“स आत्मा तत् त्वम् असी"त्यादेर् वेदान्त-वाक्यजातस्य भङ्ग्य्-अन्तरेणार्थान्तर-परत्वम् उपपाद्य
ब्रह्म-मीमांसा-विवरण-व्याजेनानन्दतीर्थः प्रस्थानान्तरमास्थिषत।
तन्मते हि द्विविधं तत्त्वं स्वतन्त्रास्वतन्त्रभेदात्।
Source: TW
तदुक्तं तत्वविवेके
स्वतन्त्रमस्वतन्त्रञ्च द्विविधं तत्त्वमिष्यते।
स्वतन्त्रोभगवान् विष्णुर्निर्देषोऽशेषसद्गुणइति॥
ननु सजातीयविजातीयस्वगतनानात्वशून्यं ब्रह्मतत्त्वमितिप्रतिपादकेषु वेदान्तेषु जागरूकेषु कथमशेषसद्गुणत्वं तस्यकथ्यत इति चेन्मैवं भेदप्रमापकबहुप्रमाणविरोधेन तेषां तत्र प्रामास्यानुपपत्तेः तथाहि प्रत्यक्षं तावदिदमस्माद्भिन्नमिति नील-
पीतादेर्भेदमध्यक्षयति। अथ मन्येथाः किं प्रत्यक्षं भेदमेवावगाहते किं वा धर्म्मिप्रतियोगिघटितम्। न प्रथमः धर्म्मिप्रतियोगिप्रतिपत्तिमन्तरेण तत्सापेक्षस्य भेदस्याशक्याध्यवसायत्वात्। द्वितीयोऽपि धर्म्मिप्रतियोगिग्रहणपुरःसरं भेदग्रहणमथवा युगपत् तत्सर्व्वग्रहणम्। नपूर्व्वः बुद्धेर्विरम्य व्यापाराभावात् अन्योन्याश्रयप्रसङ्गाच्च। नापि चरमः कार्य्यकारणबुद्ध्योर्थौगपद्याभावात् धर्म्मिप्रतीतिर्हि भेदप्रत्ययस्य कारणं सन्निहितेऽपि धर्म्मिणि व्यवहितप्रतियोगिज्ञानमन्तरेण भेदस्याज्ञातत्वेनान्वयव्यतिरेकाभ्यां कार्य्यकारणभावावगमात्। तस्मान्न भेदप्रत्यक्षं सुप्रसरमिति चेत् किं वस्तुस्वरूपभेदवादिनं प्रति इमानि दूषणान्युद्धुय्यते किं धर्म्मिभेदवादिनं प्रति। प्रथमे चोरापराधान्माण्डव्यनिग्रहन्यायापातः भवदभिधीयमानदूषणानां तदविषयत्वात्। ननु वस्तुस्वरूपस्यैव भेदत्वेप्रतियोगिसापेक्षत्वं न घटते घटवत् प्रतियोगिसापेक्ष एव सर्व्वत्र भेदः प्रथत इति चेन्न प्रथमं सर्व्वतोविलक्षणतया वस्तुस्वरूपे ज्ञायमाने प्रतियोग्यपेक्षयाविशिष्टव्यवहारोपपत्तेः तथाहि परिमाणघटितं वस्तुस्वरूपं प्रथममवगम्यते पश्चात् प्रतियोगिविशेषापेक्षया ह्रस्वंदीर्घमिति तदेव विशिष्य व्यवहारभाजनं भवति। तदुक्तंविष्णुतत्त्वनिर्णये न च विशेषणविशेष्यतया भेदसिद्धिः विशेषणविशेव्यभावश्च भेदापेक्षःधर्म्मिप्रतियोग्यपेक्षया भेदसिद्धिः भेदापेक्षञ्च धर्म्मिप्रतियोगित्वमित्यन्योन्याश्रयतया भेदस्यायुतिः पदार्थ स्वरूपत्वाद्भेदस्येत्यादिना। अत एव गवार्थिना गवयदर्शनान्न
