सर्व-मत-सङ्ग्रहः

TODO: proofread

TRIVANDRUM SANSKRIT SERIES No. LXII. THE SARVAMATASANGRAHA EDITED BY MAHAMAHOPADHYAYA T. GANAPATI SÂSTRÎ Curator of the Department for the publication of Sanskrit Manuscripts, Trivandrum. PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF HIS HIGHNESS THE MAHARAJAH OF TRAVANCORE TRIVANDRUM: PRINTED BY THE SUPERINTENDENT GOVERNMENT PRESS (All Rights Reserved.) 1918. अनन्तशयन संस्कृतग्रन्थावलिः । ग्रन्थाङ्कः ६२. सर्वमत संग्रहः संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण महामहोपाध्यायेन त. गणपतिशास्त्रिणा संशोधितः । स च अनन्तशयने महामहिमश्रीमूलकरामवर्मकुलशेखरमहाराजशासनेन राजकीयमुद्रणयन्त्रालये तदध्यक्षेण मुद्रयित्वा प्रकाशितः । कम्बान्दा १०९३, स्ताब्दाः १९१८. PREFACE. This edition of the Sarvamatasangraha is based on two palm-leaf manuscripts in Malayalam characters obtained from Mr. Paramesvaran Potti of Changarappalli Mathom. The name of the author is not found in the manuscripts. 1 * The work deals, at first, with the eight Pramânas Pra- tyaksha and others and then with the six Darsanas or schools of Philosophy. Of these the Laukâyata, Ârhata and Bauddha are the non-Vedic schools and the Tarka, Sânkhya and Mîmâmsâ are the Vedic ones. The Bauddha schools being again sub-divided into Mâdhyamika, Yogâchâra, Sautrântikā and Vaibhâshika, the non-Vedic schools become six-fold; and similarly the vedic schools also come to be six, if we split the Tarka into Nyâya and Vaiseshika and the Sânkhya into Sesvara-Sankhya and Nirisvara-Sânkhya and the Mîmâmsâ into Brahma-Mîmâmsâ and Karma-Mîmâmsa. The tenets of Prabhakara and Kumârila are dealt with under Karma- Mîmâmsa and the Aupanishada and Paurânika schools are described under Brahma-Mimâmsa. The doctrines of Ni- rguna-Brahma and Saguna-Brahma of the Aupanishada schools are then considered and the work then closes with a description of the Paurânika school. Trivandrum,) 31st May 1918. ƒ T. GANAPATI SÂSTRÍ निवेदना । सर्वमत संग्रहो नामायं ग्रन्थः, चङ्गारप्पल्लिमठस्वामिनः श्रीयुतपरमे- श्वरपोत्तिमहाशयस्य सकाशाल्लब्धं केरलीयलिपि तालपत्रात्मकमादर्शद्वयमा- श्रित्य संशोधितः । एतत्प्रणेतुर्नामधेयं ग्रन्थे न दृष्टम् । अत्र प्रत्यक्षादीन्यष्टौ प्रमाणानि संक्षेपत आदावुपन्यस्य ततः षड् दर्शनानि निरूपितानि । तत्रावैदिकानि, लोकायता -हत- बौद्धभेदात् त्रीणि दर्शनानि, वैदिकानि च त्रीणि, तर्क सांख्य-मीमांसाभेदात् । तत्रापि माध्य- मिक-योगाचार-सौत्रान्तिक-वैभाषिकभेदेन बौद्धचातुर्विध्याद् अवैदिकदर्शनानि षट् पर्यवसितानि । एवं वैदिकदर्शनान्यपि षट् पर्यवस्यन्ति, तर्कस्य काणा - दाक्षपादभेदेन, सांख्यस्य सेश्वरनिरीश्वरभेदेन, मीमांसायाः कर्मब्रह्मरूपवि- षयभेदेन च द्वैविध्यात् । कर्ममीमांसायां च प्राभाकरं कौमारिलमिति यन्मत- द्वयं तदपि प्रकाशितम् । ब्रह्ममीमांसकानपि औपनिषदपौराणिकभेदेन द्वेधा वि- भज्य औपनिषदमतप्रसिद्धां च निर्गुणसगुणब्रह्मवादप्रक्रियां व्युत्पाद्यान्ते पौरा- किमतं निरूपितम् ॥ अनन्तशयनम् ३१-५-१९१८ } त. गणपतिशास्त्री. || £ft: || सर्वमतसंग्रहः । प्रमाणनिरूपणम् । इह सम्यगनुभवः प्रमाणम् । सम्यग्ग्रहणं संश- यविपर्ययापोहार्थम् । तत्रानवधारणज्ञानं संशयः । यथा स्थाणुर्वा पुरुषो वायमित्यादि । मिथ्याध्यवसायो विप- ययः । यथा द्वौ चन्द्रमसावित्यादि । स्मृतिव्यवच्छेदा- र्थमनुभवग्रहणम् । संस्कारमात्रजं ज्ञानं स्मृतिः । यथा सा मे मातेत्यादि । प्राचीनानुभववासना संस्कारः । स च सदृशव स्तु सन्दर्शनोद्दद्धः स्मृतिहेतुः । कथं पुनरनुभव- ग्रहणेन स्मृतिव्यवच्छेदः, स्मृत्यन्यज्ञानस्यानुभवत्वात् । यथाहु: - ‘अनुभूतिः प्रमाणं सा स्मृतेरन्ये ‘ति । संस्का- रमात्रजमिति मात्रचा प्रत्यभिज्ञा व्यावर्तिता । संस्कार- सम्प्रयोगाभ्यां जायमानं ज्ञानं प्रत्यभिज्ञा । यथा स एवायं घट इति । नन्वनुभवस्यैव प्रमाणत्वे कुंत आ- गमादिषु प्रमाणत्वव्यवहारः । प्रमाणजनकत्वादेवेति ग्रूमः । तदुक्तं श्रीभगवत्पादैः - “अत्र ब्रह्मविद्योपनिष- च्छब्दवाच्या । तत्पराणां सहेतोः संसारस्यात्यन्तावसा- दनात् । उपनिपूर्वस्य सदेस्तदर्थत्वात् । तादर्थ्याद् ग्रन्थोऽप्युपनिषदुच्यते” इति । तच्च प्रमाणमष्टविधं , P. T. 818. 500. 24-5-93, Bसर्वमतसङ्ग्रहः प्रत्यक्षमनुमानमागम उपमानमर्थापत्तिरभावः सम्भव ऐतिह्यमिति ॥ प्रत्यक्षनिरूपणम् । तत्र सम्यगपरोक्षानुभवः प्रत्यक्षम् । तद् द्विविधं सविकल्पकं निर्विकल्पकं चेति । तत्र संज्ञादिविशिष्टार्थ- विषयं सविकल्पकं, यथा घटोऽयमिति । तदनुल्लिखिता- र्थविषयकं निर्विकल्पकं, यथेदमिति वस्तुमात्रानुभवः । तत् पुनर्द्विविधं योगिप्रत्यक्षमयोगिप्रत्यक्षं चेति । तत्रे- न्द्रियसन्निकृष्टार्थविषयमयोगिप्रत्यक्षम् । द्विविधानि चे- न्द्रियाणि बाह्याभ्यन्तरभेदात् । बाह्यानि श्रोत्रत्वक्च- क्षुर्जिह्वाघाणाख्यानि पञ्च ज्ञानेन्द्रियाणि । आन्तराणि मनोबुद्ध्यहङ्कारचित्ताख्यानि । अर्थाश्च बाह्याभ्यन्तर- भेदेन द्विविधाः । बाह्याः शब्दादय आकाशादयश्च । आ- न्तराः सुखादयो बुद्ध्यादयश्च । इन्द्रियार्थसन्निकर्षस्तु पञ्चविधः संयोगः संयुक्तसमवायः संयुक्तसमवेतसम- वायः समवायः समवेतसमवायश्चेति । षष्ठोऽपि तादा- त्म्यलक्षणः सम्बन्धः । सोऽयं बुद्धयात्मनिष्ठः । न च जड जडयोस्तयोस्तादात्म्यानुपपत्तिः । काष्ठदहन न्यायेन तदुपपत्तेः । तत्सम्बन्धस्य मायीयत्वेन दुर्घटताया भूष- णत्वाच्च । तेना (य) महमस्मीति प्रत्यय उत्पद्यते । तत्रा- निदमंश आत्मा स्वतो भासते, चिदेकरसत्वात् । इद- मंशो बुद्धिरात्मसंवित्सम्भेदादव भासते, अचित्स्वभा• प्रत्यक्षनिरूपणम् । वत्वात् । न चाहमित्यात्मैव भाति न बुद्धिरपीति यु- क्तम् । तस्य स्वप्रकाशत्वेनाहम्प्रत्ययविषयत्वायोगात्, ’m सुषुप्तिमूर्छामरणादिष्वहम्प्रत्ययविलयेऽप्यात्मनो भास- मानत्वाच । न (च) बुद्धिरेव भासत इति युक्तम् । तस्या ज- डत्वेनात्मसंभेदं विना भानानुपपत्तेः । तस्मादहमित्य- न्योन्यतादात्म्येन बुद्ध्यात्मानौ भासेते इत्यास्थेयम् । आत्मतादात्म्यवत्यां बुद्धौ समवेतत्वात् सुखादीनां ग्र- हणं सुख्यहमित्यादि । आत्मतेजोनुविद्धबुद्धिमच्चक्षु- स्संयोगाद् घटादिद्रव्यग्रहणम् । तथाविधचक्षुः संयु. क्तसमवायात् तद्गतरूपादिग्रहणं, यथा शुक्लो महानयं घट इति । तथाविधचक्षुःसंयुक्तसमवेतसमवायाद् घट- रू (पत्वा ? पा) दिस्थरूपत्वादिसामान्यग्रहणम् । आत्मा- भिन्नबुद्धिमच्छ्रोत्रसमवायाच्छब्दग्रहणम् । तथाविधश्रो- त्रसमवेतसमवायाच्छन्दत्वादिसामान्यग्रहणं, यथा स- शब्दमिदं गिरिगह्वरमिति । एवं चक्षुषैव रूपज्ञानम् । श्रोत्रेणैव शब्दज्ञानम् | त्वचैव स्पर्शज्ञानम् । रसनेनैव रसज्ञानम् । घ्राणेनैव गन्धज्ञानम् । अन्तःकरणेनैव सु- खादिज्ञानम् । तच्च मनोरूपमर्थप्रतिभासमात्रसाधनम् । बुद्धिरूपं तनिश्चयसाधनम् । अहङ्काररूपं तस्यात्मन्या- रोपहेतुः । चित्तरूपमनुसन्धानसाधनम् । यथा घटोऽयं, घट एवायं घटमहं जानामि, ज्ञातो मया घट इति च । यदा रूपस्य चक्षुषैव ग्रहणं, तदाधारस्य द्रव्यस्या- पि तेनैव ग्रहणम् । एवमन्यान्यपि । शब्दाश्रवस्य तु

व्योम्नो मनसैव । तत्तद्रव्यगुणसमवायस्येन्द्रियसंसृष्टैः स्व- सम्बन्धिभिः सह विशेषणविशेष्यभावाद् ग्रहणम् । यथा घटे रूपसमवायः रूपसमवायवान् घट इति । लोकालो- कतत्त्वसाक्षाज्ज्ञानं योगिप्रत्यक्षम् । तत्र समाधिदशायां चिरकालनिरन्तराभ्यस्तभक्तिज्ञानयोगानुभावपरिशोधि- ततिमिरपटेलेन मनश्चक्षुषैवाहं ब्रह्मास्मीत्यलौकिकस्या- रमतत्वस्यैव ग्रहणम् । व्यवहारदशायां भोक्तृभोग्य- भोजयित्रात्मकस्य लोकालोकतत्त्वस्य योगपरिभावित- मनःसनाथेन शास्त्रचक्षुषा ग्रहणम् ॥
अनुमाननिरूपणम् ।
अविनाभावेन सम्यक् परोक्षानुभवोऽनुमानम् । यथा व्याप्यधूमादिना व्यापकाग्न्यादिज्ञानम् । स्वभा- वतः साध्येन साधनस्य व्याप्तिरविनाभावः । स द्विविधः, अन्वयव्यतिरेकभेदात् । तत्र साध्यसामान्येन साधनसा- मान्यस्य व्यातिरन्वयः । यत्र यत्र धमस्तत्र तत्राग्निरिति । साधनसामान्याभावेन साध्यसामान्याभावस्य व्याप्तिर्व्य- तिरेकः । यत्र यत्र अग्निर्नास्ति तत्र तत्र धूमोऽपि ना- स्तीति । बाष्पधूमादिना अग्न्याद्यनुमानव्यवच्छेदार्थं सम्यग्ग्रहणम् । प्रत्यक्षव्यवच्छेदार्थं परोक्षग्रहणम् । आग- मव्यवच्छेदार्थमविनाभावग्रहणम् । तच्च द्विविधं स्वार्था- नुमानं परार्थानुमानं चेति । परोपदेशानपेक्षं स्वार्थम् । तदपेक्षं परार्थम् । परोपदेशस्तु त्र्यवयवं वाक्यम् । प्रति-
अनुमाननिरूपणम् ।
ज्ञाहेतूदाहरणानि वा उदाहरणोपनयनिगमनानि वाव-
यवाः ।
तत्र ( वतिवि? साध्यवत्तया) पक्षवचनं प्रतिज्ञा । यथाग्निमानयं पर्वत इति । लिङ्गवचनं हेतुः । यथा धू- मवत्त्वादिति । सम्यग्दृष्टाभिधानमुदाहरणम् । यो यो धूमवान् स सोऽग्निमान् यथा महानस इति, योऽग्निमान् न भवति स धूमवानपि न भवति यथा जलाशय इति वा । दृष्टान्ते प्रसिद्धाविनाभावस्य साधनसाध्यस्य दृष्टा- न्तोपमानेन पक्षे व्याप्तिव्यापकवचनमुपनयः ? । तथा- चायं धूमवानिति, न तथायं धूमवान् न भवतीति वा । सहेतुकं प्रतिज्ञायाः पुनर्वचनं निगमनम् । तस्मादग्नि- मानिति, तस्मादग्निमान् न भवतीति नेति वा ।
तत् पुनस्त्रिविधम् अन्वयव्यतिरेकिकेवलान्वयि- केवलव्यतिरेकिभेदात् । तत्र पञ्चरूपमन्वयव्यतिरेकि । रूपाणि तु पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाद् व्यावृत्ति- (मं ? र) बाधितविषयत्वमसत्प्रतिपक्षत्वं चेति । साध्यध- र्मविशिष्टो धर्मी पक्षः । तत्र व्याप्यवृत्तित्वं हेतोः पक्षध- मत्वम् । साध्यसजातीयधर्मा धर्मी (त्रिव ? सप) क्षः । तत्र सर्वत्र एकदेशे वा वृत्तिः सपक्षे सत्त्वम् । साध्यविजा- तीयधर्मा धर्मी विपक्षः । तत्र सर्वत्र हेतोरवृत्तिर्विपक्षाद व्यावृत्तिः । प्रमाणाविरोधिनि प्रतिज्ञातेऽर्थे हेतोर्वृत्तिरबा-
I
धितविषयत्वम् । प्रतियोगिशून्यत्वमसत्प्रतिपक्षत्वमिति ।

