०४ आर्हतदर्शनम्

तदित्यं मुक्तकच्छानां मतमसहमाना विवसनाः कथञ्चित् स्थायित्वमास्थाय क्षणिकत्वपक्षं प्रतिक्षिपन्ति। यद्यात्मा कश्चिन्नास्थीयेत स्थायी तथापीह लौकिकफलसाधनसम्पादनं विफलं भवेत्। न ह्येतत् सम्भविष्यति अन्यः करोत्यन्यो भुङ्क्त

इति। तस्माद्योऽहं प्राक् कर्म्माकरवं सोऽहं सम्प्रति तत्फलं भुञ्जे इति पूर्व्वापरकालानुयायिनः स्थायिनस्तस्य स्पष्टप्रमाणावसिततया पूर्व्वापरभागविकलकालकलावस्थितिलक्षणक्षणिकता परोक्षकैरर्हद्भिर्न परिग्रहार्हा। अथ मन्येथाः प्रमाणवत्त्वादायातः प्रवाहः केन वार्य्यत इति न्यायेन यत् सत् तत् क्षणिकमित्यादिना प्रमाणेन क्षणिकतायाः प्रमिततयातदनुसारेण समानसन्तानवर्त्तिनामेवप्राचीनः प्रत्ययः कर्म्मकर्त्ताउत्तरः प्रत्ययः फलभोक्ता। न चातिप्रसङ्गः कार्य्यकारणभावस्य नियामकत्वात्। यथा मधुररसभावितानामास्रवीजानां परिकर्षितायां भूमावुप्तानामङ्कुरकाण्डस्कन्धशाखापल्लवादिषु तद्द्वारा परम्परया फले माधुर्य्यनियमः यथा वा लाक्षारसावसिक्तानां कार्पासवीजादीनामङ्कुरादिपारम्पर्य्येण कार्पासादौरक्तिमनियमः। यथोक्तम्

यस्मिन्नेव हि सन्ताने आहिता कर्म्मवासना।
फलं तत्रैव बध्नाति कार्पासे रक्तता यथा॥

कुसुमे वीजपूरादेर्यल्लाक्षाद्यपसिच्यते।
शक्तिराधीयते तत्र काचित्तां किं न पश्यमीति॥

तदपि काशकुशावलम्बनकल्पं विकल्पासहत्वात्। जलधरादौ दृष्टान्ते क्षणिकत्वमनेन प्रमाणेन प्रमितं प्रमाणन्तरेण वा। नाद्यःभवदभिमतस्य क्षणिकत्वस्य क्वचिदप्यदृष्टचरत्वेन दृष्टान्तासिद्धावस्यानुमानस्यानुत्थानात्। न द्वितीयः तेनैव न्यायेनसर्व्वत्र क्षणिकत्वसिद्धौ सत्त्वानुमानवैफल्यापत्तेः अर्थक्रियाकारित्वं सत्त्वमित्यङ्गीकारे मिथ्यासर्पदंशादेरपि अर्थक्रियाकारित्वेन

सत्त्वापाताच्च। अतएवोक्तम् उत्पादव्ययध्रौव्ययुक्तंसदिति।अथोच्येत सामर्थ्यासामर्थ्यलक्षणविरुद्धधर्म्माध्यासात्तत्सिद्धिरिति तदसाधु स्यात् वादिनामनैकान्ततावादस्येष्टतया विरोधासिद्धेः। यदुक्तंकार्पासादिदृष्टान्त इति तदुक्तिमात्रं युक्तेरनुक्तेः तत्रापि निरन्वयनाशस्यानङ्गीकाराच्च। न च सन्तानिव्यतिरेकेण सन्तानः प्रमाणपदवीमुपारोढुमर्हति। तदुक्तम्

सजातीयाः क्रमोत्पन्नाः प्रत्यासन्नाः परस्परम्।
व्यक्तयस्तासु सन्तानः स चैक इति गोयत इति।

न च कार्य्यकारणभावनियमोऽतिप्रसङ्गं भङ्कुमर्हति। तथा हि उपाध्यायबुद्ध्यनुभूतस्य शिव्यबुद्धिः स्मरेत् तदुपचितकर्म्मफलमनुभवेद्वातथा च कृतप्रणाशाकृताभ्यागमप्रसङ्गः। तदुक्तंसिद्धसेनवाक्यकारेण

कृतप्रणाशाकृतकर्म्मभोगभवप्रमोक्षस्मृतिभङ्गदोषान्।
उपेक्ष्य साक्षात्क्षणभङ्गमिच्छान्नहो महासाहसिकः परोऽसाविति॥

किञ्च क्षणिकत्वपक्षे ज्ञानकाले ज्ञेयस्यासत्त्वेन ज्ञेयकाले ज्ञानस्यासत्त्वेन च ग्राह्यग्राहकभावानुपपत्तौ सकललोकयात्रास्तमियात्। न च समसमयवर्त्तिता शङ्कनीया सव्येतरविषाणवत् कार्य्यकारणभावासम्भवेनाग्राह्मस्यालम्बनप्रत्ययानुपपत्तेः। अथ भिन्नकालस्यापि तस्याकारार्पकत्वेन ग्राह्यत्वं तदप्यपेशलं क्षणिकस्य ज्ञानस्याकारार्पकताश्रयताया दुर्वचत्वेन साकारज्ञानवादे प्रत्यादेशेन निराकारज्ञानवादेऽपि योग्यतावशेन प्रतिकर्म्मव्यवस्थायाः स्थितत्वात्। तथा हि प्रत्यक्षेण विषयाकाररहित-

