साम्प्रतं सेश्वरसांख्यप्रवर्त्तकपतञ्जलिप्रभृतिमुनिमतमनुवर्त्तमानानां मतमुपन्यस्यते। तत्र सांख्यप्रवचनापरनामधेयं योगशास्त्रं पतञ्जलिप्रणीतं पादचतुष्टयात्मकम्। तत्र प्रथमे पादेअथ योगानुशासनमिति योगशास्त्रारम्भप्रतिज्ञांविधाय योगश्चित्तवृत्तिनिरोध इत्यादिना योगलक्षणमभिधाय समाधिं सप्रपञ्चं निरदिक्षत् भगवान् पतञ्जलिः। द्वितीये तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोग इत्यादिना व्युत्थितचित्तस्य क्रियायोगं यमादीनि पञ्च वहिरङ्गानि साधनानि। तृतीये देशबन्धश्चित्तस्य धारणेत्यादिना धारणाध्यानसमाधित्रयमन्ततरङ्गं संयमपदवाच्यं तत्रावान्तरफलं विभूतिजातम्। चतुर्थेजन्मौषधिमन्त्रतपः समाधिजाः सिद्धयइत्यादिना सिद्धिपञ्चक प्रपञ्चनपुरःसरं परमं प्रयोजनं कैवल्यम्। प्रधानादीनि पञ्चविंशतित्तत्त्वानि प्राचीनान्येव सम्मतानि षड्विंशिस्तु परमेश्वरः क्लेशकर्म्मविपाकाशयैरपरामृष्टः पुरुषः स्वेच्छया निर्म्माणकायमधिष्ठाय लौकिकवैदिकसम्प्रदायप्रवर्त्तकः संसाराङ्गारे तप्यमानानां प्राणभृतामनुग्राहकश्च।
ननु पुष्करपलाशवन्निर्लेपस्य तस्य तापः कथमुपपद्यते येनपरमेश्वरोऽनुग्राहकतया कक्षीक्रियते इति चेदुच्यते तापकस्य रजसः सत्त्वमेव तप्यंबुद्ध्यात्मना परिणमते इति सत्त्वे परितप्यमाने तमोवशेन तदभेदावगाहिपुरुषोऽपि तप्यत इत्युच्यते। तदुक्तमाचार्य्यैः
सत्त्वं तप्यं बुद्धिभावेन वृत्तं भावा तेवा राजसास्तापकास्ते।
तप्याभेदग्राहिणीतामसी या वृत्तिस्तस्यां तप्य इत्युक्त आत्मेति। पतञ्जलिनाप्युक्तम्
अपरिणामिनीहि भोक्तृशक्तिरप्रतिसंक्रमा च परिणामिन्यर्थे प्रतिसंक्रान्ते च तद्वृत्तिमनुभवतीति।
भोक्तृशक्तिरिति चिच्छक्तिरुच्यते सा चात्मैव परिणामिन्यर्थेबुद्धितत्त्वे प्रतिसंक्रान्ते च प्रतिविम्बिते तद्वृत्तिमनुभवतीति बुद्धौ प्रतिविम्बिता सा चिच्छक्तिर्बुद्धिच्छायापत्त्या बुद्धिवृत्त्यनुकारवतीति भावः तथा शुद्धोऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति तमनुपश्यन्नतदात्मापि तदात्मक इव प्रतिभासत इति इत्थंतप्यमानस्य पुरुषस्यादरनैरन्तर्य्यदीर्घकालानुबन्धियमनियमाअष्टाङ्गयोगानुष्ठानेन परमेश्वरप्रणिधानेन च सत्त्वपुरुषान्यताख्यातावनुप्लवायां जातायामविद्यादयः पञ्चक्लेशाः समूलकाषं कषिता भवन्ति कुशलाकुशलाश्च कर्म्माशयाः समूलघातं हताभवन्ति ततश्च पुरुषस्य निर्लेपस्य कैवल्येनावस्थानं कैवल्यमिति सिद्धम्।
तत्राथ योगानुशासनमिति प्रथमसूत्रेण प्रेक्षावत्प्रवृत्त्यङ्गंविषय प्रयोजनसम्बन्धाधिकारिरूपमनुबन्धचतुष्टयं प्रतिपाद्यते। अत्राथशब्दोऽधिकारार्थः स्वीक्रियते अथशब्दस्यानेकार्थत्वे संभवति कथमारम्भार्थत्वपक्षेपक्षपातः सम्भवेत्। अथशब्दस्य मङ्गलाद्यनेकार्थत्वं नामलिङ्गानुशासनेनानुशिष्टं मङ्गलानन्तरारम्भप्रश्नकार्त्स्नेष्वथोअथेति।अत्रप्रश्नकार्त्स्नयोरसंभवेऽपि आनन्तर्य्यमङ्गलपूर्व्वप्रकृतापेक्षारम्भलक्षणानाञ्चतुर्णामर्थानां सम्भवा-
दारम्भार्थत्वानुपपत्तिरितिन्मैवं मंस्थाः विकल्पासहत्वात् आनन्तर्य्यमथशब्दार्थ इतिपक्षे यतः कुतश्चिदानन्तर्य्यं पूर्व्ववृत्तिभावसाधारणात् कारणादानन्तर्य्यंवा। न प्रथमः नहि कश्चित् क्षणमपि जातु तिष्ठत्यकर्म्मकृदिति न्यायेन सर्व्वोजन्तुः किञ्चित्कृत्वा किञ्चित् करोत्येवेति तस्याभिधानमन्तरेणापि प्राप्ततयातदर्थाथशब्दप्रयोगवैयर्थ्यप्रसक्तेः। न चरमः शमाद्यनन्तरं योगस्यप्रवृत्तावपि तस्यानुशासनप्रवृत्त्यनुबन्धतया शब्दतः प्राधान्याभावात्। न च शब्दतः प्रधानभूतस्यानुशासनस्य शमाद्यानन्तर्य्यमंथशब्दार्थः किं नस्यादिति वदितव्यम् अनुशासनमिति हिशास्त्रमाहअनुशिष्यते व्याख्यायते लक्षणभेदोपायफलसहितोयोगो येन तदनुशासनमिति व्युत्पत्तेः अनुशासनस्य च तत्त्वज्ञान चिख्यापयिषानन्तरभावित्वेन शमदमाद्यानन्तर्य्यनियमाभावात् जिज्ञासाज्ज्ञानयोस्तु शमाद्यानन्तर्य्यमाम्नायते तस्माच्छान्तो दान्तउपरतस्तितिक्षुः श्रद्धावित्तः समाहितो भूत्वात्मन्येवात्मानं पश्येदित्यादिना। नापि तत्त्वज्ञानविख्यापचिषानन्तर्य्यमथशब्दार्थः तस्य सम्भवेऽपि श्रोतृप्रतिपत्तिप्रवृत्योरनुपयोगेनानभिधेयत्वात् तथापि निःश्रेयसहेतुतया योगानुशासनं प्रमितं न वा आद्ये तदभावेऽपि उपादेयत्वं भवेत् द्वितीये तदभावेऽपिहेथत्वंस्यात् प्रमितं चास्य निःश्रेयसनिदानत्वम् अध्यात्मयोगाधिगमेन चैवं मत्वाधीरो हर्षशोकौजहातीति श्रुतेः समाधावचला बुद्धिस्तदा योगमवास्यसीति स्मृतेश्च अतएव शिष्यप्रश्न तपञ्चरशरसायनापुपयागानन्तर्य्यंपराकृतम्। अथातो ब्रह्म