प्रवर्त्तन्ते गोशब्दञ्च न स्मरन्ति। न च नीरक्षीरादौ स्वरूपे गृह्यमाणे भेदप्रतिभासोऽपि स्यादिति भणनीयं समानाभिहारादिप्रतिबन्धकबलाद्भेदभानव्यवहाराभावोपपत्तेः। तदुक्तम्
अतिदूरात् सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात्।
सौक्ष्म्याद्व्यवधानादभिभवात् समानाभिहाराच्चेति॥
अतिदूराद् गिरिशिखरवर्त्तितर्वादौअतिसामीप्याल्लोचनाञ्जनादौइन्द्रियघाताद्विद्युदादौ मनोऽनवस्थानात् कामाद्युपप्लुतमनस्कस्य स्फीतालोकवर्त्तिनि घटादौसौक्ष्म्यात् परमाण्वादौ व्यवधानात् कुद्ध्याद्यन्तर्हिते अभिभवात् दिवा प्रदीपप्रभादौ समानाभिहारात् नीरक्षीरादौयथावद्ग्रहणं नास्तीत्यर्थः। भवतु वा धर्म्मभेदवादस्तथापि न कश्चिद्दोषः धर्म्मिप्रतियोगिग्रहणे सति धर्म्मभेदभानसम्भवात्। न च धर्म्मभेदवादे तस्य तस्य भेदस्य भेदान्तरभेद्यत्वेनानवस्था दुरवस्था स्यादित्यास्थेयं भेदान्तरप्रसक्तौ मूलाभावात् भेदभेदिनौभिन्नाविति व्यवहारादर्शनात्। न चैकभेदबलेनान्यभेदानुमानं दृष्टान्तभेदाविघातेनात्थाने दोषाभावात्। सोऽयं पिण्याकयाचनार्थं गतस्य खारिकातैलदातृत्वाभ्युपगम इव। दृष्टान्तभेदविमर्द्देत्वनुत्थानमेव। नहि वरविघाताय कन्योद्वाहः। तस्मान्मूलक्षयाभावादनवस्था न दोषाय।अनुमानेनापि भेदोऽवसीयते परमेश्वरो जीवाद्भिन्नः तं प्रति सेव्यत्वात् यो यं प्रति सेव्यः स तस्माद्भिन्नःयथा भृत्याद्राजा नहि सुखं मे स्यात् दुःखं मे न मनागपि इति पुरुषार्थमर्थयमानाः पुरुषाः स्वपतिपदं काम-
यमानाः सत्कारभाजो भवेयुः प्रत्युत सर्व्वानर्थभाजनं भवन्ति। यः स्वस्यात्मनो हीनत्वं परस्य गुणोत्कर्षश्च कथयति स स्तुत्यः प्रीतः स्तावकस्य तस्याभीष्टं प्रयच्छति। तदाह
घातयन्ति हि राजानो राजाहमिति वादिनः।
ददत्यखिलमिष्टञ्च स्वगुणोत्कर्षवादिनामिति॥
एवच्च परमेश्वराभेदतृष्णया विष्णोर्गुणोत्कर्षस्य मृगतृण्णिकासमत्वाभिधानं विपुलकदलीफललिस्तथा जिह्वाच्छेदनमनुहरतिएतादृशविष्णुविद्वेषणादन्धत्तमसप्रवेशप्रसङ्गात्। तदेतत् प्रतिपादितं मध्यमन्दिरेण महाभारततात्पर्य्यनिर्णये
अनादिद्वेषिणे दैत्या विष्णोर्द्वेषो विवर्द्धितः।
तमस्यन्धे पातयति दैत्यानन्धे विनिश्चयादिति॥
सा च सेवा अङ्कननामकरणभजनभेदात्रिविधा। तत्राङ्कनं नारायणायुधादीनां तद्रूपस्मरणासार्थमपेक्षितार्थसिद्ध्यर्थश्च। तथा च शाकल्यसंहितापरिशिष्टम्
चक्रं बिभर्त्ति पुरुषोऽभितप्तंबलं देवानाममृतस्य विष्णोः।
स वाति नाकं दुरितावधूय विशन्ति यद्यतथोवीतरागाः।
