङ्कारमनसां परस्परं विशेषो बोद्धव्यः । शेषं सुबोधम् । एते च महदादयः प्रधानपुरुषौ चेति पञ्चविंशतिरेषां तत्त्वानि । यथोक्तम्— पञ्चविंशतितत्त्वज्ञो यत्र यत्राश्रमे रतः । जटी मुण्डी शिखी वाऽपि मुच्यते नाऽत्र संशयः ॥ इति । एते यथोक्ताः कार्यभेदाः प्रधानात्प्रवर्त्तमाना न बौद्धाद्यभिमता इव कार्यभेदाः कारणादत्यन्तभेदिनो भवन्ति, किन्तु तद्रूपा एव—तत्—प्रधानम् रूपम्—आत्मा येषामिति विग्रहः । त्रैगुण्यादिरूपेण प्रकृत्यात्मभूता एवेति । तथाहि—लोके यदात्मकं कारणं भवति तदात्मकमेव कार्यमुपलभ्यते । यथा कृष्णैस्तन्तुभिरारब्धः पटः कृष्णो भवति शुक्लैस्तु शुक्लः । एवं प्रधानमपि त्रिगुणात्मकम्, तथा बुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतात्मकं व्यक्तमपि त्रिगुणमुपलभ्यते तस्मात्तद्रूपम् । किञ्च—अविवेकि । तथाहीमे सत्त्वादयः इदं च महदादि व्यक्तमिति पृथङ्न् शक्यते कर्तुम् । किन्तु ये गुणास्तद्व्यक्तं यद्व्यक्तं ते गुणा इति । किञ्च—द्वयमपि व्यक्तमव्यक्तं च विषयः । भोग्यस्वभावत्वात् । सामान्यं च सर्वपुरुषाणाम् । भोग्यत्वात् । मल्लदासीवत् । अचेतनात्मकं च । सुखदुःखमोहावेदकत्वात् । प्रसवधर्मि च । तथाहि—प्रधानं बुद्धिं जनयति, बुद्धिरप्यहङ्कारम्, अहङ्कारोऽपि तन्मात्राणीन्द्रियाणि चैकादश, तन्मात्राणि महाभूतानि जनयन्तीति । तस्मात्रैगुण्यादिरूपेण तद्रूपा एवामी कार्यभेदाः प्रवर्त्तन्ते । यथोक्तम्— त्रिगुणमविवेकिविषयः सामान्यमचेतनं प्रसवधर्मि । व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥ इति । ननु यदि तद्रूपा एव कार्यभेदास्तत्कथं शास्त्रे व्यक्ताव्यक्तयोर्वैलक्षण्यमुपवर्णितम् । तथाहीश्वरकृष्णोक्तम्— हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥ इति । तत्र ह्ययमर्थः हेतुमत्—कारणवत्, व्यक्तमेव । तथाहि—प्रधानेन हेतुमती बुद्धिः, अहङ्कारो बुद्ध्या हेतुमान्, पञ्चतन्मात्राण्येकादशेन्द्रियाण्यहङ्कारेण हेतुमन्ति, भूतानि तन्मात्रैः । नत्वेवमव्यक्तम् । तस्य कुतश्चिदप्यनुत्पत्तेः । तथा व्यक्तमनित्यम्, उत्पत्तिधर्मकत्वात् । नत्वेवमव्यक्तम्, तस्यानुत्पत्तिमत्त्वात् । यथा च प्रधानपुरुषौ दिवि भुवि चान्तरिक्षे च सर्वत्र व्यापितया वर्त्तेते न तथा व्यक्तं वर्त्तते, किन्तु तदव्यापि । यथा च संसारकाले त्रयोदशविधेन बुद्ध्यहङ्कारेन्द्रियलक्षणेन शरीरेण करणेन संयुक्तं सूक्ष्मशरीराश्रितं व्यक्तं संसरति नत्वेवमव्यक्तम्, तस्य विभुत्वेन सक्रियत्वायोगात् । बुद्ध्यहङ्कारादिभेदेन चानेकविधं व्यक्तमुपलभ्यते, नाव्यक्तम्, तस्यैकस्यैव सतो लोकत्रय कारणत्वात् । आश्रितं च व्यक्तम्, यद्यस्मादुत्पद्यते तस्य तदाश्रितत्वात् । नत्वेवमव्यक्तम्, तस्याकार्यत्वात्, लिङ्गं च व्यक्तम्, लयं गच्छतीति कृत्वा । तथाहि—प्रलयकाले भूतानि तन्मात्रेषु लीयन्ते, तन्मात्राणीन्द्रियाणि चाहङ्कारे, अहङ्कारो बुद्धौ, बुद्धिश्च प्रधाने, न त्वेवमव्यक्तं क्वचिदपि लयं गच्छति; तस्याविद्यमानकारणत्वात् । सावयवं च व्यक्तम्, शब्दस्पर्शरसरूपगन्धात्मकैरवयवैर्युक्तत्वात् । नत्वेवमव्यक्तम्, प्रधानात्मनि शब्दादीनामनुपलब्धेः । किञ्च—यथा पितरि जीवति पुत्रो न स्वतन्त्रो भवति तथा व्यक्तं सर्वदा कारणायत्तत्वात्परतन्त्रम्, नत्वेवमव्यक्तम्, तस्य नित्यमकारणाधीनत्वात् । तदेतत्सर्वमाशङ्क्याह—“भावत”इति । भावतः—परमार्थतः,ताद्रूप्यम् । प्रकृतिविकारभेदेन तु परिणामविशेषाद्भेदो यथोक्तो न विरुध्यत इत्यर्थः । अथवा—“भावत” इति । स्वभावतस्त्रैगुण्यरूपेण तद्रूपा एव प्रवर्त्तन्ते । सत्वरजस्तमसां तूत्कटानुत्कटत्वविशेषात्सर्गवैचित्र्यं महदादिभेदेनाविरुद्धमेवेत्यर्थः । तदनेन कारणात्मनि कार्यमस्तीति प्रतिज्ञातं भवति ॥ ७ ॥

तत्र कथमवगम्यते प्रागुत्पत्तेः सत्कार्यमित्याह—“यदी”त्यादि—

यदि त्वसद्भवेत्कार्यं कारणात्मनि शक्तितः ।
कर्तुं तन्नैव शक्येत नैरुप्याद्वियदब्जवत् ॥ ८ ॥

सत्कार्यत्वप्रसिद्धये परैः पञ्च हेतव उक्ताः—असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात्करणभावाच्च सत्कार्यम् इति तत्र प्रथमहेतुसमर्थनार्थमिदमुच्यते । यदि त्वसद्भवेत्कार्यमित्यादि । यदि हि कारणात्मनि प्रागुत्पत्तेः कार्यं नाभविष्यत्तदा तन्न केनचिदकरिष्यत यथा गगननलिनम् । प्रयोगः— यदसत्तन्न केनचित्क्रियते । यथा गगनाम्भोरुहम् । असच्च प्रागुत्पत्तेः परमते न कार्यमिति व्यापकविरुद्धोपलब्धिप्रसङ्गः । न चैवं भवति । तस्माद्यत्क्रियते तिलादिभिस्तैलादिकार्यं तत्तस्मात्प्रागपि सदिति सिद्धम् । “शक्तित” इति । शक्तिरूपेण; व्यक्तिरूपेण तु कापिलैरपि प्राक् सत्वस्यानिष्टत्वात् । “नैरुप्या”दिति । निःस्वभावत्वात् ॥ ८ ॥

द्वितीयहेतुसमर्थनार्थमाह—“कस्माच्चे”त्यादि—

कस्माच्च नियतान्येव शालिबीजादिभेदतः ।
उपादानानि गृह्णन्ति तुल्यसत्वेऽपरं न तु ॥ ९ ॥

यदि त्वसद्भवेत्कार्यं तदा पुरुषाणां प्रतिनियतोपादानग्रहणं न स्यात् । तथाहि— शालिफलार्थिनः शालिबीजमेवोपाददते न कोद्रवबीजम् । तथा श्वो मे ब्राह्मणा भोक्तार इति दध्यर्थिनः क्षीरमुपाददते न सलिलम् । तत्र यथा शालिबीजादिषु शाल्यादीनामसत्वं तथा कोद्रवबीजादिष्वपीति, तत्किमिति तुल्येऽपि सर्वत्र शालिफलादीनामसत्वे प्रतिनियतान्येव शालिबीजादीन्युपादीयन्ते । यावता कोद्रवादयोऽपि शालिफलार्थिभिरुपादीयेरन्, असत्वाविशेषात् । अथ तत्फलशून्यत्वात्तैस्तैर्नोपादीयन्ते । यद्येवं शालिबीजमपि शालिफलार्थिना नोपादेयं स्यात्तत्फलशून्यत्वात् । कोद्रवबीजवत् न चैवं भवति । तस्मात्तत्र तत्कार्यमस्तीति गम्यते ॥ ९ ॥

तृतीयहेतुसमर्थनार्थमाह—“सर्वं” चेत्यादि—

सर्वं च सर्वतो भावाद्भवेदुत्पत्तिधर्मकं ।
तादात्म्यविगमस्येह सर्वस्मिन्नविशेषतः ॥ १० ॥

यदि चासदेव कार्यमुत्पद्यत इति भवतां मतम्, तस्मात्सर्वस्मात्पदार्थात्तृणपांसुलोष्टादिकात्सर्वं सुवर्णरजतादि कार्यमुत्पद्येत । कस्मात् ? तादात्म्यविगमस्य सर्वस्मिन्नविशिष्टत्वात् । विवक्षिततृणादिभावात्मताविरहस्य सर्वस्मिन्नुत्पत्तिमति भावे निर्विशिष्टत्वादित्यर्थः । पूर्वं कारणमुखेन प्रसङ्ग उक्तः, सम्प्रति तु कार्यद्वारेणेति विशेषः । न च सर्वं सर्वतो भवति । तस्मादयं नियमस्तत्रैव तस्य सम्भवादिति गम्यते ॥ १० ॥

स्यादेतत्कारणानां प्रतिनियतेष्वेव कार्येषु शक्तयः प्रतिनियताः, तेन कार्यस्यासत्वेऽपि किञ्चिदेव कार्यं क्रियते न गगनाम्भोरुहम्, किञ्चिदेवोपादानमुपादीयते । यदेव समर्थम्, नतु यत्किञ्चित्, किञ्चिदेव तु कुतश्चिद्भवति नतु सर्वं सर्वत इत्येतच्चोद्यमुत्थाप्योत्तराभिधानव्याजेन चतुर्थहेतुसमर्थनार्थमाह—“शक्तीना”मित्यादि ।

शक्तीनां नियमादेषां नैवमित्यप्यनुत्तरं ।
शक्यमेव यतः कार्यं शक्ताः कुर्वन्ति हेतवः ॥ ११ ॥

“एषा”मिति । कारणाभिमतानां भावानाम् । “नैव”मिति । यथोक्तं दूषणं न भवतीत्यर्थः । तदेतदनुत्तरं बौद्धादेः । कस्मात् ? यस्माच्छक्ता अपि हेतवः कार्यं कुर्वाणाः शक्यक्रियमेव कुर्वन्ति, नाशक्यम् ॥ ११ ॥

ननु केनैतदुक्तमशक्यं कुर्वन्तीति, येनैतत्प्रतिषिध्यते भवताः किन्त्वसदपि कार्यं कुर्वन्तीत्येतावदुच्यते । तच्च तेषां शक्यक्रियमेवेत्यत आह—“अकार्यातिशय”मित्यादि ।

