०१ प्रवेशः

सर्व्वदर्शनसंग्रहः।
————

नित्यज्ञानाश्रयं वन्दे निःश्रेयसनिधिं शिवम्।
येनैव जातं मह्यादि तेनैवेदं सकर्तृकम्॥

पारं गतं सकलदर्शनसागराणा-
मात्मोचितार्थचरितार्थितसर्व्वलोकम्1
श्रीशार्ङ्गपाणितनयं निखिलागमज्ञं
सर्व्वज्ञविष्णुगुरुमन्वहमाश्रयेऽहम्॥

श्रीमत्सायणदुग्धाब्धिकौस्तुभेन महौजसा।
क्रियते माधवार्य्येण सर्व्वदर्शनसङ्ग्रहः॥


  1. “आत्मोचिताचरितमर्थितसर्व्वलोकम्। पाठान्तरम्॥” ↩︎