जिज्ञासेत्यत्रतु ब्रह्मजिज्ञासायाः अनधिकार्य्यात्वेनाधिकार्य्यार्थत्वं परित्यज्य साधनचतुष्टयसंपत्तिविशिष्टाधिकारिसमर्पणायशमदमादिवाक्यविहिताच्छमादेरानन्तर्य्यमथशब्दार्थ इति शङ्कराचार्य्यैर्निरटङ्कि। अथ मा नाम भूदानन्तर्य्यार्थोऽथशब्दः मङ्गलार्थः किं न स्यात् न स्यान्मङ्गलस्य वाक्यार्थे समन्वयाभावात्।अगर्हिताभीष्टावाप्तिर्मङ्गलम् अभीष्टं च सुखावाप्तिदुःखपरिहाररूपतयेष्टंयोगानुशासनस्य च सुखदुःखनिवृत्त्योरन्यतरत्वाभावान्न मङ्गलता। तथाच योगानुशासनं मङ्गलमिति न संपनीपद्यते मृदङ्गध्वनेरिवाथशब्दश्रवणस्य कार्य्यतया मङ्गलस्य वाच्यत्वलक्ष्यत्वयोरसंभवाच्च यथार्थिकार्थोवाक्यार्थे निविशतेतथा कार्य्यमपि निविशेत अपदार्थत्वाविशेषात् पदार्थे पदार्थएव हि वाक्यार्थे समन्वीयते अन्यथा शब्दप्रमाणकानां शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्य्येति मुद्राभङ्गः कृतो भवेत्। ननु प्रारिप्सितप्रबन्धपरिममाप्तिपरिपन्थिप्रत्यूहव्यूहप्रशमनाय शिष्टाचारपरिपालनाय च शास्त्रारम्भे मङ्गलाचरणमनुष्ठेयम् मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते आयुष्मत्पुरुषकाणि वीरपुरुषकाणि च भवन्तोत्यभियुक्तोक्तः। भवतिच मङ्गलार्थोऽथशब्दः। ॐकारश्चाथशब्दश्चद्ववेतौ ब्रह्मणःपुरा। कण्ठंभित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभाविति स्मृतिसम्भवात् तथाच वृद्धिरादैजित्यादौ वृद्ध्यादिशब्दवदथशब्दोमङ्गलार्थः स्यादिति चेन्नमेवं भाषिष्ठाः। अर्थान्तराभिधानाय प्रयुक्तस्याथशब्दस्य वीणावेण्वादिध्वमिवच्छ्रवणे मङ्गलफलत्वोप-
पत्तेः। अथार्थान्तरारम्भवाक्यार्थधीफलकस्याथशब्दस्यकथमन्यफलकतेति चेन्न अन्यार्थं नीयमानोदकुम्भोपलम्भवत् तत्सम्भवात् न च स्मृतिव्याकोपः माङ्गलिकाविति मङ्गसप्रयोजकत्वविवक्षया प्रवृतेः। नापि पूर्व्वप्रकृतापेक्षोऽथशब्दः फलत आनन्तर्य्याव्यतिरेकेण प्रागुक्तदूषणामुवङ्गात् किमयमथशब्दोऽधिकारार्थः अथानन्तर्य्यार्थ इत्यादिविमर्शवाक्ये पक्षान्तरोपन्यासेतत्सम्भवेऽपि प्रकृते तदसम्भवाच्च। तस्मात् पारिशेष्यादधिकारपदवेदनीयप्रारम्भार्थेऽथशब्द इति विशेषोभाष्यते।अथैवज्योतिरथैव विश्वज्योतिरित्यत्राथशब्दः क्रतुविशेषप्रारम्भार्थःपरिगृहीतोयथा अथ शब्दानुशासनमित्यत्राथशब्दो व्याकरणशास्त्राधिकारार्थः। तदभाषि व्यासभाष्ये योगसूत्रविवरणपरे अथेत्ययमधिकारार्थः प्रयुज्यत इति तद्व्याचख्यौवाचस्पतिः। तस्मादयमथशब्दोऽधिकारद्योतको मङ्गलार्थश्चेति सिद्धमिति।तदित्थममुख्याथशब्दस्याधिकारार्थत्वपक्षेशास्त्रेण प्रस्तूयमानस्य योगस्योपवर्त्तनात् समस्तशास्त्रतात्पर्य्यव्याख्यानेन शास्तस्य सुखावबोधप्रवृत्तिरास्तामित्युपपन्नम्। ननु हिरण्यगर्भोयोगस्यवक्ता नान्यः पुरातन इति याज्ञवल्क्यस्मृतेः पतञ्जलिः कथंयोगस्य शासितेति चेदद्धा अतएव तत्र तत्र पुराणादौ विशिष्ययोगस्य विप्रकीर्णतया दुर्ग्राह्यार्थत्वं मन्यमानेन भगवता कृपासिन्धुना फणिपतिना सारं संजिघृक्षुषा अनुशासनमारब्धंन तुसाक्षाच्छासनम्। यदायमथशब्दोऽधिकारार्थः तदैवं वाक्यार्थःसम्पद्येत योगानुशासनं शास्त्रमधिकृतं वेदितव्यमिति तत्र शास्त्रे
व्युत्पाद्यमानतया योगः ससाधनः सफलो विषयः तद्व्युत्पादनमवान्तरफलं व्युत्पादितस्य योगस्य कैवल्यं परमप्रयोजनंशास्त्रयोगयोः प्रतिपाद्यप्रतिपादकभावलक्षणः सम्बन्धः योगस्य कैवल्यस्य च साध्यसाधनभावलक्षणः सम्बन्धः स च श्रुत्यादिप्रसिद्ध इति प्रागेवावादिषम्। मोक्षमपेक्षमाणाः श्रवणाधिकारिणइत्यर्थसिद्धम्। न चाथातो ब्रह्मजिज्ञासेत्यादावधिकारिणोऽर्थतः सिद्धिराशङ्कनीया तत्राथशब्देनानन्तर्य्याभिधाने प्रणाडिकया अधिकारिसमर्पणसिद्धावार्थिकत्वशङ्कानुदयात्।अतएवेाक्तं श्रुतिप्राप्ते प्रकरणादीनामनवकाश इति।अस्यार्थः यत्र हि श्रुत्या अर्थोन लभ्यते तत्रैव प्रकरणादयोऽर्थं समर्पयन्ति नेतरत्रयत्र तु शब्दादेवार्थस्योपलम्भः तत्र नेतरस्य सम्भवःशीघ्रबोधिन्या श्रुत्या बोधितेऽर्थे तद्विरुद्धार्थं प्रकरणादि समर्पयति अविरुद्धंवा न प्रथमः विरुद्धार्थबोधकस्य तस्य बाधितत्वात् न चरमः वैयर्थ्यात्तदाह श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षादिति।
बाधिकैव श्रुतिर्नित्यं समाख्या बाध्यते सदा।
मध्यमानान्तु बाध्यत्वं बाधकत्वमपेक्षयेति च॥
तस्माद्विषयादिमत्त्वाद्ब्रह्मविचारकशास्त्रवद्योगानुशासनं शास्त्रमारम्भणीयमिति स्थितम्।
ननु व्युत्पाद्यमानतया योग एवाच प्रस्तुतो न शास्त्रमितिचेत् सत्यं प्रतिपाद्यतया योगःप्राधान्येन प्रस्तुतः स च तद्विषयेण शास्त्रेण प्रतिपाद्यत इति तत्प्रतिपादने करणं शास्त्रंकर-
खनोचरश्च कर्तृव्यापारो न कर्म्मनोचरतामाचरति।यथा च्छेत्तुर्देवदत्तस्य व्यापारभूतमुञ्चमननिपातनादिकर्म्म करणभूतपरशुगोचरं न कर्म्मभूतवृक्षादिगोचरं तथाच वक्तुः पतञ्जलेःप्रवचनव्यापारापेक्षया योगविषयस्याधिकृतता करणस्य शास्त्रस्याभिधानव्यापारापेक्षया तु योगस्यैवेति विभागः ततञ्च योगशास्त्रस्यारम्भः सम्भावनां भजते अत्र चानुशासनोयो योगश्चित्तवृत्तिनिरोध इत्युच्यते। ननु युजिर्योग इति संयोनार्थतया परिपठितात् युजेर्निष्पन्नोयोगशब्दः संयोगवचनएव स्यान्न तु निरोधवचनः। अतएवोक्तं याज्ञवल्क्येन