अकार्यातिशयं यत्तु नीरूपमविकारि च ।
विकृतावात्महान्याप्तेस्तत्क्रियेत कथं नु तैः ॥ १२ ॥

एवं मन्यते । असत्कार्यकारित्वाभ्युपगमादेवाशक्यक्रियं कुर्वन्तीत्युक्तं भवति । तथाहि—यदसत् तन्नीरूपं निःस्वभावम्, यच्च नीरूपं तच्छशविषाणादिवदकार्यातिशयम्—अनाधेयातिशयम्, यच्च नाधेयातिशयं तदाकाशवदविकारि । तत्तथाभूतमसमासादितविशेषरूपं कथं केनचिच्छक्यते कर्तुम् । अथापि स्यात्सदवस्थाप्रतिपत्तेर्विक्रियत एव तदित्यत आह—“विकृतावात्महान्याप्ते”रिति । यस्माद्विकृताविष्यमाणायां यस्तस्यात्मा स्वभावो नीरूपाख्यो वर्ण्यते, तस्य हानिः प्राप्नोति । नह्यसतः स्वभावापरित्यागे सति तद्रूपतापत्तिर्युक्ता । परित्यागे वा न तर्हि असदेव सद्रूपतां प्रतिपन्नमिति सिद्ध्येत् । अन्यदेव हि सद्रूपमन्यच्चासद्रूपम्; परस्परपरिहारेण तयोरवस्थितत्वात् । तस्माद्यदसत्तदशक्यक्रियमेव । तथाभूतपदार्थकारित्वाभ्युपगमे हि कारणानामशक्यकारित्वमेवाभ्युपगतं स्यात् । न चाशक्यं केनचित्क्रियते यथा गगनाम्भोरुहम् । अतः शक्तिप्रतिनियमादित्यनुत्तरमेतत् ॥ १२ ॥

पञ्चमहेतुसमर्थनार्थमाह—“कार्यस्यैव”मित्यादि ।

कार्यस्यैवमयोगाच्च किङ्कुर्वत्कारणं भवेत् ।
ततः कारणभावोऽपि बीजादेर्न विकल्पते ॥ १३ ॥

एवम्—अनन्तरोक्तया नीत्या । यद्वा—यथोक्ताद्धेतुचतुष्टयात् । असत्कार्यवादे सर्वथापि कार्यस्यायोगात्, किङ्कुर्वद्बीजादि कारणं भवेत् । ततश्चैवं शक्यते वक्तुम् । न कारणं बीजादिरविद्यमानकार्यत्वाद्गगनाब्जवदिति । न चैवं भवति । तस्माद्विपर्यय इति सिद्धं प्रागुत्पत्तेः सत्कार्यमिति ॥ १३ ॥

स्यादेतद्यद्यपि नाम सत्कार्यमित्येवं सिद्धम् । प्रधानादेवैते कार्यभेदाः प्रवर्त्तन्ते इत्येतत्तु कथं सिद्ध्यतीत्याह—“सुखाद्यन्वित”मित्यादि ।

सुखाद्यन्वितमेतच्च व्यक्तं व्यक्तं समीक्ष्यते ।
प्रसादतापदैन्यादिकार्यस्येहोपलब्धितः ॥ १४ ॥

तत्र प्रधानास्तित्वसाधने पञ्चामी वीतप्रयोगाः परैरुक्ताः । यथोक्तम्—भेदानां परिमाणात्समन्वयात् शक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य । कारणमस्त्यव्यक्तम् । इति । अयमर्थः । अस्ति प्रधानम्, भेदानां परिमाणात् । इह लोके यस्य कर्त्ता भवति तस्य परिमाणं दृष्टम् । यथा कुलालः परिमितान्मृत्पिण्डात्परिमितं घटं करोति प्रस्थग्राहिणमाढकग्राहिणम् । इदं च महदादि व्यक्तं परिमितं दृष्टम्, एका बुद्धिरेकोऽहङ्कार; पञ्च तन्मात्राण्येकादशेन्द्रियाणि पञ्चभूतानि (इति) । अतोऽनुमानेन साधयामोऽस्ति प्रधानं यत्परिमितं व्यक्तमुत्पादयतीति । यदि प्रधानं न स्यान्निष्परिमाणमिदं व्यक्तं स्यात् । इतश्चास्ति प्रधानम्, भेदानामन्वयदर्शनात् । यज्जातिसमन्वितं हि यदुपलभ्यते, तत्तन्मयकारणसम्भूतम् । यथा घटशरावादयो भेदा मृज्जात्यन्वितास्ते मृदात्मककारणसम्भूताः । सुखदुःखमोहादिजातिसमन्वितं चेदं व्यक्तमुपलभ्यते । कुतः ? प्रसादतापदैन्यादिकार्योपलब्धेः । तथाहि—प्रसादलाघवाभिष्वङ्गोद्धर्षप्रीतयः सत्वस्य कार्यम् । सुखमिति च सत्वमेवोच्यते । तापशोषभेदस्तम्भोद्वेगापद्वेगा रजसः कार्यम् । रजश्च दुःखम् । दैन्यावरणसादनाध्वंसबीभत्सगौरवाणि तमसः कार्यम् । तमश्च मोहशब्देनोच्यते । एषां च महदादीनां प्रसादतापदैन्यादिकार्यमुपलभ्यते । तस्मात्सुखदुःखमोहानां त्रयाणामेते सन्निवेशविशेषा इत्यव (नु ?)मीयते । तेन सिद्धमेषां प्रसादादिकार्यतः सुखाद्यन्वितत्वम्,तदन्वयाच्च तन्मयप्रकृतिसम्भूतत्वं सिद्धम्, तत्सिद्धौ च सामर्थ्याद्याऽसौ प्रकृतिस्तत्प्रधानमिति सिद्धमस्ति प्रधानं भेदानामन्वयदर्शनादिति । इतश्चास्ति प्रधानम्,शक्तितः प्रवृत्तेः । इह लोके यो यस्मिन्नर्थे प्रवर्त्तते स तत्र शक्तो यथा तन्तुवायः पटकरणे । अतः साधयामः । प्रधानस्यास्ति शक्तिर्यया व्यक्तमुत्पादयतीति । सा च शक्तिर्निराश्रया न सम्भवति । तस्मादस्ति प्रधानं यत्र शक्तिर्वर्त्तत इति । इतश्चास्ति प्रधानम्, कारणकार्यविभागात् । इह लोके कार्यकारणयोर्विभागो दृष्टः, तथाहि— मृत्पिण्डः कारणं घटः कार्यं सच मृत्पिण्डाद्विभक्तस्वभावः, तथाहि—घटो मधूदकपयसां धारणसमर्थो, न मृत्पिण्डः । एवमिदं महदादिकार्यं दृष्ट्वा साधयामोऽस्ति प्रधानं यस्मान्महदादिकार्यमुत्पन्नमिति । इतश्चास्ति प्रधानम्, वैश्वरूप्यस्याविभागात् । वैश्वरूप्यमिति त्रयो लोका उच्यन्ते । एते हि प्रलयकाले क्वचिदविभागं गच्छन्ति । तथाहि—पञ्चभूतानि पञ्चसु तन्मात्रेष्वविभागं गच्छन्ति, तन्मात्राणि पञ्चेन्द्रियाणि चाहङ्कारे, अहङ्कारो बुद्धौ, बुद्धिः प्रधाने, तदेवं प्रलयकाले त्रयो लोका अविभागं गच्छन्ति । अविभागो नाम अविवेकः, यथा क्षीरावस्थायामन्यत्क्षीरमन्यद्दधीति विवेको न शक्यते कर्तुं तद्वत्प्रलयकाले इदं व्यक्तमिदमव्यक्तमिति विवेको न शक्यते कर्तुम् । अतो मन्यामहेऽस्ति प्रधानं यत्र महदादिलिङ्गविभागं गच्छतीति । तदत्राचार्येण समन्वयादित्ययमेव हेतुरुक्तः परिशिष्टानामुपलक्षणार्थः । तत्र सुखादीत्यादिशब्देन दुःखमोहयोर्ग्रहणम् । व्यक्तमिति महदादिभूतपर्यन्तम् । “व्यक्तं समीक्ष्यत” इति । स्पष्टमुपलभ्यत इत्यर्थः । कथमित्याह—“प्रसादे”त्यादि । आदिशब्दःप्रत्येकमभिसम्बध्यते । एतच्चास्माभिः पूर्वमेव व्याख्यातम् ॥ १४ ॥

एवं समन्वयादित्यस्य हेतोः सिद्धिमुपदर्श्य प्रमाणं रचयन्नाह—“तत” इत्यादि ।

ततस्तन्मयसम्भूतं तज्जात्यन्वयदर्शनात् ।
कुटादिभेदवत्तच्च प्रधानमिति कापिलाः ॥ १५ ॥

“तन्मयसम्भूत”मिति । सुखादिमयं यत्कारणं तस्मात्सम्भूतमित्यर्थः । अयं च साध्यनिर्देशः । तज्जात्यन्वयदर्शनादिति हेतुः । तया त्रैगुण्यलक्षणया जात्या अनुगतत्वदर्शनादित्यर्थः । “कुटादिभेदव”दिति । घटादिभेदवत् । यच्च तन्मयं कारणं तत्प्रधानमिति कापिलाः—साङ्ख्या वर्णयन्ति ॥ १५ ॥

“तदत्रे”त्यादिना प्रतिविधानमारभते—

तदत्र सुधियः प्राहुस्तुल्या सत्वेऽपि चोदना ।
यत्तस्यामुत्तरं वः स्यात्तत्तुल्यं सुधियामपि ॥ १६ ॥

