१५ सांख्यदर्शनम्

अथ सांखैराख्यातेपरिणामवादे परिपन्थिनि जागरूके कथंकारं विवर्त्तवाद आदरणीयोभवेदेष हि तेषामाघोषः। सङ्घेपेण हि साङ्ख्याशास्त्रे चतस्त्रो विधाः सम्भाव्यन्ते कश्चिदर्थः प्रकृतिरेव कश्चिद्विकृतिरेव कश्चिद्विकृतिः प्रकृतिश्च कश्चिदनुभय इति। तत्र केवला प्रकृतिः प्रधानपदेन वेदनीया मूलप्रकृतिःनासावन्यस्य कस्यचिद्विकृतिः। प्रकरोतीति प्रकृतिरिति व्युत्पत्त्यासत्त्वरजस्तमेागुणानां साम्यावस्थाया अभिधानात् तदुक्तंमूलप्रकृतिरविकृतिरिति। मूलञ्चासौप्रकृतिश्चमूलप्रकृतिःमहदादेः कार्य्यकलापस्यासौमूलं नत्वस्य प्रधानस्य मूलान्तरमस्तिअनवस्थापातात्। न च वीजाङ्कुरवदनवस्थादोषो न भवतीतिवाच्यं प्रमाणाभावादिति भावः। विकृतयश्च प्रकृतयश्च महदह-

ङ्कारतन्मात्राणि तदप्युक्तंमहदाद्याः प्रकृतिविकृतयः सप्तेति अस्यार्थः प्रकृतयच्च ताः विकृतयश्चेति प्रकृतिविकृतयः सप्त महदादीनि तत्त्वानि तत्रान्तःकरणादिपदवेदनीयं महतत्त्वमहङ्कारस्य प्रकृतिः मूलप्रकृतेस्तु विकृतिः एवमहङ्कारतत्त्वमभिमानापरनामधेयं महतो विकृतिः प्रकृतिश्चतदेवाहङ्कारतत्त्वं तामसं सत् पञ्चतन्मात्राणां सूक्ष्माभिधानां तदेव सात्त्विकंसत्प्रकृतिरेकादशेन्द्रियाणां बुद्धीन्द्रियाणां चक्षुः श्रोत्रघ्राणरसना त्वगाख्यानां कर्म्मेन्द्रियाणां वाक्पाणिपादपायूपस्थास्यानामुभयात्मकस्श्च मनसश्च रजसस्तुभयत्र क्रियोत्पादनद्वारेण कारणत्वमस्तीति न वैयर्य्यम्। तदुक्तमीश्वरकृष्णेन

अभिमानोऽङ्कारस्तस्माद्द्विविधः प्रवर्त्तते वर्गः।
एकादशकश्च गणस्तन्मात्रापञ्चकञ्चैव।

सात्त्विकमेकादशकं प्रवर्त्तते वैकृतादहङ्कारात्।
भूतादेस्तन्मात्रः सतामसस्तैजसादुभयम्।

बुद्धीन्द्रियाणि चक्षुः श्रोत्रघ्राणरसनत्वगास्यानि।
वाक्पादपाणिपाद्युपखानि कर्म्मेन्द्रियास्वाहुः।

उभवात्मकमत्रमनः सङ्कल्पविकल्पात्मकमिन्द्रियञ्च साधर्म्यादिति।

विवृतञ्च तत्त्वकौमुद्यामाचार्य्यवाचस्पतिभिः केवला विकृतिस्तु वियदादीनि पञ्च भूतानि एकादशेन्द्रियाणि च तदुक्तं षोडशकस्तु विकार इति षोडशसङ्ख्यावच्छिन्नो गणः षोडशको विकार एव न प्रकृतिरित्यर्थः यद्यपि पृथिव्यादयो गोघटा-

