०० प्रवेशः

*श्रीः । तत्त्वसङ्ग्रहः । पञ्जिकासमेतः । तत्त्वसङ्ग्रहस्य प्रथमो भागः ।

इन्त्रोदुच्तोर्य् वेर्सेस् (१-६)

प्रकृतीशोभयात्मादिव्यापाररहितं चलम् ।
कर्म-तत्फलसम्बन्धव्यवस्थादिसमाश्रयम् ॥ १ ॥

गुणद्रव्यक्रियाजातिसमवायाद्युपाधिभिः ।
शून्यमारोपिताकारशब्दप्रत्ययगोचरम् ॥ २ ॥

स्पष्टलक्षणसंयुक्तप्रमाद्वितयनिश्चितम् ।
अणीयसाऽपि नांशेन मिश्रीभूतापरात्मकम् ॥ ३ ॥

असङ्क्रान्तिमनाद्यन्तं प्रतिबिम्बादिसन्निभम् ।
सर्वप्रपञ्चसन्दोहनिर्मुक्तमगतं परैः ॥ ४ ॥

स्वतन्त्रश्रुतिनिस्सङ्गो जगद्धितविधित्सया ।
अनल्पकल्पासङ्ख्येयसात्मीभूतमहादयः ॥ ५ ॥

यः प्रतीत्यसमुत्पादं जगाद गदतांवरः ।
तं सर्वज्ञं प्रणम्यायं क्रियते तत्त्वसङ्ग्रहः ॥ ६ ॥

(पञ्जिका) ज्ञेयाम्भोनिधिमन्थनादधिगतैस्तत्त्वामृतैर्यो जगज्जातिव्याधिजरादिदुःखशमनैः कारुण्यतोऽतर्पयत् । तस्मै तत्त्वविदांवराय जगतः शास्त्रे प्रणम्यादरात्तत्त्वानामिह सङ्ग्रहे स्फुटतरा प्रारभ्यते पञ्जिका ॥ १ ॥

वक्तुं वस्तु न मादृशा जडधियोऽपूर्वं कदाऽपि क्षमाः क्षुण्णो वा बहुधा बुधैरहरहः कोऽसौ न पन्थाः क्वचित् । किन्तु स्वार्थपरस्य मे मतिरियं पुण्योदयाकाङ्क्षिणःतत्त्वाभ्यासमिमं शुभोदयफलं कर्त्तुं समभ्युद्यता ॥ २ ॥

इह हि शास्त्रे प्रेक्षावतामभिधेयप्रयोजनावसायपूर्विका प्रवृत्तिर्महत्सु च प्रसादः सर्वश्रेयोऽधिगतेः कारणं प्रथममित्यालोच्य भगवति प्रसादोत्पादनार्थं शास्त्रे चास्मिन्नादरेण श्रोतुः प्रवृत्त्यर्थं स्वशास्तृपूजाविधिपूर्वकमस्य शास्त्रस्य प्रकृतीत्यादिभिः श्लोकैस्तत्त्वसङ्ग्रह इत्येतत्पर्यन्तैरभिधेयप्रयोजने प्राह ॥

तथाहि—यद्यभिधेयमस्य न कथ्येत तदोन्मत्तादिवाक्यवदानर्थक्यं सम्भावयन् प्रेक्षावान्न प्रवर्त्तेतापि श्रोतुमित्यभिधेयमस्यावश्यवचनीयम् । तथा सत्यभिधेये काकदन्तादिपरीक्षाशास्त्रवदभिमतप्रयोजनरहितं शास्त्रं प्रेक्षावन्तः श्रोतुमपि नाद्रियन्त इति ततस्तत्प्रवृत्त्यर्थमादौ प्रयोजनमभिधानीयम् । प्राधान्येन तु प्रयोजनमेव प्रवृत्त्यङ्गम् । तदर्थितयैव शास्त्रेषु श्रोतृजनस्य प्रवृत्तेः । तच्चाभिधेयशून्येन शास्त्रेणाशक्यं सम्पादयितुमिति शास्त्रस्य प्रयोजनोपायतासन्दर्शनार्थमभिधेयकथनम् । तच्च प्रयोजनमनुगुणोपायमुपदर्शनीयं न पुनरशक्यतत्साधनानुष्ठानम् । अन्यथा विषहरतक्षकचूडारत्नालङ्कारोपदेशशास्त्रवत्सत्यपि प्रयोजने तत्साधनानुष्ठानाशक्यतां मत्वा न प्रवर्त्तेत प्रेक्षावान् । अत एवोक्तम्— सम्बद्धानुगुणोपायं पुरुषार्थाभिधायकम् । परीक्षाऽविकृतं वाक्यमतो न विकृतं परम् ॥ इति । तस्माच्छास्त्रेषु प्रवृत्त्यर्थमभिधेयादिकथनम् ॥

“ननु” प्रेक्षावतां प्रवृत्तिर्निश्चयादेव । निश्चयश्च प्रमाणादेव । न चास्य प्रयोजनवाक्यस्यात्राभिधेयादौ बाह्येऽर्थे प्रामाण्यमस्ति । तत्रास्य प्रतिबन्धाभावात् । तथा हि—नतावत्तादात्म्यलक्षणः प्रतिबन्धो(द्धो?)त्पन्नभेदात् । नापि तदुत्पत्तिलक्षण इच्छामात्रप्रतिबद्धत्वाद्वाक्यस्य । न चाप्रतिबद्धाद्वाक्याज्जिज्ञासितेऽर्थे ज्ञानमुत्पद्यमानं प्रमाणं युक्तमतिप्रसङ्गात् । विवक्षायां च यद्यपि प्रामाण्यं वाक्यस्य । तथापि न तत्प्रेक्षावतः प्रवृत्त्यङ्गम् । नहि ये यथा विवक्षन्ति ते तथैवानुष्ठानकाले कुर्वन्ति विसंवादना(द)भिप्रायस्य । अन्यथा प्रतिज्ञायाऽप्यन्यथा शास्त्ररचनासम्भवात् ॥ अपि च यः प्रमाणान्तरादधिगतशास्त्रप्रयोजनस्तं प्रति प्रयोजनवाक्योपन्यासोऽनर्थक एव । तस्य प्रमाणान्तरादेव प्रवृत्तत्वात् ॥ यश्चापि प्रमाणान्तरेण बाधितशास्त्रप्रयोजनस्तं प्रति सुतरामनर्थक एव,तस्य प्रमाणान्तरेण बाधितत्वादेव प्रवृत्त्यसम्भवात् । एतच्च द्वयमभ्युपगम्योच्यते । न तु किञ्चिदर्वाग्दृशां प्राक्प्रवृत्तेः प्रयोजनादिसाधकं तद्बाधकं वा प्रमाणमस्ति । येनामी तत्सदसत्तामवगच्छेयुः । तस्याः प्रवृत्तिसमधिगम्यत्वात् । किं तु योऽनधिगत शास्त्रप्रयोजनादिस्तं प्रति वाक्यमिदमारभ्यते । तस्य च प्रेक्षावतः संशय एव वाक्यतोऽस्मादुपजायते न निश्चयोऽप्रमाणत्वात् । स च संशयः प्रागपि वाक्योपन्यासादस्तीति व्यर्थः प्रयोजनादिवाक्योपन्यासः ॥