अन्वयव्यतिरेक्यनुमानं तु हेतुसाध्ययोरन्वयव्या- सिमद् व्यतिरेकव्याप्तिमच्च भवतीति पञ्चरूपमुच्यते । तद् यथा - विमतं मिथ्या दृश्यत्वाद्, यद् यद् दृश्यं तत्तन्मिथ्या यथा गन्धर्वनगरादि । यन्न मिथ्या तन्न दृश्यं, यथात्मेति । केवलान्वयि चतूरूपम् | अविद्यमा- नविपक्षत्वेन विपक्षाद् व्यावृत्त्यभावाद्, तत्सत्त्वे के- वलान्वयित्वासिद्धेः । तद् यथा - विमतं सकर्तृकं कार्य- त्वाद्, यद् यद् कार्यं तत् तत् सकर्तृकं यथा घट इति । केवलव्यतिरेक्यपि चतुरूपम् । अविद्यमानसपक्षत्वेन स- पक्षे सत्त्वाभावात् । यथा - सर्वं कार्यं सर्ववित्कर्तृपूर्वकं कार्यत्वात् । यत् सर्ववित्कर्तृपूर्वकं न भवति तत् कार्यम- पि न भवति यथात्मेति । एषु चानुमानेषु प्रतिज्ञाहेतू- दाहरणदोषाः परिहरणीयाः । प्रमाणान्तराधिगतार्थत्वं तद्वाधितार्थत्वं व्यर्थविशेषणत्वं व्यर्थविशेष्यत्वं च प्रति- ज्ञादोषाः । यथा - अग्निर्दाहकः अनुष्णोऽग्निः अयं मही- धरः पिङ्गलाग्निमान् विमतं जगन्मिथ्येति । (असिद्धत्वं विरुद्धत्वं हीनत्वं ? ) तदेवं प्रतिज्ञाद्युदाहरणान्तैस्तदा- दिनिगमनान्तैर्वा त्रिभिरवयवैर्युक्तं परोपदेशक्षममनुमा- नम् । तच्च व्याप्तिभेदात् त्रिधा भिन्नमिति सिद्धम ॥ । आगमनिरूपणम् । शब्द विज्ञानात् सम्यगसन्निकृष्टार्थानुभव आगमः । प्रत्यक्षव्यवच्छेदार्थमसन्निकृष्टेत्युक्तम् । विप्रलम्भकवा-आगमनिरूपणम् । क्यीयज्ञानव्यवच्छेदार्थं सम्यगिति । अनुमानव्यवच्छे- दार्थ शब्दविज्ञानादिति । विषं पिब आकाशं भक्षये- त्यादिव्यवच्छेदायार्थेति । यथाहुः " शब्द विज्ञानजा यार्थेऽसन्निकृष्टे सुनिश्चिता । बुद्धिस्तच्छान्दमानं हि सङ्गिरन्ते विपश्चितः ॥" इति । स आगमो द्विविधः पौरुषेयापौरुषेयभेदात् । अपौरुषेयो वेदश्चतुर्विधः ऋग्यजुःसामाथर्वभेदात् । षट् च तेषामङ्गानि शीक्षाव्याकरणनिरुक्तच्छन्दोज्योतिः- कल्पभेदात् । पौरुषेयस्त्रिविधः पञ्चमवेदोपवेदस्मृति- भेदात् । तत्र पञ्चमवेद इतिहासपुराणभेदेन द्विविधः । इतिहासो महाभारतात्मा । पुराणान्यष्टादशविधानि । तथाच वायवीये " दशधा चाष्टधा चैतत् पुराणमुपदिश्यते । ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ॥ भविष्यद् नारदीयं च मार्कण्डेयमतः परम् । आग्नेयं ब्रह्मवैवर्त्तं लैङ्गं वाराहमेव च ॥ स्कन्दं च वामनं चैव कौर्मं मात्स्यं च गारुडम् । ब्रह्माण्डं चेति पुण्योऽयं पुराणानामनुक्रमः ॥” इति । उपवेदश्चतुर्विधः आयुर्वेदधनुर्वेदार्थवेदगान्धर्व- वेदभेदात् । मन्वादिप्रणीतानि वर्णाश्रमधर्मशास्त्राणि स्मृतयः । मन्वत्रिविष्णुहारीता याज्ञवल्क्योशनाङ्गिराः । यमापस्तम्बसंवर्त्ताः कात्यायन बृहस्पती ॥

पराशरव्यासशङ्खलिखिता दक्षगौतमौ । शातातपो वसिष्ठश्च धर्मशास्त्रप्रवर्त्तकाः ॥ यः पुनर्भुगादिलक्षणश्चतुर्विधो वेदः, स पूर्वोत्तरका- ण्डात्मना प्रत्येकं द्विविधः धर्मब्रह्मविषयभेदात् । एवं पञ्चमवेदोऽपि तद्व्याख्यानरूपत्वात् । यथोक्तं वाय- वीये. “यो विद्याच्चतुरो वेदान् साङ्गोपनिषदान् द्विजः । न चेत् पुराणं संविद्यान्नैव स स्याद् विचक्षणः ॥ इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद वेदो मामयं प्रतरिष्यति || " इति । तत्र धर्मस्य शुभकर्मसंस्काराकारस्यानात्मत्वे- (पि ? ) न रूपरहितत्वेन चक्षुराद्यग्राह्यत्वादसन्निकृष्टत्वम् । अभ्युदयनिःश्रेयसनिमित्तत्वादर्थत्वम् । ब्रह्मण आत्म- त्वेनेन्द्रियाध्यक्षस्य तद्ग्राह्यत्वासंभवादसन्निकृष्टत्वम्, आनन्दरूपत्वादर्थत्वमिति विवेकः । अनयोश्च धर्मस्य परोक्षस्वभावत्वात् तज्ज्ञानं परो- क्षम् | ब्रह्मणो नित्यापरोक्षात्मतत्त्वलक्षणत्वात् तज्ज्ञा- नमपरोक्षम् । अन्यथा उभयज्ञानस्यायथार्थत्वापत्तेः । तत्रापि ‘भूतं भव्यायोपदिश्यत’ इति न्यायेन मन्त्रार्थ- त्वादसहकृतविधिरूपाच्छब्दात् सम्यगसन्निकृष्टार्थानु- भवो धर्मज्ञानम् । ‘भव्यं भूतायोपदिश्यत’ इति न्यायेन विध्यर्थवादमन्त्ररूपश्रुतिनिवहकृतान्महावाक्यरूपाच्छ- ब्दात् सम्यगसन्निकृष्टार्थानुभवो ब्रह्मज्ञानम् । आगमनिरूपणम् । धर्मश्च इष्टानिष्टप्राप्तिपरिहारोपायत्वेन द्विधा भि- यते । तत्र दर्शपूर्णमासादयः स्वर्गादीष्टप्राप्तिसाधनम् । सर्वभूताहिंसाविधिलक्षणोऽनिष्टपरिहारसाधनम् । ततश्च कृतियोग्येष्टानिष्टप्राप्तिपरिहारसाधनं विधिनिषेधार्थो न कार्यमात्रं, विषं भुङ्क्ष्वेति विधौ बुद्धिपूर्वकारिणामप्र- वृत्तेः । नापीष्टानिष्टप्राप्तिपरिहारसाधनम् । उद्गत उडु- पतिरिति वाक्यादप्रवृत्तेः । वत्स ! स्तनं पिब, अमिं मा स्पृशेत्यादि लौकिकवाक्येष्वप्येषैव रीतिः । एवञ्च श- ब्दशक्तिग्रहणमपि कृतियोग्यहितोपाय एव, न कार्ये । यथा गामानयेत्यत्र तद्ग्रहणं हितोपायमात्र एव, यथा पुत्रस्ते जात इत्यत्र तद्ग्रहणम् । ततश्च सिद्धे ब्रह्मणि वेदान्तानां प्रामाण्ये न विवदितव्यम् । विधिवाक्यानि च दृष्टादृष्टफलत्वेन द्विविधानि । तत्र पूर्वकाण्डे कारीरी- ष्ट्यादीनि दृष्टफलानि । उत्तरकाण्डे आत्मदर्शनाय श्र- वणादिविधायकवाक्यानि दृष्टफलानि । तत्प्रामाण्यद- र्शनादन्येषां च वेदत्वलिङ्गेन प्रामाण्यमनुमेयम् । ब्रह्म च सगुणनिर्गुणभेदेन द्विविधम् । सगुणं च जीवेश्वरभेदेन द्विविधम् । तत्र सत्यज्ञानानन्तादिलक्ष- णत्वेन श्रुत्युपदिष्टं निर्गुणम् । जगत्कारणत्वादिरूपे- णोपदिष्टं सगुणमैश्वरम् । स्वसृष्टप्रपञ्चप्रवेष्टृत्वादिरू पेणोपदिष्टं जीवरूपम् । तैरेतैस्तत्त्वंपदार्थपरिशोधन- परैरुपकृतानि तच्वमस्यादिमहावाक्यानि प्रमाणान्तरान- C १०

वगतं परमपुरुषार्थप्रयोजनं च ब्रह्मात्मैक्यमुपदिशन्ति । तदवगमात् परमपुरुषार्थलाभं च तान्येवोपदिशन्ति । एवं पूर्वोत्तरकाण्डात्मना भिन्नस्य वेदस्याध्यय- नविधिपरिगृहीतत्वाद् विवक्षितार्थत्वेन निश्चितस्यार्थ- विचाराय मीमांसाशास्त्रं प्रवृत्तम् । तच्च विंशत्यध्यायप रिमितं काण्डत्रयात्मकं भवति । तत्र पूर्वमीमांसा द्वा- दशाध्यायमिता कर्मकाण्डनिष्ठा । तत्सूत्रकर्त्ता जैमि निः । भाष्यकारः शबरस्वामी । तद्व्याख्यातारौ भट्टकु- मारप्रभाकरौ । तयोर्भकुमारेण विधिवाक्यानि भाव- नापरतया व्याख्यातानि, प्रभाकरेण नियोगपरतया । उत्तरमीमांसा तु द्विरूपा सगुणनिर्गुणब्रह्मनिष्ठा अ- ष्टाध्यायमिता व्यासप्रणीता । तत्र सगुणब्रह्मनिष्ठा दे- वताकाण्डात्मिकाध्यायचतुष्टयवती । इह भाष्यकारः स- ङ्कर्षः । तत्र प्रथमेऽध्याये सर्वेषां मन्त्रविशेषाणां देव- तातत्त्वप्रतिपादने तात्पर्यमिति प्रतिपादितम् । द्वितीये विध्यर्थवादादेर्वेदशेषस्य मन्त्रदेवताशेषत्वमुपपाद्यते । तृतीये देवतातत्त्वं स्वेच्छाविग्रहत्वादिगुणगणालङ्कु- तमिति दर्शितम् । चतुर्थे तत्तदेवताप्रसादतस्तत्तल्लो- कवेषविभूषणैश्वर्यानन्दावाप्तिलक्षणं देवतोपासनफलं निर्णीतम् । एवं मध्यममीमांसा सर्वदेवतात्मनो हरेः प्रतिपादिकेति सगुणब्रह्मपरा भवति । ज्ञानकाण्डात्मिका तु निर्गुणब्रह्मनिष्ठा । सापि चतुरध्यायमिता । अस्या भाष्यकारः शङ्करभगवत्पादः । आगमनिरूपणम् । ११ । तदेकदेशिनश्च ब्रह्मदत्तभास्कररामानुजानन्दतीर्थाद- यो मतभेदेन तद्भाष्याभासान् रचयाञ्चक्रुः । इह प्र- थमाध्यायेन सर्वेषां वेदान्तानां प्रत्यक्तत्त्वे ब्रह्मणि सम- न्वयः प्रदर्शितः । द्वितीयेन तत्र प्रत्यक्षादिप्रमाणान्त- रविरोधः परास्तः । तृतीयेन ब्रह्मज्ञानस्यान्तरङ्गसाध- नानि श्रवणमनननिदिध्यासनानि समूलान्युपदिष्टानि । चतुर्थाध्यायेन सद्यः क्रमेण वा मुक्तिलक्षणं ज्ञानफल- मुपासनाफलं चोपवर्णितम् । मुक्तिश्चात्मविद्यास्तमय एव । ततश्चात्मजिज्ञासामपास्यात्मनः सुखदुःखप्राप्ति- परिहारोपायमात्रमन्विच्छन्तमज्ञं पुमांसं प्रति कर्मका- ण्डं प्रवृत्तम् | ब्रह्मविष्णुरुद्रेन्द्रसोमसूर्यानिलानलादि- देवता सालोक्यादिसुखकामं प्रति देवताकाण्डं प्रवृ· तम् । अशेषविषयसुखविरक्तं बन्धमोक्षसुखमेव का- क्षमाणमात्मतत्त्वजिज्ञासुं पुरुषप्रवरमधिकृत्य ब्रह्मका- ण्डं प्रवृत्तमित्यलमतिविस्तरेण । अनाप्तवाक्यत्वपरस्परविरुद्धार्थत्वादिभिर्बोद्धाद्या- रोपिताप्रामाण्यशङ्कापङ्कपरिक्षालनपरत्वात् तदपेक्षित- प्रमाणप्रमेयप्रमात्रादिलक्षणनिरूपकत्वाच्च तर्कशास्त्रं वे- दोपाङ्गं भवति । तत् तु नैयायिकवैशेषिकभेदेन द्वि- विधम् । तत्र नैयायिकं षोडशपदार्थनिष्ठमक्षपा- दोपज्ञम् । वैशेषिकं षट्पदार्थनिष्ठं कणादोपज्ञम् । यत् तु निरीश्वरसेश्वरभेदेन द्विविधं साङ्खय शास्त्रं, तदितिहासपुराणेऽन्तर्भूतमिति न पृथग् गण्यते ।१२

