तद् उक्तं भगवता व्यासेन “नैकस्मिन्न् असम्भवाद्” इति
रामानुजेन च जैनमतनिराकरणपरत्वेन तदिदं सूत्रं व्याकारि।
एष हि तस्य सिद्धान्तः - चिदचिदीश्वरभेदेन भोक्तृभोग्यनियामकभेदेन व्यवस्थितास्त्रयः पदार्थ इति। तद् उक्तम्
ईश्वरश्चिदचिच्चेति पदार्थत्रितयं हरिः।
ईश्वरश्चित इत्युक्तो जीवा दृश्यमचित् पुनरिति॥
अपरे पुनरशेषविशेषप्रत्यनीकं चिन्मात्रंब्रह्मैव परमार्थः तत्रनित्यशुऽद्धबुद्धमुक्तस्वभावमपि तत्त्वमस्यादिसामानाधिकरस्याधिगतजीवैक्यं बध्यते मुच्यते च। तदतिरिक्तनानाविधभोक्तृभोक्तव्यादिभेदप्रपञ्चः सर्व्वोऽपि तस्मिन्नविद्यया परिकल्पितः सदेव सौम्येदमग्र आसीदेकमेवाद्वितीयमित्यादिवचननिचयप्रामाण्यादिति ब्रुवालास्तरति शोकमात्मविदित्यादिश्रुतिशिरःशतवशेन निर्व्विशेषब्रह्मात्मैकत्वविद्यया अनाद्यविद्यानिवृत्तिमङ्गीकुर्व्वाणाः मृत्योः स मृत्युमाप्नोति य हह नानेव पश्यतीति भेदनिन्दाश्रवणेन पारमार्थिकं भेदं निराचचाणाः विवक्षाणमन्यास्तमिमं विभागं न सहन्ते। तत्रायं समाधिरभिधीयते भवेदेतदेवं यद्यविद्यायां प्रमाणं विद्येत न चैवमनादिभावरूपं ज्ञाननिवर्त्त्यमज्ञानमहमज्ञोमामन्यञ्चन जानामीति प्रत्यक्षप्रमाणसिद्धम्। तदुक्तम्
अनादिभावरूपं
यद्विज्ञानेन विलीयते।
तदज्ञानमिति प्राज्ञा
लक्षणं सम्प्रचक्षत इति॥
न चैतत् ज्ञानाभावविषयमित्याशङ्कनीयं को हि कं ब्रूयात् प्रभाकरकरावलम्बी भट्टदत्तहस्तो वा नाद्यः
स्वरूपपरूपाभ्यां नित्यं सदसदात्मके।
वस्तुनि ज्ञायते किञ्चित् कैश्चिद्रूपं कदाचनेति॥
भावान्तरमभावो हि कथाचित्तु व्यपेक्षया।
भावान्तरमभावोऽन्यो न कश्चिदनिरूपणात्॥
इति वदता भावव्यतिरिक्तस्याभावस्यानभ्युपगमात्। अभावस्यषष्ठप्रमाणगोचरत्वेन ज्ञानस्य नित्यानुमेयत्वेन च तदभावस्य प्रत्यक्षविषयत्वानुपपत्तेः। यदि पुनःप्रत्यक्षाभाववादी कश्चिदेवमाचक्षीत तं प्रत्याचक्षीत अहमज्ञ इत्यस्मिन्ननुभवे अहमित्यात्मनोऽभावधर्म्मितया ज्ञानस्य प्रतियोगितया चावगतिरस्ति न वा अस्ति चेद्विरोधादेव न ज्ञानाभावानुभवसम्भवः। न चेद्धर्म्मिप्रतियोगिज्ञानसापेक्षा ज्ञानाभावानुभवः सुतरां नसम्भवति तस्याज्ञानस्य भावरूपत्वेप्रागुक्तदूषणाभावादयमनुभवो भावरूपाज्ञानगोचर एवाभ्युपगन्तव्य इति। तदेतत् गगनरोमन्थायितं भावरूपस्याज्ञानस्य ज्ञानाभावसमानयोगक्षेमत्वात्। तथा हि विषयत्वेनाश्रयत्वेन च ज्ञानस्य व्यावर्त्तकतया प्रत्यगर्थः प्रतिपन्नोन वा प्रतिपन्नश्चेत् स्वरूपज्ञाननिवर्त्त्यं तदज्ञानमिति तस्मिन् प्रतिपन्ने कथङ्कारमवतिष्ठेत अप्रतिपन्नश्चेद्व्यावर्त्तकाश्रयविषयशून्यमज्ञानं कथमनुभूयेत। अथ विशदःस्वरूपावभास एवाज्ञानविरोधिना ज्ञानेनाभासित इति आश्रयविषयज्ञाने सत्यपि नाज्ञानानुभवविरोध इति हन्ततर्हि ज्ञानाभावेऽपि समानमेतत् अन्यत्राभिनिवेशात्। तस्मादुभयाभ्युपगतज्ञानाभाव एवाहमज्ञोमामन्यञ्च न जानामीत्यनुभवगोचर इत्यभ्युपगन्तव्यम्। अस्तु तर्ह्यनुमानं विवादा-