“तदत्राभिधीयते ।” यत्तावदुक्तं निश्चयेनैव प्रेक्षावतां प्रवृत्तिरिति तदसत् । संशयेनापि प्रवृत्तिदर्शनात् । यथा कृषीवलादीनाम् । स्यादेतद्यद्यपि कृषीवलादेर्भाविनि फले संशयस्तथापि तत्फलसाधननिश्चयस्तेषां विद्यत एव । तेन निश्चयपूर्विकैव तेषां प्रवृत्तिरिति । तदसम्यक् । यदर्थं हि यस्य प्रवृत्तिः सा तत्संशयेऽपि तस्य भवतीत्येतावदिह प्रकृतम् । न च कृषीवलादयः साधनार्थं तेषु प्रवर्त्तन्ते येन साधनविषयनिश्चयसद्भावान्निश्चयपूर्विका प्रवृत्तिरेषामुपवर्ण्यते । किं तर्हि । फलार्थं ते तत्र प्रवर्त्तन्ते । तत्र च फले प्रतिबन्धादिसम्भवान्न निश्चयोऽस्तीत्यतः संशयपूर्विकैव तेषां प्रवृत्तिः । याऽपि चाऽऽद्यायां प्रवृत्तौ साधननिश्चयार्था प्रवृत्तिरेषाम् । तत्रापि न साधननिश्चयः । तदर्थत्वादेव प्रवृत्तेः । अपिच—साधननिश्चयोऽपि तेषां भाविफलापेक्षयाभवन्नवश्यमेतदनागतमेवंविध फलं साधयिष्यतीत्येवंरूपो भवेत्, यद्वा प्रतिबन्धकसहकारिवैकल्ययोरसम्भवे सत्यवश्यमभिमतफलसम्पादनायालमेतदित्येवंरूपः । न तत्र तावदाद्यो युक्तरूपः सम्भवत्सहकारिवैकल्यप्रतिबन्धकोपनिपातस्य कस्यचिदुपलब्धतथाविधफलस्यापि शाल्यादेरनागतफलं प्रत्यसाधनत्वदर्शनेन सर्वत्राऽऽशङ्काया अव्यावृत्तेर्यदाह— सामग्रीफलशक्तीनां परिणामानुबन्धिनि । अनैकान्तिकता कार्ये प्रतिबन्धादिसम्भवात् ॥ इति । अथ द्वितीयस्तदा युक्ततरमेतत् । एवंरूपत्वादेव सर्वस्याः प्रमाणपूर्विकायाः प्रवृत्तेः । अत एव चाचार्यास्तत्र योग्यतानुमानेन विशेषणं विदधति । असति प्रतिबन्धे योग्यमेतदिति । किं तु फलमप्यनेन रूपेण निश्चितमेवेति न साधनस्यैव निश्चयः । न चाप्येवम्प्रवृत्तौ परमार्थतः फलनिश्चयपूर्विका प्रवृत्तिः सिद्ध्यति ।प्रतिबन्धाद्यसत्वस्यैवापरदर्शनैर्निश्चेतुमशक्यत्वात् ॥

स्यादेतत्—यद्यपि परमार्थतः प्रतिबन्धाभावो निश्चेतुमशक्यस्तथापि यदि प्रतिबन्धो न स्यात्, तदावश्यमस्मात् फलप्राप्तिर्नियमेनेत्येवंविधो निश्चयः प्रमाणपूर्विकायां प्रवृत्तौ विद्यत एव, नत्वप्रमाणपूर्विकायामन्यथा प्रमाणाप्रमाणपूर्विकयोः प्रवृत्त्योर्विशेषो न स्यात्; स च तथाविधोऽपि निश्चयो वाक्यान्न सम्भवत्येवः, बाह्येऽर्थे तत्र तस्याप्रतिबन्धेनाप्रमाणत्वादिति । सत्यमेवैतत् । किं तु—यदि वाक्यान्न कस्यचित्प्रे क्षावतः प्रवृत्तिरस्तीत्येतत्सिद्धं भवेत्तदा सर्वमेवैतत्स्यात्; यावता दृश्यन्ते हि केचिदप्रत्यक्षफलानां केषाञ्चित्प्रवृत्तिनिवृत्त्योर्महाशंसापायश्रवणादनाश्रित्यागमप्रामाण्यमासितुमशक्नुवन्तो वचनात्प्रवर्त्तमानाः । न चैतावता तेषां प्रेक्षावत्ताहानिः, अभ्युपायेनैव प्रवृत्तेः; न ह्यागमादृतेऽत्यन्तपरोक्षार्थविषये प्रवृत्तावन्योऽभ्युपायोऽस्ति । अवश्यं च प्रवर्त्तितव्यं त्वागमात् । व्याहतागमपरिग्रहं हि कुर्वाणा अप्रेक्षापूर्वकारिणः स्युः ।अव्याहतागमसमाश्रयेण तु प्रवृत्तौ कथं न प्रेक्षावन्तो भवेयुस्तस्यैव सम्यगुपायत्वात् । न चागमस्य पुरुषातिशयप्रणीततया यथार्थत्वमवधार्य तत्र निश्चयादेव प्रवर्त्तन्त इति युक्तं वक्तुम् । पुरुषातिशयस्यैवापरदर्शनैर्निश्चेतुमशक्यत्वात् । न चागमान्न प्रवर्त्तन्ते प्रेक्षावन्तोऽपि । तद्वदिहापि । अव्याहतप्रयोजनादिवाक्यश्रवणाच्छास्त्रेषु प्रवर्त्तमानाः प्रेक्षापूर्वकारिणो भविष्यन्ति । उपायेनैव प्रवृत्तेः । न ह्यत्रापि प्रवृत्तावभ्युपायान्तरमस्ति । शास्त्रार्थस्य प्राक् प्रवृत्तेरत्यन्तपरोक्षत्वात् ॥

यच्चाप्युक्तं विवक्षायां यद्यपि प्रामाण्यमित्यादि । तदप्यसारम्, यतो यथाविवक्षितमप्यर्थं शास्त्रेण परिसमापयन्त उपलभ्यन्ते; तद्वदिहापि कदाचिद्यथा प्रतिज्ञातार्थपरिसमाप्तिर्भविष्यतीति मत्त्वा प्रेक्षावतः प्रवृत्तिः केन वार्येत । न चाप्यसम्भवाशङ्कया निवृत्तिर्युक्ता; अर्थसंशयेनापि प्रवृत्तेः । अन्यथा प्रमाणपूर्विकायामपि प्रवृत्तौ फलासम्भवाशङ्कायाः सम्भवात्क्वचिदपि प्रवृत्तिर्न स्यात् । नाप्यनर्थावाप्तिशङ्का, शास्त्रादनिष्टफलावाप्त्यसम्भवात् । न चाप्यभिमतफलाप्राप्तिसम्भावनालक्षणानर्थावाप्तिशङ्केति युक्तं वक्तुं, तस्याः सर्वत्र प्रवृत्तौ तुल्यत्वात् ॥

यच्चोक्तं योऽनधिगतशास्त्रप्रयोजनस्तं प्रति वाक्यमिदमारभ्यत इति । वयमप्येवं ब्रूमः । किं तु—यद्यपि प्रयोजनवाक्योपन्यासात्प्राक्तस्य संशयोऽस्ति । स तु प्रयोजनसामान्ये, किमिदं प्रयोजनवदाहोस्विन्नेति । न च प्रयोजनमात्रसन्देहात्प्रवृत्तिर्युक्ता, सर्वत्रैव प्रवृत्तिप्रसङ्गात् । प्रयोजनमात्रस्य चानर्थितत्वात् । किं तु प्रतिनियतसाधनोपादानहेतोः प्रयोजनविशेषविषयात्संशयात्प्रवृत्तिर्दृश्यते । क्वचिदेव साधनेऽर्थिनां प्रवृत्तेः प्रयोजनविशेषस्य चाकाङ्क्षितत्वात् । न चान्यः प्रयोजनवाक्यात्प्राक् प्रयोजनविशेषविषयसंशयोत्पत्तिहेतुः कश्चिदस्ति येन शास्त्रान्तरपरिहारेण प्रतिनियतशास्त्रपरिग्रहं कुर्वीत ॥

