तदेतद्वैष्णवमतं दासत्वादिपदवेदनीयं परतन्त्रदुःखावहत्वान्नदुःखान्तादीप्सितास्पदमित्यरोचयमानाः पारमैश्वर्य्यं कामयमानाः पराभिता मुक्ता न भवन्ति परतन्त्रत्वात् पारमैश्वर्य्यरहितत्वादस्मदादिवत् मुक्तात्मानश्च परमेश्वरगुणसम्बन्धिनः पुरुषत्वे सति समस्तदुःखवीजविधुरत्वात् परमेश्वरवदित्याद्यनुमानं प्रमाणं प्रतिपद्यमानाः केचन माहेश्वराः परमपुरुषार्थसाधनपञ्चार्थप्रपञ्चनपरं पाशुपतशास्त्रमाश्रयन्ते। तत्रेदमादिसूत्रम् अथातः पशुपतेः पाशुपतयोगविधिं व्याख्यास्याम इति। अस्यार्थः अत्राथशब्दः पूर्व्वप्रकृतापेक्षः। पूर्व्वप्रकृतश्चगुरुं प्रति शिष्यस्य प्रश्नः। गुरुस्वरूपं गणकारितायां निरूपितम्
पञ्चकास्त्वष्ट विज्ञेया गणश्चैकचिकात्मकः।
वेत्तानवगणस्यास्य संस्कर्त्तागुरुरुच्यत इति॥
लाभा मला उपायाश्च देशावस्थाविशुद्धयः।
दीक्षाकारिबलान्यष्टौ पञ्चकास्त्रीणि वृत्तय इति॥
तिस्रो वृत्तय इति प्रयोक्तव्ये त्रीणि वृत्तय इति छान्दसः प्रयोगः। तत्र विधीयमानमुपायफलं लाभः ज्ञानतपोदेवनित्यत्वस्थितिशुद्धिभेदात् पञ्चविधः। तदाह हरदत्ताचार्य्यःज्ञानं तपोऽथ नित्यत्वं स्थितिः शुद्धिञ्च पञ्चममिति। आत्माश्रितो दुष्टभावो मलः स मिथ्याज्ञानादिभेदात् पञ्चविधः। तदप्याह
मिथ्याज्ञानमधर्म्मश्च सक्तिर्हेतुश्च्युतिस्तथा।
पशुत्वमूखं पञ्चैते तन्त्रेहेया विविक्रित इति॥
साधकस्य शुद्धिहेतुरुपायः वासचर्य्यादिभेदात्पञ्चविधः। तदप्याह
वासचर्य्याजपो ध्यानं सदा रुद्रस्मृतिस्तथा।
प्रतिपत्तिश्चलाभानामुपायाः पञ्च निश्चिता इति॥
येनार्थानुसन्धानपूर्वकं ज्ञानतपोवृद्धी प्राप्नोति स देशो गुरुजनादिः। यदाह
गुरुर्जनो गुहादेशःश्मशानं रुद्र एव चेति।
आलाभप्राप्तेरेकतमादौ यदवस्थानं सावस्था व्यक्तादिविशेषेण विशिष्टा। तदुक्तम्
व्यक्ताव्यक्ताजपादानं निष्ठा चैव हि पञ्चममिति।
मिथ्याज्ञानादीनामत्यन्तव्यपोहो विशुद्धिः। सा प्रतियोगिभेदात् पञ्चविधा। तदुक्तम्
अज्ञानस्याप्यसङ्गस्य हानिः सङ्गकरस्य च।
च्युतिर्हानिः पशुत्वस्य शुद्धिः पञ्चविधा स्मृतेति॥
दीक्षाकारिकञ्चकं चोक्तम्
द्रव्यं कालः क्रिया मूर्त्तिर्गुरुश्चैव हि पञ्चम इति।
बलपञ्चकञ्च
गुरुभक्तिः प्रसादश्च मतेर्द्वन्द्वजयस्तथा।
धर्म्मश्चैवाप्रमादश्च बलं पञ्चविधं स्मृतमिति॥
पञ्चमललघूकरणार्थं मानामानविरोधिनोऽन्नार्जनोपाया वृत्तयः भैक्ष्योत्सृष्टयथालब्धाभिधा इति। शेषमशेषमाकर एवागन्तव्यम्।
