अत्र बौद्धैरभिधीयते यदभ्यधायि अविनाभावो दुर्बोध इति तदसाधीयः तादात्म्यतदुत्पत्तिभ्यामविनाभावस्य सुज्ञानत्वात्। तदुक्तम्
कार्य्यकारणभावाद्वास्वभावाद्वानियामकात्।
अविनाभावनियमो दर्शनान्तरदर्शनादिति॥
अन्वयव्यतिरेकावविनाभावनिश्चायकावितिपक्षेसाध्यसाधनयोरव्यभिचारो दुरवधारणोभवेत् भूते भविष्यति वर्त्तमानेअनुपलभ्यमानेऽपि व्यभिचारशङ्काया अनिवारणात्। ननु तथाविधस्थले तावकेऽपि मते व्यभिचारशङ्का दुष्परिहरेति चेत् मैवं वोक्षःविनापि कारणं कार्य्यमुत्पद्यतामित्येवंविधायाः शङ्काया व्याघातावधिकतया निवृत्तत्वात्। तदेव ह्याशङ्क्येत यस्मिन्नाशङ्क्यमाने व्याघातादयो नावतरेयुः तदुक्तंव्याघातावधिराशङ्केति। तस्मात्तदुत्पत्तिनिश्चयेन अविनाभावो निश्चीयते तदुत्पत्तिनिश्चयश्च कार्य्यहेत्वोःप्रत्यक्षोपलम्भानुपलम्भ पञ्चकनिबन्धनः। कार्य्यस्योत्पत्तेः प्रागनुपलम्भः कारणोपलम्भे सत्युपलम्भः उपलब्धस्य पश्चात् कारणानुपलम्भादनुपलम्भ इति
पञ्चकारण्या धूमधूमध्वजयोः कार्य्यकारणभावो निश्चीयते। तथा तादात्म्यनिश्चयेनाप्यविनाभावो निश्चोयते यदि शिंशपा वृक्षत्वमतिपतेत् स्वात्मानमेव जह्मादिति विपक्षे बाधकप्रवृत्तेः अप्रवृत्ते तु बाधके भूयः सहभावोपलम्भेऽपि व्यभिचारशङ्कायाः को निवारयिता। शिंशपावृक्षयोश्च तादात्म्यनिश्चयो वृक्षोऽयं शिंशपेति सामानाधिकरण्यबलादुपपद्यते। न ह्यत्यन्ताभेदे तत् सम्भवति पर्य्यायत्वेन युगपदपि प्रयोगायोगात् नाप्यत्यन्तभेदे गवाश्वयोरनुपलम्भात्। तस्मात् कार्य्यात्मानौ कारणमात्मानमनुमापयत इति सिद्धम्।
यदि कश्चित् प्रामाण्यमनुमानस्य नाङ्गीकुर्य्यात् तं प्रति ब्रूयात् अनुमानं प्रमाणं न भवतीत्येतावन्मात्रमुच्यते तत्र न किञ्चन साधनमुपन्यस्यते उपन्यस्यते वा। न प्रथमः एकाकिनी प्रतिज्ञा हि प्रतिज्ञातं न साधयेदिति न्यायात्। नापि चरमः अनुमानं प्रमाणं न भवतीति ब्रुवाणेन त्वया अशिरस्कवचनस्योपन्यासे मम माता बन्ध्येतिवद्ध्याघातापातात्। किञ्च प्रमाणतदाभासव्यवस्थापनं तत्समानजातीयत्वादिति वदता भवतैव स्वीकृतं स्वभावानुमानम्। परगताविप्रतिपत्तिस्तु वचनलिङ्गेनेति ब्रुवता कार्य्यलिङ्गकमनुमानम् अनुपलब्ध्वा कश्चिदर्थं प्रतिषेधयतानुपलब्धिलिङ्गकमनुमानम्। तथाचोक्तं तथागतैः।
प्रमाणान्तरसामान्यस्थितिरन्यधियां गतेः।
प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचिदिति॥
पराक्रान्तञ्चात्र सूरिभिरिति ग्रन्थभूयस्त्वभयादुपरम्यते।
ते च बौद्धाश्चतुर्विधया भावनया परमपुरुषार्थं कथयन्ति। ते च माध्यमिकयोगाचारसौत्रान्तिकवैभाषिकसंज्ञाभिः प्रसिद्धा बौद्धा यथाक्रमं सर्व्वशून्यत्व वाह्यशून्यत्व वाह्यार्थानुमेयत्व वाह्यार्थप्रत्यक्षत्ववादानातिष्ठन्ते। यद्यपि भगवान् बुद्ध एक एव बोधयिता तथापि बोद्धव्यानां बुद्धिभेदाच्चातुर्विध्यं यथा गतोऽस्तमर्क इत्युक्ते जारचौरानूचानादथः स्वेष्टानुसारेणाभिसरणपरस्वहरणसदाचरणादिसमयं बुध्यन्ते। सर्व्वं क्षणिकं क्षणिकं दुःखं दुःखं स्वलक्षणं स्वलक्षणं शून्यं शून्यमिति भावनाचतुष्टयमुपदिष्टं द्रष्टव्यम्। तत्र क्षणिकत्वं नीलादिक्षणानां सत्त्वेनानुमातव्यं