स्पदं प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्त्यस्वदेशगतवस्त्वन्तरपूर्व्वकम् अप्रकाशितार्थप्रकाशकत्वात् अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदिति तदपि न क्षोदक्षमम् अज्ञानेऽप्यमभिमताज्ञानान्तरसाधने अपसिद्धान्तापातात् तदसाधने अनैकान्तिकत्वात् दृष्टान्तस्य साधनविकलत्वाच्च न हि प्रदीपप्रभाया अप्रकाशितार्थप्रकाशकत्वं सम्भवति ज्ञानस्यैव प्रकाशकत्वात् सत्यपि प्रदीपे ज्ञानेन विषयप्रकाशसम्भवात् प्रदीपप्रभायास्तु चक्षुरिन्द्रियस्य ज्ञानं समुत्पादयतो विरोधियन्तमसनिरसनद्वारेणोपकारकत्वमात्रमेवेत्यलमतिविस्तरेण।
प्रतिप्रयोगश्च विवादाध्यासितमज्ञानं न ज्ञानमात्रब्रह्माश्रितं अज्ञानत्वाच्छुक्तिकाद्यज्ञानवदिति। ननु शुक्तिकाद्यज्ञानस्याश्रयस्य प्रत्यगर्थस्य ज्ञानमात्रस्वभावत्वमेवेति चेन्मैवं शङ्किष्ठाः अनुभूतिर्हि स्वसद्भावेनैव कस्यचिद्वस्तुनो व्यवहारानुगुणलापादकस्वभावा ज्ञानावगतिसङ्गतिविदाद्यपरनामा सकर्म्मकानुभवितुरात्मत्वं ज्ञानत्वमित्याश्रयणात्। ननु ज्ञानरूपस्यात्मनः कथं ज्ञानगुणकत्वमिति चेत्तदसारं यदा हि मणिद्युमणिप्रभृतितेजेाद्रव्यं प्रभावद्रूपेणावतिष्ठमानं प्रभारूपगुणाश्रयः। स्वाश्रयादन्यत्रापि वर्त्तमानत्वेन रूपत्वेन च प्रभा द्रव्यरूपापि तच्छेषत्वनिबन्धनगुणव्यवहारा एवमयमात्मा स्वप्रकाशचिद्रूप एवचैतन्यगुणः तथा च श्रुतिः सदा सैन्धवधनोऽनन्तरो वाह्यः कृत्स्नोरसघन एव एवं वा अरे अयमात्मानन्तरो वाह्यःकृत्स्नः प्रज्ञानघन एव अत्रायं पुरुषः स्वयं ज्योतिर्भवति न विज्ञातु-
र्विज्ञातेर्विपरिलोपो विद्यते अथ यो वेदेदं जिघ्राणेति स आत्मायोयं विज्ञानमयः प्राणेषु हद्यन्तर्ज्योतिः पुरुष एष हि द्रष्टा श्रोता रसयिता घ्राता मन्ता बोद्धा कर्त्ताविज्ञानात्मा पुरुष इत्यादिका श्रुतिरपि न चानृतेन हि प्रत्यूढा इति श्रुतिरपि विद्यापर्व्वप्रमाणमित्याश्रयितुं शक्यं ऋतेतरविषयो ह्यनृतशब्दः मृतशब्दश्च कर्म्मवचनः मृतं पिबन्ताविति वचनात् मृतं कर्म्मफलाभिसन्धिरहितं परमपुरुषाराधनयैव तत्प्राप्तिफलम्। अत्रतद्व्यतिरिक्तं सांसारिकाल्पफलं कर्म्मानृतं ब्रह्मप्राप्तिविरोधि य एतं ब्रह्मलोकं न विदन्ति अनृतेन हि प्रत्यूढा इति वचनात्। मायान्तु प्रकृतिं विद्यादित्यादौमायाशब्दोविचित्रार्थसर्गकत्रिगुणात्मकप्रकृत्यभिधायको नानिर्व्वचनीयाज्ञानवचनः।
तेन मायासहस्रं तच्छवरस्याशुगामिना।
बालस्य रक्षता देहमेकैकं श्येनसूदितम्॥
