०८ शैवदर्शनम्

तमिमं परमेश्वरः कर्म्मादिनिरपेक्षः कारणमिति पक्षं वैषम्बनैर्घृण्यदोषदूषितत्वात् प्रतिक्षिपन्तः केचन माहेश्वराः ज्ञैवागमसिद्धान्ततत्त्वं यथावदीक्षमाणाः कर्म्मादिमापेक्षःपरमेश्वरः कारणमिति पक्षं कक्षीकुर्व्वाणाः पक्षान्तरमुपक्षिपन्ति पतिप शुपाशभेदात् त्रयः पदार्थ इति। तदुक्तंतन्त्रतत्त्वज्ञैः

त्रिपदार्थं चतुष्पादं महातन्त्रं जगद्गुरुः।
सूत्रेणैकेन संक्षिप्य प्राह विस्तरतः पुनरिति॥

अस्यार्थः उक्तास्तयः पदार्थ यस्मिन् सन्ति तत्त्रिपदार्थं विद्या-

क्रियायोगचर्य्याख्याश्चत्वारः पादा यस्मिन् तच्चतुश्चरणं महातन्त्रमिति। तत्र पशूनामस्वतन्त्रत्वात् पाशानामचैतन्यात् तद्विलक्षणस्य पत्युःप्रथममुद्देशः। चेतनत्वसाधर्म्यात् पशूनां तदामन्तर्य्यम्।अवशिष्टानां पाशानामन्ते विनिवेश इति क्रमनियमः दीक्षायाःपरमपुरुषार्थहेतुत्वात्तस्याश्च पशुपाशेश्वरस्वरूपनिर्णयोपायभूतेन मन्त्रमन्त्रेश्वरादिमाहात्म्यनिश्चायकेन ज्ञानेन विना निष्पादयितुमशक्यत्वात् तदवबोधकस्य विद्यापादस्य प्राथम्यम्। अनेकविधसाङ्गदीक्षाविधिप्रदर्शकस्य क्रियापादस्य तदनन्तर्य्यम्। योगेन विना नाभिमतप्राप्तिरिति साङ्गयोगज्ञापकस्य योगपादस्य तदुत्तरत्वम्। विहिताचरणनिषिद्धवर्जनरूपां चर्य्यांविना योगोऽपि न निर्वहतीति तत्प्रतिपादकस्य चर्य्यापादस्य चरमत्वमिति विवेकः। तत्र पतिपदार्थः शिवोऽभिमतः। मुक्तात्मनां विश्वेश्वरादीनाञ्च यद्यपि शिवत्वमस्तितथापि परमेश्वरपारतन्न्यात् स्वातन्त्र्यंनास्ति। ततश्च तदनुकरणभुवनादीनां भावानां सन्निवेशविशिष्टत्वेन कार्य्यत्वमवगम्यते। तेन च कार्य्यत्वेनैषां बुद्धिमत्पूर्व्वकत्वमनुमीयत इत्यनुमानवशात् परमेश्वरप्रसिद्धिरुपपद्यते।

ननु देहस्यैव तावत्कार्य्यत्वमसिद्धं न हि क्वचित् केनचित् कदाचित् देहः क्रियमाणो दृष्टचरः। सत्यं तथापि न केनचित् क्रियमाणत्वं देहस्य दृष्टमिति कर्तृदर्शनापह्नवोन युज्यते तस्यानुमेयत्वेनाप्युपपत्तेः। देहादिकं कार्य्यं भवितुमर्हति सन्निवेशविशिष्टत्वात् विनश्वरत्वाद्वाघटादिवत् तेन च कार्य्यत्वेन

बुद्धिमत्पूर्व्वकत्वमनुमातुं सुकरमेव। विमतं सकर्तृकं कार्य्यात्वात् घटवत् यदुक्तसाधनं तदुक्तसाध्यं न यदेवं न तदेवं यथात्मादि। परमेश्वरानुमानप्रामाण्यसाधनानुमानमन्यत्राकारीत्युपरम्यते।

अज्ञोजन्तुरनीशोऽयमात्मनः सुखदुःखयोः।
ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा॥

इति न्यायेन प्राणिकृतकर्म्मानुपेक्षया परमेश्वरस्य कर्तृत्वोपपत्तेः। न च स्वातन्त्र्यविहतिरिति वाच्यं करणापेक्षया कर्तुः स्वातन्त्र्यविहतेरनुपलम्भात् कोषाध्यक्षापेक्षस्यराज्ञः प्रसादादिना दानवत्। यथोक्तं सिद्धगुरुभिः