“ननु”प्रयोजनविशेषार्थितैव पुंसः प्रयोजनविशेषसंशयोत्पत्तिहेतुः प्राग्विद्यत एव ।तथाहि प्रयोजनविशेषाकाङ्क्षापरिगतमनसः प्रथमतरमेवं भवत्येव, किमिदमस्मदधिगतप्रयोजनेन सप्रयोजनम् ? आहोस्विदन्येन ? किं वा निष्प्रयोजनमिति; तत्साधकबाधकप्रमाणाभावे तस्य न्यायप्राप्तत्वात् । प्रयोजनविशेषप्रतिपादकशास्त्रान्तरोपलब्धेश्च । अतो भवत्येव प्रागपि प्रयोजनविशेषविषयसंशय इति व्यर्थः प्रयोजनवाक्योपन्यासः । “नैतदस्ति” । यद्यपि प्रयोजनविशेषार्थितापि संशयविशेषहेतुर्भवति । तथापि न सा सर्वेषां सम्मुखीभवति । अव्युत्पन्नपुरुषार्थानां मूढधियां केषाञ्चिदसम्मुखीभावात् । तथाहि—मोक्षः परमपुरुषार्थतया सिद्धः, अथ च सन्ति केचिदव्युत्पन्ना ये तमपि परमपुरुषार्थं पुरुषार्थतया न जानन्ति । प्राग्ये न तं प्रार्थयिष्यन्ते ते । न वा सम्मुखीभूता प्रयोजनविशेषाकाङ्क्षा प्रयोजनविशेषविषयसन्देहोत्पत्तिहेतुर्युक्ता, कारणसत्ताधीनत्वात्कार्याणाम् । यदि नाम सा केषाञ्चिदपि सम्मुखीभवति, तथाप्यसौ साधनान्तरपरित्यागेन प्रतिनियतसाधनोपादानहेतोः संशयविशेषस्य हेतुर्नभवति; सर्वत्र साधकबाधकप्रमाणाभावेन तस्यास्तद्धेतुत्वेन न्यायप्राप्तत्वात् । न चैतावन्मात्रेण प्रवृत्तिर्युक्ता । सर्वत्र प्रवृत्तिप्रसङ्गात् । न च शक्यं केनचित्सर्वत्र प्रवर्त्तितुमित्यतः फलविशेषार्थिनोऽपि प्रतिनियतसाधनपरिग्रहनिबन्धनाभावादुदासीरन् ।तस्मात्प्रतिनियतसाधनपरिग्रहहेतुप्रयोजनविशेषविषयसंशयोत्पादनायात्यन्तपरोक्षार्थविषयागमप्रणयनवत् फलविशेषार्थिना प्रतिनियतसाधनपरिग्रहायाभिधानीयमेव प्रयोजनवाक्यम् । तथा हि तेनास्यैव शास्त्रस्यार्थविशेष उपदर्श्यते नान्यस्य । अतोऽनेन प्रतिनियतसाधनसाध्यफलविशेषविषयः संशयो जन्यते । स च श्रोता कदाचिन्ममायमर्थविशेषो निष्पत्स्यत इति प्रयोजनवाक्योपजनितात् प्रयोजनविशेषविषयादत्यन्तपरोक्षार्थविषयागमोपजनितादिव संशयात्प्रवर्त्तेतापीत्यतः प्रयोजनवाक्योपन्यासः ॥

अवश्यं चैतदेवं विज्ञेयम्, अन्यथाऽत्यन्तपरोक्षार्थविषयागमप्रणयनमपि व्यर्थं स्यात्; प्रागप्यागमप्रणयनाद्दानादिषु फलविशेषार्थिनां साधकबाधकप्रमाणाभावेन तत्संशयस्य विद्यमानत्वात् । किं त्वसावव्युत्पन्नस्वर्गादिफलानां नैवोत्पद्यते । तत्कारणभूतायाः फलविशेषार्थिताया असम्मुखीभावात् । येषां चोपजायते तेषामपि सर्वत्रोपलादिभक्षणेऽपि प्रवृत्तिहेतुतया साधारणत्वादुपलादिभक्षणपरिहारेण (न) प्रतिनियतदानादिपरिग्रहहेतुर्भवतीति मत्वा तदर्थमागमप्रणेतृभिरागमः प्रणीयते तद्वत्प्रयो जनवाक्यमपि शास्त्रकारैरित्यचोद्यमेतत् । न चापि जिज्ञासितप्रयोजनविशेषप्रतिपादकंशास्त्रान्तरमुपलब्धम्, येन तदुपलब्धिबलादभिमतप्रयोजनविशेषविषयः सन्देहो भवेत् । न ह्यभिमतप्रयोजनविशेषसाधने शास्त्रान्तरे सम्भवति कश्चित्प्रेक्षावान् परं शास्त्रान्तरमारभते । प्रेक्षावत्त्वहानिप्रसङ्गात् । अतो न शास्त्रान्तरोपलब्धिरपि विवक्षितप्रयोजनविशेषसन्देहहेतुर्भवति । तस्माच्छ्रोतृजनप्रवृत्त्यर्थः प्रयोजनादिवाक्योपन्यास इति स्थितम् ॥

“यस्तु” मन्यते न श्रोतृजनप्रवृत्त्यर्थं प्रयोजनादिकथनम्, ततः संशयोत्पत्तेः; संशयेन तु प्रेक्षावतः प्रवृत्त्यसम्भवात् । किन्तु यत्प्रयोजनरहितमनर्थकं वा तन्नारब्धव्यम्, यथा काकदन्तपरीक्षोन्मत्तादिवाक्यम्; प्रयोजनरहितं चेदं शास्त्रमतो न श्रोतुं कर्त्तुं वा प्रारब्धव्यमित्येवं व्यापकानुपलब्ध्या यः प्रत्यवतिष्ठते तस्य हेतोरसिद्धतोद्भावनार्थमादौ प्रयोजनादिवाक्योपन्यास इति । “तदसम्यगिव” लक्ष्यते । संशयेनापि प्रवृत्तेः प्रसाधितत्वात् । असिद्धतोद्भावनस्य च वैयर्थ्यात् । एवं हि तदर्थवद्भवेत् । यदि तस्य परस्यातो वाक्यात्प्रवृत्तिर्भवेत् । यावतोद्भावितायामप्यनेन वाक्येनासिद्धतायां नातो वाक्यात्प्रेक्षावतो यथोक्तव्यापकात्तत्वनिश्चयः समुत्पद्यते येनासौ प्रवर्त्तितो भवेत् । पूर्ववद्वाक्यस्यास्याप्रमाणत्वात् । संशयेन च प्रेक्षापूर्वकारिणो भवन्मतेन प्रवृत्त्यसम्भवात् । अतो विफलमेवासिद्धतोद्भावनम् । नापि कश्चित्प्रेक्षावानविदितशास्त्रशरीरोऽकस्माद्व्यापकाभावं निश्चित्यानेन प्रत्यवतिष्ठते । नापि तत्प्रत्यवस्थानात् स्वयं विदितशास्त्रप्रयोजनोऽपि शास्त्रकृन्नारभेत कर्तुं श्रोता वा प्रेक्षापूर्वकारीनिर्निबन्धनाद्वाक्यान्निवर्त्तते येन तयोः प्रवृत्त्यर्थमसिद्धतोद्भावनं स्यात् । अथापि स्याद्योऽप्रेक्षापूर्वकारी सोऽनिबन्धनमकस्मादपि यथोक्तव्यापकाभावं गृह्णीयात् । परैश्च ग्राहयेदपि, अतस्तं प्रत्यसिद्धतोद्भावनं क्रियत इत्येतदप्ययुक्तम् ॥