अनयोर्निरीश्वरसाङ्खयं पञ्चविंशतितत्त्वनिष्ठं कपिलश्च कार । सेश्वरसाङ्खयं षड्विंशतितत्त्वनिष्ठं पतञ्जलिरक- रोद, येन पाणिनिप्रणीतस्याष्टाध्यायमितस्य व्याकरणस्य भाष्यमनुगृहीतम् । एवमष्टादश विद्यास्थानानि । ता- न्येतानि कल्पादौ परमपुरुषेण ब्रह्मणेऽनुगृहीतानि । तथाच श्रीवायवीये - “अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥ आयुर्वेदो धनुर्वेदो गान्धर्वश्चेत्यनुक्रमात् । अर्थशास्त्रं परं तस्माद् विद्यास्त्वष्टादश स्मृताः ॥ अष्टादशानामेतासां विद्यानां भिन्नवर्त्मनाम् । आदिकर्त्ता कविः साक्षाच्छूलपाणिरिति श्रुतिः ॥ स हि सर्वजगन्नाथः सिसृक्षुरखिलं जगत् । ब्रह्माणं विदधे साक्षात् पुत्रम सनातनम् ॥ तस्मै प्रथमपुत्राय ब्रह्मणे विश्वयोनये । विद्याश्चेमा ददौ पूर्व विश्वस्थित्यर्थमीश्वरः ॥” इति । तानि च विद्यास्थानानि मरीच्यादिमुखेन ब्रह्मणा अस्मिलोके प्रवर्त्तितानि युगेऽस्मिन्नल्पायुष्याल्पबुद्धि- त्वादिदोषाद् मनुष्यैः साकल्येन धारयितुमशक्यानीति परमेश्वरः स्वयमेव व्यासरूपी भूत्वा संक्षिप्तवान् । य- थोक्तं द्वितीयस्कन्धे उपमानादिमानान्तरनिरूपणम् । " कालेन मीलितदृशामवमृश्य नृणां स्तोकायुषां स्वनिगमो बत दूरपारः । आविर्हितस्त्वनुयुगं स हि सत्यवत्यां वेदमं विटपशो विभजिष्यति स्म ॥” इति । एवमागमप्रमाणं निरूपितम् । उपमानादिमानान्तर निरूपणम् । १३ अथोपमानम् । गवयो नाम किंलक्षण इति कृतप्रश्नस्य ग्रामवासिनो यथा गौरवं गवय इति वन- चारिणोऽन्यस्माल्लब्धोत्तरस्य पुंसः पश्चाद् वनं गतस्य यदृच्छया गवयदर्शने यद् गोर्गवयस्य च सादृश्यविषयं प्रत्यक्षप्रत्यभिज्ञानमुत्पद्यते अनेन सदृशी मदीया गौ- रिति, तदुपमानम् । यथाहुः - “अव्युत्पन्नपदोपेतवाक्यार्थस्य च संज्ञिनि । प्रत्यक्षप्रत्यभिज्ञानमुपमानमिहोच्यते ॥” इति । अन्यथानुपपत्तिसम्भूतोऽनुभवोऽर्थापत्तिः । सा द्विधा दृष्टश्रुतभेदात् । तत्र परिदृश्यमाना सवितुर्देशाद् देशान्तरप्राप्तिर्गमनं विना नोपपद्यत इति निश्चयो दृष्टार्थापत्तिः । क्षणिकस्य यागस्य कालान्तर देशान्तर- भाविफलसाधनत्वं श्रूयमाणं तत्संस्कारमन्तरेण नोपप- यत इति मध्येऽपूर्वनिश्चयः श्रुतार्थापत्तिः । योग्यत्वे सत्यनुपलम्भादभावनिश्चयोऽभावप्रमा- णम् । यथा इह भूतले घटो नास्तीति ।

संभावितोऽयमर्थ इति जायमानोऽतीन्द्रियार्थ- निश्चयः संभवः । यथा सोमसूर्य (वंश) वर्णनादिभिः कृ- ष्णरामाद्यवतारादिनिश्चयः । अनिर्दिष्टप्रवक्तृकात् प्रवा- दपारम्पर्याज्जायमानं ज्ञानमैतिह्यम् । यथा इह वटे य- क्षस्तिष्ठतीति । कुतः पुनरत्रैतावन्ति प्रमाणानीति नि- र्णीतम् । “प्रत्यक्षमेकं चार्वाकाः कणादसुगतौ पुनः । अनुमानं च तच्चाथ साङ्ख्याः शब्दं च ते अपि ॥ न्यायैकदेशिनोऽप्येवमुपमानं च केचन । अर्थापत्त्या सहैतानि चत्वार्याह प्रभाकरः ॥ अभावषष्ठान्येतानि भाट्टा वेदान्तिनस्तथा । सम्भवैतिह्ययुक्तानि तानि पौराणिका जगुः || ” इति न्यायविदां वचनात् ॥ मतभेदाः । अनया प्रमाणचिन्तया प्रमातृप्रमेये अपि ल- क्षिते स्याताम् । प्रमाश्रयः प्रमाता । प्रमाविषयः प्रमे- यमिति । इह द्विविधानि विचारशास्त्राणि वैदिकावैदिक- भेदात् । तानि च प्रत्येकं त्रिविधानि मीमांसासाङ्ख्य- तर्कभेदाद्, बौद्धार्हतलोकायतभेदाच्च । तत्राद्यत्रिकं वेदमूलत्वाद् वैदिकम् । अपरत्रिकं बुद्धक्षपणकबृहस्पति- चार्वाकमतनिरूपणम् । १५ विरचितवेदाभासमूलत्वादवैदिकमिति । एवं षड् दर्श- नानि ॥ चार्वाकमतनिरूपणम् । तत्र प्रत्यक्षैकप्रमाणवादिनो लोकायतशास्त्रप्रवर्त- कस्य चार्वाकस्य मनुष्योऽहं स्थूलोऽहं कृशोऽहमिति प्रत्यक्षसिद्धश्चैतन्यगुणाश्रयो देह एव प्रमाता । उच्चाव- चदेहरूपेण संभवादेव संहतिं पुनर्विहतिं च प्रतिपद्य - मानानि पृथिवीवारिवह्निवायुलक्षणानि चत्वारि तत्त्वानि प्रमेयम् | अर्थकामावेव पुरुषार्थों, न धर्मः । तन्निष्ठा- वर्थगान्धर्ववेदावेव च वेदौ । धर्माभावान्नाधर्मोऽपि क- श्चित् । अतस्तत्फलत्वेन स्वर्गनरकावपि न स्तः । तद- भावाद् देहिनां तत्कल्पको न परमेश्वरोऽपि कश्चित् । मरणमेव च मोक्षः | अर्थकामशास्त्रं लोकायतशास्त्रं च प्रत्यक्षमूलत्वात् तत्रैवान्तर्भूतम् । इदमन्नं क्षुन्निवर्तकम् अन्नत्वात्, ह्यस्तनान्नवदित्याद्यनुमानं च तत्रैवान्तर्भवति, प्रत्यक्षमूलत्वाविशेषात् । अभ्युदयनिःश्रेयसफलो धर्म- ब्रह्मविषयो वेदस्त्वतीन्द्रियार्थनिष्ठत्वादप्रमाणमेवेति सिद्धान्त । तथाच तद्वचनम् “अग्निहोत्रं त्रयो वेदास्त्रिपुण्ड्रं भस्मगुण्ठनम् । बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः ॥ यो वेदस्य कर्तारो मुनिभण्डनिशाचराः । स्वर्गः कर्तृक्रियाद्रव्यनाशेऽपि यदि यज्वनाम् ॥ १६ सर्वमत सहन्छः भवेद् दावाग्निदग्धानां फलं स्याद् भूरिभूरुहाम् । प्रत्यक्षादिप्रमासिद्धविरुद्धार्थाभिधायिनः ॥ वेदान्ता यदि शास्त्राणि बौद्धैः किमपराध्यते । " इत्यादि ॥ क्षपणक मतनिरूपणम् प्रत्यक्षानुमानवादिनोः क्षपणकबौद्धयोर्मध्ये क्षप- णकस्यायं सिद्धान्तः - ममायं देह इत्यनुभवाद् देहः स्व- व्यतिरिक्तद्रष्टृकः, दृश्यत्वाद् भौतिकत्वाद् वा घटवदित्य- नुमानात् प्राणचेष्टाचैतन्यस्मृत्यादीनां मृतशरीरेऽनुपल- धेश्च देहव्यतिरिक्तस्तत्परिमाणोऽणुपरिमाणो वा प्रका- शद्रव्यविशेष आत्माख्यः प्रमाता । अतीन्द्रियार्थों नाभ्यु- पेयः, अतिप्रसङ्गादिति न युक्तम् । प्रत्यक्षप्रामाण्यस्यो- तीन्द्रियत्वेनानभ्युपेयत्वापत्तेः । तेनार्हन्मुनिप्रणीतागम- प्रामाण्याद् धर्माधर्म स्वर्गनरका अपि सन्ति । धर्मा- श्च केशोल्लुञ्छनभिक्षाटनमयूरपिञ्छधारणब्रह्मचर्यानश- ? नानाच्छादनामलस्नानार्हिन्नमनतप्त शिलारोहणादयः । अग्निहोत्रादयस्तु वेदोदिता धर्माभासा एव चराचर- प्राणिपीडासाध्यत्वात् । अनाप्तवाक्यत्वपरस्परविरुद्धा र्थत्वादिभिर्वेदस्याप्रामाण्यनिर्णयाच्च । अधर्मः प्राणिहिं सादिलक्षणः । पार्थिवाप्यतैजसवायव्यपरमाणुभिः पुन लापरनामधेयैः धर्माधर्माख्यप्राणिकर्मप्रेरितैरारब्धानि चराचरशरीराणि सकारणानि प्रमेयम् । परमाणवश्चा २. ‘यो वे’, ३. ‘णिपीडाल’ १. स्याप्यती ’ ४. ‘मात्मकप्रा’ ख. पाठः.क्षपणकमतनिरूपणम् । १७ नुमानतः सिध्यन्ति । तथाच प्रयोगः - अणुपरिमा- णतारतम्यं क्वचिद् विश्रान्तं परिमाणतरतमभावत्वाद्, महत्परिमाणतरतमभाववदिति । चेतनाचेतनात्मकं चेदं जगदनेकान्तम् । तज्ज्ञा- नादहिंसादिधर्मनिष्ठानां देहिनां सततोर्ध्वगतिलक्षणो मोक्षः सिध्यतीति । यथाहुः - “स्याद्वादः सर्वदेकान्तत्यागात् किंवृत्तचिद्विधेः । सप्तभङ्गीनयापेक्षस्तत्त्वज्ञानाय कल्पते ॥ " इति । अनैकान्तिकत्वं चास्तिनास्त्यादिरूपेणानियता- कारत्वम् । तच्च सप्तभङ्गीनयेन सिध्यति । कथम् । स्याद- स्ति, स्यान्नास्ति, स्यादवक्तव्यं, स्यादस्ति च नास्ति च, स्यादस्ति चावक्तव्यं च स्यान्नास्ति चावक्तव्यं च स्याद- स्ति च नास्ति चावक्तव्यं चेति सप्तभङ्गीन्यायः । स्या- दित्यनैकान्तिकत्वद्योतको निपातः । किं चेतनाचेतना- त्मकं जगदस्तीति पृष्टोऽसौ ब्रूते - स्यादस्तीति । अ- स्तित्वेनानिश्चितं जन्मादिमत्त्वादित्यर्थः । एवं स्यान्ना- स्तीत्यादावपि द्रष्टव्यम्, अनुभूयमानत्वान्नास्तित्वानि- श्चयः | नीलसुखादिशब्दवाच्यत्वादवाच्यत्वानिश्च- यः । अस्तित्वनास्तित्वयोर्विरुद्धत्वेनैकाधिकरण्यायोगा- दुभयात्मकत्वानिश्चयः । नास्तीत्यपि वक्तुं योग्यत्वाद- १. ‘क्षः सेत्स्यती’ ख. पाठः. D १८

