१३ जैमिनिदर्शनम्

ननुधर्म्मानुष्ठानवशादभिमतधर्म्मसिद्धिरिति जेगीयते भवता। तत्र धर्म्मः किंलक्षणकः किंप्रमाणक इति चेत् उच्यत श्रूयतामवधानेन अस्य प्रश्नस्य प्रतिवचनं प्राच्यां मीमांसायां प्रादर्शि जैमिनिना मुनिना। सा हि मीमांसा द्वादशलक्षणी तत्र प्रथमेऽध्याये विध्यर्थवादमन्त्रस्मृतिनामधेयार्थकस्य शब्दराशेः प्रामाण्यम्। द्वितीये कर्म्मभेदोपोद्वातप्रमाणापवादप्रयोगभेदरूपोऽर्थः। तृतीये श्रुतिलिङ्गवाक्यादिविरोधप्रतिपत्तिकर्म्मानारभ्याधीतबहुप्रधानोपकारकप्रयाजादियाजमानचिन्तनम्। चतुर्थे प्रधानप्रयोजकत्वाप्रधानप्रयोजकत्वजूहूपर्णतादिफलराजसूयगतजघन्याङ्गाक्षद्यूतादिचिन्ता। पञ्चमे श्रुत्यादिक्रम तद्विशेषवृद्ध्यवर्द्धनप्राबल्यदौर्बल्यचिन्ता। षष्ठे अधिकारितद्धर्म्मद्रव्यप्रतिनिध्यर्थलोपनप्रायश्चित्तसत्रदेयवह्निविचारः। सप्तमे प्रत्यक्षावचनातिदेशेषु नामलिङ्गातिदेशविचारः।अष्टमे स्पष्टास्यष्टप्रबललिङ्गातिदेशापवादविचारः। नवमे ऊहविचारारम्भ सामोहमन्त्रोहतत्प्रसङ्गागतविचारः। दशमे वाधहेतुद्वारलोपविस्तारबाधकारणकार्य्यैकत्वग्रहादिसामप्रकीर्णनञर्थविचारः। एकादशे तन्त्रोपोद्वाततन्त्रावापतन्त्रप्रपञ्चनावापप्रपञ्चनचिन्तनानि। द्वादशे प्रसङ्गतन्त्रनिर्णयसमुच्चयविकल्पविचारः।

तत्राथातो धर्म्मजिज्ञासेति प्रथममधिकरणं पूर्व्वमीमांसारम्भोपपादनपरम्। अधिकरणञ्च पञ्चावयवमाचक्षते परीक्षकाः। ते च पञ्चावयवाः विषयसंशयपूर्व्वपक्षसिद्धान्तसङ्गतिरूपाः। तत्राचार्य्यमतानुसारेणाधिकणं निरूप्यते। स्वाध्यायोऽध्येतव्य

इत्येतद्वाक्यं विषयः। चोदनालक्षणोऽर्थे धर्म्माइत्यारभ्यान्वाहार्य्ये च दर्शनादित्येतदन्तं जैमिनीयं धर्म्मशास्त्रमनारभ्यमारभ्यं वेति सन्देहः। अध्ययनविधेरदृष्टार्थदृष्टार्थत्वाभ्यां तत्रानारभ्यमिति पूर्व्वः पक्षः। अध्ययनविधेरर्थावबोधलक्षणदृष्टफलकत्वानुपपत्तेरर्थावबोधार्थमध्ययनविधिरिति वदन् वादी प्रष्टव्यः किमत्यन्तमप्राप्तमध्ययनं विधीयते किं वा पाक्षिकमवघातवन्नियम्यत इति। न तावदाद्यः विवादपदं वेदाध्ययनमर्थावबोधहेतुः अध्ययनत्वाद्भारताध्ययनवदित्यनुमानेन विध्यनपेक्षतया प्राप्तत्वात्। अस्तु तर्हि द्वितीयः यथा नखविदलनादिना तण्डुलनिष्पत्तिसम्भवात् अवघातनिष्पन्नैरेव तण्डुलैःपिष्टपुरोडाशादिकरणे अवान्तरापूर्व्वद्वारा दर्शपूर्णमासौपरमापूर्व्वमुत्यादयतः नापरथा अतः अपूर्व्वमवघातस्य नियमहेतुः प्रकृते लिखितपाठजन्येनाध्ययनजन्येन वार्थावबोधेन क्रत्वमुष्ठानसिद्धेरध्ययनस्य नियमहेतुर्नास्त्येव तस्मादर्थावबोधहेतुविचारशास्तस्य वैधत्वं नास्तीति तर्हि श्रूयमाणस्य विधेः का गतिरिति चेत् स्वर्गफलकोऽक्षरग्रहणमात्रविधिरिति भवान् परितुष्यतु विश्वजिन्यायेनाश्रुतस्यापि स्वर्गस्य कल्पयितुं शक्यत्वात् यथा स स्वर्गः सर्व्वान् प्रत्यविशिष्टत्वादिति विश्वजित्यश्रुतमप्यधिकारिणं सम्पादयता तद्विशेषणं स्वर्गः फलं युक्त्वा निरणायि तद्वदध्ययनेऽप्यस्तु। तदुक्तम्