यदि तत्तेषां प्रवृत्त्यङ्गं शास्त्रेषु न भवति, तदा विफलमेव तं प्रत्यसिद्धतोद्भावनम्; अन्यथा ह्यतिप्रसङ्गः स्यात् । सन्ति हि बहुतरा असम्बद्धप्रलापिनः केचित्, तेषामप्ययुक्ताभिधायित्वप्रतिपादनाय बहुतरं शास्त्रप्रवृत्तावनुपयुज्यमानकमपि वक्तव्यमापद्येत । तस्मादवश्यमेव हेत्वसिद्धतोद्भावनं शास्त्रारम्भे माभूद्विफलमतिप्रसङ्गो वेति श्रोतृजनप्रवृत्तिफलमेव वर्णनीयम् । ततश्च योऽपि व्यापकानुपलब्ध्या न प्रत्यवतिष्ठेत न चाश्रुत्वा प्रयोजनं प्रवर्त्तेत तं प्रत्यपि सार्थकमेव किं न भवेत् । यथा वि भक्तं प्राक् । तस्मान्न श्रो(तस्मात् श्रो ?)तृजनप्रवृत्त्यर्थमेवाभिधेयादिकथनमिति स्थितम् । न तु पुनः स्वार्थम्, ततः स्वयमप्रवृत्तेरन्यथोन्मत्तकप्रलापवदसम्बद्धमेव स्यात् । यत्पुनरुक्तमाचार्येण न्यायविन्दौ— स्वयमप्येवं प्रतिपत्तिर्भवतीति स्वार्थानुमानेऽप्यस्याः प्रयोग इति, न तद्बहिर्भूतं प्रयोगमधिकृत्य । किं तर्हि अन्तर्जल्पात्मकमेव । स्वार्थानुमानस्य ज्ञानात्मकत्वात् । यच्च प्रायः प्राकृतशक्ती त्यादिकमुक्तं । तदपि वक्रोक्त्या परेषामीर्ष्यादिमलोपहतचेतसां भाजनीकरणार्थमित्यलं बहुना ॥

शास्तृपूजाविधानं तु भगवति सर्वश्रेयोधिगतिहेतोः प्रसादस्योत्पादनार्थम् । तथाहि गुणगणाख्यानविधिनाऽमुना भगवतो माहात्म्यमुद्भाव्यते । तदुपश्रुत्य च श्रद्धानुसारिमनसां तावदसंशयं भगवति झगिति चित्तप्रसादः समुदेति । येऽपि प्रज्ञानुसारिणस्तेऽपि तथाविधेषु बाधमपश्यन्तः प्रज्ञादीनां च गुणानामभ्यासात्प्रकर्षमवगच्छन्तोवक्ष्यमाणादप्यतीन्द्रियार्थदृक्साधकात्प्रमाणान्नूनं जगति सम्भाव्यन्त एव तथाविधाः सूरय इत्यवधार्य भगवति प्रसादमुपजनयन्त्येव । तत्प्रसादाच्च तद्गुणास्तत्प्रवचनेषु तदाश्रिते च शास्त्रादौ परीक्षापुरःसरमुद्ग्रहणाद्यर्थमाद्रियन्ते ततः श्रुतमय्यादिप्रज्ञोदयक्रमेण यावत्परं श्रेयोऽधिगच्छन्तीति महत्सु प्रसादः सर्वश्रेयोधिगतेः प्रधानं कारणम् । अत एव प्रायेण प्रसिद्धशास्तृकप्रवचनाश्रयेण प्रणीयमानेषु शास्त्रेषु शास्त्रकृतः शास्त्रस्यादौ तावत् स्वशास्तृपूजामेव विदधति । तस्यास्तत्प्रवृत्तावप्यङ्गभावस्य लेशतो विद्यमानत्वात् । अतएवोक्तम्— शास्त्रं प्रणेतुकामः स्वशास्तुर्माहात्म्यज्ञापनार्थं तस्मै नमस्कारमारभत इति । अतो नानर्थकं शास्तृपूजाविधानमिति स्थितम् ॥

तत्र तं प्रणम्येत्येतत्पर्यन्तेन शास्तृपूजाविधानं निर्दिष्टम् । क्रियते तत्त्वसङ्ग्रह इत्यनेनाभिधेयप्रयोजने प्राह—तथाह्यभिधेयमस्य शास्त्रस्य प्रकृत्यादिव्यापाररहितत्वादीनि प्रतीत्यसमुत्पादविशेषणानि तत्त्वानि । तानि च सामर्थ्यात्तत्त्वशब्देन दर्शितान्येव, अन्येषां तत्त्वार्थत्वानुपपत्तेः । “ननु” च वाक्यस्यैवाभिधेयवत्त्वं नान्यस्येति न्यायः, न च सकलं शास्त्रं वाक्यमपि तु वाक्यसमूहस्तत्कुतोऽस्याभिधेयसम्भवः । “नैतदस्ति” । यद्यपि वाक्यसमूहात्मकं शास्त्रं तथाऽपि तानि वाक्यानि परस्परव्यपेक्षासम्बन्धावस्थितानि, अन्यथोन्मत्तादिवाक्यसमूहवदसङ्गतार्थमेव स्यात् । ततश्च परस्परसम्बद्धानेकशब्दसमूहात्मकत्वात् तदन्यवाक्यवद्वाक्यमेव शास्त्रम् । न हि पदैरेव वाक्यमारभ्यतेऽपि तु वाक्यैरपि । अतो महावाक्यत्वादभिधेयवदेव शास्त्रमित्यचोद्यम् । प्रयोजन तु सङ्ग्रहशब्देन दर्शितम् । तथाहि—प्रयोजनमुपदर्श्यमानं शास्त्रेषु प्रवृत्तिकामानां शास्त्रगतमेवोपदर्शनीयं नान्यगतम्, अन्यथा ह्यसङ्गताभिधानं स्यात् । उक्तञ्च—शास्त्रेषु हि परं प्रवर्त्तयितुकामो वक्ता शास्त्रादौ प्रयोजनमभिधत्ते न व्यसनितया (इति) । कथं च परः प्रयोजनोपदेशाच्छास्त्रेषु प्रवर्तितो भवति । यदितद्गतमेव प्रयोजनमभिधीयते नान्यगतम् । नह्यन्य(दपि) (गत ?) प्रयोजनाभिधानादन्यत्र प्रेक्षावतः प्रवृत्तिर्भवेत् । विशिष्टार्थप्रतिपादनसमर्थं च वचनं शास्त्रमुच्यते । नाभिधेयमात्रं नापि शब्दमात्रमर्थप्रतिपादनसामर्थ्यशून्यमतो नाभिधेयादिगतं प्रयोजनमुपदर्शनीयम् । यत्पुनः सम्यग्ज्ञानपूर्विका सर्वज्ञत्वेनार्थसिद्धिरि(ति, तत्॥॥ ॥॥॥॥॥॥॥।?) इत्यनेनाभिप्रायेण प्रयोज(नम् ।) (न ?) प्रयोजनस्य कथनं नाभिधेयप्रयोजनस्य सम्यग्ज्ञानव्युत्पत्तेरेव सम्यग्ज्ञानशब्देन विवक्षितत्वात् । सम्यग्ज्ञानव्युत्पत्ते (स्तदर्थत्व एव सर्वज्ञत्वेनार्थसिद्धिः ? ) इत्येतत्प्रयोजनाभिधानं सङ्गतार्थं भवेत् । अन्यथा दुःश्लिष्टमेव स्यात् । तच्च प्रयोजनं शास्त्रस्य त्रिविधं क्रियारूपं क्रियाफलं क्रियाफलस्य फलम् । तथा हि—शास्त्रस्य परप्रतिपादनायाऽऽरभ्यमाणस्य का रणत्वं वा भवेत् । कर्तृत्वं वा, कर्तृकरणयोश्च साधनत्वान्न यथोक्तप्रयोजनव्यतिरिक्तम्प्रयोजनमस्ति, क्रियापेक्षत्वात्साधनस्य । त्रिविधस्यापि च क्रियादेस्तदविनाभावित्वात्तत्प्रयोजनत्वं युक्तमेव । साक्षात्पारम्पर्यकृतस्तु विशेषः । फलाख्यं तु प्रयोजनं प्रधानम्, तदर्थत्वात्क्रियारम्भस्य । तत्र सर्ववाक्यानां स्वाभिधेयप्रतिपादनलक्षणा क्रियासाधारणा । सा चातिप्रतीततया न प्रयोजनत्वेनोपदर्शनीया तस्यां शास्त्रस्य व्यभिचाराभावात् । अनभिधेयत्वाशाङ्काव्युदासार्थमुपदर्शनीयेति चेत् । न । अभिधेयकथनादेव तदाशङ्काया व्युदस्तत्वात् । नाप्यभिधेयविशेषप्रतिपिपादयिषया तदुपदर्शनम्,अभिधेयविशेषकथनादेव तस्य प्रतिपादितत्वात् । तस्मादसाधारणा या क्रिया सोपदर्शनीया सा त्वस्य शास्त्रस्य विद्यत एव तत्त्वसङ्ग्रहलक्षणा । यतोऽनेन शास्त्रेण तेषान्तत्त्वानामितस्ततो विप्रकीर्णानामेकत्र बुद्धौ विनिवेशलक्षणः सङ्ग्रहः क्रियते । अतस्तामेव सङ्ग्रहशब्देन दर्शितवान् । अस्याश्च तत्त्वसङ्ग्रहक्रियायाः प्रतिपाद्य(पत्तृ ?)सन्तानगतस्तत्त्वसुखावबोधः फलम् । तदपि सङ्ग्रहशब्देन प्रकाशितमेव । एकत्र हि सङ्क्षिप्तस्य तत्त्वस्य प्रतिपत्तुः सुखेनोद्ग्रहो जायते, दुःखेन तु विप्रकीर्णस्येति कृत्वा सुखोद्ग्रहकारणं सङ्ग्रहं सङ्ग्रहशब्देन प्रतिपादयंस्तत्त्वसुखावबोधार्थमिदमारभ्यत इतिप्रकाशयति । न तु तत्त्वावबोधमात्रमस्य फलम्, एवं हि शास्त्रस्य प्रणयनवैयर्थ्यं पूर्वाचार्यैरेव तत्त्वनिश्चयस्य कृतत्वात् । अतो विशेषतः परानुग्रहस्यापि भावात् । परार्थत्वाच्च शास्त्रस्य । तस्मात्पूर्वाचार्यैः प्रतिपादितान्यपि तत्त्वानि यो मन्दधीरतिविप्रकीर्णतया सुखमवधारयितुमशक्तंस्तं प्रति सुखावधारणाय तत्त्वसङ्ग्रह आरभ्यमाणो न विफलतामेष्यतीति मन्यमानः शास्त्रमिदमारभते । अत एव तत्त्वसङ्ग्रह इत्याह । अन्यथा क्रियते तत्त्वनिश्चय इत्येवमुक्तं स्यात् । एवं हि यथाविवक्षितार्थप्रतिपादनं स्फुटमेव कृतं भवेत्तस्मात्तत्त्वसुखावबोध एव तत्त्वसङ्ग्रहक्रियायाः फलम् । तस्यापि च सुखावबोधस्याचिरेणाभ्युदयनिःश्रेयसावाप्तिः प्रयोजनम् । तच्चातिप्रतीतमेवेति नोक्तम्,तत्त्वज्ञानादभ्युदयनिःश्रेयसावाप्तिर्भवतीति सर्वास्तिकानां प्रसिद्धत्वात् ॥

