प्रस्थानभेदः

प्रस्थानभेदः

॥ ॐ तत्सद्ब्रह्मणे नमः ॥

॥ अथ मधुसूदनसरस्वतीकृतौ प्रस्थानभेदः ॥

अथ सर्वेषां शास्त्राणां भगवत्य् एव तात्पर्यं
साक्षात्, परम्परया वेति
समासेन तेषां प्रस्थान-भेदो ऽत्रोद्दिश्यते ।
तथा हि-

  • ऋग्वेदो यजुर्वेदः सामवेदो ऽथर्ववेद इति वेदाश्चत्वारः,
  • शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम् इति वेदाङ्गानि षट् ।
  • पुराण-न्याय-मीमांसा-धर्मशास्त्राणि चेति चत्वार्य् उपाङ्गानि ।
    अत्रोपपुराणानामपि पुराणेऽन्तर्भावः,
    वैशेषिक-शास्त्रस्य न्याये, वेदान्त-शास्त्रस्य मीमांसायां,
    महाभारत-रामायणयोः साङ्ख्य-पातञ्जल-पाशुपत-वैष्णवादीनां धर्म-शास्त्रे,
    मिलित्वा चतुर्दश विद्याः ।

तथाचोक्तं याज्ञवल्क्येन (१।३)

पुराण-न्याय-मीमांसा-
धर्मशास्त्राङ्ग-मिश्रिताः ।
वेदाः स्थानानि विद्यानां
धर्मस्य च चतुर्दश ॥

इति ।

एता एव चतुर्भिर् उपवेदैः सहिता अष्टादश विद्या भवन्ति । आयुर्वेदो धनुर्वेदो गन्धर्ववेदोऽर्थशास्त्रं चेति चत्वार उपवेदाः । सर्वेषां चाऽऽस्तिकानामेतावन्त्येव शास्त्रप्रस्थानानि । अन्येषामप्येकदेशिनामेतेष्वेवान्तर्भावात् ।

ननु नास्तिकानामपि प्रस्थानान्तराणि सन्ति तान्येतेष्वनन्तर्भावात्पृथग्गणयितुमुचितानि । तथा हि-शून्यवादेनैकं प्रस्थानं माध्यमिकानाम् । क्षणिकविज्ञानमात्रवादेनान्यद्योगाचाराणाम् । ज्ञानाकारानुमेयक्षणिकबाह्यार्थवादेनापरं सौत्रान्तिकानाम् । प्रत्यक्षसलक्षणक्षणिकबाह्यार्थवादेनापरं वैभाषिकाणाम् । एवं सौगतानां प्रस्थानचतुष्टयम् । तथा देहात्मवादेनैकं प्रस्थानं चार्वाकाणाम् । एवं देहातिरिक्तदेहपरिमाणात्मवादेन द्वितीयं प्रस्थानं दिगम्बराणाम् । एवं मिलित्वा नास्तिकानां षट् प्रस्थानानि तानि कस्मान्नोच्यन्ते । सत्यम् । वेदबाह्यत्वात्तेषां म्लेच्छादिप्रस्थानवत्परम्परयाऽपि पुरुषार्थानुपयोगित्वादुपेक्षणीयमेव । इह च साक्षाद्वा परम्परया वा पुमर्थोपयोगिनां वेदोपकरणानामेव प्रस्थानानां भेदो दर्शितः । ततो न न्यूनत्वशङ्कावकाशः । अथ सङ्क्षेपेणैपां (सङ्क्षेपेणैयां?) प्रस्थानानां स्वरूपभेदहेतुप्रयोजनभेद उच्यते बालानां व्युत्पत्तये ।

तत्र धर्म-ब्रह्म-प्रतिपादकम् अपौरुषेयं प्रमाण-वाक्यं वेदः।
स च मन्त्र-ब्राह्मणात्मकः ।

तत्र मन्त्रा अनुष्ठान-कारक-भूत–द्रव्य-देवता-प्रकाशकाः ।
ते ऽपि त्रिविधाः । ऋग्-यजुः-साम-भेदात् ।
तत्र पाद-बद्ध-गायत्र्य्-आदि-च्छन्दो-विशिष्टा ऋचः
``अग्निमीळे पुरोहितम्” इत्याद्याः ।
ता एव गीति-विशिष्टाः सामानि ।
तद्-उभय-विलक्षणानि यजूंषि ।
“अग्नीद् अग्नीन् विहरे"त्यादि-सम्बोधन-रूपा निगद-मन्त्रा अपि यजुर्-अन्तर्भूता एव ।
तद् एवं निरूपिता मन्त्राः ।

