पूर्व्वेषामतिदुस्तराणि सुतरामालोड्यशास्त्राण्यसौ
श्रीमत्सायणमाधवः प्रभुरुपन्यास्थत् सतां प्रीतये।
दूरोत्सारितमत्सरेण मनसा शृण्वन्तु तत् सज्जना
माल्यं कस्य विचित्रपुष्परचितं प्रीत्यै न सञ्जायते॥
अथ कथं परमेश्वरस्य निःश्रेयसप्रदत्वमभिधीयते बृहस्पतिमतानुसारिणा नास्तिकशिरोमणिना चार्व्वाकेण दूरोत्सारितत्वात् दुरुच्छेदं हि चार्व्वाकस्य चेष्टितम्। प्रायेण सर्व्वप्राणिनस्तावत् यावज्जीवं सुखं जीवेन्नास्ति मृत्योरगोचरः। भस्मो-
भूतस्य देहस्यपुनरागमनं कुत इति लोकगाथामनुरुन्धाना नीतिकामशास्त्रानुसारेणार्थकामावेव पुरुषार्थौमन्यमानाः पारलौकिकमर्थमपह्नुवानाश्चार्व्वाकमतमनुवर्त्तमाना एवानुभूयन्ते। अत एव तस्य चार्व्वाकमतस्य लोकायतमित्यन्वर्थमपरं नामधेयम्।
तत्र पृथिव्यादीनि भूतानि चत्वारि तत्त्वानि तेभ्य एवदेहाकारपरिणतेभ्यः किण्वादिभ्यो मदशक्तिवत् चैतन्यमुपजायते तेषु विनष्टेषु सत्सु स्वयं विनश्यति। तदिह विज्ञानघनएवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्तीति। तत् चैतन्यविशिष्टदेह एवात्मा देहातिरिक्त आत्मनि प्रमाणाभावात् प्रत्यक्षैकप्रमाणवादितया अनुमानादेरनङ्गीकारेण प्रामाण्याभावात्।
अङ्गनालिङ्गनादिजन्यं सुखमेव पुरुषार्थः। न चास्य दुःखसंभिन्नतया पुरुषार्थत्वमेव नास्तीति मन्तव्यम् अवर्जनीयतयाप्राप्तस्य दुःखस्यपरिहारेण सुखमात्रस्यैव भोक्तव्यत्वात्। तद्यथामत्स्यार्थी सशल्कान् मकण्टकान् मत्स्यानुपादत्ते स यावदादेयं तावदादाय निवर्त्तते। यथा वा धान्यार्थी सपलालानि धान्यान्याहरति स यावदादेयं तावदादाय निवर्त्तते। तस्माद्दुःखभयान्नानुकूलवेदनीयं सुखं त्यक्तुमुचितम्। न हि मृगाः सन्तीति शालयोनोप्यन्ते। न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते। यदि कश्चिद् भीरुर्दृष्टं सुखं त्यजेत् तर्हि स पशुऽवन्मूर्खेा भवेत्। तदुक्तम्
त्याज्यं सुखं विषयसङ्गमजन्म पुंसां
दुःखोपसृष्टमिति मूर्खविचारणैषा।
व्रीहीन् जिहासति सितोत्तमतण्डुलाढ्यान्
को नाम भोस्तुषकणोपहितान् हितार्थी॥
ननु पारलौकिकसुखाभावे बहुवित्तव्ययशरीरायाससाध्ये अग्निहोत्रादौविद्यावृद्धाः कथं प्रवर्त्तिव्यन्ते इति चेत् तदपि नप्रमाणकोटिं प्रवेष्टुमीष्टे अनृतव्याघातपुनरुक्तदोषैर्दूषिततया वैदिकम्मन्यैरेव धूर्त्तवकैः परस्परं कर्म्मकाण्डप्रामाण्यवादिभिर्ज्ञानकाण्डस्य ज्ञानकाण्डप्रामाण्यवादिभिः कर्म्मकाण्डस्य च प्रतिक्षिप्तत्वेन त्रय्या धूर्त्तप्रलापमात्रत्वेन अग्निहोत्रादेर्जीविकामात्रप्रयोजनत्वात्। तथाचाभाणकः
