अपरे माहेश्वराः परमेश्वरतादात्म्यवादिनोऽपि पिण्डस्थैर्य्ये सर्व्वभिमता जीवन्मुक्तिः सेत्स्यतीत्यास्थाय पिण्डस्थैर्य्योपायं पारदादिपदवेदनीयं रसमेव सङ्गिरन्ते रसस्य पारदत्वं संसारपरपारप्रापणहेतुत्वेन। तदुक्तम्
संसारस्य परं पारं दत्तेऽसौ पारदः स्मृत इति।
रसार्णवेऽपि
पारदो गदितो यस्मात् परार्थं साधकोत्तमैः।
सुप्तोऽयं मत्समो देवि मम प्रत्यङ्गसम्भवः।
मम देहरसोयस्माद्रमस्तेनायमुच्यते इति॥
प्रकारान्तरेणापि जीवन्मुक्तियुक्तौ नेयं वाचोयुक्तिर्युतिमतीति
चेन्न षट्स्वपि दर्शनेषु देहपातानन्तरं मुक्तेरुक्ततया तत्र विश्वासानुपपत्त्या निर्विचिकित्सप्रवृत्तेरनुपपत्तेः। तदप्युक्तं तत्रैव
षड्दर्शनेऽपि मुक्तिस्तु दर्शिता पिण्डपातने।
करामलकवत्सापि प्रत्यक्षा नोपलभ्यते।
तस्मात्तं रक्षयेत्पिण्डं रमैश्चैव रसायनैरिति॥
गोविन्दभगवत्पादाचार्य्यैरपि
इति धनशरीरभोगान्मत्वा नित्यान् सदैव यतनीयम्।
मुक्तौसा च ज्ञानात् तच्चाभ्यासात् स च स्थिरे देहे इति।
ननु विनश्वरतया दृश्यमानस्य देहस्य कथं नित्यत्वमवमीयत इति चेन्मैवं मंस्थाः षाट्कौशिकस्य शरीरस्यानित्यत्वेरमाभ्रकपदाभिलप्यहरगौरीसृष्टिजातस्य नित्यत्वोपपत्तेः। तथाच रसहृदये
ये चात्यक्तशरीरा हरगौरीसृष्टिजान्तरं प्राप्ताः
वन्द्यास्ते रससिद्धा मन्त्रगणः किङ्करोयेषामिति।
तस्माज्जीवन्मुक्तिंसमीहमानेन योगिना प्रथमं दिव्यतनुर्विधेया हरगौरीसृष्टिसंयोगजनितत्वञ्च रसस्य हरजत्वेनाभ्रकस्य गौरीम्भवत्वेन तत्तदात्मकत्वमुक्तम्
अभ्रकस्तव वीजन्तु मम वीजन्तु पारदः।
अनयोर्मेलनं देवि मृत्युदारिद्र्यनाशनमिति॥
अत्यल्पमिदमुच्यते देवदैत्यमुनिमानवादिषु बहवो रससामर्थ्याद्दिव्यं देहमाश्रित्य जीवन्मुक्तिमाश्रिताः श्रूयन्ते रसेश्वरसिद्धान्ते
देवाः केचिन्महेशाद्या दैत्याः काव्यपुरःसराः।
मुनयो बालखिल्याद्यानृपाः सोमेश्वरादयः।
गोविन्दभगवत्पादाचार्य्योगोविन्दनायकः।
चर्वटिः कपिलो व्यालिः कापालिः कन्दलायनः।
एतेऽन्ये बहवः सिद्धा जीवन्मुक्ताश्चरन्ति हि।
तनु रसमयीमाप्य तदात्मक कथाचणा इति॥
अयमेवास्यार्थः परमेश्वरेण परमेश्वरीं प्रति प्रपञ्चितः
कर्म्मयोगेन देवेशि प्राप्यते पिण्डधारणम्।
रसश्च पवनश्चेति कर्म्मयोगो द्विधा स्मृतः॥
मूर्च्छितो हरति व्याधीन् मृता जीवयति स्वयम्।
बद्धः खेचरतां कुर्य्याद्रसोवायुश्चभैरवीति॥
मूर्च्छितस्वरूपमप्युक्तम्
नानावर्णोभवेत् सूतो विहाय घनचापलम्।
लक्षणं दृश्यते यस्य मूर्च्छितं तं वदन्ति हि॥
