१२ अक्षपाददर्शनम्

तत्त्वज्ञानाद्दुःखात्यन्तोच्छेदलक्षणं निःश्रेयसम्भवतीति समानतन्त्रेऽपि प्रतिपादितं तदाह सूत्रकारः प्रमाणप्रमेयेत्यादि तत्त्वज्ञानान्निश्रेयसाधिगम इति। इदं न्यायशास्त्रस्यादिमं सूत्रं न्यायशास्त्रञ्च पञ्चाध्यायात्मकं तत्र प्रत्यध्यायस्याह्निकद्वयम्। तत्र प्रथमाध्यायस्य प्रथमाह्निके भगवता गोतमेन प्रामाणादिपदार्थ नवकलक्षणनिरूपणं विधाय द्वितीये वादादिसप्तपदार्थलक्षणनिरूपणं कृतम्। द्वितीयस्य प्रथमे संशयपरीक्षणं प्रमाणचतुष्टया प्रामाण्यशङ्कानिराकरणञ्च द्वितीये अर्थापत्त्यादेरन्तर्भावनिरूपणम्। तृतीयस्य प्रथमे आत्मशरीरेन्द्रियार्थपरीक्षणं द्वितीये बुद्धिमनःपरीक्षणम्। चतुर्थस्य प्रथमे प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गपरीक्षणं द्वितीये दोषनिमित्तकत्वनिरूपणं अवयव्यादिनिरूपणञ्च। पञ्चमस्य प्रथमे जातिभेदनिरूपणं द्वितीये निग्रहस्थानभेदनिरूपणम्।

मानाधीना मेयसिद्धिरिति न्यायेन प्रमाणस्य प्रथममुद्देशे तदनुसारेण लक्षणस्य कथनीयतया प्रथमोद्दिष्टस्य प्रमाणस्य

प्रथमं लक्षणं कथ्यते। साधनाश्रया व्यतिरिक्तत्वे सति प्रमाव्याप्तं प्रमाणम् एवञ्च प्रतितन्त्रसिद्धान्तसिद्धं परमेश्वरप्रामाण्यं संगृहीतं भवति यदचकथत् सूत्रकारः मन्त्रायुर्व्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यादिति। तथाच न्यायपारावारपारदृश्वा विश्वविख्यातकीर्त्तिरुदयनाचार्य्योऽपि कुसुमाञ्जलौचतुर्थे स्तवके

मितिः सम्यक्परिच्छित्तिस्तद्वत्ता च प्रमातृता।
तदयोगव्यवच्छेदः प्रामाण्यं गौतमे मते इति।

साक्षात्कारिणि नित्ययोगिनि परद्वारानपेक्षस्थितौ
भूतार्थानुभवे निविष्टनिखिलप्रस्ताविवस्तुक्रमः।

लेशादृष्टिनिमित्तदुष्टिविगमप्रभ्रष्टशङ्कातुषः
शङ्कान्मेषकलङ्किभिः किमपरैस्तम्भे प्रमाणं शिव इति॥

तच्चतुर्व्विधं प्रत्यक्षानुमानोपमानशब्दभेदात्। प्रमेयं द्वादशप्रकारम् आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गभेदात्।अनवधारणात्मकं ज्ञानं संशयः सत्रिविधः साधारणधर्म्मासाधारणधर्म्मविप्रतिपत्तिलक्षणभेदात्। यमधिकृत्य प्रवर्त्तन्ते पुरुषास्तत्प्रयोजनं तद्द्द्विविधं दृष्टादृष्टभेदात्। व्याप्तिसंवेदनभूमिर्दृष्टान्तः स द्विविधः साधर्म्म्यवैधर्म्म्यभेदात्। प्रामाणिकत्वेनाभ्युपगतोऽर्थः सिद्धान्तः स चतुर्विधः सर्व्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमभेदात्। परार्थानुमानवाक्यैकदेशोऽवयवः स पञ्चविधः प्रतिज्ञाहेतूदाहरणोपनयनिगमनभेदात्। व्याप्यारोपे व्यापकारोपस्तर्कः स चैकादशविधः व्याघातात्माश्रयेतरेतराश्रयचक्रकाश्रयानवस्थाप्रतिवन्धिकल्पनालाघवकल्प-