ब्राह्मणम् अपि त्रिविधम्,
विधिरूपम्, अर्थवादरूपं, तद्-उभय-विलक्षण-रूपं च ।
तत्र शब्द-भावना विधिर् इति भट्टाः ।
नियोगो विधिर् इति प्राभाकाराः ।
इष्ट-साधनता विधिर् इति तार्किकादयः सर्वे ।
विधिर् अपि चतुर्विधः -
उत्पत्त्य्-अधिकार-विनियोग-प्रयोग-भेदात् ।
तत्र कर्म-स्वरूप-मात्र-बोधको विधिर् उत्पत्ति-विधिर् “आग्नेयोऽष्टाकपालो भवती"त्यादिः ।
सेतिकर्तव्यताकस्य करणस्य यागादेः
फल-सम्बन्ध-बोधको विधिर्
अधिकार-विधिर् “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते"त्यादिः ।
अङ्ग-सम्बन्ध-बोधको विधिर् विनियोग-विधिर् “व्रीहिभिर् यजेत, समिधो यजती"त्यादिः ।
साङ्ग-प्रधान-कर्म-प्रयोगैक्य-बोधकः पूर्वोक्त-विधि-त्रय-मेलन-रूपः प्रयोग-विधिः
स च श्रौत इत्येके, कल्प्य इत्यपरे ।

कर्म-स्वरूपं च द्विविधम्-
गुणकर्मार्थकर्म च।
तत्र क्रतु-कर्म-कारकाण्य् आश्रित्य विहितं गुणकर्म
तद् अपि चतुर्-विधम् -
उत्पत्त्याप्य-विकृति-संस्कृति-भेदात् ।
तत्र “वसन्ते ब्राह्मणोऽग्नीन् आदधीत, यूपं तक्षती"त्य्-आदाव् आधान-तक्षणादिना संस्कार-विशेष-विशिष्टा ऽग्नि-यूपादेर् उत्पत्तिः
“स्वाध्यायोऽध्येतव्यो, गां पयो दोग्धी"त्य्-आदाव् अध्ययन-दोहनादिना विद्यमानस्यैव स्वाध्याय-पयः प्रभृतेः प्राप्तिः
“सोमम् अभिषुणोति, व्रीहीन् अवहन्त्य्, आज्यं विलापयती"त्यादाव् अभिपवावघात-विलापनैः सोमादीनां विकारः
“व्रीहीन् प्रोक्षति, पत्न्य् अवेक्षत” इत्यादौ प्रोक्षणावेक्षणादिभिर् व्रीह्य्-आदिद्रव्याणां संस्कारः
एतच्-चतुष्टयं चाङ्गम् एव ।

तथा क्रतु-कारकाण्य् आश्रित्य
विहितम् अर्थकर्म च द्विविधम् - अङ्गं प्रधानं च ।
अन्यार्थम् अङ्गम्
अनन्यार्थं प्रधानम्
अङ्गम् अपि द्विविधम् - सन्निपत्योपकारकम् आरादुपकारकं च ।
तत्र प्रधान-स्वरूप-निर्वाहकं प्रथमम् ।
फलोपकारि द्वितीयम् ।

एवं सम्पूर्णाङ्ग-सहितो विधिः प्रकृतिः
विकलाङ्ग-संयुक्तो विधिर् विकृतिः
तद्-उभय-विलक्षणो विधिर् दर्विहोमः
एवम् अन्यद् अप्य् ऊह्यम् ।
तद् एवं निरूपितो विधिभागः ।

प्राशस्त्य-निन्दान्यतर-लक्षणया विधि-विशेष-भूत-वाक्यम् अर्थवादः
स च त्रिविधः- गुणवादो ऽनुवादो भूतार्थवादश् चेति ।
तत्र प्रमाणान्तर-विरुद्धार्थ-बोधको गुणवाद - “आदित्यो यूप” इत्यादिः ।
प्रमाणान्तर-प्राप्त्य्-अर्थ-बोधको ऽनुवादो - “ऽग्निर् हिमस्य भेषजम्” इत्यादिः ।
प्रमाणान्तर-विरोध–तत्-प्राप्ति–रहितार्थ-बोधको भूतार्थवाद - “इन्द्रो वृत्राय वज्रम् उद्यच्छद्” इत्यादिः । तदुक्तं–

विरोधे गुणवादः स्याद्
अनुवादोऽवधारिते,
भूतार्थवादस् तद्-धानाद्
अर्थवादस् त्रिधा मतः ॥

