887 सामरस्योपायाः

मूलम्

लोको भिन्नरुचिर्भिन्नसंस्कारो भिन्नदर्शनः । विचित्रो लौकिकेऽप्यर्थे किमु वाच्यमलौकिके ॥

मूलम्

अधिकारिविभेदेन सामरस्यं परे विदुः । यथाश्रुताधियः केचित् तेषामुक्तिर्विशिष्यते ॥

मूलम्

क्षोदक्षमधियस्त्वन्ये तेषां युक्तिर्गरीयसी । संमुग्धबुद्धयः केचित् तेषां संप्लव इष्यते ॥

मूलम्

तस्मात्सर्वैर्दार्शनिकैरुभयं च यथायथम् । स्वीकृत्य संप्रदायः स्वः सुदृढीक्रियते तराम् ॥

मूलम्

केचितु कालभेदेन सामरस्यं प्रपेदिरे । आदौ श्रुतिमयी प्रज्ञेदानीं चिन्तामयी मता ॥

मूलम्

केचित्त्ववस्थाभेदेन विरोधाभावमभ्यधुः । बाल्ये श्रुतिः ततो युक्तिः तदन्योन्यसमुच्चयः ॥

मूलम्

केचिद्विषयभेदेन विरोधाभावमूचिरे । उक्तिः प्रधानविषये युक्तिः तदनुबन्धिनि ॥

मूलम्

नीचाः कलहमिच्छन्ति संधिमिच्छन्ति साधवः । इति न्यायस्सामरस्यविदुषां हृदयास्थितः ॥

मूलम्

देशभेदात्रालभेदात्पुंभेदादन्यथाऽन्यथा । पर्यवस्यति शास्त्रार्थः इत्याहुः क्रान्तदर्शिनः ॥