१४ जैमिनिदर्शनम्

नन्वयं प्रकृतिभागः अयं प्रत्ययभाग इति प्रकृतिप्रत्ययविभागः कथमवगम्यत इति चेत् पीतपातञ्जलजलानामेतच्चोद्यं चमत्कारं न करोति व्याकरणशास्त्रस्य प्रकृतिप्रत्ययविभागपरतायाः प्रसिद्धत्वात् तथाहि पतञ्जलेर्भगवतो महाभाष्यकारस्य इदमादिमं वाक्यम् अथ शब्दानुशासनमिति। अस्यार्थः अथेत्ययंशब्दोऽधिकारार्थः प्रयुज्यते अधिकारःप्रस्तावः प्रारम्भ इति यावत् शब्दानुशासनशब्देन च पाणिनिप्रणीतं व्याकरणशास्त्रं विवक्ष्यते शब्दानुशासनमित्येतावत्यभिधीयमाने सन्देहः स्यात् किं शब्दानुशासनं प्रस्तूयते न वेति तथा मा प्रसाङ्क्षीदित्यथशब्दं प्रायुङ्क्त अथशब्दप्रयोगबलेनार्थान्तरव्युदासेन प्रस्तूयते इत्यस्यार्थस्याभिधीयमानत्वात् अनेन हि वैदिकाः शब्दाः शन्नोदेवीरभीष्टय इत्यादयः तदुपकारिणो लौकिकाःशब्दाः गौरश्वः पुरुषो हस्तो शकुनिरित्यादयच्चानुशिष्यन्ते व्युत्पाद्य संस्क्रियन्ते प्रकृतिप्रत्ययविभागवत्तया बोध्यन्त इत्यनुशासनशब्दशासनबलात् कर्म्मण्येषा षष्ठी विधातव्या तथाच कर्म्मणि चेति समासप्रतिषेधसम्भवात् शब्दानुशासनशब्दो न प्रमाणपथमवतरतीति। अत्रायं समाधिरभिधीयते यस्मिन् कृत्प्रत्यये कर्तृ-

कर्म्मणोरुभयोः प्राप्तिरस्ति तत्र कर्म्मण्येव षष्ठीविभक्तिर्भवति न कर्त्तरीति बहुव्रीहिविज्ञानबलान्नियम्यते। तद्यथा आश्चर्य्यो मवांदोहो शिक्षितेन गोपालकेनेति कर्त्तर्य्यपि षष्ठी भवतीति केचिद्ब्रुवते अतएवोक्तंकाशिकावृत्तौकेचिदविशेषेणैव विभाषामिच्छन्ति शब्दानामनुशासनमाचार्य्येणाचार्य्यस्य वेति शब्दानामनुशासनमित्यत्र तु शब्दानामनुशासनं नार्थानामित्येतावतो विवक्षितस्यार्थस्याचार्य्यस्य कर्त्तुरुपादानेन विनापि सुप्रतिपादत्वादाचार्य्योपादानमकिञ्चित्करं तस्मादुभयप्राप्तेरभावादुभयप्राप्तौ कर्म्मणीत्येषा षष्ठी न भवति किन्तु कर्तृकर्म्मणोः कृतीति कृद्योगेकर्त्तरि कर्म्मणि च षष्ठी विभक्तिर्भवतीति कृद्योगलक्षणा षष्ठी भविष्यति तथा चेष्मप्रब्रश्चनपलाशज्ञातनादिवत् समासोभविष्यति अथवा शेषलक्षणेयं षष्ठी तत्र किमपि चोद्यं नावतरत्येव। यद्येवं तर्हि शेषलक्षणायाः षष्ठ्याः सर्व्वत्रसुवचत्वात् षष्ठीसमासप्रतिषेधसूत्राणामानर्थक्यं प्राप्नुयादिति चेत् सत्यं तेषां स्वरचिन्तायामुपयोगो वाक्यपदीये प्रादर्शि। तदाह महोपाध्यायवर्द्धमानः

लौकिकव्यवहारेषु यथेष्टं चेष्टतां जनः।
वैदिकेषु तु मार्गेषु विशेषोक्तिः प्रवर्त्तताम्॥

इति पाणिनिसूत्राणामर्थमत्राभ्यधाद्यतः।
जनिकर्त्तुरिति ब्रूते तत्प्रयोजक इत्यपीति॥