इति ।

तत्र त्रिविधानाम् अप्य् अर्थवादानां विधि-स्तुति-परत्वे समानेऽपि
भूतार्थवादानां स्वार्थे ऽपि प्रामाण्यं - देवताधिकरण-न्यायात् ।
अबाधिताज्ञात-ज्ञापकत्वं हि प्रामाण्यम्
तच् चाबाधित-विषयत्वाज् ज्ञात-ज्ञापकत्वाच् च न गुणवादानुवादयोः ।+++(5)+++
भूतार्थस्य तु स्वार्थे तात्पर्य-रहितस्याप्य् औत्सर्गिकं प्रामाण्यं विहन्यते ।
तदेवं निरूपितोऽर्थवादभागः ।

विध्यर्थवादोभय-विलक्षणं तु वेदान्त-वाक्यम्
तच् चाज्ञात-ज्ञापकत्वे ऽप्य् अनुष्ठानाप्रतिपादकत्वान् न विधिः ।
स्वतः पुरुषार्थ-परमानन्द-ज्ञानात्मक-ब्रह्मणि स्वार्थ उपक्रमोपसंहारादि-षड्-विध-तात्पर्य-लिङ्गवत्तया
स्वतः प्रमाण-भूतं,
सर्वान् अपि विधीन् अन्तःकरण-शुद्धि-द्वारा स्वविशेषताम् आपादयद्,
अन्यशेषत्वाभावाच् च ।
तस्माद् उभय-विलक्षणम् एव वेदान्त-वाक्यम् ।
तच् च क्वचिद् अज्ञात-ज्ञापकत्व-मात्रेण विधिर् इति व्यपदिष्यते -
विधिपद-रहित-प्रमाण-वाक्यत्वेन क्वचिद् भूतार्थवाद इति व्यवह्रियत इति न दोषः ।
तद् एवं निरूपितं त्रिविधं ब्राह्मणम्

एवं च कर्मकाण्ड-ब्रह्मकाण्डात्मको वेदो धर्मार्थ-काम-मोक्ष-हेतुः ।
सः च प्रयोग-त्रयेण यज्ञ-निर्वाहार्थम् ऋग्-यजुः-साम-भेदेन भिन्नः ।
तत्र होत्र-प्रयोग ऋग्वेदेन, आध्वर्यव-प्रयोगो यजुर्वेदेन, औद्गात्र-प्रयोगः सामवेदेन, ब्राह्म-याजमान-प्रयोगौ त्वत्रैवान्तर्भूतौ ।
अथर्ववेदस् तु यज्ञानुपयुक्तः
शान्ति-पौष्टिकाभिचारादि-कर्म-प्रतिपादकत्वेनात्यन्त-विलक्षण एव ।

एवं प्रवचन-भेदात् प्रतिवेदं भिन्ना भूयस्यः शाखाः ।

एवं च कर्मकाण्डे व्यापार-भेदेऽपि
सर्वासां वेदशाखानाम् एकरूपत्वम् एव ब्रह्मकाण्डे ।
इति चतुर्णां वेदानां प्रयोजनभेदेन भेद उक्तः ।

अथाङ्गानाम् उच्यते ।
तत्र शिक्षाया उदात्तानुदात्तस्वरितह्रस्वदीर्घप्लुतादिविशिष्ट- स्वरव्यञ्जनात्मकवर्णोच्चारणविशेषज्ञानं प्रयोजनम् । तदभावे मन्त्राणामनर्थकत्वात् । तथाचोक्तम् (शि- ५२)

मन्त्रो हीनः स्वरतो वर्णतो वा
मिथ्याप्रयुक्तो न तमर्थमाह ।
स वाग्वज्रो यजमानं हिनस्ति
यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥

इति ।

तत्र सर्व वेदसाधारणी शिक्षा । अथ शिक्षां प्रवक्ष्यामीत्यादिपङ्चखण्डात्मिका पाणिनिना प्रकाशिता । प्रतिवेदशाखं च भिन्नरूपा प्रातिशाख्यसञ्ज्ञिताऽन्यैरेव मुनिभिः प्रदर्शिता ।
एवं वैदिकपदसाधुत्वज्ञानेनोहादिकं व्याकरणस्य प्रयोजनम् । तच्च वृद्धिरादैजित्याद्यध्यायाष्टकात्मकं महेश्वरप्रसादेन भगवता पाणिनिनैव प्रकाशितम् । तत्र कात्यायनेन मुनिना पाणिनीयसूत्रेषु वार्तिकं विरचितम् । तद्वार्तिकस्योपरि च भगवता मुनिना पतञ्जलिना महाभाष्यमारचितम् । तदेतत्त्रिमुनि व्याकरणं वेदाङ्गं माहेश्वरमित्याख्यायते कौमारादिव्याकरणानि तु न वेदाङ्गानि किन्तु लौकिकप्रयोगमात्रज्ञानार्थानीत्यवगन्तव्यम् ।