दीनां प्रकृतिस्तथापि न ते पृथिव्यादिभ्यस्तत्त्वान्तरमिति नप्रकृतिः तत्त्वान्तरोपादानत्वं चेह प्रकृतित्वमभिमतं गोघटादीनांस्थूलत्वेन्द्रियग्राह्यत्वयोः समानत्वेन तत्त्वान्तरत्वाभावः तत्रशब्दस्पर्शरूपरसगन्धतन्मात्रेभ्यः पूर्व्वपूर्व्वसूक्ष्मभूतसहितेभ्यः पञ्च भूतानि वियदादीनि क्रमेणैकद्वित्रिचतुःपञ्चगुणानि जायन्ते। इन्द्रियसृष्टिस्तुप्रागेवोक्ता। तदुक्तम्

प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्चषोडशकः।
तस्मादपि षोडशकात् पञ्चभ्यः पञ्चभूतानीति।

अनुभयात्मकः पुरुषः तदुक्तंन प्रकृतिर्न विकृतिः पुरुष इति।पुरुषस्तु कूटस्थनित्योऽपरिणामी न कस्यचित् प्रकृतिर्नापि विकृतिः कस्यचिदित्यर्थः। एतत्पञ्चविंशतितत्त्वसाधकत्वेन प्रमाणत्रयमभिमतं तदप्युक्तं

दृष्टमनुमानमाप्तवचनञ्च सर्व्वप्रमाणसिद्धत्वात्।
त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धीति।

इह कार्य्यकारणभावे चतुर्द्धा विप्रतिपत्तिः प्रसरति। असतःसज्जायत इति सौगताः सङ्गिरन्ते। नैयाधिकादयः सतोऽसज्जायत इति। वेदन्तिनः सतो विवर्त्तः कार्य्यजातं न वस्तु सदिति। सांख्याः पुनः सतः सज्जायत इति। तत्रासतः सज्जायत इति न प्रामाणिकः पक्षःअसतो निरुपाख्यस्य शशविषाणवत्कारणत्वानुपपत्तेः तुच्छातुच्छयोस्तादाक्यानुपपत्तेश्च। नापि सतोऽसज्जायते कारकव्यापारात् प्रागसतः शशविषाणवत्सत्तासम्बन्धलक्षणोत्पत्त्यनुपपत्तेः नहि नीलं निपुणतमेनापि

पीतं कर्त्तुं पार्य्यते। ननु सत्त्वासत्त्वे घटस्य धर्म्माविति चेत्तदचारु असति धर्म्मिणि तद्धर्म्म इति व्यपदेशानुपपत्त्या धर्म्मिणः सत्त्वापत्तेः। तस्मात् कारकव्यापारात् प्रागपि कार्य्यंसदेव मतश्चाभिव्यक्तिरुपपद्यते यथा पीडनेन तिलेषु तैलस्य दोहेन सौरभेयोषु पयसः।असतः करणे किमपि निदर्शनं न दृश्यते।किञ्च कार्य्येण कारणं सम्बद्धं तज्जनकम् असम्बद्धंवा प्रथमे कार्य्यस्य सत्त्वमायातं सतोरेव सम्बन्ध इति नियमात् चरमेसर्व्वं कार्य्यजातं सर्व्वस्माज्जायेत असम्बद्धत्वाविशेषात्। तदाख्यायि साङ्ख्याचार्य्यैः

असत्त्वान्नास्ति सम्बन्धः कारणैः सत्त्वसङ्गिभिः।
असम्बद्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिरिति।