विनापि विधिनादृष्टलाभान्न हि तदर्थता।
कल्प्यस्तु विधिसामर्थ्यात् स्वर्गोविश्वजिदादिवदिति॥

एवञ्च सति वेदमधीत्य स्नायादिति स्मृतिरनुगृहीता भवति। अत्रहि वेदाध्ययनसमावर्त्तनयोरव्यवधानमवगम्यते। तावके मते त्वधीतेऽपि वेदे धर्म्मविचाराय गुरुकुले वस्तव्यं तथा सत्यव्यवधानं बाध्येत तस्माद्विचारशास्त्रस्य वैधत्वाभावात् पाठमात्रेण स्वर्गसिद्धेः समावर्त्तनशास्त्राच्च धर्म्मविचारशास्त्रमनारम्भणीयमिति पूर्व्वपक्षसङ्क्षेपः। सिद्धान्तस्त्वन्यतः प्राप्तत्वादप्राप्तविधित्वं मास्तु नियमविधित्वपक्षस्तु वज्रहस्तेनापि नापहस्तयितुं पार्य्यते। तथा हि स्वाध्यायोऽध्येतव्य इति तथ्यप्रत्ययःप्रेरणापरपर्य्यायां पुरुषप्रवृत्तिरूपार्थभावनाभाव्यामभिधाभावनां प्रत्याययति सा ह्यर्थभावनासहितमनुबद्धं भाव्यमाकाङ्क्षति न तावत्समानपदोपात्तमध्ययनभाव्यं परिरभते। अध्ययनशब्दार्थस्य स्वाधीनोच्चारणक्षमत्वस्य वाङ्मनसव्यापारस्य क्लेशार्थकस्य भाव्यत्वासम्भवात्। नापि समानवाक्योपात्तःस्वाध्यायः स्वाध्यायशब्दार्थस्य वर्णराशेर्नित्यत्वेन विभुत्वेन चोत्यत्त्यादीनां चतुर्णां क्रियाफलानामसम्भवात्। तस्मात् सामर्थ्यप्राप्तोऽवबोधो भाव्यत्वेनावतिष्ठते। अर्थी समर्थोविद्वानधिक्रियत इति न्यायेन दर्शपूर्णमासादिविषयावबोधमवेक्षमाणाः तत्त्वबोधे स्वाध्यायं विनियुञ्जते। अध्ययनविधिश्च लिखितपाठादिव्यावृत्त्या अध्ययनसंस्कृतत्वं स्वाध्यायस्यावगमयति तथाच यथा दर्शपूर्णमासादिजन्यं परमापूर्व्वम् अवघातादिजन्यस्यावान्तरापूर्व्वस्य कल्पकं तथा समस्तक्रतुजन्यमपूर्व्वजातं क्रतुज्ञानसाधनाध्ययननियमजन्यमपूर्व्वंकल्पयिष्यति नियमादृष्टानिष्टौविधिश्रवण वैफल्यमापद्येत न च

विश्वजिन्न्यायेन फलकल्पनावकल्प्यते अर्थावबोधे दृष्टे फले सति फलान्तरकल्पनायाः अयोगात्। तदुक्तम्