आर्द्रत्वञ्च घनत्वञ्च तेजो गौरवचापलम्।
यस्यैतानि न दृश्यन्ते तं विद्यान् मृतसूतकमिति॥
अन्यत्र बद्धखरूपमप्यभ्यधावि
अक्षतश्च लघुद्रावो तेजस्वी निर्म्मलोगुरुः।
स्फोटनं पुनरावृत्तौ बद्धसूतस्य लक्षणमिति॥
ननु हरगौरीसृष्टिसिद्धौपिण्डस्थैर्य्यमास्थातुं पार्य्यते तत्सिद्धिरेव कथमिति चेन्न अष्टादशसंस्कारवशात्तदुपपत्तेः। तदुक्तमाचार्य्यैः
तस्य हि साधनविधौ सुधियां प्रतिकर्म्मनिर्म्मलाःप्रथमम्।
अष्टादश संस्कारा विज्ञातव्याः प्रयत्नेनेति।
तेक्षसंस्कारा निरूपिताः
स्वेदन मर्द्दन मूर्च्छन स्थापन पातन निरोधनियमाश्च।
दीपन गगन ग्रासप्रमाणमथ जारणा पिधानम्॥
गर्भद्रुतिवाह्यद्रुतिक्षारणसरागसारणाश्चैव।
क्रामणवेधौ भक्षणमष्टादशधेति रमकर्म्मेति॥
तत्प्रपञ्चस्तु गोविन्दभगवत्पादाचार्य्य सर्व्वज्ञरामेश्वरभट्टारकप्रभृतिभिः प्राचीनैराचार्य्यैर्निरूपित इति ग्रन्थभूयस्त्वभयादुदास्यते।
न च रसशास्त्रंधातुवादार्थमेवेति मन्तव्यं देहवेधद्वारा मुक्तेरेव परमप्रयोजनत्वात्। तदुक्तं रसार्णवे
लोहवेधस्त्वया देव यद्दत्तं परमीशितः।
तं देहवेधमाचक्ष्व येन स्यात् खेचरी गतिः॥
यथा लोहे तथा देहे कर्त्तव्यः सूतकः सता।
समानं कुरुते देवि प्रत्ययं देहलोहयोः।
पूर्व्वं लोहे परीक्षेत पश्चाद्देहे प्रयोजयेदिति॥
ननु सच्चिदानन्दात्मकपरतत्त्वस्फुरणादेव मुक्तिसिद्धौकिमनेन दिव्यदेहसम्पादनप्रयासेनेति चेत्तदेतदवार्त्तं वार्त्तशरीरालाभे तद्वार्त्ताया प्रयोगात्। तदुक्तं रसहृदये
गलितानल्पविकल्पः सर्व्वाध्वविवक्षितश्चिदानन्दः।
स्फुरितोऽप्यस्फुरिततनोः करोति किं जन्तुवर्गस्येति॥
यं जरया झर्झरितं काशश्वासादिदुःखविशदञ्च।
योग्यं तं न समाधौ प्रतिहतबुद्धीन्द्रियप्रसरम्॥
बालः षोडशवर्षोविषयरसास्वादलम्पटः परतः।
यातविवेको वृद्धा मर्त्यः कथमाप्नुयान्मुक्तिमिति॥
ननु जीवत्वं नाम संसारित्वं तद्विपरीतत्वं मुक्तत्वं तथाच परस्परविरुद्धयोःकथमेकायतनत्वमुपपन्नं स्यादिति चेत्तदनुपपन्नं विकल्पानुपपत्तेः मुक्तिस्तावत् सर्व्वतीर्थंकरसम्मता सा किं ज्ञेयपदे निविशते न वा चरमे शशविषाणकल्पा स्यात् प्रथमे न जीवनं वर्जनीयमजीवतो ज्ञात्तृत्वानुपपत्तेः। तदुक्तं रमेश्वरसिङ्क्रान्ते
रसाङ्कमेयमार्गीक्तोजीवमोक्षोऽस्त्यधोमनाः।
प्रमाणान्तरवादेषु युक्तिभेदावलम्बिषु।
ज्ञानज्ञेयमिदं विद्धि सर्व्वमन्त्रेषु सम्मतम्।
नाजीवन् ज्ञास्यति ज्ञेयं यदतोऽस्त्येव जीवनमिति॥
न चेदमदृष्टचरमिति मन्तव्यं विष्णुस्वामिमतानुसारिभिः नृपञ्चास्यशरीरस्य नित्यत्वोपपादनात्। तदुक्तम् साकारसिद्धौ