तत्र यत्तावदुक्तं प्रधानादेरमी कार्यभेदास्तद्रूपा एव प्रवर्त्तन्त इति तत्रेदं निरूप्यते । यद्यमी कार्यभेदाः प्रधानस्वभावा एव तत्कथमेषां ततः कार्यतया प्रवृत्तिर्भवति । नहि यद्यस्मादव्यतिरिक्तं तत्तस्य कारणं कार्यं वा युक्तम्, भिन्नलक्षणत्वात्कार्यकारणयोः । अन्यथा हीदं कार्यमिदं कारणं वेत्यसङ्कीर्णव्यवस्था कथं भवेत् । ततश्च यद्भवद्भिर्मूलप्रकृतेः कारणत्वमेव, भूतेन्द्रियलक्षणस्य षोडशकस्य गणस्य कार्यत्वमेव,बुद्ध्यहङ्कारतन्मात्राणां च पूर्वोत्तरापेक्षया कार्यत्वं कारणत्वं चेति व्यवस्थानं कृतं तन्न स्यात् । यथोक्तम्— मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ इति । सर्वेषामेव हि परस्पराव्यतिरेकात्कार्यत्वं कारणत्वं वा प्रसज्येत । यद्वाऽऽपेक्षिकत्वात्कार्यकारणभावस्य रूपान्तरस्यचापेक्षणीयस्याभावात्सर्वेषां पुरुषवन्न प्रकृतित्वं नापि विकृतित्वं स्यात् । अन्यथा पुरुषस्यापि प्रकृतिविकारव्यपदेशः स्यात् । आह च— यदेव दधि तत्क्षीरं यत्क्षीरं तद्दधीति च । वदता रुद्रिलेनैव ख्यापिता विन्ध्यवासिता इति । “यच्चेदं” हेतुमत्त्वादि धर्मयोगि व्यक्तं विपरीतमव्यक्तमिति वर्णितं “तदपि” बालप्रलपितमेव । नहि यद्यस्मादभिन्नस्वभावं तत्तद्विपरीतं युक्तम्, रूपान्तरत्वलक्षणत्वाद्वैपरीत्यस्य । अन्यथा भेदव्यवहारोच्छेद एव स्यात् । ततश्च सत्वरजस्तमसां चैतन्यानां च परस्परं भेदाभ्युपगमोनिर्निबन्धन एव स्यात् । सर्वमेव च विश्वमेकरूपं स्यात् । ततश्च सहोत्पत्तिविनाशप्रसङ्गः, एकयोगक्षेमलक्षणत्वादभेदव्यवस्थानस्य, तस्माद्व्यक्तरूपाव्यतिरिक्तत्वादव्यक्तमपि हेतुमत्त्वादिधर्मयोगि प्राप्नोति व्यक्तस्वरूपवत्, व्यक्तं वा हेतुमत्त्वादिधर्मयुक्तं स्यादव्यक्तरूपाव्यतिरेकात्तत्स्वरूपवदित्येकान्त एव । अन्यथाऽतिप्रसङ्गः स्यात् । किञ्चान्वयव्यतिरेकनिश्चयसमधिगम्यो लोके कार्यकारणभावः प्रसिद्धः । नच प्रधानादिभ्यो महदाद्युत्पत्तिव्यवहारः । नचापि नित्यस्य कारणभावोऽस्ति । येन प्रधानात्कार्यभेदानामुत्पत्तिः सिद्ध्येत् । नित्यस्य क्रमाक्रमाभ्यामर्थक्रियाविरोधात् । “स्यादे”तत्—नास्माभिरपूर्वस्वभावोत्पत्त्या कार्यकारणभावोऽभीष्टो येन स्वरूपाभेदे सति सविरुध्यते यावता प्रधानं सर्पकुण्डलादिवन्महदादिरूपेण परिणामं गच्छत्तेषां महदादीनां कारणमिति व्यपदिश्यते, ते च महदादयस्तत्परिणामरूपत्वात्तत्कार्यतयाव्यपदिश्यन्ते । परिणामश्चैकवस्त्वधिष्ठानत्वादभेदेऽपि न विरुध्यत इति । “तदेत”दसम्यक् । परिणामासिद्धेः । तथाहि परिणामो भवेत्पूर्वरूपपरित्यागाद्वा, भवेदपरित्यागाद्वा । यद्यपरित्यागात्तदाऽवस्थासाङ्कर्यं स्यात्, बृहत्त्वाद्यवस्थायामपि युवत्वाद्यवस्थोपलब्धिप्रसङ्गात् । अथ परित्यागात्तदा स्वभावहानिप्रसङ्गः, ततश्च पूर्वकं स्वभावान्तरं निरुद्धमपूर्वं स्वभावान्तरमुत्पन्नमिति न कस्यचित्परिणामः सिद्ध्येत् । “किञ्च” तस्यैवान्यथाभावलक्षणः परिणामो वर्ण्यते, तच्चान्यथात्वमेकदेशेन वा भवेत्, सर्वात्मना वा । न तावदेकदेशेन, एकस्यैकदेशासम्भवात् । नापि सर्वात्मना, तदर्थान्तरोत्पादे पूर्वविनाशप्रसङ्गात् । तस्मान्न तस्यैवान्यथात्वं युक्तम्, स्वभावान्तरोत्पादनिबन्धनत्वात्तस्येति । “अथापि” स्याद्व्यवस्थितस्य धर्मिणो धर्मान्तरनिवृत्त्या धर्मान्तरप्रादुर्भावः परिणामो वर्ण्यते नतु स्वभावस्यान्यथात्वादिति । “तदेतदसम्यक्” । तथाहि—सप्रवर्त्तमानो निवर्त्तमानश्च धर्मो धर्मिणोऽर्थान्तरभूतो वा स्यादनर्थान्तरभूतो वा । यद्यर्थान्तरभूतस्तदा धर्मी तदवस्थ एवेति कथमसौ परिणतो नाम । नह्यर्थान्तरभूतयोः पटाश्वयोरुत्पादविनाशे सत्यविचलितात्मस्वरूपस्य घटादेः परिणामो भवत्यतिप्रसङ्गात् । एवं हि पुरुषोऽपि परिणामी स्यात् । तत्सम्बद्धयोर्धर्मयोरुत्पादवि नाशात्तस्य परिणामो व्यवस्थाप्यते नान्यस्येति चेन्न । सदसतोः सम्बन्धाभावेन तत्सम्बन्धित्वासिद्धेः । तथाहि—सम्बन्धो भवेत्सतो वा, भवेदसतो वा । न तावत्सतस्तस्य, समधिगताशेषस्वभावसम्पत्तेरनपेक्षतया क्वचिदपि पारतन्त्र्यायोगात् । नाप्यसतस्तस्य, सर्वोपाख्याविरहलक्षणतया क्वचिदप्याश्रितत्वानुपपत्तेः । नहि शशविषाणादिः क्वचिदाश्रितो युक्तः । न चापि व्यतिरिक्तधर्मान्तरोत्पादविनाशे सति परिणामो व्यवस्थाप्यते भवद्भिः । किं तर्हि ? यत्रात्मभूतैकस्वभावानुवृत्तिरवस्थाभेदश्च तत्रभवतां परिणामव्यवस्था । नच धर्मिणः सकाशाद्धर्मयोर्व्यतिरेके सति एकस्वभावानुवृत्तिरस्ति । धर्म्येव हि तयोरेक आत्मा स च व्यतिरिक्त इति नात्मभूतैकस्वभावानुवृत्तिः । नचापि प्रवर्त्तमाननिवर्त्तमानधर्मद्वयव्यतिरिक्तो धर्म उपलब्धिलक्षणप्राप्तो दर्शनपथमवतरति कस्यचिदित्यतः स तादृशोऽसद्व्यवहारविषय एव विदुषाम् । अथानर्थान्तरभूत इति पक्षस्तथाप्येकस्माद्धर्मिस्वरूपादव्यतिरिक्तत्वाद्विनाशोत्पादवतोर्द्धर्मयोरपि धर्मिस्वरूपवदेकत्वमेवेति केनाश्रयेण धर्मी परिणतः स्याद्धर्मो वा । अवस्थातुश्च धर्मिणः सकाशादव्यतिरेकाद्धर्मयोरवस्थातृस्वरूपवन्न निवृत्तिर्नापि प्रादुर्भावः । धर्माभ्यां च धर्मिणोऽनन्यत्वान्द्धर्मस्वरूपवदपूर्वस्योत्पादः पूर्वस्य च विनाश इति नैकस्य कस्यचित्परिणामः सिद्ध्यति । तस्मान्न परिणामवशादपि भवतां कार्यकारणव्यवहारो युक्त इति । एतच्च स्पष्टमेव दूषणमिति कृत्वा तदुपेक्ष्य यश्चायमसत्कार्यवादे दोषः परैरुक्तस्तं पश्चात्प्रतिविधास्याम इति मन्यमानस्तुल्यदोषापादनव्याजेन सत्कार्यवादमेव तावद्दूषयते—“तद”त्रेत्यादि । “सुधिय” इति सौगतास्ते प्राहुः । येयमसदकरणादित्यादिना पञ्चधा चोदना कृता सा सत्वेऽपि सत्कार्यवादपक्षेऽपि तुल्या । तथाहि—शक्यमिदमित्थमभिधातुम् । “न सदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्य”मिति । न सत्कार्यमिति व्यवहितेन सम्बन्धः । कस्मात् ? सदक रणादुपादानग्रहणादित्यादेर्हेतोः । यश्चोभयोर्दोषो न तमेकश्चोद्यो युक्त (श्चोदयेदिति ?) भावः । “ननु” च कथमियं समता भवति । यावता तत्रासदकरणादित्येवं चोदना, अन्यत्र सदकरणादिति । “न” । अभिप्रायापरिज्ञानात् । अकरणनियतोपादानपरिग्रहादिमात्रविवक्षया हीदमुक्तम् । सत्कार्यवादेप्यकरणादीनां तुल्यत्वात् । तस्यां च चोदनायां यदुत्तरं भवतां सत्कार्यवादिनां तदसत्कार्यवादिनां सुधियां बौद्धानां भविष्यति ॥ १६ ॥

कथमसौ तुल्येत्याह—“यदी”त्यादि ।

यदि दध्यादयः सन्ति दुग्धाद्यात्मसु सर्वथा ।
तेषां सतां किमुत्पाद्यं हेत्वादिसदृशात्मनाम् ॥ १७ ॥

सदकरणादित्येतत्समर्थनार्थमिदम् । यदि दुग्धाद्यात्मसु क्षीरादीनां स्वभावेषु दध्यादिलक्षणानि कार्याणि सर्वथा सर्वात्मना विशिष्टरसवीर्यविपाकादिना विभक्तेनरूपेण मध्यावस्थावत्सन्ति, तदा तेषां सतां किमुत्पाद्यं रूपमस्ति, येन ते कारणैर्दुग्धादिभिर्जन्याः स्युः । हेत्वादिसदृश आत्मा येषामिति विग्रहः । हेतुः—प्रकृतिः, आदिशब्देन चैतन्यम्, तेषां च मध्यावस्थाभाव्यपुनर्जन्यं निष्पन्नं रूपं गृह्यते । एतेन कार्यकारणभाव(भङ्ग)प्रसङ्गसाधनं प्रमाणद्वयं सूचितम् ॥ १७ ॥

साम्प्रतं स्फुटमेव प्रमाणयन्नाह—“हेतुजन्य”मित्यादि ।

हेतुजन्यं न तत्कार्यं सत्तातो हेतुवित्तिवत् ।
अतो नाभिमतो हेतुरसाध्यत्वात्परात्मवत् ॥ १८ ॥

हेतुः—प्रधानं लोकप्रसिद्धं च क्षीरादि । “तत्कार्य”मिति । महदादि लोकप्रसिद्धं च दध्यादि । “सत्तात” इति । सत्वात् । “हेतुवित्ति”वदिति । हेतुः—प्रधानं लोकप्रसिद्धं च क्षीरादि । वित्तिः—चैतन्यम् । ताभ्यां तुल्यं वर्तत इति हेतुवित्तिवत् । प्रयोगः— यत्सर्वाकारेण सन्न तत्केनचिज्जन्यम्, यथा प्रकृतिश्चैतन्यं वा । सदेव च कार्यं मध्यावस्थायाम् । सच्च सर्वात्मना परमतेन दध्यादीति व्यापकविरुद्धोपलब्धिप्रसङ्गः । न वाऽनैकान्तिकताहेतोः । अनुत्पाद्यातिशयस्यापि जन्यत्वे सर्वेषां जन्यत्वप्रसङ्गोऽनवस्थाप्रसङ्गश्च बाधकं प्रमाणम् । जनितस्यापि पुनर्जन्यत्वप्रसङ्गात् । एवं तावत्कार्यत्वाभिमतानामकार्यत्वप्रसङ्गापादनं कृतम् । इदानीं कारणाभिमतानामकारणत्वप्रसङ्गापादनं कुर्वन्नाह—“अतो नाभिमत” इत्यादि । अभिमतः—पदार्थ इति शेषः । तेनायमर्थो भवति । मूलप्रकृत्यादिर्बीजदुग्धादिश्चाभिमतः पदार्थो विवक्षितस्य महदादेर्दध्यादेश्च न हेतुः—जनकव्यवहारयोग्यो न प्राप्नोतीत्यर्थः । कस्मात् ? असाध्यत्वात्—नास्य साध्यमस्तीत्यसाध्यस्तद्भावस्तत्वम् । एतच्चानन्तरोक्तात्कार्यत्वप्रतिषेधात्सिद्धम् । अतएवात इत्युक्तम् । “परात्मव”दिति । अन्यस्वभाववत् । अकारणाभिमतपदार्थस्वभाववदित्यर्थः । अकारणाभिमतश्च पदार्थश्चैतन्यम् । न प्रकृतिर्न विकृतिः पुरुष इति वचनात् । प्रयोगः—यदविद्यमानसाध्यं न तत्कारणं यथा चैतन्यम् । अविद्यमानसाध्यश्चाभिमतः पदार्थ इति व्यापकानुपलब्धिः । एतच्च द्वयमपि प्रसङ्गसाधनमतो नोभयसिद्धोदाहरणेन किञ्चित् । यस्तु मन्यते साङ्ख्यः पुरुषस्यापिप्रतिबिम्बोदयन्यायेन भोगं प्रति कर्तृत्वमस्तीति । तं प्रत्येवं व्याख्या । परश्चासावात्मा च—मुक्त इत्यर्थः । तस्य हि मुक्तत्वाद्भोगं प्रत्यपि कर्तृत्वं नास्तीति नोदाहरणासिद्धिः ॥ १८ ॥

