890 कालः

मूलम्

महीशूरमहाराजतुर्थश्रिकृष्णभूपतेः । कीर्तिकेतुः मानमेयरहस्यश्लोकवार्तिकम् ॥

टीका

भारत. शा.[328]

मूलम्

तत्सौशील्येनैव शुद्धं तेनैव प्रचयं गतम् । किंकुर्वज्जगतामेतत् जीयात्सफलतां गतम् ॥

मूलम्

आकाशस्य स्थितिर्यावद्यावदप्यवनेः स्थितिः । तावदस्य स्थितिः भूयात्तमो लोकस्य निघ्नतः ॥

मूलम्

यस्सर्वज्ञः सर्वशक्तः तथा कारुणिकः परः । अन्तरात्मा महोदारः वासुदेवस्स तुष्यति ॥

मूलम्

यत्करोमि यदश्नामि यज्जुहोमि ददामि यत् । यत्तपस्यामि हे कृष्ण तत्करोमि त्वदर्पणम् ॥

मूलम्

यत्करोमि यदश्नामि यज्जुहोमि ददामि यत् । यत्तपस्यामि हे कृष्ण तत्करोमि त्वदर्पणम् ॥