लभ्यमाने फले दृष्टे नादृष्टफलकल्पना।
विधेस्तु नियमार्थत्वान्नानर्थक्यं भविष्यतीति॥

ननु वेदमात्राध्यायिनोऽर्थावबोधानुदयेऽपि साङ्गवेदाध्यायिनः पुरुषस्यार्थावबोधसम्भवात् विचारशास्त्रस्य वैफल्यमिति चेत्तसमञ्जसं बोधमात्रसम्भवेऽपि निर्णयस्य विचाराधीनत्वात्।तद्यथा अक्ताः शर्करा उपदधातीत्यत्रघृतेनैव न तैलादिनेत्यर्थनिर्णयो व्याकरणेन निगमेन निरुक्तेन वा न लभ्यते विचारशास्त्रेण तु तेजो वै घृतमिति वाक्यशेषवशादर्थनिर्णयो लभ्यते। तस्माद्विचारशास्त्रस्य वैधत्वं सिद्धम्। न च वेदमधीत्य स्नायादिति शास्त्रं गुरुकुलनिवृत्तिपरं व्यवधानप्रतिबन्धकं बाध्येतेति मन्तव्यं स्नात्वा भुङ्क्ते इतिवत् पूर्व्वापरीभावसमानकर्तृकत्वमात्रप्रतिपत्त्या अध्ययनसमावर्त्तनयोर्नैरन्तर्य्याप्रतिपत्तेः। तस्माद्विधिसामर्थ्यादेवाधिकरणसहस्रात्मकं पूर्व्वमीमांसाशास्त्रमारम्भनीयम्। इदं चाधिकरणं शास्त्रेणोपोद्वातत्वेन सम्बध्यते। तदाह

चिन्तां प्रकृतसिद्ध्यर्थामुपाद्घातं प्रचक्षत इति।

इदमेवाधिकरणं गुरुमतमनुसृत्योपन्यस्यते। अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीतेत्यत्राध्यापनं नियोगविषयः प्रतिभासते नियोगश्च नियोज्यमपेक्षते कश्चात्र नियोज्य इति चेदाचार्य्यककाम एव सम्माननेत्यादिना पाणिन्यनुशासनेनाचार्य्यके गम्य-

मानेनयतेर्धातोरात्मनेपदस्य विधानात् उपनयने यो नियोज्यः स एवाध्यापनेऽपि तयोरेकप्रयोगत्वात्। अतएवोक्तं मनुना मुनिना

उपनीय तु यः शिष्यंवेदमध्यापयेद्द्विजः।
साङ्गञ्चसरहस्यञ्च तमाचार्य्यंप्रचक्षत इति॥

ततश्चाचार्य्यकर्तृकमध्यापनं माणवककर्तृकेणाध्ययनेन विना न सिद्ध्यतीत्यध्यापनविधिप्रयुक्त्यैवाध्ययनानुष्ठानं सेत्स्यति प्रयोज्य व्यापारमन्तरेण प्रयोजकव्यापारस्यानिर्वाहात्। तर्ह्यध्येतव्य इत्यस्य विधित्वं न सिद्ध्यतीति चेन्मासैत्सीत् का नो हानिः पृथगध्ययनविधेरभ्युपगमे प्रयोजनाभावाद्विधित्वस्य नित्यानुवादत्वेनाप्युपपत्तेः। तस्मादध्ययनविधिमुपजीव्य पूर्व्वमुपन्यस्तौ पूर्व्वोप्तरपक्षौ प्रकारान्तरेण प्रदर्शनीयौ विचारशास्त्रमवैधत्वेनानारम्यव्यमिति पूर्व्वपक्षःवैधत्वेनारब्धव्यमिति राद्धान्तः। तत्र वैधत्वं वदता वदितव्यं किमध्यापनविधिर्माणवकस्यार्थावबोधमपि प्रयुङ्क्ते किं का पाठमात्रं नाद्यः विनाप्यर्थावबोधेनाध्यापनसिद्धेः न द्वितीयः पाठमात्रे विचारस्यविषयप्रयोजनयोरसम्भवादापाततः प्रतिभातः सन्दिग्धोऽर्थो विचारत्रास्त्रविषयो भवति। तथा सति यत्रार्थावगतिरेव नास्ति तत्र सन्देहस्य का कथा विचारफलस्य निर्णयस्य प्रत्याशा दूरत एव। तथाच यदसन्दिग्धं प्रयोजनं तत्प्रेक्षावत्प्रतिपित्सागोचरः यथासमनस्केन्द्रियसन्निकृष्टः स्पष्टालोकमध्यमध्यासीनो घट इति न्यायेन विषयप्रयोजनयोरसम्भवेन विचारशास्त्रम-