संयोगो योग इत्युक्तो जीवात्मपरमात्मनोरिति।
तदेतद्वार्त्तंजीवपरयोः संयोगे कारणस्यान्यतरकर्म्मादेरसमवादजसंयोगस्यकणभक्षाक्षचरणादिभिः प्रतिलोपाञ्च। मीमांसकमतानुसारेण तदङ्गीकारेऽपि नित्यसिद्धस्य तस्यबाध्यत्वाभावेन शास्त्रवैफल्यापत्तेश्चधातूनामनेकार्थत्वेन युजेः समाध्वर्थत्वोपपत्तेश्च। तदुक्तम्
निपाताश्चोपसर्गाश्चधातवश्चेति ते त्रयः।
अनेकार्थाःस्मृताःसर्व्वेपाठस्तेषांनिदर्शनमिति॥
अतएव केचन युजिं समाधावपि पठन्ति युज समाधाविति।नापि याज्ञवल्क्यवचनव्याकोपः तत्रस्तस्यापि योगशब्दस्य समाव्यर्थत्वात्।
समाधिः समतावस्था जीवात्मपरमात्मनोः।
ब्रह्मण्येव स्थितिर्यासा समाधिः प्रत्यगात्मन इति
तेनैवोक्तत्वाच्च। तदुक्तंभगवता व्यासेन। योगः समाधिरिति। यद्येवमष्टाङ्गयेागे चरमस्याङ्गस्य समाधित्वमुक्तंपतञ्जलिना यमनियमासनप्राणायामप्रत्याहारध्यानधारणाममाधयोऽष्टाङ्गानियोगस्येति। न चाङ्ग्येवाङ्गतां गन्तुमुत्सहते उपकार्य्योपकारकभावस्य दर्शपूर्णमासप्रयाजादौ भिन्नायतनत्वेनात्यन्तभेदादतः समाधिरपि न योगशब्दार्थोयुज्यत इति चेत्तन्न युज्यते व्युत्पत्तिमात्राभिधित्सया तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिवसमाधिरिति निरूपितचरमाङ्गवाचकेन समाधिशब्देनाङ्गिनोयोगस्याभेदविवक्षया व्यपदेशोपपत्तेः न च व्युत्पत्तिबलादेवसर्व्वत्र शब्दः प्रवर्त्तते तथात्वे गच्छतीति गौरिति व्युत्पत्तेः तिष्ठन् गौर्न स्यात् गच्छतो देवदत्तस्य स्यात् प्रवृत्तिनिमित्तञ्च प्रागुक्रमेव चित्तवृत्तिनिरोध इति तदुक्तंयोगश्चित्तवृत्तिनिरोध इति। ननु वृत्तीनां निरोधश्चेद्योगोऽभिमतस्तासां ज्ञानत्वेनात्माश्रयतया तन्निरोधोऽपि प्रध्वंसपदवेदनीयस्तदाश्रयोभवेत् प्रागभावप्रध्वंसयोः प्रतियोगिसमानाश्रयत्वनियमात् ततश्चोपपन्नस्त्वयन्धर्म्मोविकरोति हि धर्म्मिणमिति न्यायेनात्मनःकौटस्थ्यं विहन्येतेति चेत्तदपि न घटते निरोधानां प्रमाणविपर्य्ययविकल्पनिद्रास्मृतिस्वरूपाणां वृत्तीनामन्तःकरणाद्यपरपर्य्ययचित्तधर्म्मत्वाङ्गीकारात् कूटस्थनित्या चिच्छक्तिरपरिणामिनी विज्ञानधर्म्माश्रयो भवितुं नार्हत्येव। नच चितिशक्ते रपरिणामिलमसिद्धमिति मन्तव्यं चितिशक्तिरपरिणामिनी सदा ज्ञातृत्वात् न यदेवं न तदेवं यथा चित्तादि इत्याद्यनुमान-
सम्भवात् तथा यद्यसौपुरुषः परिणामी स्यात्तदा परिणामस्य कादाचित्कत्वात्तासां चित्तवृत्तीनां सदाज्ञातृत्वं नोपपद्यत चिद्रूपस्य पुरुषस्य सदैवाधिष्ठातृत्वेनावस्थितस्य यदन्तरङ्गनिर्मलं सत्त्वं तस्यापि सदैव स्थितत्वात् येन येनार्थेनोपरक्तंभवति तस्यदृश्यस्य सदैव चिच्छायापत्त्या भानोपपत्त्या पुरुषस्य निःसङ्गत्वं सम्भवति ततश्चसिद्धं तस्य सदाज्ञातृत्वमिति न काचित् परिणामित्वाशङ्कावतरति। चित्तं पुनर्येन विषयेणोपरक्तंभवतिस विषयो ज्ञातः यदुपरक्तंन भवति तदज्ञातमिति वस्तुनोऽयस्कान्तमणिकल्पस्य ज्ञानाज्ञानकारणभूतोपरागानुपरागधर्म्मित्वादयः सधर्म्मकंचित्तं परिणामि इत्युच्यते। ननु चित्तस्येन्द्रियाणां चाहङ्कारिकाणां सर्व्वगतत्वात् सर्व्वविषयैरस्ति सदासम्बन्धः तथाच सर्व्वेषां सर्व्वदा सर्व्वत्रज्ञानं प्रसज्येत सर्व्वगतत्वेऽपि चित्तं यत्र शरीरे वृत्तिमत् तेन शरीरेण सह सम्बन्धो येषां विषयाणां तेय्येवास्य ज्ञानं भवति नेतरेष्वित्यतिप्रसङ्गाभावादम एवायस्कान्तमणिकल्पा विषयाः अयः सधर्म्मकं चित्तमिन्द्रियप्रणालिकयाभिसम्बध्योपरञ्जयन्ति। तस्माच्चित्तस्य धर्म्मा वृत्तयो नात्मनः तथाच श्रुतिः कामः सङ्कल्पो विचिकित्सा श्रद्धा अश्रद्धा धृतिरष्टतिरित्येतत्सर्व्वंमन एवेति। चिच्छक्तेरपरिणामित्वं पञ्चत्रियाचार्य्येराख्यायि अपरिणामिनी भोक्तृशक्तिरिति पतञ्जलिनापि सदाज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्थापरिणामित्वादिति। चित्तपरिणामित्वेऽनुमानमुच्यते चित्तं परिणामि ज्ञाताज्ञातविषयत्वात् श्रोत्रादिवदिति। परिणामञ्च
त्रिविधः प्रसिद्धः धर्म्मलक्षणावस्थाभेदात् धर्म्मिणश्चित्तस्य नीलाद्यालोचनं धर्म्मपरिणामः यथा कनकम्य कटकमुकुटकेयूरादि धर्म्मस्य वर्त्तमानत्वादिर्लक्षणपरिणामः नीलाद्यालोचनस्य स्फुटत्वादिवस्थापरिणामः कनकादेस्तु नवपुराणत्वादिरवस्थापरिणामः। एवमन्यत्रापि यथासम्भवं परिणामत्रितयमूहनीयं तथाच प्रमाणादिवृत्तीनां चित्तधर्म्मत्वात्तन्निरोधोऽपितदाश्रय एवेति न किञ्चिदनुपपन्नम्।