देवासोयेन विधृतेन बाहुना सुदर्शनेन प्रथाताखमायन्।
येनाङ्किता मनवो लोकसृष्टिं वितन्वन्ति ब्राह्मणस्तद्वहति।
तद्विष्णोः परमं पदं येन गच्छन्ति लाञ्छिताः।
उरुक्रमस्य चिङ्कैरङ्किता लोके सुभगा भवाम इति।
अतप्ततनुर्नतदामोअश्नुते श्रिताञ्च इद्वहन्तस्तत् समासतेति तैत्तिरीयकोपनिषच्च। स्यानविशेषश्चाग्नेवपुराणे दर्शितः
दक्षिणे तु करे विप्रो बिभृयाद्वंसुदर्शनम्।
सव्येन शङ्खं बिभृयादिति ब्रह्मविदेःविदुरिति॥
अन्यत्र चक्रधारणे मन्त्रविशेषश्च दर्शितः
सुदर्शन महाज्वाल कोटिसूर्य्यसमप्रभ।
अज्ञानान्धस्य मे नित्यं विष्णोर्मार्गं प्रदर्शय॥
त्वं पुरा सागरोत्पन्नोविष्णुना विधृतः करे।
नमितः सर्व्वदेवैश्च पाञ्चजन्य नमोऽस्तु ते इति॥
नामकरणं पुत्रादीनां केशवादिनान्नाव्यवहारः सर्व्वदा तत्रामानुस्मरणार्थम्। भजनं दशविधं वाचा सत्यं हितं प्रियं स्वाध्यायः कायेन दानं परित्राणं परिरक्षणं मनसा दया स्पृहा श्रद्धा चेति। अचैकैकं निष्याद्य नारायणे समर्पणं भजनम्। तदुक्रम्
अङ्कनं नामकरणं भजनं दशधा च तदिति।
एवं ज्ञेयत्वादिनापि भेदोऽनुमातव्यः तथा श्रुत्यापि भेदोऽवगन्तव्यः सत्यमेतमनुविश्वे मदन्तिरातिं देवस्य गृणतोमघोनः सत्यासो अस्य महिमागृणेशवोथज्ञेषु विप्रराज्ये सत्य आत्मा सत्यो जीवः सत्यं भिदा सत्यं भिदा मयि वारुण्यो मयि वारुष्योमयि वारुण्य इति मोक्षानन्दभेदप्रतिपादकश्रुतिभ्यः।
इदं ज्ञानमुपाश्रित्य मम सामर्थ्यमागताः।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च॥
जगद्व्यापारवर्ज्जंप्रभुकरणासन्निहितत्वाच्चेत्यादिभ्यश्च। न च ब्रह्म वेद ब्रह्मैव भवतीति श्रुतिबलाज्जीवस्य पारमैश्वर्य्यंशक्यशङ्कं
सम्पूज्य ब्राह्मणं भक्त्या शूद्रोऽपि ब्राह्मणोभवेदिति वत् बृंहितो भवतीत्यर्थपरत्वात्। ननु
प्रपञ्चो यदि वर्त्तेत निवर्त्तेत न संशयः।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः॥
इति वचनात् द्वैतस्य कल्पितत्वमवगम्यत इति चेत् सत्यं भावमनभिसन्धायाभिधानात् तथा हि यद्ययमुत्पद्येत तर्हि निवर्त्तेत न संशयः। तस्मादनादिरेवायं प्रकृष्टः पञ्चविधो भेदप्रपञ्चः। न चायमविद्यमानः मायामात्रत्त्वान्मायेति भगवदिच्छोच्यते।
महामायेत्यविद्येति नियतिर्मोहिनीति च।
प्रकृतिर्वासनेत्येव तवेच्छानन्त कथ्यते॥
प्रकृतिः प्रकृष्टकरणाद्वासना वासयेद्यतः।
अ इत्युक्ते हरिस्तस्य मायाऽविद्येति संज्ञिता॥