यत् सत् तत् क्षणिकं यथा जलधरपटलं सन्तश्चामी भावा इति। न चायमसिद्धा हेतुः अर्थक्रियाकारित्वलक्षणस्य सत्त्वस्य नीखादिक्षणानां प्रत्यक्षासिद्धत्वात् व्यापकव्यावृत्त्या व्याप्यव्यावृत्तिन्यायेन व्यापकक्रमाक्रमव्यावृत्तावक्षणिकात् सत्त्वव्यावृत्तेः सिद्धत्वाच्च। तच्चार्थक्रियाकारित्वं क्रमाक्रमाभ्यां व्याप्तं न च क्रमाक्रमाभ्यामन्यः प्रकारः समस्ति परस्परविरोधे हि न प्रकारान्तरस्थितिः। नैकतापि विरुद्धानामुक्तिमात्रविरोधत इतिन्यायेन व्याघातस्योद्भटत्वात्। तौ च क्रमाक्रमौ स्थायिनः सकाशाह्यावर्त्तमानौ अर्थक्रियामपि व्यावर्त्तयन्तौ क्षणिकत्वपक्ष एव सत्त्वं व्यवस्थापयत इति सिद्धम्।
नन्वक्षणिकस्यार्थक्रियाकारित्वं किं न स्यादिति चेत् तदयुक्तं विकल्पासहत्वात् तथा हि वर्त्तमानार्थक्रियाकरणकाले अतीतानागतयोः किमर्थक्रिययोः स्वायिनः सामर्थ्यमस्ति नो
वा। आद्ये तथोरनिराकरणप्रसङ्गः समर्थस्य क्षेपायोगात् यत् यदा यत्करणसमर्थं तत् तदा तत्करोत्येव यथा सामग्रोस्वकार्य्यं समर्थश्चायं भाव इति प्रसङ्गानुमानाच्च। द्वितीयेऽपिकदापि न कुर्य्यात् सामर्थ्यमात्रानुबन्धित्वादर्थक्रियाकारित्वस्य यत् यदा यन्न करोति तत् तदा तत्रासमर्थं यथा हि शिलाशकलमङ्कुरे न चैष वर्त्तमानार्थक्रियाकरणकाले वृत्तवर्त्तिव्यमाणे अर्थक्रिये करोतीति तद्विपर्य्ययाच्च। ननु क्रमवत्सहकारिलाभात् स्वायिनः अतीतानागतयोः क्रमेण क्रमणमुपपद्यतेइति चेत् तत्रेदं भवान् पृष्टो व्याचष्टां सहकारिणः किं भावस्वोपकुर्व्वन्ति न वा न चेत् नापेक्षणीयास्ते अकिञ्चित् कुर्व्वतांतेषां तादात्म्यायोगात्। उपकारकत्वपक्षे सोऽयमुपकारः किंभावाद्भिद्यते न वा भेदपक्षे आगन्तुकस्यैव तस्य कारणत्वं स्यात्न भावस्ताक्षणिकस्य आगन्तुकातिशयान्वयव्यतिरेकानुविधायित्वात् कार्य्यस्य। तदुक्तम्
वर्षातपाभ्यां किं व्योन्नश्चर्म्मण्यस्ति तयोः फलम्।
चर्म्मोपमश्चेत् सोऽनित्यः स्वतुल्यश्चेदमत्फल इति॥
अथ भावस्तैः सहकारिभिः सहैव कार्य्यं करोतीति स्वभाव इति चेत् अङ्ग तर्हि सहकारिणो न जह्यात् प्रत्युत पलायमानानपि गले पाशेन बद्ध्वा कृत्यं कार्य्यं कुर्य्यात् स्वभावस्यानपायात्। किञ्च सहकारिजन्योऽतिशयः किमतिशयान्तरमारभते न वा उभयथापि प्रागुक्तदूषणपाषाणवर्षणप्रसङ्गः। अतिशयान्तरारम्भपक्षे बहुमुखानवत्यादौस्यमपि स्यात् अतिशये
जनयितव्ये सहकार्य्यन्तरापेक्षायां तत्परम्परापात इत्येकानवस्थाऽऽस्थेयातथाहि सहकारिभिः सलिलपवनादिभिः पदार्थसार्थैराधीयमाने वीजस्यातिशये वीजमुत्पादकमभ्युपेयम् अपरथा तदभावेऽप्यतिशयः प्रादुर्भवेत् वीजञ्चातिशयमादधानं सहकारिसापेक्षमेवाधत्तेअन्यथा सर्व्वदोपकारापत्तौअङ्कुरस्यापि सदोदयः प्रसज्येत। तस्मादतिशयार्थमपेक्षमाणैःसहकारिभिरतिशयान्तरमाधेयं वीजे तस्मिन्नयुपकारे पूर्व्वन्यायेन सहकारिणापेक्षस्य वीजस्य जनकत्वे सहकारिसम्पाद्यवीजगतातिशयानवस्था प्रथमा व्यवस्थिता। अथोपकारः कार्य्यार्थमपेक्षमाणोऽपि वीजादिनिरपेक्षं कार्य्यं जनयति तत्सापेक्षावा। प्रथमे वीजादेरहेतुत्वमापतेत्। द्वितीये अपेक्ष्यमाणेन वीजादिनाउपकारे अतिशय आधेयः एवं तत्रतत्रापीति वीजादिजन्यातिशयनिष्ठातिशयपरम्परापात इति द्वितीयामवस्था स्थिरा भवेत्। एवमपेक्ष्यमाणेनोपकारेण वीजादौधर्म्मिण्युपकारान्तरमाधेयमित्युपकाराधेयवीजातिशयाश्रयातिशयपरम्परापात इति तृतीयानवस्था दुरवस्था स्यात्।