मेव ज्ञानं प्रतिपुरुषमहमिकया घटादिज्ञानमनुभूयते न तुदर्पणादिवत् प्रतिबिम्बक्रान्तम्। विषयाकारधारितत्वेन चज्ञानस्यार्थे दूरनिकटादिव्यवहाराय जलाञ्जलिर्वितीर्य्येत। न चेदमिष्टापादनमेष्टव्यं दवीयान् महीधरो मेदीयान् दीर्घो बहुरितिव्यवहारस्य निराबाधं जागरूकत्वात्। नचाकाराधायकस्य तस्य दवीयस्त्वादिशालितया तथा व्यवहार इति कथनीयंदर्पणादौ तथानुपलम्भात्। किञ्चार्थादुपजायमानं ज्ञानं यथा तस्य नीलाकारतामनुकरोति तथा यदि जडतामपि तर्ह्यर्थवत् तदपि जडं स्यात्। तथाच वृद्धिमिष्टवतो मूलमपि ते नेष्टं स्यादिति महत्कष्टमापन्नम्। अथैतद्दोषपरिजिहीर्षया ज्ञानं जडतांनानुकरोतीति ब्रूषे हन्त तर्हि तस्याग्रहणं न स्यादित्येकमनुसन्धित्सतोऽपरं प्रच्यवत इति न्यायापातः। ननु मा भूत् जडताया ग्रहणं किं नञ्छिन्नं तदग्रहणेऽपि नीलाकारग्रहणे तयोर्भेदा नैकान्तो वा भवेत्। नीलाकारग्रहणे चागृहीता जडता कथंतस्यानुरूपं स्यात् अपरथा गृहीतस्य स्तम्भस्यागृहीतं त्रैलोक्यमपिरूपं भवेत्। तदेतत् प्रमेयजातं प्रतापचन्द्रप्रभृतिभिरर्हन्मतानुसारिभिः प्रमेयकमलमार्त्तण्डादौप्रबन्धे प्रपञ्चितमिति ग्रन्थभूयस्त्वभयान्नोपन्यस्तम्।

तस्मात् पुरुषार्थाभिलाषुकैः पुरुषैः सौगती गतिर्नानुगन्तव्या अपित्वार्हत्येवार्हणीया।आर्हत्स्वरूपमहं चन्द्रसूरिभिराप्तनिश्चयालङ्कारे निरटङ्कि

सर्व्वज्ञोजितरागादिदोषस्त्रैलोक्यपूजितः।

यथास्थितार्थवादी च देवोऽर्हन् परमेश्वर इति॥

ननुन कश्चित् पुरुषविशेषः सर्व्वज्ञपदवेदनीयः प्रमाणपद्धतिमध्यास्ते सद्भावग्राहकस्य प्रमाणपञ्चकस्य तत्रानुपलम्भात् तथाचोक्तं तौतातितैः

सर्व्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः।
दृष्टो न चैकदेशोऽस्ति लिङ्गं वा योऽनुमापयेत्॥

न चागमविधिः कश्चिन्नित्यसर्व्वज्ञबोधकः।
न च तत्रार्थवादानां तात्पर्य्यमपि कल्प्यते॥

न चान्यार्थप्रधानैस्तैस्तदस्तित्वं विधीयते।
न चानुवदितुं शक्यः पूर्व्वमन्यैरबोधितः॥

अनादेरागमस्यार्थोन च सर्व्वज्ञ आदिमान्।
कृत्रिमेण त्वसत्येन स कथं प्रतिपाद्यते॥

अथ तद्वचनेनैव सर्व्वज्ञोऽन्यैः प्रतीयते।
प्रकल्प्येत कथं सिद्धिरन्योन्याश्रययोस्तयोः॥

सर्व्वज्ञोक्ततया वाक्यं सत्यं तेन तदस्तिता।
कथं तदुभयं सिध्येत् सिद्धमूलान्तरादृते॥

असर्व्वज्ञप्रणीतात्तु वचनान्मूलवर्जितात्।
सर्व्वज्ञमवगच्छन्तस्तद्वाक्योक्तंन जानते॥

सर्व्वज्ञसदृशं किञ्चिद्यदि पश्येम सम्प्रति।
उपमानेन सर्व्वशं जानीयाम ततो वयम्॥

उपदेशोऽपि बुद्धस्य धर्म्माधर्म्मादिगोचरः।
अन्यथा नोपपद्येत सार्व्वज्ञ्यंयदि नाभवदित्यादि॥

अत्रप्रतिविधीयते यदभ्यधायि सद्भावग्राहकस्य प्रमाणपञ्चकस्य तत्रानुपलम्भादिति तदयुक्तं तत्सद्भावादेकस्यानुमानादेः सद्भावात्। तथाहि कश्चिदात्मा सकलपदार्थसाक्षात्कारीतद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययत्वात् यत् यद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययं तत् तत्साक्षात्कारि यथा अपगततिमिरादिप्रतिबन्धं लोचनविज्ञानं रूपसाक्षात्कारि। तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययश्च कश्चिदात्मा तस्मात् सकलपदार्थमाक्षात्कारीति। न तावदशेषार्थग्रहणस्वभावत्वमात्मनोऽसिद्धं चोदनाबलान्निखिलार्थज्ञानात् नात्पत्त्यन्यथानुपपत्त्या सर्व्वमनैकान्तात्मकं सत्त्वादिति व्याप्तिज्ञानोत्पत्तेश्च। चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवं जातीयकमर्थमवगमयतीत्येवं जातीयकैरध्वरमीमांसागुरुभिर्विधिप्रतिषेधविचारणानिबन्धनं सकलार्थविषयज्ञानं प्रतिपद्यमानैः सकलार्थग्रहणस्वभावकत्वमात्मनोऽभ्युपगतम्। न चाखिलार्थप्रतिबन्धकावरणप्रक्षयानुपपत्तिः सम्यग्दर्शनादित्रयलक्षणस्यावरणप्रक्षयहेतुभूतस्य सामग्रीविशेषस्य प्रतीतत्वात् अनया मुद्रयापि क्षुद्रोपद्रवा विद्राव्याः।

नन्वावरणप्रक्षयवशादशेषविषयं विज्ञानं विशदं मुख्यप्रत्यक्षं प्रभवतीत्युक्तं तदयुक्तं तस्य सर्व्वज्ञस्यानादिमुक्तत्वेनावरणस्यैवासम्भवादिति चेत्तन्न अनादिमुक्तत्वस्यैवासिद्धेर्न सर्व्वज्ञोऽनादिमुक्तः मुक्तत्वादितरमुक्तवत् बद्धापेक्षया च मुक्तव्यपदेशः तद्रहिते चास्याप्यभावः स्यादाकाशवत्। नन्वनादेः क्षित्यादिकार्य्य-