नारभ्यमिति पूर्व्वः पक्षः अध्यापनविधिनार्थावबोधो मा प्रयोजि तथापि साङ्गवेदाध्यायिनो गृहीतपदपदार्थसङ्गतिकस्य पुरुषस्य पौरुषेयेष्विव प्रबन्धेषु आम्नायेऽप्यर्थावबोधः प्राप्नोत्येव। ननु यथा विषं भुङ्क्षेत्यत्रप्रतीयमानोऽप्यर्थोन विवक्षते मास्य गृहे भुङथा इति भोजनप्रतिषेधस्य मातृवाक्यविषयत्वात् तथाम्नायार्थस्याविवक्षायां विषयाद्यभावदोषःप्राचीनः प्रादुःस्यादिति चेन्मैतं वोक्षः दृष्टान्तदार्ष्टान्तिकयोर्वैषम्बसम्भवात् विषभोजनवाक्यस्याप्तप्रणीतत्वेन मुख्यार्थपरिग्रहे बाधः स्यादिति विवक्षा नाश्रीयते अपौरुषेये तु वेदे प्रतीयमानार्थः कुतो न विवक्ष्यते विवक्षिते च वेदार्थे यत्र यत्र पुरुषस्य सन्देहः स सर्व्वोऽपि विचारशास्त्रस्य विषयो भविष्यति तन्निर्णयश्चप्रयोजनं तस्मादध्यापनविधिप्रयुक्तेनाध्ययनेनावगम्यमानस्यार्थस्य विचारार्हत्वाद्विचारशास्त्रस्य वैधत्वेन विचारशास्त्रमारम्भणीयमिति राद्धान्तसंग्रहः।

स्यादेतत् वेदस्य कथमपौरुषेयत्वमभिधीयते तत्प्रतिपादकप्रमाणाभावात् कथं मन्येथाः अपौरुषेयाः वेदाः सम्प्रदायाविच्छेदे सत्यस्मर्य्यमाणकर्तृकत्वादात्मवदिति तदेतन्मन्दं विशेषणासिद्धेः पौरुषेयवेदवादिभिः प्रलये सम्प्रदायविच्छेदस्य कक्षीकरणात्। किञ्च किमिदमस्मर्य्यमाणकर्तृकत्वं नाम अप्रतीयमानकर्तृकत्वमस्मरणगोचरकर्तृकत्वं वा न प्रथमः कल्पः परमेश्वरस्य कर्त्तुः प्रमितेरभ्युपगमात् न द्वितीयः विकल्पासहत्वात् तथाहि किमेकेनास्मरणमभिप्रेयते सर्व्वैर्वानाद्यः यो धर्म्मशीलो

जितमानरोष इत्यादिषु मुक्तकोक्तिषु व्यभिचारात् न द्वितीयः सर्व्वास्मरणस्य असर्व्वज्ञदुर्ज्ञानत्वात् पौरुषेयत्वे प्रमाणसम्भवाच्च वेदवाक्यानि पौरुषेयाणि वाक्यत्वात् कालिदासादिवाक्यवत् वेदवाक्यान्याप्तप्रणीतानि प्रमाणत्वेसति वाक्यत्वात् मन्वादिवाक्यवदिति। ननु