इत्यादौविचित्रार्थसर्गसमर्थस्य पारमार्थिकस्यैवासुराद्यस्त्रविशेषस्यैव मायाशब्दाभिधेयत्वोपलम्भात् अतो न कदाचिदपि श्रुत्यानिर्व्वचनीयाज्ञानप्रतिपादनं नाप्यैक्योपदेशानुपपत्त्या तत्त्वंपदयोः सविशेषब्रह्माभिधेयत्वेन विरुद्धयोर्जीवपरयोः स्वरूपैक्यस्य प्रतिपत्तुमशक्यतया अर्थापत्तेरनुदयदोषदूषितत्वात्। तथा हि तत्पदं निरस्तसमस्तदोषमनवाधिकातिशयासङ्ख्येयकल्याणगुणास्पदं जगदुदयविभवलयलीलं ब्रह्म प्रतिपादयति तदैक्षत बहुस्यां प्रजायेयेत्यादिषु तस्यैव प्रकृतत्वात् समानाधिकरणं त्वंपदं वा चिद्विशिष्टं जीवशरीरं ब्रह्माचष्टे प्रकारद्वय-
विशिष्टैकवस्तुपरत्वात् सामानाधिकरण्यस्य। ननु सोऽयं देवदत्त इतिवत् तत्त्वमितिपदयोर्विरुद्धभागत्यागलक्षणयोर्निर्विशेषस्वरूपमात्मैक्यं सामानाधिकरण्यार्थः किं न स्यात् यथा सोऽयमित्यत्र तच्छब्देन देशान्तरकालान्तरसम्बन्धी पुरुषः प्रतीयते इदं शब्देन च सन्नितिदेशवर्त्तमानकालसम्बन्धी तयोःसामानाधिकरण्येनैक्यमवगम्यते तत्रैकस्य युगपद्विरुद्धदेशकालप्रतीतिर्न सम्भवतीति द्वयोरपि पदयोः स्वरूपपरत्वे स्वरूपस्य चैक्यं प्रतिपत्तुं शक्यमेवमत्रापि किञ्चिज्ज्ञात्वसर्व्वज्ञत्वादिविरुद्धांशप्रहाणेनाखण्डस्वरूपं लक्ष्यत इति चेत् विषमोऽयमुपन्यासः। दृष्टान्तेऽपि विरोधवैधुर्य्येण लक्षणागन्धासम्भवादेकस्य तावद् भूतवर्त्तमानकालद्वयसम्बन्धो न विरुद्धः। देशान्तरस्थितिर्भूता सन्निहितदेशस्थितिर्वर्त्तत इति देशभेदसम्बन्धविरोधश्च कालभेदेन परिहरणीयः। लक्षणापक्षेऽप्येकस्यैव पदस्य लक्षकत्वाश्रयणेन विरोधपरिहारे पदद्वयस्य लाक्षणिकत्वस्वीकारो न सङ्गच्छते। इतरथा एकस्य वस्तुनस्तत्तेदन्ताविशिष्टत्वावगाहनेन प्रत्यभिज्ञायाः प्रामाण्यानङ्गीकारे स्थायित्वासिद्धी क्षणभङ्गवादी बौद्धो विजयेत। एवमत्रापि जीवपरमात्मनोः शरीरात्मभावेन तादात्म्यं न विरुद्धमिति प्रतिपादितं जीवात्मा हि ब्रह्मणः शरीरतया प्रकारत्वात् ब्रह्मात्मकः य आत्मनि तिष्ठन्नत्मानोऽन्तरः य आत्मानं वेद यस्यात्मा शरीरम् इति श्रुत्यन्तरादत्यल्पमिदमुच्यते सर्व्वे शब्दाः परमात्मन एव वाचकाः। न च पर्य्यायत्वं द्वारभेदसम्भवात् तथाहि जीवस्य शरीरतया
प्रकारभूतानि देवमनुष्यादिसंस्थानानीव सर्व्वाणि वस्तूनीति ब्रह्मात्मकानि तानि सर्व्वाणि अतो
देवो मनुष्यो यक्षोवा पिशाचोरगराक्षसाः।
पक्षी वृक्षो लता काष्ठं शिला तृणं घटः पटः॥
इत्यादयः सर्व्वे शब्दाः प्रकृतिप्रत्यययोगेनाभिधायकतया प्रसिद्धा लोके तद्वाच्यतथा प्रतीयमानतत्तत्संस्थानवद्वस्तुमुखेन तदभिमानिजीवतदन्तर्यामिपरमात्मपर्य्यन्तसंस्थानस्य वाचकाः। देवादिशब्दानां परमात्मपर्य्यन्तत्वमुक्तंतत्त्वमुक्तावल्यांचतुरन्तरे च
जीवं देवादिशब्दोवदति तदपृथक् सिद्धभावाभिधानं
निष्कर्षाकूतयुक्तोबहुरिह च दृढोलोकवेदप्रयोगः।
आत्मासम्बन्धकाले स्थितिरनवगता देवमर्त्यादिमूर्त्ति
र्जीवात्मानुप्रवेशाज्जगति विभुरपि व्याकरोम्नामरूपे
