अत्रापेक्षाविहीनानां जडानां कारणत्वं दुष्यतीत्यपरितुव्यन्ता मतान्तरमन्विष्यन्तः परमेश्वरेच्छावशादेव जगन्निर्म्माणं परिघुष्यन्तः स्वसंवेदनोपपत्त्यागमसिद्धप्रत्यगात्मतादात्म्येनानाविधमानमेयादिभेदाभेदशालि परमेश्वरोऽनन्यमुखप्रेक्षित्वलक्षणस्वातन्त्र्यभाक् स्वात्मदर्पणे भावात् प्रतिविम्बवभासयदिति भणन्तोवाह्याभ्यन्तरचर्य्याप्राणायामादिक्लेशप्रयासकलावैधुर्य्येण सर्व्वसुलभमभिनवं प्रत्यभिज्ञामात्रं परापरसिद्ध्युपायमभ्युपगच्छन्तः परे माहेश्वराः प्रत्यभिज्ञाशास्त्रमभ्यस्यन्ति। तस्येयप्तापि न्यरूपि परीक्षकैः
सूत्रं वृत्तिर्विवृतिर्लघ्वोवृहत्तीत्युभे विमर्शिन्यौ।
प्रकरण विवरण पञ्चकमिति शास्त्रं प्रत्यभिज्ञायाः॥
तत्रेदं प्रथमं सूत्रम्
कथञ्चिदासाद्य महेश्वरः स्या-
द्दास्यं जनस्याप्युपकारमिच्छन्।
समस्तसम्पत्समवाप्तिहेतुं
तत्प्रत्यभिज्ञामुपपादयामीति॥
कथञ्चिदिति परमेश्वराभिन्नगुरुचरणारविन्दयुगलसमाराधनेन परमेश्वरघटितेनैवेत्यर्थः आसाद्येति आ समन्तात् परिपूर्णतया सादयित्वास्वात्मोपभोग्यतां निरर्गलां गमयित्वा तदनेन विदितवेद्यत्वेन परार्थशास्त्रकरणेऽधिकारो दर्शितः अन्यथा प्रतारणमेव प्रयजेत् मायोत्तीर्णाअपि महामायाधिकृता विष्णुविरिञ्च्याद्यायदीयैश्वर्य्यलेशेनेश्वरीभूताः स भगवाननवच्छिन्नप्रकाशानन्दस्वातन्त्र्यपरमार्थोमहेश्वरः तस्य दास्वं दीयतेऽस्मै स्वामिना सर्व्वंयथाभिलषितमिति दासः परमेश्वरस्वरूपस्वातन्त्र्युपात्रमित्यर्थः। जनशब्देनाधिकारिविषयनियमाभावः प्रादर्शि यस्य यस्य हीदं स्वरूपकथनं तस्य तस्य महाफलं भवति प्रधानस्यैव परमार्थफललात्। तथोपदिष्टं शिवदृष्ठौ परमगुरुभिर्भगवत्सोमानन्दनाथपादैः
एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः।
ज्ञाते शिवत्वे सर्व्वस्थे प्रतिपत्त्या दृढात्मना॥
करणेन नास्ति कृत्यं क्वापि भावनया सकृत्।
ज्ञाते सुवर्णे करणं भावनां वा परित्यजेदिति॥
अपिशब्देन स्वात्मनस्तदभिन्नतामाविष्कुर्व्वता पूर्णत्वेन स्वात्मनि परार्थसम्पत्त्यतिरिक्तप्रयोजनान्तरावकाशश्च पराकृतः। परार्थश्च
प्रयोजनं भवत्येव तल्लक्षणयोगात् न ह्ययं देवशापः स्वार्थ एव प्रयोजनं न परार्थइति। अतएवोक्तमक्षपादेन यमर्थमधिकृत्य प्रवर्त्तते तत्प्रयोजनमिति। उपशब्दः सामीप्यार्थःतेन जनस्य परमेश्वरसमीपताकरणमात्रं फलम् अतएवाहसमस्तेति परमेश्वरतालाभे हि सर्व्वाःसम्पदस्तन्निस्यन्दमय्यः सम्पन्ना एव रोहणाचललाभे रत्नसम्पद इव। एवं परमेश्वरतालाभे किमन्यत् प्रार्थनीयम्। तदुक्तमुत्पलाचार्य्यैः