स्ति चावतव्यं (चेत्य) निश्चयः । अस्तीत्यपि वक्तुमुचित- त्वान्नास्ति चावक्तव्यं चेत्यनिश्चयः । अस्तीति नास्तीति च वक्तुमुचितत्वादस्ति च नास्ति चावक्तव्यं चेत्यनि- श्वपः । एवमेकान्तस्थितिशून्यं विश्वमवधार्य ततो नि- वेदं प्राप्तः पुमान् योगबलेन सततोर्ध्वगतिलक्षणां मु- क्तिमुपैतीति । सुगतमतनिरूपणम् । आत्मनोऽगुपरिमाणत्वेन युगपदखिलावयवगत- वेदनानुसन्धानासंभवाद्, देहपरिमाणत्वे बाह्यवस्तुज्ञा- नासम्भवाद् घटवदनित्यत्वप्रसङ्गाच्च, सर्वस्यानैकान्ति- red अनैकान्तिकत्वस्थापि तथात्वापत्तेः, ‘पतनान्ताः समुच्छ्रयाः’ इति न्यायेन सततोर्ध्वगतिरूपस्य मोक्षस्य पतनान्तत्वेन नित्यपुरुत्रार्थत्वासिद्धेश्व नायं पक्षः प्रक्षी- णदोष इति सुगतमतमारभ्यते- तदिदं शिष्यभेदेन चतुर्धा भिद्यते । शिष्याश्च माध्यमिकयोगाचारसौत्रान्तिकवैभाषिकाः क्रमेण वि शुद्धितारतम्यभाजः । तत्रोत्तनाधिकारिणो माध्यमिक- स्थ - शून्यस्वभावः प्रभाता, सुप्तोत्थितस्य शून्योऽह- मेतावन्तं कालमासमिति स्मृतिदर्शनात् । पुनरहमस्मी- त्यात्मनि सत्त्वप्रतिभानं तत् संवृत्तितत्त्वविषयम् । एवं घटोऽस्तीत्यादिप्रत्ययोऽपि । ततः प्रमेयमपि शून्यमेव, सतो नाशासम्भवात् । एवं प्रमाणमपि वस्तुतः शून्य- मेव सत्त्वे जन्मविनाशानुपपत्तेः । सत्त्वप्रतीतिः संवृ- " सुगतमतनिरूपणम् । १९ त्तिमात्रम् । संवृत्तिर्नामासतः सत्त्वेन भानहेतुः सद- सदादिप्रकारा निर्वाच्यस्वलक्षणः पदार्थः । अतः प्रमा- त्रादित्रिकं वस्तुतोऽसदेव सदात्मना भातीति तदुप- देष्टारं सुगतमुनिं पञ्चबुद्धपरिवितं मनोवाक्कायैः सेव- मानस्य सर्वं शून्यमिति चिरकालं निरन्तरमुपासीनस्य साधोर्मनसि शून्ये विलीने सति सर्वशून्यतावासिल- क्षणो मोक्षः सेत्स्यतीति सिद्धान्तः । ततोऽर्वाचीनस्य योगाचारस्य तु –प्रमातुरसच्चे प्रमेयस्य शून्यस्य सिद्धिरेव नास्तीति प्रमाता कश्चिद- भ्युपेयः । स च स्वप्रकाशः | अन्यथा साधकान्तरापे- क्षाप्रसङ्गात् । स्वप्रकाशत्वं च ज्ञानादन्यस्य न (सं) भाव्यत इत्यतोऽहमस्मीति प्रत्यक्षतः देहो नात्मा दृश्यत्वाद् घटवदित्यनुमानतश्च प्रतिपन्नं क्षणे क्षणे प्रलीयमानमु- त्पद्यमानं चालयविज्ञानं प्रमाता । प्रवाहस्य स्थिरत्वादेव तस्मिन् स्थिरत्वाभिमानः । योऽहं प्रातर्गजमद्राक्षं स ए- वाधुना तिमिरनिकरं दृष्ट्वा तं स्मरामीति सेयं ज्वालेति- वद्भ्रान्तिरेव । रूपविज्ञानवेदनासंज्ञासंस्काराख्या पञ्च- स्कन्धी क्षणे क्षणे प्राणिकर्मानुसारेण विलीयमानोत्प द्यमाना च स्वभावेन सुरनरनारकरूपेण परिणतिमुपर तं च यान्ती प्रमेयम् । तत्रेन्द्रियतद्विषयात्मा रूपस्कन्धः । तज्ज्ञानं विज्ञानस्कन्धः । तत्फलं सुखं दुःखं मोहश्च वेदनास्कन्धः । संज्ञागुणक्रियाजातिविशिष्टप्रत्ययाः संज्ञा- स्कन्धः । इह गौरश्वः पुरुष इत्यादिका संज्ञा । गोत्वाश्वत्व• ३०