नागौरवोत्सर्गापवादवैजात्यभेदात्। यथार्थंनुभवपर्य्याया प्रमितिर्निर्णयः स चतुर्विधः साक्षात्कृत्यनुमित्युपमितिशाब्दीभेदात्। तत्त्वनिर्णयफलः कथाविशेषो वादः। उभयसाधनवती विजिगीषुकथा जल्पः। स्वपक्षस्थापनाहीनः कथाविशेषोवितण्डा। कथा नाम वादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहः। असाधको हेतुत्वेनाभिमतो हेत्वाभासः स पञ्चविधः सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकालभेदात्। शब्दावृत्तिव्यत्ययेन प्रतिषेधहेतुञ्छलं तत्त्रिविधं अभिधानतात्पर्य्योपचारव्यत्ययवृत्तिभेदात्। स्वव्याघातकमुत्तरं जातिः सा चतुर्विंशतिविधा साधर्म्म्यवैधर्म्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणाहेत्वर्थापत्तिविशेषापत्त्युपलभ्यनुपलब्धिनित्यानित्यकार्य्यसमभेदात्। पराजयनिमित्तं निग्रहस्थानं तद्द्वाविंशतिप्रकारं प्रतिज्ञाहानिप्रतिज्ञान्तरप्रतिज्ञाविरोधप्रतिज्ञासन्न्यासहेत्वन्तरार्थान्तरनिरर्थकाविज्ञातार्थापार्थकाप्राप्तकालन्यूनाधिक पुनरुक्ताननुभाषणाज्ञानाप्रतिभाविक्षेपमतानुज्ञापर्य्यनुयोज्योपेक्षणनिरनुयोज्यानुयोगापसिद्धान्त हेत्वाभासभेदात्। अत्र सर्व्वान्तर्गणिकस्तु विशेषस्तत्र शास्त्रे विस्पष्टोऽपि विस्तरभिया न प्रस्तूयते।

ननु प्रमाणादिपदार्थषोडशके प्रतिपाद्यमाने कथमिदं न्यायशास्त्रमिति व्यपदिश्यते सत्यं तथाप्यसाधारस्येन व्यपदेश भवन्तीति न्यायेन न्यायस्य परार्थानुमानापरपर्य्यायस्य सकलविद्यानुग्राहकतथा सर्व्वकर्म्मानुष्ठानसाधनतया प्रधानत्वेन तथा

व्यपदेशो युज्यते। तथाभाणि सर्व्वज्ञेन सोऽयं परमोन्यायः विप्रतिपन्नपुरुषप्रतिपादकत्वात् तथा प्रवृत्तिहेतुत्वाच्चेति। पक्षिलस्वामिना च सेयमान्वीक्षीको विद्या प्रमाणादिभिः पदार्थैःप्रविभज्यमाना

प्रदीपः सर्व्वविद्यानामुपायः सर्व्वकर्म्मणाम्।
आश्रयः सर्व्वधर्म्माणां विद्योद्देशे परीक्षितेति।