तथाच शब्दानुशासनापरनामधेयं व्याकरणशास्त्रमारब्धंवेदितव्यमिति वाक्यार्थः सम्पद्यते। तस्यार्थस्य झटिति प्रतिपत्तये

अथ व्याकरणमित्येवाभिधीयतां अथ शब्दानुशासनमित्यधिकाक्षरं मुधाभिधीयत इति मैवं शब्दानुशासनमित्यन्वर्थसमाख्योपादाने तदीयवेदाङ्गत्वप्रतिपादकप्रयोजनाख्यानसिद्धेः अन्यथा प्रयोजनानभिधाने व्याकरणाध्ययने अध्येतॄणां प्रवृत्तिरेव न प्रसजेत्। ननु निष्कारणो धर्म्मःषडङ्गो वेदोऽध्येतव्य इति अध्येतव्यत्वविधानादेव प्रवृत्तिः सेत्स्यतीति चेन्मैवंतथाविधानेऽपि तदीयवेदाङ्गत्वप्रतिपादकप्रयोजनानभिधाने तेषां प्रवृत्तेरनुपपत्तेः। तथाहि पुरा किल वेदमधीत्याध्येतारस्त्वरितं वक्तारो भवन्ति।

वेदाम्नोवैदिकाः शब्दाः सिद्धाः लोकाञ्च लौकिकाः।तस्मादनर्थकं व्याकरणमिति तस्माद्वेदाङ्गत्वं मन्यमानास्तदध्ययनेप्रवृत्तिमकार्षुः ततश्चेदानीन्तनानामपि तत्र प्रवृत्तिर्न सिद्ध्येत् सा मा प्रसाङ्क्षीदिति तदीयवेदाङ्गत्वप्रतिपादकं प्रयोजनमन्वाख्येयमेव। यद्यन्वाख्यातेऽपि प्रयोजने न प्रवर्त्तरन् तर्हि लौकिकाशब्दसंस्कारज्ञानरहितास्ते यज्ञे कर्म्मणि प्रत्यवायभाजो भवेयुः धर्म्माद्धीयेरन् अत एव याज्ञिकाः पठन्ति आहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीयां सारस्वतीमिष्टिं निर्वपेदिति अतस्तदीयवेदाङ्गत्वप्रतिपादकप्रयोजनान्वाख्यानार्थमथशब्दानुशासनमित्येव कथ्यते नाथ व्याकरणमिति। भवति च व्याकरणशास्त्रस्य प्रयोजनं तस्य तदुद्देशेन प्रवृत्तेः तस्य प्रयोजनं यथा स्वर्गोद्देशेन प्रवृत्तस्य यागस्य स्वर्गः प्रयोजनं तस्मात् शब्दानुशिष्टिः संस्कारपदवेदनीया शब्दानुशासनस्य प्रयोजनम्। नन्वे

वमप्यभिमतं प्रयोजनं न लभ्यते तदुपायाभावादथ प्रतिपदपाठ एवाभ्युपाय इति मन्येथाः तर्हि स ह्यनभ्युपायः शब्दानांप्रतिपत्तौप्रतिपदपाठो भवेत्। शब्दापशब्दभेदेनानन्याच्छब्दानामेवं हि समान्नायते बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदपाठविहितानां शब्दानां शब्दपारायणं प्रोवाच नान्तं जगाम बृहस्पतिश्च प्रवक्ता इन्द्रोऽध्येता दिव्यं वर्षसहस्रमध्ययनकालः न च पारावाप्तिरभूत् किमुताद्य यश्चिरं जीवति अधीति बोधाचरणप्रचारणैश्चतुर्भिरुपायैर्विद्योपयुक्ता भवति तत्राध्ययनकालेनैव सर्व्वमायुरुपयुक्तं स्यात्तस्मादनभ्युपायः शब्दानां प्रतिपतौप्रतिपदपाठ इति प्रयोजनं न सिद्धोदिति चेन्मैवं शब्दप्रतिपत्तेः प्रतिपदपाठमाध्यत्वानङ्गीकारात् प्रकृत्यादिविभागकल्पनावत्सु लक्ष्येषु सामान्यविशेषरूपाणां लक्षणानां पर्ज्जन्यवत् सकृदेव प्रवृत्तौ बहूनां शब्दानामनुशासनोपलम्भाच्च तथाहि कर्म्मणीत्येकेन सामान्यरूपेण लक्षणेन कर्म्मोपपदाद्धातुमात्रादण्प्रत्यये कृते कुम्भकारः काण्डलाव इत्यादीनां बहूनां शब्दानामनुशासनमुपलभ्यते एवमाताऽनुपसर्गे इति पदपाठस्याशक्यत्वप्रतिपादनपरोऽर्थवादः नन्वन्येय्वप्यङ्गेषु सत्सु किमित्येतदेवाद्रियते। उच्यते प्रधानञ्च षट्स्वङ्गेषु व्याकरणम्। प्रधाने च कृतो यत्नः फलवान् भवति। तदुक्तम्