“अथेत्या”दिना परमते हेत्वोरसिद्धिमाशङ्कते ।

अथास्त्यतिशयः कश्चिदभिव्यक्त्यादिलक्षणः ।
यं हेतवः प्रकुर्वाणा न यान्ति वचनीयताम् ॥ १९ ॥

तत्र यदि प्रथमो हेतुः सर्वात्मनाऽभिव्यक्त्यादिरूपेणापि सत्वादिति सविशेषणः क्रियते, तदा न सिद्ध्यति । नह्यस्माभिरभिव्यक्त्यादिरूपेणापि सत्वमिष्यते कार्यस्य । किं तर्हि ? । शक्तिरूपेण । अथ सामान्येन निर्विशेषणस्तदाऽनैकान्तिकः, यस्मादभिव्यक्त्यादिलक्षणस्यातिशयस्योत्पद्यमानत्वात्, न सर्वस्य कार्यत्वप्रसङ्गो भविष्यति । अतएव द्वितीयोऽपि हेतुरसिद्धः, साध्यस्य विद्यमानत्वात् । “अभिव्यक्त्यादिलक्षण” इति । आदिशब्देनोद्रेकाद्यवस्थाविशेषपरिग्रहः । “य”मिति—अतिशयम् । “वचनीयता”मिति—वाच्यताम् । नाभिमतो हेतुरसाध्यत्वादित्यादिर्दोषो न भवतीति यावत् ॥ १९ ॥

“प्रागासी”दित्यादिना प्रतिविधत्ते—

प्रागासीद्यद्यसावेवं न किञ्चिद्दत्तमुत्तरं ।
नो चेत्सोऽसत्कथं तेभ्यः प्रादुर्भावं समश्नुते ॥ २० ॥

तत्र विकल्पद्वयम्, कदाचिदसावतिशयोऽभिव्यक्त्याद्यवस्थातः प्राक् प्रकृत्यवस्थायामप्यासीद्वा न वा, यद्यासीत्तदा भवद्भिर्द्वयोरपि हेत्वोर्न किञ्चिदसिद्धत्वादिकमुक्तमुत्तरम्, नो चेत्प्रागासीदेवमपि सोऽतिशयः कथं तेभ्यो हेतुभ्यः प्रादुर्भावमश्नुवीत,असदकारणादिति भवतां न्यायान्न युक्तमेतदित्यभिप्रायः ॥ २० ॥

एवं तावत्सदकरणादित्ययं हेतुः समर्थितः । साम्प्रतमुपादानपरिग्रहादित्यादिहेतुचतुष्टयसमर्थनार्थमाह—“नातः साध्य”मित्यादि ।

नातः साध्यं समस्तीति नोपादानपरिग्रहः ।
नियतादपि नो जन्म न च शक्तिर्न च क्रिया ॥ २१ ॥

यथोक्तया नीत्या साध्यस्याभावादुपादानपरिग्रहो न प्राप्नोति, तत्साध्यफलवाञ्छ यैव तेषां प्रेक्षावद्भिः परिग्रहात् । नियतादेव क्षीरादेर्दध्यादीनां जन्मेत्येतदपि न प्राप्नोति, साध्यस्यासम्भवादेव । एतच्च सर्वसम्भवाभावादित्येतस्य समर्थनम् । तथाहि—सर्वस्मात्सम्भवाभाव एव नियताज्जन्मेत्युच्यते, तच्च सत्कार्यवादपक्षे साध्याभावान्न युज्यते । तथा शक्तस्येति शक्यकरणमित्येतदपि द्वयं न युज्यते । साध्यस्याभावादेव । यदि हि केनचित्किञ्चिदभिनिर्वर्त्येत तदा निर्वर्त्तकस्य शक्तिर्व्यवस्थाप्यते । निवर्त्त्यस्य च करणं सिध्येत् । नान्यथा । तद्दर्शयति “नच शक्तिर्नच क्रिये”ति ॥ २१ ॥

कारणभावोऽपि पदार्थानां न युक्तः, साध्यभावादेव । तद्दर्शयति—“सर्वात्मने”त्यादि ।

सर्वात्मना च निष्पत्तेर्न कार्यमिह किञ्चन ।
कारणव्यपदेशोऽपि तस्मान्नैवोपपद्यते ॥ २२ ॥

एतच्च कारणभावादित्येतस्य हेतोः समर्थनम् । नचैवं भवति, तस्मान्न सत्कार्यमिति सर्वहेतुषु प्रसङ्गप्रत्ययो योज्यः ॥ २२ ॥

भूयः प्रकारान्तरेण सत्कार्यवादं दूषयन्नाह—“सर्वं चे”त्यादि ।

सर्वं च साधनं वृत्तं विपर्यासनिवर्तकं ।
निश्चयोत्पादकं चेदं न तथा युक्तिसङ्गतम् ॥ २३ ॥

“वृत्त”मिति । प्रवृत्तम् । विपर्यासग्रहणेन संशयोऽपि गृह्यते, तस्योभयांशावलम्बेनारोपकत्वसम्भवात् । सर्वमेव हि साधनं स्वविषये प्रवृत्तं द्वयं करोति । प्रमेयार्थविषये प्रवृत्तौ संशयविपर्यासौ निवर्त्तयति, निश्चयं च तद्विषयमुत्पादयति । तदेतत्सत्कार्यवादे युक्त्या न सङ्गच्छते ॥ २३ ॥

कथमित्याह—“न सन्दे”हेत्यादि ।

न सन्देहविपर्यासौ निवर्त्त्यौ सर्वदा स्थितेः ।
नापि निश्चयजन्मास्ति तत एव वृथाऽखिलम् ॥ २४ ॥

तथाहि—सन्देहविपर्यासौ भवतां मतेन चैतन्यात्मकौ वा स्यातां बुद्धिमनःस्वभावौ वा । पक्षद्वयेऽपि न तयोर्निवृत्तिः सम्भवति । चैतन्यबुद्धिमनसां नित्यत्वेनतयोरपि नित्यत्वात् । नापि निश्चयोत्पत्तिः साधनात्सम्भवति । तत एव सर्वदा स्थितेः कारणात् । तस्माद्यदेतत्साधनमुक्तं भवता तदखिलं सर्वमेव वृथा । एतेन स्ववचनविरोध उद्भावितो भवति । तथाहि—निश्चयोत्पादनाय साधनं ब्रुवता नि श्चयस्यासत उत्पत्तिरङ्गीकृता भवेत् । सत्कार्यमिति च प्रतिज्ञया सा निषिद्धेति स्ववचनव्याघातः ॥ २४ ॥

अथाऽपि निश्चयोऽभूतस्समुत्पद्येत साधनात् ।
ननु तेनैव सर्वेऽमी भवेयुर्व्यभिचारिणः ॥ २५ ॥

अथ माभूत्साधनप्रयोगवैयर्थ्यमिति । निश्चयोऽभूतोऽसन्नेव साधनादुत्पद्यत इत्यङ्गीक्रियते । एवं तर्हि, असदकरणादित्यादेर्हेतुगणस्य समस्तस्यैवानैकान्तिकता प्राप्नोति, निश्चयवदसतोऽप्युत्पत्त्यविरोधात् । ततश्च यथा निश्चयस्यासतोऽपि करणं तन्निष्पत्तये च यथा विशिष्टसाधनपरिग्रहः, यथा च तस्य न सर्वस्मात्साधनाभासादेः सम्भवः, यथा चासावसन्नपि शक्तैर्हेतुभिः क्रियते, तत्रच यथा हेतूनां कारणभावोऽस्ति, तथाऽन्यत्रापि भविष्यति ॥ २५ ॥

अव्यक्तो व्यक्तिभाक्तेभ्य इति चेद्व्यक्तिरस्य का ।
न रूपातिशयोत्पत्तिरविभागादसङ्गतेः ॥ २६ ॥

अथापि स्याद्यद्यपि प्राक्साधनप्रयोगात्सन्नेव निश्चयः, तथापि न साधनवैयर्थ्यम्, यतः प्रागनभिव्यक्तोऽसौ पश्चात्तेभ्यः साधनेभ्योऽभिव्यक्तिमासादयति ।तस्मादभिव्यक्त्यर्थं साधनानि व्याप्रियन्त इति नानर्थक्यमेषामिति । तदेतदयुक्तम् ।व्यक्तेरसिद्धत्वात्तथाहि—व्यक्तिः स्वभावातिशयोत्पत्तिर्वा भवेत्, यद्वा तद्विषयं ज्ञानम्, तदुपलम्भावरणापगमो वा । तत्र न तावत्स्वभावातिशयोत्पत्तिः । तथाहि— असौ स्वभावातिशयो निश्चयस्वरूपादपृथग्भूतो वा, पृथग्भूतो वा । यद्यपृथग्भूतस्तदा तस्य निश्चयादविभागादपृथक्त्वान्निश्चयस्वरूपवत्सर्वदैवावस्थितेर्नोत्पत्तिर्युक्ता । अथ पृथग्भूतः, एवमपि तस्यासाविति सम्बन्धानुपपत्तिः । तथाहि—आधाराधेयलक्षणो वा सम्बन्धो भवेत्, जन्यजनकभावलक्षणो वा । न तावदाद्यः परस्परानुपकार्योपकारकयोस्तदसम्भवात् । उपकारे वा तस्याप्युपकारस्य व्यतिरेकित्वे सम्बन्धासिद्धेरनवस्थाप्रसङ्गात् । अव्यतिरेकित्वे च साधनप्रयोगवैयर्थ्यम्, निश्चयादेवोपकाराव्यतिरिक्तस्यातिशयस्योत्पत्तेः । अमूर्त्तत्वाच्चातिशयस्याधःप्रसर्पणासम्भवान्न तस्य कश्चिदाधारो युक्तः, अधोगतिप्रतिबन्धकत्वेनाधारस्य व्यवस्थानात् । नापि जन्यजनकभावलक्षणः, सर्वदैव निश्चयाख्यस्य कारणस्य सन्निहितत्वान्नित्यमतिशयोत्पत्तिप्रसङ्गात् । नच साधनप्रयोगापेक्षया निश्चयस्यातिशयोत्पादकत्वं युक्तम् । अनुपकारि ण्यपेक्षानुपपत्तेः । उपकारित्वे वा पूर्ववद्दोषोऽनवस्था च । अपिच योऽसावतिशयः पृथग्भूतः क्रियते स किमसन्नाहोस्वित्सन्निति विकल्पद्वयमत्राप्यवतरत्येव । तत्रासत्वेपूर्ववत्साधनानामनैकान्तिकतापत्तिः । सत्वे च साधनवैयर्थ्यम् । तत्राप्यभिव्यक्ताविष्यमाणायां केयमभिव्यक्तिरित्यनवस्थाप्रसङ्गो दुर्निर्वारः । तस्माद्व्यतिरेकपक्षेऽप्यसङ्गतेरसम्बन्धान्न रूपातिशयोत्पत्तिर्युज्यते ॥ २६ ॥