ननु वृत्तिनिरोधो योग इत्यङ्गीकारे सुषुप्त्यादौविक्षिप्तमूढादिचित्तवृत्तीनां निरोधसम्मवाद्योगत्वप्रसङ्गः नचैतद्युज्यते क्षिप्ताद्यवस्थासु क्लेशप्रहाणादेरसम्भवान्निःश्रेयसपरिपन्थित्वाच्च।तथा हि क्षिप्तं नाम तेषु तेषु विषयेषु क्षिप्यमाणमस्थिरं चित्तमुच्यते। तमःसमुद्रे मग्नं निद्रावृत्तिमञ्चित्तं मूढमिति गीयते। क्षिप्ताद्विशिष्टं चित्तंविक्षिप्तमिति गीयते। विशेषो नाम चञ्चलंहि मनः कृष्ण प्रमाथि बलवद्दृढमिति न्यायेनास्थिरस्यापि मनसः कादाचित्कसमुद्भूतविषयस्थैर्य्यसम्भवेन स्थैर्य्यम्। अस्थिरत्वञ्चस्वाभाविकं व्याध्याद्यमुभयजनितं वा। तदाह व्याधिख्यानसंशयप्रमादास्तस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि क्षित्तविक्षिपास्तेऽन्तराया इति। तत्रदोषत्रयवैषम्यनिमित्तो ज्वरादिर्व्याधिःचित्तस्याकर्म्मण्यत्वं स्त्यानं विरुद्धकोटिद्वयावमाहि ज्ञानं संशयः समाधिसाधनानाम भावनं प्रमादः शरीरवाक्चित्तगुरुत्वादप्रवृत्तिरालस्यं विषयाभिलाषोऽविरतिः अतस्मिंस्तद्बुद्धिर्भ्रान्तिदर्शनं कुतश्चिन्निमित्तात् समाधिभूमेर-
लाभोऽलब्धभूमिकत्वं लब्धायामपि तस्यां चित्तस्याप्रतिष्ठा अनवस्थितत्वमित्यर्थः। तस्मान्नवृत्तिनिरोधो योगपक्षनिक्षेपमर्हतिइति चेन्मैवं वोक्षःहेयभूतक्षिप्ताद्यवस्थात्रयेवृत्तिनिरोधस्य हेवत्वसम्भवेऽप्युपादेययोरेकाग्रनिरुद्धावस्थयोर्वृत्तिनिरोधस्य योगत्वसम्भवात् एकतानं चित्तमेकाग्रमुच्यते निरुद्धसकलवृत्तिकं संस्कारमात्रशेषं चित्तं निरुद्धमिति भष्यते।
स च समाधिर्द्विविधः सम्प्रज्ञातासम्प्रज्ञातभेदात् तत्रैकाग्रचेतसि यःप्रमाणादिवृत्तीनां वाह्यविषयाणां निरोधः ससम्प्रज्ञातसमाधिः सम्यक् प्रज्ञायतेऽस्मिन् प्रकृतेर्विविक्ततया चित्तमिति व्युत्पत्तेः। स चतुर्विधः सवितर्कादिभेदात् समाधिर्नाम भावना सा च भाव्यस्य विषयान्तरपरिहारेण चेतसिपुनः पुनर्निवेशनं भाव्यञ्चद्विविधम् ईश्वरस्तत्त्वानि च तान्यपिद्विविधानि जडाजउभेदात् जडानि प्रकृतिमहदहङ्कारादीनिचतुर्विंशतिः अजडः पुरुषः। तत्र यदा पृथिव्यादीनि स्थूलानिविषयत्वेनादाय पूर्व्वापरानुसन्धानेन शब्दार्थोल्लेख्यसम्मेदेन च भावना प्रवर्त्तते स समाधिः सवितर्कः यदा तन्मात्रान्तःकरणलक्षणं सूक्ष्मंविषयमालम्ब्य देशाद्यवच्छेदेन भावना प्रवर्त्तते तदा सविचारः यदा रजस्तमोलेशानुविद्धं चित्तं भाव्यते तदा सुखप्रकाशम् यस्य सत्त्वस्योद्रेकात् सामन्दः यदा रजस्तमोलेज्ञानभिभूतं शुद्धं सत्त्वमालम्बनीकृत्य या प्रवर्त्तते भावना तदा तस्यां सत्त्वस्य न्यग्भावाच्चितिशक्तेरुद्रेकाच्च सत्त्वमात्रावशेषत्वेन सास्मितः समाधिः वितर्कविचारानन्दास्मितारूपानुगमात्
सम्प्रज्ञात इति सर्व्ववृत्तिनिरोधे त्वसम्प्रज्ञातः समाधिः। ननु सर्व्ववृत्तिनिरोधो योग इत्युक्त सम्प्रज्ञाने व्याप्तिर्न स्यात् तत्र सत्त्वप्रधानायाः सत्त्वपुरुषान्यताख्यातिलक्षणाया वृत्तेरनिरोधादिति चेत्तदेतद्वार्त्तं क्लेशकर्म्मविपाकाशयपरिपन्थिचित्तवृत्तिनिरोधो योग इत्यङ्गीकारात् क्लेशाः पुनः पञ्चधा प्रसिद्धाः अविद्यास्मितारागद्वेषाभिनिवेशाः।
नन्वविद्येत्यत्र किमाश्रीयते पूर्व्वपदार्थप्राधान्यम् अमक्षिकं वर्त्तत इतिवत् उत्तरपदार्थप्राधान्यं वा राजपुरुष इतिवत् अन्यपदार्थप्राधान्यं वा अमक्षिको देश इतिवत् तत्र न पूर्व्वः पूर्व्वपदार्थप्रधानत्वे अविद्यायां प्रसज्यप्रतिषेधोपपत्तौ क्लेशादिकारकत्वानुपपत्तेः अविद्याशब्दस्य स्त्रीलिङ्गत्वाभावापत्तेश्चन द्वितीयः कस्यचिदभावेन विशिष्टाया विद्यायाः क्लेशादिपरिपन्थित्वेन तद्वीजत्वानुपपत्तेः न तृतीयः नञोऽस्त्वर्थानां बहुव्रीहिर्वाचोत्तरपदलोप इति वृत्तिकारवचनानुसारेण अविद्यमाना विद्या यस्याः सा अविद्या बुद्धिरिति समाधिसिद्धौ तस्या अविद्यायाः क्लेशादिवीजत्वानुपपत्तेः विवेकख्यातिपूर्व्वकसर्व्ववृत्तिसम्पन्नायास्तस्यास्तथात्वाप्रसङ्गाच्च उक्तञ्च अस्तितादीनां क्लेशानामविद्यानिदानत्वम्। अविद्या क्षेत्रत्वमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणामिति। तत्र प्रसुप्तत्वं प्रबोधसहकार्य्यभावेनानभिव्यक्तिः तनुत्वं प्रतिपक्षभावनया शिथिलीकरणं विच्छिन्नत्वं बलवता क्लेशेनाभिभवः उदारत्वंसहकारिन्निधिवशात् कार्य्यकारित्वम्। तदुक्तंवाचस्पतिमिश्रेण व्यासभाष्यव्याख्यायाम्
प्रसुप्तास्तत्त्वलीनानां तनुदग्धाश्च योगिनाम्।
विच्छिन्नोदाररूपाश्च क्लेशाविषयसङ्गिनामिति॥
द्वन्दवत् स्वतन्त्रपदार्थद्वयानवगमादुभयपदार्थप्रधानत्वं नाशङ्कितम्। तस्मात् पक्षद्वयेऽपि क्लेशादिनिदानत्वमविद्यायाः प्रसिद्धं हीयेतेति चेत् तदपि नशोभनं विभाति पर्य्युदासशक्तिमाश्रित्याविद्याशब्देन विद्याविरुद्धस्य विपर्य्ययज्ञानस्याभिधानमिति वृद्धैरङ्गीकारात्। तदाह
नामधात्वर्थयोगे तु नैव नञ् प्रतिषेधकः।
वदत्यब्राह्मणाधर्म्मावन्यमात्रविरोधिमाविति।
वृद्धप्रयोगनभ्याहि शब्दार्थाःसर्व्व एव नः।
तेन यत्रप्रयुक्तो यो न तस्मादपनीयत इति॥