एवं शिक्षाव्याकरणाभ्यां वर्णोच्चारणपदसाधुत्वे ज्ञाते वैदिक-मन्त्र-पदानाम् अर्थज्ञानाम् आकाङ्क्षायां
तदर्थं भगवता यास्केन समाम्नायः समाम्नातः
“स व्याख्यातव्य” इत्यादित्रयोदशाध्यायकं निरुक्तम् आराचितम् ।
तत्र च नामाख्यात-निपातोपसर्ग-भेदेन
चतुर्विधं पदजातं निरूप्य
वैदिक-मन्त्र-पदानाम् अर्थः प्रकाशितः ।
मन्त्राणां चानुष्ठेयार्थ-प्रकाशन-द्वारेणैव करणत्वात्
पदार्थज्ञानाधीनत्वाच् च वाक्यार्थज्ञानस्य
मन्त्रस्थ-पदार्थज्ञानाय
निरुक्तम् अवश्यम् अपेक्षितम् - अन्यथाऽनुष्ठानासम्भवात्,
“सृण्येव जर्भरी तुर्फरी तू” इत्यादि दुरूहाणां (निरु.१३-५) प्रकारान्तरेणार्थ-ज्ञानस्यासम्भवनीयत्वाच् च ।

एवं निघण्टवोऽपि वैदिक-द्रव्य-देवतात्मक-पदार्थ-पर्याय-शब्दात्मका निरुक्तान्तर्भूता एव ।
तत्रापि निघण्टु-सञ्ज्ञकः पञ्चाध्यायात्मको ग्रन्थो भगवता यास्केनैव कृतः ।

एवम् ऋङ्-मन्त्राणां पादबद्धच्छन्दोविशेषविशिष्टत्वात्तदज्ञाने च निन्दाश्रवणाच्छन्दोविशेषनिमित्तानुष्ठानविशेषविधानाच्च । छन्दोज्ञानाकाङ्क्षायां तत्प्रकाशनाय धीः श्रीः स्त्रीमित्याद्यष्टाध्यायात्मिका छन्दोविवृतिर्भगवता पिङ्गलेन विरचिता । तत्राप्यलौकिकमित्यन्तेनाध्यायत्रयेण गायत्र्युष्णिगनुष्टुब्बृहती पङ्क्तिस्त्रिष्टुब्जगतीति सप्त च्छन्दांसि सावान्तरभेदानि निरूपितानि । अथ लौकिकमित्यारभ्याध्यायपञ्चकेन पुराणेतिहासादावुपयोगीनि लौकिकानि च्छन्दांसि प्रसङ्गान्निरूपितानि व्याकरणे लौकिकपदनिरूपणवत् ।
एवं वैदिककर्माङ्गदर्शादिकालज्ञानाय ज्यौतिषं भगवताऽऽदित्येन गर्गादिभिश्च प्रणीतं बहुविधमेव ।
शाखान्तरीयगुणोपसंहारेण वैदिकानुष्ठानक्रमविशेषज्ञानाय कल्पसूत्राणि तानि च प्रयोगत्रयभेदात्त्रिविधानि । तत्र हौत्रप्रयोगप्रतिपादकान्याश्वलायनशाङ्खायनादिप्रणीतानि । आध्वर्यवप्रयोगप्रतिपादकानि बौधायनापस्तम्बकात्यायनादिप्रणीतानि । औद्गात्रप्रयोगप्रतिपादकानि लाट्यायनद्राह्व्यायणादिप्रणीतानि ।
एवं निरूपितः षण्णामङ्गानां प्रयोजनभेदः । चतुर्णामुपाङ्गानामधुनोच्यते ।
तत्र सर्ग-प्रतिसर्ग-वंश–मन्व्-अन्तर-वंशानुचरित-प्रतिपादकानि
भगवता बादरायणेन कृतानि पुराणानि
तानि च ब्राह्मं पाद्मं वैष्णवं शैवं भागवतं नारदीयं मार्कण्डेयमाग्नेयं ब्रह्मवैवर्तं लैङ्गं वाराहं स्कान्दं वामनं कौर्मं मात्स्यं गारुडं ब्रह्माण्डं चेत्यष्टादश ।