वेदस्याध्ययनं सर्व्वं गुर्व्वध्ययनपूर्व्वकम्।
वेदाध्ययनसामान्यादधुनाध्ययनं यथा

इत्यनुमानं प्रतिसाधनं प्रगल्भत इति चेत्तदपि न प्रमाणकोटिं प्रवेष्टुमीष्टे

भारताध्ययनं सर्व्वंगुर्व्वध्ययनपूर्व्वकम्।
भारताध्ययनत्वेन साम्प्रताध्ययनं यथेति

आभाससमानयोगक्षेमत्वात्। ननु तत्र व्यासः कर्त्तेति स्मर्य्यते

को ह्यन्यः पुण्डरोकाक्षात् महाभारतकृद्भवेत्

इत्यादाविति चेत्तदसारम्

ऋचः सामानि जज्ञिरे।
छन्दांसि जज्ञिरे तस्माच्चजुतस्मादजायत इति

पुरुषसूक्ते वेदस्य स कर्तृकताप्रतिपादनात्। किञ्चानित्यः शब्दः सामान्यवत्त्वे सति अस्मदादिवाह्मेन्द्रियग्राह्यत्वाद्वटवत्। नन्विदमनुमानं सएवायं गकार इति प्रत्यभिज्ञाप्रमाणप्रतिहतमिति
चेत् तदतिफल्गु लूनपुनर्जातकेशदलितकुन्दादाविव प्रत्यभिज्ञायाः सामान्यविषयत्वेन बाधकत्वाभावात्। नन्वशरीरस्य परमेश्वरस्य ताल्वादिस्थानाभावेन वर्णोच्चारणासम्भवात् कथं तत्-

प्रणीतत्वं वेदस्य स्यादिति चेन्न तद्भद्रं स्वभावतोऽशरीरस्यापि तस्य भक्तानुग्रहार्थं लीलाविग्रहग्रहणसम्भवात्। तस्माद्वेदस्यापौरुषेयत्यवाचोयुक्तिर्न युक्तेति चेत् तत्र समाधानमभिधीयते किमिदं पौरुषेयत्वं सिसाधयिषितं पुरुषादुत्पन्नत्वमात्रं यथा अस्मदादिभिरहरहरुच्चार्य्यमाणस्य वेदस्य प्रमाणान्तरेणार्थमुपलभ्य तत्प्रकाशनाय रचितत्वं वा यथा अस्मदादिभिरेव निबध्यमानस्य प्रबन्धस्य प्रथमे न विप्रतिपत्तिः चरमे किमनुमान बलात् तत्साधनमागमबलाद्वानाद्यः मालतीमाधवादिवाक्येषु सव्यभिचारत्वात्। अथ प्रमाणत्वेसतीति विशिष्यत इति चेत्तदपि न विपश्चितो मनसि वैशद्यमापद्यते प्रमाणान्तरागोचरार्थप्रतिपादकं हि वाक्यं वेदवाक्यं तत्प्रमाणान्तरगोचरार्थ प्रतिपादकमिति साध्यमाने मम माता बन्ध्येतिवत् व्याघाताप्रातात्। किञ्च परमेश्वरस्य लीलाविग्रहपरिग्रहाभ्युपगमेऽप्यतीन्द्रियार्थदर्शनं न सञ्जाघटीति देशकालस्वभावविप्रकृष्टार्थ ग्रहणोपायाभावात्। न च तच्चक्षुरादिकमेव तादृक्प्रतीति जननक्षममिति मन्तव्यं दृष्टानुसारेणैव कल्पनाया आश्रणीयत्वात्। तदुक्तं गुरुभिः सर्व्वज्ञनिराकरणवेलायाम्

यत्राप्यतिशयो दृष्टः स स्वार्धानतिलङ्घनात्।
दूरसूक्ष्मादिदृष्टौस्यान्न रूपे श्रोत्रवृत्तितेति॥

अतएव नागमबलात्तत्साधनं तेन प्रोक्तमिति पाणिन्यनुशासने जाग्रत्यपि काठककालापतैत्तिरीयमित्यादिसमाख्या अध्ययनसम्प्रदायप्रवर्त्तकविषयत्वेनोपपद्यते तद्वदत्रापि सम्प्रदाय-

प्रवर्त्तकविषयत्वेनाप्युपपद्यते न चानुमानवलाच्छब्दस्यानित्यत्व सिद्धिः प्रत्यभिज्ञाविरोधात्। न चासत्यप्येकत्वेसामान्यनिवन्धनं तदिति साम्प्रतं सामान्यनिबन्धनत्वमस्य बलवद्बाधकोपनिपातादास्वीयते। क्वचिद्व्यभिचारदर्शनाद्वा तत्र क्वचिद्व्यभिक्षारदर्शने तदुत्प्रेक्षायामुक्तं स्वतः प्रामाण्यवादिभिः