अथैवमनुष्ठेयासम्बद्धमपि तदेव जनयति यत्रयच्छक्तंशक्तिश्च कार्य्यदर्शनोन्नेयेति तन्न मङ्गच्छते तिलेषु तैलजननशक्तिरित्यत्र तैलस्यासत्त्वे सम्बद्धत्वासम्बद्धत्वविकल्पेन तच्छक्तिरिति निरूपणायोगात्। कार्य्यकारणयोरभेदाच्च कार्य्यस्य सत्त्वं कारणात्पृथक् न भवति पटस्तन्तुभ्यो न भिद्यते तद्भर्म्मात्वान्न यदेवं नतदेवं यथा गोरश्वः तद्धर्म्मश्चपटस्तस्मान्नार्थन्तरम्। तर्हिप्रत्येकं त एव प्रावरणकार्य्यं कुर्य्युरिति चेत् संस्थानभेदेनाविर्भूतपटभावानां प्रावरणार्थक्रियाकारित्वोपपत्तेः यथा हि कूर्म्मस्याङ्गानि कूर्म्मशरीरे निविशमानानि तिरोभवन्ति निःसरन्तिचाविर्भवन्ति एवं कारणस्य तन्त्वादेः पटादयो विशेषा निःसरन्त आविर्भवन्त उत्पद्यन्त इत्युच्यन्ते निविशमानास्तिरोभवन्तो

विनश्यन्तीत्युच्यन्ते न पुनरसतामुत्पत्तिः सतां वा विनाशः।यथोक्तं भगवद्गीतायाम्

नासतो विद्यते भावो नाभावो विद्यते सत इति।

ततश्च कार्य्यनुमानात् तत्प्रधानमिद्धिः। तदुक्तम्

असदकरणादुपादानग्रहणात् सर्व्वसम्भवाभावात्।
शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्य्यमिति।

नापि सतोब्रह्मतत्त्वस्य विवर्त्तः प्रपञ्चः बाधानुपलम्भात् अधिष्ठानारोप्ययोश्चिज्जडयोः कलधौतरूप्यादिवत् सारूप्याभावेनारोपासम्भवाच्च तस्मात् सुखदुःखमोहात्मकस्य तथाविधकारणमवधारणीयं तथा च प्रयोगः विमतं भावजातं सुखदुःखमोहात्मककारणकं तदन्वितवात् यद्येनान्वीयते तत्तत्कारणकं यथा रुचकादिकं सुवर्णन्वितं सुवर्णकारणकं तथाचेदं तस्मात्तथेति। तत्र जगत्कारणे येयं सुखात्मकता तत् सत्त्वं यादुःखात्मकता तद्रजः या च मोहात्मकता तत्तम इति त्रिगुणात्मककारणसिद्धिः तथा हि प्रत्येकं भावास्त्रैगुण्यवन्तोऽनुभूयन्ते यथा मैत्रदारेषु सत्यवत्यां मैत्रस्य सुखमाविरस्ति तं प्रतिसत्त्वगुणप्रादुर्भावान्तरसपत्नीनां दुःखम्। ताः प्रति रजोगुणप्रादुर्भावात् तामलभमानस्य चैत्रस्य मोहो भवति तं प्रति तमोगुणसमुद्भवात् एवमन्यदपि घटादिकं लभ्यमानं सुखं करोतिपरैरपि ह्रियमाणं दुःखाकरोति उदासीनस्यापेक्षाविषयत्वेनापतिष्ठते उपेक्षाविषयत्वं नाम मोहः मुह वैचित्त्ये इत्यस्माद्धातोर्मेाहशब्दनिष्पत्तेः उपेक्षणीयेषु चित्तवृत्त्यनुदयात्। तस्मात्

सर्व्वंभावजातं सुखदुःखमोहात्मकं त्रिगुणप्रधानकारणकमवगम्यते। तथाच श्वेताश्वतरोपनिषदि श्रूयते

अजामेकां लोहितशुक्लकृष्णां वह्नीःप्रजाजनयन्तीं सरूपाः।
अजोह्येको जुषमाणोनुशेते जहात्येनां भुक्तभोगामजोन्य इति॥

अत्र लोहितशुक्लकृष्णशब्दा रञ्जकत्वप्रकाशकत्वावरकत्वसाधर्म्म्यात् रजस्सत्त्वतमोगुणत्वप्रतिपादनपराः।

