११ काणादः

इह खलु निखिलप्रेक्षावन्निमर्गप्रतिकूलवेदनीयतया निखिलात्मसंवेदनसिद्धं दुःखं जिहासंस्तद्धानोपायं जिज्ञासुः परमेश्वरसाक्षात्कारमुपायमाकलयति

यदा चर्म्मवदाकाशं वेष्टयन्तीह मानवाः।
तदा शिवमविज्ञाय दुःखस्यान्ता भविष्यति।

इत्यादिवचननिचयप्रामाण्यात्। परमेश्वरसाक्षात्कारश्च श्रवणमननभावनाभिर्भावनीयः। यदाह

आगमेनानुमानेन ध्यानाभ्यासबलेन च।
त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तममिति।

तत्र मननमनुमानाधीनं अनुमानञ्च व्याप्तिज्ञानाधीनं व्याप्तिज्ञानश्च पदार्थविवेकसापेक्षम्। अतः पदार्थषट्कम् अथातो धर्म्मंव्याख्यास्याम इत्यादिकायां दशलक्षण्यां कणभक्षेण भगवता व्यवास्थापि तत्राह्निकद्वयात्मके प्रथमेऽध्याये समवेताशेषपदार्थकथनमकारि। तत्रापि प्रथमाह्निके जातिमन्निरूपणं द्वितीयाह्निके जातिविशेषयोर्निरूपणम्।आह्निकद्वययुक्ते द्वितीयेध्याये द्रव्यनिरूपणं तत्रापि प्रथमाह्निके भूतविशेषणलक्षणं द्वितीयेदिक्कालप्रतिपादनम्। आह्निकद्वययुक्तेतृतीये आत्मान्तःकरणलक्षणं तत्राप्यात्मलक्षणं प्रथमे द्वितीये अन्तःकरणलक्षणम् आह्निकद्वययुक्ते चतुर्थे शरीरतदुपयोगिविवेचनं तत्रापि प्रथमे तदुपयोगिविवेचनं द्वितीये शरीरविवेचनम्।आह्निकद्वयवति पञ्चमे कर्म्मप्रतिपादनं तत्रापि प्रथमे शरीरसम्बन्धिकर्म्मचिन्तनं द्वितीये मानसकर्म्मचिन्तनम्।आह्निकद्वयशालिनि षष्ठे श्रोतधर्म्मनिरूपणं तत्रापि प्रथमे दानप्रतिग्रहधर्म्मविवेकः द्वितीये चातुराश्रम्योचितधर्म्मनिरूपणम्। तथाविधे सप्तमे गुणसमवायप्रतिपादनं तत्रापि प्रथमे बुद्धिनिरपेक्षगुणप्रतिपादनं द्वितीये तत्सापेक्षगुणप्रतिपादनं समवायप्रतिपादनञ्च।अष्टमे निर्विकल्पकसविकल्पकप्रत्यक्षप्रमाशचिन्तनम्। नवमे बुद्धिविशेषप्रतिपादनम्। दशमे अनुमानभेदप्रतिपादनम्। तत्र उद्देशो लक्षणं परीक्षा चेति त्रिविधास्य शास्त्रस्य प्रवृत्तिः। ननु विभागा-

पेक्षया चातुर्विध्ये वक्तव्ये कथं त्रैविध्यमुक्तमिति चेन्मैवं मंस्थाः विभागस्य विशेषोद्देश एवान्तर्भावात्। तत्र द्रव्यगुणकर्म्मसामान्यविशेषसमवाया भावा इति षडेव ते पदार्था इत्युद्देशः। किमत्र क्रमनियमे कारणम् उच्यते समस्तपदार्थायतनत्वेन प्रधानस्य द्रव्यस्य प्रथममुद्देशः अनन्तरं गुणत्वोपाधिना सकलद्रव्यवृत्तेर्गुणस्य तदनु सामान्यवत्त्वसाम्यात् कर्म्मणः पश्चात्तत्त्रितयाश्रितस्य सामान्यस्य तदनन्तरं समवायाधिकरणस्य विशेषस्य अन्ते अवशिष्टस्य समवायस्येति क्रमनियमः। ननु षडेव पदार्था इति कथं कथ्यते अभावस्यापि सद्भावादिति चेन्मैवं वोचःनञर्थनुल्लिखितधीविषयतया भावरूपतया षडेवेति विवक्षितत्वात् तथापि कथं षडेवेति नियम उपपद्यते विकल्पानुपपत्तेः तथाहि नियमव्यवच्छेद्यं प्रमितं न वा प्रमितत्वे कथं निषेधः अप्रमितत्वे कथन्तरांनहि कश्चित् प्रेक्षावान् मूषिकविषाणं प्रतिषेद्धुं यतते ततश्चानुपपत्तेर्नोनियम इति चेन्मैवं भाषिष्ठाः सप्तमतया प्रमिते अन्धकारादौ भावत्वस्य भावतया प्रमिते शक्तिसङ्ख्यादौ सप्तमत्वस्य च निषेधादिति कृतं विस्तरेण।