आद्यं सनत्कुमारेण प्रोक्तं वेदविदां वराः ।
द्वितीयं नारसिंहाख्यं तृतीयं नान्दमेव च ॥

चतुर्थं शिवधर्याख्यं दौर्वासं पञ्चमं विदुः ।
षष्ठं तु नारदीयाख्यं कापिलं सप्तमं विदुः ॥

अष्टमं मानवं प्रोक्तं ततश्चोशनसेरितम् ।
ततो ब्रह्माण्डसञ्ज्ञं तु वारुणाख्यं ततः परम् ॥

ततः कालीपुराणाख्यं वाशिष्ठं मुनिपुङ्गवाः ।
ततो वाशिष्ठं लैङ्गाख्यं प्रोक्तं माहेश्वरं परम् ॥

ततः साम्बपुराणाख्यं ततः सौरं महाद्भुतम् ।
पाराशरं ततः प्रोक्तं मारीचाख्यं ततः परम् ॥

भार्गवाख्यं ततः प्रोक्तं सर्वधर्मार्थसाधकम् ।
एवमुपपुराणान्येकप्रकाराणि द्रष्टव्यानि ।

न्याय आन्वीक्षिकी पञ्चाध्यायी गौतमेन प्रणीता । प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवाद- जल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानाख्यानां षोडशपदार्थानामुद्देशलक्षणपरीक्षाभिस्तत्त्वज्ञानं तस्याः प्रयोजनम् । एवं दशाध्यायं वैशेषिकं शास्त्रं कणादेन प्रणीतम् । द्रव्यगुणकर्मसामान्यविशेषसमवायानां षण्णां पदार्थानामभावसप्तमानां साधर्म्यवैधर्म्याभ्यां व्युत्पादनं तस्य प्रयोजनम् । एतदपि न्यायपदेनोक्तम् ।
एवं मीमांसाऽपि द्विविधा, कर्ममीमांसा शारीरकमीमांसा च । तत्र द्वादशाध्यायी कर्ममीमांसा “अथातो धर्मजिज्ञासा” इत्याद्यन्वाहार्ये च (१६) दर्शनादित्यन्ता भगवता जैमिनिना प्रणीता । तत्र धर्मप्रमाणम् । धर्मभेदाभेदौ । शेषशेषिभावः । क्रत्वर्थपुरुषार्थभेदेन प्रयुक्तिविशेषः । श्रुत्यर्थपठनादिभिः क्रमभेदः । अधिकारविशेषः सामान्यातिदेशः । विशेषातिदेशः । ऊहः । बाधः । तन्त्रम् । प्रसङ्गश्चेति क्रमेण द्वादशाध्यायानामर्थः । तथा सङ्कर्षणकाण्डमप्यध्यायचतुष्टयात्मकं जैमिनिप्रणीतम् । तच्च देवताकाण्डसञ्ज्ञया प्रसिद्धमप्युपासनाख्यकर्मप्रतिपादकत्वात्कर्ममीमांसान्तर्गतमेव । तथा चतुरध्यायी शारीरकमीमांसा ‘अथातो ब्रह्मजिज्ञासा’ इत्यादिरनावृत्तिः शब्दादित्यन्ता जीवब्रह्मैकत्वसाक्षात्कारहेतुः श्रवणाख्यविचारप्रतिपादकान्न्यायानुपदर्शयन्ती भगवता बादरायणेन कृता । तत्र सर्वेषामपि वेदान्तवाक्यानां साक्षात्परम्पराया वा प्रत्यगभिन्नाऽद्वितीये ब्रह्मणि तात्पर्यमिति समन्वयः