अथ भावादभिन्नोऽतिशयःसहकारिभिराधीद्यत इत्यभ्युपगम्यते तर्हि प्राचीनो भावोऽनतिशयात्मा निवृत्तः अन्यश्चातिशयात्मा कुर्व्यद्रूपादिपद वेदनीया जायत इति फलितं ममापि मनोरथद्रुमेण।
तस्मादक्षणिकस्यार्थक्रिया दुर्घटा नाप्यक्रमेण घटते विकल्पासहत्वात्। तथाहि युगपत्सकलकार्य्यकरणसमर्थः सभावस्तदुत्तरकालमनुवर्त्तते नवा। प्रथमे तत्कालवत् कालान्त-
रेऽपि तावत् कार्य्यकरणमापतेत्। द्वितीये स्थायित्ववृत्त्याशा मूषिकभक्षितवीजादावङ्कुरादिजननप्रार्थनामनुहरेत्। यत् विरुद्धधर्म्माध्यस्तंतन्नामा यथा शीतोष्णो। विरुद्धधर्म्माध्यस्तश्चायमिति जलधरे प्रतिबन्धसिद्धिः। न चायमसिद्धोहेतुः स्थायिनि कालभेदेन सामर्थ्यासामर्थ्ययोः प्रसङ्गतद्विपर्य्ययसिद्धत्वात्तत्रासामर्थ्यसाधकौ प्रसङ्गतद्विर्य्ययौ प्रागुक्तौ सामर्थ्यासाधकावभिधीयेते यद्यदा यज्जननाममर्थं तत्तदा तन्न करोति यथा शिलाशकलमङ्कुरम् असमर्थश्चायं वर्त्तमानार्थक्रियाकरणकाले अतीतानागतयोरर्थक्रिययोरिति प्रसङ्गः वद्यदा चत् करोति तत्तदा तत्र समर्थं यथा सामग्री स्वकार्य्ये करोति चायमतीतानागतकाले तत्कालवर्त्तिन्यावर्थक्रिये भाव इति प्रसङ्गव्यत्ययः विपर्व्ययः। तस्माद्विपक्षे क्रमयौगपद्यव्यावृत्त्या व्यापकानुपलम्भेनाधिगतव्यतिरेकव्याप्तिकं प्रसङ्गतद्विपर्य्ययबलात् गृहीतान्वयव्याप्तिकं सत्त्वं क्षणिकत्वपक्ष एव व्यवस्थास्यतीति सिद्धम्। तदुक्तंज्ञानश्रिया
यत् सत्तत् क्षणिकं यथा जलधरः सन्तश्च भावा अमी
सत्ताशक्तिरिहार्थकर्म्माणि मितेः सिद्धेषु सिद्धा न सा।
नाप्येकैव विधान्यथा परकृतेनापि क्रियादिर्भवेत्
द्वेधापि क्षणभङ्गसङ्गतिरतः साध्ये च विश्राम्यतीति।
न च कणभक्षाक्षचरणादिपक्षकक्षीकारेण सत्तासामान्ययोगित्वमेव सत्त्वमिति मन्तव्यं सामान्यविशेषसमवायानामसत्त्वप्रसङ्गात्। न च तत्र स्वरूपसत्तानिबन्धनः सद्व्यवहारः प्रयोजक-
गौरवापत्तेःअनुगतत्वाननुगतत्वविकल्पपराहतेश्च सर्षपमहीधगदिषु विलक्षणेषु क्षणेय्वनुगतस्याकारस्य मणिषु सूत्रवद्भूतकणेषु गुणवच्चाप्रतिभासनाच्च। किञ्च सामान्यं सर्व्वगतं स्वाश्रयसर्व्वगतं वा प्रथमे सर्व्ववस्तुसङ्करप्रसङ्गः अपसिद्धान्तापत्तिश्चयतः प्रोक्तंप्रशस्तपादेन स्वविषयसर्व्वगतमिति। किञ्च विद्यमाने घटे वर्त्तमानं सामान्यमन्यत्र जायमानेन सम्बध्यमानंतस्मादागच्छत् सम्बध्यते अनागच्छद्वाआद्ये द्रव्यत्वापत्तिः द्वितीये सम्बन्धानुपपत्तिः। किञ्च विनष्टे घटे सामान्यमवतिष्ठते विनश्यति स्थानान्तरं गच्छति वा प्रथमे निराधारत्वापत्तिःद्वितीये नित्यत्ववाचो युक्त्वयुक्तिः तृतीये द्रव्यत्वप्रसक्रिः इत्यादिदूषणग्रहग्रस्तत्वात् सामान्यमप्रामाणिकम्। तदुक्तम्
अन्यत्र वर्त्तमानस्य ततोऽन्यस्थानजन्मनि।
तस्मादचलतः स्थानाद्वृत्तिरित्यतियुक्तता॥
यत्रासौवर्त्तते भावस्तेन सम्बध्यते न तु।