मायेत्युक्ता प्रकृष्टत्वात् प्रकृष्टे हि मयाभिधा।
विष्णोः प्रज्ञप्तिरेवैका शब्दैरेतैरुदीर्य्यते॥
प्रज्ञप्तिरूपोहि हरिः सा च स्वानन्दलक्षणा॥
इत्यादिवचननिचयप्रामाण्यबलात् सैव प्रज्ञा मानत्राणकर्त्री च यस्य तन्मायामात्रं ततश्च परमेश्वरेण ज्ञातत्वाद्रक्षितत्वाच्च न द्वैतं भ्रान्तिकल्पितं न हीश्वरे सर्व्वस्य भ्रान्तिः सम्भवति विशेषादर्शननिबन्धनत्वाद्भ्रान्तेः तर्हि तद्व्यपदेशः कथमित्यत्रोत्तरं अद्वैतंपरमार्थत इति परमार्थत इति परमार्थापेक्षया तेन सर्व्वस्मादुत्तमस्य विष्णुतत्त्वस्य समाभ्यधिकशून्यत्वमुक्तं भवति। तथाच परमा श्रुतिः
जीवेश्वरभिदा चैव जडेश्वरभिदा तथा।
जीवभेदो मिथश्चैव जडजीवभिदा तथा॥
मिथश्च जडभेदा यः प्रपञ्चो भेदपञ्चकः।
सोऽयं सत्योऽप्यनादिश्च सादिश्चेन्नाशमाप्नुयात्॥
न च नाशं प्रयात्येष न चासौभ्रान्तिकल्पितः।
कल्पितश्चेन्निवर्त्तेत न चासौ विनिवर्त्तते॥
द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम्।
मतं हि ज्ञानिनामेतन्मितं त्रातं हि विष्णुना॥
तस्मान्मात्रमिति प्रोक्तंपरमो हरिरेव त्वित्यादि॥
तस्माद्विष्णोः सर्व्वोत्कर्ष एव तात्पर्य्यंसर्व्वीगमानाम्। एतदेवाभिसन्धायाभिहितं भगवता
द्वाविमौपुरुषौलोके क्षरश्चाक्षरं एव च।
क्षरःसर्व्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः।
यो लोकत्रयमाविश्य बिभर्त्त्यव्यय ईश्वरः॥
यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥
यो मामेवमसम्मूढो जानाति पुरुषेात्तमम्।
स सर्व्वविद्भजति मां सर्व्वभावेन भारत॥
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ।
एतद्बुद्धा बुद्धिमान् स्यात् कृतकृत्यश्च भारतेति॥
महावराहेऽपि।
मुख्यञ्च सर्व्ववेदानां तात्पर्य्यंश्रीपतौ परे।
उत्कर्षे तु तदन्यत्रतात्पर्य्यंस्यादवान्तरमिति॥
युक्तञ्च विष्णोः सर्व्वेात्कर्षे महातात्पर्य्यम्। मोक्षोहि सर्व्वपुरुषार्थोत्तमः धर्म्मार्थकामास्त्वनित्याः मोक्ष एव नित्यः तस्मान्नित्यं तदर्थाययतेत मतिमान्नर इति भाल्लवेयश्रुतेः। मोक्षश्चविष्णुप्रमादमन्तरेण न लभ्यते। यस्य प्रसादात् परमा यत् स्वरूपात् तस्मात् संसारान्मुच्यते नावरेसुरानाराधयन्तोऽसौ परमो विचिन्त्योमुमुक्षुभिः कर्म्मपाशादमुष्मादिति नारायणश्रुतेः।
तस्मिन् प्रसन्ने किमिहास्यलभ्यं
सर्व्वार्थकामैरलमल्पकास्ते।
समाश्रिताद्ब्राह्मतरोरनन्तात्