प्रथमाध्यायेन प्रदर्शितः । तत्र च प्रथमे पादे स्पष्टब्रह्मलिङ्गयुक्तानि वाक्यानि विचारितानि । द्वितीये त्वस्पष्टलिङ्गान्युपास्यब्रह्मविषयाणि । तृतीये पादेऽस्पष्ट ब्रह्मलिङ्गानि प्रायशो ज्ञेयब्रह्मविषयाणि । एवं पादत्रयेणं वाक्यविचारः समापितः । चतुर्थपादे तु प्रधानविषयत्वेन सन्दिह्यमानान्यव्यक्ताजादिपदानि चिन्तितानि । एवं वेदान्तानामद्वये ब्रह्मणि सिद्धे समन्वये तत्र सम्भावितस्मृतितर्कादिप्रयुक्तैस्तर्कैर्विरोधमाशङ्क्य तत्परिहारः क्रियत इत्यविरोधो द्वितीयाध्यायेन दर्शितः । तत्राऽऽद्यपादे साङ्ख्ययोगकाणादादिस्मृतिभिः साङ्ख्यादिप्रयुक्तैस्तर्कैश्च विरोधो वेदान्तसमन्वयस्य परिहृतः । द्वितीये पादे साङ्ख्यादिमतानां दुष्टत्वं प्रतिपादितम् । स्वपक्षस्थापनपरपक्षनिवारणरूपपर्वद्वयात्मकत्वाद्विचारस्य । तृतीये पादे महाभूतसृष्ट्यादिश्रुतीनां परस्पर विरोधः पूर्वभागेण परिहृतः । उत्तरभागेण तु जीवविषयाणाम् । चतुर्थपादे, इन्द्रियविषयश्रुतीनां विरोधः परिहृतः । तृतीयेऽध्याये साधननिरूपणम् । तत्र प्रथमे पादे जीवस्य परलोकगमनागमननिरूपणेण वैराग्यं निरूपितम् । द्वितीये पादे पूर्वभागेण त्वम्पदार्थः शोधितः । उत्तरभागेण तत्पदार्थः । तृतीये पादे निर्गुणे ब्रह्मणि नानाशाखापठितपुनरुक्तपदोपसंहारः कृतः । प्रसङ्गाच्च सगुणनिर्गुणविद्यासु शाखान्तरीयगुणोपसंहारानुपसंहारौ निरूपितौ । चतुर्थे पादे निर्गुणब्रह्मविद्याया बहिरङ्गसाधनान्याश्रमयज्ञादीन्यन्तरङ्गसाधनानि शमदमनिदिध्यासनादीनि च निरूपितानि । चतुर्थेऽध्याये सगुणनिर्गुणविद्ययोः फलविशेषनिर्णयः कृतः । तत्र प्रथमे पादे श्रवणाद्यावृत्त्या निर्गुणं ब्रह्म साक्षात्कृत्य जीवतः पापपुण्यालेपलक्षणा जीवन्मुक्तिरभिहिता । द्वितीये पादे म्रियमाणस्योत्क्रान्तिप्रकारश्चिन्तितः । तृतीये पादे सगुणब्रह्मविदो मृतस्योत्तरमार्गोऽभिहितः । चतुर्थे पादे पूर्वभागेण निर्गुणब्रह्मविदो विदेहकैवल्यप्राप्तिरुक्ता । उत्तरभागेण सगुणब्रह्मविदो ब्रह्मलोकस्थितिरुक्तेति । इदमेव सर्वशास्त्राणां मूर्धन्यम् । शास्त्रान्तरं सर्वमस्यैव शेषभूतमितीदमेव मुमुक्षुभिरादरणीयं श्रीशङ्करभगवत्पादोदितप्रकारेणेति रहस्यम् ।