तद्देशिनञ्च व्याप्नोति किमप्येतन्महाद्भुतम्॥
न याति न च तत्रासीदस्ति पश्चान्नचांशवत्।
जहाति पूर्व्वंनाधारमहो व्यसनसन्ततिरिति॥
अनुवृत्तप्रत्ययः किमालम्बन इति चेत् अङ्ग अन्यापोहालम्बन एवेति सन्तोष्टव्यमायुष्मतेति अलमतिप्रसङ्गेन।
सर्व्वस्य संसारस्य दुःखात्मकत्वं सर्व्वतीर्थकरसम्मतम् अन्यथा तन्निविवृत्सूनां तेषां तन्निवृत्त्युपाये प्रवृत्त्यनुपपत्तेः। तस्मात् सर्व्वं दुःखं दुःखमिति भावनीयम्। ननु किंवदिति पृष्टे दृष्टान्तः
कथनीय इति चेन्मैवं स्वलक्षणानां क्षणानां क्षणिकतया सालक्षण्याभावात् नैतेन सदृशमपरमिति वक्तुमशक्यत्वात्। ततः स्वलक्षणं स्वलक्षणमिति भावनीयम् एवं शून्यं शून्यमित्यपि भावनीयं स्वप्ने जागरणे च न मया दृष्टमिदं रजतादीति विशिष्टनिषेधस्योपलम्भात्। यदि दृष्टं सत् तदा तद्विशिष्टस्य दर्शनस्येदन्ताया अधिष्ठानस्य च तस्मिन्नध्यस्तस्य रजतत्वादेस्तत्सम्बन्धस्य च समवायादेः सत्त्वं स्यात् न चैतदिष्टं कस्यचिद्वादिनः। न चार्द्धजरतीयमुचितं न हि कुक्कुव्याएको भागः पाकाय अपरो भागः प्रसवाय कल्प्यतामिति कल्प्यते। तस्मादध्यस्ताधिष्ठानतत्सम्बन्धदर्शनद्रष्टृणां मध्ये एकस्थानेकस्य वा असत्त्वे निषेधविषयत्वेन सर्व्वस्यासत्त्वंबलादापतेदिति भगवतोपदिष्टे माध्यमिकास्तावदुक्तमप्रज्ञा इत्थमचीकथन् भिक्षुपादप्रसारणन्यायेन क्षणङ्गाद्यभिधानमुखेन स्थायित्वानुकूलवेदनीयत्वानुगतसर्व्वसत्यत्वभ्रमव्यावर्त्तनेन सर्व्वशून्यतायामेव पर्य्यवसानम्। अतस्तत्त्वं सदसदुभयानुभवात्मकचतुष्कोणविनिर्म्मुक्तंशून्यमेव तथाहि यदि घटादेः सत्त्वंस्वभावस्तर्हि कारकव्यापारवैयर्थम्। असत्त्वं स्वभाव इति पक्षेप्राचीन एव दोषः प्रादुःस्यात्। यथोक्तम्
न सतःकारणापेक्षा व्योमादेरिव युज्यते।
कार्य्यस्वासम्भवी हेतुः स्वपुष्पादेरिवासत इति।
विरोधादितरौपक्षावनुपपन्नौतदुक्तंभगवता अलङ्कारावतारे
बुद्ध्याविविच्यमानानां स्वभावो नावधार्य्यते।
अतो निरभिलप्यास्तेनिःस्वभावाश्च दर्शिता इति।
इदं वस्तुबलायातं यद्वदन्ति विपश्चितः।
यथा यथार्थाश्चित्यन्ते विशीर्य्यन्ते तथा तथेति च।
न क्वचिदपि पक्षेव्यवतिष्ठत इत्यर्थः। दृष्टार्थव्यवहारश्चन स्वप्नव्यवहारवत् संवृत्या सङ्गच्छते। अत एवोक्तम्
परिव्राट्कामुकशुनामेकस्यां प्रमदातनौ।
कुणप्रः कामिनी भक्ष्य इति तिस्रो विकल्पना इति।
तदेवं भावनाचतुष्टयवशान्निखिलवासनानिवृत्तौ परनिर्व्वाणं शून्यरूपं सेत्स्यतीति वयं कृतार्थाः नास्माकमुपदेश्यं किञ्चिदस्तीति। शिष्यैस्तावद्द्योगश्चाचारश्चेति द्वयं करणीयम्। तत्राप्राप्तस्यार्थस्य प्राप्तये पर्य्यनुयोगो योगः गुरूतस्यार्थस्याङ्गीकरणमाचारः गुरूक्तस्याङ्गीकरणादुत्तमाः पर्य्यनुयोगस्याकरणादधमाश्च अतस्तेषां माध्यमिका इति प्रसिद्धिः। गुरूतभावनाचतुष्टयं वाह्यार्थस्य शून्यत्वं चाङ्गीकृत्यान्तरस्य शून्यत्वञ्चाङ्गीकृतं कथमिति पर्य्यनुयोगस्य करणात् केषाञ्चिद् योगाचारप्रथा। एषा हि तेषां परिभाषा स्वयं वेदनंतावदङ्गीकार्य्यम् अन्यथा जगदान्ध्यं प्रसज्येत। तत् कीर्त्तितं धर्म्मकीर्त्तिना।
अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यतीति।