इत्यनेन देवादिशब्दानां शरीरपर्य्यन्तत्वं प्रतिपाद्य संस्थानैक्याद्यभाव इत्यादिना शरीरलक्षणं दर्शयित्वा शब्दैस्तत्त्वस्वरूपप्रतिकृतिभिरित्यादिना विश्वेश्वरादपृथक् सिद्धत्वमुपपाद्यनिष्कर्षाकृतेत्यादिना पद्येन सर्व्वेषां शब्दानां परमात्मपर्य्यन्तत्वंप्रतिपादितं तत् सर्व्वं तत एवावधार्य्यम्। अयमेवार्थः समर्थितोवेदार्थसंग्रहे नामरूपश्रुतिव्याकरणसमये रामानुजेन।
किञ्च सर्व्वप्रमाणस्य सविशेषविषयतया निर्विशेषवस्तुनि न किमपि प्रमाणं समस्ति निर्विकल्पकप्रत्यक्षेऽपि सविशेषमेव वस्तु प्रतीयते। अन्यथा सविकल्पके सोऽयमिति पूर्व्वप्रतिपन्नप्रकार-
विशिष्टप्रतोत्यनुपपत्तेः। किञ्च तत्त्वमस्यादिवाक्यं न प्रपञ्चस्य बाधकं भ्रान्तिमूलकत्वात् भ्रान्तिप्रयुक्तरज्जुसर्पवाक्यवत् नापि ब्रह्मात्मैक्यज्ञानं निवर्त्तकं तत्र प्रमाणाभावस्य प्रागेवोपपादनात्। न च प्रपञ्चस्य सत्यत्वप्रतिष्ठापनपक्षे एकविज्ञानेन सर्व्वविज्ञानप्रतिज्ञाव्याकोपः प्रकृतिपुरुषमहदहङ्कारतन्मात्रभूतेन्द्रियचतुर्द्दशभुवनात्मकब्रह्माण्ड तदन्तर्वर्त्तिदेवतिर्य्यङ्मनुष्यस्यावरादिसर्व्वप्रकारसंस्थानमंस्थितं कार्य्यमपि सर्व्वंब्रह्मैवेति कारणभूतब्रह्मात्मज्ञानादेव सर्व्वविज्ञानं भवतीत्येकविज्ञानेन सर्व्वविज्ञानस्योपपन्नतरत्वात्। अपि च ब्रह्मव्यतिरिक्तस्य सर्व्वस्य मिथ्यात्वे सर्व्वस्यासत्त्वादेवैकविज्ञानेन सर्व्वविज्ञानं बाध्येत नामरूपविभागानर्हसूक्ष्णदशावत् प्रकृतिपुरुषशरीरं ब्रह्मकारणावस्थं जगतस्तदापत्तिरेव प्रलयः नामरूपविभागविभक्तम्बुलचिदचिद्दस्तुशरीरं ब्रह्मकार्य्यावस्थं ब्रह्मणस्तथाविधस्थूलभावश्चसृष्टिरित्यभिधीयते। एवञ्च कार्य्यकारणयोरनन्यत्वमप्यारम्भणाधिकरणे प्रतिपादितमुपपन्नतरं भवति निर्गुणवादाश्चप्राकृतहेयगुणनिषेधविषयतया व्यवस्थिताः नानात्वनिषेधवादाश्च एकस्यैव ब्रह्मणः शरीरतया प्रकारभूतं सर्व्वं चेतनाचेतनात्मकं वस्त्विति सर्व्वस्यात्मतया सर्व्वप्रकारं ब्रह्मैवावस्थितमिति सर्व्वात्मकब्रह्मपृथग्भूतवस्तुसदभावनिषेधपरत्वाभ्युपगमेन प्रतिपादिताः। किमत्रतत्त्वं भेदः अभेदः उभयात्मकं वा सर्व्वं तत्त्वं तत्रसर्व्वशरीरतथा सर्व्वप्रकारं ब्रह्मैवावस्थितमित्यभेदोऽभ्युपेयते एकमेव ब्रह्म नानाभूतचिदचित्प्रकारन्नानात्वेनावस्थित-
मिति भेदाभेदौचिदचिदीश्वराणां स्वरुपस्वभाववैलक्षस्यादसंकराच्च भेदः। तत्र चिद्रूपाणां जीवात्मनामसंकुचितापरिच्छिन्ननिर्म्मलज्ञानरूपाणामनादिकर्म्मरूपाविद्यावेष्टितानां तत्तत् कर्म्मानुरूपज्ञानसङ्कोचविकाशौ भोग्यभूता चित् भोक्ता संसर्गः तदनुगुणसुखदुःखापभागद्वयवत् कृता भगवत्प्रतिपत्तिः भगवत्पदप्राप्तिरित्यादयःस्वभावाः। अचिद्वस्तूनान्तु भोग्यभूतानामचेतनत्वमपुरुषार्थत्वं विकारास्पदत्वमित्यादयः परस्येश्वरस्य भोक्तृभोग्ययोरुभयोरन्तर्यामिरूपेणावस्थानमपरिच्छेद्यज्ञानैश्वर्य्यवीर्य्यशक्तितेजः प्रभृत्यनवस्थितिकातिशयासंख्येयकख्याणगुणगणता स्वसंकल्पप्रवृत्तस्वेतरसमस्तचिदचिद्वस्तुजातता स्वाभिमतस्वानुरूपैकरूपदिव्यरूपनिरतिशयविविधानन्तभूषणतेत्यादयः।