एवं धर्मशास्त्राणि मनुयाज्ञवल्क्यविष्णुयमाङ्गिरोवसिष्ठ- दक्षसंवर्तशातातपपराशरगौतमशङ्खलिखित- हारीतापस्तम्बोशनोव्यासकात्यायनबृहस्पति- देवलनारदपैठीनसिप्रभृतिभिः कृतानि वर्णाश्रमधर्मविशेषाणां विभागेन प्रतिपादकानि । एवं व्यासकृतं महाभारतं वाल्मीकिकृतं रामायणं च धर्मशास्त्रं एवान्तर्भूतं स्वयमितिहासत्वेन प्रसिद्धम् । साङ्ख्यादीनां धर्मशास्त्रान्तर्भावेऽपीह स्वशब्देनैव निर्देशात्पृथगेव सङ्गतिर्वाच्या ।
अथ वेद चतुष्टयस्य क्रमेण चत्वार उपवेदाः । तत्राऽऽयुर्वेदस्याष्टौ स्थानानि भवन्ति सूत्रं शारीरमैन्द्रियं चिकित्सा निदानं विमानं विकल्पः सिद्धिश्चेति । ब्रह्मप्रजापत्यश्विधन्वन्तरीन्द्रभरद्वाजात्रेयाग्निवेश्यादिभिरुपदिष्टश्चरकेण सङ्क्षिप्तः । तत्रैव सुश्रुतेन पञ्चस्थानात्मकं प्रस्तानान्तरं कृतम् । एवं वाग्भटादिनाऽपि बहुधेति न शास्त्रभेदः । कामशास्त्रमप्यायुर्वेदान्तर्गतमेव । तत्रैव सुश्रुतेन वाजीकरणाख्यकामशास्त्राभिधानात् । तत्र वात्स्यायनेन पञ्चाध्यायात्मकं कामशास्त्रं प्रणीतम् । तस्य च विषयवैराग्यमेव प्रयोजनम् । शास्त्रोद्दीपितमार्गेणापि विषयभोगे दुःखमात्रपर्यवसानात् । चिकित्साशास्त्रस्य रोगतत्साधनरोगनिवृत्तितत्साधनज्ञानं प्रयोजनम् ।
एवं धनुर्वेदः पादचतुष्टयात्मको विश्वामित्रप्रणीतः । तत्र प्रथमो दीक्षापादः । द्वितीयाः सङ्ग्रहपादः । तृतीयः सिद्धिपादः । चतुर्थः प्रयोगपादः । तत्र प्रथमे पादे धनुर्लक्षणमधिकारिनिरूपणं च कृतम् । अत्र धनुःशब्दश्चापे रूढोऽपि धनुर्विधायुधे प्रवर्तते । तच्चतुर्विधम्-मुक्तममुक्तं मुक्तामुक्तं यन्त्रमुक्तम् । मुक्तं चक्रादि । अमुक्तं खड्गादि । मुक्तामुक्तं शल्यावान्तरभेदादि । यन्त्रमुक्तं शरादि । तत्र मुक्तमस्त्रमुच्यते । अमुक्तं शस्त्रमित्युच्यते । तदपि ब्राह्मवैष्णवपाशुपतप्राजापत्याग्नेयादिभेदादनेकविधम् । एवम् साधिदैवतेषु समन्त्रकेषु चतुर्विधायुधेषु येषामधिकारः क्षत्रियकुमाराणां तदनुयायिनां च ते सर्वे चतुर्विधाः पदातिरथ गजतुरुगारूढाः । दीक्षाभिषेकशकुनमङ्गलकरणादिकं च सर्वमपि प्रथमे पादे निरूपितम् । सर्वेषां शस्त्रविशेषाणामाचार्यस्य च लक्षणपूर्वकं सङ्ग्रहणप्रकारो दर्शितो द्वितीयपादे गुरुसम्प्रदायसिद्धानां शस्त्रविशेषाणां पुनः पुनरभ्यासो मन्त्रदेवतासिद्धिकरणमपि निरूपितं तृतीयपादे । एवं देवतार्चनाभ्यासादिभिः सिद्धानामस्त्रविशेषाणां प्रयोगश्चतुर्थपादे निरूपितः । क्षत्रियाणां स्वधर्माचरणं युद्धं दुष्टस्य दण्डश्चोरादिभ्यः प्रजापालनं च धनुर्वेदस्य प्रयोजनम् । एवं च ब्रह्मप्रजापत्यादिक्रमेण विश्वामित्रप्रणीतं धनुर्वेदशास्त्रम् ।
एवं गान्धर्ववेदशास्त्रं भगवता भरतेन प्रणीतम् । गीतवाद्यनृत्यभेदेन बहुविधोऽर्थः । देवताराधननिर्विकल्पकसमाध्यादिसिद्धिश्च गान्धर्ववेदस्य प्रयोजनम् ।
एवमर्थशास्त्रं च बहुविधम् । नीतिशास्त्रमश्वशास्त्रं शिल्पशास्त्रं सूपकारशास्त्रं चतुःषष्टिकलाशास्त्रं चेति नानामुनिभिः प्रणीतं तत्सर्वमस्य च सर्वस्य लौकिकवत्प्रयोजनभेदो द्रष्टव्यः ।
एवमष्टादश विद्यास्त्रयीशब्देनोक्ताः । अन्यथा न्यूनताप्रसङ्गात् । तथा साङ्ख्यशास्त्रं भगवता कपिलेन प्रणीतम् । अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थ इत्यादि षडध्यायम् । तत्र प्रथमेऽध्याये विषया निरूपिताः । द्वितीयेऽध्याये प्रधानकार्याणि । तृतीयेऽध्याये विषयेभ्यो वैराग्यम् । चतुर्थेऽध्याये विरक्तानां पिङ्गलाकुरवादीनामाख्यायिकाः । पञ्चमेऽध्याये परपक्षनिर्णयः । षष्ठे सर्वार्थसङ्क्षेपः । प्रकृतिपुरुषविवेकज्ञानं साङ्ख्यशास्त्रस्य प्रयोजनम् ।
तथा योग शास्त्रं भगवता पतञ्जलिना प्रणीतम् । अथ योगानुशासनमित्यादि पादचतुष्टयात्मकम् । तत्र प्रथमपादे चित्तवृत्तिनिरोधात्मकः समाधिरभ्यासवैराग्यरूपं च तत्साधनं निरूपितम् । द्वितीये पादे विक्षिप्त चित्तस्यापि समाधिसिद्ध्यर्थं चित्तवृत्तिनिरोधात्मकः यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टाङ्गानि निरूपितानि । तृतीये पादे योगिविभूतयः । चतुर्थे पादे कैवल्यमिति । तस्य च विजातीयप्रत्ययनिरोधद्वारेण निदिध्यासनसिद्धिः प्रयोजनम् ।