अथवा—जगद्धितविधित्सयेत्येतस्योत्तरत्रानुवृत्तेस्तदपि दर्शितमेव । तथाहि—तदनुवृत्तौ जगद्धितविधित्सया तत्त्वसङ्ग्रहः क्रियत इति वाक्यार्थो जायते । जगद्धितविधित्सा च तत्त्वसङ्ग्रहक्रियायाः कथं हेतुर्भवति । यदि जगद्धितविधानं तत्त्वसङ्ग्रहक्रियायाः फलं स्यात् । यथा पिपासया सलिलमानयतीत्यत्र सलिलपानं तदानयनक्रियायाः फलमिति गम्यते, तद्वदिहापि; ततश्च जगद्धितविधानार्थं तत्त्वसङ्ग्रहः क्रियत इत्यर्थः सन्तिष्ठते । एतच्चानुगुणोपायमेव प्रयोजनमुपदर्शितम् । तथाह्यभ्युदयनिःश्रेयसावाप्तिर्जगद्धितमुच्यते । तस्य चाविपर्यासो हेतुः, सर्वसङ्क्लेशस्य विपर्यासमूलत्वात्; सङ्क्लेशविपरीतत्वाच्च जगद्धितस्य । अतस्तद्धेतुविपरीतोऽस्य हेतुरवतिष्ठते । अविपर्यासश्च यथावत्कर्मफलसम्बन्धाभिसम्प्रत्ययः, अविपरीतपुद्गलधर्मनैरात्म्यावबोधश्च । स चास्मादविपरीतप्रतीत्यसमुत्पादसम्प्रकाशकाच्छास्त्राच्छ्रवणचिन्ताभावनाक्रमेणोपजायत इत्यतोऽवगम्यत एव तत्त्वसङ्ग्रहक्रियातो जगद्धितमपि सम्पद्यत इति ।अभ्युदयनिःश्रेयसावाप्तौ च सत्यामभिमतार्थपरिसमाप्त्या पुरुषस्याकाङ्क्षाविच्छेदादतो नापरमूर्ध्वं प्रयोजनं मृग्यमिति प्रयोजननिष्ठा ॥

सम्बन्धस्त्वभिधेयप्रयोजनाभ्यां न पृथगुपदर्शनीयो निष्फलत्वात् । तथाहि—सम्प्रदर्श्यमानः शास्त्रप्रयोजनयोः साध्यसाधनभावलक्षणो दर्शनीयो नान्यो गुरुपर्वक्रियादिलक्षणस्तस्यार्थिप्रवृत्तेरनन्तत्वात् । स च साध्यसाधनभावः प्रयोजनाभिधानादेव दर्शितः । तथाहीदमस्य प्रयोजनमिति दर्शयता दर्शितं भवतीदमस्य साधनमिति । न हि यो यन्न साधयति तत्तस्य प्रयोजनं भवत्यतिप्रसङ्गात् । तस्मात्सामर्थ्यलभ्यत्वान्नासौ प्रयोजनाभिधेयाभ्यां पृथगभिधानीयः । स हि नाम तस्मात्पृथगुपा दानमर्हति यो यस्मिन्नभिहितेऽपि न गम्यते । यथाऽभिधेयप्रयोजनयोरन्यतराभिधानेऽपि नेतरावगतिर्भवति न च सम्भवोऽस्ति, यत्प्रयोजनाभिधानेऽपि यथोक्तः सम्बन्धो नाभिहितः स्यादिति द्वे एवाभिधेयप्रयोजने वाच्ये । एतच्चाभिधेयादि न वाक्यार्थतया विभक्तमस्माभिः । अपि तु वाक्यादवयवानपोद्धृत्य तदर्थतया । वाक्यार्थस्तु यथोक्तसङ्ग्रहकरणमेव । यदा गुणीभूतस्याप्यभिधेयादेर्वाक्यादस्मात्प्रतीयमानत्वाद्वाक्यार्थत्वमविरुद्धमेव । प्राधान्येन हि वाक्यस्यानेकार्थाभिधानं विरुद्धम् । न तु गुणप्रधानभावेन ॥

“अथा”परिमितगुणगणाधारे भगवति किमिति प्रतीत्यसमुत्पाददेशनयैव स्तोत्राभिधानम् । “तदेतदचोद्यम्” । सर्वत्रैव तुल्यपर्यनुयोगत्वात् । न च शक्यमपरिमितगुणोद्भावनया पूजाभिधानं कर्तुमिति गुणैकदेशोद्भावनयैव सा विधेया । तेन प्रतीत्यसमुत्पाददेशनोद्भावनया वा सा विहिताऽन्यथा वेति न कश्चिद्विशेषः ॥