पुरुषत्वादिका जातिः । शुक्लो रक्तः कृष्ण इत्यादिको गुणः । तिष्ठति गच्छत्युपविशतीत्यादिका क्रिया । शृङ्गी चतु- ष्पाद लागलीत्यादिको विशिष्टप्रत्ययः । वेगवेष्टनस्थित- स्थापकतादिलक्षणः संस्कारस्कन्धः वेगः शशादेः । वेष्टनं भूर्जादेः । स्थितस्थापकः शाखादेः । तदुक्तलक्षणं प्रमे- यम् । तच्चेत् प्रकाशातिरिक्तं नैव तर्हि प्रकाशेतेति सर्वं ज्ञा- नाकारमेव । ज्ञानस्य स्थिरत्वे नीलपीतादयः सर्वदा स र्वस्य भासेरन, न कर्हिचित कस्यचिदित्यस्थिरमेव । अतो प्राह्यग्राहकग्रहणात्मकं सर्वमिदं जगदहमित्यालयवि- ज्ञानसन्ताने नित्यनिमग्नम् | तस्माच्चैत्यवन्दनबुद्धाग- माभ्यासादिसद्धर्मनिरतस्य सर्वमिदं विज्ञानमेवेति चिर- मुपासीनस्य पुंसो विशुद्ध विज्ञानसन्तानोदयमयी मुक्ति- रिव सिध्यतीति सिद्धान्तः । तस्मादर्वाचीनस्य सौत्रान्तिकनाम्नोऽन्तेवासिनो विश्वस्यान्तस्थत्वे बहिरसवेनार्थक्रियाकारित्वासम्भ- वाद, भ्रान्तिबाधवैलोम्यप्रसङ्गाद, ज्ञानस्य ज्ञेयाकारत्वे जडत्वापत्तेश्च तयोः पृथक्त्वमुपेयमिति बाह्यमाभ्यन्तरं चास्त्येव विश्वम् । तच्च स्थिरं चेद न बीजस्योच्छनत्वजा- ताङ्कुरत्वद्रुमत्वपल्लवितत्व पुष्पितत्वफलितत्वाद्यवस्था- न्तरापत्तिः परिदृश्यमाना सङ्गच्छत इति क्षणिकस्वलक्ष- णमास्थेयम् । एवं ज्ञातुः स्थिरत्वे ज्ञानस्यापि स्थिरत्वेन सर्वदा नीलं प्रतीयाद्, न कदाचिदपि पीतं, विपर्ययेण वा । अतो ज्ञाताप्यस्थिर एव । इयान् विशेषः - आन्तरं सुगतमतनिरूपणम् । २१ ज्ञानं स्वलक्षणं प्रत्यक्षं, बाह्यं नीलाद्यनुमेयमेव । तद् य- था - ज्ञाने ज्ञेयप्रतिबिम्बो बिम्बपुरःसरः, प्रतिबिम्ब- त्वाद्, दर्पणगतमुखप्रतिबिम्बवादति । एवञ्च प्रत्यक्षमा- ह्यो बाह्यार्थो नास्ति । वैभाषिकस्यार्वाचीनतमस्यान्तेवासिनो - बाह्या- र्थश्च सन्निहितः प्रत्यक्षः, इदं नीलमित्यपरोक्षतयैव प्रतिभासदर्शनात् । तेनानयोरियदेव वैषम्यम् । अन्यत् सर्वं तुल्यम् । एषु च पक्षेषु बुद्ध्याद्यागमानामनुमानमू- लत्वेन तत्रैवान्तर्भावाद न प्रमाणाधिक्यम् । तत्र सौत्रा- न्तिकवैभाषिकयोः सर्वं क्षणिकमिति शास्त्रेणावगम्य शा- स्तारं भगवन्तं तथागतं तद्भक्तांश्च सेवमानः सर्वस्य क्षणिकत्वसाक्षाद्बोधे सञ्जाते सति विशुद्धविज्ञानसन्ता- नतावातिरूपां मुक्तिमेतीति सिद्धान्तः । एषां त्रयाणामप्यन्ततः शून्यवादित्वम् । कथम् । बाह्यार्थस्य शून्यत्वं योगाचारो ब्रूते । प्रत्यक्षस्य बाह्यार्थस्य शून्यत्वं सौत्रान्तिकः । बाह्यस्यान्तरस्य चास्थिरस्य जगतः शून्यत्वं वैभाषिको भाषत इति । अत्र सङ्ग्रहः " मुख्य माध्यमिको विवर्तमखिलं शून्यस्य मेने जगद् योगाचारमते हि सन्ति हि धियस्तासां विवर्तोऽखिलम् अर्थोऽस्ति क्षणभङ्गरस्त्वनुमितो बुद्धयेति सौत्रान्तिकः प्रत्यक्षं क्षणभङ्गुरं व सकलं वैभाषिको भाषते ॥” इति ॥३२ , सर्वमतसंग्रहः । कणादमतनिरूपणम् | अत्र जगतः शून्यस्वभावत्वे साधकाभावेनासि - द्धिप्रसङ्गात् सत्त्वानुभवविरोधाच्च, ज्ञानस्य ज्ञेयाकारत्वे जडत्वप्रसङ्गाद् ज्ञेयस्य बहिरनुपलम्भप्रसङ्गाद् इदमि- ति साक्षाद् भासमानस्य नीलस्यानुमेयत्वे अहामति भा- समानस्य ज्ञानस्वलक्षणस्याप्यनुमेयत्वकल्पनावताराद्, ज्ञातुरस्थिरत्वे स्मृतेरनुभूतार्थगामिन्याः संभवायोगाद्, ज्ञेयस्य क्षणिकत्वे स एवायं घट इति प्रत्यभिज्ञायोगाद्, बुद्धिवृत्तिरूपाणां नीलादिविषय ज्ञानानामागमापायित्वे ऽपि बुद्धिसाक्षिचैतन्यस्य स्थिरत्वोपपत्तेर्विषयोपरागवि- हनिस्य ज्ञानस्य भेदकाभावेन सन्तान रूपत्वानुपप- तेश्च स्वप्रकाशत्वेन स्वतः परतश्चास्य जन्मविनाशा वगमासंभवादनवगतार्थस्यासत्त्वानिवारणाच्च क्षपण- कादिपक्षवत् सुगतपक्षोऽप्युपेक्षणीय इति वेदप्रामाण्य- वादित्वेऽपि तस्यानुमानात्मत्वोररीकरणात् प्रत्यक्षानुमा- नमात्रप्रमाणवाद्यन्तर्भूतस्य कणादस्य मतमवतार्यते- " इह द्रव्यगुणकर्मसामान्यविशे (षा ? पसमवाया)- ख्याः षडेव पदार्थाः । तत्र गुणवद् द्रव्यम् । तन्नवधा भिद्यते । पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनोभे- दात् । तेष्वात्माख्यमष्टमं द्रव्यं प्रमाता । स च पृथिव्या- दिलक्षणेभ्यो देहादिभ्योऽन्यो नित्यो विभुः प्रतिक्षेत्रं भिन्नः परमेश्वरपरतन्त्रो जडस्वभावोऽहंप्रत्ययग्राह्यश्च । द्रव्यान्तराणि गुणादयश्च प्रमेयम् । सामान्यवानसमवा- कणादमतनिरूपणम् । २३ यिकारणमस्पन्दात्मा गुणः । स च रूपरसगन्धस्पर्शसं- ख्यापरिमाणपृथक्त्वसंयोग ( विभाग) परत्वापरत्व गुरुत्व- द्रवत्वस्नेह (?) बुद्धिसुखदुःखेच्छाद्वेषप्रयत्न वर्माधर्मसं- स्कारशब्दभेदाच्चतुर्विंशतिधा भिद्यते । तत्र रूपरसगन्ध- स्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरु- त्वनैमित्तिकद्रवत्वसंस्काराः पृथिवीगुणाः । गन्धवर्जित- स्नेहयुक्तोक्त गुणयुक्ता आपः । रूपस्पर्शसंख्यापरिमाणपृ- थक्त्वसंयोगविभागपरत्वापरत्वनैमित्तिकद्रवत्वसंस्कारा - स्तेजोगुणाः । स्पर्शसंख्यापरिमाणपृथक्त्व संयोगविभा- गपरत्वापरत्ववेगसंस्कारा वायुगुणाः । संख्या परिमा- णपृथक्त्वसंयोगविभा (गा ? गशब्दा) व्योमगुगाः । सं- ख्यापरिमाणपृथक्त्वसंयेागविभागाः कालगुगाः । त- एव च दिग्गुणाः । संख्यापरिमाणपृथक्त्व संयोगवि भागबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा आत्म- गुणाः । संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापर- वेगसंस्कारा मनोगुणाः । आत्मनो बुद्ध्यादयो नव विशेषगुणाः । आकाशस्थ शब्दो विशेषगुणः । वायोः स्पर्शः । तेजसो रूपम् । अपां रसः । भूमेर्गन्धः। दिक्का- लमनसां विशेषगुणा न सन्ति । संयोगविभागयोरस- मवायिकारणजातीयं कर्म । तदुत्क्षेपणावक्षेपणाकुञ्चनप्र- सारणगमनभेदात् पञ्चविधम् । नित्यमनेकवृत्ति सामा- न्यम् । तद् द्विविधं परमपरं च । परं सत्ता, अधिकवृत्ति- त्वात् । अपरं द्रव्यत्वादि, न्यूनवृत्तित्वात् । नित्याश्रया २४ सर्वमत सहः अत्यन्तव्यावृत्तबुद्धिहेतवोऽनन्ता अन्त्या विशेषाः । नित्यः सम्बन्धः समवायः । पृथिव्यादिचतुष्टयं नित्या- नित्यरूपम् | आकाशादिपञ्चकं तु नित्यमेव । पार्थिवा- प्यतैजसवायव्यभेदेन चतुर्विधा नित्याः परमाणवो यणुकादिक्रमेण परमेश्वरेच्छया देहघटाद्यन्तावयविप- र्यन्तं विश्वमारभन्ते । धर्मादयश्चत्वारः पुरुषार्थाः । अग्नि- होत्रादिलक्षण ईश्वराराधनादिलक्षणश्च धर्मः । अर्थका- मौ धर्माविरुद्धौ । षट्पदार्थतत्त्वज्ञस्य पुंसः परमेश्वर- प्रसादाद् नवगुणोच्छेदस्वलक्षणो मोक्षः । 1 येनोक्तोऽर्थः प्रतिपन्नः स वेदश्च नित्येच्छाज्ञान- क्रियाशक्तिमता परमेश्वरेण शब्दार्थात्मकं जगत् सृष्ट्रा अस्य शब्दस्यायमर्थ इति शब्दशक्तिसङ्केतं च विधाय प्रा- णिनामभ्युदयनिःश्रेयसप्रयोजनाय प्रणीत इति परमा- सवाक्यत्वान्न शङ्काकलङ्कवान् । ईश्वरसद्भावश्चानुमान- तो निश्चीयते । विप्रतिपन्नं भूधरादिकार्यं सकर्तृकं कार्य- त्वाद्, यदित्थं (तत्) तथा यथा घटादीति । अयं घट एतद्घटजनकानित्यज्ञानेतरज्ञानजन्यः घटत्वात्, घटा- न्तरवदित्यनुमानादैश्वरं ज्ञानमप्यनुमेयम् । न च स्वभा- वादेव सर्वं कार्यं जायत इति युक्तम् । स्वस्य भावः स्वभाव इति स्वभावशब्दाज्जायमानवस्तुग्रहणे स्वस्मात् खोत्प- त्तिकथापत्तेः, तत्सम्बन्धिवस्त्वन्तरग्रहणेऽकारणात् का- यत्पत्तिकथा (त्वा ?) पत्तेः, अन्योपक्षां विनैव कार्योत्पत्त्य कणाद मतनिरूपणम् । २५ र्थत्वे घटायर्थिनां मृदायादानवैयर्थ्यापत्तेश्व | अतः कार्यस्य कारणावश्यंभावात्, सावयवत्वात् कार्यत्वेन निश्चितस्य जगतः कारणमनुमेयम् । नियतप्राक्सत् कारणम् । तत् त्रिविधं समवाय्य- समवायिनिमितभेदात् । कार्यं यत्र समवैति तत् सम वायिकारणम् । यथा घटस्य मृत् । समवायिप्रत्यासन्नम- वधृतसामर्थ्य मसमवायिकारणम् । यथा मृदवयवाना- मन्योन्यसंयोगः । समवाय्यसमवायिभ्यामन्यदवधृत- सामर्थ्यं निमित्तकारणम् । यथा कुलालदण्डचक्रादि । तत्र जगदुत्पत्तौ परमाणवः समवायिकारणम् । तेषाम- न्योन्यसंयोगोऽसमवायिकारणम् । ईश्वरो निमित्तका- रणम् | जन्म च प्रागसतः सत्तासम्बन्धः । सृष्टस्य विश्वस्य सुखदुःखमयत्वात् प्राणिकर्मणामप्यत्र निमि तत्वमित्येषा दिक् । ‘यतो वे’त्यादिश्रुतयः ‘अहमादि- श्वेत्यादिस्मृतयश्च तथाविधाः ‘परास्य शक्तिरि’ त्या- दिका अपिं नित्येच्छाज्ञानप्रयत्नानुमानात्मिकाः । एवम- न्यास्वपि श्रुतिषु न्यायः । ‘ज्योतिष्टोमेनेत्यादिश्रुति- वाक्यान्यनुमानात्मकानि । तैर्हि ज्योतिष्टोमादीनां पर- मेश्वरसमाराधनक्रियाणां स्वर्गादिफलसाधनत्वं प्रका- इयते । तत्रैवं प्रयोगः - विमता यज्ञादिक्रिया समीहि- तफलसाधनम्, ईश्वरपरिचरणत्वाद्, लौकिकेश्वरपरि- चरणवदिति । एवमात्मदर्शनाय श्रवणादिविधायकवा- क्यान्यपि । तानि हि परमात्मश्रवणादेस्तत्प्रसादजनन- २६ सर्वमत संग्रहः द्वारेण निखिलदुःखोच्छेदलक्षणमोक्षसाधनत्वं प्रकाशय- न्ति । तत्रैवं प्रयोगः - परमात्मबोधो बन्धनिवर्तकः, आत्मबोधत्वाद्, अस्मज्ज ग्रोधवदिति । परमात्मज्ञानं तच्छ्रवणादिजन्यं, प्रमाणज्ञानत्वाद्, धर्मज्ञानवदिति च । ‘यो वै भूमेत्यादिश्रुतिवाक्येषु परमात्मनो दुःखासंस्पृष्ट- स्वभावत्वमेवोच्यत इति निःशेषदुःखोच्छेद एव मोक्षः । स च बुद्ध्यादिगुणान्तरसद्भावे न संभवतीति नवगुणो- च्छेदलक्षण इत्याचार्यः कणादः स्मरतीति ॥ अक्षपाद मतनिरूपणम् । प्रत्यक्षानुमानागमोपमानप्रमाणवादिनोऽक्षपाद- स्य कणादवत् प्रमातृकल्पना, परमेश्वरस्य प्रमातुरन्य- स्वकल्पना, प्रमातॄणामनेकत्वनित्यत्वविभुत्वज्ञानादिगु- णत्वकल्पना, जडत्वकल्पना, अहंप्रत्ययवेद्यत्वकल्पना. वेदकल्पना, प्रमेयेषु नित्यानित्य (त्व) कल्पना, परमाणूनां जगदारम्भकत्वकल्पना, धर्मादित्रिवर्गकल्पना, बन्ध- मोक्षकल्पना, तमस आलोकाभावत्वेन द्रव्यान्तरत्वा- भावकल्पना च । इयान् विशेषः - निर्विशेषोऽक्षपादः षोडशपदार्थवादी । तथाच तत्सूत्रं - ’ प्रमाणप्रमे- । यसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादज- ल्पवितण्डा हेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्व- ज्ञानान्निःश्रेयसाधिगमः’ इति । षोडशपदार्थतत्त्वज्ञाना- दनात्मनि देहादावात्मभ्रान्तिप्रभृतीनां मिथ्याज्ञानानांअक्षपादमतनिरूपणम् । २७ निवृत्तिः, ततो रागादिदोषनिवृत्तिः, ततः शुभाशुभक- मनिवृत्तिः, ततो निमित्ताभावान्नैमित्तिकनानायोनिज- न्मनिवृत्तिः, ततो गर्भाधिवासादिमरणान्तदुःखनिवृत्ति- रित्येवं क्रमेण मोक्षः । तथाचाक्षपादसूत्रं - ‘दुःखज- न्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरा *- भावादपवर्गः’ इति । प्रत्यक्षानुमानागमप्रमाणवादिनो नैयायिकैकदे- शिनोऽक्षपादवदेव प्रमाणादिस्वरूपस्थितिः । मोक्षस्तु न दुःखनिवृत्तिमात्रम्, अपितु नित्यसुखस्याविर्भावो- ऽपि । तस्य जन्यत्वेऽपि निखिलदुःखप्रध्वंसरूपत्वाद- विनाशित्वं चोपपद्यत इति ॥ सेश्वरनिरीश्वरसांख्यमतनिरूपणम् । त्रिष्वप्येतेषु पक्षेषु आत्मनो जडत्वेन ज्ञातृत्वा- नुपपत्तेः, बुद्धधादिगुणाश्रयत्वेन विकारित्वापत्तेः, चेत- नादन्यत्वेन परमेश्वरस्याचेतनत्वापत्तेः, चेतनाभेदस्य च स्वतः परतश्च ग्रहणासंभवाद, आत्मनोऽहप्रत्यय- वेद्यत्वे घटवदचेतनत्वापरिहाराद, ज्ञानानां चानुव्य- वसायज्ञानवेद्यत्वे तस्य स्वप्रकाशत्वाभ्युपगमेऽपसिद्धा- न्तापत्तेः, परप्रकाश्यत्वेऽनवस्थापत्तेः, ज्ञेयत्वे ज्ञानत्वानुप- पत्तेः, वेदस्य पौरुषेयत्वे मूलप्रमाणापेक्षापत्तेः, ईश्वरस्य नित्येच्छादिमत्त्वे नित्यशरीरित्वापत्तेः, मोक्षस्य नवगु- गोच्छित्तिरूपत्वे पाषाणादितुल्यतापत्तिदोषात्, सुखस्य दुःखाभावत्वे चेतनस्य नवगुणाश्रयत्वासिद्धेः, सुखाभा-

  • रापायादपवर्गः इति मुद्रितन्यायसूत्रपाठः । ३८

, " वो दुःखमित्यपि वक्तुं शक्यत्वात् परमाणूनां निरव- यवत्वे अन्योन्यसम्बन्धेऽपि स्थौल्या सिद्धेः सावयवत्वे परमाणुत्वासिद्धेः, ‘मायां तु प्रकृतिं विद्यादित्यादिश्रु- तेर्मायाया एवं जगन्निदानत्वश्रवणात्, परमाणुकारण- वादस्य श्रुतिविरोधाच्चाविचारितरमणीयत्वमिति सांख्य- पक्षोऽवतार्यते- यद्यपि न्यायैकदेशिनः सांख्यस्य च प्रत्यक्षानु मानागमप्रमाणवादित्वं तुल्यं, तथापि वेदस्याप्तप्रणी- तत्वेन प्रामाण्यमक्षपादवत् तदेकदेशिनोऽपि । प्रत्यक्षा- दीनां च परत एव प्रामाण्यं तस्य बाधाभावाधीननि- श्श्रयत्वाद, भ्रान्तिज्ञानानामपि प्रामाण्यं मा प्रसाङ्क्षी- दिति । सांख्यस्य तु सर्वे प्रत्यया यथार्थाः प्रत्यय- त्वात्; संप्रतिपन्नवदित्यनुमानेन भ्रान्तिसंशयादिज्ञाना- न्यनङ्गीकुर्वतः प्रयक्षादीनां स्वत एव प्रामाण्यं प्रभा- करवद्, यो निरीश्वरं विश्वं मन्यते । नित्यः शब्दः अ- मूर्तत्वादाकाशवदित्याद्यनुमानैः, “नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम् ।” “अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा ।” इत्यादिश्रुतिस्मृतिभिश्च वेदस्य नित्यत्वं च समं भट्ट- कुमारवत् । न च ग्रहणस्मरणरूपाण्येव ज्ञानानि, भ्रा- ‘च भ’ ख. पाठः. सेश्वर निरीश्वरसाङ्ख्यमतनिरूपणम् । २९ न्तिसंशयज्ञानानभ्युपगमे देहाद्यात्मत्वप्रत्ययानां चे- त्यवन्दनादिधर्मप्रत्ययानां च प्रमात्वापत्तेः सन्दिग्धे धर्मिणि न्यायः प्रवर्तत इति संशयाभावेन मीमांसादि- शास्त्राणां धूमाद्यनुमानानां चानुदयप्रसङ्गाच्च । न चेह प्रत्यक्षादिप्रामाण्यस्य बाधाभावाधीनसिद्धिकत्वदोषः अज्ञातार्थज्ञापकत्वलक्षणस्य प्रामाण्यस्य भ्रान्त्यादिष्व- प्रवृत्तेः । न च भ्रान्त्यादिविषयः पूर्वोत्तरकालयोरस्ति, येनाज्ञाततया तिष्ठेत् । अनयैव रीत्या स्मृत्यप्रामाण्य- मूह्यम् । यः पुनः प्रामाण्यस्य बाधाभावात्मकत्वं मन्य- ते, तस्य कथं स्मृतेरप्रामाण्यम् । न तस्याः पुनर्बाधो दृश्यते । अतो भ्रान्तिसंशयादिज्ञानाभ्युपगमे न दोषः कश्चित् । नित्योदितानस्तमितनिर्विषयज्ञानस्वरूपः पुरुषः प्रमातेत्यनयोर्निरीश्वरसेश्वरयोरविशिष्टम् । तस्मिन् जीव- परभेदेन द्वैविध्यं सेश्वरो मन्यते । जीवे सुरनरनारका- दिभेदेन त्रैविध्यं चावधारयति । उभयत्रापि पक्षे पुंसः कूटस्थत्वेन सत्त्वरजस्तमोगुणात्मिकायाः प्रकृतेरेव ज- गदाकारेण परिणामित्वं सृष्टस्य जगतः सुखदुःखमोहा- त्मकत्वं चानुमतम् । पुरुषप्रकृतिमहदहङ्कारमनः श्रोत्र- स्वक्चक्षुर्जिह्वाघ्राणवाक्पाणिपादपायूपस्थशब्दस्पर्शरू- परसगन्धाकाशवायुवह्रिसलिलभूमय इति निरीश्वरस्य १. ‘णामनु’ ख. पाठः. ३०.

