मूलम्
अथायमत्र सारांशः संक्षेपेण विलिख्यते । तेन त प्रायशः तत्त्वं ज्ञेयं समरसं सताम् ॥
मूलम्
लोक इत्युच्यते युक्तिः उक्तिर्वेद इतीर्यते । अनयोरन्तरं नास्ति यद्यस्त्येतत्प्रसज्यते ॥
मूलम्
लोकातीतं तु विषयं न लोको ज्ञातुमर्हति । तथैव लौकिकं वस्तु न वेदो ज्ञापयेदपि ॥
मूलम्
यदि लोको वेत्तुमर्हः तदा लौकिक एव सः । लोकश्चेत्सर्वदा लोको भवेत्सर्वत्र सर्वथा ॥
मूलम्
यदि वेदो भवेल्लोकादात्यन्तिकविलक्षणः । न तादृशेन वेदेन लोकस्यास्ति प्रयोजनम् ॥
मूलम्
अत एवहि मीमांसाशास्त्रै जैमिनिनोदितम् । आनर्थक्यप्रसङ्गेन शब्दैक्यं लोकवेदयोः ॥
मूलम्
प्रमाणं सकलं साङ्गं पर्वृत्तं लौकिकं तु तत्। लौकिकस्य प्रमाणस्य मेयं कथमलौकिकम् ॥
मूलम्
तस्मात्तत्त्वमिदं ज्ञेयं विस्पष्टं लोकवेदयोः । दृष्टिस्सामान्यतो लोकः दृष्टिर्वेदो विशेषतः ॥
मूलम्
सर्वसाधारणो लोकः वेदोऽसाधरणोऽथवा । सूक्ष्मदृष्टिर्वेद एषः लोकस्स्यात् स्थूलदर्शनम् ॥
मूलम्
वेदो वा महतां दृष्टिः लोकोऽन्येषां तु दर्शनम् । नूतनो वा भवेल्लोकः वेदस्तु स्यात्पुरातनः ॥
मूलम्
गिरिशृङ्गरोहणेन दर्शनं किं न दर्शनम् । चिरेण दर्शनं गर्भगृहे वा किं न दर्शनम् ॥
मूलम्
वेदे श्रद्धाप्रसिद्ध्यर्थं लोको लोकमपेक्षते । तथा व्यवस्थासिद्ध्यर्थं लोको वेदमपेक्षते ॥