वाचस्पतिमिश्रैरप्युक्तंलोकाधीनावधारणो हि शब्दार्थयोः सम्बन्धः लोके चोत्तरपदार्थप्रधानस्यापि नञ उत्तरपदाभिधेयोपमर्दकस्य तद्विरुद्धतथा तत्र तत्रोपलब्धेरिहापि तद्विरुद्धे प्रवृत्तिरिति। एतदेवाभिप्रेत्योक्तम् अनित्याशुचिदुःखानात्मसुनित्यशुचिसुखात्मख्यातिरविद्येति।अतस्मिंस्तद्बुद्धिर्विपर्य्ययः इत्युक्तं भवति तद्यथाअनित्ये घटादौनित्यत्वाभिमान अशुचौ कार्य्यादौशुचित्वप्रत्ययः।
स्थानाद्वीजादवष्टान्निष्यन्दान्निधनादपि।
कायमाधेयशौचत्वात् पण्डिता ह्यशुचिं विदुरिति॥
परिणामतापसंस्कारैर्गुणवृत्तिनिरोधाच्च दुःखमेव सर्व्वं विवे-
किन इति न्यायेन दुःखे स्नक्चन्दनवनितादौ सुखत्वारोपः अनात्मनि देहादावात्मबुद्धिः। तदुक्तम्
अनात्मनि च देहादावात्मबुद्धिस्तु देहिनाम्।
अविद्या तत्कृतो बन्धस्तन्नाशे मोक्ष उच्यत इति॥
एवमियमविद्या चतुष्यादा भवति। नन्वेतेष्वविद्याविशेषेषु किञ्चिदनुगतं सामान्यलक्षणं वर्णनीयम् अन्यथा विशेषस्यासिद्धेः। तथाचोक्तंभट्टाचार्य्यैः
सामान्यलक्षणं त्यक्त्वाविशेषस्यैव लक्षणम्।
न शक्यं केवलं वक्तुमतोऽप्यस्य न वाच्यतेति॥
तदपि न वाच्यमतस्मिंस्तद्बुद्धिरिति सामान्यलक्षणाभिधानेन दत्तोत्तरत्वात्। सत्त्वपुरुषयोरहमस्मीत्येकताभिमानोऽस्मिता तदप्युक्तं दृक्दर्शनशक्त्योरेकात्मत्वाभिमानोऽस्मितेति। सुखाभिज्ञस्य सुखानुस्मृतिपूर्व्वकः सुखसाधनेषु तृष्णारूपो गर्द्धोरागः। दुःखज्ञस्य तदनुस्मृतिपुरस्मरन्तत्साधनेषु निन्दा द्वेषः तदुक्तं सुखानुशयो रागः दुःखानुशयी द्वेष इति। किमत्रानुशयिशब्दे ताच्छील्यार्थे णिनिरिनिर्वामत्वर्थीयोऽभिमतः नाद्यःसुप्यजातौणिनिस्ताच्छील्य इत्यत्र सुपीति वर्त्तमाने पुनस्सुव्ग्रहणस्य उपसर्गनिवृत्त्यर्थत्वेन सोपसर्गाद्धातोर्णिनेरनुत्पत्तेः यथाकथञ्चिदङ्गीकारेऽपि अचोञ्णितीति वृद्धिप्रमक्तावतिशाय्यादिदवदनुशायिपदस्य प्रयोगप्रसङ्गात् न द्वितीयः
एकाक्षरात् कृतो जातेः सप्तम्याञ्च न तौस्मृताविति तत्प्रतिषेधादत्र चानुशयशब्दस्याजन्तत्वेन कृदन्तत्वात् तस्मादनु
शथिशब्दो दुरुपपाद इति चेत् नैतद्भद्रं भावानवबोधात् प्रायिकाभिप्रायमिदं वचनम्। अतएवोक्तं वृत्तिकारेण
इतिकरणो विवक्षार्थः सर्व्वत्राभिसम्बध्यत इति।
तेन क्वचिद्भवति कार्य्यो कार्य्यिकस्तण्डुलीतण्डुलिक इति तथाच कृदन्तात् जातेश्च प्रतिषेधस्य प्रायिकत्वम् अनुशयशब्दस्य कृदन्ततथा इनेरुपपत्तिरिति सिद्धं पूर्व्वजन्मानुभूतमरणदुःखानुभववासनाबलात् सर्व्वस्य प्राणभृन्मात्रस्या कृमरा च विदुषः सञ्जायमानः शरीरविषयादेर्मम वियोगो माभूदिति प्रत्यहंनिमित्तं विना प्रवर्त्तमानोभवरूपोऽभिनिवेशः पञ्चमः क्लेशः।मा च भूवं हि भूयासमिति प्रार्थनायाः प्रत्यात्ममनुभवसिद्भत्वात् तदाह स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेश इति। ते चाविद्यादयः पञ्च सांसारिकविविधदुःखोपहारहेतुत्वेन पुरुषं क्लिश्नन्तीति क्लेशाः प्रसिद्धाः।
कर्म्माणि विहितप्रतिषिद्धरूपाणि ज्योतिष्टोमब्रह्महत्यादीनि विपाकाः कर्म्मफलानि जात्यायुर्भेागाः आफलविपाकाच्चित्तभूमौ शेरत इत्याशयाः धर्म्माधर्म्मसंस्काराः तत्परिपन्थिचित्तवृत्तिनिरोधो योगः निरोधो नाभावमात्रमभिमतं तस्य तुच्छलेन भावरूपसंस्कारजननक्षमत्वासम्भवात् किन्तु तदाश्रयो मधुमतीमधुप्रतीकाविशोकासंस्कारशेषताव्यपदेश्यः चित्तस्थावस्थाविशेषः निरुध्यन्तेऽस्मिन् प्रमाणाच्चाञ्चित्तवृत्तय इति व्युत्पत्तेरुपपत्तेः। अभ्यासवैराग्याभ्यां वृत्तिनिरोधः तत्र स्थितो यत्रोऽभ्यासः। प्रकाशप्रवृत्तिरूपवृत्तिरहितस्य चित्तस्य स्वरू-
पनिष्ठः परिणामविशेषः स्थितिः। तन्निमित्तीकृत्य यत्नः पुनः पुनस्तथात्वेन चेतसि निवेशनमभ्यासः। चर्म्मणि द्वीपिनं हन्तीतिवन्निमित्तार्थेयं सप्तमीत्युक्तंभवति। दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्। ऐहिकपारत्रिकविषयादौ दोषदर्शनान्निरभिलाषस्य ममैते विषया वश्याःनाहमेतेषां वश्य इति विमर्शोवैराग्यमित्युक्तं भवति। समाधिपरिपन्थिक्लेशतनूकरणार्थं समाधिलाभार्थञ्चप्रथमं क्रियायोगविधानपरेण योगिना भवितव्यं क्रियायोगसम्पादने अभ्यासवैराग्ययोः सम्भवात्। तदुक्तंभगवता
आरुरुक्षोर्मुनेर्योगं कर्म्म कारणमुच्यते।
योगारूढस्य तस्यैव शमः कारणमुच्यते इति॥
क्रियायोगश्चोपदिष्टः पतञ्जलिना तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोग इति। तपःस्वरूपं निरूपितं याज्ञवल्क्येन
विधिनोक्तेन मार्गेण कृच्छ्रचान्द्रायणादिभिः।
शरीरशोषणं प्राहुस्तपसां तप उत्तममिति॥
प्रणवगायत्रीप्रभृतीनामध्ययनं स्वाध्याय इति। तेच मन्त्राद्विविधाः वैदिकास्तान्त्रिकाश्चवैदिकाश्चद्विविधाः प्रगीता अप्रगीताश्च। तत्रप्रगीताः सामानि अप्रगीताश्च द्विविधाः छन्दो बद्धास्तद्विलक्षणाश्च। तत्र प्रथमा ऋचः द्वितीया यजूंषि। तदुक्तंजैमिनिना तेषामृग् यत्रार्थवशेन पादव्यवस्था गीतिषु सामाख्या शेषे यजुःशब्द इति। तन्त्रेषु कामिककारणप्रपञ्चाद्या-