तत्र द्रव्यादित्रितयस्य द्रव्यत्वादिर्जातिर्लक्षणम्। द्रव्यत्वं नाम गगणारविन्दसमवेतत्वे सति नित्यगन्धासमवेतम्। गुणत्वं नाम समवायिकारणासमवायिकारणभिन्नसमवेतसत्तासाक्षाद्व्याप्यजातिः। कर्म्मत्वं नाम नित्यसमवेतत्वसहितसत्तासाक्षाद्व्याप्यजातिः। सामान्यन्तु प्रध्वंसप्रतियोगित्वरहितमनेकसमवेतम्। विशेषो नामान्योन्याभावविरोधिसामान्यरहितः समवेतः।

समवायस्तु समवायरहितः सम्बन्ध इति वर्षा लक्षणानि व्यवस्थितानि।

द्रव्यं नवविधं पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांक्षीति। तत्र पृथिव्यादिचतुष्टयस्य पृथिवीत्वादिजातिर्लक्षणम्। पृथिवीत्वंनाम पाकजरूपसमानाधिकरणद्रव्यत्वसाक्षाद्व्याप्यजातिः।अयं नाम सरित्सागरसमवेतत्वे सति सलिलसमवेतं सामान्यम्। तेजस्त्वंनाम चन्द्रचामीकरसमवेतत्वे सति ज्वलनसमवेतं सामान्यम्। वायुत्वं नाम त्वगिन्द्रियसमवेतद्रव्यत्वसाक्षाद्व्याप्यजातिः।आकाशकालदिशामेकैकत्वादपरजात्यभावे पारिभाषिक्यस्तिस्रः संज्ञा भवन्ति आकाशः कालो दिगिति। संयोगाजन्यजम्यविशेषगुणसमानाधिकरणविशेषाधिकरणमाकाशम्। विभुत्वे सति दिगसमवेतपरत्वासमवायिकारणाधिकरणः कालः। अकालत्वेसत्यविशेषगुणा महती दिक्।आत्ममनमोरात्मत्वमनस्त्वे। आत्मत्वं नाम अमूर्त्तसमवेतद्रव्यत्वापरजातिः। मनस्त्वं नाम द्रव्यसमवायिकारणत्वरहिताणुसमवेतद्रव्यत्वापरजातिः।रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्कसंयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नाश्च कण्ठोक्ताः सप्तदश चशब्दसमुचिताः गुरुत्वद्रवत्वस्नेहसंस्कारादृष्टशब्दाः सप्तैवेत्येवं चतुर्व्विंशतिर्गुणाः। तत्ररूपादिशब्दान्तानां रूपत्वादिजातिर्लक्षणम्। रूपत्वं नाम नीलसमवेतगुणत्वापरजातिः।अनया दिशा शिष्टानां लक्षणानि द्रष्टव्यानि। कर्म्मपञ्चविधम् उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनभेदात्। भ्रमणरेचनादीनां गमन

