मूलम्
भूमण्डलेऽस्ति भरतखण्डेऽस्मिन् दक्षिणापथे । कर्णाटदेशो विख्यातः महागिरिसरिद्वृतः ॥
मूलम्
प्रायेण पुण्यतीर्थानां प्रभवो देशतो यतः । तथैव पुण्यक्षेत्राणां देशो यश्च समाश्रयः ॥
मूलम्
सुवर्णादिखनीनां च रत्नानामपि चाकरः । विद्यावीचिसहस्त्राणां पारावारयति च यः ॥
मूलम्
तत्र यद्वद्रिनिकटे महाबलशिलोच्चयः । कावेरीकपिलानद्योर्मध्ये यस्तरळायते ॥
मूलम्
यमध्यास्ते महादेवी वैष्णवी शक्तिरुत्तमा । चामुण्डा यदुसंतानभूभृतां कुलदैवतम् ॥
मूलम्
महीशूरपुरी नाम प्रचकास्ति तदन्तिके । सा राजधानी सकलसम्पद्यादवभूभुजाम् ॥
मूलम्
चतसृष्वपि दिक्ष्वस्याः प्रख्यातास्सयुस्सुरालयाः । प्राच्यामवाच्यां प्रतीच्यामुदीच्यां च यथाक्रमम् ॥
मूलम्
नरसिंहपुरं चैव तथा गरलपुर्यपि । अर्कपुष्करणीक्षेत्रं तथा श्रीरङ्गपत्तनम् ॥
मूलम्
देवतायतनैश्चैव सत्पुस्तकनिकेतनैः । आचार्याणां पीठमठैः उद्यानैर्या विराजते ॥
मूलम्
विशालविद्याशालाभिः वैद्यशालाभिरेव च । विश्वविद्यावेश्मभिश्च भ्राजते राजवेश्मभिः ॥
मूलम्
न्यायस्थानैः कृतस्थानैः तेजःस्थानैः जलस्थलैः । कर्णाटदेशधरणीरमणीमौळिसन्मणिः ॥
मूलम्
सुगाङ्गसदृशो यस्यां प्रासादः परिशोभते । यत्र कर्णाटसिंहाङ्कासनं सद्रत्नशोभितम् ॥