ननु तत्त्वज्ञानान्निःश्रेयसम्भवतीत्युक्तं तत्र किं तत्त्वज्ञानादनन्तरमेव निःश्रेयसं सम्यद्यते नेत्युच्यते किन्तु तत्त्वज्ञानाद्दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभाव इति। तत्र मिथ्याज्ञानं नामानात्मनि देहादावात्मबुद्धिः तदनुकूलेषु रागः तत्प्रतिकूलेषु द्वेषः वस्तुतस्त्वात्मनः प्रतिकूलमनुकूलं वा न किञ्चित् समस्ति परस्परानुबन्धत्वाच्च रागादीनां मूढो रज्यति रक्तो मुह्यति मूढः कुप्यति कुपितो मुह्यतीति ततस्तेर्देषैः प्रेरितः प्राणी प्रतिषिद्धानि शरीरेण हिंसास्तेयादीन्याचरति वाचा अनृतादीनि मनसा परद्रोहादीनि सेयंपापरूपा प्रवृत्तिरधर्म्ममावहतीति। शरीरेण प्रशस्तानि दानपरपरिचाणादीनि वाचा हितसत्यादीनि मनसाअहिंसादीनि सेयं पुष्यरूपा प्रवृत्तिर्धर्म्मः। सेयमुभयी वृत्तिः ततः स्वानुरूपं प्रशस्तं निन्दितं वा जन्म पुनः शरीरादेः प्रादुर्भावः तस्मिन् सति प्रतिकृलवेदनीयतया वासनात्मकं दुखं भवति त इमे मिथ्याज्ञानादयो दुःखान्ता अविच्छेदेन प्रवर्त्तमानाः संसारशब्दार्थोघटोचक्रवन्निरवधिरनुवर्त्तते। यदा कश्चित् पुरु-

षधौरेयः पुराकृतसुकृतपरिपाकवशादाचार्य्योपदेशेन सर्व्वमिदं दुःखायतनं दुःखानुषक्तञ्च पश्यति तदा तत्सर्व्वंहेयत्वेनबुध्यते ततस्तन्निवर्त्तकमविद्यादि निवर्त्तयितुमिच्छति तन्निवृत्त्युपायश्च तत्त्वज्ञानमिति कस्यचिच्चतसृभिर्विद्याभिर्विभक्तं प्रमेयं भावयतः सम्यग्दर्शनपदवेदनीयतया तत्त्वज्ञानं जायते तत्त्वज्ञानान्मिथ्याज्ञानमपैति मिथ्याज्ञानापाये दोषाः अपयान्ति दोषापाये प्रवृत्तिरपैति प्रवृत्त्यपाये जन्मापैति जन्मापाये दुःखमत्यन्तं निवर्त्तते सात्यन्तिकी निवृत्तिरपवर्गः। निवृत्तेरात्यन्निकत्वं नाम निवर्त्त्यसजातीयस्य पुनस्तत्रानुत्पाद इति तथाच पारमर्षं सूत्रं दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्ग इति।

ननु दुःखात्यन्तोच्छेदोऽपवर्ग इत्येतदद्यापि कफोणिगुडायितं वर्त्तते तत्कथं सिद्धवत्कृत्य व्यवह्रियत इति चेन्मैवं सर्व्वेषां मोक्षवादिनामपवर्गदशायामात्यन्तिकी दुःखनिवृत्तिरस्तीत्यस्यार्थस्य सर्व्वतन्त्रसिद्धान्तसिद्धतया घण्टापथत्वात् नह्मप्रवृत्तस्य दुःखं प्रत्यपद्यते इति कश्चित् प्रपद्यते तथा हि आत्मोच्छेदोमोक्ष इति माध्यमिकमते दुःखोच्छेदोऽस्तीत्येतावत्तावदविवादम्। अथ मन्येथाः शरीरादिवदात्मापि दुःखहेतुत्वादुच्छेद्यइति तत्र सङ्गच्छते विकल्पानुपपत्तेः किमात्मा ज्ञानसन्तानो विवक्षितः तदतिरिक्तो वा प्रथमे न विप्रतिपत्तिः कः खल्वनुकूलमाचरति प्रतिकूलमाचरेत् द्वितीये तस्य नित्यत्वे निवृत्तिरशक्यविधानैव प्रवृत्त्यनुपपत्तिश्चाधिकं दूषणं न खलु कश्चित्