निःसंशयं मुक्तिफलंप्रयात
इति विष्णुपुराणोक्तेश्च। प्रसादश्च गुणोत्कर्षज्ञानादेव नाभेदज्ञानादित्युक्तम्। न च तत्त्वमस्यादितादात्म्यव्याकोपःश्रुति तात्पर्य्यापरिज्ञानविजृम्भणात्।
आह नित्यपरोक्षन्तु तच्छब्दो ह्यविशेषितः।
त्वं शब्दश्वापरोक्षार्थं तयोरैक्यं कथं भवेत्॥
आदित्योयूप इतिवत् सादृश्यार्थातु सा श्रुतिरिति।
तथाच परमा श्रुतिः
जीवस्य परमैक्यञ्च बुद्धिसारूप्यमेव वा।
एकस्थाननिवेशो वा व्यक्तिस्थानमपेक्ष्यवा ॥
न स्वरूपैकता तस्य मुक्तस्यापि विरूपतः।
स्वातत्र्यपूर्णतेऽल्पत्वपारतब्धे विरूपतेति॥
अथवा तत्त्वमसीत्यत्रस एवात्मा स्वातव्यादिगुणोपेतत्वात् अतत्त्वमसि त्वं तन्न भवसि तद्रहितत्वादित्येकत्वमतिशयेन निराकृतम्। तदाह
अतत्त्वमिति वा च्छेदस्तेनैक्यं सुनिराकृतमिति।
तस्मात् दृष्टान्तनवकेऽपि स यथा शकुनिः सूत्रेण बद्ध इत्यादिना भेद एव दृष्टान्ताभिधानाय अयमभेदोपदेश इति तत्त्ववादरहस्यम्। तथाच महोपनिषत्
यथा पक्षी च सुत्रञ्च नानावृक्षरसा यथा।
यथा नद्यः समुद्राश्च शुद्धोदलवणे यथा॥
चोरापहार्य्यौच यथा यथा पुंविषयावपि।
तथा जीवेश्वरौभिन्नौ सर्व्वदैव विलक्षणौ॥
तथापि सूक्ष्मरूपत्वान्न जीवात् परमो हरिः।
भेदेन मन्ददृष्टीनां दृश्यते प्रेरकोऽपि सन्॥
वैलक्षण्यं तयोर्ज्ञात्वामुच्यते बध्यतेऽन्यथेति।
ब्रह्मा शिवः सुराद्याश्च शरीरक्षरणात् क्षराः।
लक्ष्मीरक्षरदेहत्वादक्षरातः परो हरिः॥
स्वातव्यशक्तिविज्ञानसुखाद्यैरखिलैर्गुणैः।
निःसोमत्वेन ते सर्व्वे तद्वशाः सर्व्वदेवता इति॥
विष्णुं सर्व्वगुणैः पूर्वं ज्ञात्वा संसारवर्ज्जितः।
निर्दुःखानन्दभुग्नित्यं तत्समीपे स मोदते॥
मुक्तानाञ्चाश्रयो विष्णुरधिकाधिपतिस्तथा।
तद्वशा एव ते सर्व्वे सर्व्वदैव स ईश्वर इति च॥
एकविज्ञानेन सर्व्वविज्ञानञ्च प्रधानत्वकारणत्वादिना युज्यते न तु सर्व्वमिथ्यात्वेन। न हि सत्ताज्ञानेन मिथ्याज्ञानं सम्भवतियथा प्रधानपुरुषाणां ज्ञानाज्ञानाभ्यां ग्रामो ज्ञातः अज्ञात इत्येवमादिव्यपदेशो दृष्ट एव। यथा च कारणे पितरि ज्ञाते जानात्यस्य पुत्रमिति। अन्यथा सौम्यैकेन मृत्पिण्डेन सर्व्वं मृण्मयं विज्ञातमित्यत्र एकपिण्डशब्दौवृथा प्रसज्येयातां मृदा विज्ञातयेत्येतावतैव वाक्यस्य पूर्णत्वात्। न च वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमित्येतत् कार्य्यस्य मिथ्यात्वमाचष्टे इत्येष्टव्यं