वेङ्कटनाथेन त्वित्थं निराटङ्कि पदार्थविभागः
द्रव्याद्रव्यप्रभेदायितमुभयविधं तद्विधं तत्त्वमाहुः
द्रव्यं द्वेधा विभक्तं जडमजडमिति प्राच्यमव्यक्तकालौ।
अन्यं प्रत्यक् पराक् च प्रथममुभयथा तत्र जीवेशभेदात्
नित्या भूतिर्मतिश्चेत्यपरमिह जडामादिमां केचिदाहुः॥
तत्र
द्रव्यं नाना दशावत् प्रकृतिरिह गुणैः सत्त्वपूर्व्वैरुपेता
कालोऽब्दाद्याकृतिः स्यादपुरवगतिमान् जीव ईशोऽन्य आत्मा।
संप्रोक्तनित्यभूतिस्त्रिगुणसमधिका सत्त्वयुक्ता तथैव
ज्ञातुर्ज्ञेयावभासा मतिरिति कथितं संग्रहाद्द्रव्यलक्ष्य॥
इत्यादिना।
तत्र चिच्छब्दवाच्या जीवात्मानः परमात्मनः सकाशाद्भिन्नाःनित्याश्च तथा च श्रुतिः द्वा सुपर्णा सयुजा सखायेत्यादिका। अत एवोक्तंनानात्मानो व्यवस्थात इति। तन्नित्यत्वमपि श्रुतिप्रसिद्धम्
न जायते म्रियते वा विपश्चिन्नायं भूत्वा भविता वा न भूयः।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे इति॥
अपरथा कृतप्राणाशाकृताभ्यागमप्रसङ्गः। अतएवोक्तंवीतरागजन्मादर्शनादिति। तदणुत्वमपि श्रुतिप्रसिद्धम्
बालाग्रशतभागस्य शतधा कल्पितस्य च।
भागो जीवः स विज्ञेयः स चानन्त्याय कल्पत इति॥
आराग्रमात्रः पुरुषोऽणुरात्मा चेतसा वेदितव्य इति च।
अचिच्छब्दवाच्यं दृश्यं जडं जगत् त्रिविधं भोग्यभोगोपकरण भोगायतनभेदात्। तस्य जगतः कर्त्तोपादानं चेश्वरपदार्थःपुरुषोत्तमो वासुदेवादिपदवेदनीयः। तदप्युक्तम्
वासुदेवः परं ब्रह्म कल्याणगुणसंयुतः।
भुवनानामुपादानं कर्त्ताजीवनियामक इति॥
स एव वासुदेवः परमकारुणिको भक्तवत्सलः परमपुरुषस्तदुपासकानुगुणतत्तत्फलप्रदानाय स्वलीलावशादर्चविभवव्यूहसूक्ष्मान्तर्यामिभेदेन पञ्चधावतिष्ठते। तत्रार्त्तानाम प्रतिमादयः। रामाद्यवतारो विभवः। व्यूहश्चतुर्व्विधः वासुदेव संकर्षणप्रद्युम्नानिरुद्धसंज्ञकः। सूक्ष्मंसंपूर्ण षड्गुणं वासुदेवाख्यं परं ब्रह्म।गुणा अपहतपाष्मत्वादयः सोऽपहतपाष्माविरजोविमृत्युर्विशो-
को विजिघत्सः सत्यकामः सत्यसंकल्प इति श्रुतेः। अन्तर्यामी सकलजीवनियामकः य आत्मनि तिष्ठन्नात्मानमन्तरोयमयतीति श्रुतेः। तत्रपूर्व्वपूर्व्वमूर्त्त्युपामनया पुरुषार्थपरिपन्थिदुरितनिचयक्षये सत्युत्तरोत्तरमूर्त्त्युपास्त्यधिकारः। तदुक्तम्
वासुदेवः स्वभक्तेषु वात्सल्यात् तत्तदीहितम्।
अधिकार्य्यानुगुण्येन प्रयच्छति फलं बहु॥
तदर्थं लीलया स्वीयाः पञ्च मूर्तीः करोति वै।
प्रतिमादिकमर्च्चास्यादवतारास्तु वैभवाः।
संकर्षणोवासुदेवः प्रद्युम्नश्चानिरुद्धकः।
व्यूहश्चतुर्विधा ज्ञेयः सूक्ष्मं संपूर्णषड्गुणम्।
तदेव वासुदेवाख्यं परं ब्रह्म निगद्यते।
अन्तर्यामी जीवसंस्था जीवप्रेरक ईरितः।
य आत्मनीतिवेदान्तवाक्यजालैर्निरूपितः॥
अर्चेपासनया क्षिप्ते कल्मषेऽधिकृता भवेत्।
विभवोपासने पश्चाद्व्यूहोपास्तौ ततः परम्।