प्रेक्षावानात्मनस्तु कामाय सर्व्वं प्रियं भवतीति सर्व्वतः प्रियतमस्यात्मनः समुच्छेदाय प्रयतते सर्व्वोहि प्राणी मुक्त इति व्यवहरति। ननु धर्म्मिनिवृत्तौनिर्म्मलज्ञानोदयो महोदय इति विज्ञानवादिवादे सामग्र्यभावः सामानाधिकरण्यानुपपत्तिश्च भावनाचतुष्टयं हि तस्य कारणमभीष्टं तत्रक्षणभङ्गपक्षेस्थिरैकाधारासम्भवात् लङ्घनाभ्यासादिवदनासादितप्रकर्षं न स्फुटमभिज्ञानमभिजनयितुं प्रभवति सोपप्लवस्य ज्ञानसन्तानस्य बद्धत्वेनिरुपप्लवस्य च मुक्तत्वे यो बद्धः स एव मुक्त इति सामानाधिकरण्यं न सङ्गच्छते। आवरणमुक्तिर्मुक्तिरिति जैनजनाभिमतोऽपि मार्गे न निर्गतो निरर्गलः अङ्ग भवान् पृष्टो व्याचष्टां किमावरणं धर्म्माधर्म्मभ्रान्तय इति चेत् दृष्टमेव। अथ देहमेवावरणं तथाच तन्निवृत्तौ पञ्जारान्मुक्तस्य शुकस्येवात्मनः सततोर्द्धगमनं मुक्तिरिति चेत्तदा वक्तव्यं किमयमात्मा मूर्त्तोऽमूर्त्तोवा। प्रथमे निरवयवः सावयवो वा निरवयवत्वे निरवयवो मूर्त्तः परमाणुरिति परमाणुलक्षणापत्त्या परमाणुधर्म्मवदात्मधर्म्माणामतीन्द्रियत्वं प्रसजेत्। सावयवत्वे यत्सावयवं तदनित्यमिति प्रतिबन्धबलेनानित्यत्वापत्तौकृतप्रणाशाकृताभ्यागमौ निष्प्रतिबन्धौप्रसरेताम्। अमूर्त्तत्वेगमनमनुपपन्नमेव चलनात्मिकायाः क्रियायाः मूर्त्तप्रतिबन्धात् पारतन्न्यं बन्धः स्वातन्न्यमोक्षइति चार्व्वकपक्षेऽपि स्वातव्यं दुःखनिवृत्तिश्चेदविवाद ऐश्वर्य्यंचेत्सातिशयतया सदृक्षतया च प्रेक्षावतां नाभिमतम्। प्रकृतिपुरुषान्यत्वख्यातौप्रकृत्युपरमे पुरुषस्य स्वरूपेणा-

वस्थानं मुक्तिरिति साङ्ख्याख्यातेऽपि पक्षेदुःखोच्छेदोऽभ्युपेयते विवेकज्ञानं पुरुषाश्रयं प्रकृत्याश्रयं वेति एतावदवशिष्यते तत्र पुरुषाश्रयमिति न श्लिष्यते पुरुषस्य कौटस्थ्यात् स्थाननिरोधापातान्नापि प्रकृत्याश्रयः अचेतनत्वात् तस्याः। किञ्च प्रकृतिः प्रवृत्तिस्वभावा निवृत्तिस्वभावा वा आद्ये अनिर्मोक्षः स्वभावस्यानपायात् द्वितीये सम्प्रति संसारोऽस्तमियात्। नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिरिति भट्टसर्व्वज्ञाद्यभिमतेऽपि दुःखनिवृत्तिरभिमतैव परन्तु नित्यसुखं न प्रमाणपद्धतिमध्यास्ते। श्रुतिस्तत्र प्रमाणमिति चेन्न योग्यानुपलब्धिबाधिते तदनवकाशादवकाशे वा ग्रावप्लवेऽपि तथा भावप्रसङ्गात्। ननु सुखाभिव्यक्तिर्मुक्तिरिति पक्षं परित्यज्य दुःखनिवृतिरेव मुक्तिरिति स्वीकारः क्षीरं विहायारोचकग्रस्तस्य सौवीररुचिमनुभवतीति चेत्तदेतन्नाटकपक्षपतितं त्वद्वच द्रत्युपेक्ष्यते। सुखस्य सातिशयतया प्रत्यक्षतया बहुप्रत्यनीकाक्रान्ततया साधनप्रार्थनापरिक्लिष्टतया च दुःखाविनाभूतत्वेन विषानुषकमधुवत् दुःखपक्षनिक्षेपात्। नन्वेकमनुसन्धित्सतोऽपरं प्रच्यवते इति न्यायेन दुःखवत् सुखमित्युच्छिद्यत इति अकाम्योऽयं पक्ष इति चेन्मैवं मंस्थाः सुखसम्पादने दुःखसाधनबाहुल्यानुषङ्गनियमेन तप्तायःपिण्डे तपनीयबुद्ध्या प्रवर्त्तमानेन साम्यापातात् तथा हि न्यायोपार्ज्जितेषु विषयेषु कियन्तः सुखखद्योताःकियन्ति दुःखदुर्दिनानि अन्यायोपार्ज्जितेषु तु यद्भविष्यति तन्मनसापि चिन्तयितुं न शक्यमित्येतत् स्वानुभवमप्रच्छादयन्तः सन्तो विदां-