स्वतन्त्रस्याप्रयोज्यत्वं करणादिप्रयोक्तृता।
कर्त्तुः स्वातन्त्र्यमेतद्धि न कर्म्माद्यनपेक्षतेति॥

तथा च तप्तत्कर्म्माशयवशाद्भोगतत्साधनतदुपादानादिविशेषज्ञः कर्त्ताअनुमानादिसिद्ध इति सिद्धम्। तदिदमुक्तं तत्र भवद्भिर्वृहस्पतिभिः

इह भाग्यभोगसाधनतदुपादानादि यो विजानाति।
तमृते भूतन्नहीदं पुंस्कर्म्माशयविपाकज्ञमिति।

अन्यत्रापि।

विवादाध्यासितं सर्व्वंबुद्धिमत्कर्तृपूर्व्वकम्।
कार्य्यत्वादावयोः सिद्धं कार्य्यं कुम्भादिकं यथेति॥

सर्व्वात्मकत्वादेवास्य सर्व्वज्ञत्वं सिद्धम् अज्ञस्य करणासम्भवात्। उक्तञ्च श्रीमन्मृगेन्द्रैः

सर्व्वज्ञः सर्व्वकर्तृत्वात् साधनाङ्गफलैः सह।

यो यज्जानाति कुरुते स तदेवेति सुस्थितमिति॥

अस्तु तर्हि स्वतन्त्र ईश्वरः कर्त्तास तु तावदशरीरः घटादिकार्य्यस्य शरीरवता कुलालादिना क्रियमानत्वदर्शनात् शरीरवत्त्वे चास्मदादिवदीश्वरः क्लेशयुक्तोऽसर्व्वज्ञः परिमितशक्तिं प्राप्नुयादिति चेन्मैवं मंस्थाः अशरीरस्याप्यात्मनः स्वशरीरस्यन्दादौ कर्तृत्वदर्शनादभ्युपगम्यापि ब्रूमहे शरीरवत्त्वेऽपि भगवतोन प्रागुक्तदोषानुषङ्गः। परमेश्वरस्य हि मलकर्म्मादिपाशजालासम्भवेन प्राकृतं शरीरं न भवति किन्तु शाक्तंशक्तिरूपैरीशानादिभिः पञ्चभिर्मन्त्रैर्मस्तकादिकल्पनायामीशानमस्तकस्तत्पुरुषवक्तोघोरहृदयो वामदेवगुह्यः सद्योजातपादः ईश्वर इतिप्रसिद्ध्या यथाक्रमानुग्रहतिरोभावादानलक्षण स्थितिलक्षणोङ्गवलक्षण कृत्यपञ्चककारणं स्वेच्छानिर्म्मितंतच्छरीरं नचास्मत्शरीरसदृशम्। तदुक्तंश्रीमन्मृगेन्द्रे

मलाद्यसम्भवाच्छक्तं वपुर्नैतादृशं प्रभोरिति।

अन्यत्रापि

तद्वपुःपञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः।
ईशतत्पुरुषाघेारवामाद्यैर्मस्तकादिमदिति॥

ननु पञ्चवक्त्रस्त्रिपञ्चदृगित्यादिना आगमेषु परमेश्वरस्य मुख्यत एव शरीरेन्द्रियादियोगः श्रूयत इति चेत् सत्यं निराकारे ध्यानपूजाचमम्भवेन भक्तानुग्रहकरणाय तत्तदाकारणहष्णाविरोधात्। तदुक्तं श्रीमत्पौष्करे

साधकस्य तु रक्षार्थं तस्य रूपमिदं स्मृतमिति।

अन्यात्रापि

आकारवांस्त्वं नियमादुपास्यो
नवस्त्वनाकारमुपैति बुद्धिरिति।

कृत्यपञ्चकं च प्रपञ्चितं भोजराजेन

पञ्चविधं तत्कृत्यं सृष्टिस्थितिसंहारतिरोभावः।
तद्वदनुग्रहकरणं प्रोक्तंसततोदितस्यास्येति॥

एतञ्चकृत्यपञ्चकं शुद्धाध्वविषये साक्षाच्छिवकर्तृकं कृच्छ्राध्वविषये त्वनन्तादिद्वारेणेति विवेकः। तदुक्तं श्रीमत्करणे शुद्धेऽध्वनि शिवः कर्त्ताप्रोक्तोऽनन्तोऽहिते प्रभोरिति।