परम्परायाः कर्तृत्वेन तत्सिद्धिः तथाहि क्षित्यादिकं सकर्तृकं कार्य्यत्वाद्वटवदिति तदप्यसमीचीनं कार्य्यत्वस्यैवासिद्धेः। न च सावयवत्वेन तत्साधनमित्यभिधातव्यं यस्मादिदं विकल्पजालमवतरति मावयवत्वं किमवयवसंयोगित्वं अवयवसमवायित्वं अवयवजन्यत्वं समवेतद्रव्यत्वं सावयवबुद्धिविषयत्वं वा। नप्रथमः आकाशादावनैकान्त्यात्। न द्वितीयः सामान्यादौव्यभिचारात्। न तृतीयः साध्याविशिष्टत्वात्। न चतुर्थः विकल्पयुगलार्गलग्रहगलत्वात् समवायसम्बन्धमात्रवद्द्रव्यत्वं समवेतद्रव्यत्वम् अन्यत्र समवेतद्रव्यत्वं वा विवक्षितं हेतूक्रियते। आद्ये गगनादौ व्यभिचारः तस्यापि गुणादिसमवायवत्त्वद्रव्यत्वयोः सम्भवात्। द्वितीये साध्याविशिष्टता अन्यशब्दार्थेषु समवायकारणभूतेष्ववयवेषु समवायस्य साधनीयत्वात्। अभ्युपगम्यैतदभाणि वस्तुतस्तु समवाय एव न समस्ति प्रमाणाभावात्। नापि पञ्चमः आत्मादिनानैकान्त्यात्तस्यसावयवबुद्धिविषयत्वेऽपि कार्य्यत्वाभावात्। न च निरवयवत्वेऽप्यस्य सावयवार्थसम्बन्धेन सावयवबुद्धिविषयत्वमैापचारिकमित्येष्टव्यं निरवयवत्वे व्यापित्वविरोधात् परमाणुवत्। किञ्च किमेकः कर्त्तासाध्यते किं वा स्वतन्त्रः प्रथमे प्रासादादौ व्यभिचारः स्थपत्यादीनां बहूनां पुरुषाणां तत्र कर्तृत्वोपलम्भादनेनैव सकलजगज्जननोत्पत्तावितरवैयर्थ्यञ्च। तदुक्तं वीतरागस्तुतौ

कर्त्तास्ति नित्यो जगतः स चैकः
स सर्व्वगःसन् स्ववशः स सत्यः।

इमाः कुहेयाः कुविडम्बनाः स्युस्
तेषां न येषामनुशासकस्त्वमिति॥

अन्यत्रापि।

कर्त्तान तावदिह कोऽपि यथेच्छया वा
दुष्टोऽन्यथा कटकृतावपि तत्प्रसङ्गः।
कार्य्यं किमत्र भवतापि च तक्षकाद्यै-
राहत्य च त्रिभुवनं पुरुषः करोतीति॥

तस्मात् प्रागुक्तकारणत्रितयबलादावरणप्रक्षये सार्व्वज्ञ्यं युक्तम्। न चास्योपदेष्ट्रन्तराभावात् सम्यग्दर्शनादित्रितयानुपपत्तिरिति भणनीयं पूर्व्वपर्व्वज्ञप्रणीतागमप्रभवत्वादमुख्याशेवार्थज्ञानस्य। नचान्योन्याश्रयतादिदोषः आगमसर्व्वज्ञपरम्पराया वीजाङ्कुरवदनादित्वाङ्गीकारादित्यलम्।

रत्नत्रयपदवेदनीयतया प्रसिद्धं सम्यग्दर्शनादित्रितयमर्हत्प्रवचनसङ्ग्रहपरे परमागमसारे प्ररूपितं सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति। विवृतञ्च योगदेवेन येन रूपेण जीवाद्यर्थोव्यवस्थितस्तेन रूपेणार्हता प्रतिपादिते तत्त्वार्थे विपरीताभिनिवेशरहितत्वाद्यपरपर्य्यायं श्रद्धानं सम्यग्दर्शनं तथा च तत्त्वार्थसूत्रं तत्त्वार्थं श्रद्धानं सम्यग्दर्शनमिति।अन्यदपि

रुचिर्जिनोक्ततत्त्वेषु सम्यक् श्रद्धानमुच्यते।
जायते तन्निसर्गेण गुरोरधिगमेन वेति॥

परोपदेशनिरपेक्षमात्मस्वरूपं निसर्गः व्याख्यानादिरूपपरोपदेशजनितं ज्ञानमधिगमः। येन स्वभावेन जीवादयः पदार्थाः

व्यवस्थिताः तेन स्वभावेन मोहसंशयरहितत्वेनावगमः सम्यग्ज्ञानम्। यथेाक्तम्

यथावस्थिततत्त्वानां संक्षेपाद्विस्तरेण वा।
योऽवबोधस्तमत्राहुः सम्यग्ज्ञानं मनीषिण इति॥

तज्ज्ञानं पञ्चविधं मतिश्रुतावधिमनःपर्य्यायकेवलभेदेन। तदुक्तम् मतिश्रुतावधिमनःपर्य्यायकेवलानि ज्ञानमिति।अस्यार्थःज्ञानावरणक्षयोपशमे सति इन्द्रियमनसी पुरस्कृत्य व्यापृतः सन् ययार्थं मनुते सा मतिः। ज्ञानावरणक्षयोपशमे सति मतिजनितं स्पष्टं ज्ञानं श्रुतम्। असम्यग्दर्शनादिगुणजनितक्षयोपशमनिमित्तम् अवच्छिन्नविषयं ज्ञानमवधिः। ईर्ष्यान्तरायज्ञानावरणक्षयोपशमे सति परमनोगतस्यार्थस्त स्फुटं परिच्छेदकं ज्ञानं मनःपर्य्यायः। तपः क्रियाविशेषान् यदर्थं सेवन्ते तपस्विनस्तज्ज्ञानमन्यज्ञानासंस्पृष्टं केवलम्। तत्राद्यंपरोक्षं प्रत्यक्षमन्यत्। तदुक्रम्

विज्ञानं स्वपराभासिप्रमाणं बाधवर्ज्जितम्।
प्रत्यक्षञ्च परोक्षञ्च द्विधा मेयविनिश्चयादिति॥