ममेषु ये येवर्णितास्तेतान्त्रिकाः। ते पुनर्मन्त्रास्त्रिविधाः स्त्रीपुन्नपुंसकभेदात्तदाह
स्त्रीपुंनपुंसकत्वेन त्रिविधा मन्त्रजातयः।
स्त्रीमन्त्रावह्निजायान्ताः नमोऽन्ताः स्युर्नपुंसकाः॥
शेषाः पुमांसस्ते शस्ताः सिद्धा वश्यादिकर्म्मणीति॥
स्थापनादिसंस्काराभावेऽपि निरस्तसमस्तदोषत्वेन सिद्धिहेतुत्वात् सिद्धत्वम्। स च संस्कारो दशविधः कथितः शारदातिलके
मन्त्राणांदशकथ्यन्ते संस्काराः सिद्धिदायिनः।
निर्दोषतां प्रयान्त्याशु ते मन्त्राः साधु संस्कृताः॥
जननं जीवनञ्चैव ताडनं बोधनं तथा।
अभिषेकोऽथ विमलीकरणाप्यायने पुनः।
तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः॥
मन्त्राणां मातृकावर्णादुद्धारो जननं स्मृतम्।
प्रणवान्तरितान् कृत्वा मन्त्रवर्णान् जपेत् सुधीः।
मन्त्रार्थसङ्ख्यया तद्धि जीवनं संप्रचक्षते॥
मन्त्रवर्णान् समालिख्यताडयेच्चन्दनाम्भसा।
प्रत्येकं वायुवीजेन ताडनं तदुदाहृतम्॥
विलिख्य मन्त्रवर्णंस्तु प्रसूनैःकरवीरजैः।
मन्त्राक्षरेण सङ्ख्यातैर्हन्यात्तद्बोधनं मतम्॥
स्वतन्त्रोक्तविधानेन मन्त्री मन्त्रार्णसङ्ख्यया।
अश्वत्थपल्लवैर्मन्त्रमभिषिञ्चेद्विशुद्धये॥
सच्चिन्त्यमनसा मन्त्रं ज्योतिर्मन्त्रेण निर्दहेत्।
मन्त्रे मलत्रयं मन्त्री विमलीकरणं हि तत्॥
तारव्योमाग्निमनुयुक् ज्योतिर्मन्त्रउदाहृतः॥
कुशोदकेन जप्तेन प्रत्यर्णंप्रोक्षणं मनोः।
वारिवीजेन विधिवदेतदाप्यायनं मतं॥
मन्त्रेण वारिणा मन्त्रे तर्पणं तर्पणं स्मृतम्।
तारमायारमायोगो मनोर्दोपनमुच्यते॥
जप्यमानस्य मन्त्रस्य गोपनं त्वप्रकाशनम्।
संस्कारा दश मन्त्राणां सर्व्वतन्त्रेषु गोपिताः।
यत्कृत्वा सम्प्रदायेन मन्त्री वाञ्छितमश्नुते॥
रुद्धकीलितविच्छिन्नसुप्तशप्तादयोऽपि च।
मन्त्रदोषाः प्रणश्यन्ति संस्कारैरेभिरुत्तमैरिति।
तदलमकाण्डताण्डवकल्पेन मन्त्रशास्त्ररहस्योद्घोषणेन।
ईश्वरप्रणिधानं नामाभिहितानामनभिहितानाञ्च सर्व्वासां क्रियाणां परमेश्वरे परमगुरौफलानपेक्षया समर्पणम्। अत्रेदमुक्तम्
कामतोऽकामतोवापि यत्करोमि शुभाशुभम्।
तत्सर्व्वंत्वयि विन्यस्तं त्वत्प्रयुक्तः करोम्यहमिति॥
क्रियाफलसन्न्यासोऽपि भक्तिविशेषापरपर्य्यायं प्रणिधानमेव फलाभिसन्धानेन कर्म्मकरणात्। तथाच गीयते गीतासुभगवता
कर्म्मस्येवाधिकारस्ते मा फलेषु कदाचन।
मा कर्म्मफलहेतुर्भूर्माते सङ्गोऽस्त्वकर्म्मणीति॥
फलाभिसन्धेरुपघातकत्वमभिहितं भगवद्भिर्नीलकण्ठभारती श्रीचरणैः
अपि प्रयत्नसम्पन्नं कामेनोपहतं तपः।
न तुष्टये महेशस्य श्वलीढमिव पायसमिति॥
सा च तपःस्वाध्यायेश्वरप्रणिधानात्मिका क्रिया योगसाधनत्वाद्योग इति। शुद्धसारोपलक्षणावृत्त्याश्रयणेन निरूप्यते यथायुर्घृतमिति। शुद्धसारोपलक्षणा नाम लक्षणाप्रभेदः। मुख्यार्थबाध तद्योगाभ्यामर्थान्तरप्रतिपादनं लक्षणा सा द्विविधा रूढिमूला प्रयोजनमूला च तदुक्तंकाव्यप्रकाशे
मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात्।
अन्योर्थोलक्ष्यते यत् सा लक्षणारोपिता क्रियेति॥
तच्छब्देन लक्ष्यत इत्याख्याते गुणीभूतं प्रतिपादनमात्रंपरामृश्यते। सा लक्षणेति प्रतिनिर्दिश्यमानापेक्षया तच्छब्दस्य स्त्रीलिङ्गत्वोपपत्तिः। तदुक्तं कैयटैःनिर्द्दिश्यमानप्रतिनिर्द्दिश्यमानयोरैक्यमापादयन्ति सर्व्वनामानि पर्य्ययेण तत्तल्लिङ्गमुपाददत इति। तत्रकर्म्मणिकुशल इत्यादि रूढिलक्षणाया उदाहरणं कुशान् लातीति व्युत्पत्त्या दर्भादानकर्त्तरि यौगिकंकुशलपदं विवेचकत्वसारूप्यात् प्रवीणे प्रवर्त्तमानं अनादिवृद्धव्यवहारपरम्परानुपातित्वेनाभिधानवत् प्रयोजनमनपेक्ष्यप्रवर्त्तते। तदाह
निरूढालक्षणाः काश्चित् सामर्थ्यादभिधानवदिति।
यस्मात् रूढिलक्षणायाः प्रयोजनापेक्षानास्ति। यद्यपि प्रयुक्तः
शब्दः प्रथमे मुख्यार्थं प्रतिपादयति तेनार्थेनाथन्कारं लक्ष्यत इति अर्थधर्म्मीयं लक्षणा तथापि तत्प्रतिपादके शब्दे समारोपितः सन् शब्दव्यापार इति व्यपदिश्यते। एतदेवाभिप्रेत्योक्तं लक्षणारोपिता क्रियेति। प्रयोजनलक्षणा तु षड्विधा उपादानलक्षणा लक्षणलक्षणा गौणसारोपा गौणसाध्यवसाना शुद्धसारोपा शुद्धसाध्यवसाना चेति। कुन्ताः प्रविशन्ति मञ्चाः क्रोशन्ति गौर्वाहीकः गौरथंआयुधतं आयुरेवेदमिति यथाक्रममुदाहरणानि द्रष्टव्यानि। तदुक्तम्
स्वसिद्धये पराक्षेपः परार्थं स्वसमर्पणम्।
उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा॥
सारोपान्या तु यत्रोक्तौविषयी विषयस्तथा।
विषय्यन्तःकृतेऽन्यस्मिन् सा स्यात् साध्यवसानिका॥
भेदाविमौ च सादृश्यात् सम्बन्धान्तरतस्तथा।
गौणैः शुद्धौच विज्ञेयौलक्षणा तेन षड्विधेति॥
तदलंकाव्यमीमांसामर्मनिर्म्मन्थनेन।
स च योगो यमादिभेदवशादष्टाङ्ग इति निर्दिष्टः। तत्र यमा अहिंसादयः। तदाह पतञ्जलिः अहिंसासत्यास्तेयब्रह्मचर्य्यापरिग्रहा यमा इति। नियमाः शौचादयः। तदप्याह शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमा इति। एते च यमनियमा विष्णुपुराणे दर्शिताः