आसन्नं ब्रह्मणस्तस्य तपसामुत्तमं तपः।
प्रथमं छन्दसामङ्गमाहुर्व्याकरणं बुधा इति॥

तस्मात् व्याकरणशास्त्रस्य शब्दानुशासनं भवति साक्षात् प्रयो-

जनं पारम्पर्य्येण तु वेदरक्षादीनि। अतएवोक्तंभगवता भाव्यकारेण रक्षोहागमलध्वसन्देहाः प्रयोजनमिति साधुशब्दप्रयोगवशादभ्युदयोऽपि भवति तथाच कथितं कात्यायनेन शास्त्रपूर्व्वके प्रयोगेऽभ्युदयस्तत्तुल्यं वेदशब्देनेति। अन्यैरप्युक्तम् एकः शब्दः सम्यक् ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके कामधुरभवतीति। तथा

नाकमिष्टसुखं यान्ति सुयुक्तैर्वद्धवाग्रशैः।
अथ पत्काषिणो यान्ति ये चीक्रमतभाषिणः॥

नन्वचेतनस्य शब्दस्य कथमीदृशं सामर्थ्यमुपपद्यत इति चेन्मैवं मन्येथाः महता देवेन साम्यश्रवणात् तदाह श्रुतिः चत्वारिशृङ्गास्त्रयो अस्य पादा द्वे शीर्षे सप्तहस्तासो अस्य त्रिधा बद्धो बृषभो रोरवीति महो देवो मर्त्याःआविवेश। व्याचकार च भाष्यकारः चत्वारि शृङ्गाणि चत्वारि पदजातानि नामाख्यातोपसर्गनिपातास्त्रयो अस्य पादाः लडादिविषयाः त्रिधा भूतभविष्यद्वर्त्तमानकालाःद्वे शीर्षे द्वौ नित्यानित्यात्मानौनित्यः कार्य्यश्च व्यङ्ग्यव्यञ्जकभेदात् सप्तहस्तामा अस्य तिङा सह सप्तसुब्विभक्तयः त्रिधा बद्धः त्रिषु स्थानेषु उरसि कण्ठे शिरसि च बद्धःवृषभ इति प्रसिद्धवृषभत्वेन रूपणं क्रियते वर्षणाद्वर्षणञ्च ज्ञानपूर्व्वकानुष्ठानेन फलप्रदत्वं रोरवीति शब्दं करोति रौतिः शब्दकर्म्माइह शब्दशब्देन प्रपञ्चो विवक्षितः महो देवो मर्त्याः आविवेश महादेवः शब्दः मर्त्यमरणधर्म्माणो मनुष्यास्तानाविवेशेति महता देवेन परेण ब्रह्मणा साम्यमुक्तंस्यादिति जग-

न्निदानं स्फोटास्यो निरवयवो नित्यःशब्दो ब्रह्मैवेति। हरिणाभाणि ब्रह्मकाण्डे

अनादिनिधनं ब्रह्म शब्दतत्त्वंयदक्षरम्।
विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो यत इति॥

ननुनामाख्यातभेदेन पदद्वैविध्यप्रतीतेः कथं चातुर्व्विध्यमुक्तमिति चेन्मैवं प्रकारान्तरस्य प्रसिद्धत्वात्। तदुक्तंप्रकीर्णके

द्विधा कैश्चित् पदं भिन्नं चतुर्द्धा पञ्चधापि वा।
अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवदिति॥