अन्तर्गणिकभेदस्तु सविस्तरस्तत्रैवागमेऽवगन्तव्यः। संसरणकर्म्मोच्छित्तावुद्यतस्य श्रद्दधानस्य ज्ञानवतः पापगमनकारणक्रियानिवृत्तिः सम्यक्चारित्रम्। तदेतत् सप्रपञ्चमुक्तमहता

सर्व्वथावद्ययोगानां त्यागश्चारित्रमुच्यते।
कीर्त्तितं तदहिंसादिव्रतभेदेन पञ्चधा।
अहिंसासूनृतास्तेयब्रह्मचर्य्यापरिग्रहाः॥

न यत्प्रमादयोगेन जीवितव्यपरोपणम्।
चराणां स्थावराणाञ्च तदहिंसाव्रतं मतम्॥

प्रियं पथ्यं वक्षस्तथ्यं सूनृतं व्रतमुच्यते।
तत्तथ्यमपि नोतथ्यमप्रियञ्चाहितञ्च यत्॥

अनादानमदत्तस्यास्तेयव्रतमुदीरितम्।
वाह्याः प्राणा नृणामर्थे हरता तं हता हि ते॥

दिव्यौदरिककामाणां कृतानुमतकारितैः।
मनोवाक्कायतस्त्यागो ब्रह्माष्टादशधा मतम्॥

सर्व्वभावेषु मूर्च्छायास्त्यागः स्यादपरिग्रहः।
यदसत्स्वपि जायेत मूर्च्छया चित्तविप्लवः॥

भावनाभिर्भावितानि पञ्चभिः पञ्चधा क्रमात्।
महाव्रतानि लोकस्य साधयन्त्यव्ययं पदमिति॥

भावनापञ्चकप्रपञ्चनञ्चप्ररूपितम्

हास्यलोभभयक्रोधप्रत्याख्यानैर्निरन्तरम्।
आलोच्य भाषणेनापि भावयेत् सूनृतं व्रतमित्यादिना॥

एतानि सम्यग्दर्शनज्ञानचारित्राणि मिलितानि मोक्षकारणं म प्रत्येकं यथा रसायनज्ञानं श्रद्धानावरणानि सम्भूय रसायनफलं साधयन्ति न प्रत्येकम्।

अत्र संक्षेपतस्तावज्जीवाजीवाख्येद्वेतत्त्वे स्तः तत्रबोधात्मको जीवः अबोधात्मकस्त्वजीवः। तदुक्तंपद्मनन्दिना

चिदचिद्द्वेपरे तत्त्वे विवेकस्तद्विवेचनम्।
उपादेयमुपादेयं हेयं हेयञ्चकुर्व्वतः॥

हेयं हि कर्तृरागादि तत् कार्य्यमविवेकिनः।
उपादेयं परं ज्योतिरूपयोगैकलक्षणमिति॥

सहजचिद्रूपपरिणतिं स्वीकुर्व्वाणे ज्ञानदर्शने उपयोगः स परस्परप्रदेशात्तु प्रदेशबन्धात् कर्म्मणैकोभूतस्यात्मनोऽन्यत्वप्रतिपत्तिकारणं लक्षणं भवति। सकलजीवसाधारणं चैतन्यमुपशमक्षयक्षयोपशमवशादौपशमिकशयात्मकक्षयौपशमिकभावेन कर्म्मोदयवशात् कलुषान्याकारेण च परिणतजीवपर्य्यायजीवविवक्षायां स्वरूपं भवति। यदवोचद्वाचकाचार्य्यः औपशमिकक्षायिकौ भावौ-मिश्रश्च जीवस्य सत्त्वमौदयिकपारिणामिकौ चेति। अनुदयप्राप्तिरूपे कर्म्मण उपशमे सति जीवस्योत्पद्यमानो भावः औपशमिकः यथा पङ्केकलुषतां कुर्व्वति कतकादिद्रव्यसम्बन्धादधः पतिते जलस्य स्वच्छता। कर्म्मणः क्षयोपशमे सति जायमानो भावः क्षायिकः यथा मोक्षः। उभयात्मा भावो मिश्रः यथा जलस्यार्द्धस्वच्छता। कर्म्मोदये सतिभवन् भाव औदयिकः। कर्म्मोपशमाद्यनपेक्षः सहजो भावश्चेतनत्वादिः पारिणामिकः। तदेतत् सत्त्वं यथासम्भवं भव्यस्याभव्यस्य वा जीवस्य तत्त्वं स्वरूपमिति सूत्रार्थः। तदुक्तम् स्वरूपसम्बोधने

ज्ञानाद् भिन्नो नचाभिन्ना भिन्नाभिन्नः कथञ्चन।
ज्ञानं पूर्व्वापरीभूतं सोऽयमात्मेति कीर्त्तित इति॥

ननु भेदाभेदयोः परस्परपरिहारेणावस्थानादन्यतरस्यैव वास्तवत्वादुभयात्मकत्वमयुक्तमिति चेत्तदयुक्तं बाधे प्रमाणाभावात्

अनुपलम्भोहि बाधकं प्रमाणं न सोऽस्ति समस्तेषु वस्तुष्वनेकरसात्मकत्वस्य स्याद्वादिना मते सुप्रसिद्धत्वादित्यलम्।