उत्प्रेक्षेत हि यो मोहादज्ञातमपि बाधनम्।
स सर्व्वव्यवहारेषु संशयात्मा विनश्यतीति॥

नन्विदं प्रत्यभिज्ञानं गत्वादिजातिविषयं न गादिव्यतिविषयं तासां प्रतिपुरुषं भेदोपलम्भादन्यथा सोमज्ञर्म्माधीते इति विभागो न स्यादिति चेत्तदपि शोभां न बिभर्त्ति गादिव्यक्तिभेदे प्रमाणाभावेन गत्वादिजातिविषयकल्पनायां प्रमाणाभावात्। यथा गत्वमजानत एकमेव भिन्नदेशपरिमाणसंस्थानव्यक्त्युपधानवशात् भिन्नदेशमिवाल्पमिव महदिव दीर्घमिव वामनमिव प्रथते तथा गव्यक्तिमजानत एकापि व्यञ्जकभेदात् तत्तद्धर्म्मानुबन्धिनी प्रतिभासते। एतेन विरुद्धधर्म्माध्यासात् भेदप्रतिभास इति प्रत्युक्रम्। तत्रकिं स्वाभाविको विरुद्धधर्म्माध्यासो भेदयाधकत्वेनाभिमतः प्रातीतिको वा प्रथमे असिद्धिःअपरथा स्वाभाविकभेदाभ्युपगम दश गकारानुचारयच्चैत्रइति प्रतिपत्तिः स्यात् नतु दशकृत्वो नकार इति। द्वितीये तु न स्वाभाविक भेदसिद्धिः न हि परोपाधिभेदेन स्वाभाविकमैक्यांविहन्यते। माभूत् नभसोऽपि कुम्भाद्युपाधिभेदात् स्वाभाविको भेदस्तत्र व्यावृतव्यवहारो नादविदानः। तदुक्तमाचार्य्यैः

प्रयोजनन्तु यज्जातेस्तद्वर्णादेव लस्यते।
व्यक्तिलभ्यन्तु नादेभ्य इति गत्वादिधीर्वृथेति॥

तथाच। प्रत्यभिज्ञा यदाशब्दे जागर्त्ति निरवग्रहा।
अनित्यत्वानुमानानि सैव सर्व्वाणि बाधते॥

एतेनेदमपास्तम्। यदवादि वागीश्वरेण मानमनोहरे अनित्यः शब्दः इन्द्रियविशेषगुह्यत्वाच्चक्षुरूपवदिति। शब्दद्रव्यत्ववादिनां प्रत्यक्षसिद्धेः ध्वन्यंशे सिद्धसाधनत्वाच्च अश्रावणत्वोपाधिबाधितत्याच्च। उदयनस्तु आश्रयाप्रत्यक्षत्वेऽप्यभावस्य प्रत्यक्षतां महता प्रबन्धेन प्रतिपादयन् निवृत्तः कोलाहलः उत्पन्नः शब्द इति व्यवहाराचरणे कारणं प्रत्यक्षं शब्दानित्यत्वे प्रमाणयति स्म।सोऽपि विरुद्धधर्म्मसंसर्गस्य औपाधिकत्वोपपादनन्यायेन दत्तरक्तवलिनेव तालः समापोहि। नित्यत्वे सर्व्वदोपलब्ध्यनुपलब्धिप्रसृङ्गो वो न्यायभूषणकारोक्तः सोऽपि ध्वनिसंस्कृतस्योपलम्भाभ्युपगमात् प्रतिक्षिप्तः। यत्तुयुगपदिन्द्रियसम्बन्धिलेन प्रतिनियतसंस्कारकसंस्कार्य्यभावानुमानं तदात्मन्यनैकान्तिकमसति कलकले ततश्चवेदस्यापौरुषेयतया निरस्तसमस्तशङ्काकलङ्काङ्कुरत्वेन स्वतः सिद्धं धर्म्मेप्रामाण्यमिति सुस्थितम्।