एवञ्च शिवशब्देन शिवत्वयोगिनां मन्त्रेश्वरमहेश्वरमुक्तात्मशिवानां सवाचकानां शिवत्वप्राप्तिसाधनेन दीक्षादिनोपायकलापेन सह पतिपदार्थे संग्रहः कृत इति बोद्धव्यम्। तदित्थं पतिपदार्थो निरूपितः।

सम्प्रति पशुपदार्थो निरूप्यते। अनणुक्षेत्रज्ञादिपदवेदनीयो जीवात्मा पशुः न तु चार्व्वाकादिवद्देहादिरूपः नान्यदृष्टं स्मरत्यन्य इति न्यायेन प्रतिसन्धाभानुपपत्तेः। नापि नैयायिकादिवत् प्रकाश्यः अनवस्थाप्रसङ्गात्। तदुक्तम्

आत्मा यदि भवेन्मेयस्तस्य माता भवेत् पर इति।
पर आत्मा तदानींस्यात् स परो यदि दृश्यत इति।

न च जैनवदव्यापकः नापि बौद्धवत् क्षणिकः देशकालाभ्यामनवच्छिन्नत्वात्। तदयुक्तम्

अनवच्छिन्नसद्भावं वस्तु यद्देशकालतः।

तन्नित्यं विभु चेच्छन्तीत्यात्मना विभुनित्यतेति॥

नाप्यद्वैतवादिनामिवैकः भोगप्रतिनियमस्य पुरुषबहुत्वज्ञापकस्य सम्भवात्। नापि साङ्ख्यानामिवाकर्त्तापाशजालापोहने नित्यनिरतिशयदृक्क्रियारूपचैतन्यात्मकशिवत्वश्रवणात्। तदुक्तं श्रीमन्मृगेन्द्रे।

पाशान्ते शिवताश्रुतेरिति।
चैतन्यं दृक्क्रियारूपं तदस्यात्मनि सर्व्वदा।
सर्व्वतश्च यतो मुक्तौश्रूयते सर्व्वतो मुखमिति॥

तत्त्वप्रकाशोपि

मुक्तात्मानोऽपि शिवाः किञ्चैते तत्प्रसादतो मुक्ताः।
सोऽनादिमुक्त एको विज्ञेयः पञ्चमन्त्रतनुरिति।

पशुस्त्रिविधः विज्ञानाकल प्रलयाकलसकलभेदात्। तत्र प्रथमो विज्ञानयोगसन्न्यासैर्भोगेन वा कर्म्मक्षये सति कर्म्मक्षयार्थस्य कलादिभोगबन्धस्याभावात् केवलमलमात्रयुक्तो विज्ञानाकल इति व्यपदिश्यते। द्वितीयस्तु प्रलयेन कलादेरुपसंहारात् मलकर्म्मयुक्तः प्रलयाकलइति व्यवह्रियते। तृतीयस्तु मलमायाकर्म्मात्मकबन्धत्रयसहितः सकल इति संलप्यते। तत्र प्रथमो द्विप्रकारो भवति समाप्तकलुषासमाप्तकलुषभेदात्। तत्राद्यान् कालुष्यपरिपाकवतः पुरुषधौरेयान् अधिकारयोग्याननुगृह्मानन्तादिविद्येश्वराष्टपदं प्रापयति। तद्विद्येश्वराष्टकं निर्दिष्टं बहुदैवत्ये

अनन्तश्चैव सूक्ष्मश्च तथैव च शिवोत्तमः।

एकनेत्रस्तथैवैकरुद्रञ्चापि त्रिमूर्त्तिकः।
श्रीकण्ठश्चशिखण्डी च प्रोक्ता विद्येश्वरा इमे॥

अन्त्यान् सप्तकोटिसङ्ख्यातान् मन्त्राननुग्रहकरणान् विधत्ते। तदुक्तं तत्त्वप्रकाशे

पशवस्त्रिविधाः प्रोक्ता विज्ञानप्रलयकेवलौसकलः।
मलयुक्तस्तत्राद्योमलकर्म्मयुतो द्वितीयः स्यात्।

मलमायाकर्म्मयुतः सकलस्तेषु द्विधा भवेदाद्यः।
आद्यः समाप्तकलुषोऽसमाप्तकलुषोद्वितीयः स्यात्।

आद्याननुगृह्य शिवो विद्येशत्वे नियोजयत्यष्टौ।
मन्त्रांश्च करोत्यपरान् ते चोक्ताःकोटयः सप्तेति।