तथा पशुपतिमतं पाशुपतं शास्त्रं
पशुपतिना पशुपाशविमोक्षणाय -
अथातः पाशुपतं योगविधिं व्याख्यास्याम इत्यादि।
पञ्चाध्यायं विरचितम्।
तत्राध्यायपञ्चकेनापि
कार्यरूपो जीवः पशुः कारणं पतिरीश्वरः ।
योगः पशुपतौ चित्तसमाधानम् ।
विधिर् भस्मना त्रि-षवण-स्नानादिर् निरूपितः
दुःखान्त-सञ्ज्ञो मोक्षश् च प्रयोजनम् ।
एत एव कार्य-कारण-योग-विधि-दुःखान्ता इत्य् आख्यायन्ते ।

एवं वैष्णवं नारदादिभिः कृतं पञ्चरात्रम् ।
तत्र वासुदेव-सङ्कर्षण-प्रद्युम्नानिरुद्धाश् चत्वारः पदार्था निरूपिताः ।
भगवान् वासुदेवः सर्व-कारणं परमेश्वरः ।
तस्माद् उत्पद्यते सङ्कर्षणाख्यो जीवः ।
तस्मान् मनः प्रद्युम्नस्,
तस्माद् अनिरुद्धो ऽहङ्कारः ।
सर्वे चैते भगवतो वासुदेवस्यैवांशभूताः ।
तद्-अभिन्ना एवेति
भगवतो वासुदेवस्य मनो-वाक्-काय-वृत्तिभिर् आराधनं कृत्वा
कृत-कृत्यो भवतीत्य्-आदि च निरूपितम् ।

तद् एवं दर्शितः प्रस्थानभेदः ।

सर्वेषां च सङ्क्षेपेण त्रिविध एव प्रस्थान-भेदः ।
तत्राऽऽरम्भवादः एकः ।
परिणामवादो द्वितीयः ।
विवर्त-वादस् तृतीयः ।

पार्थिवाप्य-तैजसवायवीयाश्चतुर्विधाः परमाणवो द्व्यणुकादिक्रमेण ब्रह्माण्डपर्यन्तं जगदारभन्ते । असदेव कार्यं कारकव्यापारादुत्पद्यत इति प्रथमस्तार्किकाणां, मीमांसकानां च सत्त्वरजस्तमोगुणात्मकं प्रधानमेव महदहङ्कारादिक्रमेण जगदाकारेण परिणमते ।

पूर्वमपि सूक्ष्मरूपेण सदेव कार्यं कारणव्यापारेणाभिव्यज्यत इति द्वितीयः पक्षः साङ्ख्ययोगपातञ्जलपाशुपतानाम् ।

ब्रह्मणः परिणामो जगदिति वैष्णवानाम् ।

स्व-प्रकाश-परमानन्दाद्वितीयं ब्रह्म स्व-मायावशन् मिथ्यैव जगदाकारेण कल्पत इति तृतीयः पक्षो ब्रह्म-वादिनाम् ।

सर्वेषां प्रस्थान-कर्तॄणां मुनीनां
विवर्त-वाद-पर्यवसानेनाद्वितीये परमेश्वर एव प्रतिपाद्ये तात्पर्यम् ।
न हि ते मुनयो भ्रान्ताः सर्वज्ञत्वात् तेषां ।

किं तु बहिर्-विषय-प्रवणान्
आपाततः पुरुषार्थे प्रवेशो न सम्भवतीति नास्तिक्य-वारणाय
तैः प्रकार-भेदाः प्रदर्शिताः ।+++(5)+++

तत्र तेषां +++(मुनीनां पूर्वोक्तं)+++ तात्पर्यम् अबुद्ध्वा
वेद-विरुद्धे ऽप्य् अर्थे तात्पर्यम् उत्प्रेक्ष्यमाणास्
तन्-मतम् एवोपादेयत्वेन गृह्णन्तो जना
नाना-पथ-जुषो भवन्तीति सर्वम् अनवद्यम् ॥

इति श्रीमधुसूदनसरस्वतीविरचितः प्रस्थानभेदः समाप्तः ॥