तथाप्युच्यते विशेषः । तथाहि—यथाभूतगुणसम्पद्योगादभ्युदयनिःश्रेयसप्रापणतो जगतः शास्ता भवति भगवान् स एवाभ्युदयनिःश्रेयसार्थिनां भगवच्छरणादिगमनहेतुरभिधानीयः । प्रतीत्यसमुत्पाददेशनया चाभ्युदयादिसभ्प्रापको भगवान् । तथाहि—अविपरीतप्रतीत्यसमुत्पाददेशनातस्तदर्थावधारणात्सुगतिहेतुरविपरीतकर्मफलसम्बन्धादिसम्प्रत्यय उपजायते, पुद्गलधर्मनैरात्म्यावबोधश्च निःश्रेयसहेतुः श्रुतचिन्ताभावनाक्रमेणोत्पद्यते, तदुत्पत्तौ ह्यविद्या संसारहेतुर्निवर्त्तते, तन्निवृत्तौ च तन्मूलं सकलं क्लेशज्ञेयावरणं निवर्त्तत इति सकलावरणविगमादपवर्गसम्प्राप्तिर्भवति । तेन प्रतीत्यसमुत्पादप्रधानमिदं भगवतः प्रवचनरत्नमित्यविपरीतप्रतीत्यसमुत्पादाभिधायित्येव भगवतः स्तोत्राभिधानम् । स चायं प्रतीत्यसमुत्पादः परैर्विषमहेतुः प्रमाणव्याहतपदार्थाधिकरणश्चेष्यते । अतस्तन्निरासेन यथावदेव भगवतोक्त इति दर्शनार्थं वक्ष्यमाणसकशास्त्रप्रतिपाद्यार्थतत्वोपक्षेपार्थं च बहूनां यथोक्तप्रतीत्यसमुत्पादविशेषणानामुपादानमिति समुदायार्थः । अवयवार्थस्तूच्यते । तत्र प्रकृतीशोभयात्मादिव्यापाररहितमित्यादौ सर्वत्र यः प्रतीत्यसमुत्पादं जगादेति सम्बन्धः । तत्र प्रकृतिः साङ्ख्यपरिकल्पितं सत्वरजस्तमोरूपं प्रधानम्, ईशः—ईश्वरः, उभयम्—एतदेव द्वयम्, आत्मा—सृष्टिसंहारकारक एकः पुरुषस्तदन्यश्च संसारीआदिग्रहणेन कालादिपरिग्रहः—तेषां व्यापारः—कारणभावः, तेन रहितम्—तद्व्या पारशून्यमित्यर्थः । तत्रेदमुक्तं भगवता— स चायमङ्कुरो न स्वयं कृतो नोभयकृतोनेश्वरनिर्मितो न प्रकृतिसम्भूतो नैककारणाधीनो नाप्यहेतुः समुत्पन्न इति । एतेनप्रधानेश्वरोभयाहेतुकशब्दब्रह्मात्मपरीक्षाणामुपक्षेपः । अथ स तमेवम्भूतं प्रतीत्यसमुत्पादं किमक्षणिकं जगाद ? नेत्याह—“चलमि”ति । चलम्—अस्थिरम्, क्षणिकमिति यावत् । अन्यस्य चलत्वायोगादिति भावः । तत्रेदमुक्तं भगवता— क्षणिकाः सर्वसंस्कारा अस्थिराणां कुतः क्रिया । भूतिर्येषां क्रिया सैव कारकं सैव चोच्यत इति । अयं च स्थिरभावपरीक्षोपक्षेपः । यद्येवं कर्मफलसम्बन्धादिव्यवस्थायाः प्रतीत्यसमुत्पाद आश्रयो न प्राप्नोति चलत्वादित्यत आह—“कर्मे”त्यादि । एतच्च पश्चात्प्रतिपादयिष्याम इति भावः । तत्र कर्म—शुभाशुभम्, तत्फलं चेष्टानिष्टम्, तयोः सम्बन्धो जन्यजनकभावलक्षणः, तस्य व्यवस्था संस्थितिः, व्यवहार इति यावत् । आदिशब्देनस्मृतिप्रत्यभिज्ञानसंशयनिश्चयस्वयन्निहितप्रत्यनुमार्गणदृष्टार्थकुतूहलविरमणकार्यकारणभावतदधिग़न्तृप्रमाणबन्धमोक्षादिव्यवस्थापरिग्रहः तेषां समाश्रय इति विग्रहः । तत्रोक्तं भगवता— इति हि भिक्षवोऽस्तिकर्मास्तिफलं कारकस्तु नोपलभ्यते य इमान् स्कन्धान्विजहात्यन्यांश्च स्कान्धानुपादत्तेऽन्यत्र धर्मसङ्केतात् । तत्रायं धर्मसङ्केतो यदुतास्मिन्सतीदं भवतीत्यादि । अयं च कर्मफलसम्बन्धपरीक्षोपक्षेपः । स पुनरयं प्रतीत्यसमुत्पादः स्कन्धधात्वायतनानां द्रष्टव्यः, तेषामेव प्रतीत्यसमुत्पन्नत्वात् ॥ १ ॥

ननु द्रव्यगुणकर्मादयो वस्तुभूताःसन्ति तेषां कस्मान्न भवतीत्यत्राह—“गुणे”त्यादि । गुणाश्च द्रव्याणि च क्रियाश्च जातिश्च समवायश्चेति द्वन्द्वः । जातिशब्देन परमपरं च द्विविधमपि सामान्यं गृह्यते । आदिशब्देन अन्त्यद्रव्यवर्त्तिनां विशेषाणाम्, ये च धर्मिव्यतिरेकिणो धर्माः कैश्चिदुपवर्ण्यन्ते यथा षण्णामपि पदार्थानामस्तित्वं सदुपलम्भकप्रमाणविषयत्वमित्येवमादयस्तेषां ग्रहणम् । गुणादयश्च ते उपाधयश्च विशेषणानीति विशेषणसमासः । तैः शून्यं रहितमित्यर्थः । तत्रेदमुक्तं भगवता— सर्वं सर्वमिति ब्राह्मण ? यावदेव पञ्च स्कन्धा द्वादशायतनान्यष्टादश धातवइति । अयं चषट्पदार्थपरीक्षोपक्षेपः । ननु चोपाध्यभावे कथं प्रतीत्यसमुत्पादः शब्दविकल्पाभ्यां विषयीक्रियते, न च ताभ्यामविषयीकृतमभिधातुं पार्यते, न च शब्दविकल्पयोरुपाधिमन्तरेण प्रवृत्तिरस्ति, तत्कथं तं भगवान् जगादेत्याह—“आरोपिताकारे”त्यादि । आरोपितो—बाह्यत्वेनाध्यारोपित आकारः—स्वभावो यस्य शब्दप्रत्यययोर्गोचरस्य स तथोक्तः, आरोपिताकारः—शब्दप्रत्यययोर्गोचरो—विषयो यत्र प्रतीत्यसमुत्पादे स तथोक्तः । प्रत्ययशब्दः शब्दशब्दसन्निधानादाविष्टाभिलापात्मके प्रत्ययविशेषे विकल्पे द्रष्टव्यः, तयोरेकविषयत्वाव्यभिचारित्वेन सहचरितत्वात् । तेनैतदुक्तं भवति । यद्यप्युपाधयो न सन्ति, तथापीतरेतरव्यावृत्तवस्तुदर्शनद्वारायातो बहीरूपत्वेनाध्यवसितो विकल्पः प्रतिबन्धात्मकः शब्दार्थस्तत्रास्ति । नहि परमार्थतः शब्दानामसौ गोचरः, तत्र सर्वविकल्पानामतीतत्वात् । किन्तु यथैवाविचारितरमणीयतया लोके शब्दार्थः सिद्धस्तथैव भगवद्भिरपि समु(म ?)पेक्षिततत्वार्थैर्गजनिमीलिकया परमार्थावताराय तद्भावनासंवृत्त्या प्राकाश्यते, उपायान्तराभावात् । समारोपिताकारत्वेऽपि शब्दार्थस्य पारम्पर्येण वस्तुप्रतिबन्धात्तदधिगमे हेतुत्वमस्त्येवेति तथाविधं वस्तु तेषां सामर्थ्यात्प्रकाशितमेव भवतीति न विप्रलम्भसम्भवः । तत्रेदमुक्तं तायिना— येन येन हि नाम्ना वै यो यो धर्मोऽभिलप्यते । नासौ संविद्यते तत्र धर्माणां सा हि धर्मता । इति । अयं च शब्दार्थपरीक्षोपक्षेपः ॥ २ ॥