पञ्चविंशतिस्तत्त्वानि । सेश्वरस्य परः पुरुषोऽतिरिच्यत इति षड्विंशतिः । ववाह - “मूलप्रकृतिरविकृतिर्महदायाः प्रकृतिविकृतयः सप्त । पोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥” इति । जन्ममरणादिव्यवस्था पुरुषबहुत्वं चाह - “जन्ममरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाञ्चैव ॥” इति । पुंसां शुभाशुभमिश्रकर्मभिः संसारं प्रकृतिपुरुष- तत्वज्ञानेन मोक्षं च- । “धर्मेण गमनसुध्वं गमनमस्ताः भवत्यधर्मेण । ज्ञानेन चापवर्गों विपर्ययादिष्यते बन्धः ॥” इति च । उभयत्राग्निहोत्रदर्शपूर्णमासादयो यमनि- यमादयश्च प्रवृत्तिनिवृत्तिलक्षणा धर्माः । प्रवृत्तिलक्षणः संसारहेतुः । निवृत्तिलक्षणस्तत्त्वज्ञानद्वारेण मोक्ष- हेतुः । इयान् विशेषः - सेश्वरस्य तत्त्वज्ञानसहकृतो योगो मुक्तिहेतुः । इतरस्य योगसहितं तत्त्वज्ञानं मुक्तिहेतुरिति । यमनियमासनप्राणायामप्रत्याहारधार- णाध्यानसमाधयो योगाङ्गानि । योगफलानि च द्विवि- धानि विद्याविद्याभेदात् । तत्र विद्यामयानि भक्तिज्ञान- वैराग्याणि । अविद्यामयान्यणिमाद्यष्टैश्वर्याणि । एवमन्या अपि बाह्या योगसिद्धयः । यथाहुः - प्रभाकरादिमीमांसकमतनिरूपणम् । ३१ “आत्मनो वै शरीराणि बहूनि मनुजेश्वर ! | प्राप्य योगबलं कुर्यात् तैश्च सर्वा महीं चरेत् ॥” इत्यादीनि । इह सेश्वरस्य तत्त्वज्ञानसहितेन योगेन योगिनः परमेश्वरतावाप्तिर्मुक्तिः । निरीश्वरस्य योगसहितेन ज्ञाने- न प्रकृतिपुरुषविवेकलाभो मोक्षः । कः पुनः सेश्वरपक्षे क्षेत्रज्ञात् परमपुरुषस्यातिशयः । क्लेशकर्मविपाकाशयैर- परामृष्टः पुरुषविशेष ईश्वरः केशादिसंसृष्टः क्षेत्रज्ञ इति । अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः । कर्म पुण्यापुण्यात्मकम् । विपाकः सुखदुःखमोहलक्षणं कर्मफलम् । योऽन्तःकरणमिति || प्रभाकरादिमीमांसकमतनिरूपणम् । अर्थापत्या सह प्रत्यक्षादिचतुष्टयप्रामाण्यवादिनः प्रभाकरस्य, अभावेन सह प्रत्यक्षादिपञ्चकप्रामाण्यवादि- नो भकुमारस्य च जैमिनीयभाग्यव्याख्यातृत्वे तुल्ये- ऽपि प्रमातृप्रमेययोः प्रमाणवद विसंवादः । कथम् । यस्या- भा (नो ? यो ) न प्रमाणं तस्य गुरोर्नाभावो नाम कश्चिद् विषयः । किं तर्हि, भूतले घटो नास्तीति केवलभूतल- मात्र प्रकाशते । तमश्च रूपदर्शनाभावमात्रं, न द्रव्या- न्तरम् । यस्य पुनरभावः प्रमाणं, तस्य कुमारस्याभाव- लक्षणोऽपि विषयोऽस्ति । स चात्यन्ताभावादिभेदात्**

पञ्चविधः । तत्र शशे शृङ्गस्यात्यन्ताभावः । उत्पत्तेः प्राचीनो घटादीनां प्रागभावः । विनाशोत्तरकालीनः प्रध्वंसः । घटस्य पटाद्यात्मत्वाभावोऽन्योन्याभावः । अ- पवर (कस्थादीना? कादिस्थाना) मङ्गणादावभावः संस- र्गाभाव इति । तमश्च द्रव्यान्तरं, नालोकाभावमात्रम् । नापि रूपदर्शनाभावमात्रम् । कुतः । ‘तम आसीद्’ इ- त्यादिश्रुतिविरोधात् । किञ्च आलोकाभावत्वे एकालोका- भावः सर्वालोकाभावो वा तमः । आये सदोपलम्भप्रस- ङ्गः, एकालोकाभावस्य सर्वदा सर्वत्र सम्भवात् । द्वितीये न कदाचिदपि तम उपलभ्येत, सर्वालोकाभावस्य क चिदप्यसम्भवात् । एवं रूपदर्शनाभावपक्षोऽपि दूष्यः । भावत्वेनोपलभ्यमानस्य तमसोऽभावत्वकल्पने प्रकाश- स्य तमसोsभावत्वकल्पना कथं निवार्येत । अभावमन- ङ्गीकुर्वतो गुरो रूपदर्शनाभावश्च नास्तीति तमसस्तद्रु- पत्वकथा कथङ्कारं सङ्गच्छताम् । अभावज्ञानस्य निर्वि षयत्वं वदन्नसौ भावज्ञानस्य निरालम्बनत्वं साधयन्तं माध्यमिकं वा कथं निराकुर्यात् । अतो यत्किञ्चिदेतत् । तदुक्तं भट्टपादैः- ‘, तमः खलु चलं नीलं परापरविभग्गवत् । प्रसिद्धद्रव्यवैधयन्निवभ्यो भेत्तुमर्हति ॥ इति । वेदस्य नित्यत्वे स्वतः प्रामाण्ये च सत्यपि म- न्त्रार्थवादभागस्योपनिषद्भागस्येतिहासपुराणानां चा- प्रभाकरादिमीमांसकमतनिरूपणम् । ? ૧ प्रामाण्यं, विधिशेषत्वेन वा कथञ्चित् प्रामाण्यं, स्वर्भू- पाताललोकानां नित्यत्वं, निरीश्वरत्वं, चेतनाचेतनात्म- कस्य विश्वस्यानेकत्वं, सत्त्वम्, इन्द्राग्न्यादिदेवतानां विग्रहपञ्चकाभावेन चतुर्थ्यन्तपदमात्रत्वं, धर्मस्याग्निहो- त्रदर्शपूर्ण मास पशुबन्धसोमयागाद्यात्मत्वं, मोक्षस्यात्म- नः स्वरूपावस्थानात्मकत्वं च गुरुकुमारयोरविशिष्टम् । इ- यान् विशेषः । गुरोः सर्वज्ञानानि यथार्थानि भ्रान्तिसंश- यादिज्ञानानामविवेकमात्रत्वात् । प्रत्यभिज्ञाच प्रागज्ञात- घटादिस्थाय्यवगाहित्वेनानुभव एवान्तर्भवतीति ग्रह- णस्मरणरूपेण द्वैराश्यमेव ज्ञानम् । तेषां च स्वप्र काशत्वं सांख्यादिवत् । ज्ञानस्यापि ज्ञानान्तरवेद्यत्वे तस्यापि तथात्वमित्यनवस्थापत्तेः, ज्ञेयत्वे घटवदज्ञा- नवापत्तेश्व | ज्ञाता तु वैशेषिकादिवज्जडद्रव्यविशेषो बुद्धयादिधर्माश्रयोऽत एव देहादिविलक्षणो नित्यो वि मुर्लोकत्रयं कर्मवशाद् भ्रमन् प्रत्यक्षादिप्रमाणकः कर्तृभोक्तृ (स्व) स्वभावश्च भवति । तस्य जडत्वेऽपि ज्ञाना- श्रयत्वेन प्रकाशनाद् ज्ञातृत्वम् । घटादेर्विषयत्वेनावभा- सनाद् ज्ञेयत्वमित्यतो घटमहं जानामीत्यत्र स्वतो ज्ञानं, तदाश्रयत्वेन ज्ञाता, तद्विषयत्वेन घटश्च प्रकाशत इति त्रिपुटीप्रत्यक्षवादी गुरुर्भाषते । तथाच तद्वचनं - “बुद्धीन्द्रियशरीरेभ्यो भिन्न आत्मा विभुर्भुवः । नानाभूतः प्रतिक्षेत्रमर्थभित्तिषु भासते ॥” १. ‘ते । भेद’ ख. पाठः. ३४ 1 सर्वमत: इति । भेदश्चास्यान्यानपेक्षि स्वरूपमेव, न धर्मः । तथात्वे भेदान्तरापेक्षाप्रसङ्गात् । विध्यर्थश्च यागादिविषयो नियोग एव । असौ मानान्तरायोग्यत्वादपूर्वमिति, कृतिसाध्यत्वात् कार्य- मिति, कृत्युद्देश्यत्वात् प्रधानमिति चोच्यते । खसाध- कस्य नियोज्यस्वर्गादिफलदत्वं तु न स्वातन्त्रथभङ्गाय । (अस्मिन्प्र ? ) अतोऽग्निष्टोमेन स्वर्गकामो यजेतेत्यस्मिन् वाक्ये यजेतेत्यत्र प्रत्ययांशेन लिङा नियोगः प्रतीयते । सुखवासकामो मां भजेतेति राजवाक्यवत् । स च क- स्यचित् कस्मिंश्चिद् विषये प्रसिद्ध इति यजतिधातु- लक्षणया प्रकृत्या विषयः, स्वर्गकाम इति नियोज्यश्च समर्प्यते । अग्निष्टोमेनेति तृतीयाश्रुत्या कस्मिन् यागे नियोग इति विशेषार्पणम्, अधिकारिणः स्वर्गकामत्व- विशेषणेन नियोज्यविशेषार्पणं च कृतम् । तस्मादयम- र्थः - स्वर्गकामस्य ज्योतिष्टोमयागे नियोग इति अन्येऽपि विधयः ‘फलवत्सन्निधावफलं तदङ्गम्’ इति न्यायादेतदङ्गविधयः । मन्त्राश्चानुष्ठानस्मारका इत्येत- दङ्गतां भजन्ते । अर्थवादाः फलप्राशस्त्यप्रकाशका इति तेऽपि तत्साधकनियोग चिकीर्षापादकत्वाद विधि प्रत्युपकुर्वन्ति । एवमन्यत्रापि न्याय इति ।