अग्निहोत्रंत्रयो वेदास्त्रिदण्डं भस्मगुष्ठनम्।
बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः॥
अत एव कण्टकादिजन्यं दुःखमेव नरकं लोकसिद्धो राजा परमेश्वरः देहोच्छेदो मोक्षः। देहात्मवादे च कृशोऽहं कृष्णोऽहमित्यादिसामानाधिकरण्योपपत्तिः। मम शरीरमिति व्यवहारो राहोः शिर इत्यादिवदौपचारिकः।
तदेतत् सर्व्वं समग्राहि।
अत्र चत्वारि भूतानि भूमिवार्य्यनलानिलाः।
चतुर्भ्यः खलु भूतेभ्यश्चैतन्यमुपजायते।
किलादिभ्यः समेतेभ्यो द्रव्येभ्यो मदशक्तिवत्॥
अहं स्थूलः कृशोऽस्मीति सामानाधिकरण्यतः।
देहः स्वौम्यादियोगाच्च स एवात्मा न चापरः॥
मम देहोऽयमित्युक्तिः सम्भवेदौपचारिकीति॥
स्यादेतत् स्यादेवमनोरथोयद्यनुमानादेः प्रामाण्यंन स्यात् अस्ति च प्रामाण्यं कथमन्यथा धूमोपलम्मानन्तरं धूमध्वजेप्रेक्षावतां प्रवृत्तिरुपपद्येत। नद्यास्तीरे फलानि सन्तीति वचन अवणसमनन्तरं फलार्थिनां नदीतीरे प्रवृत्तिरिति। तदेतन्मनोराज्यविजृम्भणम्। व्याप्तिपक्षधर्म्मताशालि हि लिङ्गं गमकमभ्युपगतमनुमानप्रामाण्यवादिभिः। व्याप्तिश्चोभयविधोपाधिविधुरः सम्बन्धः स च सत्तया चक्षुरादिवन्नाङ्गभावं भजतेकिन्तु ज्ञाततथा। कः खलु ज्ञानोपायो भवेत्। न तावत् प्रत्यक्षं तच्च वाह्यमान्तरं वाभिमतम्। न प्रथमः तस्य सम्प्रयुक्तविषयज्ञानजनकत्वेन भवति प्रसरसम्भवेऽपि भूतभविष्यतोस्तदसम्भवेन सर्व्वोपसंहारवत्या व्याप्तेर्दुर्ज्ञानत्वात्। न च व्याप्तिज्ञानंसामान्यगोचरमिति मन्तव्यं व्यक्त्योरविनाभावाभावप्रसङ्गात्। नापि चरमः अन्तःकरणस्य वहिरिन्द्रियतन्त्रत्वेन वाह्येऽर्थे स्वातन्न्येण प्रवृत्त्यनुपपत्तेः। तदुक्तम् चक्षुराद्युक्तविषयं परतन्त्रंवहिर्मन इति। नाप्यनुमानं व्याप्तिज्ञानोपायः तत्र तत्राप्येवमिति अनवस्थादौस्थ्यप्रसङ्गात्। नापि शब्दस्तदुपायः काणाद मतानुसारेणानुमान एवान्तर्भावात् अनन्तर्भावे वा वृद्धव्यवहाररूपलिङ्गावगतिसापेक्षतया प्रागुक्रदूषणलङ्घनाजङ्घालत्वात् धूमधूमध्वजयोरविनाभावोऽस्तीति वचनमात्रेमन्वादिवद् विश्वासाभावाच्च। अनुपदिष्टाविनाभावस्य पुरुषस्यार्थन्तरदर्शने-
नार्थान्तरानुमित्यभावे स्वार्थानुमानकथायाः कथाशेषत्वप्रसङ्गाच्च। उपमानादिकन्तु दूरापास्तं तेषां संज्ञासंज्ञिसम्बन्धादि बोधकत्वेनानैापाधिकसम्बन्धबोधकत्वासम्भवात्। किञ्च उपाध्यभावोऽपि दुरवगमः उपाधीनां प्रत्यक्षत्वनियमासम्भवेन प्रत्यक्षाणामभावस्य प्रत्यक्षत्वेऽपि अप्रत्यक्षाणामभावस्याप्रत्यक्षतया अनुमानाद्यपेक्षायामुक्तदूषणानतिवृत्तेः। अपि च साधनाव्यापकत्वे सति साध्यममव्याप्तिरिति तल्लक्षणं कक्षीकर्त्तव्यम्। तदुतम् अव्याप्तसाधनो यः साध्यसमव्याप्तिरुच्यते स उपाधिरिति।