कर्म्मप्रवचनीयेन वैपञ्चमेन सह पदस्य पञ्चविधत्वमिति हेलाराजो व्याख्यातवान्। कर्म्मप्रवचनीयास्तु क्रियाविशेषोपजनितसम्बन्धावच्छेदहेतव इति सम्बन्धविशेषद्योतनद्वारेण क्रियाविशेषद्योतनादुपसर्गेष्वेवान्तर्भवंतीत्यभिसन्धाय पदचातुर्व्विध्यं भाव्यकारेणोक्तंयुक्तमिति विवेक्तव्यम्।

ननुभवता स्फोटात्मा नित्यः शब्द इति निजागद्यते तन्नमृव्यामहे तत्र प्रमाणाभावादिति केचित् अत्रोच्यते प्रत्यक्षमेवात्र प्रमाणं गौरित्येकं पदमिति नानावर्णतिरिक्तैकपदावगतेः सर्व्वजनीनत्वान्नह्यसति बाधके पदानुभवः शक्योमिथ्येति वक्तुं पदार्थप्रतीत्यन्यथानुपपत्त्यापि स्फोटोऽभ्युपगन्तव्यः न च वर्णेभ्य एव तत्प्रत्ययः प्रादुर्भवतीति परीक्षाक्षमं विकल्पासहत्वात् किं समस्ता व्यस्ता वा अर्थप्रत्ययं जनयन्ति नाद्यः वर्णानां क्षणिकानां समूहासम्भवात् नान्त्यःव्यस्तवर्णेभ्योऽर्थप्रत्ययासम्भवात् न व्याससमासाभ्यागन्यः प्रकारः समस्तीति तस्माद्वर्णानांवाच-

कत्वानुपपत्तौ यद्बलादर्थप्रतिपत्तिः स स्फोट इति वर्णतिरिक्तो वर्णाभिव्यङ्ग्योऽर्थप्रत्यायको नित्यः शब्दः स्फोट इति तद्विदो वदन्ति। अतएव स्फुट्यते व्यज्यते वर्णैरिति स्फोटो वर्णाभिव्यङ्ग्यः स्फुटीभवत्यस्मादर्थ इति स्फोटोऽर्थप्रत्यायक इति स्फोटशब्दार्थमुभयथा निराहुः। तथात्तोक्तंभगवता पतञ्जलिना महाभाष्ये अथ गौरित्यत्र कः शब्दो येनोच्चरितेन सास्नालाङ्गुलककुदखुरविषाणानां सम्प्रत्ययो भवति स शब्द इत्युच्यते इति। विवृतञ्च कैयटेन वैयाकरणावर्णव्यतिरिक्तस्य पदस्य वाचकत्वमिच्छन्ति वर्णानां वाचकत्वे द्वितीयादिवर्णोच्चारणानर्थक्यप्रसङ्गादित्यादिना तद्व्यतिरिक्तः स्फोटो नादाभिव्यङ्ग्योवाचको विस्तरेण वाक्यपदीये व्यवस्थापित इत्यन्तेन प्रबन्धेन।

ननु स्फोटस्याप्यर्थप्रत्यायकत्वं न घटते विकल्पासहत्वात् किमभिव्यक्तःस्फोटोऽर्थं प्रत्याययति अनभिव्यक्तो वा न चरमः सर्व्वदा अर्थप्रत्ययलक्षणकार्य्योत्पादप्रसङ्गात् स्फोटस्य नित्यत्वाभ्युपगमेन निरपेक्षस्य हेतोः सदा सत्त्वेन कार्य्यस्य विलम्बायोगात्। अथैतद्दोषपरिजिहीर्षया अभिव्यक्तःस्फोटोऽर्थं प्रत्याययतीति कक्षीक्रियते तथाभिव्यञ्जयन्तो वर्णाःकिं प्रत्येकमभिव्यञ्जयन्ति सम्भूय वा पक्षद्वयेऽपि वर्णानां वाचकत्वपक्षेभवता ये दोषा भाषितास्तएव स्फोटाभिव्यञ्जकत्वपक्षेव्यावर्त्तनीयाः। तदुक्तं भट्टाचार्य्यैर्मीमांसाश्लोकवार्त्तिके

यस्यानवयवः स्फोटा व्यज्यते वर्णबुद्धिभिः।
सोऽपि पर्य्यनुयोगेन नैकेनापि विमुच्यते इति॥