स्यादेतत्

प्रमाणत्वाप्रमाणत्वे स्वतः साङ्ख्याः समाश्रिताः।
नैयायिकास्ते परतः सौगताञ्चरमं स्वतः॥

प्रथमं परतः प्राहुःप्रामाण्यंवेदवादिनः।
प्रमाणत्वं स्वतः प्राहुःपरतश्चाप्रमाणतामिति

वादिविवाददर्शनात् कथंकारं स्वतः सिद्धं धर्म्मप्रामाण्यमिति सिद्धवत्कृत्य स्वीक्रियते। किञ्च किमिदं स्वतः प्रामााण्यं नाम किं स्वत एव प्रामाण्यस्य जन्म आहोस्वित् स्वाश्रयज्ञानजन्यत्वं किमुत स्वाश्रयज्ञानसामग्रीजन्यत्वमुताहो ज्ञानसामग्रीजन्यज्ञानविशेवाश्रितत्वं किंवा ज्ञानसामग्रीमात्रजन्यज्ञानविशेषाश्रितत्वम्। तत्राद्यःसावद्यःकार्य्यकारणभावस्य भेदसमानाधिकरणत्वेनैकस्मिन्नसम्भवात् नापि द्वितीयः गुणस्य सतो ज्ञानस्य प्रामाण्यं प्रति समवायिकारणतया द्रव्यत्वापातात् नापि तृतीयःप्रामास्यस्योपाधित्वेजातित्वेवा जन्मायोगात् स्मृतित्वानधिकरणस्यज्ञानस्य बाधात्यन्ताभावः प्रामाण्योपाधिः न च तस्योत्यत्तिसम्भवः अत्यन्ताभावस्य नित्यत्वाभ्युपगमादतएव न जातेरपि जनिर्युज्यते नापि चतुर्थः ज्ञानविशेषो ह्यप्रमा विशेषसामग्र्याञ्च सामान्यसामग्री अनुप्रविशति शिंशपासामग्र्यामिव वृक्षसामग्री अपरथा तस्याकस्मिकत्वम्प्रसजेत्तस्मात् परतस्त्वेन स्वीकृताप्रामाण्यं विज्ञानसामग्रीजन्याश्रितमित्यतिव्याप्तिरापद्येत। पञ्चमविकल्पं विकल्पयामः किं दोषाभावसहकृतज्ञानसामग्रीजन्यत्वमेव ज्ञानसामग्रीमात्रजन्यत्वं किं दोषाभावासहकृतज्ञानसामग्रीजन्यत्वं नाद्यः दोषाभावसहकृतज्ञानसामग्रीजन्यत्वमेव परतः प्रामाण्यमिति परतः प्रामाण्यवादिभिरुररीकरणात् नापि द्वितीयः दोषाभावसहकृतत्वेन सामय्यां सहकृतत्वे सिद्धे अनन्यथासिद्धान्वयव्यतिरेकसिद्धतया दोषाभावस्य कारणताया वज्रलेपायमानत्वात् अभावः कारणमेव न भव-

तीति चेत्तदा वक्तव्यम् अभावस्य कार्य्यत्वमस्ति न वा यदि नास्तितदा पटप्रध्वंसानुपपत्त्या नित्यताप्रसङ्गः अथास्ति किमपराद्धं कारणत्वेनेति सेयमुभयतःपाशा रज्जुः। तदुदितमुदयनेन