न तद्विषयसंवित्तिर्नोपलम्भावृतिक्षयः ।
नित्यत्वादुपलम्भस्य द्वितीयस्याप्यसम्भवात् ॥ २७ ॥

नापि तद्विषयज्ञानोत्पत्तिलक्षणाभिव्यक्तिर्युक्ता, नित्यत्वात्तद्विषयायाः संवित्तेः । तथाहि—याऽसौ तद्विषया संवित्तिः सा भवतः सत्कार्यवादिनो मतेन नित्यैवेति किं तस्या उत्पाद्यं ( उत्पाद्यत्वं ? ) स्यात् । द्वितीयस्योपलम्भस्यासम्भवाच्च न तद्विषयज्ञानोत्पत्तिलक्षणाभिव्यक्तिर्युक्ता । अपिशब्दः समुच्चये, भिन्नक्रमश्च, असम्भवादित्यस्यानन्तरं द्रष्टव्यः । तेनैतदुक्तं भवति । एकैव भवतां मतेन संवित्, आसर्गप्रलयादेका बुद्धिरिति सिद्धान्तात्, सैव च निश्चयः, तत्र कोऽपरस्तदुपलम्भोऽभिव्यक्त्याख्योऽस्ति, यः साधनैः क्रियेत । स्यादेतत्, न बुद्धिस्वभावा तद्विषयसंवित्तिः, किं तर्हि ? । मनःस्वभावेति । तदसम्यक्, बुद्धिरुपलब्धिरध्यवसायो मनःसंवित्तिरित्यादीनामनर्थान्तरत्वात् । एतच्च पश्चान्निवेदयिष्यते । नापि तद्विषयोपलम्भावरणक्षयलक्षणाभिव्यक्तिः, अतएव कारणद्वयात् । तथाहि—यत्तदुपलम्भावरणं तस्य नित्यत्वान्न क्षयः सम्भवति । नापि तिरोभावलक्षणः क्षयो युक्तः, अत्यक्तपूर्वरूपस्य तिरोभावासम्भवात् । द्वितीयस्य चोपलम्भस्यासम्भवान्नोपलम्भावरणमस्ति । नह्यसत आवरणं युक्तम्, वस्तुसद्विषयत्वात्तस्य । तस्मान्न तत्क्षयो युक्तः । अथवा—“नित्यत्वा”दिति तद्विषयायाः संवित्तेर्न्नित्यत्वान्नावरणं सम्भवति तदसम्भवान्न क्षयो युक्त इत्यर्थः । न चाप्यावरणक्षयः केनचित्क्रियते । तस्य निःस्वभावत्वात् । न केवलं सत्कार्यवादपक्षे साधनप्रयोगवैयर्थ्यम्, बन्धमोक्षाभावप्रसङ्गः सर्वलोकव्यवहारोच्छेदप्रसङ्गश्चानिवार्यः । तथाहि—प्रधानपुरुषयोः कैवल्योपलम्भलक्षणस्य तत्वज्ञानस्योत्पत्तौ सत्यां मोक्षो भवद्भिरिष्यते । तच्च तत्वज्ञानं सर्वदावस्थितमेवेति मुक्ताः सर्व एव देहिनः स्युः, अतो न बन्धः । मिथ्याज्ञानवशाच्च बन्ध इष्यते तस्य च सर्वदाऽवस्थितत्वेन सर्वदा सर्वेषां बद्धत्वात्कुतो मोक्षः, लोकश्च हिताहितप्राप्तिपरिहारार्थं प्र वर्त्तते । सत्कार्यवादपक्षे च न किञ्चिदप्राप्यमहेयं वास्तीति निरीहमेव जगत्स्यात्,अन्ततस्सर्वव्यवहारोच्छेदप्रसङ्गः ॥ २७ ॥

एवं तावत्सत्कार्यवादं निराकृत्यासत्कार्यवादपक्षभाविनो दोषान्परिहर्तुमाह—“त्रैगुण्यस्ये”त्यादि ।

त्रैगुण्यस्याविभेदेऽपि न सर्वं सर्वकारकम् ।
यद्वत्तद्वदसत्वेऽपि न सर्वं सर्वकारकम् ॥ २८ ॥

सत्कार्यनिषेधादेव सामर्थ्यादसत्कार्यमिति सिद्धमेव, सदसतोरन्योन्यपरिहारस्थितलक्षणत्वेन प्रकारान्तरासम्भवात् । तथाऽपि परोपन्यस्तस्य दूषणस्य दूषणाभासताप्रतिपादनायोच्यते । तत्र यत्तावदुक्तम् कर्तुं तन्नैव शक्येत नैरूप्या दिति, तदसिद्धम्, वस्तुस्वभावस्यैव क्रियमाणत्वाभ्युपगमात् । तस्य च वस्तुस्वभावस्य नीरूपत्वासिद्धेः । प्रागुत्पत्तेस्तन्निःस्वभावमेवेति चेन्न । तस्यैव निःस्वभावत्वायोगात् । नहि स्वभाव एव निःस्वभावो युक्तः, वस्तुस्वभावप्रतिषेधलक्षणत्वान्निःस्वभावत्वस्य । नचाप्युत्पादात्प्राक् तदस्ति । क्रियमाणं वस्तु येन तदेव निःस्वभावं सिद्ध्येत् । अथ वस्तुविरहलक्षणमेव नीरूपं धर्मिणं पक्षीकृत्य नैरूप्यादिति हेतुः क्रियते, तदा सिद्धसाध्यता । नहि वस्तुविरहः केनचित्क्रियमाणतयाऽभ्युपगतः । अपि च नैकान्तिकोऽपि हेतुः । विपक्षे बाधकप्रमाणानुपदर्शनात् । यतः कारणशक्तिप्रतिनियमात्किञ्चिदेवासत्क्रियते यस्योत्पादकं कारणमस्ति, यस्य तु वियदब्जादेर्नास्ति कारणं तन्न क्रियत इत्यनेकान्त एव । नहि सर्वं सर्वस्य कारणमिष्टम् । नापि यद्यदसत्तत्तत्क्रियत एवेतिव्याप्तिरिष्टा । किन्तर्हि ? । यक्रियते तत्प्रागुत्पत्तेरसदेवेति । स्यादेतत्तुल्येप्यसत्कारित्वे कारणानां किमिति सर्वं सर्वस्यासतः कारणं न भवतीति । तदेतद्भवतोऽपि समानं चोद्यम्, तुल्ये हि सत्कारित्वे किमिति सर्वं सर्वस्य सतः कारणं न भवतीति । नच भवतां मतेन किञ्चिदसदस्ति येन तन्न क्रियेत । कारणशक्तिप्रतिनियमात्सदपि शशविषाणादि न क्रियत इति चेत् । तदितरत्रापि समानम् । अपिच यथा भवतान्त्रैगुण्यस्य सर्वत्राविशेषेऽपि न सर्वं सर्वकारकं भवति, शक्तिप्रतिनियमात् । सर्वस्य कारकं सर्वं वा कारकमस्येति विग्रहः । तद्वदसत्वेपि कार्यस्यान्वयिनो वा कस्यचिद्रूपस्य न सर्वं सर्वकारकं भविष्यति । एतच्चाभ्युपगम्योक्तं “यद्वत्तद्व”दिति । न पुनः साम्यमिति । तथाहि—सत्यपि भेदे कस्यचित्कश्चिदेव हेतुर्भवति । स्वहेतुपरम्परास मायातत्वात्तथाभूतस्वभावभेदप्रतिनियमस्येत्यविरुद्धम् । अभेदे त्वेकस्यैकस्मिन्नेव काले हेतुत्वमहेतुत्वं च परस्परविरुद्धं कथं सम्भाव्यते । विरुद्धधर्माध्यासनिबन्धनत्वाद्वस्तुभेदस्य । तथाचाह— भेदे हि कारणं किञ्चित् वस्तुधर्मतया भवेत् । अभेदे तु निरुध्येते तस्यैकस्य क्रियाक्रिये ॥ इति ॥ २८ ॥

“अवधीना”मित्यादिना परः शक्ति(क्त्य ?) नियमं सम्भावयन्प्रत्यवतिष्ठते—

अवधीनामनिष्पत्तेर्नियतास्ते न शक्तयः ।
सत्वे तु नियमस्तासां (युक्तः)सावधिको न नु ॥ २९ ॥

“त” इति तव बौद्धस्यासत्कार्यवादिनः, न कारणानां नियताः शक्तयो घटन्ते । कस्मात् ? अवधीनां कार्यभूतानामनिष्पत्तेः । नह्यवधिमन्तरेणावधिमतोऽस्ति सद्भावः प्रयोगः । ये सद्भूतकार्यावधिशून्या न ते नियतशक्तयो यथा शशविषाणादयः, सद्भूतकार्यावधिशून्याश्च शालिबीजादयो भावा इति व्यापकानुपलब्धिः । स्वपक्षस्य सौस्थित्यं दर्शयन्नाह—“सत्व” इति । कार्याणां सद्भावे सतीत्यर्थः । “तासा”मिति शक्तीनाम् ॥ २९ ॥

“नैव”मित्यादिना हेतोरनैकान्तिकतामाह—

नैवं तेषामनिष्पत्त्या माभूच्छब्दस्तथापरम् ।
सर्वोपाधिविविक्तस्य वस्तुरूपस्य न क्षतिः ॥ ३० ॥

तथाहि—तेषामवधीनामनिष्पत्तौ यदि परं क्षीरस्य दध्युत्पादने शक्तिरित्येष व्यपदेशो माभूत्, यत्पुनस्तथाविधं सर्वोपाधिशून्यमध्यारोपितं वस्तु यदनन्तरमदृष्टपूर्वं वस्त्वन्तरमुदेति, तस्याप्रतिषेध एव ॥ ३० ॥

स्यादेतद्यत्र शब्दविकल्पानामप्रवृत्तिस्तत्र वस्तुस्वभावोऽपि निवर्त्तत एवेत्याह—“ननामरूप”मित्यादि ।

न नाम रूपं वस्तूनां विकल्पा वाचकाश्च यत् ।
विश्वकल्पाः प्रवर्त्तन्ते यथाऽभ्यासमभेदिनि ॥ ३१ ॥