अत्राथशब्देन दुःखान्तस्य प्रतिपादनम् आध्यात्मिकादिदुःखव्यपोहप्रश्नार्थत्वात्तस्य पशुशब्देन कार्य्यस्य परतन्त्रवचन-
त्वात्तस्य पतिशब्देन कारणस्येश्वरः पतिरीशितेति जगत्कारणीभूवेश्वरवचनत्वात्तस्य। योगविधी तु प्रसिद्धौ। तत्र दुःखान्तो द्विविधःअनात्मकः सात्मकश्चेति तत्रानात्मकः सर्व्वदुःखानामत्यन्तोच्छेदरूपः सात्मकस्तु दृक्क्रियाशक्तिलक्षणमैश्वर्य्यम्। तत्र दृक्शक्तिरेकापि विषयभेदात् पञ्चविधोपक्षर्व्यते दर्शनं अवसं मननं विज्ञानं सर्व्वज्ञत्वञ्चेति। तत्र सूक्ष्मव्यवहितविप्रकृष्टाशेषचाक्षुषस्पर्शादिविषयं ज्ञानं दर्शनम्। अशेषशब्दविषयं सिद्धिज्ञानं श्रवणम्। समस्तचिन्ताविषयं सिद्धिज्ञानं मननम्। निरवशेषशास्त्रविषयं ग्रन्थतोऽर्थतश्च सिद्धिज्ञानं विज्ञानम्। उक्तानुक्ताशेषार्थेषु समासविस्तरविभागविशेषतश्चतत्त्वव्याप्तसदोदितसिद्धिज्ञानं सर्व्वज्ञत्वम् इत्येषा धीशक्तिः। क्रियाशक्तिरेकापि त्रिविधोपचर्व्यते मनोजवित्वं कामरूपित्वं विक्रमणधर्म्मित्वञ्चेति। तत्र निरतिशयशीघ्रकारित्वं मनोजवित्वं। कर्म्मादिनिरपेक्षस्य स्वेच्छथैवानन्तसलक्षणविलक्षणसरूपकरणाधिष्ठातृत्वं कामरूपित्वम्। उपसंहतकरणस्यापि निरतिशयैश्वर्य्यसम्बन्धित्वं विक्रमपधर्म्मित्वमित्येषा क्रियाशक्तिः। यदस्वतन्त्रं सर्व्वं कार्य्यं त्रिविधं विद्या कला पशुश्चेति। तत्र पशुनद्योविद्या सापिद्विविधा।बोधाबोधस्वभावभेदात् बोधस्वभावा विवेकाविवेकप्रकृतिभेदात् द्विविधा तत्रया विवेकप्रवृत्तिःप्रमाणमात्रव्यङ्ग्या चिन्तेत्युच्यते। चित्तेन हि सर्व्वःप्राणी वाह्यार्थात्मकप्रकाशानुगृहीतं सामान्येन विवेचितमविवेचितञ्चार्थं क्षेतयते इति। पश्वर्थधर्म्मधर्म्मिका पुनरबोधात्मिका विद्या स्वशास्त्रं
येनोच्यते चेतनपरतन्त्रत्वे सत्यचेतना कला सापि द्विविधा कार्व्याख्या कारणाख्या चेति। तत्र कार्य्यख्या दशविधा पृथिव्यादीनि पञ्च तत्त्वानि रूपादयः पञ्च गुणाश्चेति। कारणाख्यात्रयोदशविधा ज्ञानेन्द्रियपञ्चकं कर्म्मेन्द्रियपञ्चकम् अध्यवसायाभिमानसङ्कल्पाभिधवृत्तिभेदात् बुद्ध्यहङ्कारमनोलक्षणमन्तःकरणत्रयञ्चेति। पशुत्वसम्बन्धी पशुः सोऽपि द्विविधः साञ्जनो निरञ्जनश्चेति। तत्र साञ्जनः शरीरेन्द्रियसम्बन्धी निरञ्जनस्तुतद्रहितः। तत्प्रपञ्चस्तु पञ्चार्थभाष्यदीपिकादौद्रष्टव्यः। समस्तसृष्टिसंहारानुग्रहकारि कारणं तस्यैकस्यापि गुणकर्म्मभेदापेक्षया विभाग उक्तः पतिः साद्य इत्यादिना। तत्रपतित्वंनिरतिशयदृक्क्रियाशक्तिमत्त्वं तेनैश्वर्य्येण नित्यसम्बन्धिवम् आद्यत्वमनागन्तुकैश्वर्य्यसम्बन्धित्वम् इत्यादर्शकारादिभिस्तीर्थकरैर्निरूपितम्।