अपरे पुनर्जीवाजीवयोरपरं प्रपञ्चमाचक्षते जीवाकाशधर्म्माधर्म्मपुद्गलास्तिकायभेदात्। एतेषु पञ्चसु तत्त्वेषु कालत्रयसम्बन्धितया स्थितिव्यपदेशःअनेकप्रदेशत्वेन शरीरवत् कायव्यपदेशः। तत्र जीवा द्विविधाः संसारिणे मुक्ताश्च। भवाद् भवान्तरप्राप्तिमन्तः संसारिणः। ते च द्विविधाः समनस्का अमनस्काश्च तत्र संज्ञिनः समनस्काः शिक्षाक्रियालापग्रहणरूपा संज्ञा तद्विधुरास्त्वमनस्काः। ते चामनरका द्विविधाः त्रसस्थावरभेदात् तत्र द्वीन्द्रियादयः शङ्खगण्डोलकप्रभृतयश्चतुर्विधास्त्रसाः पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः। तत्र मार्गगतधूलिः पृथिवी दृष्टकादिः पृथिवीकायःपृथिवीं कायत्वेन येनगृहीतास पृथिवीकायकः पृथिवींकायत्वेन यो ग्रहीष्यति स पृथिवीजीवः। एवमवादिष्वपि भेदचतुष्टयं योज्यम्। तत्र पृथिव्यादि कायत्वेन गृहीतवन्तो ग्रहीष्यन्तश्च स्थावरा गृह्यन्ते न पृथिव्यादिपृथिवीकायादयः तेषां जीवत्वात्। ते च स्थावराःस्पर्शनैकेन्द्रियाश्च भवान्तरप्राप्तिविधुरा मुक्ताः धर्म्माधर्म्माकाशास्तिकायास्ते एकत्वशालिनो निष्क्रियाश्च द्रव्यस्य देशान्तरप्राप्तिहेतुः। तत्र धर्म्माधर्म्मौ प्रसिद्धौआलोकेनाविच्छिन्ने नभसि लोकाकाशपदवेदनीये सर्व्वत्रावस्थितिगतिस्तित्युपग्रहो धर्म्माधर्म्मयोरुपकारः अतएव धर्म्मास्तिकायःप्रवृत्त्यनुमेयः अधर्म्मास्तिकायः स्थित्यनुमेयः।अन्यवस्तुप्रदेशमध्येऽन्यस्य वस्तुनः

प्रवेशोऽवगाहः तदाकाशकृत्यम्। स्पर्शरसवर्णवन्तः पुद्गलाः ते च द्विविधाः अणवः स्कन्धाश्च भोक्तुमशक्या अणवः द्व्यणुकादयः स्कन्धाः। तत्र द्व्यणुकादिस्कन्धभेदादण्वादिरुत्पद्यते अण्वादिसंघातात् द्व्यष्णुकादिरुत्पद्यते क्वचिद्भेदसंघाताभ्यां स्कन्धोत्पत्तिः अतएव पूरयन्ति गलन्तीति पुद्गलाः। कालस्यानेकप्रदेशत्वाभावेनाऽस्तिकायत्वाभावेऽपि द्रव्यत्वमस्ति तल्लक्षणयेोगात् तदुक्तं गुणपर्य्यायवद्द्रव्यमिति। द्रव्याश्रया निर्गुणा गुणाः यथा जीवस्यज्ञानत्वादिसामान्यरूपाःपुद्गलस्य रूपत्वादिसामान्यस्वभावाःधर्म्माधर्म्माकाशकायानां यथासम्भवं गतिस्थित्यवगाहहेतुत्वादिसामान्यानि गुणाः। तस्य द्रव्यस्योक्तरूपेण भवनमुत्पादः तद्भावः परिणामः पर्य्याय इति पर्य्यायाः यथा जीवस्य घटादिज्ञानसुखक्लेशादयःपुद्गलस्य मृत्पिण्डघटादयः धर्म्मादीनां गत्यादिविशेषाः अतएव षट् द्रव्याणीति प्रसिद्धिः।

केचन सप्त तत्त्वानीति वर्णयन्ति तदाह जीवाजीवास्रवबन्धसंवरनिर्जरमोक्षालत्त्वानीति। तत्र जीवाजीवौनिरूपितौ आस्रवो निरूप्यते औदारिकादिकायादिचलनद्वारेणात्मनश्चलनं योगपदवेदनीयमास्रवः यथा सलिलावगाहिद्वारं नद्यालवणं कारणत्वादास्रवइति निगद्यते तथा योगप्रणाडिकया कर्मास्रवतीति स योग आस्रवः। यथा आर्द्रं वस्त्रंसमन्ताद्वातानीतं रेणुजातमुपादत्ते तथा कषायजलार्द्रआत्मा योगागीतं कर्म्म सर्व्वप्रदेशैर्गृह्नाति यथा वा निवृप्तायःपिच्छे जले क्षिप्ते अम्भः समन्ताद् गृहाति तथा कषायोष्णो जीवो योगानीतं

कर्म्मसमन्तादादत्ते। कषति हिनस्त्यात्मानं कुगतिप्रापणादिति कषायः क्रोधो मानो माया लोभश्चस द्विविधः शुभाशुभभेदात् तत्राहिंसादिः शुभः काययोगः सत्यमितहितभाषणादिः शुभोवाग्योगः। तदेतदास्रवभेदप्रभेदजातं कायवाङ्मनःकर्म्मयोगः स आस्रवः शुभः पुण्यस्य अशुभः पापस्येत्यादिना सूत्रसन्दर्भेण ससंरम्भमभाणि। अपरे त्वेवं मेनिरे आस्रवयति पुरुषं विषयेय्विन्द्रियप्रवृत्तिरास्रवः इन्द्रियद्वारा हि पौरुषं ज्योतिर्विषयान् स्पृशद्रूपादिज्ञानरूपेण परिणमत इति।

मिथ्यादर्शनाविरतिप्रमादकषायवशाद्योगवशाच्चात्मा सूक्ष्मैकक्षेत्रावनाहिनामनन्तान्तप्रदेशानां पुद्गलानां कर्म्मबन्धयोग्यानामादानमुपश्लेषणं यत् करोति स बन्धः। तदुक्तं सकषायत्वाज्जीवः कर्म्मभावयोग्यान् पुद्गलानादत्ते स बन्ध इति। तत्र कषायग्रहणं सर्व्वबन्धहेतूपलक्षणार्थम्। बन्धहेतून् पपाठ वाचकाचार्य्यः मिथ्यादर्शनाविरतिप्रमादकषाया बन्धहेतव इति। मिथ्यादर्शनं द्विविधं मिथ्याकर्म्मोदयात् परोपदेशानपेक्षं तत्त्वाश्रद्धानं नैसर्गिकमेकम् अपरं परोपदेशजम्। पृथिव्यादिषट्कापादानकं षडिन्द्रियासंयमनञ्च अविरतिः। पञ्चसमितिगुप्तिम्वनुत्साहः प्रमादः। कषायः क्रोधादिः। तत्र कषायान्ताः स्थित्यनुभावबन्धहेतवः प्रकृतिप्रदेशबन्धहेतुर्योग इति विभागः। बन्धश्चतुर्विध इत्युक्तं प्रकृतिस्थित्यनुभावप्रदेशास्तु तद्विधय इति यथा निम्नगुडादेस्तिक्तत्वमधुरत्वादिस्वभावः