कुर्व्वन्तु विदांवरा भवन्तः। तस्मात् परिशेषात् परमेश्वरानुग्रहवशाच्छ्रवणादिक्रमेणात्मतत्त्वसाक्षात्कारवतः पुरुषधौरेयस्य दुःखनिवृत्तिरात्यन्तिकी निःश्रेयसमिति निरवद्यम्।

नन्वीश्वरसद्भावे किं प्रमाणं प्रत्यक्षमनुमानमागमो वा न तावदत्र प्रत्यक्षं क्रमते रूपादिरहितत्वेनातीन्द्रियत्वात् नाप्यनुमानं तद्व्याप्तिलिङ्गाभावात् नागमः विकल्पासहत्वात् किं नित्योऽवगमयत्यनित्यो वा। आद्येअपसिद्धान्तापातः द्वितीये परस्पराश्रयापातः। उपमानादिकमशक्यशङ्कंनियतविषयत्वात्। तस्मादीश्वरः शशविषाणायते इति चेत्तदेतन्न चतुरचेतसां चेतसि चमत्कारमाविष्करोति। विवादास्पदं नगसागरादिकं सकर्तृकं कार्य्यत्वात् कुम्भवत्। न चायमसिद्धा हेतुः सावयवत्वेन तस्य सुसाधनत्वात्। ननु किमिदं सावयवत्वं अवयवसंयोगित्वं अवयवसमवायित्वं वा नाद्यः गगनादौ व्यभिचारात् न द्वितीयः तन्तुवादावनैकान्त्यात्। तस्मादनुपपन्नमिति चेन्मैवं वादीः समवेतद्रव्यत्वं सावयवत्वमिति निरुक्तेर्वतुं शक्यत्वात्। अवान्तरमहत्त्वेन वा कार्य्यत्वानुमानस्य सुकरत्वात्। नापि विरुद्धो हेतुः साध्यविपर्य्ययव्याप्तेरभावात् नाप्यनैकान्तिकः पक्षादन्यत्र वृत्तेरदर्शनात् नापि कालात्ययोपदिष्टः बाधकानुपलम्भात् नापि सत्प्रतिपक्षःप्रतिभटादर्शनात्। ननु नगादिकमकर्तृकं शरीराजन्यत्वात् गगणवदिति चेन्नैतत् परीक्षाक्षममीक्ष्यते नहि कठोरकष्ठीरवस्य कुरङ्गभावः प्रतिभटो भवति अजन्यत्वस्यैव समर्थतया शरीरविशेषणवैयर्थ्यात। तर्ह्यजन्यत्वमेव साधनमिति

चेन्नासिद्धेः नापि सोपाधिकत्वशङ्काकलङ्काङ्कुरः सम्भवो अनुकूलतर्कसम्भवात् यद्ययमकर्तृकः स्यात् कार्य्यमपि न स्यादिह जगति नास्त्येव तत्कार्य्यं नाम यत्कारकचक्रमवधीर्य्यात्मानमासादयेदित्येतदविवादम्। तच्च सर्व्वं कर्तृविशेषोपहितमर्य्यादं कर्तृत्वं चेतरकारकाप्रयोज्यत्वे सति सकलकारकप्रयोक्तृत्वलक्षणं ज्ञानचिकीर्षाप्रयत्नाधारत्वम्। एवञ्च कर्तृव्यावृत्तेस्तदुपहितसमस्तकारकव्यावृत्तावकारणककार्य्योत्पादप्रसङ्ग इति स्थूलः प्रमादः। तथा निरटङ्किशङ्करङ्करेण।