  1. ‘क्षभेदिस्व’ क. पाठः 1, प्रभाकरादिमीमांसकमतनिरूपणम् । ३५ गुरोरपि गुरोः कुमारस्यानुभवस्मरणप्रत्यभिज्ञाभे- देन, अनुभवेऽपि सम्यङ् मिथ्यासंशयभेदेन चानेकवि- धानि ज्ञानानि कणादाक्षपादपतञ्जल्यादिवत् । ज्ञाता तु द्रव्यबोधस्वरूपः प्रत्यक्षानुमानार्थापत्त्यागमप्रमाणक- श्च । तत्र ज्ञेयविलक्षणस्वभावत्वाद् ज्ञानरूपत्वं, बुद्धया- दिगुणाश्रयत्वाद् द्रव्यत्वम् । न च ज्ञानाश्रयस्य द्रव्यस्य ज्ञानादन्यत्वान्न ज्ञानसंभेदः सम्भवतीति वाच्यम् । प्र- काशनिदानत्वेन तस्मादन्यस्यापि सवितृमण्डलस्य प्र. काशत्वदर्शनात् । जडाजडाकारत्वमन्तरेणात्मनोऽस्म- त्प्रत्ययविषयत्वासिद्धेश्च । यत् पुनर्भ्रान्तिज्ञानानामविवे- कात्मकत्वमिति । तन्मन्दम् | अभावमभ्युपगच्छतो- ऽख्यातेर्विवेका भावस्वरूपस्याविवेकस्य वक्तुमयोग्यत्वा त् । कयोर्वेहाविवेकः । ग्रहणस्मरणयोश्चेद्, न । इदं रज- तमिति पुरोवर्तिरजततादात्म्यानुभवात्मकत्वाद् भ्रमस्य । अतो रजतानुभवसंस्कारवतः पुंसः काचादिकरणदो- पात् सादृश्यादिविषयदोषाच्च सितभास्वरवस्तुमात्र- तया इदमिति प्र (ति) पन्नस्य शुक्तिशकलस्यैव स्मर्यमाण- रजतात्मना भानं भ्रान्तिः । घटसुखादिज्ञानानि चानुव्य- वसायज्ञानगम्यानि । अयं घट इति ज्ञानस्य घटमहं जानामीत्यौत्तरकालिकज्ञानेन विषयीक्रियमाणत्वात् । न चात्रानवस्था, द्रष्ठुरतः परं जिज्ञासाभावात् । भेदश्च न भेदिस्वरूपमात्रं, भेदशब्दस्य घटादिशब्दपर्यायत्वा. पत्तेः, अन्यापेक्षसिद्धिकस्य भेदस्य स्वरूपत्वायोगाश्च । 1 ३६ सर्वमत संग्रहः न च भेदिधर्मत्वेऽस्य भेदान्तरापेक्षादोषः, स्वपरनिर्वाह- कत्वोपपत्तेः आत्मवत् । स हि सर्व वस्तु जानन्नात्मानम- पि जानाति । भावना च विध्यर्थः । सा च किं केन कथं वेत्यंशत्रयवती (प्रतीयाः ? ) । तत्र किमित्यंशपूरणाय स्वर्ग- कामपदम् । केनेत्यंशपूरणाय यजतिः प्रकृत्यंशः । त- द्विशेषप्रकाशनायाग्निष्टोमेनेति प्रकृत्यंशः । तृतीयालक्षणः प्रत्ययांशस्तस्य करणत्वख्यापनाय । न च क्षणिकस्य यागस्य कालान्तरीयफलसाधनत्वासंभवः । यजमानस- मवेतस्वसंस्कारद्वारेण तत्संभवात् । कथं भावयेदित्यं- शार्पकाः प्रयाजादिविधयः । तस्मादयमर्थः - ज्योति- ष्टोमयागेन तत्कामः स्वर्गं भावयेदिति । अनयोः पक्षयोर्य आत्मनः स्वरूपावस्थितिलक्ष- णो मोक्षः, सोऽपि कर्मणैव लभ्यः । कथम् । प्रतिषिद्धा- नि काम्यान्यपि कर्माण्यकुर्वतः पुण्यपापात्मकनिमित्ता- भावान्नमित्तिकोर्ध्वाधोमध्यलोकगतिविहीनस्य प्रत्यवाय- परिहारार्थं नित्यनैमित्तिकानि चानुतिष्ठतः प्राचीनानि शुभाशुभकर्माणि च फलभोगेन क्षपयतश्च यजमानस्या- यत्नतो ज्ञानमन्तरेणैव स्वरूपावस्थितिर्भवतीति । स्यादेतत् । गुरुकुमारयोर सर्वज्ञत्वे सर्वज्ञत्वे वा निरीश्वरं विश्वमिति वचनमविश्वास्यम् । आये अल्प- ज्ञ (त्व ? ) वाक्यत्वादन्त्ये विप्रलम्भकवाक्यत्वाच्च । यः सर्वज्ञः स एवेश्वर इत्यौपनिषदैरास्थितत्वात् । एवंप्रभाकरादिमीमांसकमतनिरूपणम् । ३७ ता (भ्यामुपासित योजैमिनिशबरस्वामिनोरपि वचनम- विश्वास्यमेव । अथ तैस्तार्किकाभिमत ईश्वर एव नि- रस्तो नोपनिषदभिमतः क्षेत्रज्ञस्वरूपभूत इति चेत् । तन्न । ‘कर्मैव देहिनामिष्टानिष्टफल (दं) नेश्वर इति वदतां वेदस्य धर्मैकनिष्ठतां चाभ्युपगच्छतां क्षेत्रज्ञस्त्र- रूपस्येश्वरस्याकिञ्चित्करत्वात्, प्रमाणप्रतिपन्नत्वाभा - वाच्च । अनुमानप्रमाणकत्वं च परमेश्वरस्य स्वैरेव निर- स्तमागमस्य धर्मैकपरत्वं च साधितमिति किंप्रमाणकः स्यात् । स्वरूपावस्थानलक्षणो यो मोक्ष उक्तः, तत्रापि किमात्मा प्राक् स्वरूपावस्थितः, किंवा न । आद्ये न मोक्षस्य कर्मसाध्यत्वम्, उत्पत्त्याप्तिविकृतिसंस्कारात्म- कत्वात् कर्मफलस्य सिद्धस्य चोत्पत्त्याद्यसंभवात् । नापि द्वितीयः । प्रागविद्यमानस्य रूपस्य स्वरूपत्वा- निर्वाहात् । अव्यभिचारिरूपं हि स्वरूपं भाष्यते । कर्मसाध्यत्वे मोक्षस्य नित्यपुरुषार्थता च न स्यात्, यत् कृतकं तदनित्यमिति न्यायात् । जडात्मवादे कैव- ल्यस्य शून्यकल्पता चापरिहार्या पाषाणकल्पता वा- स्थेया । यत् पुनर्द्रव्यबोधस्वरूप आत्मेति । तदप्यसत् । बोधाबोधयोरभेदाभ्युपगमे सदसदादिष्वप्यैक्यप्रस क्तेः । ज्ञानस्यानुव्यवसायज्ञानगम्यत्वं चायुक्तम् । ज्ञेयं च तद् ज्ञानं चेति विरोधात् । अनुव्यवसायज्ञानस्य स्व- सिद्धावन्यानपेक्षत्वे पूर्वज्ञानस्यापि तथात्वसंभवात् । ૨૮ सर्वमतसमः आत्मन्यप्यसिद्धस्य ज्ञानस्यार्थप्रकाशकत्वे अर्थस्य ज्ञा- नप्रकाशकतापि स्याद, अविशेषात् । अतः सर्वज्ञानानां स्वप्रकाशत्वमास्थेयम् । तेषां च बुद्धिवृत्तिविशेषत्वेन जडत्वान्न स्वतः प्रकाशात्मकता सङ्गच्छत इति चिदा- त्मसान्निध्यादेव तथात्वमास्थेयम् । " तमेव भान्तम- नुभाति सर्वं तस्य भासा सर्वमिदं विभाति" इति श्रुतेः । यत् पुनर्भेदस्य भेदिधर्मत्वमादाय स्वपरनि- र्वाहकत्वेनानवस्थादोषनिरसनं, तदप्यचारु । रूपरसा- दीनां धर्माणां धर्मिभ्योऽन्योन्यतश्च भेदासिद्धेः । न खलु धर्माणां धर्मान्तराश्रयत्वं सम्भवतीति । किञ्च सर्ववस्तूनां भेदो नामैकः, किं वानेकः । एकोऽपि किं जडः किं वाजडः । आये नाजड आत्मन्यसौ सम्भवति । दृशि दृश्यान्वयायोगात् । द्वितीये त्वात्मन एव भेदश- उदार्थतापत्तिः, एकस्य सर्वगतस्याजडस्य वस्तुनस्तल- क्षणत्वात् । अचेतनश्चेत् स किं भेदान्तरमपेक्षते, किं वा नापेक्षते । अपेक्षते चंदनवस्था । नापेक्षते वेद भेद- मनपेक्ष्यैव भेदिनोऽप्यने (का? के) स्युर्भेदवत् । तस्मात् स्वरूपत्वेन धर्मत्वेन वा भेदो न निर्वोढुं शक्यः शक्रे- णापीति । कथं चेतनाचेतनप्रपञ्चस्य भेदः । कथं वा जी- वेश्वरभेदः । तस्मात् कर्ममीमांसकमतमपि श्रेयस्कामै- नपादेयमिति ब्रह्मवादिमतमवतार्यते । ब्रह्मवादिनोऽपि द्विविधाः । औपनिषदाः पौराणि- काश्च । औपनिषदा अपि द्विविधाः सगुणब्रह्मप्रधाना सगुणब्रह्मवादिमतनिरूपणम् । १९ निर्गुणब्रह्मप्रधानाश्चेति । तत्र सगुणब्रह्मप्रधाना रामानु- जादयः । निर्गुणब्रह्मप्रधानो आचार्य भगवत्पादादयः । सगुणब्रह्मवादिमत निरूपणम् । तेषु सगुणनिष्ठानों जीवेश्वरजगद्भेदः सत्य एव । तन्निदानभूता मायापि भगवच्छक्तित्वात् सत्यैव । सत- स्तिलादेः शक्तीनां सद्भावदर्शनात् । अघटितघटयितृ- त्वेन तस्यां मायात्वव्यवहारः, नावस्तुत्वात् । ‘इन्द्रो मायाभिः पुरुरूप ईयते’ इतिश्रुतेस्तस्याः प्रतिजीवं भे- दश्चास्तीति युगे युगे मुमुक्षवो जीवा वासुदेवस- ङ्कर्षणप्रद्युम्नानिरुद्धाख्यचतुर्व्यूहात्मनो भगवतः श्र वणकीर्तनध्यानपूजनानि भक्तिश्रद्धापूर्वमनुतिष्ठन्तो भ गवत्प्रसादेन जन्मादिसंसारकर्त्री तन्मायामतिलङ्घय से- वानुरूपं सालोक्यसारूप्यसामीप्यसायुज्यलक्षणं मोक्ष- मिच्छन्ति । भगवत्प्रसादशून्यास्तु तन्मायाव्यामोहिता इह संसरन्तीति सिद्धान्तसङ्ग्रहः । यथोक्तं शारीरक- सङ्ग्रहकुद्भिः “अज्ञानानि बहून्यसंख्यवपुषो जीवान्मुमुक्षूनपि ज्ञानाज्ञानसमाश्रयादनुयुगं तेषां च निःश्रेयसम् । मायामीश्वरसंश्रयादनुगमात् ससारसंवर्धिनीं केचिद्देवनिघातनिघ्नमनसः संचकुरल्पश्रुताः ॥” १. ‘नाम’ ख. पाg:- २. ‘नं जगज्जीवेश्वरात्मकञ्चैतत् स’ ख. ३. ‘तू तस्याः ’ ख. पाठः. ४. ’ न्तः देवमायाविमोहितानामल्प- श्रुतानामेतस्य सिद्धान्तस्यावस्तु भूतजगज्जीवेश्वर भेद वस्तुत्वभ्रान्ति’ ख. पाठः, पाठ:. ४० सर्वमतसङ्घदः इति । दैवनिघातनिघ्नमनसोऽल्पश्रुता इति तन्मतस्या- वस्तुभूतजगज्जीवेशभ्रान्तिमूलत्वनापेक्षणयित्वमभिहि- तमभियुक्तैः । निर्गुणब्रह्मवादिमतनिरूपणम् । } निर्गुणब्रह्मप्रधानानां शङ्करभगवत्पादादीनामौप- निषदानां पौराणिकानां च षविधाष्टविधप्रमाणवा- दिनां परमार्थतः सच्चिदानन्देब्रह्मैकमेव तत्त्वम् । तच्च न. मानान्तरगतम् । प्रमातृप्रमाणप्रमेयात्मकस्य विश्वस्य तस्मिन् कल्पितत्वेन ततः पृथगसत्त्वात् स्वतो जडत्वे- न तदधीनप्रकाशत्वाच्च । तदभावोऽपि न चिदात्मान मनाश्रित्य प्रकाशत, अप्रकाशस्वभावत्वात् । किं पुन- र्भावा घटपटादयः, आत्मैव चेद् वस्तु । यदि च सो- खण्डात्मा, कुतो जगज्जीवेश्वरात्मकं द्वैतमवभासते । स चेन्न वस्तु, न चैकस्सः, कुतस्तरां विश्वं भासेत । न खल्वेकं स्वप्रकाशं च तत्त्वमनपेक्ष्यानेकात्मकस्य जड- स्य विश्वस्य सिद्धिः साधयितुं शक्यते । द्वैतस्य वेदेका- न्ततोऽसत्त्वं, तर्हि कुतः सत्त्वप्रतिभासः । अधिष्ठान- सत्तयेति ब्रूमः । यथा शुक्तिसत्तया रजतसत्त्वप्र (ती?)- तिभासः । सा हि इदमि सितभास्वरवस्तुमात्रत्वेन ज्ञा- तापि स्वेन रूपेणाज्ञातां सती रजतानुभव संस्कारवतः पुंसः स्वाविद्याविजृम्भितरजताभासात्मना भासते । एवमात्माप्यहमिति प्रकाशद्रव्यमात्रत्वेन ज्ञायमानोऽपि सच्चिदानन्दात्मकेन स्वेन रूपेणाज्ञातः सन्नात्माविद्या- १. ‘दधनत्र’ ख. पाठः निर्गुण ब्रह्मवादिमतनिरूपणम् । ४१ विजृम्भितजगज्जीवेश्वरात्मकं भेदप्रपञ्चमात्मनि प- श्यतीति । अस्मिन् पक्षेऽपि व्यवहारदशायां दृग् दृश्य- श्वेति द्वौ पदार्थो । तत्र दृश्यं माया । दृक् तदधिष्ठाता पु- रुषः । माया च न सती, सत आत्मनोऽन्यत्वात्, शु- क्तिरूप्यवन मिथ्याभूतजगन्निदानत्वात्, अधिष्ठानत- त्वज्ञानबाध्यत्वाच्च । नाप्यसती, विश्वनिदानत्वाद्, मा- महं न जानामीत्यपरोक्षत्वाच्च । नापि सदसती, सत्त्वा- सत्त्वयोरन्योन्यनिषेधरूपत्वेनैकाधिकरण्यासम्भवात् । प- रिशेषादनिर्वचनीयेत्यायातम् । सा च नात्मनो भि- न्ना । अनुपलब्धिप्रसङ्गाद्, अत्यन्तासत्वापत्तेश्च । नाप्यभिन्ना । जडाजडयोरैकात्म्यायोगात् । नापि भि- न्नाभिन्ना, भेदाभेदयोः परस्परनिषेधात्मनोरविवादमे- कत्र वर्तनानुपपत्तेः । न सावयवा, कार्यत्वापत्तेः । न निरवयवा विश्वपरिणामित्वात् । नचोभयरूपा, विरोधात् । तस्मादविचारितरमणीया काचित् परमा- त्मनः शक्तिरेव माया । सा च त्रिगुणमयी । सत्त्वरजस्त- मांसि गुणाः । तथात्वं च मायायास्तत्कार्ये जगति सु- खदुःखमोहमयत्वदर्शनाच्छ्रतेश्च । इयमेव कचिदविद्येति कचित् प्रकृतिरिति कचिदक्षरमिति कचिच्छक्तिरिति कचिनमोह इति चोच्यते । (तद्वत आत्मनः सकाशादा- काशादीनि पञ्च भूतानि तेभ्यश्चिदात्माधिष्ठितेभ्यः समष्टिव्यष्टिशरीराणि चोत्पद्यन्त इति वेदान्तिनः । पौ- राणिकास्तु द्वैतस्य चाधिष्ठानसत्तयैव शब्दप्रतिभासः, G४२