ज्ञानदर्शनावरणत्वमादित्यप्रभोच्छेदकाम्भोधरवत् प्रदीपप्रभातिरोधायककुम्भवच्च सदसद्वेदनीयस्य सुखदुःखोत्पादकत्वमसिधारामधुलेहनवद्दर्शनमोहनीयस्य तत्त्वार्थश्रद्धानकारित्वं दुर्जनसङ्गवच्चारित्रे मोहनीयस्यासंयमहेतुत्वं मद्यमदवदायुषो देहबन्धकर्तृत्वं जलवत् नाम्नोविचित्रनामकारित्वं चित्रिकवद्गोत्रस्योच्चनीक्षकारित्वं कुम्भकारवद्दानादीनां विघ्ननिदानत्वमन्तरायस्य स्वभावः कोशाध्यक्षवत्। सोऽयं प्रकृतिबन्धोऽष्टविधः द्रव्यकर्म्मावान्तरभेदमूलप्रकृतिवेदनीयः। तथावोचदुमास्वातिवाचकाचार्य्यः आद्योज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तराया इति तद्भेदच्च समगृहात् पञ्चनवाष्टाविंशतिचतुर्द्विचत्वारिंशद्द्विपञ्चदशभेदा यथाक्रममिति। एतच्च सर्व्वं विद्यानन्दादिभिर्विवृतमिति विस्तरभयान्नप्रस्तूयते। यथाअजागोमहिष्यादिक्षीराणामेतावन्तमनेहसंमाधुर्य्यस्वभावादप्रच्युतिस्थितिः तथा ज्ञानावरणादीनां मूलप्रकृतीनामादितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटिकोट्यःपरा स्थितिरित्याद्युक्तंकालदुर्द्धानवत् स्वीयस्वभावादप्रच्युतिस्थितिः। यथा अजागोमहिव्यादिक्षीराणां तीव्रमन्दादिभावेन स्वकार्य्यकारणे सामर्थ्यविशेषोऽनुभावः तथा कर्म्मपुद्गलानां स्वकार्य्यकरणे सामर्थ्यविशेषोऽनुभावः। कर्म्मभावपरिणतपुद्गलस्कन्धानामनन्तान्तप्रदेशानाम् आत्मप्रदेशानुप्रवेशः प्रदेशबन्धः। आस्रवनिरोधः संवरः येनात्मनि प्रविशत् कर्म्म प्रतिषिध्यते स गुप्ति समित्यादिः संवरः। संसारकारणाद्योगादात्मनोगोपनं गुप्तिः।

सा त्रिविधा कायवाङ्मनोनिग्रहभेदात्। प्राणिपीडापरिहारेण सम्यगयनं समितिः सा ईर्ष्यााभाषादिभेदात् पञ्चधा। प्रपञ्चितञ्च हेमचन्द्राचार्य्यैः

लोकातिवाहिते मार्गे चुम्बिते भास्वदंशुभिः।
जन्तुरक्षार्थमालोक्य गतिरीर्य्या मता सताम्॥

आपद्यतागतः सर्व्वजनीनं मितभाषणम्।
प्रिया वाचंयमानां साभाषासमितिरुच्यते॥

द्विचत्वारिंशता भिक्षादोषैर्नित्यमदूषितम्।
मुनिर्यदन्नमादत्ते सेषणासमितिर्मता॥

आसमादीनि संवीक्ष्यप्रतिलङ्घ्य च यत्नतः।
गृहीयान्निक्षिपेद्ध्यायेत् सादानसमितिः स्मृता॥

कफमूत्रमलप्रायैर्निर्जन्तु जगतीतले।
यत्नाद्यदुत्सृजेत् साधुः सोत्सर्गसमितिर्भवेत्॥

अत एवास्रवः स्रोतमो द्वारं संवृणोतीति संवर इति निराहुः। तदुक्तमभियुक्तैः

आस्रवो भवहेतुः स्यात् संवरो मोहकारणम्।
इतीयमार्हती मुष्टिरन्यदस्याः प्रपञ्चनम्॥

अर्जितस्य कर्म्मणस्तपः प्रभृतिभिर्निर्जरणं निर्जराख्यंतत्त्वं चिरकालप्रवृत्तकषायकलापं पुण्यं सुखदुःखे च देहेन जरयति नाशयति केशोल्लुञ्चनादिकं तप उच्यते। सा निर्जरा द्विविधा यथा कालोपक्रमिकभेदात् तत्र प्रथमा यस्मिन् काले यत् कर्म्मफलप्रदत्वेनाभिमतं तस्मिन्नेव काले फलदानाद्भवन्ती निर्जरा

कामादिपाकजेति च जेगीयते। यत् कर्म्म तपोबलात् स्वकामनयोदयावलिं प्रवेश्य प्रपद्यते तत् कर्म्म निर्जरा। यदाह

संसारवीजभूतानां कर्म्मणां जरणादिह।
निर्जरा संस्कृता द्वेधा सकामा कामनिर्जरा॥

स्मृता सकामा यमिनामकामा त्वन्यदेहिनामिति।

मिथ्यादर्शनादीनां बन्धहेतूनां निरोधः अभिनवकर्म्माभावात् निर्जराहेतुसन्निधानेनार्ज्जितस्य कर्म्मणो निरसनादात्यन्तिककर्म्ममोक्षणं मोक्षःबन्धहेतुभवहेतुनिर्जराभ्यां कृत्स्नकर्म्मविप्रमोक्षणं मोक्षइति तदनन्तरमूर्द्धं गच्छत्यालोकान्तात् यथा हस्तदण्डादिभ्रमिप्रेरितं कुलालचक्रमुपरतेऽपि तस्मिन् तद्वलादेवासंस्कारक्षयं भ्रमति तथा भवस्वेनात्मना अपवर्गप्राप्तये बहुशो यत् कृतं प्रणिधानं मुक्तस्य तदभावेऽपि पूर्व्वसंस्कारादालोकान्तं गमनमुपपद्यते यथा वा मृत्तिकालेपकृतमलावुद्रव्यं जलेऽधःपतति पुनरपेतमृत्तिकाबन्धमूर्द्धं गच्छति तथा कर्म्मरहित आत्मा असङ्गत्वादूर्द्धं गच्छति बन्धच्छेदादेरण्डवीजवच्चोर्द्धगतिस्वभावाच्चाग्निशिखावत्। अन्योन्यं प्रदेशानुप्रवेशे सत्यविभागेनावस्थानं बन्धः परस्यरप्राप्तिमात्रं सङ्गः। तदुक्तं पूर्व्वप्रयोगादसङ्गत्वाद्बन्धच्छेदात्तथा गतिपरिणामाच्चाविरुद्धं कुलालचक्रवद्व्यपगतलेपालावुवदेरण्डवीजवदग्निशिखावच्चेति। अत एव पठन्ति