स्वभाव एव हि व्यापको निवर्त्तमानः स्वं व्याप्यं निवर्त्तयति, कारणं वा कार्यं, प्रतिबन्धसद्भावात् । नत्वन्योऽतिप्रसङ्गात् । नच क्षीस्य दध्नि शक्तिरित्येवमादिनामव्यपदेशो वस्तूनां रूपं स्वभावो भवति । येन तन्निवर्तमानं तथाविधं वस्तु निवर्त्तयेत् । नामग्रहणमुपलक्षणम् । विकल्पोऽपि तत्संसृष्टो गृह्यते । रूपग्रहणं चोपलक्ष णम् । (कारणं गृह्यते) कारणमपि वस्तूनां नाम न भवत्येव, तदन्तरेणापि वस्तुसम्भवात् । अत्र कारणमाह—“विकल्पा” इत्यादि । यत्—यस्मात्, नामसंसर्गभाजो विकल्पा वाचकाश्च शब्दा विश्वकल्पाः—नानाप्रकाराः, अभेदिनि—निरंशैकस्वभाववस्तुनि यथाभ्यासं वर्त्तन्ते । तथाहि—एक एव शब्दादिर्भावो नित्यादिरूपेण भिन्नसमयस्थायिभिः प्रवादिभिर्विकल्प्यते व्यपदिश्यते च । तेषां च शब्दविकल्पानां तादात्म्ये तद्विषयत्वे वा वस्तुनश्चित्रत्वं प्राप्नोति । वस्तुस्वरूपवदेव वा शब्दविकल्पानामेकरूपत्वप्रसङ्गः । नह्येकं चित्रमिति युक्तमतिप्रसङ्गात् । तस्माच्छक्तिप्रतिनियमात्किञ्चिदेवासत्क्रियते न सर्वमित्यतो नैरूप्यादित्यनैकान्तिकोऽपि हेतुः । अतएवोपादानग्रहणादित्यादिकस्य हेतुचतुष्टयस्यानैकान्तिकत्वम् । तथाहि—यदि कार्यसत्ताकृतमेव प्रतिनियतोपादानग्रहणं क्वचित्सिद्धं स्यात्तदैतत्स्यात् । यावता कारणशक्तिनियमकृतमपि नियतोपादानग्रहणं युज्यत एव । कारणशक्तिप्रतिनियमादेव च न सर्वस्यसर्वस्मात्सम्भवः, सर्वस्य सर्वार्थक्रियाकारित्वस्वभावासम्भवात् । यत्पुनरुक्तमकार्यातिशयं यत्त्वित्यादि तदप्यभिप्रायापरिज्ञानादुक्तम् । नह्यस्माभिरभावः क्रियत इत्यभिधीयते । येन विकृतौ सत्यां तस्य स्वभावहानिप्रसङ्गः स्यात् । किन्तु वस्त्वेव क्रियत इति पूर्वं प्रतिपादितम् । तच्च वस्तु उपलब्धिलक्षणप्राप्तस्यानुपलब्धेर्निष्पन्नस्य च कार्यत्वानुपपत्तेः प्रागुत्पादादसदित्युच्यते, यस्य च कारणस्य सन्निधानमात्रेण तत्तथाभूतमुदेति तेन तक्रियत इति व्यपदिश्यते, नतु व्यापारसमावेशात्केनचित्किञ्चिक्रियते, निर्व्यापारत्वात्सर्वधर्माणाम् । नाप्यसन्नाम किञ्चिदस्ति, यद्विक्रियते, न वा वस्तुस्वभावः, प्रतिषेधमात्रलक्षणत्वादसत्वस्य । अपिच यद्यकार्यातिशयत्वादसन्न क्रियत इत्यभिधीयते । सदपि च स्वभावनिष्पत्तेरकार्यातिशयमेवेति तत्कथं क्रियते । तस्माच्छक्तस्य शक्यकरणादित्येषोनैकान्तः । असत्कार्यवादे च कारणभावस्य युज्यमानत्वात्कारणभावादित्ययमप्यनैकान्तिकः । यद्वा पूर्वं सतः कार्यत्वासम्भवस्य प्रतिपादितत्वात्, असत्कार्यवाद एव चोपादानग्रहणादिनियमस्य युज्यमानत्वात्, उपादानग्रहणादित्यादेर्हेतुचतुष्टयस्य विरुद्धता; साध्यविपर्ययसाधनात् ॥ ३१ ॥

ननु यद्यसदेवोत्पद्यत इति भवतां मतं तत्कथं सूत्रे सदसतोरुत्पादः प्रतिषिद्धः । यथोक्तम्, अनुत्पन्ना महामते सर्वधर्माः, सदसतोरनुत्पन्नत्वात् इति अत्राह—“उत्पाद” इत्यादि ।

उत्पादो वस्तुभावस्तु सोऽसता न सता तथा ।
सम्बध्यते कल्पिकया केवलं त्वसता धिया ॥ ३२ ॥

तुशब्दोऽवधारणार्थः । वस्तूनां पूर्वापरकोटिशून्यक्षणमात्रावस्थायी स्वभाव एवोत्पाद इत्युच्यते । भेदान्तरप्रतिक्षेपेण तन्मात्रजिज्ञासायाम् । नतु वैभाषिकविकल्पिताजातिः संस्कृतलक्षणम् । तस्याः प्रतिषेत्स्यमानत्वात् । नापि वैशेषिकपरिकल्पितः सत्तासमवायः स्वकारणसमवायो वा, तयोरपि निषेत्स्यमानत्वात् । परमतेन च तयोर्नित्यत्वात् । नित्यस्य च जन्मानुपपत्तेः । यथोक्तम्—सत्तास्वकारणाश्लेषकरणात्कारणं किल । सा सत्ता स च सम्बन्धो नित्यौ कार्यमथेह किम् ॥ इति । स एवमात्मक उत्पादो नासता तादात्म्येन सम्बध्यते । सदसतोर्विरोधात् । नह्यसद्भवति ।नापि सता पूर्वभाविना सम्बध्यते । तस्य पूर्वमसत्वात् । कथमिदानीमसत्कार्यवादिनो यूयमित्याह—“कल्पिकये”त्यादि । कल्पिकया धिया कर्तृभूतया करणभूतया वा, केवलमसता कर्त्रा सम्बध्यते—सम्बन्धमुपनीयत इत्यर्थः । नह्यसन्नाम किञ्चिदस्ति यदुत्पत्तिमाविशेत्, किं तु काल्पनिकोऽयं व्यवहारो यदसदुत्पद्यत इति यावत् ॥ ३२ ॥

किं पुनरिह कल्पनाया बीजं येनायमेवं व्यवहार इष्यत इत्याह—“यदिद”मित्यादि ।

यदिदं वस्तुनो रूपमेकानन्तरमीक्ष्यते ।
प्रागासीन्नेति तद्बीजं प्राग्भूते त्विदमस्ति न ॥ ३३ ॥

यदेतदेकस्य प्रतिनियतस्य कस्यचित्पदार्थस्यानन्तरमदृष्टपूर्वं वस्तुरूपमुपलभ्यते, तन्मध्यावस्थातः प्राङ्नासीत्, उपलब्धिक्षणप्राप्तस्यानुपलब्धेः । तस्मादिदं प्रागसत्समुत्पद्यत इत्यस्याः कल्पनाया बीजम् । कस्मादित्याह—“प्राग्भूत” इत्यादि । मध्यावस्थातः प्राक्, मध्यावस्थातद्भूते विद्यमाने सति वस्तुरूपे, नास्तीदं कल्पनानिबन्धनमुत्पद्यत इति । तथाहि—उत्पद्यत इत्यनेन मध्यावस्थभाव्येव प्रतिनियतं स्वरूपमुच्यते । यदिच तस्य प्रागपि भावः स्यात्तदा तस्य मध्यावस्थाभाव्येवेत यदेतन्नियतं स्वरूपं तस्य हानिः स्यात् । आकाशवत्सर्वदाऽवस्थितस्य पूर्वापरमध्यावस्थाभावात् । ततश्च सर्वदा सर्वमुत्पद्यत इत्येवं व्यपदिश्येत, विशेषाभावात् ॥ ३३ ॥

पुनरपि सत्कार्यवादं प्रकारान्तरेण दूषयन्नाह—“क्षीरादिषु चे”त्यादि ।

क्षीरादिषु च दध्यादि शक्तिरूपेण यन्मतम् ।
का शक्तिस्तत्र दध्यादि यदि दृश्येत दुग्धवत् ॥ ३४ ॥

कारणे कार्यमस्तीति यदुच्यते भवद्भिस्तत्र कोऽर्थोऽभिप्रेतः । किं व्यक्तिरूपेण ? तन्न । क्षीराद्यवस्थायामपि दध्यादीनां पश्चाद्वदुपलब्धिप्रसङ्गात् । अथ शक्तिरूपेण ? तथाऽपि यत्तच्छक्तिरूपं दध्यादेः कार्यरूपादुपलब्धिलक्षणप्राप्तादन्यत्, आहोस्वित्तदेव । यदि तदेव तदा पूर्ववदुपलब्धिप्रसङ्गः ॥ ३४ ॥

अन्यच्चेत्कथमन्यस्य भावेऽभक्त्यान्यदुच्यते ।
नहि सत्वस्य सद्भावः सद्भावो दुःखमोहयोः ॥ ३५ ॥

अथान्यदिति पक्षः तदा कारणात्मनि कार्यमस्तीति पक्षस्त्यक्तो भवेत्; कार्यव्यतिरिक्तस्य शक्त्याख्यस्य पदार्थान्तरस्य भावाभ्युपगमात् । तथाहि—यदेवाविर्भूतं विशिष्टरसवीर्यविपाकादिगुणोपेतं रूपं तदेव दध्यादिकं कार्यमुच्यते । तच्च क्षीरावस्थायामुपलम्भयोग्यस्यानुपलब्धेरसद्व्यवहारविषयः । यच्चान्यदस्ति शक्तिरूपं तत्कार्यमेव न भवति । न चान्यस्य भावेऽन्यदस्त्यतिप्रसङ्गात् । ननु चायुर्घृतम्, नड्वलोदकं पादरोग, इत्यन्यस्य सद्भावेऽन्यदुच्यमानं दृष्टमेवेत्याह—“अभक्त्ये”ति । अभक्त्या—अनुपचारेणेत्यर्थः । कारणे हि कार्योपचारादायुर्घृतमित्युच्यते । न मुख्यतः ।यदि तु भवताऽप्युपचारात्कारणे कार्यमस्तीत्युच्यते, तदा न कश्चिद्विरोधः । मुख्यतस्तु विरोध उच्यते । एतदेव दृष्टान्तेनोपपादयन्नाह—“नही”त्यादि । नहि यदेव सत्वरूपं तदेव दुःखमोहयोर्भवद्भिर्व्यवस्थाप्यते, तेषां परस्परं भिन्नलक्षणव्यवस्थानात् ॥ ३५ ॥

साम्प्रतं भेदानामन्वयदर्शनादित्यस्य हेतोरसिद्धत्वं प्रतिपादयन्नाह—“सत्वाद्यनुगत”मित्यादि ।

सत्वाद्यनुगतं व्यक्तं न सिद्धं नः कथञ्चन ।
आन्तरत्वात्सुखादीनां व्यक्तत्वात्तत्स्वसंविदः ॥ ३६ ॥