सच्चिन्नित्यनिजाचिन्त्यपूर्णानन्दैकविग्रहम्।
नृपञ्चास्यमहं वन्दे श्रीविष्णुस्वामिसम्मतमिति॥
नन्वेतत् सावयवं रूपवदवभासमानं नृकण्ठीरवाङ्गं सदिति न सङ्गच्छत इत्यादिनाक्षेपपुरःसरं सनकादिप्रत्यक्षं सहस्रशीर्षापुरुष इत्यादिश्रुति तमद्भुतं बालकमम्बुजेक्षणं चतुर्भुजं शङ्खगदाद्युदायुधमित्यादि पुराणलक्षणेन प्रमाणत्रयेण सिद्धं नृपञ्चाननाङ्गं कथमसत् स्यादिति। सदादीनि विशेषणानि गर्भश्रीका-
न्तमिश्रैः विष्णुखामिचरणपरिणतान्तः करणैः प्रतिपादितानि। तस्मादस्मदिष्टदेहनित्यत्वमत्यन्तादृष्टं न भवतीति पुरुषार्थकामुकैः पुरुषैरेष्टव्यम्। अत एवोक्तम्
आयतनं विद्यानां मूलं धर्म्मार्थकाममोक्षाणाम्।
श्रेयः परं किमन्यच्छरीरमजरामरं विहायैकमिति।
अजरामरीकरणसमर्थश्च रसेन्द्र एव तदाह
एकोऽसौरसराजः शरीरमजरामरं कुरुत इति।
किं वर्ण्यते रसस्य माहात्म्यंदर्शनस्पर्शनादिनापि महत्फलं भवति। तदुक्तं रसार्लवे
दर्शनात् स्पर्शनात्तस्य भक्षणात् स्मरणादपि।
पूजनाद्रसदानाच्च दृश्यते षड्विधं फलम्॥
केदारादीनि लिङ्गानि पृथिव्यां यानि कानिचित्।
तानि दृष्ट्वा तु यत्पुण्यं तत्पुष्यं रमदर्शनादित्यादिना॥
अन्यत्रापि
काश्यादिसर्व्वलिङ्गेभ्यो रसलिङ्गार्च्चनं शिवमिति।
प्राप्यते येन तल्लिङ्गं भोगारोग्यामृतामरमिति।
रसनिन्दायाः प्रत्यवायोऽपि दर्शितः
प्रमादाद्रसनिन्दायाः श्रुतावेनं स्मरेत् सुधीः।
द्राक् त्यजेन्निन्दकं नित्यं निन्दया पूरिताशुभमिति॥
तस्मादस्मदुक्तया रीत्या दिव्यं देहं सम्पाद्ययोगाभ्यासवशात् परतत्त्वे दृष्टे पुरुषार्थप्राप्तिर्भवति। तदा
भ्रूयुगमध्यगतं यत् शिखिविद्युत्सूर्य्यवज्जगद्भासि।
केषाञ्चित्पुण्यदृशामुन्मीलति चिन्मयं ज्योतिः।
परमानन्दैकरसं परमं ज्योतिः स्वभावमविकल्पम्।
विगलितसकलक्लेशं ज्ञेयं शान्तं स्वसंवेद्यम्।
तस्मिन्नाधाय मनः स्फुरदखिलं चिन्मयं जगत् पश्यन्।
उत्सन्नकर्म्मबन्धोब्रह्मत्वमिहैवचाप्नोतीति।
श्रुतिश्च
रसो वै सः रसं ह्योवायं लब्ध्वानन्दीभवतीति।
तदित्थं भवेदन्यदुःखभरतरणोपायो रस एवेति सिद्धम्। तथाच रसस्य परब्रह्मणा साम्यमिति प्रतिपादकः श्लेाकः
यः स्यात् प्रावरणाविमोचनधियां साध्यः प्रकृत्या पुनः
सम्पन्नोसहते न दीव्यति परं वैश्वानरे जाग्रति।
जातो यद्यपरं न वेदयति च स्वस्मात् स्वयं द्योतते
यो ब्रह्मैव स दैन्यसंसृतिभयात् पायादसौपारद इति॥
इति सर्व्वदर्शनसंग्रहे रसेश्वरदर्शनम्॥
___________