चित्तद्वारेणात्मेश्वरसम्बन्धो योगः स च द्विविधः क्रियालक्षणः क्रियोपरमलक्षणश्चेति। तत्र जप्यध्यानादिरूपः क्रियालक्षणः क्रियोपरमलक्षणस्तु संविद्वत्यादिसंज्ञितः। धर्म्मार्थसाधकव्यापारो विधिः। स च द्विविधः प्रधानभूतो मुलभूतश्च तत्र प्रधानभूतः साक्षाद्धर्म्महेतुः चर्य्य्या। सा द्विविधा व्रतं द्वाराणि चेति। तत्रभस्मस्नानशय्योपहारजपप्रदक्षिणानि व्रतम्। तद्दुक्तम् भगवता नकुलीशेन भस्मना चिषवणं स्नाथीत भसुनि शयोतेति। अत्रोपचारो नियमः स च षडङ्गः। तदुक्तंसूत्रकारेण हस्तिगीतनृत्यहुडुक्कारनमस्कारजप्यषडङ्गोपहारेण उ-
पतिष्ठेतेति। तत्र हसितं नाम कण्ठोष्ठपुटविस्फुर्जनपुरःसरमहहहेत्यट्टहासः। गीतं गान्धर्व्वशास्त्रसमयानुसारेण महेश्वरसम्बन्धिगुणधर्म्मादिनिमित्तानां चिन्तनम्। नृत्यमपि नाय्यशास्त्रानुसारेण हस्तपादादीनामुत्क्षेपणादिकमङ्गप्रत्यङ्गोपाङ्गसहितं भावाभावसमेतञ्च प्रयोक्तव्यम्। हुडुक्कारो नाम जिह्वातालुसंयोगान्निष्पाद्यमानः पुण्यो वृषनादसदृशोनादः। हुडुगिति शब्दानुकारो वषडितिवत्। यत्र लौकिका भवन्ति तत्रैतत् सर्व्वं गूढं प्रयोक्तव्यम्। शिष्टं प्रसिद्धम्। द्वाराणि तु क्राथनस्यन्दनमन्दनशृङ्गारणावितत्करणावितद्भाषणानि। तत्रासुप्तस्यैव सुप्तलिङ्गवद्दर्शनं क्राथनम्। वाय्यभिभूतस्येव शरीरावयवानां स्पन्दनं कम्पनम्। उपहतपादेन्द्रियस्येव गमनं मन्दनम्। रूपयौवनसम्पन्नां कामिनीमवलोक्यात्मानं कामुकमिव यैर्विलासैः प्रदर्शयति तत् शृङ्गारणम्। कार्य्यकार्य्यविवेकविकलस्येव लोकनिन्दितकर्म्मकरणमवितत्करणम्। व्याहतापार्थकादिशब्दोच्चारणमवितद्भाषणमिति। गुणभूतस्तु चर्य्याअनुग्राहकोऽनुस्नानादिः भैक्षोच्छिष्टादिनिर्म्मिता योग्यताप्रत्ययनिवृत्त्यर्थः। तदप्युक्तं सूत्रकारेण अमुस्राननिर्म्माख्यलिङ्गधारीति॥ तत्रसमासो नाम धर्म्मिमात्राभिधानं तत्रप्रथमसूत्र एव कृतम्। पञ्चानां पदार्थानां प्रमाणतः पञ्चाभिधानं विस्तरः। स खलु राशीकरभाष्ये द्रष्टव्यः। एतेषां यथासम्भवं लक्षणतोऽसङ्करेणाभिधानं विभागः सतु विहितशास्त्रान्तरेभ्योऽमीषां गुणातिशयेन कथनं विशेषः। तथा हि अन्यत्र दुःखनिवृत्तिरेव दुःखान्तः