पथा रजतस्य । अस्मिन् पक्षे व्यवहारदशायां दृग् दृश्यं चेति द्वौ पदार्थों । दृश्यं माया । दृक् पुरुषः । अविचारितरमणीया परमात्मनः शक्तिरेव माया । ?) सा च त्रिगुणमयी एकाच ‘अजामेकामित्यादिश्रुतेः । ‘इन्द्रो मायाभिरिति तद्वहुत्वभवणं चावयवभेदादेव । इयमेवा- विद्यादिशब्दैरभिधीयते । तद्वत आत्मन आकाशादीनि जायन्ते । तेभ्यः समष्टिव्यष्टिरूपाणि शरीराणि चोत्प- यन्त इति वेदान्तिनः । पौराणिक मतनिरूपणम् । पौराणिकास्तु मायाशबलात् परमात्मनो महान् । महतोऽहंकारः । स च द्रव्यज्ञानक्रियाशक्तिभेदेन त्रिरूपः । तत्र द्रव्यशक्तेस्तामसाहंकाराच्छब्दादितन्मात्राण्या- काशादिभूतानि च जायन्ते । ज्ञानशक्तेः सात्त्विका - काराद् दिगादिचतुर्दशकरणदेवता अन्तःकरणा- निच जायन्ते । क्रियाशक्ते राजसाहङ्काराच्छ्रोत्रादीनि वागादीनि च जायन्ते । तान्येतानि महदाद्यवन्यन्ता- नि मायाविना पुरुषेण प्रेरितान्यन्योन्यं मिलित्वा हैमं ब्रह्माण्डमारभन्ते । तत्र च चतुर्दश भुवनानि चर्तुर्विध- शरीराणि च भवन्तीति तेषु च देहेषु सर्वनिदानभूत- श्चिदात्मा साक्षित्वेनाभिमानित्वेन प्रविशति । साक्षी परमेश्वरः । अभिमानी जीवः, ‘द्वा सुपर्णे’ त्यादिश्रुतेः, ‘ईश्वरः सर्वभूतानाम्’ इत्यादिस्मृतेश्च । एवं चानयोः पक्षयोर्भूतभौतिकलक्षणं मायाकार्यं प्रमेयम् । प्रत्यक्षा- पौराणिकमतनिरूपणम् । ११ दीनि षडष्टौ वा प्रमाणानि । जीवः प्रमाता । स प्रत्यक्षा- नुमानगम्यः प्रतिक्षेत्रं मायया भिन्नः । परमेश्वरस्तर्का- परपर्यायानुमानसहकृतश्रुतिप्रमाणतो नित्यशुद्धबुद्धमु- क्तस्वभावः सर्वज्ञः सर्वशक्तिर्गुणत्रयात्मिकया मायया विश्वसृष्टिस्थितिसंहारतिरोभावानुग्रहलक्षणैः पञ्चविधैः कृत्यैः स्वात्मन्येव विहरति । सर्वक्षेत्रेष्वेक एव स्थितः सन् सर्वान् क्षेत्रज्ञान् नियमयति च । न चैकस्मिन् नि- याम्यनियामकभावासंभवः । मायीयभेदाश्रयेण त- त्संभवात् । एवं द्वैतप्रपञ्चः सर्वो मायामयः । अद्वितीयं ब्रह्मैव परमार्थतोऽस्ति । अनयोर्मतयोर्बन्धस्याविद्यानि - बन्धनत्वात् तन्निवृत्तिरेव मोक्षः । स च ‘आत्मा वा अरे द्रष्टव्यः’ इत्यादिश्रुत्या आत्मदर्शनमनूद्य तत्साधनत्वेन श्रवणादिविधानाद्, वेदान्तश्रवणादि कुर्वतो विवेकादि- साधनसम्पन्नस्य पुंसो भगवच्चरित्र श्रवणादिभिः परि- शोधितान्तःकरणस्याहं ब्रह्मास्मीति जीवपरैक्यसाक्षा- द्बोधे सति सिध्येदित्यखिलमनाविलम् ॥ शुभं भूयात् । READY FOR SALE. RS. AS. P. wfang (Stuti) by H. H. Svâti Sri Râma Varma Mahârâjah. 1 0 0 Trivandrum Sanskrit Series. No. 1 (Vyakarana) by Deva with Puru- shakâra of Krishnalilasukanuui. 1 0 0 No. 2 – अभिनवकौस्तुभमाला-दक्षिणामूर्तिस्तवौ by Krishnalilâsukamuni. No. 3-anga: (Kâvya) by Vâmana Bhatta 0 2 0 Bâna. 0 4 0 No. 4-adria: (Kâvya) by Nilakantha Dik- shita No. 5-fafaà: (Alankâra) by Mahima Bhatta with commentary, No. 6—zzyfa: (Vyâkarana) by Saranadeva. No. 7- (Vedanta) by by Sadâ- 2 0 0 2 12 2.12.0 2 0 0 sivendra Sarasvati 2 4 0 No. 8-gungen (Nátaka) by Ravi Varma Bhupa 1 0 0 No. 9—faz¶¶ (Vedânta) by Virupaksha- natha with the commentary of Vidyâ- chakravartin, 0 8 0 No. 10—Ħtageier (Gajalakshana) by Nilakantha. 08 0 No. 11-aag (Nâtaka) by Kulasekhara Varma with the commentary of Siva- râm. 2 4 0 No. 12—qdar (Vedânta) by Bhagavad Ädi- परमार्थसारम् sesha with the commentary of Râghav- ânanda. 0 8 0 No. 13- (Nâtaka) by Kulasekhara Varma with the commentary of Siva- râma 2 0 0 No. 14-fiftere: (Nîti) by Kâmandaka, with the commentary of Sankarârya. 3 80 No. 15-aqua (Nâtaka) by Bhasa. (Second Edition) 1 & 0 2 No. 16-fasmatzung (Nâtaka) by Bhâsa. Do. Do. No. 17 - पञ्चरात्रम् No. 18—ania (Stuti) by Nârâyana Bhatta with the commentary of Desamangala No. 19–THI : ( Minîmsa) by Narayana RS. AS. P. 180 100 Varya. 4 0 0 400 No. 20-a Mîmâmsâ Bhatta and Nârâyana Pandita. (Nâtaka) by Bhâsa. 1 4 0 1 8 0 No. 21 – बालचरितम् Do. Do. 1 0 0 No. 22 – मध्यमव्यायोग- दूतवाक्य दूतघटोत्कच कर्णभारोरुभङ्गानि (Nâtaka) by Bhâsa. No. 23—aramofofaraq: (Kosa) by Kesavaswâmin (Part I. 1st & 2nd Kândas) No. 24-uur: (Kâvya) by Chakrakavi. No. 25-fagraafza (Nyâya) by Gangâ- 1 1 8 0 1 12 0 1 0 0 dharasûri. No. 26-2 (Nâtaka) by Bhâsa. 0 12 0 No. 27—gaream: (Kâvya) by Kâlidâsa with the two commentaries, Prakâsikâ of Arunagirinatha and Vivarana of Nârâ- 0 12 0 yana Pandita (Part I, 1st & 2nd Sargas) 1 12 0 No. 28-ầanaaяw: (Dharmasûtra) by Vikbanas. () 8 0 No. 29—uaridazia: (Kosa) by Kesavaswâmin (Part II. 3rd Kânda) No. 30arfarer (Silpa) No. 31-aarid: (Kosa) by Kesavaswâmin (Part III. 4th, 5th & 6th Kândas) No. 32-ra: (Kâvya) by Kâlidâsa with the two commentaries, Prakâsikâ of Aruna- girinatha and Vivarana of Nârâyana 2 4 0 0 12 0 1 0 0 1 Pandita (Part II, 3rd, 4th & 5th Sargas) 2 80 No. 33—ategang: (Vyâkarana) with the com- mentary Dîpaprabha of Nârâyana 0 08 0 (Nyaya ) by Raja - chûdâmanimakhin. 1 4 0 No. 34 - मणिदर्पण: ( शब्दपरिच्छेदः) No. 35 - मणिसारः ( अनुमानखण्ड :) (Nyaya ) by Gopi - nâtha. 1 80 3 No. 36-F#reuzwa: (Kâvya) by Kâlidâsa with the two commentaries, Prakâsikâ of Aru- nagirinatha and Vivarana of Nârâyana RS. AS. P. Pandita (Part III. 6th, 7th & 8th Sargas) 3 0 0 No. 37—aga (Smriti) by Vararuchi with No. 38—amierzauna (Kosa) by Amarasimha नामलिङ्गानुशासनम् with the commentary Tikâsarvasva of Vandyaghatiya Sarvânanda (Part I, No. 39 (Nâtaka) by Bhâsa. commentary. O 04 0 Kânda) 2 0 200 0 12 0 1st No. 40-gr¤¤¤ (Alankâra) by Râjânaka Srî Ruyyaka with the Alankârasarvaswa of Sri Mankhuka and its commentary by Samudrabandha. 2 8 0 No. 41—20¤ (Kalpa) by Apastamba with Vivarana of Sri Sankara Bhagavat Pada. + 0 4 0 1 8 0 No. 42-gfan204 (Nâtaka) by Bhâsa. No. 43—amfoxguana (Kosa) by Amarasimba with the two commentaries, Amarakoso- dghatana of Kshiraswamin and Tîka- sarvaswa of Vandyaghatiya Sarvananda (Part II. 2nd Kanda 1—6 Vargas) 2 8 0 No. 44- (Tantra) by Bhattâraka Sri Ve- No. 45-¤ (Prapanchahridaya) dottama. No. 46—qfwaqft: (Vyâkarana) by Nilakantha 0 04 1 0 0 Dîkshita. 08 0 No. 47—fagiatagraag (Vedânta) by Srî Krishnânânda Sarasvati. (Part I) No. 48- Do. Do. 1 12 0 (Part II) 2 0 G 040 No. 49—far (Jyotisha) by Parameswara. No. 30-zaniaguns: ( Alankara) by Singa Bhupâla. 3 0 04 No. 51—frigmanz (Kosa) by Amarasimha with the two commentaries, Amarakoso- dghâtana of Kshîraswâmin and Tîkâ- sarvaswa of Vandyaghatiya Sarvananda RS. AS. P. (Part III. 2nd Kanda 7-10 Vargas) 200 No. 52-gaann (Kosa) by Amarasimha with the commentary Tikâsarvaswa of Vandyaghatiya Sarvananda (Part IV. 3rd Kanda) 1 8 0 No. 53-fa: (Vedânta) by Prakâsâtmaya- No. 54-featundenz: (Vyâkarana) No. 55 — मत्तविलासप्रहसनम् ( Nataka ) by Sri Mahendravikramavarman. No. 56 - मनुष्यालयचन्द्रिका ( Silpa ) No. 57—zydkaftan (Kavya) No. 58-fagrafag¤ (Vedânia) by Sri tindra. 0 12 0 04 0 Krishnananda Saraswatî (Part III) No. 59—am (Nâtaka) by Sriharshadeva with the commentary Nâgânanda- vimarsinî of Sivarâmu. No. 60—sgafa: (Stuti) by Sri Laghubhattâraka with the commentary of Sri Ragha- vânanda. No, 61-fagrafagiga (Vedanta) by Sri Krishna- nanda Sarasvati (Part IV) No. 62—agsaan: (Sarvamatasangraha) 0 8 0 0 8 0 1 40 200 34 0 0 8 0 1 8 0 0 8 0 Apply to:- The Agent for the sale of Government Sanskrit Publications, Trivandrum.