शब्देऽनित्यत्वे साध्ये सकर्तृकत्वं घटत्वमश्रावणतां व्यावर्त्तयितुमुपात्तान्यत्र क्रमतो विशेषणानि त्रीणि तस्मादिदमनवद्यं समासमेत्यादिनोक्तमाचार्य्यैश्चेति1। तत्रविध्यध्यवसायपूर्व्वकत्वान्निषेधाध्यवसायस्योपाधिज्ञाने जाते तदभावविशिष्टसम्बन्धरूपंव्याप्तिज्ञानं व्याप्तिज्ञानाधीनं चोपाधिज्ञानमिति परस्पराश्रयवज्रप्रहारदोषो वज्रलेपायते। तस्मादविनाभावस्य दुर्बोधतया नानुमानाद्यवकाशः। धूमादिज्ञानानन्तरमग्न्यादिज्ञाने प्रवृत्तिः प्रत्यक्षमूलतया भ्रान्त्यावा युज्यते। क्वचित् फलप्रतिलम्भस्तु मणिमन्त्रौषधादिवत् यादृच्छिकः।अतस्तत्साध्यमदृष्टादिकमपि नास्ति। नन्वदृष्टानिष्टौजगद्वैचित्र्यमाकस्मिकं स्यादिति चेत् न तद्भद्रं स्वभावादेव तदुपपत्तेः। तदुक्रम्
अग्निरुष्णो जलं शीतं शीतस्पर्शस्तथानिलः।
केनेदं चित्रितं तस्मात् स्वभावात्तद्व्यवस्थितिरिति॥
तदेतत् सर्व्वंबृहस्पतिनाप्युक्तम्।
न स्वर्गोनापवर्गे वा नैवात्मा पारलौकिकः।
नैव वर्णाश्रमादीनां क्रियाश्च फलदायिकाः॥
अग्निहोत्रंत्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम्।
बुद्धिपौरुषहीनानां जीविका धातृनिर्म्मिता॥
पशुश्चेन्निहतः स्वर्गं ज्योतिष्टोमे गमिष्यति।
स्वपिता यजमानेन तत्र कस्मान्न हिंस्यते॥
मृतानामपि जन्तूनां श्राद्धं चेत्तृप्तिकारणम्।
गच्छतामिह जन्तूनां व्यर्थं पाथेयकल्पनम्॥
स्वर्गस्थिता यदा तृप्तिं गच्छेयुस्तत्रदानतः।
प्रासादस्योपरिस्थानामत्र कस्मान्न दीयते॥
यावज्जीवेत् सुखं जीवेदृणं कृत्वा घृतं पिबेत्।
भस्मीभूतस्य देहस्य पुनरागमनं कुतः॥
यदि गच्छेत् परं लोकं देहादेव विनिर्गतः।
कस्माद्भूयो न चायाति बन्धुस्नेहसमाकुलः॥
ततश्चजीवनोपायो ब्राह्मणैर्विहितस्त्विह।
मृतानां प्रेतकार्य्याणि न त्वन्यद्विद्यते क्वचित्॥
त्रयोवेदस्य कर्त्तारो भण्डधूर्त्तनिशाचराः।
जर्फरीतुर्फरीत्यादि पण्डितानां वक्षःस्मृतम्॥
अश्वस्यात्रहि शिश्नन्तु पत्नोग्राह्यंप्रकीर्त्तितम्।
भण्डैस्तद्वत् परञ्चैव ग्राह्यजातं प्रकीर्त्तितम्॥
मांसानां खादनं तद्वन्निशाचरसमीरितमिति॥
तस्माद्वहूनां प्राणिनामनुग्रहार्थं चार्व्वाकमतमाश्रयणीयमिति रमणीयम्॥
इति सायणमाधवीये सर्व्वदर्शनसङ्ग्रहे चार्व्वाकदर्शनम्॥
-
" समासमाविनाभावावेकत्र स्तो यदा तदा। समेन यदि नोव्याप्तस्तयोर्हीनोऽप्रयोजकः॥" ↩︎