भक्तिलक्ष्मीसमृद्धानां किमन्यदुपयाचितम्।
एनया वा दरिद्राणां किमन्यदुपयाचितमिति॥
इत्थं षष्ठीसमासपक्षेप्रयोजनं निर्द्दिष्टम्। बहुब्रीहिपक्षेतूपायः समस्तस्य वाह्याभ्यन्तरस्य नित्यसुखादेर्या सम्पत्सिद्धिः तथात्वप्रकाशः तस्याः सम्यगवाप्तिर्यस्याः प्रत्यभिज्ञायाः हेतुःसा तथोक्ता। तस्य महेश्वरस्य प्रत्यभिज्ञा प्रतिमाभिमुख्येन ज्ञानम्। लोके हि स एवायं चैत्र इति प्रतिसन्धानेनाभिमुखीभूते वस्तुनि ज्ञानं प्रत्यभिज्ञेनि व्यवह्नियते इहापि प्रसिद्धपुराणसिद्धागमानुमानादिपरिज्ञातपरिपूर्णशक्तिके परमेश्वरेसति स्वात्मन्यभिमुखीभूतेतच्छक्तिप्रतिसन्धानेन ज्ञानमुदेति नूनं स एवेश्वरोऽहमिति। तामेतां प्रत्यभिज्ञामुपपादयामि उपपत्तिः सम्भवः सम्भवतीति तत्समर्थचरणेन प्रयोजनव्यापारेण सम्पादयामीत्यर्थः। यदीश्वरस्वभाव एवात्मा प्रकाशते तर्हि किमनेन प्रत्यभिज्ञाप्रदर्शनप्रयासेनेति चेत् तबायं समाधिः स्वप्रकाशतया सततमवभासमानेऽप्यात्मनि मायावशात् भागेन प्रका-
शने पूर्णतावभाससिद्धये दृक्क्रियात्मकशक्त्याविष्करणेन प्रत्यभिज्ञा प्रदर्श्यते। तथा च प्रयोगः अयमात्मा परमेश्वरो भवितुमर्हति ज्ञानक्रियाशक्तिमत्त्वात् या यावति ज्ञाता कर्त्ताच स तावतीश्वरः प्रसिद्धेश्वरवत् राजवद्वा।आत्मा च विश्वज्ञाता कर्त्ताच तस्मादीश्वरोऽयमिति अवयवपञ्चकस्याश्रयणं मायावादेन नैयायिकमतस्य कक्षीकारात्। तदुक्तमुदयाकरसूनुना
कर्त्तरि ज्ञातरि स्वात्मन्यादिसिद्धे महेश्वरे।
अजडात्मा निषेधंवा सिद्धिं वा विदधीत कः॥
किन्तु मोहवशादस्मिन् दृष्टेऽप्यनुपलक्षिते।
शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदर्श्यते॥
तथा हि।
सर्व्वेषामिह भूतानां प्रतिष्ठा जीवदाश्रया।
ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतम्॥
तत्रज्ञानं स्वतः सिद्धं क्रिया काश्याश्रिता सती।
परैरप्युपलक्ष्येत तयान्यज्ज्ञानमुच्यत इति॥
या चैषां प्रतिभा तत्तत्पदार्थक्रमरूपिता।
अक्रमानन्दचिद्रूपः प्रमाता स महेश्वर इति च॥
सोमानन्दनाथपादैरपि
सदा शिवात्मना वेत्ति सदा वेत्ति मदात्मना इत्यादि।
ज्ञानाधिकारपरिसमाप्तावपि
तदैक्येन विना नास्ति संविदां लोकपद्धतिः।
प्रकाशैक्यात्तदेकत्वं मातैकः स इति स्थितः॥