इह तु पारमैश्वर्य्यप्राप्तिश्च। अन्यचाभूत्वा भावि कार्य्यमिह तुनित्यं पश्वादि। अन्यत्र सापेक्षं कारणं इह तु निरपेक्षो भगवामेव। अन्यत्र कैवल्यादिफलको योगः इह तु पारमैश्वर्य्यदुःखान्तफलकः। अन्यत्र पुनरावृत्तिः स्वर्गादिःइह पुनरपुनरावृत्तिरूपः सामीप्यादिफलकः।
ननुमहदेतदिन्द्रजालं यन्निरपेक्षं परमेश्वरकारणमिति तथात्वे कर्म्मवैफल्यं सर्व्वकार्य्याणां समसमयसमुत्पादश्चेति दोषद्वयं प्रादुःख्यात्। मैवं मन्येथाः व्यधिकरणत्वात्। यदि निरपेक्षस्य भगवतः कारणत्वं स्यात्तर्हि कर्म्मणोवैफल्ये किमायातम्। प्रयोजनाभाव इति चेत् कस्य प्रयोजनाभावः। कर्म्मवैफल्ये कारणं किं कर्म्मिणः किंवा भगवतः। नाद्यः ईश्वरेच्छानुगृहीतस्य कर्म्मणः सफलत्वोपपत्तेः तदनुगृहीतस्य ययातिप्रभृतिकर्म्मवत् कदाचित् निष्फलत्वसम्भवाच्च। न चैतावता कर्म्मस्वप्रवृतिः कर्षकादिवदुपपत्तेः। ईश्वरेच्छायत्तत्वाच्च पशूनां प्रवृत्तेः। नापि द्वितीयःपरमेश्वरस्य पर्य्यप्तकामत्वेन कर्म्मसाध्यप्रयोजनापेक्षाया अभावात्। यदुक्तंसमसमयसमुत्पाद इति तदप्ययुक्तम् अचिन्त्यशक्तिकस्य परमेश्वरस्येच्छानुविधायिन्या अव्याहतक्रियाशक्त्या कार्य्यकारित्वाभ्युपगमात्। तदुक्तं सम्प्रदायविद्भिः
कर्म्मादिनिरपेक्षस्तुस्वेच्छाचारी यतो ह्ययम्।
ततः कारणतः शास्त्रे सर्व्वकारणकारणमिति॥
ननु दर्शनान्तरेऽपीश्वरज्ञानान्मोक्षोलभ्यत एवेति कुतोऽस्य विशेष इति चेन्नमैवं वादीःविकल्पानुपपत्तेः किमीश्वरविषय-
ज्ञानमात्रंनिर्व्वाणकारणं किं वा साक्षात्कारः अथवा यथावत्तत्त्वनिश्चयः। नाद्यः शास्त्रमन्तरेणापि प्राकृतजनवद्देवानामधिपो महादेव इति ज्ञानोत्पत्तिमात्रेण मोक्षसिद्धौशास्त्राभ्यासवैफल्यप्रसङ्गात्। नापि द्वितीयः अनेकमलप्रक्षयोपचितानां पिशितलोचनानां पशूनां परमेश्वरसाक्षात्कारानुपपत्तेः। तृतीयेऽस्मन्मतापातः पाशुपतशास्त्रमन्तरेण यथावत्तत्त्वनिश्चयानुपपत्तेः। तदुक्तमाचार्य्यैः
ज्ञानमात्रे यथा शास्त्रं साक्षाद्दृष्टिस्तु दुर्लभा।
पञ्चार्थादन्यतो नास्ति यथावत्तत्त्वनिश्चय इति॥
तस्मात् पुरुषार्थकामैः पुरुषधारेयैः पञ्चार्थप्रतिपादनपरं पाशुपतशास्त्रमाश्रयणीयम्॥
इति सर्व्वदर्शनसङ्ग्रहे लकुलीशपाशुप्रतदर्शनम्॥