विभक्त्यन्तेष्वेव वर्णेषु पाणिनिना ते विभक्त्यन्ताः पदमिति नौतमेन च पदसंज्ञायाविचितत्वात् सङ्केतग्रहणेनानुग्रहवशाद्वर्णेय्वेव पदबुद्धिर्भविष्यति तर्हिसर इत्येतस्मिन् पदे यावन्तो वर्णास्तावन्त एव रम इत्यत्रापि एवं वनं नवं नदीदीना रामोमारोराजा जारेत्यादिष्वर्थभेदप्रतीतिर्न स्यादिति चेन्न क्रमभेदेनभेदसम्भवात् तदुक्तंतौतानितैः।

यावन्तो यादृशाये च यदर्थप्रतिपादने।
वर्णाःप्रज्ञातसामर्थ्यास्ते तथैवावबोधका इति॥

तस्माद्यश्चोभयोः समो दोषो न तेनैकश्चोद्योभवतीति न्यायात् वर्षानामेव वाचकत्वोपपत्तौनातिरिक्तस्फोटकल्पनाऽवकल्पते इति चेत् तदेतत् काशकुशावलम्बनकल्पनं विकल्पानुपपत्तेः किं वर्णमात्रे पदप्रत्ययावलम्बनं वर्णसमूहे वा नाद्यः परस्परविलक्षणवर्णमालायामभिन्नं निमित्तं पुष्येषु विना सूत्रंमालाप्रत्ययवदित्येकं पदमिति प्रतिपत्तेरनुपपत्तेःनापि द्वितीयः उच्चरितप्रध्वस्तानां वर्णानां समूहभावासम्भवात् तत्र हि समूह व्यपदेशः ये पदार्था एकस्मिन् प्रदेशे सहावस्थिततया बहवोऽनुभूयन्ते यथा एकस्मिन् प्रदेशे सहावस्थिततयानुभूयमानेषु धवखदिरपलाशादिषु समूहव्यपदेशः यथा वा गजनरतुरगादिषु न च ते वर्णास्तथानुभूयन्ते उत्पन्नप्रध्वस्तत्वात् अभिव्यक्तिपक्षेऽपि क्रमेणैवाभिव्यकौ समूहासम्भवात् नापि वर्णेषु काल्पनिकः समूहः कल्पनीयः परस्पराश्रयप्रसङ्गात् एकार्थप्रत्यायकत्वसिद्धौ तदुपाधिना वर्णेषु पदत्वप्रतीतिः तसिद्धावेकार्थ-

प्रत्यायकत्वसिद्धिरिति। तस्माद्वर्णानां वाचकत्वासम्भवात् स्फोटोऽभ्युपगन्तव्यः। ननु स्फोटवाचकतापक्षेऽपि प्रागुक्तविकल्पप्रसरेण घट्टकुटीप्रभातायितमिति चेत्तदेतन्मनोराज्यविजृम्भणं वैषम्यसम्भवात्। तथाहि अभिव्यञ्जकोऽपि प्रथमो ध्वनिः स्फोटमस्फुटमभिव्यनक्ति उत्तरोत्तराभिव्यञ्जकक्रमेण स्फुटं स्फुटतरं स्फुटतमं यथा स्वाध्यायःसकृत्पद्यमानो नावधार्य्यते अभ्यासेन तु स्फुटावसाथःयथा वा रत्नतत्त्वं प्रथमप्रतीतौ स्फुटं नचकास्ति चरमे चेतसि यथावदभिव्यज्यते नादैराहितवीजायामन्त्येन ध्वनिना सह। आवृत्तिपरिपाकायां बुद्धौशब्दोऽवधार्य्यत इति प्रामाणिकोक्तेः। तस्मादस्माच्छब्दादर्थं प्रतिपद्यामह इति व्यवहारवशाद्वर्णानां अर्थवाचकत्वानुपपत्तेः प्रथमे काण्डे तत्रभवद्भिर्भर्तृहरिभिरभिहितत्वात् निरवयवमर्थप्रत्यायकं शब्दतत्त्वं स्फोटाभावमभ्युपगन्तव्यमित्येतत् सर्व्वं। परमार्थसंविल्लक्षणसत्ताजातिरेव सर्व्वेषां शब्दानामर्थ इति प्रतिपादनपरे जातिसमुद्देशे प्रतिपादितम्। यदि सत्तैव सर्व्वेषां शब्दानामर्थस्तर्हि सर्व्वेषां शब्दानां पर्य्ययता स्यात् तथाच क्वचिदपि युगपत्चिचतुरपदप्रयोगायोग इति महच्चातुर्य्यमायुष्मतः। तदुक्तम्

