889 कालः

मूलम्

यदधिष्ठाय सकलकल्यानगुणभूषणः । महाराजोऽवति श्रीमान् कृष्णराजोऽधुना प्रजाः ॥

मूलम्

यादावान्यवाराशिभवमौक्तिकसन्मणिः । यदुराजः कुलपतिरासीदस्य महीभुजः ॥

मूलम्

चतुर्दशे च शतके शालिवाहशके च सः । श्रीमन्महीशूरदेशराजाऽऽसीदिति विश्रुतः ॥

मूलम्

स पवित्रात्रेयगोत्रः बह्वृचश्चाश्वलायनः । तत्सन्ततौ चतुर्विंशोत्तमाङ्गत्वमुपाश्रितः ॥

मूलम्

शालिवाहशकैकोनविंशेऽथ शतके पुनः । सप्तमे हायने जात एष श्रीकृष्णभूपतिः ॥

मूलम्

मोचारसमुचा वाचा नीचिकृतरसान्तरः । यशःकुसुमसंदोहवासितोशाऽबलालकः ॥

मूलम्

दयादाक्षिण्यसौलभ्यसौशील्यमहदाश्रयः । श्रीमन्महीशूरराज्यसर्वसौभाग्यदायकः ॥

मूलम्

सदातारपरित्राता दुराचारवनिवारकः । सर्वभूपशिरःकम्पसंपाकशुभव्रतः ॥

मूलम्

परोपसर्पणक्लेशतारिताश्रितसज्जनः । शान्तो दान्तश्च राजर्षिः यस्स्याज्जनकसन्निभः ॥

मूलम्

आशीर्वादाक्षतफलधरश्रुतिशिरःकरः । धर्मो विग्रहवानेषः नेषदेषेह वाङ्मृषा ॥

मूलम्

ज्योतिर्मयं खगोलं स्यात् भूगोलं तद्विपर्ययः । इति भेदो निराकारि यद्देशे वैद्युतत्विषा ॥

मूलम्

कनकाजलपातोऽथविद्युच्छक्तिसमृद्धितः । कनकं खन्यते येन यत्रान्वर्था सरित्कृता ॥

मूलम्

सैषा वसुमती चापि येन राजन्वती कृता । सरितस्सागरीभूताः मरवोऽप्युर्वरीकृताः ॥

मूलम्

आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः । सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु ॥

मूलम्

इति वाल्मीकिमुनिना तथा व्यासमहर्षिणा । सौहार्देन प्रतिज्ञातं पूरितं भूभुजाऽमुना ॥

मूलम्

बहुना किमिहोक्तेन सर्वविद्वदुपाश्रयः । सद्रत्नहारकटककबहुमानितसत्प्रजः ॥

मूलम्

तेन भूपतिवर्येण योऽहं विद्यैकसंश्रयः । पण्डितानां रत्नमिति बिरुदेन विभूषितः ॥

मूलम्

भूयस्तथैव च महामहोपाध्यायभूषणम् । तदिण्डियाचक्रवर्तिसन्निधेरुपलम्भितः ॥

मूलम्

यदन्तेवासिनो लब्धवर्णाः नानाकलास्वपि । भूयो भद्रासनस्थेन तेनैव बहुमानिताः ॥

मूलम्

योऽनेकग्रन्थनिर्माणधुरीणो विश्वविश्रुतः । लक्ष्मीपुरंश्रीनिवासाचार्योऽसौ विदुषां मणिः ॥

मूलम्

एकोनविंशशतके पञ्चमे दशकेऽष्टमे । आत्मीयैकोनषष्ट्यब्देऽयं प्रबन्धं व्यरीरचत् ॥

टीका

रामा.[2-105]