स एवार्थभृशत्वेन नियतेन महेश्वरः।
विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यत इति॥
विवृतं चाभिनवगुप्तार्य्यैः। तमेव भान्तमनुभाति सर्व्वं तस्य भाषा सर्व्वमिदं विभातीति श्रुत्या च प्रकाशचिद्रूपमहिम्ना सर्व्वस्य भावजातस्य भासकत्वमभ्युपेयते ततश्चविषयप्रकाशस्य नीलप्रकाशः पीतप्रकाश इति विषयोपरागभेदाद्भेदः। वस्तुतस्तु देशकालाकारसङ्कोचवैकल्यादभेद एव स एव चैतन्यरूपः प्रकाशः प्रमातेत्युच्यते तथा च पठितं शिवसूत्रेषु चैतन्यमात्मेति। तस्य चिद्रूपत्वमनवच्छिन्नविमर्शत्वमनन्योन्मुखत्वमानन्दैकघनत्वं माहेश्वर्य्यमिति पर्य्ययः स एवा ह्ययं भावात्मा विमर्शः शुद्धे पारमार्थिक्यौ ज्ञानक्रिये तत्र प्रकाशरूपता ज्ञानं स्वतोजगन्निर्म्मातृत्वंक्रिया। तच्च निरूपितं क्रियाधिकारे
एष चानन्दशक्तित्वादेवमाभासयत्यमून्।
भावानिच्छावशादेषा क्रिया निर्म्मातृतास्य सेति॥
उपसंहारेऽपि।
इत्थं तथा घटपटाद्याकारजगदात्मना।
तिष्ठासोरेवमिच्छैव हेतुकर्तृकृता क्रियेति॥
तस्मिन् सतीदमस्तीति कार्य्यकारणतापि या।
साप्यपेक्षाविहीनानां जडानां नोपपद्यते
इति न्यायेन यतो जडस्य न कारणता न वा अनीश्वरस्य चेतनस्यापि तस्मात्तेन तेन जगद्गतजन्मस्वित्यादिभावविकारतत्तद्भेदक्रियासहस्ररूपेण स्यातुमिच्छोःस्वतन्त्रस्य भगवतो महे-
श्वरस्येच्छैवोत्तरोत्तरमुच्छूनस्वभावा क्रिया विश्वकर्तृत्वंवोच्यत इति। इच्छामात्रेण जगन्निर्म्माणमित्यत्र दृष्टान्तोऽपि स्पष्टं निर्दिष्टः
योगिनामपि मृद्वीजे विनैवेच्छावशेन यत्।
घटादि जायते तत्तत् स्थिरस्वार्थक्रियाकरमिति॥
यदि घटादिकं प्रति मृदाद्येव परमार्थतः कारणं स्यात्तर्हि कथं योगीच्छामात्रेण घटादिजन्म स्यात्। अथोच्येत अन्य एव मृद्वीजादिजन्या घटाङ्कुरादयो योगीच्छाजन्यास्त्वन्या एवेति तत्रापि बोध्यसे सामग्रीभेदात्तावत् कार्य्यभेद इति सर्व्वजनप्रसिद्धम्। ये तु वर्णयन्ति नोपादानं विना घटाद्युत्पत्तिरिति योगी त्विच्छया परमाणून् व्यापारयन् सङ्घटयतीति तेऽपि बोधनीयाः। यदि परिदृष्टकार्य्यकारणभावविपर्य्ययो न लभ्येत तर्हि घटे मृद्दण्डचक्रादि देहे स्त्रीपुरुषसंयोगादि सर्व्वमपेक्ष्येत तथा च योगीच्छासमनन्तरसञ्जातघटदेहादिसम्भवो दुःसमर्थ एव स्यात् चेतन एव तु तथा भाति भगवान् भूरिभगो महादेवा नियत्यनुवर्त्तनोल्लङ्घनघनतरस्वातन्त्र्यइति पक्षे न काचिदनुपपत्तिः। अतएवेाक्तंवसुगुप्ताचार्य्यैः