एवान्तर्भावः। उत्क्षेपणादीनामुत्क्षेपणत्वादिजातिर्लक्षणम्। तत्र उत्क्षेपणं नाम ऊर्द्धदेशसंयोगासमवायिकारणप्रमेयसमवेतकर्म्मत्वापरजातिः। एवमवक्षेपणादीनां लक्षणं कर्त्तव्यम्। सामान्यं द्विविधं परमपरञ्च परं सत्ता द्रव्यगुणसमवेता गुणकर्म्मसमवेता वा अपरं द्रव्यत्वादि तल्लक्षणंप्रागेवोक्तम्। विशेषाणामनन्तत्वात् समवायस्य चैकत्वाद्विभागोन सम्भवति तल्लक्षणञ्च प्रागेवावादि।

द्वित्वे च पाकजोत्पत्तौ विभागे च विभागजे।
यस्य न स्खलिता बुद्धिस्तं वै वैशेषिकं विदुरिति

आभाणकस्य सद्भावात् द्वित्वाद्युत्पत्तिप्रकारः प्रदर्श्यते। तत्र प्रथममिन्द्रियार्थसन्निकर्षस्तस्मादेकत्वसामान्यज्ञानं ततोऽपेक्षाबुद्धिः ततो द्वित्वोत्पत्तिस्ततो द्वित्वसामान्यज्ञानं तस्माद्द्वित्वगुणज्ञानं ततः संस्कारः। तदाह

आदाविन्द्रियसन्निकर्षघटनादेकत्वसामान्यधी-
रेकत्वोभयगोचरा मतिरतो द्वित्वं ततो जायते।
द्वित्वत्वप्रमितिस्ततोऽनु परतो द्वित्वप्रमानन्तरं
द्वे द्रव्ये इति धरियं निगदिता द्वित्वोदयप्रक्रियेति॥

द्वित्वादेरपेक्षाबुद्धिजन्यत्वे किं प्रमाणम् अत्राहुराचार्य्यः अपेक्षाबुद्धिर्द्धित्वादेरुत्पादिका भवितुमर्हति व्यञ्जकत्वानुपपत्तौ तेनानुविधीयमानत्वात् शब्दं प्रति संयोगवदिति। वयन्तु ब्रूमः द्वित्वादिकमेकत्वद्वयविषयानित्यबुद्धिव्यङ्ग्यं न भवति अनेकाश्रितगुणत्वात् पृथक्त्वादिवदिति।

निवृत्तिक्रमोनिरूप्यते अपेक्षाबुद्धित एकत्वसामान्यज्ञानस्य द्वित्वोत्पत्तिसमकालं निवृत्तिः अपेक्षाबुद्धेर्द्वित्वसामान्यज्ञानात् द्वित्वगुणबुद्धिसमसमयं द्वित्वस्यापेक्षाबुद्धिनिवृत्तेर्द्रव्यबुद्धिसमकालं गुणबुद्धेः द्रव्यबुद्धितः संस्कारोत्पत्तिसमकालं द्रव्यबुद्धेस्तदनन्तरं संस्कारादिति। तथाच संग्रहश्लोकाः

आदावपेक्षाबुद्ध्या हि नश्येदेकत्वजातिधीः।
द्वित्वोदयसमं पश्चात् सा च तज्जातिबुद्धितः।

द्वित्वाख्यगुणधीकाले ततो द्वित्वं निवर्त्तते।
अपेक्षाबुद्धिनाशेन द्रव्यधीजन्मकालतः।

गुणबुद्धिर्द्रव्यबुद्ध्या संस्कारोत्पत्तिकालतः।
द्रव्यबुद्धिश्चसंस्कारादिति नाशक्रमो मत इति ॥

बुद्धेर्बुद्ध्यन्तरविनाश्यत्वे संस्कारविनाश्यत्वे च प्रमाणं विवादाध्यासितानि ज्ञानानि उत्तरोत्तरकार्य्यविनाश्यानि क्षणिकविभुविशेषगुणत्वात् शब्दवत्। द्रव्यारम्भकसंयोगप्रतिद्वन्दिविभागजनककर्म्मममकालमेकत्वसामान्यचिन्तया आश्रयनिवृत्तेरेव द्वित्वनिवृत्तिः कर्म्मसमकालमपेक्षाबुद्धिचिन्तनादुभाभ्यामिति सङ्क्षेपः।