शब्दादिलक्षणं व्यक्तम्—सुखादिरूपम्, नः—अस्माकमसिद्धम् । कस्मात् ? सुखादीनामान्तरत्वात्—संविद्रूपत्वात् । शब्दादीनां चाचेतनत्वात्कथमेते सुखाद्यन्विता भवेयुः । प्रयोगः—ये संविद्रूपा न भवन्ति न ते सुखादिमयाः, यथा परोपगतोऽचेतनः पुरुषः । संविद्रूपरहिताश्च शब्दादय इति व्यापकानुपलब्धिः । स्यादेतत्संविद्रूपत्वेन सुखादिमयत्वस्य यदा व्याप्तिः सिद्धा भवेत्तदा तन्निवर्त्तमानं शब्दादिषु सुखादिमयत्वं निवर्त्तयेद्यावता सैव न सिद्धा, पुरुषस्यैव संविद्रूपत्वेनेष्टत्वादित्यत आह—“व्यक्तत्वात्तत्स्वसंविद” इति । तत्—संविद्रूपत्वं सूखादीनां सिद्धम् कस्मात् ? सुखादीनां स्वसंविदः—स्वसंवेदनस्य व्यक्तत्वात् । अतिस्पष्टेयं सुखप्रीतितापादिरूपेण सत्यसति वा शब्दादिविषयसन्निधाने प्रकाशान्तरनिरपेक्षा स्वयम्प्रकाशात्मलक्षणा स्वसंवित्तिः । यदेव हि प्रकाशान्तरनिरपेक्षं सातादिरूपतः स्वयं सिद्धम्, तच्चैतन्यं सुखं संवेदनं ज्ञानमित्यादिभिः पर्यायैः कथ्यते । यदि च सुखादीनामन्येन संवेदनेनानुभवादनुभवख्यातिः स्यात्तदा तेषां संवेदनमसातादिरूपं स्यात्, स्वयमतदात्मकत्वात् । यथा योगिनोऽनुमातुश्च परकीयं सुखादि संवेदयतः । अन्यथा तेऽपि योग्यादयः साक्षात्सुखाद्यनुभाविन इवातुरादयः स्युः । योग्यादिवद्वाऽन्येषामप्यनुग्रहोपघातौ न स्यातामविशेषात् । संवेदनस्य च सातादिरूपत्वेऽभ्युपगम्यमाने सिद्धं सुखादेः संविद्रूपत्वम् । इदमेव हि नः सुखं दुःखं च, यत्सातमसातं च संवेदनम् ।तस्मान्नानैकान्तिकता हेतोर्नाप्यसिद्धता । बाह्यार्थवादिनां सर्वेषामेव शब्दादिषु संविद्रूपरहितत्वस्य सिद्धत्वात् । अन्यथा विज्ञानवादिमतमेवाङ्गीकृतं स्यात् । तच्चेष्टमेव । नापि विरुद्धता हेतोः सपक्षे भावात् ॥ ३६ ॥

स्यादेतत्—यथा बहिरवस्थितनीलादिसन्निधानादनीलादिरूपमपि संवेदनं नीलादिरूपनिर्भासं भवति, तथा बाह्यसुखाद्युपधानवशादसातादिरूपमपि सातादिरूपमिव लक्ष्यते, तेन संवेदनस्य सातादिरूपत्वेऽपि न सुखादीनां संविद्रूपत्वं सिध्यत्यतो नैकान्तिकता मौलस्य हेतोरित्याशङ्क्याह “एकत्रे”त्यादि ।

एकत्रैव च शब्दादौ भावनाजातिभेदतः ।
सङ्गादयः सम्भविनो लक्ष्यन्ते नियताः स्फुटम् ॥ ३७ ॥

“भावनाजातिभेदत” इति । भावनाः—अभ्यासाः, जातिस्तु—निजा प्रकृतिः, तयोर्भेदो—विशेषः । “सङ्गादय” इति । सङ्गोऽभिलाषः, आदिशब्देन प्रीत्यादयो द्वेषोद्वेगादयो दैन्यावरणादयश्च त्रैगुण्यकार्यगणा गृह्यन्ते । नियता इति चैकाकाराः । तथाहि—भावनाविशेषान्मद्याङ्गनादिषु भावितशुभाशुभादिनिमित्तानां कामुकादीनाम्,जातिविशेषाच्च कुरङ्गकरभादीनां केषाञ्चिदेव प्रतिनियताः प्रीत्यादयः सम्भवन्ति । न सर्वेषाम्, एतच्च शब्दादीनां सुखादिरूपत्वे सति न युक्तम् ॥ ३७ ॥

कस्मादित्याह—“एकवस्त्वनुपातित्व” इत्यादि ।

एकवस्त्वनुपातित्वे चित्रा संवित्प्रसज्यते ।
अदृष्टादिवशान्नो चेन्न स्याद्वस्त्वनुयायिनी ॥ ३८ ॥

सर्वेषामेव हि तेषामभिन्नवस्तुविषयत्वान्नीलादिविषयसंवेदनवत्प्रत्येकं चित्रा संवित्प्रसज्येत । स्यादेतद्यद्यपि त्र्यात्मकं वस्तु, तथाऽप्यदृष्टादेर्धर्मादिलक्षणस्य सहकारिणो वशेन कस्यचित्किञ्चिदेव रूपं प्रतिभासते, न सर्वं सर्वस्येति । आदिशब्देन भावनाजातिभेदजिघृक्षादीनां ग्रहणम् । यद्येवं न स्याद्वस्त्वनुयायिनी—वस्त्वालम्बना सा संविन्न प्राप्नोति, तदाकारशून्यत्वादिति भावः ॥ ३८ ॥

तदेव तदाकारशून्यत्वं दर्शयन्नाह—“त्र्याकार”मिति ।

त्र्याकारं वस्तुनो रूपमेकाकाराश्च तद्विदः ।
ताः कथं तत्र युज्यन्ते भाविन्यस्तद्विलक्षणाः ॥ ३९ ॥

सत्वरजस्तमसां रूपम् । “एकाकाराश्च तद्विद” इति । तेषां—पुरुषाणां विदः —संवित्तयः प्रत्येकमभिष्वङ्गादिमात्रैकरूपनियमादेकाकाराः संवेद्यन्त इत्यर्थः । “ता” इति—संविदः, “तत्रे”ति—शब्दादौ, “भाविन्य” इति—पारमार्थिक्य इत्यर्थः । कस्मान्न युज्यन्त इत्याह—“तद्विलक्षणा” इति । तदालम्बनवस्तुविलक्षणा इत्यर्थः । प्रयोगः— यद्यदाकारसंवेदनं न भवति न तत्तद्विषयं यथा चक्षुर्ज्ञानं न शब्दविषयम् । त्र्यात्मकवस्त्वाकारशून्याश्च यथोक्ताः संविद इति व्यापकानुपलब्धिरतिप्रसङ्गापत्तिविपर्ययेबाधकं प्रमाणम् । “स्यादेत”द्यथा प्रत्यक्षेण गृहीतेऽपि सर्वात्मना शब्दादिके वस्तुनि भावनादिवशेन क्वचिदेव क्षणिकत्वादौ निश्चयोत्पत्तिर्भवति न सर्वत्र, तद्वददृष्टादिवशेनैकाकारा संविद्भविष्यतीति । तदेत“दसम्यक्” । न हि क्षणिकादिविकल्पस्यादि(ल्पास्पदे?)परमार्थतो वस्तुविषयत्वमस्माकमिष्टम् । सर्वविकल्पातीतत्वाद्वस्तुनः । पारम्पर्येण तु वस्तुनि प्रतिबन्धात्तथाविधवस्तुप्राप्तिहेतुतया तस्य प्रामाण्यम् । प्रीत्यादीनां तु परैर्वस्तुविषयत्वमेव परमार्थत इष्टम् । अन्यथा हि निरालम्बनत्वे सति सुखाद्यात्मनां शब्दादीनामनुभवात्सुखाद्यनुभवख्यातिरित्येतन्न स्यात् । तेषां च प्रीत्यादीनां सविकल्पकत्वादनिश्चितं न किञ्चिद्रूपमस्तीति सर्वात्मनानुभवख्यातिः स्यात् । इयमेव हि निश्चयानां स्वार्थप्रतिपत्तिर्यत्तन्निश्चयनं नाम ॥ ३९ ॥

यच्चोक्तम्, प्रसादतापदैन्यादिकार्योपलम्भात्सुखाद्यनुगतत्वं शब्दादीनां सिद्धमिति । तदनैकान्तिकमिति दर्शयन्नाह—“प्रसादोद्वेगे”त्यादि ।

प्रसादोद्वेगवरणान्येकस्मिन्पुंसि योगिनाम् ।
जायन्ते न च तद्रूपः पुमानभिमतः परैः ॥ ४० ॥

तथा हि कापिलयोगिनां पुरुषं प्रकृतिविभक्तं भावयतां पुरुषमालम्ब्य स्वभ्यस्तयोगानां प्रसादो भवति प्रीतिश्च । अजितयोगानां क्षिप्रतरमपश्यतां उद्वेगः, ये चप्रकृत्या जडमतयस्तेषां वरणमुपजायते । न चासौ पुरुषस्तद्रूपस्त्रिगुणात्मकोऽभीष्टः परैः । तस्मात्प्रसादतापदैन्यादिकार्योपलब्धेरित्यनैकान्तिकमेतत् । सङ्कल्पात्तानि प्रीत्यादीनि भवन्ति, न पुरुषादिति चेत् । एतच्छब्दादिष्वपि समानम् । ततश्च सङ्कल्पमात्रभावित्वे बाह्याः सुखादयो न सिध्यन्ति । सङ्कल्पस्य संविद्रूपत्वात् । अत एव च बाह्यसुखाद्युपधानव्रशात्संवेदनस्य सातादिरूपत्वमित्येतदपि व्यभिचारि । अन्तरेणापि बाह्यविषयोपधानं पुरुषालम्बनेन प्रीत्यादीनामुत्पत्तिदर्शनात् । यच्चेष्टानिष्ठविकल्पादनपेक्षितबाह्यविषयसन्निधानं सुखादिसंवेदनं प्रसिद्धं तत्कथं परोपधानात्स्यात् । मनोऽपि त्रिगुणं तदुपधानाद्भवतीति चेत् । न । तस्यापि यदेव हि प्रकाशान्तरानपेक्षं स्वयं सिद्धमित्यादिना संविद्रूपत्वस्य प्रतिपादितत्वात् । तस्मात्समन्वयादित्यसिद्धोहेतुः ॥ ४० ॥

इदानीं हेतुसिद्धिमभ्युपगम्यानैकान्तिकत्वं प्रतिपादयन्नाह—“सिद्धेऽपी”त्यादि ।

सिद्धेऽपि त्रिगुणे व्यक्ते न प्रधानं प्रसिध्यति ।
एकं तत्कारणं नित्यं नैकजात्यन्वितं हि तत् ॥ ४१ ॥