निरुपादानसम्भारमभित्तावेव तन्वते।
जगच्चित्रं नमस्तस्मै कलाश्लाघ्यय शूलिन इति॥
ननु प्रत्यगात्मनः परमेश्वराभिन्नत्वे संसारसम्बन्धः कथं भवेदिति चेत्तत्रोक्तमागमाधिकारे
एष प्रमाता मायान्धः संसारी कर्म्मबन्धनः
विद्यादिज्ञापितैश्वर्य्यश्चिद्वनो मुक्त उच्यत इति॥
ननु प्रमयस्य प्रमात्रभिन्नत्वेवन्धमुक्तयोःप्रमेयं प्रति को विशेषः अत्राप्युत्तरमुक्तं तत्त्वार्थसंग्रहाधिकारे
मेयं साधारणं मुक्तः स्वात्माभेदेन मन्यते।
महेश्वरो यथावद्भः पुनरत्यन्तभेदवदिति॥
नन्वात्मनः परमेश्वरत्वं स्वाभाविकं चेन्नार्थः प्रत्यभिज्ञाप्रार्थनया नहि वीजमप्रत्यभिज्ञातं सति सहकारिसाकल्ये अङ्कुरं नोत्पादयति तस्मात् कस्माद्वात्मप्रत्यभिज्ञाने निर्बन्ध इति चेदुच्यते। शृणु तावदिदं रहस्यं द्विविधा ह्यर्थक्रिया वाह्याङ्कुरादिका प्रमातृविश्रान्तिचमत्कारसारा प्रीत्यादिरूपा च तत्राद्या प्रत्यभिज्ञानं नापेक्षते द्वितीया तु तदपेक्षत एव। इहाप्यहमीश्वर इत्येवम्भूतचमत्कारसारा परापरसिद्धिलक्षणजीवात्मैकत्वशक्तिविभूतिरूपार्थक्रियेति स्वरूपप्रत्यभिज्ञानमपेक्षणीयम्। ननु प्रमातृविश्रान्तिसारार्थक्रिया प्रत्यभिज्ञानेन विना दृष्टा सती तस्मिन् दृष्टेति क्व दृष्टम्। अत्रोच्यते नायकगुणगणसंश्रवणप्रवृद्धानुरागा काचन कामिनी मदनविह्नला विरहक्लेशमसहमाना मदनलेखावलम्बनेन स्वावस्थानिवेदनानि विधत्ते तथा वेगात्तन्निकटमटत्यपि तस्मिन्नवलोकितेऽपि तदवलोकनं तदीयगुणपरामर्शाभावे जनसाधारणत्वं प्राप्ते हृदयङ्गमभावं न लभते। यदा तु मूर्त्तिवचनात्तदीयगुणपरामर्शं करोति तदा तत्क्षणमेव पूर्णभावमत्येति। एवं स्वात्मनि विश्वेश्वरात्मना भासमानेऽपि तन्निर्भासनं तदीयगुणपरामर्शविरहसमये पूर्वं भावं न सम्पादयति
यदा तु गुरुवचनादिना सर्व्वज्ञत्व सर्व्वकर्तृत्वादिलक्षणपरमेश्वरोत्कर्षपरामर्शोजायते तदा तत्क्षणमेव पूर्णत्मतालाभः। तदुक्तं चतुर्थे विमर्शे
तैस्तैरप्युपयाचितैरुपगतस्तस्याः स्थितोऽप्यन्तिके
कान्तोलोकसमान एवमपरिज्ञातो न रन्तुं यथा।
लोकस्यैष तथानपेक्षितगुणः स्वात्मापि विश्वेश्वरो
नैवायं निजवैभवाय तदियं तत्प्रत्यभिज्ञोदिता इति॥
अभिनवगुप्तादिभिराचार्य्यैर्विहितप्रतानोऽपि अयमर्थः संग्रहमुपक्रममाणैरस्माभिर्विस्तरभिया न प्रतानित इति सर्व्वं शिवम्॥
इति सर्व्वदर्शनसङ्ग्रहे प्रत्यभिज्ञादर्शनम्॥