सूक्ष्मे तदनु शक्तः स्यादन्तर्यामिणमीक्षितुमिति॥
तदुपासनञ्च पञ्चविधम् अभिगमनमुपादानमिज्या स्वाध्यायो योग इति श्रीपञ्चरात्रेऽभिहितम्। तत्राभिगमनं नाम देवतास्थानमार्गस्य संमार्जनोपलेपनादि। उपादानं गन्धपुष्पादिपूजासाधनसम्पादनम्। इज्या नाम देवतापूजनम्। स्वाध्यायो नाम अर्थानुसन्धानपूर्व्वको मन्त्रजपोवैष्णवसूक्तस्तोत्रपाठी नामसंकीर्त्तनं तत्त्वप्रतिपादकशास्त्राभ्यासश्च। योगो नाम देवता-
नुसन्धानम्। एवमुपासनाकर्म्मसमुच्चितेन विज्ञानेन द्रष्टृदर्शने नष्टे भगवद्भक्तस्य तन्निष्ठस्य भक्तवत्सलः परमकारुणिकः पुरुषोत्तमः स्वयाथात्म्यानुभवानुगुणनिरवधिकानन्तरूपं पुनरावृत्तिरहितं स्वपदं प्रयच्छति। तथाच स्मृतिः
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गता इति॥
स्वभक्तं वासुदेवोऽपि संप्राप्यानन्दमक्षयम्।
पुनरावृत्तिरहितं स्वीयं धाम प्रयच्छति॥
तदेतत् सर्व्वंहृदि निधाय महोपनिषन्मतावलम्बनेन भगवद्बोधायनाचार्य्यकृतां ब्रह्मसूत्रवृत्तिं विस्तीर्णामालक्ष्य रामानुजः शारीरिकमीमांसाभाष्यमकार्षीत्। तत्राथातो ब्रह्मजिज्ञासेति प्रथमसूत्रस्यायमर्थः अत्र अथशब्दः पूर्व्वप्रवृत्तकर्म्माधिगमनानन्तर्य्यार्थः तदुक्तंवृत्तिकारेण वृत्तात् कर्म्माधिगमादनन्तरं ब्रह्म विविदिषतीति अतःशब्दो हेत्वर्थः अधीतसाङ्गवेदस्याधिगततदर्थस्य विनश्वरफलात् कर्म्मणे विरक्तत्वाद्धेतोः स्थिरमोक्षाभिलाषुकस्य तदुपायभूतब्रह्मजिज्ञासा भवति ब्रह्मशब्देन स्वभावतो निरस्ततमस्तदोषानवधिकातिशयासंख्येयकल्याणगुणः पुरुषोत्तमोऽभिधीयते। एवञ्च कर्म्मज्ञानस्य तदनुष्ठानस्य च वैराग्योत्पादनद्वारा चिन्तकल्मषापनयनद्वारा च ब्रह्मज्ञानं प्रति साधनत्वेन तयाः कार्य्यकारणत्वेन पूर्वोत्तरमीमांसयोरेकशास्त्रत्वम्। अतएव वृत्तिकारा एकमेवेदं शास्तं जैमिनीयेन षोडशलक्षणेनेत्याहुः। कर्म्मफलस्य क्षयित्वं ब्रह्मज्ञानफलस्य
चाक्षयित्वं परीक्ष्य लोकान् कर्म्मचितान् ब्राह्मणोनिर्वेदमायान्नान्त्वकृतः कृतेनेत्यादिश्रुतिभिरनुमानार्थापत्त्युपवृंहिताभिः प्रत्यपादि। एकैकनिन्दया कर्म्मविशिष्टस्य ज्ञानस्य मोक्षसाधनत्त्वंदर्शयति श्रुतिः अन्धं तमः प्रविशन्ति चे विद्यामुपासते ततो भूयइव ते तमो य उ विद्यायांरताः विद्याञ्चाविद्याञ्च यस्तद्वेदोभयं सह अविद्यया मृत्युं तीर्त्वाविद्ययामृतमश्रुते इत्यादि। तदुक्तंपाञ्चरात्ररहस्ये
स एव करुणासिन्धुर्भगवान् भक्तवत्सलः।
उपासकानुरोधेन भजते मूर्त्तिपञ्चकम्॥
तदर्च्चाविभवध्यूहसूक्ष्मान्तर्यामिसंज्ञकम्।
यदाश्रित्यैव चिद्द्वर्गस्तत्तज्ज्ञेयं प्रपद्यते॥
पूर्ध्वपूर्ध्वेदितोपास्तिविशेषक्षीणकल्मषः।
उत्तरोत्तरमूर्त्ती नामुपास्त्यधिकृतो भवेत्॥
एवं ह्यहरहः श्रौतस्मार्त्तधर्म्मानुसारतः।
उक्तोपासनया पुंसां वासुदेवः प्रसीदति॥
प्रसन्नात्मा हरिर्भक्त्या निदिध्यासनरूपया।