वाचारम्भणं विकारो यस्य तत् अविकृतं नित्यं नामधेयं मृत्तिकेत्यादिकमित्येतद्वचनं सत्यमिति तथ्यस्य स्वीकारात्। अपरथा नामधेयमेवेति शब्दयोर्वैयर्थ्यंप्रसज्येत। अतो न कुत्रापि जगतो मिथ्यात्वमिद्भिः। किञ्च प्रपञ्चो मिथ्येत्यत्रमिथ्यात्वं तथ्यमतथ्यं वा। प्रथमे सत्याद्वैतभङ्गप्रसङ्गः चरमे प्रपञ्चचत्यत्वापातः। नन्वनित्यत्वं नित्यमनित्यं वा उभयथाप्यनुपपत्तिरित्याक्षेपवदयमपि नित्यममजातिभेदः स्यात्। तदुक्तं न्यायनिर्व्वाणवेधसा नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसम इति। तार्किकरक्षायाञ्च
धर्म्मस्य तदतद्रूपविकल्पानुपपत्तितः।
धर्म्मिणस्तद्विशिष्टत्वभङ्गो नित्यसमो भवेदिति॥
अस्याः संज्ञायाः उपलक्षणत्वमभिप्रेत्याभिहितं प्रबोधसिद्धौ अम्वर्थित्वान्तूपरञ्जकधर्म्मसमेति। तस्मादसदुत्तरमेतदिति चेत्
अशिक्षितत्रासनमेतत् दुष्टत्वमूलानिरूपणात्। तद्द्विविधं साधारणमसाधारणञ्च तत्राद्यं स्वव्याघातकं द्वितीयं त्रिविधं युक्ताङ्गहीनत्वमयुक्ताङ्गाधिकत्वमविषयवृत्तित्वञ्चेति। तत्र साधारणमसम्भावितमेव उक्तस्याक्षेपस्य स्वात्मव्यापनानुपलम्भात्। एवमसाधारणमपि घटस्य नास्तितायां नास्तितोक्तावस्तित्ववत् प्रकृतेऽप्युपपत्तेः। ननु प्रपञ्चस्य मिथ्यात्वमभ्युपेयते नामत्त्वमिति चेत्तदेतत् सोऽयं शिरश्छेदेऽपि शतं न ददाति विंशतिपञ्चकन्तु प्रयच्छतीति शाकटिकवृत्तान्तमनुहरेत् मिथ्यात्वासत्त्वयोः पर्य्यायत्वादित्यलमतिप्रपञ्चेन।
तत्राथातो ब्रह्मजिज्ञासेति प्रथमसूत्रस्यायमर्थः तत्राथशब्दो मङ्गलार्थोऽधिकारानन्तर्य्यार्थश्च स्वीक्रियते। अतः शब्दो हेत्वर्थः तदुक्तंगारुडे
अथातः शब्दपूर्व्वाणि सूत्राणि निखिलान्यपि।
प्रारभेत नियत्यैव तत्किमत्र नियामकम्॥
कश्चार्थस्तु तथोर्विद्वान् कथमुत्तमता तयोः।
एतदाख्याहि मे ब्रह्मन् यथा ज्ञास्यामि तत्त्वतः॥
एवमुक्तो नारदेन ब्रह्मा प्रोवाच सत्तमः।
आनन्तर्य्याधिकारे च मङ्गलार्थे तथैव च॥
अथशब्दस्त्वतः शब्दो हेत्वर्थे समुदीरित इति।
यतो नारायणप्रसादमन्तरेण न मोक्षो लभ्यते प्रसादश्च ज्ञानमन्तरेण अतोब्रह्मजिज्ञासा कर्त्तव्येति सिद्धम्। जिज्ञास्यब्रह्मणो
लक्षणमुक्तं जन्माद्यस्य यत इति। सृष्टिस्थित्यादि यतो भवति तद्ब्रह्मेति वाक्यार्थः। तथाच स्कान्दं वचः
उत्पत्तिस्थितिसंहारा नियतिर्ज्ञानमावृतिः।
बन्धमोक्षौ च पुरुषाद्यस्मात् स हरिरेकराडिति॥