अथ किमयं तीर्थिकपरिकल्पितपदार्थवत्प्रतिपादकप्रमाणद्रविणदरिद्रतया वचनरचनामात्रसार आहोस्विदस्ति किञ्चिदस्य प्रतिपादयितृ प्रमाणम् ? अस्तीत्याह—“स्पष्टे”त्यादि । स्पष्टं च तल्लक्षणं चेति विशेषणसमासः । स्पष्टत्वं च लक्षणस्यासम्भवाव्याप्त्यतिव्याप्तिदोषरहितत्वात् । तीर्थिकप्रमाणलक्षणं त्वस्पष्टमिति दर्शनार्थं स्पष्टलक्षणमित्याह । तेन संयुक्तम्—समन्वितं यत्प्रमाद्वितयम्—प्रत्यक्षानुमानाख्यं तेन निश्चितम् । एतच्च सर्वपरीक्षासु प्रतिपादयिष्यति । एतदपि भगवतोऽनुमतम् ; यथोक्तम्— तापाच्छेदाच्च निकषात्सुवर्णमिव पण्डितैः । परीक्ष्य भिक्षबो ग्राह्यं मद्वचो नतु गौरवात् ॥ इति । तत्र प्रत्यक्षस्य लक्षणं भ्रान्तिकल्पनाभ्यां रहितत्वम् । तच्च भगवतोक्तमेव । यदाह — चक्षुर्विज्ञानसङ्गी नीलं विजानाति, नो तु नीलमिति । तथाहि नीलं विजानातीत्यनेनाविपरीतविषयत्वख्यापनादभ्रान्तत्वमुक्तम्, नो तु नीलमित्यनेन नामानुविद्धार्थग्रहणप्रतिक्षेपात् कल्पनारहितत्वम् । अनुमानस्यापि लक्षणमुक्तमेवानुमानाश्रयं लिङ्गं दर्शयता । तथाहि— साध्यार्थाविनाभूतं लिङ्गं विनिश्चितं सदनुमानज्ञानस्य कारणम्, तच्च यत्किञ्चिद्भिक्षवः समुदयधर्मकं सर्वत्र निरोधधर्मकमिति । एवं साध्येन हेतोर्व्याप्तिमुपदर्शयता स्फुटतरमेव प्रकाशितम् । यथोक्तम्—अनुमानाश्रयो लिङ्गमविनाभावलक्षणम् । व्याप्तिदर्शनाद्धेतोः । साध्ये(ध्यो ?)नोक्तः स च स्फुट इति । तच्च लिङ्गं स्वभावकार्यानुपलम्भविशेषभेदेन त्रिधा भिद्यते । तत्र यत्किञ्चिद्भिक्षवस्समुदयधर्मकमित्यनेन स्वभावाख्यं लिङ्गमुपदर्शितमेव । कार्याख्यमपि— धूमेन ज्ञायते वह्निः सलिलं च बलाकया । निमित्तैर्ज्ञायते गोत्रं बोधिसत्वस्य धीमतः ॥ इति ब्रुवता दर्शिन्तम् । अनुपलम्भविशेषाख्यमपि दर्शितमेवानुपलम्भमात्रस्य प्रामाण्यं प्रतिक्षिपता । यथोक्तम्— मा भिक्षवः पुद्गलः पुद्गलं प्रमिणोतु पुद्गले वा प्रमाणमुद्गृह्णातु, क्षण्यते हि भिक्षवः पुद्गलः पुद्गलं प्रमिण्वन्, अहं वा पुद्गलं प्रमिणुयां यो वास्यान्मादृशइति । एतेन हि स्वभावविप्रकृष्टेष्वनुपलम्भमात्रस्य प्रामाण्यं प्रतिक्षिप्तम्, अहं वेत्यादि ब्रुवताऽनुपलम्भविशेषस्यैव प्रामाण्यमित्येतदपि स्फुटतरमेव दर्शितम् । अयं च प्रत्यक्षानुमानप्रमाणान्तरपरीक्षाणामुपक्षेपः । अथ किमयं प्रतीत्यसमुत्पादः केनचिद्वस्तुत्वादिना रूपेण सान्वयः ? यथाहुः स्याद्वादिनः, आहोस्विदसङ्कीर्णस्वभावः, किं चातः सान्वयत्वे प्रत्यक्षादीनां लक्षणसाङ्कर्यम्, कार्यकारणयोश्च स्वभावाभेदादजन्यजनकत्वम्, ततश्च न स्पष्टलक्षणयोगिप्रमाद्वितयनिश्चितत्वम् । नापिप्रतीत्यसमुत्पादार्थो युक्तः । असङ्कीर्णस्वभावत्वेऽपि सहकारिणां भेदाविशेषादजनकाभिमतपदार्थवदेकार्थक्रियाकारित्वं न भवेत्; अत्राह—“अणीयसापी”त्यादि । एवं मन्यते, उत्तर एवात्र पक्षो न चात्र यथोक्तदोषावसर इति, पश्चात्प्रतिपादयिष्यामः । मिश्रीभूतः—सङ्कीर्णः अपरात्मा यत्रेति विग्रहः । अपरस्य कारणादेः स्वभावस्य यत्र लेशतोऽपि कार्याद्यात्मन्यनुगमो नास्तीत्यर्थः । अणीयसापीति—सूक्ष्मतरेणापि । न केवलं बहुभिः सत्वज्ञेयत्वादिभिरित्यपिशब्देन दर्शयति । एकस्यापि हि रूपस्यानुगमे सर्वात्मनानुगतिः स्यादिति भावः । एतच्च पश्चात्प्रतिपादयिष्यति । स चायमुक्तो भगवता— कथं नु शाश्वतोऽङ्कुरः, यस्मादन्याङ्कुरोऽन्यद्बीजम् । न तु यएवाङ्कुरस्तदेव बीजम् । तथा विसदृशो बीजादङ्कुर इति, अतो न सङ्क्रमतइति । अयं च स्याद्वादपरीक्षोपक्षेपः ॥ ३ ॥

अथ किमसङ्कीर्णस्वभावा अपि स्कन्धादयोऽध्वस्वजहत्स्वभावा एव वर्त्तन्ते ? यथाहुरेके सङ्क्रान्तिवादिनः सर्वास्तिवादाः । नैवमित्याह—“असङ्क्रान्ति”मिति— यदि तु सङ्क्रान्तिः स्यात्तदा सर्वात्मना सत्वान्न किञ्चिज्जन्यमस्तीति प्रतीत्यसमुत्पादस्यैवायोग इति भावः । न विद्यते सङ्क्रान्तिः—अध्वसु सञ्चारः स्कन्धादीनां यत्रेति विग्रहः । एतच्चाभिहितं भगवता । यथोक्तम्—चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति निरुध्यमानं न क्वचित्सन्निचयं गच्छति । इति हि भिक्षवश्चक्षुरभूत्वा भवति भूत्वा च प्रतिविगच्छतीति । अयं च त्रैकाल्यपरीक्षोपक्षेपः । अथ किमयं दृष्टमात्रकालभावी ? यथाहुश्चार्वाकाः—भस्मीभूतस्य शान्तस्य पुनरागमनं कुतः इति । नेत्याह—“अनाद्यन्त”मिति । अविद्यमानावाद्यन्तावस्मिन्निति विग्रहः । एतदपिनिर्दिष्टं भगवता— अनवराग्रो हि भिक्षवो जातिसंसारइत्यादिना । अवरमित्यन्तोऽभिधीयते, अग्रमिति चादिः, तयोः प्रतिषेधादनवराग्र इत्युच्यते । एतच्चानुत्पन्ना(र्य)मार्गानधिकृत्योक्तं, उत्पन्नार्यमार्गाणां तु शान्त एव संसारः । अतएवोक्तम्—दीर्घो बालस्य संसारः सद्धर्ममविजानतःइति । अयं च लोकायतपरीक्षोपक्षेपः । अथ किमयं प्रतीत्यसमुत्पादो बहिरर्थात्मक आहोस्विच्चित्तमात्रशरीर इति, आह— प्रतिबिम्बादिसन्निभमिति । एतेन चित्तमात्रात्मक एवेति दर्शयति । तथाहीदमुक्तं भवति । यथाहि प्रतिबिम्बालातचक्रगन्धर्वनगरादयश्चित्तमात्रशरीरास्तथाऽयमपीति । एतच्चोक्तं“भगवता”— बाह्यो न विद्यते ह्यर्थो यथा बालैर्विकल्प्यते । वासनालुठितं चित्तमर्थाभासं प्रवर्त्तते ॥ इति । अयं च बहिरर्थपरीक्षोपक्षेपः । तदेवं यथोक्तासदर्थकल्पनाजालरहितत्वं प्रतीत्यसमुत्पादस्य प्रतिपाद्योपसंहरन्नाह—“सर्वप्रपञ्चे”त्यादि । सर्वेषांयथोक्तानां प्रकृतिहेतुत्वादीनां प्रपञ्चानां सन्दोह:—समूहः, तेन निर्मुक्तः । अथ किमयमन्यैरपि हरिहरहिरण्यगर्भादिभिरेवमभिसम्बुद्धः ? नेत्याह—“अगतं परै”रिति । सर्वतीर्थानां वितथात्मदृष्ट्यभिनिविष्टत्वाद्भगवत एवायमावेणिकोऽभिसम्बोध इति दर्शयति । एतच्च सर्वपरीक्षासु प्रतिपादयिष्यति ॥ ४ ॥