ब्रह्मचर्य्यमहिंसां च सत्यास्तेयापरिग्रहान्।
सेवेत योगी निष्कामो योग्यतां स्वंमनो नयन्॥
स्वाध्यायशौचसन्तोषतपांसि नियमात्मवान्।
कुर्व्वीत ब्रह्मणिपरं परस्मिन् प्रवणं मनः॥
एते यमाः सनियमाः पञ्च पञ्च प्रकीर्त्तिताः।
विशिष्टफलदाः कामे निष्कामाणां विमुक्तिदा इति॥
स्थिरसुखमासनं पद्मासनभद्रासनवीरासनस्वस्तिकासनदण्डकासन सोपाश्रयपर्य्यङ्कक्रौञ्चनिषदनोष्ट्रनिषदनसमसंस्थानभेदाद्दशविधम्
पादाङ्गुष्ठौनिबध्नीयाद्धस्ताभ्यां व्युत्क्रमेण तु।
ऊर्व्वोरुपरि विप्रेन्द्र कृत्वा पादतले उभे।
पद्मासनं भवेदेतत् सर्व्वेषामभिपूजितम्।
इत्यादिना याज्ञवल्क्यः पद्मासनादिस्वरूपं निरूपितवान् तत्सर्व्वंततएवावगन्तव्यम्। तस्मिन्नासनस्थैर्य्ये सति प्राणायामः प्रतिष्ठितोभवति। स च श्वासप्रश्वासयोर्गतिविच्छेदस्वरूपः तत्र श्वासो नाम वाह्यस्य वायोरन्तरानयनम्। प्रश्वासः पुनः कौष्ठस्य वहिर्निःसारणम्। तयोरुभयोरपि सञ्चरणाभावः प्राणायामः। ननु नेदं प्राणायामसामान्यलक्षणं तद्विशेषेषु रेचकपूरककुम्भकप्रकारेषु तदनुगतेरयोगादिति चेन्नैष दोषः सर्व्वत्रापि श्वासप्रश्वासगतिविच्छेदसम्भवात् तथा हि कौष्ठस्य वायोर्वहिर्निःसरणं रेचकः प्राणायामः प्रश्वासत्वेन प्रागुक्तः। वाह्यवाथोरन्तर्धारणं चरमः यः श्वासरूपः। अन्तस्तम्भवृत्तिः कुम्भकः यस्मिन् जलमिव कुम्भे निश्चलतथा प्राणाख्यो वायुरवस्थाप्यते। तत्र सर्व्वत्र श्वासप्रश्वासद्वयगतिविच्छेदोऽस्त्येवेति नास्ति शङ्कावकाशः। तदुक्तं
तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायाम इति। स च वायुः सूर्य्योदयमारभ्य सार्द्धघटिकाद्वयं घटीयन्त्रस्थितघटभ्रमणन्यायेन एकैकस्यां नाड्यां भवति एवं सत्यहर्निशं श्वासप्रश्वासयोः षट्शताधिकैकविंशतिसहस्राणि जायन्ते। अतएवोक्तं मन्त्रसमर्पणरहस्यवेदिभिरजपामन्त्रसमर्पणे
षट्शतानि गणेशाय षट्सहस्रं स्वयम्भुवे।
विष्णवे षट्सहस्रञ्च षट्सहस्रं पिनाकिने॥
सहस्रमेकं गुरवे सहस्रंपरमात्मने।
सहस्रमात्मने चैवमर्पयामि कृतं जपमिति॥
तथा नाडीसञ्चरणदशायां वायोः सञ्चरणे पृथिव्यादीनि तत्त्वानि वर्षविशेषवशात् पुरुषार्थाभिलाषुकैः पुरुषैरवगन्तव्यानि। तदुक्तमभियुक्तैः
सार्द्धं घटीद्वयंनाडीरेकैकार्कोदयात् वहेत्।
आरघट्टघटीभ्रान्तिन्यायो नाड्योःपुनः पुनः॥
शतानि तस्य जायन्ते निश्वासोच्छासयोर्नव।
खखषट्कद्विकैः सङ्ख्याहोरात्रे सकले पुनः॥
षट्त्रिंशद्गुणवर्णानां या वेला भणनेभवेत्।
सा वेला मरुतो नाड्यन्तरे सञ्चरतो भवेत्॥
प्रत्येकं पञ्च तत्त्वानि नाड्योश्च वहमानयोः।
वहन्त्यहर्निशं तानि ज्ञातव्यानि यतात्मभिः॥
ऊर्द्धं वह्निरधस्तोयं तिरश्चीनः समीरणः।
भूमिमर्द्धपुटे व्योम सर्व्वगं प्रवहेत् पुनः॥
वायोर्वङ्केरपां पृष्टव्याव्योन्नस्तत्त्वं वहेत् क्रमात्।
वहन्त्योरुभयोर्नाड्योर्ज्ञातव्योऽयं यथाक्रमम्॥
पृथ्व्याःपलानि पञ्चाशच्चत्वारिंशत्तथाम्भसः।
अग्नेस्त्रिंशत् पुनर्वयोर्विंशतिर्नभसोदश॥
प्रवाहकालसङ्ख्येयं हेतुर्विङ्कलयोरथ॥
पृथ्वी पञ्चगुणा तोयं चतुर्गुणमथानलः।
त्रिगुणोदिगुणोवायुर्वियदेकगुणं भवेत्॥
गुणं प्रति दशपलान्युर्व्व्यां पञ्चाशदित्यतः।
एकैकहानिस्तोयादेस्तथा पञ्च गुणाः क्षितेः।
गन्धोरसश्च रूपञ्च स्पर्शःशब्दः क्रमादमी॥
तत्त्वाभ्यां भूजलाभ्यां स्यात् शान्तिकार्य्ये फलोन्नतिः।
दीप्तास्थिराधिकाकृत्ये तेजोवाय्वम्बरेषु च॥
पृष्टव्यप्तेजोमरुद्व्येामतत्त्वानां चिङ्कमुच्यते।
आद्येस्थैर्य्यं स्वचित्तस्य शैत्ये कामोद्भवो भवेत्॥
तृतीये कोपसन्तापौ चतुर्थे चञ्चलात्मता।
पञ्चमे शून्यतैव स्यादथवा धर्म्मवासना॥
श्रुत्योरङ्गुष्ठकौमध्याङ्गुल्यौनासापुटद्वये।
सृक्कणोःप्रान्त्यकोपान्त्याङ्गुली शेषे दृगन्तयोः॥
न्यस्यान्तर्भूपृथिव्यादितत्त्वज्ञानं भवेत् क्रमात्।
पीतश्वेतारुणश्यामैर्विन्दुभिर्निरुपाधि स्वमित्यादिना॥
यथावद्वायुतत्त्वमवगम्य तन्नियमने विधीयमाने विवेकज्ञानावरणकर्म्मक्षयो भवति। तपो न परं प्राणायामादिति।
दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः।
प्राणायामैस्तुदह्यन्ते तद्वदिन्द्रियपन्नमा इति च॥
तदेवं यमादिभिः संस्कृतमनस्कस्य योगिनः संयमप्रत्याहारः कर्त्तव्यः चक्षुरादीनामिन्द्रियाणां प्रतिनियतरञ्जनीयकोपनीयमोहनीयप्रवणत्वप्रहाणेनाविकृतस्वरूपप्रवणचित्तानुकारः प्रत्याहारः इन्द्रियाणि विषयेभ्यः प्रतीपमाह्रियन्तेऽस्मिन्निति व्युत्पत्तेः। ननु तदा चित्तमभिनिविशते नेन्द्रियाणि तेषां वाह्यविषयत्वेन तत्रसामर्थ्याभावादतः कथं चित्तानुकारः अद्धा अतएव वस्तुतस्तस्यासम्भवमभिसन्धाय सादृश्यार्थमिवशब्दञ्चकार सूत्रकारः स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणांप्रत्याहार इति। यादृश्यञ्च चित्तानुकारनिमित्तं विषयासम्प्रयोगः यदा चित्तं निरुध्यते तदा चक्षुरादीनां निरोधे प्रयत्नान्तरं नापेक्षणीयं यथा मधुकरराजं मधुमक्षिका अनुवर्त्तन्ते तथेन्द्रियाणि चित्तमिति। तदुक्तं विष्णुपुराणे