यतो वा इमानीत्यादिश्रुतिभ्यश्च। तत्र प्रमाणमप्युक्तं शास्त्रयोनित्वादिति। नावेदविन्मनुते तं बृहन्तं तन्त्वौपनिषदमित्यादिश्रुतिभ्यः तस्यानुमानिकत्वं निराक्रियते। न चानुमानस्य स्वातन्न्येण प्रामाण्यमस्ति। तदुक्तं कौर्म्मे
श्रुतिसाहायरहितमनुमानं न कुत्रचित्।
निश्चयात् साधयेदर्थं प्रमाणान्तरमेव च॥
श्रुतिस्मृतिसहायं यत् प्रमाणान्तरमुत्तमम्।
प्रमाणपदवीं गच्छेनात्र कार्य्या विचारणेति॥
शास्त्रस्वरूपमुक्तं स्कान्दे।
ऋग्यजुःसामाथर्व्वा च भारतं पाञ्चरात्रकम्।
मूलरामायणञ्चैव शास्त्रमित्यभिधीयते॥
यच्चानुकूलमेतस्य तच्च शास्त्रं प्रकीर्त्तितम्।
अतोऽन्यो ग्रन्थविस्तारो नैव शास्त्रं कुवर्त्म तदिति॥
तदनेनानन्यलभ्यः शास्त्रार्थ इति न्यायेन भेदस्य प्राप्तत्वेन तत्र न तात्पर्य्यं किन्त्वद्वैत एव वेदवाक्यानां तात्पर्य्यमिति अद्वैतप्रत्याशा प्रतिक्षिप्ता अनुमानादीश्वरस्य सिद्ध्याभावेन तद्भेदस्यापि ततः सिद्ध्यभावात्। तस्मान्न भेदानुवादकत्वमिति तत्परत्वमवगम्यते। अत एवोक्तम्
सदागमैकविज्ञेयं समतीतक्षराक्षरम्।
नारायणं सदा वन्दे निर्दोषाशेषद्गुणमिति॥
शास्त्रस्य तत्र प्रामाण्यमुपपादितं तत्तु समन्वयादिति समन्वय उपक्रमादिलिङ्गम् उक्तं वृहत्संहितायाम्
उपक्रमोपसंहारावभ्यासोऽपूर्व्वता फलम्।
अर्थवादोपपत्ती च लिङ्गं तात्पर्य्यनिर्णय इति॥
एवं वेदान्ततात्पर्य्यवशात्तदेव ब्रह्म शास्त्रगम्यमित्युक्तं भवति। दिङ्मात्रमत्रप्रादर्शि शिष्टमानन्दतीर्थमाव्यव्यास्थानादौ द्रष्टव्यं ग्रन्थबहुत्वभियोपरम्यत इति। एतच्च रहस्यं पूर्णप्रज्ञेन मध्यमन्दिरेण वायोस्तृतीयावतारन्मन्येन निरूपितमिति।
प्रथमस्तु हनूमान् स्यात् द्वितीयो भीम एव च।
पूर्णप्रज्ञस्तृतीयश्च भगवत्कार्य्यसाधक इति॥
एतदेवाभिप्रेत्य तत्र तत्र ग्रन्थसमाप्ताविदं पद्यं लिख्यते
यस्य चीण्युदितानि वेदवचने दिव्यानि रूपाण्यलं
ह्येतद्दर्शितमित्यमेतदखिलं वेदस्य गर्भे महः।
वायो रामवचोमतं प्रथमकं वृक्षो द्वितीयं वपु-
र्मध्वोयस्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे॥
एतत्पद्यार्थस्तु बलित्थातद्वपुलियाधि दर्शितं देवस्य भर्गः सहसो यतो जनीत्यादिश्रुतिपर्य्यालोचनयावगम्यत इति। तस्मात् सर्व्वस्य शास्त्रस्य विष्णुतत्त्वं सर्व्वोत्तममित्यत्र तात्पर्य्यमिति सर्व्वं निरवद्यम्॥
इति सर्व्वदर्शनसङ्ग्रहे पूर्णप्रज्ञदर्शनम्।