वाह्यंग्राह्मं नोपपद्यत एव विकल्पानुपपत्तेः। अर्थोज्ञानग्राह्यो भावादुत्पन्नो भवति अनुत्पन्नो वा न पूर्व्वः उत्पन्नस्य स्थित्यभावात् नापरः अनुत्पन्नस्यासत्त्वात्। अथ मन्येथाः अतीत एवार्थो। ज्ञानग्राह्यःतज्जनकत्वादिति तदपि बालभाषितं वर्त्त-
मानतावभावविरोधात् इन्द्रियादेरपि ग्राह्यत्वप्रसङ्गाच्च। किञ्च ग्राह्यः किं परमाणुरूपाऽर्थः अवयविरूपो वा। न चरमः कृत्स्रैकदेशविकल्पादिना तन्निराकरणात्। न प्रथमः अतीन्द्रियत्वात् षट्केन युगपद्येगस्य बाधकत्वाच्च। यथोक्तम्
षट्केन युगपद्योगात् परमाणोः षडंशता।
तेषामप्येकदेशत्वे पिण्डः स्यादणुमाचक इति।
तस्मात् स्वव्यतिरिक्तग्राह्यविरहात्तदात्मिका बुद्धिः स्वयमेव स्वात्मरूपप्रकाशिका प्रकाशवदिति सिद्धम्। तदुक्तम्
नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः।
ग्राह्मग्राहकवैधुर्य्यात् स्वयं सैव प्रकाशते इति।
ग्राह्यग्राहकयोरभेदश्चानुमातव्यः यद्वेद्यते येन वेदनेन तत्ततो न भिद्यते यथा ज्ञानेनात्मा वेद्यन्ते तैश्चनीलादयः। भेदे हि सत्यधुना अनेनार्थस्य सम्बन्धित्वं न स्यात् तादात्म्यस्य नियमहेतोरभावात् तदुत्पत्तेरनियामकत्वात् यश्चायं ग्राह्यग्राहकसंवित्तीनां पृथगवभासः स एकस्मिंश्चन्द्रमसि द्वित्वावभास इव भ्रमः अत्राप्यनादिरविछिन्नप्रवाहाभेदवासनैव निमित्तम्। यथोक्तम्
सहोपलम्भनियमादभेदो नीलतद्धियोः।
भेदश्च भ्रान्तिविज्ञानैर्दृश्येतेन्दाविवाद्वय इति।
अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यत इति च।
न च रसवीर्य्यविपाकादि समानमाशामोदकोपार्जितमा-
दकानां स्यादिति वेदितव्यं वस्तुतो वेद्यवेदकाकारविधुराया अपि बुद्धेर्व्यवहर्तृपरिज्ञानानुरोधेन विभिन्नग्राह्यग्राहकाकाररूपवत्तया तिमिराद्युपहताक्ष्णां केशोन्द्रनाडीज्ञानभेदवदनाद्युपल्पववासनासामर्थ्याद्व्यवस्थोपपत्तेः पर्य्यनुयोगायोगात्। यथोक्तम्
अवेद्यवेदकाकारा यथा भ्रान्तैर्निरीक्ष्यते।
विभक्तलक्षणग्राह्यग्राहकाकारविप्लवा॥
तथा कृतव्यवस्येयं केशादिज्ञानभेदवत्।
यदा तदा न सञ्चोद्या ग्राह्मग्राहकलक्षणेति॥
तस्माद्बुद्धिरेबानादिवासनावशादनेकाकारावभासत इतिसिद्धम्। ततश्च प्रागुक्तभावनाप्रक्षयबलान्निलिषासनोच्छेदविगलितविविधविषयाकारोपप्लवविशुद्धविज्ञानोदयो महोदय इति।अन्ये तु मन्यन्ते यथोक्तं वाह्यंवस्तुजातं नास्तीति तदयुक्तं प्रमाणाभावात्। न च सहोपलम्भनियमः प्रमाणमिति वक्तव्यं वेद्यवेदकयोरभेदसाधकत्वेनाभिमतस्य तस्याप्रयोजकत्वेन सन्दिग्धविपक्षव्यावृत्तिकत्वात्। ननु भेदे सहोपलम्भनियमात्मकं साधनं न स्यादिति चेन्न ज्ञानस्यान्तर्मुखतया च भेदेन प्रतिभासमानतया एकदेशत्वैककालत्वलक्षणसहत्यनियमासम्भवाच्च नीलाद्यर्थस्य ज्ञानाकारले अहमिति प्रतिभावः स्यात् नत्विदमिति प्रतिपत्तिः प्रत्ययादव्यतिरेकात्। अथोच्यते ज्ञानस्वरूपोऽपि नीलाकारो भ्रान्त्या वहिर्वद्भेदेन प्रतिभासत इति न च तत्राहमुल्लेख इति। तथोक्तम्
परिच्छेदान्तराद्योयंभागो वहिरिव स्वितः।
ज्ञानस्याभेदिनो भेदप्रतिभामोऽप्युपप्लव इति॥
यदन्तर्ज्ञेयतत्त्वं तद्वहिर्वदवभासत इति च॥