अपेक्षाबुद्धिर्नाम विनाशकविनाशप्रतियोगिनी बुद्धिरिति बोद्धव्यम्।

अथ द्व्यणुकनाशमारभ्य कतिभिः क्षलैः पुनरन्यद् द्व्यणुकमुत्पद्य रूपादिमद्भवतीति जिज्ञासायामुत्पत्तिप्रकारः कथ्यते। नोदनादिक्रमेण द्व्यणुकनाशः नष्टे द्व्यणुके परमाणावग्निसंयोगात्

श्यामादीनां निवृत्तिः निवृत्तेषु श्यामादिषु पुनरन्यस्मादग्निसंयोगाद्रक्तादीनामुत्पत्तिः उत्पन्नेषु रक्तादिषु अदृष्टवदात्मसंयोगात् परमाणो द्रव्यारम्भणाय क्रिया तथा पूर्व्वदेशाद्विभागः विभागेन पूर्व्वदेशसंयोगनिवृत्तिः तस्मिन्निवृत्ते परमाण्वन्तरेण संयोगोत्पत्तिः संयुक्ताभ्यां परमाणुभ्यां द्व्यणुकारम्भः आरम्भे द्व्यणुके कारणगुणादिभ्यः कार्य्यगुणादीनां रूपादीनामुत्पत्तिरिति यथाक्रमं नवक्षणाः। दशक्षणादिप्रकारान्तरं विस्तरभयान्नेह प्रतन्यते। इत्थं पीलुपाकप्रक्रिया। पिठरपाकप्रक्रिया तु नैयायिकधीसम्मता।

विभागजविभागो द्विविधः कारणमात्रविभागजः कारणाकारणविभागजश्च। तत्र प्रथमः कथ्यते कार्य्यव्याप्ते कारणे कर्म्मोत्पन्नं यदावयवान्तराद्विभागं विधत्ते न तदाकाशादिदेशाहिभागः। यदा त्वाकाशादिदेशाद्विभागः न तदावयवान्तरादितिस्थितिनियमः कर्म्मणोगगणविभागाकर्तृत्वस्य द्रव्यारम्भकसंयोगविरोधिविभागारम्भकत्वेन धूमस्य धूमध्वजवर्गेणेव व्यभिचारानुपलम्भात् ततश्चावयवकर्म्म अवयवान्तरादेव विभागं करोति नाकाशादिदेशात् तस्माद्विभागाद्द्रव्यारम्भकसंयोगनिवृत्तिः ततः कारणाभावात् कार्य्याभाव इति न्यायादवयविनिवृत्तिः निवृत्तेऽवयविनि तत्कारणयोरवयवयोर्वर्त्तमानो विभागः कार्य्यविनाशविशिष्टं कालं स्वतन्त्रं वावयवमपेक्ष्य सक्रियस्यैवावयवस्य कार्य्यसंयुक्तादाकाशदेशाद्विभागमारभते न निष्क्रियस्य कारणाभावात्। द्वितीयस्तु हस्ते कर्म्मोत्पन्नमवयवा-

न्तराद्विभागं कुर्व्वत् आकाशादिदेशेभ्यो विभागानारभते ते कारणाकारणविभागाः कर्म्म यां दिशं प्रति कार्य्यारम्भाभिमुखं तामपेक्ष्य कार्य्याकार्य्यविभागमारभते यथा हस्ताकाशविभागाच्छरीराकाशविभागः न चासौ शरीरक्रियाकार्य्यस्तदा तस्य निष्क्रियत्वात् नापि हस्तक्रियाकार्य्यः व्यधिकरणस्य कर्म्मणो विभागकर्तृत्वानुपपत्तेः अतः पारिशेष्यात् कारणाकारणविभागस्य कारणत्वमङ्गीकरणीयम्।