भावो यथा तथाभावः कारणं कार्य्यवन्मत इति।

तथाच प्रयोगः विमता प्रमा ज्ञानहेत्वतिरिक्तहेत्वधीना कार्य्यत्वे सति तद्विशेषत्वात् अप्रमावत् प्रामाण्यं परतो ज्ञायतेअनभ्यासदशायां सांशयिकत्वात् अप्रामाण्यवत् तस्मादुत्पत्तौ ज्ञप्तौच परतस्त्वे प्रमाणसम्भवात् स्वतः सिद्धं प्रामाण्यमित्येतत्पूतिकुष्माण्डायत इति चेत् तदेतदाकाशमुष्टिहननायते। विज्ञानसामग्रीजन्यत्वे सति तदतिरिक्तहेत्वजन्यत्वं प्रमायाः स्वस्त्वमिति निरुक्तिसम्भवात् अस्ति चात्रानुमानं विमता प्रमा विज्ञानसामग्रीजन्यत्वे सति तदतिरिक्तजन्या न भवति अप्रमात्वानधिकरणत्वात् घटादिवत् न चौदयनमनुमानं परतस्त्वसाधकमिति शङ्कनीयं प्रमा दोषव्यतिरिक्तज्ञानहेत्वतिरिक्तजन्या न भवति ज्ञानत्वादप्रमावदिति प्रतिसाधनग्रहग्रस्तत्वात् ज्ञानसामग्रीमात्रादेव प्रमोत्पत्तिसम्भवे तदतिरिक्रस्य गुणस्य दोषाभावस्य वा कारणत्वकल्पनायां कल्पनागौरवप्रसङ्गाच्च। ननुदोषस्याप्रमाहेतुत्वेन तदभावस्य प्रमां प्रति हेतुत्वं दुर्निवारमिति चेत् न दोषाभावस्याप्रमाप्रतिबन्धकत्वेनान्यथासिद्धत्वात्

तस्माद्गुणेभ्यो दोषाणामभावस्तदभावतः।
अप्रामाण्यद्वयासत्त्वं तेनोत्सर्गे नयोदित इति॥

तथा प्रमाज्ञप्तिरपि ज्ञानज्ञापकसामग्रीत एव जायते। न च

संज्ञयानुदथप्रसङ्गो बाधक इति वक्तुं वक्तुंसत्यपि प्रतिभासपुष्कलकारणे प्रतिबन्धकदोषादिसमवधानात् तदुपपत्तेः। किञ्च तावकमनुमानं स्वतः प्रमाणंन वा आद्ये अनैकान्तिकता द्वितीये तस्यापि परतः प्रामाण्यमेवं तस्य तस्यापीत्यनवत्वादुरवस्था स्यात्। यदत्र कुसुमाञ्चलावुदयनेन झटिति प्रचुरप्रवृत्तेः प्रामाण्यनिश्चयाधीनत्वाभावमापादयता प्रण्यनादि प्रवृत्तिर्हीच्छामपेक्षते तत्प्राचुर्य्येचेच्छाप्राचुर्य्यम् इच्छा चेष्टसाधनताज्ञानं तच्चेष्टजातीयत्वलिङ्गानुभवं सोऽपीन्द्रियार्थसन्निकर्षं प्रामास्यग्रहणन्तु न क्वचिदुपयुज्यत इति तदपि तस्करस्य पुरस्तात् कक्षे सुवर्णमुपेत्य सर्व्वाङ्गोद्घाटनमिव प्रतिभाति अतः समीहितसाधनज्ञानमेव प्रमाणतथावगम्यमानमिच्छां जनयतीत्यत्रैव स्फुट एव प्रामण्यग्रहणस्योपयोगः। किञ्च क्वचिदपि चेन्निर्विचिकित्सा प्रवृत्तिः संशयादुपपद्येत तर्हि सर्व्वत्रतथाभावसम्भवात् प्रामाण्यनिश्चयोनिरर्थकः स्यात् अनिश्चितस्य सत्त्वमेव दुर्लभमिति प्रामाण्यं दत्तजलाञ्जलिकं भवेत् इत्यलमतिप्रपञ्चेन। यस्मादुक्तं

तस्मात् सद्बोधकत्वेन प्राप्ता बुद्धेः प्रमाणता।
अर्थान्यथात्वहेतृत्थदोषज्ञानादपोद्यत इति॥

तस्माद्धर्म्मेस्वतः सिद्धप्रमाणभावे ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादिविध्यर्थवादमन्त्रनामधेयात्मके वेदे यजेतेत्यत्रतप्रत्ययः प्रकृत्यर्थोपरक्तां भावनामभिधत्तइति सिद्धे व्युत्पत्तिमभ्युपमच्छतामभिहितान्वयवादिनां भट्टाचार्य्याणां सिद्धान्तो याग-

विषयो नियोग इति कार्य्येव्युत्पत्तिमनुसरतामन्विताभिधानवादिनां प्रभाकरगुरूणां सिद्धान्त इति सर्व्वमवदातम्॥

इति सर्व्वदर्शनसंग्रहे जैमिनिदर्शनम्॥
__________