तदयुक्तं वाह्मार्थाभावे तदुत्पत्तिरहिततथा वहिर्वदित्युपमानोक्तेरयुक्तेः न हि वसुमित्रो बन्ध्यापुत्रवदवभासत इति प्रेक्षावानाचक्षीत भेदप्रतिभासस्य भ्रान्तत्त्वे अभेदप्रतिभासस्य प्रामाण्यं तत्प्रामाण्ये भेदप्रतिभासस्य भ्रान्तत्वमिति परस्पराश्रयप्रसङ्गाच्च अविसंवादान्नीलतादिकमेव संविदाना वाह्यमेवापाददते जगत्युपेक्षन्तेऽवान्तरमिति व्यवस्थादर्शनाच्च। एवञ्चायमभेदसाधको हेतुर्गोमयपायसोयन्यायवदाभासतां भजेत अतोवहिर्वदिति वदता वाह्यंग्राह्यमेवेति भावनीयमिति भवदीयएव वाणो भवन्तं प्रहरेत्।
ननु ज्ञानाभिन्नकालस्यार्थस्य वाह्यत्वमनुपपन्नमिति चेत् तदनुपपन्नम् इन्द्रियसन्निकृष्टस्य विषयस्योत्पाद्येज्ञाने स्वाकारसमर्पकतया समर्पितेन चाकारेण तस्यार्थस्यानुमेयतापपत्तेः अतएव पर्य्यनुयोगपरिहारौ समग्राहिषाताम्।
भिन्नकालं कथं ग्राह्यमिति चेत् ग्राह्यतां विदुः।
हेतुत्वमेव च व्यक्तेर्ज्ञानाकारार्पणक्षममिति॥
तथाच यथा पुड्या भोजनमनुमीयते यथा च भाषया देशः यथा वा सम्भ्रमेण स्नेहः तथा ज्ञानाकारेण ज्ञेयमनुमेयम्। तदुकम्
अर्द्धेनघटयत्येनां न हि मुक्तार्द्धरूपताम्।
तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरूपतेति॥
न हि वित्तिसत्तैव तद्वेदना युक्ता तस्याः सर्व्वत्राविशेषात् तान्तु सारूप्यमाविशत् सरूपयितुं घटयेदिति च। तथाच वाह्यार्थसद्भावे प्रयोगः ये यस्मिन् सत्यपि कादाचित्काः ते सर्व्वे तदतिरिक्तसापेक्षाः यथा अविवक्षत्यजिगमिषति मयि वचनगमनप्रतिभामा विवक्षुजिगमिषु पुरुषान्तरसन्तान सापेक्षाः तथाच विवादाध्यासिताः प्रवृत्तिप्रत्ययाः सत्यप्यालयविज्ञाने कदाचिदेव नीलाद्युल्लेखना इति। तत्रालयविज्ञानं नामाहमास्पदं विज्ञानं नीलाद्युल्लेखि च प्रवृत्तिविज्ञानम्। यथोक्तम्
तत् स्यादालयविज्ञानं यद्भवेदहमास्पदम्।
तत् स्यात् प्रवृत्तिविज्ञानं यन्नीलादिकमुल्लिखेदिति॥
तस्मादालयविज्ञानसन्तानातिरिक्तःकादाचित्कः प्रवृत्तिविज्ञानहेतुर्वाह्योऽर्थोग्राह्य एव न वासनापरिपाकप्रत्ययःकादाचित्कत्वात् कदाचिदुत्पाद इति वेदितव्यम्। विज्ञानवादिनये हि वामनानामेकसन्तानवर्त्तिनामालयविज्ञानानां तत्तत्प्रवृत्तिजननशक्तिःतस्याश्च स्वकार्य्योत्पादं प्रत्याभिमुख्यं परिपाकः तस्य च प्रत्ययः कारणं स्वसन्तानवर्त्तिपूर्व्वक्षणः कक्षीक्रियते सन्तानान्तरनिबन्धनत्वानङ्गीकारात्। ततश्च प्रवृत्तिज्ञानजननालयविज्ञानवर्त्तिवासनापरिपाकं प्रति सर्व्वेऽप्यालयविज्ञानवर्त्तिनः क्षणाः समर्थ एवेति वक्तव्यं न क्षेदेकोऽपि न समर्थः स्यादालयविज्ञानमन्तानवर्त्तित्वाविशेषात्। सर्व्वे समर्था इति पक्षेकार्य्यक्षेपानुपपत्तिः ततश्च कादाचित्कत्वनिर्व्वाहाय शब्दस्पर्शरूपरसगन्धविषयाः सुखादिविषयाःषडपि प्रत्यया-