सोमशम्भुनाप्यभिहितं

विज्ञानाकलनामैको द्वितीयः प्रलयाकलः।
तृतीयः सकलःशास्त्रेऽनुग्राह्यस्त्रिविधो मतः।

तत्राद्योमलमात्रेण युक्तोऽन्ये मलकर्म्मभिः।
कलादिभूमिपर्य्यन्ततत्त्वैस्तु सकलोयुत इति॥

प्रलयाकलोऽपि द्विविधः पक्कपाशद्वयः तद्विलक्षणश्च तत्र प्रथमो मोक्षं प्राप्नोति द्वितीयस्तु पुर्य्यष्टकयुतः कर्म्मवशान्नानाविधजन्मभाग्भवति। तदप्युक्तं तत्त्वप्रकाशे

प्रलयाकलेषु येषामपक्कमलकर्म्मणीव्रजन्त्येते।
पुर्य्यष्टकदेहयुता योनिषु निखिलासु कर्म्मवशादिति।

पुर्य्यष्टकमपि तत्रैव निर्दिष्टम्

स्यात् पुर्य्यष्टकमन्तःकरणं धीःकर्म्म करणानीति।

विवृतं चाघोरशिवाचार्य्येण पुर्य्यष्टकं नाम प्रतिपुरुषं नियतः सर्गादारभ्य कल्पान्तं मोक्षान्तं वा स्थितः पृथिव्यादिकलापर्य्यन्तस्त्रिंशत्तत्वात्मकः सूक्ष्मो देहः। तथा चोक्तंतत्त्वसंग्रहे।

वसुधाद्यस्तत्त्वगणः प्रतिपुन्नियतः कलान्तोऽयम्।
पर्य्यटति कर्म्मवशाद्भुवनजदेहेष्वयञ्च सर्व्वेष्विति।

तथा चायमर्थः समपद्यत अन्तःकरणशब्देन मनोबुद्ध्यहङ्कारचित्तवाचिना अन्यान्यपि पुंसो भोगक्रियायामन्तरङ्गाणि कलाकालनियतिविद्यारागप्रकृतिगुणाख्यानि सप्त तत्त्वानि उपलक्ष्यन्ते धीकर्म्मशब्देन ज्ञेयानि पञ्च भूतानि तत्करणानि च तन्मात्राणि विवक्ष्यन्ते करणशब्देन ज्ञानकर्म्मेन्द्रियदशकं संगृह्यते।

ननु श्रीमत्कालोत्तरे शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चकम्। बुद्धिर्मनस्त्वहङ्कारः पुर्य्यष्टकमुदाहृतमिति श्रूयते तत्कथमन्यथा कथ्यते।अद्धा अतएव च तत्रभवता रामकण्ठेन तत् सूत्रं शक्तत्वपरतया व्याख्यायीत्यलमतिप्रपञ्चेन। तथापि कथं पुनरस्य पुर्य्यष्टकत्वं भूततन्मात्रबुद्धीन्द्रियकर्म्मेन्द्रियान्तः करणसंज्ञैः पञ्चभिर्वर्गैस्तत्करणेन प्रधानेन कलादिपञ्चककञ्चुकात्मना वर्गेण चारब्धत्वादित्यविरोधः। तत्र पुर्य्यष्टकयुतान् विशिष्टपुष्यसम्पन्नान् कांश्चिदनुगृह्य भुवनपतित्वमत्र महेश्वरोऽनन्तः प्रयच्छति। तदुक्तम्

कांश्चिदनुगृह्य वितरति भुवनपतित्वं महेश्वरस्तेषामिति। सकलोऽपि द्विविधः पक्वकलुषापक्वकलुषभेदात्। तत्राद्यान्

परमेश्वरस्तत्परिपाकपरिपाठ्यातदनुगुणशक्तिपातेन मण्डल्याद्यष्टादशोत्तरशतं मन्त्रेश्वरपदं प्रापयति। तदुक्तम्

शेषा भवन्ति सकलाः कलादियोगादहर्मुखे काले।
शतमष्टादश तेषां कुरुते स्वयमेव मन्त्रेशान्॥

तत्राष्टौ मण्डलिनः क्रोधाद्यास्तत्समाश्चवीरेशः।
श्रीकण्ठः शतरुद्राः शतमित्यष्टादशाभ्यधिकमिति॥

तत्परिपाकाधिक्यनिरोधेन शक्त्युत्युपसंहारेण दीक्षाकरणेन मोक्षप्रदो भवत्याचार्य्यमूर्त्तिमास्थाय परमेश्वरः। तदयुक्तम्