अथायमेवम्भूतः प्रतीत्यसमुत्पादः किं स्वयमभिसम्बुध्य गदितो भगवता, आहोस्वित्पराभिमतापौरूषेयवेदाश्रयेण, यथाहुर्जैमिनीयाः—तस्मादतीन्द्रियार्थानां साक्षाद्द्रष्टा न विद्यते । वचनेन तु नित्येन यः पश्यति स पश्यति ॥ इति । नैवमित्याह—“स्वतन्त्रश्रुतिनिःसङ्ग” इति—स्वतन्त्रा श्रुतिः—“स्वतः”प्रमाणभूतो वेदः, नित्यं वचनमिति यावत् । तस्या निःसङ्गः—निरास्थः, तन्निरपेक्ष एव साक्षाद्दर्शी प्रतीत्यसमुत्पादं गदितवानित्यर्थः । न चाप्यपौरुषेयं वाक्यमस्ति । यथोक्तं भगवता — इत्येते आनन्दपौराणा महर्षयो वेदानां कर्त्तारो मन्त्राणां प्रवर्त्तयितारइति । एतच्च पश्चात्प्रतिपादयिष्याम इति भावः । अयं च श्रुतिपरीक्षायाः स्वतन्त्रप्रामाण्य परीक्षायाश्चोपक्षेपः । अथ समधिगताशेषस्वार्थसम्पत्तेर्भगवतः किमर्थमियं प्रतीत्यसमुत्पाददेशनेत्याह—“जगद्धितविधित्स”येति । जगते हितं जगद्धितं । तत्पुनरविपरीतप्रतीत्यसमुत्पादावबोधोपायमशेषक्लेशज्ञेयावरणप्रहाणम्, तद्विधातुमिच्छा जगद्धितविधित्सा, सा तद्देशनायाः कारणम् । साऽपि जगद्धितविधित्सा कुतोऽस्य जायेतेत्याह—“अनल्पे”त्यादि । अनल्पैः कल्पासङ्ख्येयैः सात्मीभूता महादया यस्येतिविग्रहः । सा च महादया भगवतः समधिगताशेषस्वार्थसम्पत्तेरपि परार्थकरणव्यापारापरित्यागादवगम्यते ॥ ५ ॥

अथासौ सात्मीभूतमहादयः किं कृतवानित्याह—“य”इत्यादि । य इति सामान्यवचनोऽपि बुद्धे भगवति प्रवर्त्तते, अन्यस्य यथोक्तगुणासम्भवात् । “प्रतीत्यसमुत्पाद”मिति । हेतून्प्रत्ययान्प्रतीत्य—समाश्रित्य यः स्कन्धादीनामुत्पादः स प्रतीत्यसमुत्पादः । एतदुक्तं भवति । हेतुप्रत्ययबलेनोत्पन्नान्स्कन्धादीन्यो जगादेति । यद्यपि समुत्पाद इति व्यतिरेकीव निर्देशस्तथापि प्रतीत्यसमुत्पन्नमेव वस्तु भेदान्तरप्रतिक्षेपमात्रजिज्ञासायां तथा निर्दिश्यते । यद्वा—समुत्पद्यत इति समुत्पादः कृत्यल्युटो बहुलमिति वचनात्कर्त्तरि घञ् । ततः प्रतीत्यशब्देन सुप्सुपेति मयूरव्यंसकादित्वाद्वा समासः । असमस्तमेव वा । एतेन च सर्वेण भगवतः सम्यक्परहितानुष्ठानसम्पत्सोपाया परिदीपिता भवति । तथाहि—यः प्रतीत्यसमुत्पादमेवम्भूतं जगादेत्यनेन यथावत्परहितानुष्ठानं भगवतो दर्शितम् । इदमेव हितानुष्ठानं भगवतो यत्परेषामविपरीतस्वर्गापवर्गमार्गोपदेशः । यथोक्तम्— युष्माभिरेव कर्त्तव्यमाख्यातारस्तथागताःइति । अस्याश्चाविपरीतपरहितानुष्ठानसम्पद उपायो धर्मेषु साक्षाद्दर्शित्वं महाकरुणा च, यतः कृपालुरपि यथाभूतापरिज्ञानान्न सम्यक्परहितमुपदेष्टुं समर्थः, परिज्ञानवानपि कृपाहीनो नैवोपदिशेत्, उपदिशन्नप्यहितमप्युपदिशेत् । तस्मात्प्रज्ञाकृपेद्वे अपि सम्यक् परहितानुष्ठानोपायो भगवतः । तच्च साक्षाद्दर्शित्वं स्वतन्त्रश्रुतिनिःसङ्गत्वेन दर्शितम्; सात्मीभूतमहादयत्वेन च महाकरुणायोगः । ननु चाविपरीतः प्रतीत्यसमुत्पादो बोधिसत्वश्रावकादिभिरपि निर्दिष्टः, तत् कोऽत्रातिशयो भगवत इत्याह—“गदतांवर”इति । यद्यपि ते श्रावकादयः प्रतीत्यसमुत्पादं गदन्ति, तथापि भगवानेव तेषां गदतांवरः । भगवदुपदिष्टस्यैव धर्मतत्वस्य प्रकाशनान्नहि तेषां स्वतो यथोक्तप्रतीत्यसमुत्पाददेशनायां शक्तिरस्ति । सर्वगुणदोषप्रकर्षापकर्षनिष्ठाधिष्ठान त्वाद्वा भगवानेव श्रेष्ठो नेतरे । तेषां तद्विपरीतत्वात् । एतेन च भगवतः श्रावकादिभ्यो विशिष्टत्वप्रतिपादनेन सवासनाशेषक्लेशज्ञेयावरणप्रहाणलक्षणा स्वधि(धी ?)सम्पत्परिदीपिता भवति । अन्यथा कथमिव तेभ्यो विशिष्टो भवेत्, यदि यथोक्तगुणयोगिता न स्याद्भगवतः । अतएवाह—“तं सर्वज्ञ”मिति । अयं च सर्वज्ञसिद्ध्युपक्षेपः । अथ तं प्रणम्य किं क्रियत इत्याह—“क्रियते तत्त्वसङ्ग्रह”इति । यथोक्तान्येव प्रतीत्यसमुत्पादविशेषणानि तत्त्वानि, अविपरीतत्वात्, तेषामितस्ततो विप्रकीर्णानामेकत्र हि सङ्क्षेपः सङ्ग्रहः, तत्प्रतिपादकत्वाद्ग्रन्थस्यापि तथा व्यपदेशः । सीताहरणं काव्यमिति यथा । अथवा सम्यक् समन्ताद्वा गृह्यन्ते अनेन तत्वानीति सङ्ग्रहो ग्रन्थ एवोच्यते क्रियत इति प्रारब्धापरिसमाप्तकालापेक्षया वर्तमानकालनिर्देशः ॥ ६ ॥