अविद्यां कर्म्मसंघातरूपां सद्यो निवर्त्तयेत्॥
ततः स्वाभाविकाः पुंसां ते संसारतिरोहिताः।
आविर्भवन्ति कल्याणाः सर्व्वज्ञत्वादयो गुणाः॥
एवं गुणाः समानाः स्युर्मुक्तानामीश्वरस्य च।
सर्व्वकर्तृत्वमेवैकं तेभ्यो देवे विशिष्यते॥
मुक्तास्तु शेषिणि ब्रह्मण्यशेषे शेषरूपिणः।
सर्व्वानश्नुवते कामान् सह तेन विपश्चितेति॥
तस्मात्तापत्रयातुरैरमृतत्वाय पुरुषोत्तमादिपदवेदनीयं ब्रह्म जिज्ञासितव्यमित्युक्तंभवति। प्रकृतिप्रत्ययौ प्रत्ययार्थं प्राधान्येन सह ब्रूत इतः स नोऽन्यत्रेतिवचनबलादिच्छाया इव्यमाणप्रधानत्वादिव्यमाणं ज्ञानमिह विधेयं तच्च ध्यानोपासनादिशब्दवाच्यं वेदनं न तु वाक्यजन्यमापातज्ञानं पदसन्दर्भश्राविणोव्युत्पन्नस्य विधानमन्तरेणापि प्राप्तत्वात् आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः आत्मेत्येवोपासीत विज्ञाय प्रज्ञांकुर्व्वीत अनुविद्यं विजानातीत्यादिश्रुतिभ्यः। अत्र श्रोतव्य इत्यनुवादः अध्ययनविधिनासाङ्गस्य स्वाध्यायस्य ग्रहणे अधीतवेदस्य पुरुषस्य प्रयोजनवदर्थदर्शनात्तन्निर्णयाय स्वरमत एव श्रवणे प्रवर्त्तमानतया तस्य प्राप्तत्वात्। मन्तव्य इति चानुवादः श्रवणप्रतिष्ठार्थत्वेन मननस्यापि प्राप्तत्वादप्राप्ते शास्त्रमर्थवदिति न्यायात्। ध्यानञ्च तैलधारावदविच्छिन्नस्मृतिसन्तानरूपा ध्रुवा स्मृतिः स्मृतिप्रतिलम्भे सर्व्वग्रन्थीनां विप्रमोक्ष इति ध्रुवायाःस्मृतेरेव मोक्षोपायत्वश्रवणात्। सा च स्मृतिर्दर्शनमामाकारा
भिद्यते हृदयग्रन्थिविद्यन्ते सर्व्वसंशयाः।
क्षीयन्ते चास्य कर्म्माणि तस्मिन् दृष्टे परावरे॥
इत्यनेनैकत्वात्। तथा च आत्मा वा अरे द्रष्टव्य इत्यनेनास्या दर्शनरूपता विधीयते। भवति च भावनाप्रकर्षात् स्मृतेर्दर्शनरूपत्वम्। वाक्यकारेणैतत् सर्व्वं प्रपञ्चितं वेदनमुपासनं स्यादि-
त्यादिना। तदेव ध्यानं विशिनष्टि श्रुतिः नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वामिति। प्रियतम एव हि वरणीयो भवति यथायं प्रियतममात्मानं प्राप्नोति तथा स्वयमेव भगवान् प्रियतम इति भगवतैवाभिहितम्
तेषां सततयुक्तानां भजतां प्रीतिपूर्व्वकम्।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते इति ॥
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्ययेति च।
भक्तिस्तु निरतिशयानन्दप्रियानन्यप्रयोजनसकलेतरवैतृष्ण्यवज्ज्ञानविशेष एव तत्सिद्धिश्चविवेकादिभ्यो भवतीति वाक्यकारेणोक्तंतल्लब्धिर्विवेकविमाकाभ्यासक्रियाकल्याणानवसादानुद्धर्षेभ्यः सम्भवान्निर्वचनाच्चेति। तत्र विवेको नामादृष्टादन्नात् सत्त्वशुद्धिः अत्र निर्वचनम् आहारशुद्धेः सत्त्वशुद्धिः सत्त्वशुद्ध्या ध्रुवा स्मृतिरिति। विमोकः कामानभिष्वङ्गः शान्त उपासीतेति निर्वचनम्। पुनःपुनः संशीलनमभ्यासः निर्वचनञ्च स्मार्त्तमुदाहतं भाष्यकारेण सदा तद्भावभावित इति। श्रौतस्मार्त्तकर्म्मानुष्ठानं शक्तितः क्रिया क्रियावानेष ब्रह्मविदां वरिष्ठ इति निर्वचनम्। सत्यार्जवदयादानादीनि कल्याणानि सत्येन लभ्यत इत्यादिनिर्व्वचनम् दैन्यविपर्य्ययोऽनवसादः नायमात्मा बलहीनेन लभ्यत इति निर्वचनम्। तद्विपर्य्ययजा तुष्टिरनुद्धर्षः शान्तो दान्त इति निर्वचनम्। तदेवमेवंविधनियमविशेषममासादितपुरुषोत्तमप्रसादविध्वस्ततमःस्वान्तस्य अनन्यप्रयोज-