परिपक्वमलानेतानुत्सादनशक्तिपातेन।
योजयति परे तत्त्वे सदीक्षयाचार्य्यमूर्त्तिस्य इति॥

श्रीमन्मृगेन्द्रेऽपि

पूर्व्वं व्यत्यासि तस्याणोःपाशजालमपोहतीति।

व्याकृतञ्चनारायणकण्ठेन तत्सर्व्वंतत एवावधार्य्यम् अस्माभिस्तु विस्तरभिया न प्रस्तूयते। अपक्वकलुषान् बद्धानणून् भोगभाजो विधत्तेपरमेश्वरः कर्म्मवशात्। तदप्युक्तम्

बद्धान् शेषानपरान् विनियुङ्क्ते भोगभुक्तये पुंसः।
तत्कर्म्मणामनुगमादित्येवं कीर्त्तिताः पशव इति॥

अथ पाशपदार्थः कथ्यते। पाशश्चतुर्विधः मलकर्म्ममायारोधशक्तिभेदात्। ननु शैवागमेषु मुख्यं पतिपशुपाशा इति क्रमास्त्रितथम्। तत्रपतिः शिव उक्तः पशवो ह्यणवोऽर्थपञ्चकं पाशा इति पाशः पञ्चविधः कथ्यते तत्कथं चतुर्विध इति गण्यते। उच्यते। विन्दोर्मायात्मनः शिवतत्त्वपदवेदनीयस्य शिवपदप्रा-

प्तिलक्षणपरममुक्त्यपेक्षया पाशत्वेऽपि तद्योगस्य विद्येश्वरादिपदप्राप्तिहेतुत्वेनापरमुक्तित्वात् पाशत्वेनानुपादानमित्यविरोधः। अतएवोक्तं तत्त्वप्रकाशे

पाशाश्चतुर्विधाः स्युरिति।

श्रीमन्मृगेन्द्रेऽपि

प्रावृतीशौ बलं कर्म्म मायाकार्य्यञ्चतुर्विधम्।
पाशजालं समासेन धर्म्मनाम्नैव कीर्त्तिता इति॥

अस्यार्थः प्रावृणोति प्रकर्षेणाच्छादयत्यात्मनोदृक्क्रिये इति प्रावृतिः॥ स्वाभाविक्यशुचिर्मलः स च ईष्ठे स्वातन्त्रेणेति ईशः। तदुक्तम्

एको ह्यनेकशक्ति दृक्क्रिययोश्छेदको मलः पुंसः।
तुषतण्डुलवत् ज्ञेयस्ताम्राश्रितकालिकावद्वेति॥

बलं रोधशक्तिः अस्याः शिवशक्तेः पाशाधिष्ठानेन पुरुषतिरोधायकत्वादुपचारेण पाशत्वम्। तदुक्तम्

तासामहं वरा शक्तिः सर्व्वनुग्राहिका शिवा।
धर्म्मानुवर्त्तनादेव पाश इत्युपचर्य्यत इति॥

क्रियते फलार्थिभिरिति कर्म्म धर्म्माधर्म्मात्मकं वीजाङ्कुरवत् प्रवाहरूपेणानादि। यथोक्तं श्रीमत्किरणे

यथानादिर्मलस्तस्यकर्म्माल्पकमनादिकम्।
यद्यनादिरसं सिद्धं वैचित्र्यं केन हेतुनेति॥

मात्यस्यां शक्त्यात्मना प्रलये सर्व्वंजगत् सृष्टौव्यक्तिं यातीति माया। यथोक्तंश्रीमत्सोरभेये

शक्तिरूपेण कार्य्याणि तल्लीनानि महाक्षये।
विकृतौ व्यक्तिमायाति साकार्य्येण कलादिनेति॥

यद्यप्यत्र बहु वक्तव्यमस्ति तथापि ग्रन्थभूयस्त्वभयादुपरम्यते।तदित्यं पतिपशुपाशपदार्थास्त्रयः प्रादर्शिषत।

**पतिविद्येतथाविद्यापशुः पाशश्च कारणम्।
तन्निवृत्ताविति प्रोक्ताः पदार्थाःषट् समासतः **

इत्यादिना प्रकारान्तरं ज्ञानरत्नावल्यादौप्रसिद्धम्। सर्व्वंतत एवावगन्तव्यमिति सर्व्वंसमञ्जयम्॥

इति सर्व्वदर्शनसङ्ग्रहे शैवदर्शनम्॥