पर्य्यायाणां प्रयोगो हि यौगपद्येन नेष्यते।
पय्यायेणैव ते यस्माद्वदन्त्यर्थं न संहता इति॥

तस्मादयं पक्षोन क्षीदक्षमइति चेत् तदेतद्गगनरोमन्थकल्पं नीललोहितपीतापरञ्जकद्रव्यभेदेन स्फटिकमणेरिव सम्बन्धिभे-

दात् सत्तावास्तदात्मना भेदेन प्रतिपत्तिसिद्धौगोवत्तादिरूपगोत्वादिभेदनिबन्धनव्यवहारवैलक्षण्योपपत्तेः। तथाचाप्तवाक्यम्

स्फटिकं विमलं द्रव्यं यथा युक्तं पृथक् पृथक्।
नीललोहितपीताद्यैस्तद्वर्णमुपलभ्यत इति॥

तथा हरिणाप्युक्तम्

सम्बन्धिभेदात् सत्तैव भिद्यमाना गवादिषु।
जातिरित्युच्यते तस्यां सर्व्वे शब्दा व्यवखिताः॥

तां प्रातिपदिकार्थञ्च धात्वर्थञ्च प्रचक्षते।
सा सत्तासा महानात्मा तामाहुस्त्वतलादय इति॥

आश्रयभूतैः सम्बन्धिभिर्भिद्यमाना कल्पितभेदा गवाश्वादिषु सत्तैव महासामान्यमेव जातिः गोत्वादिकमपरं सामान्यं परमार्थतस्ततो भिन्नं न भवति गोसत्तैव गोत्वं नापरमन्वयि प्रतिभासते एवमश्वसत्ताअश्वत्वमित्यादि वाच्यम्। एवञ्च तस्यामेव गवादिभिन्नायां सत्तायां जातौसर्व्वेगोशब्दादयो वाचकत्वेन व्यवस्थिता प्रातिपदिकार्थश्च सत्तेति प्रसिद्धम्। भाववचनो धातुरिति पक्षे भावः सत्तैवेति धात्वर्थः सत्ताभवत्येव क्रियावचनो धातुरिति पक्षेऽपि जातिमन्ये क्रियामाहुरनेकव्यक्तिवर्त्तिनीमिति जातिपदार्थनयानुसारेणानेकव्यक्तिक्रियासमुद्देशे क्रियाया जातिरूपत्वप्रतिपादनात् धात्वर्थः सत्ता भवत्येव तस्यभावस्त्वतलाविति भावार्थे त्वतलादीनां विधानात् सत्तावाचित्वं युक्तं सा च सत्ता उदयव्ययवैधुर्य्यन्नित्या सर्व्वस्य प्रपञ्चस्य तद्विवर्त्ततयादेशतः कालतो वस्तुतश्च परिच्छेदराहित्यात् सा सत्ता

महानात्मेति व्यपदिश्वत इति कारिकाद्वयार्थः। द्रव्यपदार्थसंविल्लक्षणं तत्त्वमेव सर्व्वशब्दार्थ इति सम्बन्धसमुद्देशेसमर्थितम्