गत्वा गत्वा निवर्त्तन्ते चन्द्रसूर्य्यादयो ग्रहाः।
अद्यापि न निवर्त्तन्ते त्वालोकाकाशमागता इति॥

अन्ये तु गतसमस्तक्लेशतद्वासनस्यानावरणज्ञानस्य सुखैकतानस्यात्मन उपरिदेशावस्थानं मुक्तिरित्यास्थिषत। एवमुक्तानि सुखदुःखसाधनाभ्यां पुण्यपापाभ्यां सहितानि नव पदार्थान् केचनाङ्गीचक्रुः। तदुक्तं सिद्धान्ते जीवाजीवौ पुण्यपापयुतावास्रवः संवरो निर्जरणं बन्धो मोक्षश्च नव तत्त्वानीति। सङ्ग्रहे प्रवृत्ता वयमुपरताः स्म।

अत्र सर्व्वत्र सप्तभङ्गिनयाख्यं न्यायमवतारयन्ति जैनाःस्थादस्ति स्यान्नास्ति स्यादस्ति च नास्ति च स्यादवक्तव्यः स्यादस्ति चावक्तव्यः स्यान्नास्ति चावक्तव्यः स्यादस्ति च नास्ति चावक्तव्य इति। तत्सर्व्वमनन्तवीर्य्यः प्रत्यपीपदत्

तद्द्विधानविवक्षायां स्यादस्तीति गतिर्भवेत्।
स्यान्नास्तीति प्रयोगः स्यात्तन्निषेधे विवक्षिते॥

क्रमेणोभयवाञ्छायां प्रयोगः समुदायभाक्।
युगपत्तद्विवक्षायां स्यादवाच्यमशक्तितः॥

आद्यावाच्यविवक्षायां पञ्चमो भङ्ग इष्यते।
अन्त्यावाच्यविवक्षायां षष्ठभङ्गसमुद्भवः॥

समुच्चयेन युक्तश्च सप्तमो भङ्ग उच्यत इति।

स्याच्छब्दः खल्वयं निपातः तिङन्तप्रतिरूपकोऽनेकान्तद्योतकः। यथोक्तम्

वाक्येष्वनेकान्तद्योतिगम्यं प्रति विशेषणम्।
स्यान्निपातोऽर्थयोगित्वात्तिङन्तप्रतिरूपक इति॥

यदि पुनरेकान्तद्योतकः स्याच्छब्दोऽयं स्यात्तदा स्यादस्तीति

वाक्ये स्यात्पदमनर्थकं स्यात् अनेकान्तद्योतकत्वे तु स्यादस्ति कथञ्चिदस्तीति स्यात्पदात् कथञ्चिदिति अयमर्थे लभ्यत इति नानर्थक्यम्। तदाह

स्याद्वादः सर्व्वथैकान्तत्यागात् किं वृततद्विधेः।
सप्तभङ्गिनयापेक्षा हेयादेयविशेषकृदिति॥

यदि वस्त्वस्त्येकान्ततः सर्व्वथा सर्व्वदा सर्व्वत्र सर्व्वात्मनास्तीति न उपादित्साजिहासाभ्यां क्वचित् कदा केनचित् प्रवर्त्तेत निवत्तेत वा प्राप्तप्रापणीयत्वहेयहानानुपपत्तेश्च। अनेकान्तपक्षेतु कथञ्चित् क्वचित् केनचित् सत्त्वेन हानोपादाने प्रेक्षावतामुपपद्येते। किञ्च वस्तुनः सत्त्वं स्वभावः असत्त्वं वेत्यादि प्रष्टव्यं न तावदस्तित्वं वस्तुनः स्वभाव इति समस्ति घटोऽस्तीत्यनयोःपर्य्यायतया युगपत्प्रयोगायोगात् नास्तीति प्रयोगविरोधाच्च एवमन्यत्रापि योज्यम्। यथोक्तम्

घटोऽस्तीति न वक्तव्यं सन्नेव हि यतो घटः।
नास्तीत्यपि न वक्तव्यं विरोधात् सदसत्त्वयोरित्यादि॥

तस्मादित्थं वक्तव्यंसदसत्सदसदनिर्व्वचनीयवादभेदेन प्रतिवादिनश्चतुर्विधाः पुनरष्यनिर्व्वचनीयमतेनामिश्रितानि सदसदादिमतानीति त्रिविधाः तान् प्रति किं वस्त्वस्तीत्यादिपर्य्यनुयेागे कथञ्चिदस्तीत्यादिप्रतिवचनसम्भवेन ते वादिनः सर्व्वे निर्विन्नाःसन्तः तूष्णीमासत इति सम्पूर्णार्थविनिश्चायिनः स्याद्वादमङ्गीकुर्व्वतस्तत्र तत्र विजय इति सर्व्वमुपपन्नम्। यदबोचदाचार्य्यःस्याद्वादमञ्जार्य्याम्

अनेकान्तात्मकं वस्तु गोचरः सर्व्वसंविदाम्।
एकदेशविशिष्टोऽर्थोन यस्य विषयो मतः॥

न्यायानामेकनिष्ठानां प्रवृत्तौश्रुतवर्त्मनि।
सम्पूर्णार्थविनिश्चायि स्याद्वस्तु श्रुतमुच्यत इति॥

अन्योन्यपक्षप्रतिपक्षभावाद्यथापरे मत्सरिणः प्रवादाः।
नयानशेषानविशेषमिच्छन्नपक्षपाती समयस्तथार्हत इति॥