यदवादि अन्धकारादौ भावत्वं निषिध्यत इति तदसङ्गतं तत्र चतुर्द्धाविवादसम्भवात् तथाहि द्रव्यं तम इति भाट्टाः वेदान्तिनश्च भणन्तिआरोपितं नीलरूपमिति श्रीधराचार्य्याः आलोकज्ञानाभाव इति प्राभाकरैकदेशिनः आलोकाभाव इति नैयायिकादयः इति चेत्तत्र द्रव्यत्वपक्षेा न घटते विकल्पानुपपत्तेः द्रव्यं भवदन्धकारं द्रव्याद्यन्यतममन्यद्वा नाद्यः यत्रान्तर्भावोऽस्य तस्य यावन्तोगुणास्तावद्गुणकत्वप्रसङ्गात् नच तमसोद्रव्यवहिर्भाव इति साम्प्रतं निर्गुणस्य तस्य द्रव्यत्वासम्भवेन द्रव्यान्तरत्वस्य सुतरामसम्भवात्। ननु तमालश्यामलत्वेनोपलभ्यमानं तमः कथं निर्गुणं स्यादिति नीलं नभ इतिवत् भ्रान्तिरेवेत्यलंवृद्धवीवधया। अत एव नारोपितरूपं तमः अधिष्ठानप्रत्ययमन्तरेणारेरोपायोगात् वाह्यलोकसहकारिरहितस्य चक्षुषो रूपारोपे सामर्थ्यानुपलम्भाच्च। न चायमचाक्षुषः प्रत्ययः तदनुविधानस्यामन्यथासिद्धत्वात्। न च विधिप्रत्ययवेद्यत्वायोगो भावे इति साम्प्रतं प्रलयविनाशावधानादिषु

व्यभिचारात्। अत एव नालोकज्ञानाभावः अभावस्य प्रतियोगिग्राहकेन्द्रियग्राह्यत्वनियमेन मानसत्वप्रसङ्गात्। तस्मादालोकाभाव एव तमः न चाभावे भावधर्म्माध्यारोपो दुरुपपादः दुःखाभावे सुखत्वारोपस्य संयोगाभावे विभागत्वाभिमानस्व च दृष्टत्वात्। नचालोकाभावस्य घटाद्यभाववद्रूपवदभावत्वे नालोकसापेक्षचक्षुर्जन्यज्ञानविषयत्वं स्यादित्येषितव्यं यद्ग्रहे यदपेक्षं चक्षुस्तदभावग्रहेऽपि तदपेक्षत इति न्यायेनालोकग्रहे आलोकापेक्षाया अभावेन तदभावग्रहेऽपि तदपेक्षाया अभावात्। न चाधिकरणग्रहणावश्यम्भावः अभावप्रतीतावधिकरणग्रहणावश्यंभावानङ्गीकारादपरथा निवृत्तः कोलाहल इति शब्दप्रध्वंसप्रत्यक्षो न स्यादिति अप्रामाणिकं तव वचनं परम्। तत्सर्व्वमभिसन्धाय भगवान् कणादः प्रणिनाय सूत्रंद्रव्यगुणकर्म्मनिष्पत्तिवैधर्म्यादभावस्तम इति प्रत्ययवेद्यत्वेनापि निरूपितम्।

अभावस्तु निषेधमुखप्रमाणगम्यः सप्तमो निरूप्यते। स चासमवायत्वे सत्यसमवायः संक्षेपतो द्विविधः संसर्गीभावान्योन्याभावभेदात् संसर्गाभावोऽपि त्रिविधः प्राक्प्रध्वंसात्यन्ताभावभेदात् तत्रानित्यो अनादितमः प्रागभावः उत्पत्तिमान् विनाशो प्रध्वंसः प्रतियोग्याश्रयोऽभावोऽत्यन्ताभावः अत्यन्ताभावव्यतिरिक्तत्वे सत्यनवधिरभावोन्योन्याभावः। नम्वन्योन्याभाव एवात्यन्ताभाव इति चेत् अहो राजमार्ग एव भ्रमः अन्योन्याभावो हि तादात्म्यप्रतियोगिकः प्रतिषेधः यथा घटः पटात्मा

न भवतीति संसर्गप्रतियोगिकः प्रतिषेधोऽत्यन्ताभावः यथा वायौ रूपसम्बन्धोनास्तीति। न चास्य पुरुषार्थौपयिकत्वंनास्तीत्याङ्कनीयं दुःखात्यन्तोच्छेदापरपर्य्याय निश्रेयमरूपत्वेन परमपुरुषार्थत्वात्॥

इति सर्व्वदर्शनसंग्रहे औलूक्यदर्शनम्॥