अनुकूलेन तर्केण सनाथे सति साधने।
साध्यव्यापकताभङ्गात् पक्षेनोपाधिसम्भव इति॥

यदीश्वरः कर्त्ता स्यात्तर्हि शरीरी स्यादित्यादिप्रतिकूलतर्कजातं जागर्त्तीति चेदीश्वरसिद्ध्यसिद्धिभ्यां व्याघातात्। तदुदितमुदयनेन

आगमादेः प्रमाणत्वेबाधनादनिषेधनम्।
आभासत्वे तु सैव स्यादाश्रयासिद्धिरुद्धतेति॥

न च विशेषविरोधः शक्यशङ्कः ज्ञातत्वाज्ञातत्वविकल्पपराहतः स्यात्।

तदेतत् परमेश्वरस्य जगन्निर्म्माणे प्रवृत्तिः किमर्थ स्वार्था परार्था वा आद्येऽपीष्टप्राप्त्यर्था अनिष्टपरिहारार्थावा नाद्यः अवाप्तसकलकामस्य तदनुपपत्तेः अतएव न द्वितीयः। द्वितीये प्रवृत्त्यनुपपत्तिः कः खलु परार्थं प्रवर्त्तमानं प्रेक्षावानित्याचक्षीत। अथ करुणया प्रवृत्त्युपपत्तिरित्याचक्षीत कश्चित्तं प्रत्याचक्षीत तर्हि सर्व्वान् प्राणिनः सुखिन एव सृजेदीश्वरः न

दुःखशवलान् करुणाविरोधात् स्वार्थमनपेक्ष्य परदुःखप्रहाणेच्छा हि कारुण्यंतस्मादीश्वरस्य जगत्सर्जनं न युज्यते। तदुक्तं भट्टाचार्य्यैः

प्रयोजनमनुद्दिश्य न मन्दा हि प्रवर्त्तते।
जगच्चासृजतस्तस्य किं नाम न कृतं भवेदिति॥

नास्तिकशिरोमणे तावदीर्य्याकषायिते चक्षुषी निमील्य परिभावयतु भवान् करुणया प्रवृत्तिरस्त्येव न च निसर्गतः सुखमथसर्गप्रसङ्गः सृज्यप्राणिकृतसुकृतदुष्कृतपरिपाकविशेषाद्वैषम्योपपत्तेः न च स्वातन्न्यभङ्गः शङ्कनीयः स्वाङ्गं स्वव्यवधायकं न भवतीति न्यायेन प्रत्युत तन्निर्वाहात् एक एव रुद्रो न द्वितीयाय तस्ये इत्यादिरागमस्तत्र प्रमाणम्। यच्चेवं तर्हि परस्पराश्रथबाधव्याधिं समाधस्त्वेति चेत् तस्यानुत्थानात् किमुत्पत्तौ परस्पराश्रयः शङ्क्यतेज्ञाप्तौवा। नाद्यः आगमम्येश्वराधीनोत्पत्तिकत्वेऽपि परमेश्वरस्य नित्यत्वेनोत्पत्तेरनुपपत्तेः नापि ज्ञाप्तौ परमेश्वरस्य आगमाधीनज्ञप्तिकत्वेऽपि तस्यान्यतोऽवगमात् नापि तदनित्यत्वज्ञप्तौआगमानित्यत्वस्य तीव्रादिधर्म्मोपेतत्वादिनासुगमत्वात्।

तस्मान्निर्वर्त्तकधर्म्मानुष्ठानवशादीश्वरप्रसादसिद्धावभिमतेष्टसिद्धिरिति सर्व्वमवदातम्॥

इति सर्व्वदर्शनसंग्रहे अक्षपाददर्शनम्॥
______________