नानवरतनिरतिशयप्रियवदात्मप्रत्ययावभावतापन्नध्यानरूपया भक्त्वा पुरुषोत्तमपदं लभ्यत इति सिद्धम्। तदुक्तंयामुनेन उभयपरिकर्म्मितस्वान्तस्यैकान्तिकात्यन्तिकभक्तियोगलभ्य इति ज्ञानकर्म्मयोगसंस्कृतान्तःकरणस्येत्यर्थः।
किं पुनर्ब्रह्म जिज्ञासितव्यमित्यपेक्षायां लक्षणमुक्तंजन्माद्यस्यइति। जम्मादीति सृष्टिस्थितिप्रक्षयं तद्गुणसंविज्ञानो बहुव्रीहिः अस्याचिन्त्यविविधरचनारच्यस्य नियतदेशकालभोगब्रह्मादिस्तम्बपर्य्यन्तक्षेत्रज्ञमिश्रस्यजगतः यतो यस्मात् सर्व्वेश्वरात् निखिलहेयप्रत्यनीकस्वरूपात् सत्यसंकल्पाद्यनवधिकातिशयासंख्येयकल्याणगुणात् सर्व्वज्ञात् सर्व्वशक्तेः पुंसः सृष्टिस्थितिप्रलयाःप्रवर्त्तन्त इति सूत्रार्थः।
इत्थम्भूते ब्रह्मणि किं प्रमाणमिति जिज्ञासायां शास्त्रमेव प्रमाणमित्युक्तं शास्त्रयोनित्वादिति शास्त्रं योनिः कारणं प्रमाणं यस्य तच्छास्त्रयोनि तस्य भावस्तत्त्वं तस्माद्ब्रह्मज्ञानकारणात्मज्ञानकारणत्वात् शास्त्रस्य तद्योनित्वं ब्रह्मण इत्यर्थः। न च ब्रह्मणः प्रमाणान्तरगम्यत्वं शङ्कितुं शक्यमतीन्द्रियत्वेन प्रत्यक्षस्य तत्र प्रवृत्त्यनुपपत्तेःनापि महार्णवादिकं सकर्तृकं कार्य्यलात् घटवत् इत्यनुमानस्य पूतिकुष्माण्डायमानत्वात् तल्लक्षणं ब्रह्म यतो वा इमानि भूतानीत्यादिवाक्यं प्रतिपादयतीति स्वितम्।
यद्यपि ब्रह्म प्रमाणान्तरगोचरतां नावतरति तथापि प्रवृत्तिनिवृन्तिपरत्वाभावे सिद्धरूपं ब्रह्म न शास्त्रं प्रतिपादयितुं प्रभवतीति एतत्पर्य्यनुयोगपरिहारायोक्तं तत्तुसमन्व-
यादिति। तुशब्दः प्रसक्ताशङ्काव्यावृत्त्यर्थः तच्छास्त्रप्रमाणकत्वं ब्रह्मणः सम्भवत्येव कुतः समन्वयात् परमपुरुषार्थभूतस्यैव ब्रह्मणोऽभिधेयतयान्वयादित्यर्थः। न च प्रवृत्तिनिवृत्योरन्यतरविरहिणः प्रयोजनशून्यत्वं स्वरूपपरेष्वपि पुत्रस्ते जातः नायं सर्प इत्यादिषु हर्षभयनिवृत्तिरूपप्रयोजनवत्त्वं दृष्टमेवेति न किञ्चिदनुपपन्नम्। दिङ्मात्रमत्र प्रदर्शितं विस्तरस्वाकरादेवावगन्तव्य इति विस्तरभीरुवोदास्यत इति सर्व्वमनाकुलम्।
इति सर्व्वदर्शनसंग्रहे रामानुजदर्शनम्।
____________
तदेतद् रामानुजमतं
जीवाणुत्व-दासत्व–
वेदापौरुषेयत्व–सिद्धार्थ-बोधकत्व–स्वतः-प्रमाणत्व–
प्रमाण-त्रित्व–पाञ्चरात्रोपजीव्यत्व–प्रपञ्च-भेद-सत्यत्वादि-साम्येऽपि
परस्-पर-विरुद्ध-भेदादि-पक्ष-त्रय-कक्षी-कारेण
क्षपणक-पक्ष-निक्षिप्तम् इत्य् उपेक्षमाणः।