नन्वचेतनं प्रधानं चेतनानधिष्ठितं महदादिकार्य्येन व्याप्रियतेअतः केनचिच्चेतमेनाधिष्ठात्रा भवितव्यं तथाच सर्व्वार्थदर्शी परमेश्वरः स्वीकर्त्तव्यः स्यादिति चेत् तदसङ्गतम् अक्षेतनस्यापि प्रधानस्य प्रयोजनवशेन प्रवृत्त्युपपत्तेः दृष्टञ्च अचेतनंचेतनानधिष्ठितं पुरुषार्थाय प्रवर्त्तमानं यथा वत्सविवृद्ध्यर्थमक्षेतनं क्षीरं प्रवर्त्तते यथा जलमचेतनं लोकोपकाराय प्रवर्त्ततेतथाच प्रकृतिरचेतनापि पुरुषविमोक्षाय प्रवर्त्स्यति। तदुक्तम्

वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्येति॥

वस्तु परमेश्वरः करुणया प्रवर्त्तक इति परमेश्वरास्तित्ववादिनां डिण्डिमः स प्रायेण गतः विकल्यानुपपत्तेः स किं सृष्टेःप्राक् प्रवर्त्तते सृश्युत्तरकालंवा आद्येशरीराद्यभावेन दुःखानुत्पन्तौ जीवानां दुःखप्रहाणेच्छानुपपत्तिः द्वितीयेपरस्यराश्रयप्रसङ्गः करुणया सृष्टिः सृष्ट्याच कारुण्यमिति। तस्मादक्षेतनस्वापि चेतमानधिष्ठितस्य प्रधानस्य महदादिरूपेण परिणामः पुरुषार्थप्रयुक्तः प्रधानपुरुषसंयोगनिमित्तः। यथा नि-

र्य्यापारस्याप्ययस्कान्तस्य सन्निधानेन लोहस्य व्यापारः तथानिर्व्यापारस्य पुरुषस्य सन्निधानेन प्रधानव्यापारो युज्यते प्रकृतिपुरुषसम्बन्धश्चपङ्ग्वन्धवत्परस्परापेक्षानिबन्धनः। प्रकृतिर्हिभोग्यतयाभोक्तारं पुरुषमपेक्षते पुरुषोऽपि भेदाग्रहाद्बुद्धिच्छायापत्त्वा तद्गतं दुःखत्रयं वारयमाणः कैवल्यमपेक्षते। तत्प्रकृतिपुरुषविवेकनिबन्धनं न च तदन्तरेण युक्तमिति कैवल्यार्थंपुरुषः प्रधानमपेक्षते। यथा खलु कौचित् पङ्ग्वन्धौपथि सार्थेन गच्छन्तौदैवकृतादुपप्लवात् परित्यक्तसार्थौ मन्दमन्दमितस्ततः परिभ्रमन्तो भयाकुलौदेववशात् संयोगमुपगच्छेतां तत्रचान्धेन पङ्गुः स्कन्धमारोपितः ततः पङ्गुदर्शितेन मार्गेणान्धः समीहितं स्थानं प्राप्नोति पङ्गुरपि स्कन्धाधिरूढः तथा परस्परापेक्षप्रधानपुरुषनिबन्धनः सर्गः। यथोक्तम्

पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्व।
पङ्ग्वन्धबदुभयोरपि सम्बन्धस्तत्कृतः सर्ग इति॥

ननु पुरुषार्थनिबन्धनाभवतु प्रकृतेः प्रवृतिः निवृत्तिस्तु कथमुपपद्यत इति चेदुच्यते यथा भर्त्रादृष्टदोषा स्वैरिणी भर्त्तारं युनर्नोपैति यथा वा कृतप्रयोजना नर्त्तकीनिवर्त्तते तथा प्रकृतिरपि। यथोक्तम्

रङ्गस्य दर्शयित्वा निवर्त्तते नर्त्तकी यथा नृत्यात्।
पुरुषस्य तथात्मानं प्रकाश्य विनिवर्त्तते प्रकृतिरिति॥

एतदर्थं निरीश्वरसाङ्ख्यशास्त्रप्रवर्त्तककपिलानुसारिणां मतमुपन्यस्तम्॥

इति सर्व्वदर्शनसंग्रहे सांख्यदर्शनम्॥