श्चतुरः प्रत्ययान् प्रतीत्योत्पद्यन्ते इति चतुरेणानिच्छताप्यच्छमतिना स्वानुभवमनाच्छाद्य परिच्छेत्तव्यम्। ते चत्वारःप्रत्ययाः प्रसिद्धाः आलम्बनसमनन्तरसहकार्य्यधिपतिरूपाः तत्र ज्ञानपदवेदनीयस्य नीलाद्यवभासस्य चित्तस्य नीलालम्बनप्रत्यद्यात् नीलाकारता भवति समनन्तरप्रत्ययात् प्राचीमज्ञानाद्बोधरूपता सहकारिप्रत्ययादालोकाच्चक्षुषोऽधिपतिप्रत्यचाद्विषयग्रहणप्रतिनियमः विंदितस्य ज्ञानस्य रसादिसाधारण्स्यप्राप्तेर्नियामकं चक्षुरधिपतिर्भवितुमर्हति लोके नियामकस्याधिपतित्वोपलम्भात्। एवं चित्तचैत्यात्मकानां सुखादीनां चत्वारि कारणानि द्रष्टव्यानि एवं चित्तचैत्यात्मकस्कन्धः पञ्चविधः रूपविज्ञानवेदनासंज्ञसंस्कारसंज्ञकः। तत्ररूप्यन्तएभिर्विषया इति रूप्यन्त इति च व्युत्पत्त्या सविषयाणीन्द्रियाणि रूपस्कन्धः। अलयविज्ञानप्रवृत्तिविज्ञानप्रवाहो विज्ञानस्कन्धः। प्रागुक्तस्कन्धद्वयसम्बन्धजन्यः सुखदुःखादिप्रत्ययप्रवाह वेदनास्कन्धः। गौरित्यादिशब्दोल्लेखिसविज्ञानप्रवाहः संज्ञास्कन्धः। वेदनास्कन्धनिबन्धना रागद्वेषादयः क्लेशा उपक्लेशाशअच मदमानादयो धर्म्माधर्म्मौच संस्कारस्कन्धः।
तदिदं सर्व्वंदुःखं दुःखायतनं दुःखसाधनञ्चेति भावयित्वा तन्निरोधोपायंतत्त्वज्ञानं सम्पादयेत्। अत एवोकं दुःखसमुदायनिरोधमार्गाश्चत्वारः अर्थस्य बुद्धाभिमतानि तत्त्वानि। तत्रदुःखं प्रसिद्धं समुदायो दुःखकारणं तद्द्विविधं प्रत्ययोपनिबन्धनोहेतूपनिबन्धनश्च। तत्रप्रत्ययोपनिबन्धनस्यसंग्राहकं
सूत्रम् इदं कार्य्यं येअन्ये हेतवः प्रत्ययन्ति गच्छन्ति तेषामयमानानां हेतूनां भावः प्रत्ययत्वं कारणसमवायः तस्मात्रस्य फलं न चेतनस्य कस्यचिदिति सूत्रार्थःयथा वीजहेतुरङ्कुरो धातूनां षलांसमवायाज्जायते। तत्रपृथिवीधातुरङ्कुरस्य काठिन्यं गन्धञ्च जनयति अब्धातुः स्नेहं रसञ्च जनयति तेजोधातूरूपमौष्ण्यश्च वायुधातुः स्पर्शनं चलनञ्च आकाशधातुरवकाशं शब्दञ्च चतुधातुर्ययायोगं पृथिव्यादिकम्। हेतूपनिबन्धनस्य च संग्राहकं सूत्रम् उत्पादाद्वातथागतानामनुत्पादाद्वास्थितैवैषां धर्म्माणां धर्म्मता धर्म्मस्थितिता धर्म्मनियामकता च प्रतीत्य समुत्पादानुलोमतेति। तथागतानां बुद्धानां मते धर्म्माणां कार्य्यकारणरूपाणां या धर्म्मता कार्य्यकारणभावरूपा एषोत्पादादनुत्पादाद्वास्थिता यस्मिन् सति यदुत्पद्यते तत्तस्य कारणस्य कार्य्यमिति धर्म्मतेत्यस्य विवरणंधर्म्मस्य कार्य्यस्य कारणानतिक्रमेण स्थितिः स्वार्थिकस्तल्प्रत्ययः धर्म्मस्य कारणस्य कार्य्यंप्रति नियामकता।नम्वयंकार्य्यकारणभावश्चेतनमन्तरेण न सम्भवतीति अत उक्तं कारणे सति तत्प्रतीत्य प्राप्य समुत्पादे अनुलोमता अनुसारिता या सैव धर्म्मता उत्पादादनुत्पादाद्वाधर्म्माणां स्थिता न चात्रकश्चिच्चेतनाऽधिष्ठातोपलभ्यत इति सुत्रार्थः। यथा प्रतीत्य समुत्पादस्य हेतूपनिषन्धः वीजादङ्कुरोऽङ्कुरात् काण्डं काण्डान्नालो नालाद्गर्भस्ततः शूकं ततः पुष्पं ततः फलंन चात्रवाह्ये समुदाये कारणं वीजादि कार्य्यमङ्कुरादि वा चेतीयते अहमङ्कुरं
निर्वर्त्तयामि अहं वीजेन निर्वर्त्तित इति। एवमाध्यात्मिकेष्वपि कारणद्वयमवगन्तव्यम्। पुरःस्थिते प्रमेयाब्धौग्रन्थविस्तरभीरुभिरुपरम्यते। तदुभवनिरोधः तदनन्तरं विमलज्ञानोदयो वा मुक्तिः तन्निरोधोपायो मार्गः स च तत्त्वज्ञानं तच्च प्राचीनभावनाबलाद्भवतीति परमं रहस्यं सूत्रस्यान्तं पृच्छतां कथितं भवन्तश्च सुत्रस्यान्तं पृष्टवन्तः सौत्रान्तिका भवन्त्विति भगवताभिहिततथा सौत्रान्तिकसंज्ञा सञ्जातेति। केचन