शब्दादिष्वनुरक्तानि निगृह्माक्षाणि योगवित्।
कुर्य्याच्चित्तानुकारीणि प्रत्याहारपरायण इति॥
वश्यता परमा तेन ज्ञायतेऽतिचलात्मनः।
इन्द्रियाणामवश्यैस्तैर्योगी योगस्य साधक इति॥
नाभिचक्रहृदयपुण्डरीकनाड्यग्रादावाध्यात्मिके हिरण्यगर्भवासप्रजापतिप्रभृतिके वाह्येवा देशे चित्तस्य विषयान्तरपरिहारेण स्थिरीकरणं धारणा। तदाह देशबन्धश्चित्तस्य धारणेति। पौराणिकाश्च
प्राणायामेन पवनं प्रत्याहारेण चेन्द्रियम्।
वशीकृत्य ततः कुर्य्यच्चित्तस्थानं शुभाश्रवमिति॥
तस्मिन् देशे ध्येयावलम्बनस्य प्रत्ययस्य विसदृशप्रत्ययप्रहाणेनप्रवाहोध्यानं तदुक्तंतत्र प्रत्ययैकतानता ध्यानमिति। अन्यैरप्युक्तं
तद्रूपप्रत्ययैकाग्र्यासन्ततिश्चान्यनिस्पृहा।
तङ्ख्यानं प्रथमैरङ्गैः षङ्मिर्निष्पाद्यते तथेति॥
प्रसङ्गाच्चरममङ्गं प्रागेव प्रात्यपीपदामः।
तदनेन योगाङ्गानुष्ठानेनादरनैरन्तर्य्यदीर्घकालसेवितेन समाधिप्रतिपक्षक्लेशप्रक्षयेऽभ्यासवैराग्यवशान्मधुमत्यादिसमाधिलाभो भवति।
अथ किमेवमकस्मादस्मानतिविकटाभिरत्यन्ताप्रसिद्धाभिः कर्णाटगौडलाटभाषाभिर्भीषयते भवान् नहि वयं भवन्तं भीषयामहे किन्तु मधुमत्यादिपदार्थव्युत्पादमेन तोषयामः ततश्चाकुतोभयेन भवता श्रूयतामवधानेन। तत्र मधुमती नामाभ्यासवैराग्यादिवशादपास्तरजस्तमोलेशसुखप्रकाशमयसत्वभावनयाऽनवद्यवैशारद्यविद्योतनरूपऋतम्भरप्रज्ञाख्यासमाधिसिद्धिः। तदुक्तंऋतम्भरा तत्र प्रज्ञेति। ऋतं सत्यं विभर्त्ति कदाचिदपि न विपर्य्ययेणाच्छाद्यते तत्रस्थितौ दार्ढ्ये सति द्वितीयस्य योगिनः सा प्रज्ञा भवतीत्यर्थः। चत्वारः खलु योगिनःप्रसिद्धाः प्राथमकल्पिको मधुभूमिकः प्रज्ञाज्योतिरतिक्रान्तभावनीयश्चेति। तत्राभ्यासी प्रवृत्तिमात्रज्योतिः प्रथमः न त्वनेन परचित्तादिगोचरज्ञानरूपं वैज्योतिर्वशीकृतमित्युक्तं
भवति। स्मृतम्भरप्रज्ञो द्वितीयः भूतेन्द्रियजयी तृतीयः परवैराज्यसम्पन्नश्चतुर्थः। मनोजवित्वादयो मधुप्रतीकसिद्धयः तदुक्तं मनोजवित्वं विकरणाभावः प्रधानजयश्चेति। मनोजवित्वं नाम कायस्य मनोवदुत्तमो गतिलाभः विकरणाभावः कायनिरपेक्षाणामिन्द्रियाणामभिमतदेशकालविषयापेक्षवृत्तिलाभः प्रधानजयः प्रकृतिविकारेषु सर्व्वेषु वशित्वम्। एताञ्च सिद्धयः करणपञ्चकस्वरूपजयात् तृतीयस्य योगिनः प्रादुर्भवन्ति यथा मधुन एकदेशोऽपि स्वदते तथा प्रत्येकमेव ताः सिद्धयः स्वदन्त इति मधुप्रतीका सर्व्वभावाद्यधिष्ठातृत्वादिरूपादिरूपा विशो का सिद्धिः। तदाह सत्त्वपुरुषान्यताख्यातिमात्रप्रतिष्ठस्य सर्व्वभावाधिष्ठातृत्वं सर्व्वज्ञत्वं चेति। सर्व्वेषां व्यवसायाव्यवसायात्मकानां गुणपरिणामरूपाणां भावानां स्वामिवदाक्रमणं सर्व्वभावाधिष्ठातृत्वं तेषामेव शान्तोदिताव्यपदेश्यधर्म्मित्वेन स्थितानां विवेकज्ञानं सर्व्वज्ञातृत्वम्। तदुकं विशोका वा ज्योतिष्मतीति। सर्व्ववृत्तिप्रत्यस्तमये परं वैराग्यमाश्रितस्य जात्यादिवीजानां क्लेशानां निरोधसमर्थे निर्वीजः समाधिः असम्प्रज्ञातपदवेदनीयः संस्कारशेषताव्यपदेभ्यः चित्तस्यावस्थाविशेषः तदुक्तं विरामः प्रत्ययाभ्यासपूर्व्वः संस्कारशेषोऽन्य इति। एवञ्च सर्व्वतो विरज्यमानस्य तस्य पुरुषधौरेयस्य क्लेशवीजानि च निर्दग्धशालिवीजकल्पानि प्रसवसामर्थ्यविधुराणि मनसा सार्द्धं प्रत्यस्तं गच्छन्ति। तदेतेषु प्रलीनेषु निरुप्लवविवेकख्यातिपरि- पाकवशात् कार्य्यकारणात्मकानां प्रधाने लयः चितिशक्तिस्व-
रूपप्रतिष्ठा पुनर्बुद्धिसत्ताभिसम्बन्धविधुरा कैवल्यं लभते इति। सिद्धिद्वयोच मुक्तिरुक्तां पतञ्जलिना पुरुषार्थशून्यानां प्रतिप्रसवस्वरूपप्रतिष्ठा वा चितिशक्तिरिति। न चास्मिन् सत्यपि कस्मान्न जायते जन्तुरिति वदितव्यं कारणाभावात् कार्य्याभाव इति प्रमाणसिद्धार्थे नियोगानुयोगयोरयोगात् अपरथा कारणाभावेऽपि कार्य्यसम्भवे मणिवेधादयोऽन्धादिभ्यो भवेयुःतथा चानुपपन्नार्थतायामाभाणको लौकिक उपपन्नार्थो भवेत्। तथाच श्रुतिः अन्धो मणिमविन्दत् अविध्यत् तमनङ्गुलिरावयत् गृहीतवान् अग्रीवः प्रत्यमुञ्चत् पिनद्धवान् तमजिङ्कोवा असंञ्चत अभ्यपूजयत् स्तुतवानिति यावत्। एवञ्च चिकित्साशास्त्रं वद्योगशास्त्रं चतुर्व्यूहं यथा चिकित्साशास्त्रं रोगो रोगहेतुरारोग्यं भेषजमिति तथेदमपि संसारः संसारहेतुर्मोक्षो मोक्षोपाय इति। तत्र दुःखमयः संसारो हेयः प्रधानपुरुषयोः संयोगो हेयभोगहेतुः तस्यान्त्यन्तिकी निवृन्तिर्हानं तदुपायः सम्बम् दर्शनम्। एवमन्यदपि शास्त्रंयथासम्भवं चतुर्व्यूहमूनोयमिति सर्व्वमवदातम्॥
इति सर्व्वदर्शनसंग्रहे पातञ्जलदर्शनम्॥
इतः परं सर्व्वदर्शनशिरोमणिभूतं शाङ्करदर्शनमन्यत्र लिखितमित्यत्रोपेक्षितमिति॥
सम्पूर्णः।