यदि नाम व्यक्तं त्रिगुणात्मकं सिद्धं तथापि तस्य यत्तदभीष्टं कारणं प्रधानाख्यं तन्न सिध्यति । तथाभूतेन कारणेन क्वचिदपि हेतोरन्वयासिद्धेरिति भावः । तथाहि—त्रिगुणात्मकमेकं नित्यं व्यापि च तस्य कारणं साधयितुमिष्टम् । न चैवम्भूतेन कारणेन क्वचिद्धेतोः प्रतिबन्धः सिद्धः । नापि यदात्मकं कार्यमुपलभ्यते कारणेनावश्यं तदात्मना भवितव्यम् । कार्यकारणयोर्भेदात् । तथाहि—हेतुमत्त्वानित्यत्वाव्यापितादिभिर्धर्मैः समन्विते व्यक्ताख्यं कार्यमिष्यते भवद्भिः, नच तत्कारणस्य ताद्रूप्यमिष्टम्, तस्मादनैकान्तिको हेतुः । धर्मविशेषविपरीतभावनाद्विरुद्धोऽपीति दर्शयन्नाह—“एकं तत्कारण”मित्यादि । एको नित्यस्त्रिगुणात्मकः कारणभूतो धर्मः साधयितुमिष्टः, स च तथाभूतो न सिध्यति, किं तर्हि, विपरीत इति भावः । कस्मादित्याह—“नैकजात्यन्वितं हि” तदिति । हिशब्दो हेतौ । तस्मात्तद्व्यक्ताख्यं कार्यं नैकया त्रिगुणात्मकया स्वात्मभूतया जात्या समन्वितं सिद्धम् । किं तर्हि ? अनेकत्वानित्यत्वादिधर्मान्वितमेवोपलभ्यते । यदि हि व्यक्तमेकया यथोक्तया जात्या समन्वितं भवेत्तदा तत्कारणमपि यथोक्तधर्मविशिष्टं सिध्येत् । यावता कार्यस्यानित्यत्वानेकत्वधर्मान्वयदर्शनात्तत्कारणमपि तथैवानुमीयते । नित्यस्य क्रमाक्रमाभ्यामर्थक्रियाविरोधात् । कारणभेदकृतत्वाच्च कार्यवैचित्र्यस्य । अन्यथा निर्हेतुकत्वप्रसङ्गात् । तस्मान्न नित्यैकरूपप्रधानसिद्धिः । यदि पुनरनित्यानेकरूप एव कारणं प्रधानमिति सञ्ज्ञा क्रियेत, तदा नास्ति विवाद इति भावः ॥ ४१ ॥

कस्मात्पुनरेकजात्यन्वितं व्यक्तं न भवतीत्याह—“अयःशलाकाकल्पा”—इत्यादि ।

अयःशलाकाकल्पा हि क्रमसङ्गतमूर्त्तयः ।
दृश्यन्ते व्यक्तयः सर्वाः कल्पनामिश्रितात्मिकाः ॥ ४२ ॥

यथा ह्ययोमय्यः शलाकाः परस्परमसङ्गतास्तद्वदिमाः शब्दादिव्यक्तयः स्वस्वभावव्यवस्थिततया देशकालशक्तिप्रतिभासादिभेदान्न परस्परमन्वाविशन्ति । एतेनानेकत्वं प्रतिपादितम् । अनित्यत्वप्रतिपादनायाह—“क्रमसङ्गतमूर्त्तय” इति । उत्पादक्रमेण सङ्गता—समालिङ्गिता मूर्त्तिर्यासामिति विग्रहः । कथं तर्हि (क्षि)त्यादिनैकेन रूपेण तथा स एवायमिति च स्थिरेण स्वभावेनानुगता व्यवसीयन्ते भावा इत्याह—“कल्पनामिश्रितात्मिका” इति । मिथ्याविकल्पोऽयमर्थेष्वेकात्मताग्रह इत्यर्थः । एतच्च पश्चात्प्रतिपादयिष्यते क्षणभङ्गादौ ॥ ४२ ॥

एवं तावत्समन्वयादित्यस्य हेतोरसिद्धविरुद्धानैकान्तिकत्वं प्रतिपादितम्, अधुना कुटादिभेदवदिति दृष्टान्तस्य साध्यसाधनधर्मानन्वयत्वं प्रतिपादयन्नाह—“मृद्विकारादय” इत्यादि ।

मृद्विकारादयो भेदा नैकजात्यन्वितास्तथा ।
सिद्धा नैकनिमित्ताश्च मृत्पिण्डादेर्विभेदतः ॥ ४३ ॥

आदिशब्देन कनकादिविकाराणां च ग्रहणम् । तथेति दूषणान्तरसमुच्चये सादृश्ये वा । नैकजात्यन्विता इत्यनेन साधनधर्मवैकल्यं दर्शितम् । “नैकनिमित्ताश्चेति” । सिद्धा इति प्रकृतेन सम्बन्धः । अनेन साध्यधर्मानन्वयो दर्शितः । ननु चैकं मृत्पिण्डकनकादि कारणं तेषां सिद्धमेव, तथा मृत्सुवर्णत्वादिजातिश्चैषामेषाऽनुगामिनी दृष्टा, तत्कथमुभयवैकल्यमित्याह—“मृत्पिण्डादेर्विभेदत” इति । नह्येकोऽवयवी मृत्पिण्डादिरस्ति, एकदेशावृतौ सर्वावरणप्रसङ्गात् । नाप्येका जातिः प्रतिव्यक्ति प्रतिभासभेदात् ॥ ४३ ॥

पुनरपि समन्वयादित्यस्य हेतोः स्वतोऽनैकान्तिकत्वमिति प्रतिपादयन्नाह—“चैतन्ये”त्यादि ।

चैतन्याद्यन्वितत्वेऽपि नैकपूर्वत्वमिष्यते ।
पुरुषाणाममुख्यं चेत्तदिहापि समं न किम् ॥ ४४ ॥

तथाहि—चेतनत्वभोक्तृत्वादिभिरपरिमितैर्धर्मैरन्विताः पुमांसोऽभीष्टाः, न च ते तथाविधैककारणपूर्वका भवद्भिरिष्यन्ते । अथापि स्याच्चैतन्याद्यन्वितत्वं पुरुषाणां नमुख्यमिष्टम्, किं तर्हि ? गौणम्, यतोऽचैतन्यादिव्यावृत्ताः सर्व एव पुमांसस्तेनार्थान्तरव्यावृत्तिरूपा चैतन्यं जातिस्तदनुगामिनी कल्प्यते, नत्वेका तात्विकी साऽस्तीति । यद्येवं तदमुख्यम्, सुखाद्यन्वितत्वमसत्यपि तथाभूतैककारणपूर्वत्वे पुरुषवदिहापि व्यक्ते किमिति समम्—तुल्यं न कल्प्यते । तस्मादनैकान्तिको हेतुः । पुरुषाणामित्युपलक्षणम् । तथा सुखादयो मूलप्रकृत्यवस्थाभाविनो गुणत्वाचेतनत्वाभोक्तृत्वादिभिरन्विताः, प्रधानपुरुषाश्च नित्यत्वादिभिर्युक्ताः, न च ते तथाभूतैककारणपूर्वका इत्यनैकान्तिका एव ॥ ४४ ॥

एवं तावत्समन्वयादित्ययं हेतुः प्रतिषिद्धः । साम्प्रतं निगमनव्याजेन परिशिष्टहेतुदूषणार्थं दिङ्मात्रमाह—“प्रधानहेत्वभावेऽपी”त्यादि ।

प्रधानहेत्वभावेऽपि ततः सर्वं प्रकल्पते ।
शक्तेर्भेदेन वैचित्र्यं कार्यकारणतादिकम् ॥ ४५ ॥

तत्र यत्तावदुक्तं परिमाणाच्छक्तितः प्रवृत्तेः कार्यकारणभावाच्चास्ति प्रधानमिति ।एते त्रयोऽपि हेतवोऽनैकान्तिकाः, साध्यविपर्यये । बाधकप्रमाणानुपदर्शनात् । प्रधानाख्यस्य हेतोरभावेऽप्येषां परिमाणादीनामविरोधात् । तथाहि—यदि तावत्कारणमात्रस्यास्तित्वं साध्यते, तदा सिद्धसाध्यता, न ह्यस्माकं कारणमन्तरेण कार्यस्योत्पादोऽभीष्टः; कारणमात्रस्य च प्रधानमिति सञ्ज्ञाकरणे न किञ्चिद्बाध्यते । अथैवं साध्यते— अस्ति प्रेक्षावत्कारणम्, यदेतन्नियतपरिमाणं व्यक्तिमुत्पादयति, शक्तितश्च प्रवर्त्तत इति । तदाऽनैकान्तिकता, विनाऽपि हि प्रेक्षावता कर्त्रास्वहेतुसामर्थ्यप्रतिनियमात्प्रतिनियतपरिमाणादियुक्तस्योत्पत्त्यविरोधात् । न चापि प्रधानं प्रेक्षावद्युक्तं तस्याचेतनत्वात् । प्रेक्षायाश्च चैतन्यप्रर्यायत्वात् । किञ्च—शक्तितः प्रवृत्तेरित्यनेन यद्यव्यतिरिक्तशक्तियोगि कारणमात्रं साध्यते, तदा सिद्धसाध्यता । अथ व्यतिरिक्तविचित्र शक्तियुक्तमेकं नित्यं कारणं तदाऽनैकान्तिकता हेतोः । तथाभूतेन क्वचिदप्यन्वयासिद्धेरसिद्धश्च हेतुः, न हि व्यतिरिक्तशक्तिवशात्कस्यचित्कारणस्य क्वचित्कार्ये प्रवृत्तिः सिद्धा, शक्तीनां स्वात्मभूतत्वात् । यच्चोक्तम्, अविभागाद्वैश्वरूपस्येतितदसिद्धम् । निरन्वयविनाशधर्मत्वात्सर्वभावानां क्वचिदपि लयासिद्धेः । तथाहि—लयो भवन्पूर्वस्वभावप्रच्युतौ वा सत्यां भवेदप्रच्युतौ वा, यदि तावत्प्रच्युतौ तदा निरन्वयविनाशप्रसङ्गः, अथाप्रच्युतौ तदा लयानुपपत्तिः, न ह्यविकलमात्मतत्वमनुभवतः कस्यचिल्लयो युक्तोऽतिप्रसङ्गात् । तस्मात्परस्परविरुद्धमिदमविभागो वैश्वरूप्यं चेति । तदेवं प्रधानहेत्वभावेऽपि कारणस्य शक्तिभेदेन हेतुना कार्यस्य परिमाणादिरूपेण वैचित्र्यं कार्यकारणविभागादिश्चोत्पद्यत इत्यनैकान्तिकता हेतूनाम् । आदिशब्देन शक्तितःप्रवृत्तेरित्येतस्य ग्रहणम् । अथवा प्रधानहेत्वभावेऽपित्यपिशब्दोऽवधारणे । तेनायमर्थो भवति । प्रधानहेत्वभाव एव कारणशक्तिभेदेन हेतुना कार्यस्य परिमाणादिरूपेणवैचित्र्यं(त्र्यस्य ?) कार्यकारणतादेश्चोपपद्यमानत्वाद्विरुद्धता हेतूनामिति । तथाहि —यदि प्रधानं व्यक्तस्य कारणं स्यात् तदा तदात्मत्वेन सर्वमेव विश्वं तत्स्वरूपवदेकमेव द्रव्यं स्यात् । ततश्चैका बुद्धिरहङ्कारपञ्चतन्मात्राणीत्यादिपरिमाणविभागो न स्यात् । तथा च सति निष्परिमाणमेव जगत्स्यात् । तथा कुलालादीनां घटादिकरणे शक्तितः प्रवृत्तिः प्रधानहेत्वभाव उपपद्यते, न तु तद्भावे । यथोक्तं प्राक् न च शक्तिर्न च क्रियेति । कार्यकारणविभागोऽपि प्रधानहेत्वभाव एव सति युक्तः । पूर्वमावेदितं वैश्वरूप्यं च प्रधाने सति नोपपद्यत एव । तन्मयत्वेन सर्वस्य जगतः तत्स्वरूपवदेकत्वप्रसङ्गादित्युक्तम्, ततश्च वैश्वरूप्यमादित एव नास्तीति कुतस्तस्याविभागः स्यादिति ॥ ४५ ॥

इति प्रकृतिपरीक्षा ।