बौद्धा वाह्येषु गन्धादिषु आन्तरेषु रूपादिस्कन्धेषु सत्स्वपि तत्रानास्यामुत्पादयितुं सर्व्वं शून्यमिति प्राथमिकान् विनेयानक्षीकथत् भगवान् द्वितीयांस्तु विज्ञानमात्रग्रहाविष्टान् विज्ञानमेवैकं सदिति तृतीयानुभयं सत्यमित्यास्थितान् विज्ञेयमनुमेयमिति सेयं विरुद्धा भाषेति वर्णयन्ता वैभाषिकाख्यया ख्याताः। एषा हि तेषां परिभाषा समुन्मिषति विज्ञेयानुमेयत्ववादे प्रात्यक्षिकस्य कस्यचिदप्यर्थस्याभावेन व्याप्तिसंवेदनस्थानाभावेनानुमानप्रवृत्यनुपपत्तेः सकललोकानुभवविरोधश्च। ततश्चार्थे द्विविधः ग्राह्योऽध्यवसेयश्च तत्र ग्रहणं निर्विकल्पकरूपं प्रमाणं कल्पनपोढत्वात् अध्यवसायः सविकल्पकरूपोऽप्रमाणं कल्पनाज्ञानत्वात्। तदुक्तम्
कल्पनापोढमभ्रान्तं प्रत्यक्षं निर्विकल्पकम्।
विकल्पो वस्तुनिर्भासादसंवादादुपप्लव इति॥
ग्राह्यं वस्तुप्रमाणं हि ग्रहणं यदितोऽन्यथा।
न तद्वस्तु न तन्मानं शब्दलिङ्गेन्द्रियादिजमिति च॥
ननु सविकल्पकस्याप्रामाण्ये कथं ततः प्रवृत्तस्यार्थप्राप्तिः संवादश्चोपपद्येयातामिति चेन्न तद्भद्रं मणिप्रभाविषयमणिविकल्पन्यायेन पारपम्पर्य्येणार्थप्रतिलम्भसम्भवेन तदुपपत्तेः। अवशिष्टं सौत्रान्तिकप्रस्तावे प्रपञ्चितमिति नेह प्रतन्यते। न च विनेयाशयानुरोधेनोपदेशभेदःसाम्प्रदायिको न भवतीति भणितव्यं यतो भणितं बोधचित्तविवरणे
देशना लोकनाथानां सत्त्वाशयवशानुगाः।
भिद्यन्ते बहुधा लोके उपायैर्बहूभिः किल॥
गम्भीरोत्तानभेदेन क्वचिच्चोभयलक्षणाः।
भिन्ना हि देशना भिन्ना शून्यताऽद्वयलक्षणेति॥
द्वादशाचतनपूजा श्रेयस्करोति बौद्धनये प्रसिद्धम्।
अर्थानुपार्ज्यबहुशो द्वादशायतनानि वै।
परितः पूजनीयानि किमन्यैरिह पूजितैः॥
ज्ञानेन्द्रियाणि पञ्चैव तथा कर्म्मेन्द्रियाणि च।
मनो बुद्धिरिति प्रोक्तंद्वादशायतनं बुधैरिति॥
विवेकविलासे बौद्धमतमित्थमभ्यधायि।
बौद्धानां सुगतो देवो विश्वञ्च क्षणभङ्गुरम्।
आर्य्यसत्त्वाख्यया तत्त्वचतुष्टयमिदं क्रमात्॥
दुःखमायतनञ्चैव ततः समुदयो मतः।
मार्गश्चेत्यस्य च व्याख्या क्रमेण श्रूयतामतः॥
दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्त्तिताः।
विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च॥
पञ्चेन्द्रियाणि शब्दाद्याविषयाः पञ्च मानसम्।
धर्म्मायतनमेतानि द्वादशायतनानि तु॥
रागादीनां गणोऽयं स्यात् समुदेति नृणां हृदि।
आत्मात्मीयस्वभावाख्यः स स्यात् समुदयः पुनः॥
क्षणिकाः सर्व्वसंस्कारा इति या वासनास्थिरा।
स मार्ग इति विज्ञेयः स च मोक्षोऽभिधीयते॥
प्रत्यक्षमनुमानञ्च प्रमाणद्वितयं तथा।
चतुःप्रस्थानिका बौद्धाः ख्याता वैभाषिकादयः॥
अर्थी ज्ञानान्वितो वैभाषिकेण बहु मन्यते।
सौचान्तिकेन प्रत्यक्षग्राह्योऽर्थो न वहिर्मतः॥
आकारसहिता बुद्धिर्योगाचारस्य सम्मता।
केवलां संविदं स्वस्थां मन्यन्ते मध्यमाः पुनः॥
रागादिज्ञानसन्तानवासमाच्छेदसम्भवा।
चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्त्तिता॥
कृत्तिः कमण्डलुर्लौण्ड्यंचीरं पूर्व्वाह्नभाजनम्।
सङ्घो रक्ताम्बरत्वञ्च शिश्रिये बौद्धभिक्षुभिरिति॥
इति सर्व्वदर्शनसङ्ग्रहे बौद्धदर्शनम्॥