जिनदत्तसूरिणा जैनं मतमित्यमुक्तम्।
बलभोगोपभोगानामुभयोर्दानलाभयोः।

अन्तरायस्तथा निद्रा भीरज्ञानं जुगुप्सितम्।
हिंसा रत्यरती रागद्वेषौरतिरतिस्मरः।

शोको मिथ्यात्वमेतेऽष्टादश दोषा नयस्य सः।
जिनो देवो गुरुः सम्यक् तत्त्वज्ञानोपदेशकः।

ज्ञानदर्शनचारिचाण्यपवर्गस्य वर्त्तिनि।
स्याद्वादस्य प्रमाणे द्वे प्रत्यक्षमनुमापि च।

नित्यानित्यात्मकं सर्व्वं नव तत्त्वानि सप्त वा।
जीवाजीवौ पुण्यपापे चास्रवःसंवरोऽपि च।

बन्धो निर्जरणं मुक्तिरेषां व्याख्याधुनोच्यते।
चेतनालक्षणोजीवः स्यादजीवस्तदन्यकः।

सत्कर्म्मपुद्गलाः पुष्यं पापं तस्य विपर्य्ययः।
आस्रवःकर्म्मणां बन्धो निर्जरस्तद्वियोजनम्॥

अष्टकर्म्मक्षयान्मोक्षोऽथान्तर्भावश्चकैश्चन।
पुण्यस्य संस्रवेपापस्यास्रवे क्रियते पुनः॥

लब्धानन्तचतुष्कस्य लोकागूढस्य चात्मनः।
क्षीणाष्टकर्मणोमुक्तिर्निर्व्यावृत्तिर्जिनोदिता॥

सरजोहरणा भैक्षमुजो लुञ्चितमूर्द्धजाः।
श्वेताम्बराः क्षमाशीलाः निःसङ्गाजैनसाधवः॥

लुञ्चिताः पिच्छिकाहस्ताः पाणिपात्रादिगम्बराः।
ऊर्द्धाशिनो गृहे दातुर्द्वितीयाः स्युर्जिनर्षयः॥

भुङ्क्ते न केवलं न स्त्रीं मोक्षमेति दिगम्बरः।
प्राहुरेषामयं भेदो महान् श्वेताम्बरैः सहेति॥

इति सर्व्वदर्शनसङ्ग्रहे आर्हतदर्शनम्॥

तद् एतद् आर्हतमतं प्रामाणिक-गर्हणम् अर्हति
न ह्य् एकस्मिन् वस्तुनि परमार्थे सति
परमार्थसतां युगपत् सद्-असत्त्वादि-धर्म्माणां समावेशः सम्भवति। न च सदसत्त्वयोः परस्परविरुद्धयोः समुच्चयासम्भवे विकल्पः किं न स्यादिति वदितव्यं क्रिया हि विकल्प्यते न वस्त्विति न्यायात्। न च

अनेकान्तं जगत्सर्व्वं
हेरम्ब-नरसिंहवद्

इति दृष्टान्तावष्टम्भवशादेष्टव्यं एकस्मिन् देशे गजत्वं सिंहलं वा अपरस्मिन् नरत्वमिति देशभेदेन विरोधाभावेन तस्यैकस्मिन् देश एव सत्त्वासत्त्वादिना अनेकान्तत्वाभिधाने दृष्टान्तानुपपत्तेः।

ननुद्रव्यात्मना सत्त्वं पर्य्यायात्मना तदभाव इत्युभयमप्युपपन्नमिति चेन्नैवं कालभेदेन हि कस्यचित् सत्त्वमसत्त्वञ्चस्वभाव इति न कश्चिद्दोषः। न चैकस्य ह्रस्वत्वदीर्घत्ववदनेकान्तत्वं जगतः स्यादिति वाच्यं प्रतियोगिभेदेन विरोधाभावात्। तस्मात्प्रमाणाभावात् युगपत् सत्त्वासत्त्वे परस्परविरुद्धे नैकस्मिन्वस्तुनिवस्तुं युक्ते। एवमन्यासामपि भङ्गीनां भङ्गोऽवगन्तव्यः। किञ्च सर्व्वस्यास्य मूलभूतः सप्तभङ्गिनयः स्वयमेकान्तः अनेकान्तो वा आद्ये सर्व्वमनेकान्तमिति प्रतिज्ञाव्याघातः द्वितीये विवक्षितार्थसिद्धिः अनेकान्तत्वेनासाधकत्वात् तथा चेयमुभयतः पाशरज्जुः स्याद्वादिनः स्यात्। अपि च नवत्वसप्तत्वादिनिर्द्धारणस्य फलस्य तन्निर्द्धारयितुः प्रमातुश्चतत्करणस्य प्रमाणस्य प्रमेयस्य नवत्वादेरनियमे साधु समर्थितमात्मनस्तीर्थकरत्वं देवानां प्रियेणार्हतमतप्रवर्त्तकेन।

तथा जीवस्य देहानुरूपपरिमाणत्वाङ्गीकारे योगबलादनेकपरिग्राहकयोगिजीवेषु प्रतिशरीरं जीवविच्छेदः प्रसज्येत मनुजशरीरपरिमाणो जीवा मतङ्गजदेहं कृत्स्नं प्रवेष्टुं न प्रभवेत्। किञ्च गजादिशरीरं परित्यज्य पिपीलिकाशरीरं विशतः प्राचीनशरीरसन्निवेशविनाशोऽपि प्राप्नुयात्। न च यथा प्रदीपप्रभाविशेषः प्रपाप्रासादाद्युदरवर्त्तिसङ्कोचविकाशवान् तथा जीवाऽपि मनुजमतङ्गजादिशरीरेषु स्यादित्येषितव्यं प्रदीपवदेव सविकारत्वेनामित्यत्वप्राप्तौ कृतप्रणाशाकृताभ्यागमप्रसङ्गात्। एवं प्रधानमल्लनिवर्हणन्यायेन जीवपदार्थदूषणाभिधान-दिशा ऽन्यत्रापि दूषणम् उत्प्रेक्षणीयम्।
तस्मान् नित्यनिर्दोष-श्रुतिविरुद्धत्वाद् इदम् उपादेयं न भवति।