सत्यं वस्तु तदाकारैरसत्यैरवधार्यते।
असत्योपाधिभिः शब्दैःसत्यमेवाभिधीयते॥

अध्रुवेण निमित्तेन देवदत्तगृहं यथा।
गृहीतं गृहशब्देन शुद्धमेवाभिधीयते इति॥

भाष्यकारेणापि सिद्धे शब्दार्थसम्बन्ध इत्येतद्वार्त्तिकव्याख्यानावसरे द्रव्यं हि नित्यमित्यनेन ग्रन्थेन अश्वत्थोपाध्यवच्छित्रं ब्रह्मतत्त्वं द्रव्यशब्दवाच्यं सर्व्वशब्दार्थं इति निरूपितम्। जातिशब्दार्थवाचिनो वाजप्यायनस्य मते गवादयः शब्दा भिन्नद्रव्यसमवेतजातिमभिदधति तस्यामवनाह्यमानायां तत्सम्बन्धात् द्रव्यमवगम्यते शुक्लादयः शब्दा गुणसमवेतां जातिमाचक्षते गुणे तत्सम्बन्धात् प्रत्ययः द्रव्यसम्बन्धिसम्बन्धात् संज्ञाशब्दानामुत्पत्तिप्रभृत्याविनाशात् शैशव्यकौमारयौवनाद्यवस्थादिभेदेऽपि स एवायमित्यभिप्रत्यचबलात् सिद्धा देवदन्तत्त्वादिजातिरभ्युपमन्तव्या क्रियास्वपि जातिरालक्ष्यते सैव धातुवाच्या पठतीत्यादावनुवृत्तप्रत्ययस्यप्रादुर्भावात्। द्रव्यपदार्थवादिव्याडिनये शब्दस्य व्यक्तिरेवाभिधेयतया प्रतिभासते जातिस्तूपलक्षणतयेति नानन्त्यादिदोषावकाशः। पाणिन्याचार्य्यस्योभयं सम्मतं यतो जातिपदार्थमभ्युपगम्य जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्यामित्यादिव्यवहारः द्रव्यपदार्थमङ्गीकृत्य सरूपाणामेकशेष एकविभक्तावित्यादिः व्याकरणस्य सर्व्वपार्षदत्वान्मतद्वयाभ्युपगमे न

कश्चिद्विरोधः। तस्मात् द्वयं सत्यं परं ब्रह्मतत्त्वं सर्व्वशब्दार्थ इति स्थितम्। तदुक्तम्

तस्माच्छक्तिविभागेन सत्यः सर्व्वः सदात्मकः।
एकोऽर्थः शब्दवाच्यत्वे बहुरूपः प्रकाशत इति॥

सत्यस्वरूपमपि हरिणोक्तं सम्बन्धसमुद्देशे

यत्र द्रष्टा च दृश्यञ्च दर्शनञ्चाविकल्पितम्।
तस्यैवार्थस्य सत्यत्वमाहुस्त्रय्यन्तवेदिन इति॥

द्रव्यसमुद्देशेऽपि।

विकारोपगमे सत्यं सुवर्णं कुण्डले यथा।
विकारापगमो यत्र तामाहुःप्रकृतिं परामिति॥

अभ्युपगताद्वितीयत्वनिर्व्वाहाय वाच्यवाचकयोरविभागः प्रदर्शितः

वाच्या सा सर्व्वशब्दानां शब्दाच्च न पृथक् ततः।
अपृथक्तेऽपि सम्बन्धस्तयोर्नानात्मनोरिवेति॥

तत्तदुपाधिपरिकल्पितभेदबहुलतथा व्यवहारस्याविद्यामात्रकल्पितत्वेन प्रतिनियताकारोपधीयमानरूपभेदं ब्रह्मतत्त्वं सर्व्वशब्दविषयः अभेदे च पारमार्थिके संवृतिवशाद्व्यवहारदशायांस्वप्नावस्थावदुच्चावचः प्रपञ्चो विवर्त्तत इति कारिकार्थः। तदाहुर्वेदान्तवादनिपुणाः।

यथा स्वप्नप्रपञ्चोऽयं मयि मायाविजृम्भितः।
एवं जाग्रत् प्रपञ्चोऽपि मयि मायाविजृम्भित इति।

तदित्थं कूटस्थे परस्मिन् ब्रह्मणि सच्चिदानन्दरूपे प्रत्यग-

भिन्नेऽवगते अनाद्यविद्यानिवृत्तौ तादृग्ब्रह्मात्मनावस्थानलक्षणां निःश्रेयसं सेत्स्यतिशब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छतीत्यभियुक्तोक्तेः। तथाच शब्दानुशासनशास्त्रस्य निःश्रेयससाधनत्वं सिद्धम्। तदुक्तम्

तद्द्वारमपवर्गस्य वाङ्मलानां चिकित्सितम्।
पवित्रं सर्व्वविद्यानामधिविद्यं प्रचक्षत इति॥

तथा।

इदमाद्यं पदस्थानं सिद्धिसोपानपर्व्वणाम्।
इयं सा मोक्षमार्गाणामजिह्वा राजपद्धतिरिति॥

तस्माद्व्याकरणशास्तं परमपुरुषार्थसाधनतयाध्येतव्यमिति सिद्धम्।

इति सर्व्वदर्शनसंग्रहे जैमिनिदर्शनम्॥
____________